पारस्करगृह्यसूत्रम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


पारस्करगृह्यसूत्रम्

पारस्करगृह्यसूत्रम्
श्रीगणेशाय नमः
1.1
प्रथमम् काण्डम्

अथातो गृह्यस्थालीपाकानां कर्म १
परिसमुह्योपलिप्योल्लिख्योद्धृत्याभ्युक्ष्याग्निमुपसमाधाय दक्षिणतो ब्रह्मासनमास्तीर्य प्रणीय परिस्तीर्यार्थवदासाद्य पवित्रे कृत्वा प्रोक्षणीः संस्कृत्यार्थवत्प्रोक्ष्य निरुप्याज्यमधिश्रित्य पर्यग्नि कुर्यात् २
स्रुवं प्रतप्य सम्मृज्याभ्युक्ष्य पुनः प्रतप्य निदध्यात् ३
आज्यमुद्वास्योत्पूयावेक्ष्य प्रोक्षणीश्च पूर्ववदुपयमनान्कुशानादाय समिधोऽभ्याधाय
पर्युक्ष्य जुहुयात् ४
एष एव विधिर्यत्र क्वचिद्धोमः ५

आवसथ्यादि

1.2
आवसथ्याधानं दारकाले १
दायाद्यकाल एकेषाम् २
वैश्यस्य बहुपशोर्गृहादग्निमाहृत्य ३
चातुष्प्राश्यपचनवत्सर्वम् ४
अरणिप्रदानमेके ५
पञ्चमहायज्ञा इति श्रुतेः ६
अग्न्याधेयदेवताभ्यः स्थालीपाकं श्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति ७
त्वन्नोऽग्ने सत्वन्नोऽग्न इमम्मेवरुण तत्वायामि ये ते शतमयाश्चाग्न उदुत्तमं भवतन्न इत्यष्टौ पुरस्तात् ८
एवमुपरिष्टात्स्थालीपाकस्याग्न्याधेयदेवताभ्यो हुत्वा जुहोति ९
स्विष्टकृते च १०
अयास्यग्नेर्वषट् कृतं यत्कर्मणात्यरीरिचं देवागातु विद इति ११
बर्हिर्हुत्वा प्राश्नाति १२
ततो ब्राह्मणभोजनम् १३

1.3
षडर्घ्या भवन्त्याचार्य ऋत्विग्वैवाह्यो राजा प्रियः स्नातक इति १
प्रतिसंवत्सरानर्हयेयुः २
यक्ष्यमाणास्त्वृत्विजः ३
आसनमाहार्याह साधु भवानास्तामर्चयिष्यामो भवन्तमिति ४
आहरन्ति विष्टरं पद्यं पादार्थमुदकमर्घमाचमनीयं मधुपर्कं दधिमधुघृतमपिहितं कांस्ये कांस्येन ५
अन्यस्त्रिस्त्रिः प्राह विष्टरादीनि ६
विष्टरं प्रतिगृह्णाति ७
वर्ष्मोऽस्मि समानानामुद्यतामिव सूर्यः । इमं तमभितिष्ठामि यो मा कश्चाभिदासतीत्येनमभ्युपविशति ८
पादयोरन्यं विष्टर आसीनाय ९
सव्यं पादं प्रक्षाल्य दक्षिणं प्रक्षालयति १०
ब्राह्मणश्चेद्दक्षिणं प्रथमम् ११
विराजो दोहोऽसि विराजो दोहमशीय मयि पाद्यायै विराजो दोह इति १२
अर्घं प्रतिगृह्णात्यापः स्थ युष्माभिः सर्वान्कामानवाप्नवानीति १३
निनयन्नभिमन्त्रयते समुद्रं वः प्रहिणोमि स्वां योनिमभिगच्छत । अरिष्टा अस्माकं वीरा मा परासेचिमत्पय इति १४
आचामत्यामागन्यशसा संसृज वर्चसा । तं मा कुरु प्रियं प्रजानामधिपतिं पशूनामरिष्टिं तनूनामिति १५
मित्रस्य त्वेति मधुपर्कं प्रतीक्षते १६
देवस्य त्वेति प्रतिगृह्णाति १७
सव्ये पाणौ कृत्वा दक्षिणस्यानामिकया त्रिः प्रयौति नमः श्यावास्यायान्नशने यत्त आविद्धं तत्ते निष्कृन्तामीति १८
अनामिकाङ्गुष्ठेन च त्रिर्निरुक्षयति १९
तस्य त्रिः प्राश्नाति यन्मधुनो मधव्यं परमं रूपमन्नाद्यम् । तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्योऽन्नादोऽसानीति २०
मधुमतीभिर्वा प्रत्यृचम् २१
पुत्रायान्तेवासिने वोत्तरत आसीनायोच्छिष्टं दद्यात् २२
सर्वं वा प्राश्नीयात् २३
प्राग्वाऽसञ्चरे निनयेत् २४
आचम्य प्राणान्त्संमृशति वाङ्म आस्ये नसोः प्राणोऽक्ष्णोश्चक्षुः कर्णयोः श्रोत्रं बाह्वोर्बलमूर्वोरोजोऽरिष्टानि मेऽङ्गानि तनूस्तन्वा मे सहेति २५
आचान्तोदकाय शासमादाय गौरिति त्रिः प्राह २६
प्रत्याह । माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः । प्रनुवोचञ्चिकितुषे जनाय मागामनागामदितिं वधिष्ट । मम चामुष्य च पाप्मानं हनोमीति यद्यालभेत २७
अथ यद्युत्सिसृक्षेन्मम चामुष्य च पाप्मा हत ओमुत्सृजत तृणान्यत्त्विति ब्रूयात् २८
न त्वेवामांसोऽर्घः स्यात् २९
अधियज्ञमधिविवाहं कुरुतेत्येव ब्रूयात् ३०
यद्यप्यसकृत्संवत्सरस्य सोमेन यजेत कृतार्घ्या एवैनं याजयेयुर्नाकृतार्घ्या इति श्रुतेः ३१

1.4
चत्वारः पाकयज्ञा हुतोऽहुतः प्रहुतः प्राशित इति १
पञ्चसु बहिःशालायां विवाहे चूडाकरण उपनयने केशान्ते सीमन्तोन्नयन इति २
उपलिप्त उद्धतावोक्षितेऽग्निमुपसमाधाय ३
निर्मन्थ्यमेके विवाहे ४
उदगयन आपूर्यमाणपक्षे पुण्याहे कुमार्याः पाणिं गृह्णीयात् ५
त्रिषु त्रिषूत्तरादिषु ६
स्वातौ मृगशिरसि रोहिण्यां वा ७
तिस्रो ब्राह्मणस्य वर्णानुपूर्व्येण ८
द्वे राजन्यस्य ९
एका वैश्यस्य १०
सर्वेषां शूद्रामप्येके मन्त्रवर्जम् ११
अथैनां वासः परिधापयति जरां गच्छ परिधत्स्व वासो भवाकृष्टीनामभिशस्तिपावा । शतं च जीव शरदः सुवर्च्चा रयिं च पुत्राननुसंव्ययस्वायुष्मतीदं परिधत्स्व वास इति १२
अथोत्तरीयम् । या अकृन्तन्नवयं या अतन्वत । याश्च देवीस्तन्तूनभितो ततन्थ । तास्त्वा देवीर्जरसे संव्ययस्वायुष्मतीदं परिधत्स्व वास इति १३
अथैनौ समञ्जयति । समञ्जन्तु विश्वेदेवाः समापो हृदयानि नौ । संमातरिश्वा संधाता समुदेष्ट्री दधातु नाविति १४
पित्रा प्रत्तामादाय गृहीत्वा निष्कामति । यदैषि मनसा दूरं दिशोऽनु पवमानो वा । हिरण्यपर्णो वैकर्णः स त्वा मन्मनसां करोत्वित्यसाविति १५
अथैनौ समीक्षयति । अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्च्चाः । वीरसूर्द्देवकामास्योनाशन्नो भव द्विपदे शं चतुष्पदे । सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयोऽग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः । सोमोऽददद्गन्धर्वाय गन्धर्वोऽददग्नये । रयिं च पुत्राश्चादादग्निर्मह्यमथो इमाम् । सा नः पूषा शिवतमामैरय सा न ऊरू उशती विहर । यस्यामुशन्तः प्रहराम शेपं यस्यामु कामा बहवो निविष्ट्या इति १६

1.5
प्रदक्षिणमग्निं पर्याणीयैके १
पश्चादग्नेस्तेजनीं कटं वा दक्षिणपादेन प्रवृत्त्योपविशति २
अन्वारब्ध आघारावाज्यभागौ महाव्याहृतयः सर्वप्रायश्चित्तं प्राजापत्यं स्विष्टकृच्च ३
एतन्नित्यं सर्वत्र ४
प्राङ्महाव्याहृतिभ्यः स्विष्टकृदन्यच्चेदाज्याद्धविः ५
सर्वप्रायश्चित्तप्राजापत्यान्तरमेतदावापस्थानं विवाहे ६
राष्ट्रभृत इच्छञ्जयाभ्यातानांश्च जानन् ७
येन कर्मणेर्च्छेदितिवचनात् ८
चित्तं च चित्तिश्चाकूतं चाकूतिश्च विज्ञातं च विज्ञातिश्च मनश्च शक्वरीश्च दर्शश्च पौर्णमासं च बृहच्च रथन्तरं च । प्रजापतिर्जयानिन्द्राय वृष्णे प्रायच्छदुग्रः पृतना जयेषु । तस्मै विशः समनमन्त सर्वाः स उग्रः स इहव्यो बभूव स्वाहेति ९
अग्निर्भूतानामधिपतिः समावत्विन्द्रो ज्येष्ठानां यमः पृथिव्या वायुरन्तरिक्षस्य सूर्यो दिवश्चन्द्रमा नक्षत्राणां बृहस्पतिर्ब्रह्मणो मित्रः सत्यानां वरुणोऽपां समुद्रः स्रोत्यानामन्नं साम्राज्यानामधिपति तन्मावतु सोम ओषधीनां सविता प्रसवानां रुद्रः पशूनां त्वष्टा रूपाणां विष्णुः पर्वतानां मरुतो गणानामधिपतयस्ते मावन्तु पितरः पितामहाः परेवरे ततास्ततामहाः । इह मावन्त्वस्मिन्ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन्कर्मण्यस्यां देवहूत्यां स्वाहेति सर्वत्रानुषजति १०
अग्निरैतु प्रथमो देवतानां सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयं राजा वरुणोऽनुमन्यतां यथेयं स्त्री पौत्रमघन्नरोदात्स्वाहा । इमामग्निस्त्रायताङ्गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभिविबुध्यतामियं स्वाहा । स्वस्तिनो अग्ने दिव आपृथिव्या विश्वानिधेह्ययथा यजत्र यदस्यां महिदिवि जातं प्रशस्तं तदस्मासु द्रविणं धेहि चित्रं स्वाहा । सुगन्नु पन्थां प्रदिशन्न एहि ज्योतिष्मध्ये ह्यजरन्न आयुः । अपैतु मृत्युरमृतन्न आगाद्वैवस्वतो नो अभयं कृणोतु स्वाहेति ११
परं मृत्यविति
चैके प्राशनान्ते १२

लाजाहोमम्

1.6
कुमार्या भ्राता शमीपलाशमिश्राँल्लाजानञ्जलिनाञ्जलावावपति १
ताञ्जुहोति संहतेन तिष्ठती अर्यमणं देवं कन्याऽऽग्निमयक्षत । सनो अर्यमा देवः प्रेतो मुञ्चतु मा पतेः स्वाहा । इयं नार्युपब्रूते लाजानावपन्तिका । आयुष्मानस्तु मे पतिरेधन्तां ज्ञातयो मम स्वाहा । इमाँल्लाजानावपाम्यग्नौ समृद्धिकरणं तव । मम तुभ्य च संवननं तदग्निरनुमन्यतामियं स्वाहेति २
अथास्यै दक्षिणं हस्तम् गृह्णाति साङ्गुष्ठं गृभ्णामि ते सौभगत्वाय हस्तं मयापत्या जरदष्टिर्यथा सः । भगोऽऽर्यमा सविता पुरन्धिर्मह्यं त्वाऽदुर्गार्हपत्याय देवाः । अमोऽहमस्मि (शौअ. १४.२.७१) सा त्वं सा त्वमस्यमोऽहम् । सामाहमस्मि ऋक्त्वं द्यौरहं पृथिवी त्वं तावेहि विवहावहै सहरेतो दधावहै प्रजां प्रजनयावहै पुत्रान्विन्द्यावहै बहून् ते सन्तु जरदष्टयः संप्रियौ रोचिष्णू सुमनस्यमानौ पश्येम शरदः शतं जीवेम
शरदः शतं शृणुयाम शरदः शतमिति ३

अश्मारोहणम्
सप्तपदी

1.7
अथैनामश्मानमारोहयत्युत्तरतोऽग्नेर्दक्षिणपादेन आरोहेममश्मानमश्मेव त्वं स्थिरा भव । अभितिष्ठ पृतन्यतोऽवबाधस्व पृतनायत इति १
अथ गाथां गायति सरस्वति प्रेदमव सुभगे वाजिनीवती । यां त्वा विश्वस्य भूतस्य प्रजायामस्याग्रतः । यस्यां भूतं समभवद्यस्यां विश्वमिदं जगत् । तामद्य गाथां गास्यामि या स्त्रीणामुत्तमं यश इति २
अथ परिक्रामतः तुभ्यमग्रे पर्यवहन्सूर्यां वहतु ना सह । पुनः पतिभ्यो जायां दाग्ने प्रजया सहेति ३
एवं द्विरपरं लाजादि ४
चतुर्थं शूर्पकुष्ठया सर्वांल्लाजानावपति भगाय स्वाहेति ५
त्रिः परिणीतां प्राजापत्यं हुत्वा ६

1.8
अथैनामुदीचीं सप्तपदानि प्रक्रामयति एकमिषे द्वे ऊर्जे त्रीणि रायस्पोषाय चत्वारि मायोभवाय पञ्च पशुभ्यः षड् ऋतुभ्यः सखे सप्तपदा भव सा मामनुव्रता भव (आप.श्रौ.सू. १०.२२)१
विष्णुस्त्वानयत्विति सर्वत्रानुषजति २
निष्क्रमणप्रभृत्युदकुम्भं स्कन्धे कृत्वा दक्षिणतोऽग्नेर्वाग्यतः स्थितो भवति ३
उत्तरत एकेषाम् ४
तत एनां मूर्द्धन्यभिषिञ्चति आपः शिवाः शिवतमाः शान्ताः शान्ततमास्तास्ते कृण्वन्तु भेषजमिति ५
आपोहिष्ठेति च तिसृभिः ६
अथैनां सूर्यमुदीक्षयति तच्चक्षुरिति ७
अथास्यै दक्षिणां समधिहृदयमालभते मम व्रते ते हृदयं दधामि मम चित्तमनुचित्तं ते अस्तु मम वाचमेकमना जुषस्व प्रजापतिष्ट्वा नियुनक्तु मह्यमिति ८
अथैनामभिमन्त्रयते सुमङ्गलीरियम् वधूरिमां समेत पश्यत सौभाग्यमस्यै दत्वायाथास्तं विपरेतनेति ९
तां दृढपुरुष उन्मथ्य प्राग्वोदग्वाऽनुगुप्त आगार आनडुहे रोहिते चर्मण्युपवेशयति इह गावो निषीदन्त्विहाश्वा इह पूरुषाः । इहो सहस्रदक्षिणो यज्ञ इह पूषा निषीदन्त्विति १०
ग्रामवचनं च कुर्युः ११
विवाहश्मशानयोर्ग्रामं प्रविशतादितिवचनात् १२
तस्मात्तयोर्ग्रामः प्रमानमिति श्रुतेः १३
आचार्याय वरं ददाति १४
गौर्ब्राह्मणस्य वरः १५
ग्रामो राजन्यस्य १६
अश्वो वैश्यस्य १७
अधिरथं शतं दुहितृमते १८
अस्तमिते ध्रुवं दर्शयति । ध्रुवमसि ध्रुवं त्वा पश्यामि ध्रुवैधिपोष्ये मयि मह्यं त्वादादबृहस्पतिर्मया पत्या प्रजावती संजीव शरदः शतमिति १९
सा यदि न पश्येत्पश्यामीत्येव ब्रूयात् २०
त्रिरात्रमक्षारालवणाशिनौ स्यातामधः
शयीयातां संवत्सरं न मिथुनमुपेयातां द्वादशरात्रं षड्रात्रं त्रिरात्रमन्ततः २१

1.9
उपयमनप्रभृत्यौपासनस्य परिचरणम् १
अस्तमितानुदितयोर्दध्ना तण्डुलैरक्षतैर्वा २
अग्नये स्वाहा प्रजापतये स्वाहेति सायम् ३
सूर्याय स्वाहा प्रजापतये स्वाहेति प्रातः ४
पुमांसौ मित्रावरुणौ पुमांसावश्विनावुभौ पुमानिन्द्रश्च सूर्यश्च
पुमांसं वर्ततां मयि पुनः स्वाहेति पूर्वां गर्भकामा ५

1.10
राज्ञोऽक्षभेदे नद्धविमोक्षे यानविपर्यासेऽन्यस्यां वा व्यापत्तौ स्त्रियाश्चोद्वहने तमेवाग्निमुपसमाधायाज्यं संस्कृत्येहरतिरिति जुहोति नानामन्त्राभ्याम् १
अन्यद्यानमुपकल्प्य तत्रोपवेशयेद्राजानं स्त्रियं वा प्रतिक्षत्र इति यज्ञान्तेनात्वाहार्षमिति चैतया २
धुर्यौ दक्षिणा ३
प्रायश्चित्तिः ४
ततो ब्राह्मणभोजनम् ५
१०
1.11
चतुर्थ्यामपररात्रेऽभ्यन्तरतोऽग्निमुपसमाधाय दक्षिणतो ब्रह्माणमुपवेश्योत्तरत उदपात्रं प्रतिष्ठाप्य स्थालीपाकं श्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति १
अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै पतिघ्नी तनूस्तामस्यै नाशय स्वाहा । वायो प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै प्रजाघ्नी तनूस्तामस्यै नाशय स्वाहा । सूर्यप्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै पशुघ्नी तनूस्तामस्यै नाशय स्वाहा । चन्द्र प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै गृहघ्नी तनूस्तामस्यै नाशय स्वाहा । गन्धर्व प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै यशोघ्नी तनूस्तामस्यै नाशय स्वाहेति २
स्थालीपाकस्य जुहोति प्रजापतये स्वाहेति ३
हुत्वा हुत्वैतासामाहुतीनामुदपात्रे संस्रवान्त्समवनीय तत एनां मूर्द्धन्यभिषिञ्चति । याते पतिघ्नी प्रजाघ्नी पशुघ्नी गृहघ्नी यशोघ्नी निन्दिता तनूर्जारघ्नीं तत एनां करोमि सा जीर्य त्वं मया सहासाविति ४
अथैनां स्थालीपाकं प्राशयति प्राणैस्ते प्राणान्त्संदधाम्यस्थिभिरस्थीनि मांसैर्मांसानि त्वचा त्वचमिति ५
तस्मादेवंविच्छ्रोत्रियस्य दारेण नोपहासमिच्छेदुत ह्येवंवित्परो भवति ६
तामुदुह्य यथर्तु प्रवेशनम् ७
यथाकामी वा काममाविजनितोः संभवामेति वचनात् ८
अथास्यै दक्षिणां समधिहृदयमालभते । यत्ते सुसीमे हृदयं दिवि चन्द्रमसि श्रितम् । वेदाहं तन्मां तद्विद्यात्पश्येम शरदः शतं जीवेम शरदः शतं शृणुयाम
शरदः शतमिति ९
एवमत ऊर्ध्वम् १०
११
1.12
पक्षादिषु स्थालीपाकं श्रपयित्वा दर्शपूर्णमासदेवताभ्यो हुत्वा जुहोति ब्रह्मणे प्रजापतये विश्वेभ्यो देवेभ्यो द्यावापृथिवीभ्यामिति १
विश्वेभ्यो देवेभ्यो बलिहरणं भूतगृह्येभ्य आकाशाय च २
वैश्वदेवस्याग्नौ जुहोत्यग्नये स्वाहा प्रजापतये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहाग्नये स्विष्टकृते स्वाहेति ३
बाह्यतः स्त्रीबलिं हरति नमः स्त्रियै नमः पुंसे वयसेऽवयसे नमः शुक्लाय कृष्णदन्ताय पापीनां पतये । नमः ये मे प्रजामुपलोभयन्ति ग्रामे वसन्त उत वाऽरण्ये तेभ्यो नमोऽस्तु बलिमेभ्यो हरामि स्वस्ति मेऽस्तु प्रजां मे ददत्विति ४
शेषमद्भिः प्रप्लाव्य ततो ब्राह्मणभोजनम् ५
१२
1.13
सा यदि गर्भं न दधीत सिंह्याः श्वेतपुष्प्या उपोष्य पुष्येण मूलमुत्थाप्य चतुर्थेऽहनि स्नातायां निशायामुदपेषं पिष्ट्वा दक्षिणस्यां नासिकायामासिञ्चति । इयमोषधी त्रायमाणा सहमाना सरस्वती अस्या अहं बृहत्याः पुत्रः पितुरिव
नाम जग्रभमिति १
१३
1.14
अथ पुंसवनम् १
पुरा स्पन्दत इति मासे द्वितीये तृतीये वा २
यदहः पुंसा नक्षत्रेण चन्द्रमा युज्येत तदहरुपवास्याप्लाव्याहते वाससी परिधाप्य न्यग्रोधावरोहाञ्छुङ्गाँश्च निशायामुदपेषं पिष्ट्वा पूर्ववदासेचनं हिरण्यगर्भोऽद्भ्यः संभृत इत्येताभ्याम् ३
कुशकण्टकं सोमांशु चैके ४
कूर्मपित्तं चोपस्थे कृत्वा स यदि कामयेत वीर्यवान्त्स्या दिति विकृत्यैनमभिमन्त्रयते सुपर्णोऽसीति
प्राग्विष्णुक्रमेभ्यः ५
१४
1.15
अथ सीमन्तोन्नयनम् १
पुंसवनवत् २
प्रथमगर्भे मासे षष्ठेऽष्टमे वा ३
तिलमुद्गमिश्रं स्थालीपाकं श्रपयित्वा प्रजापतेर्हुत्वा पश्चादग्नेर्भद्रपीठ उपविष्टाया युग्मेन सटालुग्रप्सेनौदुम्बरेण त्रिभिश्च दर्भपिञ्जूलैस्त्र्येण्या शलल्या वीरतरशङ्कुना पूर्णचात्रेण च सीमन्तमूर्ध्वं विनयति भूर्भुवः स्वरिति ४
प्रतिमहाव्याहृतिभिर्वा ५
त्रिवृतमाबध्नाति । अयमूर्जावतो वृक्ष उर्जीव फलिनी भवेति ६
अथाह वीणागाथिनौ राजानं संगायेताम् यो वाऽप्यन्यो वीरतर इति ७
नियुक्तामप्येके गाथामुपोदाहरन्ति । सोम एव नो राजेमा मानुषीः प्रजाः । अविमुक्तचक्र आसीरंस्तीरे तुभ्यमसाविति यां नदीमुपावसिता भवति तस्या नाम गृह्णाति ८
ततो ब्राह्मणभोजनम् ९
१५
1.16
सोष्यन्तीमद्भिरभ्युक्षति । एजतु दशमास्य इति प्राग्यस्यै त इति १
अथावरावपतनम् । अवैतु पृश्निशेवलं शुनेजराय्वत्तवे । नैव मांसेन पीवसि न कस्मिंश्चनायतनमवजरायुपद्यतामिति २
जातस्य कुमारस्याच्छिन्नायां नाड्यां मेधाजननायुष्ये करोति ३
अनामिकया सुवर्णान्तर्हितया मधुघृते प्राजयति घृतं वा भूस्त्वयि दधामि भुवस्त्वयि दधामि स्वस्त्वयि दधामि भूर्भुवः स्वः सर्वं त्वयि दधामीति ४
अथास्यायुष्यं करोति ५
नाभ्यां दक्षिणे वा कर्णे जपति अग्निरायुष्मान्त्स वनस्पतिभिरायुष्मांस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । सोम आयुष्मान्त्स ओषधीभिरायुष्मांस्तेनत्वाऽऽयुषाऽऽयुष्मन्तं करोमि । ब्रह्मायुष्मत्तद्ब्राह्मणैरायुष्मत्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । देवा आयुष्मन्तरतेऽमृतेनायुष्मन्तस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । ऋषय आयुष्मन्तस्ते व्रतैरायुष्मन्तस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । पितर आयुष्मन्तस्ते स्वधाभिरायुष्मन्तस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । यज्ञ आयुष्मान्त्स दक्षिणाभिरायुष्मांस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । समुद्र आयुष्मान्त्स स्रवन्तीभिरायुष्मांस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमीति ६
त्रिस्त्रिस्त्र्यायुषमिति च ७
स यदि कामयेत सर्वमायुरियादिति वात्सप्रेणैनमभिमृशेत् ८
दिवस्परीत्येतस्यानुवाकस्योत्तमामृचं परिशिनष्टि ९
प्रतिदिशं पञ्च ब्राह्मणानवस्थाप्य ब्रूयादिममनुप्राणितेति १०
पूर्वो ब्रूयात्प्राणेति ११
व्यानेतिदक्षिणः १२
अपानेत्यपरः १३
उदानेत्युत्तरः १४
समानेति पञ्चम उपरिष्टादवेक्षमाणो ब्रूयात् १५
स्वयम् वा कुर्यादनुपरिक्राममविद्यमानेषु १६
स यस्मिन्देशे जातो भवति तमभिमन्त्रयते वेद ते भूमि हृदयं दिवि चन्द्रमसि श्रितम् । वेदाहं तन्मां तद्विद्यात्पश्येम शरदः शतं जीवेम शरदः शतं शृणुयाम शरदः शतमिति १७
अथैनमभिमृशत्यश्मा भव परशुर्भव हिरण्यमस्रुतं भव । आत्मा वै पुत्रनामाऽसि स जीव शरदः शतमिति १८
अथास्य मातरमभिमन्त्रयत इडासि मैत्रावरुणी वीरे वीरमजीजनथाः । सा त्वं वीरवती भव याऽस्मान्वीरवतोऽकरदिति १९
अथास्यै दक्षिणं स्तनं प्रक्षाल्य प्रयच्छतीमं स्तनमिति २०
यस्ते स्तन इत्युत्तरमेताभ्याम् २१
उदपात्रं शिरस्तो निदधात्यापो देवेषु जाग्रथ यथा देवेषु जाग्रथ । एवमस्यां सूतिकायांसपुत्रिकायां जाग्रथेति २२
द्वारदेशे सूतिकाग्निमुपसमाधायोत्थानात्संधिवेलयोः फलीकरणमिश्रान्सर्षपानग्नावावपति शण्डामर्क्का उपवीरः शौण्डिकेय उलूखलः । मलिम्लुचो द्रोणासश्च्यवनो नश्यतादितः स्वाहा । आलिखन्ननिमिषः किंवदन्त उपश्रुतिर्हर्यक्षः कुम्भी शत्रुः पात्रपाणिर्नृमणिर्हन्त्रीमुखः सर्षपारुणश्च्यवनो नश्यतादितः स्वाहेति २३
यदि कुमार उपद्रवेज्जालेन प्रच्छाद्योत्तरीयेण वा पिताऽङ्क आधाय जपति कूर्कुरः सुकूर्कुरः कूर्कुरो बालबन्धनः । चेच्चेच्छुनक सृज नमस्ते अस्तु सीसरो लपेतापह्वर तत्सत्यम् । यत्ते देवा वरमददुः स त्वं कुमारमेव वा वृणीथाः । चेच्चेच्छुनक सृज नमस्ते अस्तु सीसरो लपेतापह्वर तत्सत्यम् । यत्ते सरमा माता सीसरः पिता श्यामशबलौ भ्रातरौ चेच्चेच्छुनक सृज नमस्ते अस्तु सीसरो लपेतापह्वरेति २४
अभिमृशति न नामयति न रुदति न हृष्यति
न ग्लायति यत्र वयं वदामो यत्र चाभिमृशामसीति २५
१६
1.17
दशम्यामुत्थाप्य ब्राह्मणान्भोजयित्वा पिता नाम करोति १
द्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानं कृतं कुर्यान्न तद्धितम् २
अयुजाक्षरमाकारान्तं स्त्रियै तद्धितम् ३
शर्म ब्राह्मणस्य वर्म क्षत्रियस्य गुप्तेति वैश्यस्य ४
चतुर्थे मासि निष्क्रमणिका ५
सूर्यमुदीक्षयति तच्चक्षुरिति ६
१७
1.18
प्रोष्येत्य गृहानुपतिष्ठते पूर्ववत् १
पुत्रं दृष्ट्वा जपति अङ्गादङ्गात्संभवसि हृदयादधिजायसे । आत्मा वै पुत्रनामाऽसि स जीव शरदः शतमिति २
अथास्य मूर्द्धानमवजिघ्रति । प्रजापतेष्ट्वा हिंकारेणावजिघ्रामि सहस्रायुषाऽसौ जीव शरदः शतमिति ३
गवां त्वा हिंकारेणेति च त्रिर्दक्षिणेऽस्य कर्णे जपति । अस्मे प्रयन्धि मघवन्नृजीषिन्निन्द्ररायोविश्ववारस्य भूरेः । अस्मे शतं शरदो जीवसे धा अस्मै वीराञ्च्छश्वत इन्द्र शिप्रिन्निति ४
इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे । पोषं रयीणामरिष्टिं तनूनां स्वात्मानं वाचः
सुदिनत्वमह्नामिति सव्ये ५
स्त्रियै तु मूर्द्धानमेवावजिघ्रति तूष्णीम् ६
१८
1.19
षष्ठे मासेऽन्नप्राशनम् १
स्थालीपाकं श्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुती जुहोति देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु स्वाहेति २
वाजो नो अद्येति च द्वितीयाम् ३
स्थालीपाकस्य जुहोति प्राणेनान्नमशीय स्वाहाऽपानेन गन्धानशीय स्वाहा चक्षुषा रूपाण्यशीय स्वाहा श्रोत्रेण यशोऽशीय स्वाहेति ४
प्राशनान्ते सर्वान् रसान्त्सर्वमन्नमेकत उद्धृत्याथैनं प्राशयेत् ५
तूष्णीं हन्तेति वा हन्तकारं मनुष्या इति श्रुतेः ६
भारद्वाज्यामांसेन वाक्प्रसारकामस्य ७
कपिञ्जलमांसेनान्नाद्यकामस्य ८
मत्स्यैर्जवनकामस्य ९
कृकषाया आयुष्कामस्य १०
आट्या ब्रह्मवर्चसकामस्य ११
सर्वैः सर्वकामस्य १२
अन्नपर्याय वा ततो ब्राह्मणभोजनमन्नपर्याय वा ततो ब्राह्मणभोजनम् १३
१९

2nd kanda
2.1
श्रीः । सांवत्सरिकस्य चूडाकरणम् १
तृतीये वाऽप्रतिहते २
षोडशवर्षस्य केशान्तः ३
यथामङ्गलं वा सर्वेषाम् ४
ब्राह्मणान्भोजयित्वा माता कुमारमादायाप्लाव्याहते वाससी परिधाप्याङ्क आधाय पश्चादग्नेरुपविशति ५
अन्वारब्ध आज्याहुतीर्हुत्वा प्राशनान्ते शीतास्वप्सूष्णा आसिञ्चत्युष्णेन वाय उदकेनेह्यदिते केशान्वपेति ६
केशान्वपेति ६
केशश्मश्व्रिति च केशान्ते ७
अथात्र नवनीतपिण्डं घृतपिण्डं दध्नो वा प्रास्यति ८
तत आदाय दक्षिणं गोदानमुन्दति । सवित्रा प्रसूता दैव्या आप उन्दन्तु ते तनूं दीर्घायुत्वाय वर्चस इति ९
त्र्येप्या शलल्या विनीय त्रीणि कुशतरुणान्यन्तर्दधात्योषध इति १०
शिवो नामेति लोहक्षुरमादाय निवर्तयामीति प्रवपति येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्यायुष्यञ्जरदष्टिर्यथासदिति ११
सकेशानि प्रच्छिद्यानडुहे गोमयपिण्डे प्रास्यत्युत्तरतो ध्रियमाणे १२
एवं द्विरपरं तूष्णीम् १३
इतरयोश्चोन्दनादि १४
अथ पश्चात्त्र्यायुषमिति १५
अथोत्तरतो येन भूरिश्चरा दिवं ज्योक्च पश्चाद्धि सूर्यम् । तेन ते वपामि ब्रह्मणा जीवातवे जीवनाय सुश्लोक्याय स्वस्तय इति १६
त्रिः क्षुरेण शिरः प्रदक्षिणं परिहरति समुखं केशान्ते १७
यत्क्षुरेण मज्जयता सुपेशसा वप्त्वा वावपति केशाञ्छिन्धि शिरो माऽस्यायुः प्रमोषीः १८
मुखमिति च केशान्ते १९
ताभिरद्भिः शिरः समुद्य नापिताय क्षुरं प्रयच्छति । अक्षुण्वन्परिवपेति २०
यथामङ्गलं केशशेषकरणम् २१
अनुगुप्तमेतं सकेशं गोमयपिण्डं निधाय गोष्ठे पल्वल उदकान्ते वाऽऽचार्याय वरं ददाति २२
गां केशान्ते २३
संवत्सरं ब्रह्मचर्यमवपनं च केशान्ते द्वादशरात्रं षड्रात्रं
त्रिरात्रमन्ततः २४

2.2
अष्टवर्षं ब्राह्मणमुपनयेद्गर्भाष्टमे वा १
एकादशवर्षं राजन्यम् २
द्वादशवर्षं वैश्यम् ३
यथामङ्गलं वा सर्वेषाम् ४
ब्राह्मणान्भोजयेत्तं च पर्युप्तशिरसमलंकृतमानयन्ति ५
पश्चादग्नेरवस्थाप्य ब्रह्मचर्यमागामिति वाचयति ब्रह्मचार्यसानीति च ६
अथैनं वासः परिधापयति येनेन्द्राय बृहस्पतिर्वासः पर्यदधादमृतं तेन त्वा परिदधाम्यायुषे दीर्घायुत्वाय बलाय वर्चस इति ७
मेखलां बध्नीते । इयं दुरुक्तम् परिबाधमाना वर्णं पवित्रं पुनती म आगात् । प्राणापानाभ्यां बलमादधाना स्वसा देवी सुभगा मेखलेयमिति ८
युवासुवासाः परिवीत आगात्स उ श्रेयान्भवति जायमानः । तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्त इति वा ९
तूष्णीं वा १०
यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्स हजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः । यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामीत्यथाजिनं प्रयच्छति मित्रस्यचक्षुर्द्धरुणं बलीयस्तेजो यसस्वि स्थविरं समिद्धं अनाहनस्यं वसनं जरिष्णुः परीदं वाज्यजिनं दधेऽहमिति दण्डं प्रयच्छति ११
तं प्रतिगृह्णाति यो मे दण्डः परापतद्वैहायसोऽधिभूम्यां तमहं पुनरादद आयुषे ब्रह्मणे ब्रह्मवर्चसायेति १२
दीक्षावदेके दीर्घसत्रमुपैतीति वच नात् १३
अथास्याद्भिरञ्चलिनाऽञ्जलिं पूरयति आपोहिष्ठेति तिसृभिः १४
अथैनं सूर्यमुदीक्षयति तच्चक्षुरिति १५
अथास्य दक्षिणां समधि हृदयमालभते । मम व्रते ते हृदयं दधामि । मम चित्तमनुचित्तं ते अस्तु मम वाचमेकमना जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यमिति १६
आथास्य दक्षिणं हस्तं गृहीत्वाऽऽह को नामासीति १७
असावहं भो ३
इति प्रत्याह १८
आथैनमाह कस्य ब्रह्मचार्यसीति १९
भवत इत्युच्यमान इन्द्रस्य ब्रह्मचार्यस्यग्निराचार्यस्तवाहमाचार्यस्तवासाविति २०
अथैनं भूतेभ्यः परिददाति प्रजापतये त्वा परिददामि देवाय त्वा सवित्रे परिददाम्यद्भ्यस्त्वौषधीभ्यः परिददामि द्यावापृथिवीभ्यां त्वा परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा भूतेभ्यः परिददाम्यरिष्ट्या इति २१

2.3
प्रदक्षिणमग्निं परीत्योपविशति १
अन्वारब्ध आज्याहुतीर्हुत्वा प्राशनान्तेऽथैनं संशास्ति ब्रह्मचार्यस्यपोशान कर्म कुरु मा दिवा सुषुप्था वाचं यच्छ समिधमाधेह्यपोशानेति २
अथाऽस्मै सावित्रीममन्वाहोत्तरतोऽग्नेः प्रत्यङ्मुखायोपविष्टायोपसन्नाय समीक्षमाणाय समीक्षिताय ३
दक्षिणतस्तिष्ठत आसीनाय वैके ४
पच्छोर्द्धर्चशः सर्वां च तृतीयेन सहानुवर्तयन् ५
संवत्सरे षण्मास्ये चतुर्विंशत्यहे द्वादशाहे षडहे त्र्यहे वा ६
सद्यस्त्वेव गायत्रीं ब्राह्मणायानुब्रूयादाग्नेयो वै ब्राह्मण इति श्रुतेः ७
त्रिष्टुभं राजन्यस्य ८
जगतीं
वैश्यस्य ९
सर्वेषां वा गायत्रीम् १०

2.4
अत्र समिदाधानम् १
पाणिनाऽग्निं परिसमूहति अग्ने सुश्रवः सुश्रवसं मा कुरु यथा त्वमग्ने सुश्रवः सुश्रवा अस्येवं मां सुश्रवः सौश्रवसं कुरु यथा त्वमग्ने देवानां यज्ञस्य निधिपा अस्येवमहं मनुष्याणां वेदस्य निधिपो भूयासमिति २
प्रदक्षिणमग्निं पर्युक्ष्योत्तिष्ठन्त्समिधमादधाति अग्नये समिधमहार्ष बृहते जातवेदसे । यथा त्वमग्ने समिधा समिध्यस एवमहमायुषा मेधया वर्च्चसा प्रजया पशुभिर्ब्रह्मवर्चसेन समिन्धे जीवपुत्रो ममाचार्यो मेधाव्यहमसान्यनिराकारिष्णुर्यशस्वी तेजस्वी ब्रह्मवर्चस्यन्नादो भूयासं स्वाहेति ३
एवं द्वितीयां तथा तृतीयाम् ४
एषात इति वा समुच्चयो वा ५
पूर्ववत्परिसमूहनपर्युक्षणे ६
पाणी प्रतप्य मुख विमृष्टे तनूपा अग्नेऽसि तन्वं मे पाह्यायुर्दा अग्नेऽस्यायुर्मे देहि व्वर्चोदा अग्नेऽसि व्वर्चो मे देहि । अग्ने यन्मे तन्वा ऊनं तन्म आपृण ७
मेधां मे देवः सविता आदधातु मेधां मे देवी
सरस्वती आदधातु मेधामश्विनौ देवावाधत्तां पुष्करस्रजाविति ८

2.5
अङ्गान्यालभ्य जपत्यङ्गानि च म आप्यायन्तां वाक्प्राणश्चक्षुः श्रोत्रंयशोबलमिति त्र्यायुषाणि करोति भस्मना ललाटे ग्रीवायां दक्षिणेंसे हृदि च त्र्यायुषमिति
प्रतिमन्त्रम् ४

अत्र भिक्षाचर्यचरणम् १
भवत्पूर्वां ब्राह्मणो भिक्षेत २
भवन्मध्यां राजन्यः ३
भवदन्त्यां वैश्यः ४
तिस्रोऽप्रत्याख्यायिन्यः ५
षड्द्वादशापरिमिता वा ६
मातरं प्रथमामेके ७
आचार्याय भैक्षं निवेदयित्वा वाग्यतोऽहःशेषं तिष्ठेदित्येके ८
अहिंसन्नरण्यात्समिध आहृत्य तस्मिन्नग्नौ पूर्ववदाधाय वाचं विसृजते ९
अधःशाय्यक्षारालवणाशी स्यात् १०
दण्डधारणमग्निपरिचरणं गुरुशुश्रूषा भिक्षाचर्या ११
मधुमांसमज्जनोपर्यासनस्त्रीगमनानृतादत्तादानानि वर्जयेत् १२
अष्टाचत्वारिंशद्वर्षाणि वेदब्रह्मचर्यं चरेत् १३
द्वादश द्वादश वा प्रतिवेदम् १४
यावद्ग्रहणं वा १५
वासांसि शाणक्षौमाविकानि १६
ऐणेयमजिनमुत्तरीयं ब्राह्मणस्य १७
रौरवं राजन्यस्य १८
आजं गव्यं वा वैश्यस्य १९
सर्वेषां वा गव्यमसति प्रधानत्वात् २०
मौञ्जी रशना ब्राह्मणस्य २१
धनुर्ज्या राजन्यस्य २२
मौर्वी वैश्यस्य २३
मुञ्जाभावे कुशाश्मन्तकबल्वजानाम् २४
पालाशो ब्राह्मणस्य दण्डः २५
बैल्वो राजन्यस्य २६
औदुम्बरो वैश्यस्य २७
केशसंमितो ब्राह्मणस्य ललाटसंमितः क्षत्रियस्य घ्राणसंमितो वैश्यस्य सर्वे वा सर्वेषाम् २८
आचार्येणाहूत उत्थाय प्रतिशृणुयात् २९
शयानं चेदासीन आसीनं चेत्तिष्ठंस्तिष्ठन्तं चेदभिक्रामन्नभिक्रामन्तं चेदभिधावन् ३०
स एवं वर्तमनोऽमुत्राद्य वसत्यमुत्राद्य वसतीति तस्य स्नातकस्य कीर्तिर्भवति ३१
त्रयः स्नातका भवन्ति विद्यास्नातको व्रतस्नातको विद्याव्रतस्नातक इति ३२
समाप्य वेदमसमाप्य व्रतं यः समावर्तते स विद्यास्नातकः ३३
समाप्य व्रतमसमाप्य वेदं यः समावर्तते स व्रतस्नातकः ३४
उभयं समाप्य यः समावर्तते स विद्याव्रतस्नातक इति ३५
आ षोडशाद्वर्षाद्ब्राह्मणस्य नातीतः कालो भवति ३६
आ द्वाविंशाद्राजन्यस्य ३७
आ चतुर्विंशाद्वैश्यस्य ३८
अत ऊर्ध्वं पतितसावित्रीका भवन्ति ३९
नैनानुपनयेयुर्नाध्यापयेयुर्न याजयेयुर्न चैभिर्व्यवहरेयुः ४०
कालातिक्रमे नियतवत् ४१
त्रिपुरुषं पतितसावित्रीकाणामपत्ये संस्कारो नाध्यापनं च ४२
तेषां संस्कारेप्सुर्व्रात्यस्तोमेनेष्ट्वा काम
मधीयीरन्व्यवहार्या भवन्तीति वचनात् ४३

2.6
वेदं समाप्य स्नायात् १
ब्रह्मचर्यं वाऽष्टाचत्वारिंशकम् २
द्वादशकेऽप्येके ३
गुरुणाऽनुज्ञातः ४
विधिर्विधेयस्तर्कश्च वेदः ५
षडङ्गमेके ६
न कल्पमात्रे ७
कामं तु याज्ञिकस्य ८
उपसंगृह्य गुरुं समिधोऽभ्याधाय परिश्रितस्योत्तरतः कुशेषु प्रागग्रेषु पुरस्तात्स्थित्वाऽष्टानामुदकुम्भानाम् ९
ये अप्स्वन्तरग्नयः प्रविष्टा गोह्य उपगोह्यो मयूषो मनोहास्खलो विरुजस्तनूदूषुरिन्द्रियहातान्विजहामि यो रोचनस्तमिह गृह्णामीत्येकस्मादपो गृहीत्वा १०
तेनाभिषिञ्चते । तेन मामभिषिञ्चामि श्रियै यशसे ब्रह्मणे ब्रह्मवर्चसायेति ११
येन श्रियमकृणुतां येनावमृशतां सुराम् । येनाक्ष्यावभ्यषिञ्चतां यद्वां तदश्विना यश इति १२
आपोहिष्ठेति च प्रत्यृचम् १३
त्रिभिस्तूष्णीमितरैः १४
उदुत्तममिति मेखलामुन्मुच्य दण्डं निधाय वासोऽन्यत्परिधायादित्यमुपतिष्ठते १५
उद्यन्भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थात्प्रातर्यावभिरस्थाद्दशसनिरसि दशसनिं मा कुर्वाविदन्मागमय । उद्यन्भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थाद्दिवा यावभिरस्थाच्छतसनिरसि शतसनिं मा कुर्वाविदन्मागमय । उद्यन्भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थात्सायंयावभिरस्थात्सहस्रसनिरसि सहस्रसनिं मा कुर्वाविदन्मागमयेति १६
दधितिलान्वा प्राश्य जटालोमनखानि संहृत्यौदुम्बरेण दन्तान्धावेत । अन्नाद्याय व्यूहध्वं सोमो राजाऽयमागमत् । स मे मुखं प्रमार्क्ष्यते यशसा च भगेन चेति १७
उत्साद्य पुनः स्नात्वाऽनुलेपनं नासिकयोर्मुखस्य चोपगृह्णीते प्राणापानौ मे तर्पय चक्षुर्मे तर्पय श्रोत्रं मे तर्पयेति १८
पितरः शुन्धध्वमिति पाण्योरवनेजन दक्षिणानिषिच्यानुलिप्य जपेत् । सुचक्षा अहमक्षीभ्यां भूयासं सुवर्चा मुखेन । सुश्रुत्कर्णाभ्यां भूयासमिति १९
अहतं वासो धौतं वाऽमौत्रेणाच्छादयीत । परिधास्यै यशोधास्यै दीर्घायुत्वाय जरदष्टिरस्मि । शतं च जीवामि शरदः पुरूचीरायस्पोषमभिसंव्ययिष्य इति २०
अथोत्तरीयम् । यशसा मा द्यावापृथिवी यशसेन्द्राबृहस्पती । यशो भगश्च माविन्दद्यशो मा प्रतिपद्यतामिति २१
एकञ्चेत्पूर्वस्योत्तरवर्गेण प्रच्छादयीत २२
सुमनसः प्रतिगृह्णाति । या आहरज्जमदग्निः श्रद्धायै मेधायै कामायेन्द्रियाय । ता अहं प्रतिगृह्णामि यशसा च भगेन चेति २३
अथावबध्नीते यद्यशोऽप्सरसामिन्द्रश्चकार विपुलं पृथु । तेन सङ्ग्रथिताः सुमनस आबध्नामि यशोमयीति २४
उष्णीषेण शिरो वेष्टयते युवा सुवासा इति २५
अलङ्करणमसि भूयोऽलङ्करणं भूयादिति कर्णवेष्टकौ २६
वृत्रस्येत्यङ्क्ते ऽक्षिणी २७
रोचिष्णुरसीत्यात्मानमादर्शे प्रेक्षते २८
छत्रं प्रतिगृह्णाति । बृहस्पतेश्छदिरसि पाप्मनो मा मन्तर्धेहि तेजसो यशसो माऽन्तर्धेहीति २९
प्रतिष्ठेस्थो विश्वतो मा पातमित्युपानहौ प्रतिमुञ्चते ३०
विश्वाभ्यो मा नाष्ट्राभ्यस्परिपाहि सर्वत इति वैणवं दण्डमादत्ते ३१
दन्तप्रक्षालनादीनि नित्यमपि वासश्छत्रोपानहश्चापूर्वाणि
चेन्मन्त्रः ३२

2.7
स्नातस्य यमान्वक्ष्यामः १
कामादितरः २
नृत्यगीतवादित्राणि न कुर्यान्न च गच्छेत् ३
कामं तु गीतं गायति वैव गीते वा रमत इति श्रुतेर्ह्यपरम् ४
क्षेमे नक्तं ग्रामान्तरं न गच्छेन्न च धावेत् ५
उदपानावेक्षणवृक्षारोहणफलप्रपतनसंधिसर्पणविवृतस्नानविषमलङ्घनशुक्तवदनसंध्यादित्यप्रेक्षणभैक्षणानि न कुर्यात् न ह वै स्नात्वा भिक्षेतापह वै स्नात्वा भिक्षां जयतीति श्रुतेः ६
वर्षत्यप्रावृतो व्रजेत् अयं मे वज्रः पाप्मानमपहनदिति ७
अप्स्वात्मानम् नावेक्षेत ८
अजातलोम्नीं विपुंसीं षण्ढं च नोपहसेत् ९
गर्भिणीं विजन्येति ब्रूयात् १०
सकुलमिति नकुलम् ११
भगालमिति कपालम् १२
मणिधनुरितीन्द्रधनुः १३
गां धयन्तीं परस्मै नाचक्षीत १४
उर्वरायामनन्तर्हितायां भूमावुत्सर्पंस्तिष्ठन्न मूत्रपुरीषे कुर्यात् १५
स्वयं प्रशीर्णेन काष्ठेन गुदं प्रमृजीत १६
विकृतं वासो नाच्छादयीत १७
दृढव्रतो वधत्रः स्यात् सर्वत आत्मानं
गोपायेत् सर्वेषां मित्रमिव शुक्रियमध्येष्यमाणः १८

2.8
तिस्रो रात्रीर्व्रतं चरेत् १
अमांसाश्यमृण्मयपायी २
स्त्रीशूद्रशवकृष्णशकुनिशुनां चादर्शनमसंभाषा च तैः ३
शवशूद्रसूतकान्नानि च नाद्यात् ४
मूत्रपुरीषे ष्ठीवनं चातपे न कुर्यात्सूर्याच्चात्मानं नान्तर्दधीत ५
तप्तेनोदकार्थान्कुर्वीत ६
अवज्योत्य रात्रौ भोजनम् ७
सत्यवदनमेव वा ८
दीक्षितोऽप्यातपादीनि
कुर्यात्प्रवर्ग्यवांश्चेत् ९

2.9
अथातः पञ्च महायज्ञाः १
वैश्वदेवादन्नात्पर्युक्ष्य स्वाहाकारैर्जुहुयाद्ब्रह्मणे प्रजापतये गृह्याभ्यः कश्यपायानुमतय इति २
भूतगृह्येभ्यो मणिके त्रीन् पर्जन्यायाद्भ्यः पृथिव्यै ३
धात्रे विधात्रे च द्वार्ययोः ४
प्रतिदिशं वायवे दिशां च ५
मध्ये त्रीन्ब्रह्मणेऽन्तरिक्षाय सूर्याय ६
विश्वेभ्यो देवेभ्यो विश्वेभ्यश्च भूतेभ्यस्तेषामुत्तरतः ७
उषसे भूतानां च पतये परम् ८
पितृभ्यः स्वधा नम इति दक्षिणतः ९
पात्रं निर्णिज्योत्तरापरस्यां दिशि निनयेद्यक्ष्मैतत्त इति १०
उद्धृत्याग्रं ब्राह्मणायावनेज्य दद्याद्धन्तत इति ११
यथाऽर्हं भिक्षुकानतिथींश्च संभजेरन् १२
बालज्येष्ठा गृह्या यथार्हमश्नीयुः १३
पश्चाद् गृहपतिः पत्नी च १४
पूर्वो वा गृहपतिः । तस्मादु स्वाष्टं गृहपतिः पूर्वोऽतिथिभ्योऽश्नीयादिति श्रुतेः १५
अहरहः स्वाहा कुर्यादन्नाभावे केनचिदाकाष्ठाद्देवेभ्यः पितृभ्यो
मनुष्येभ्यश्चोदपात्रात् १६

2.10
अथातोऽध्यायोपाकर्म १
ओषधीनां प्रादुर्भावे श्रवणेन श्रावण्यां पौर्णमास्यां श्रावणस्य पञ्चमीं हस्तेन वा २
आज्यभागाविष्ट्वाज्याहुतीर्जुहोति ३
पृथिव्या अग्नय इत्यृग्वेदे ४
अन्तरिक्षाय वायव इति यजुर्वेदे ५
दिवे सूर्यायेति सामवेदे ६
दिग्भ्यश्चन्द्रमस इत्यथर्ववेदे ७
ब्रह्मणे छन्दोभ्यश्चेति सर्वत्र ८
प्रजापतये देवेभ्य ऋषिभ्यः श्रद्धायै मेधायै सदसस्पतयेऽनुमतय इति च ९
एतदेव व्रतादेशनविसर्गेषु १०
सदसस्पतिमित्यक्षतधानास्त्रिः ११
सर्वेऽनुपठेयुः १२
हुत्वाहुत्वौदुम्बर्यस्तिस्रस्तिस्रः समिध आदध्युरार्द्राः सपलाशा घृताक्ताः सावित्र्या १३
ब्रह्मचारिणश्च पूर्वकल्पेन १४
शन्नोभवंत्वित्यक्षतधाना अखादन्तः प्राश्नीयुः १५
दधिक्राव्ण इति दधि भक्षयेयुः १६
स यावन्तं गणमिच्छेत्तावतस्तिलानाकर्षफलकेन जुहुयात्सावित्र्या शुक्रज्योतिरित्यनुवाकेन वा १७
प्राशनान्ते प्रत्यङ्मुखेभ्य उपविष्टेभ्य ॐकारमुक्त्वा त्रिश्च सावित्रीमध्यायादीन्प्रब्रूयात् १८
ऋषिमुखानि बह्वृचानाम् १९
पर्वाणि छन्दोगानाम् २०
सूक्तान्यथर्वणानाम् २१
सर्वे जपन्ति सहनोऽस्तु सहनोऽवतु सहन इदं वीर्यवदस्तु ब्रह्म । इन्द्रस्तद्वेद येन यथा न विद्विषामह इति २२
त्रिरात्रं
नाधीयीरन् २३
लोमनखानामनिकृन्तनम् २४
एके प्रागुत्सर्गात् २५
१०
2.11
वातेऽमावास्यायां सर्वानध्यायः १
श्राद्धाशने चोल्कावस्फूर्जद्भूमिचलनाग्न्युत्पातेष्वृतुसन्धिषु चाकालम् २
उत्सृष्टेष्वभ्रदर्शने सर्वरूपे च त्रिरात्रं त्रिसन्घ्यं वा ३
भुक्त्वाऽऽर्द्रपाणिरुदके निशायां संधिवेलयोरन्तःशवे ग्रामेऽन्तर्दिवाकीर्त्ये ४
धावतोऽभिशस्तपतितदर्शनाश्चर्याभ्युदयेषु च तत्कालम् ५
नीहारे वादित्रशब्द आर्तस्वने ग्रामान्ते श्मशाने श्वगर्दभोलूकशृगालसामशब्देषु शिष्टाचरिते च तत्कालम् ६
गुरौ प्रेतेऽपोभ्यवेयाद्दशरात्रं चोपरमेत् ७
सतानूनप्त्रिणि सब्रह्मचारिणि च त्रिरात्रम् ८
एकरात्रमसब्रह्मचारिणि ९
अर्धषष्ठान्मासानधीत्योत्सृजेयुः १०
अर्धसप्तमान्वा ११
अथेमामृचं जपन्ति उभा कवी युवा यो नो धर्मः परापतत् । परिसख्यस्य धर्मिणो विसख्यानि
विसृजामह इति १२
त्रिरात्रं सहोष्य विप्रतिष्ठेरन् १३
११
2.12
पौषस्य रोहिण्यां मध्यमायां वाऽष्टकायामध्यायानुत्सृजेरन् १
उदकान्तं गत्वाऽद्भिर्देवांश्छन्दांसि वेदानृषीन्पुराणाचार्यान् गन्धर्वानितराचार्यान्संवत्सरं च सावयवं पितॄनाचार्यान्स्वांश्च तर्पयेयुः २
सावित्रीं चतुरनुद्रुत्य विरताः स्म
इति प्रब्रूयुः ३
क्षपणं प्रवचनं च पूर्ववत् ४
१२
2.13
पुण्याहे लाङ्गलयोजनं ज्येष्ठया वेन्द्रदैवत्यम् १
इन्द्रं पर्जन्यमश्विनौ मरुत उदलाकाश्यपं स्वातिकारींसीतामनुमतिं च दध्ना तण्डुलैर्गन्धैरक्षतैरिष्ट्वाऽनडुहो मधुघृते प्राशयेत् २
सीरायुञ्जन्तीति योजयेत् ३
शुनंसुफाला इति कृषेत् फालं वाऽऽलभेत ४
नवाऽग्न्युपदेशाद्वपनानुषङ्गाच्च ५
अग्यमभिषिच्याकृष्टं तदाकृषेयुः ६
स्थालीपाकस्य पूर्ववद्देवता यजेदुभयोर्व्रीहियवयोः प्रवपन्सीतायज्ञे च ७
ततो ब्राह्मणभोजनम् ८
१३
2.14
अथातः श्रवणाकर्म १
श्रावण्यां पौर्णमास्याम् २
स्थालीपाकं श्रपयित्वाऽक्षतधानाश्चैककपालम् पुरोडाशं धानानां भूयसीः पिष्ट्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुती जुहोति ३
अपश्वेतपदाजहि पूर्वेण चापरेण च । सप्त च वारुणीरिमाः प्रजाः सर्वाश्च राजबान्धवैः स्वाहा ४
न वै श्वेतस्याध्याचारेऽहिर्ददर्श कंचन । श्वेताय वैदर्व्याय नमः स्वाहेति ५
स्थालीपाकस्य जुहोति विष्णवे श्रवणाय श्रावण्यै पौर्णमास्यै वर्षाभ्यश्चेति ६
धानावन्तमिति धानानाम् ७
घृताक्तान्सक्तून्सर्पेभ्यो जुहोति ८
आग्नेयपाण्डुपार्थिवानां सर्पाणामधिपतये स्वाहा श्वेतवायवान्तरिक्षाणां सर्पाणामधिपतये स्वाहाऽभिभूःसौर्यदिव्यानां सर्पाणामधिपतये स्वाहेति ९
सर्वहुतमेककपालं ध्रुवाय भौमाय स्वाहेति १०
प्राशनान्ते सक्तूनामेकदेशं शूर्पे न्युप्योपनिष्क्रम्य बहिः शालायाः स्थण्डिलमुपलिप्योल्कायां ध्रियमाणायां माऽन्तरागमतेत्युक्त्वा वाग्यतः सर्पानवनेजयति ११
आग्नेयपाण्डुपार्थिवानां सर्पाणामधिपतेऽवनेनिक्ष्व श्वेतवायवान्तरिक्षाणां सर्पाणामधिपतेऽवनेनिक्ष्वाभिभूः सौर्यदिव्यानां सर्पाणामधिपतेऽवनेनिक्ष्वेति १२
यथाऽवनिक्तं दर्व्योपघातं सक्तून्सर्पेभ्यो बलिं हरति १३
आग्नेयपाण्डुपार्थिवानां सर्पाणामधिपत एष ते बलिः श्वेतवायवान्तरिक्षाणां सर्पाणामधिपत एष ते बलिरभिभूः सौर्यदिव्यानां सर्पाणामधिपत एष ते बलिरिति १४
अवनेज्य पूर्ववत्कङ्कतैः प्रलिखति १५
आग्नेयपाण्डुपार्थिवानां सर्पाणामधिपते प्रलिखस्व श्वेतवायवान्तरिक्षाणां सर्पाणामधिपते प्रलिखस्वाभिभूः सौर्यदिव्यानां सर्पाणामधिपते प्रलिखस्वेति १६
अञ्जनानुलेपनं स्रजश्चाञ्जस्वानुलिम्पस्व स्रजोऽपिनह्यस्वेति १७
सक्तुशेषं स्थण्डिले न्युप्योदपात्रेणोपनिनीयोपतिष्ठते नमोऽस्तु सर्पेभ्य इति तिसृभिः १८
स यावत्कामयेत न सर्पा अभ्युपेयुरिति तावत्सन्ततयोदधारया निवेशनं त्रिः परिषिञ्चन्परीयादपश्वेतपदा जहीति द्वाभ्याम् १९
दर्वीं शूर्पं प्रक्षाल्य प्रतप्य प्रयच्छति २०
द्वारदेशे मार्जयन्त आपोहिष्ठेति तिसृभिः २१
अनुगुप्तमेतं सक्तुशेषं निधाय ततोऽस्तमितेऽस्तमितेऽग्निं परिचर्य दर्व्योपघातं सक्तून्सर्पेभ्यो बलिं हरेदाग्रहायण्याः २२
तं हरन्तं नान्तरेण गच्छेयुः २३
दर्व्याचमनं प्रक्षाल्य निदधाति २४
धाना प्राश्नन्त्यसंस्यूताः २५
ततो ब्राह्मणभोजनम् २६
१४
2.15
प्रौष्ठपद्यामिन्द्रयज्ञः १
पायसमैन्द्रं श्रपयित्वाऽपूपांश्चापूपैः स्तीर्त्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोतीन्द्रायेन्द्राण्या अजायैकपदेऽहिर्बुध्न्याय प्रौष्ठपदाभ्यश्चेति २
प्राशनान्ते मरुद्भ्यो बलिं हरत्यहुतादो मरुत इति श्रुतेः ३
आश्वत्थेषु पलाशेषु मरुतोऽश्वत्थे तस्थुरिति वचनात् ४
शुक्रज्योतिरिति प्रतिमन्त्रम् ५
विमुखेन च ६
मनसा ७
नामान्येषामेतानीति श्रुतेः ८
इन्द्रं दैवीरिति जपति ९
ततो
ब्राह्मणभोजनम् १०
१५
2.16
आश्वयुज्यां पृषातकाः १
पायसमैन्द्रं श्रपयित्वा दधिमधुघृतमिश्रं जुहोतीन्द्रायेन्द्राण्या अश्विभ्यामाश्वयुज्यै पौर्णमास्यै शरदे चेति २
प्राशनान्ते दधिपृषातकमञ्जलिना जुहोति ऊनंमे पूर्यतां पूर्णंमे मा व्यगात्स्वाहेति ३
दधिमधुघृतमिश्रममात्या अवेक्षन्त आयात्विन्द्र इत्यनुवाकेन ४
मातृभिर्वत्सान्संसृज्य
तां रात्रिमाग्रहायणीं च ५
ततो ब्राह्मणभोजनम् ६
१६
2.17
अथ सीतायज्ञः १
व्रीहियवानां यत्र यत्र यजेत तन्मयं स्थालीपाकं श्रपयेत् २
कामादीजानोऽन्यत्रापि व्रीहियवयोरेवान्यतरं स्थालीपाकं श्रपयेत् ३
न पूर्वचोदितत्वात्संदेहः ४
असंभवाद्विनिवृत्तिः ५
क्षेत्रस्य पुरस्तादुत्तरतो वा शुचौ देशे कृष्टे फलानुपरोधेन ६
ग्रामे वोभयसंप्रयोगादविरोधात् ७
यत्र श्रपयिष्यन्नुपलिप्त उद्धतावोक्षितेऽग्निमुपसमाधाय तन्मिश्रैर्दर्भैः स्तीर्त्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति ८
पृथिवी द्यौः प्रदिशो दिशो यस्मै द्युभिरावृताः तमिहेन्द्रमुपह्वये शिवा नः सन्तु हेतयः स्वाहा । यन्मे किंचिदुपेप्सितमस्मिन्कर्मणि वृत्रहन् । तन्मे सर्वं समृध्यतां जीवतः शरदः शतं स्वाहा । संपत्तिर्भूतिर्भूमिर्वृष्टिर्ज्यैष्ठ्यं श्रैष्ठ्यं श्रीः प्रजामिहावतु स्वाहा । यस्या भावे वैदिकलौकिकानां भूतिर्भवति कर्मणाम् । इन्द्रपत्नीमुपह्वये सीतां सा मे त्वन्नपायिनी भूयात्कर्मणि कर्मणि स्वाहा । अश्वावती गोमती सूनृतावती बिभर्ति या प्राणभृतो अतन्द्रिता । खलमालिनीमुर्वरामस्मिन्कर्मण्युपह्वये ध्रुवां सा मे त्वनपायिनी भूयात्स्वाहेति ९
स्थालीपाकस्य जुहोति सीतायै यजायै शमायै भूत्या इति १०
मन्त्रवत्प्रदानमेकेषाम् ११
स्वाहाकारप्रदाना इति श्रुतेर्विनिवृत्तिः १२
स्तरणशेषषु सीतागोप्तृभ्यो बलिं हरति पुरस्ताद्ये त आसते सुधन्वानो निषङ्गिणः । ते त्वा पुरस्ताद्गोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीममिति १३
अथ दक्षिणतोऽनिमिषा वर्मिण आसते । ते त्वा दक्षिणतो गोपायन्त्वप्रमता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीममिति १४
अथ पश्चात् आभुवः प्रभुवो भूतिर्भूमिः पार्ष्णिः शुनङ्कुरिः । ते त्वा पश्चाद्गोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीममिति १५
अथोत्तरतो भीमा वायुसमा जवे । ते त्वोत्तरतः क्षेत्रे खले गृहेऽध्वनि गोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीममिति १६
प्रकृतादन्यस्मादाज्यशेषेण च पूर्ववद्बलिकर्म १७
स्त्रियश्चोपयजेरन्नाचरितत्वात् १८
संस्थिते कर्मणि ब्राह्मणान्भोजयेत्संस्थिते कर्मणि
ब्राह्मणान्भोजयेत् १९
१७

3rd kanda
3.1
श्रीः । अनाहिताग्नेर्नवप्राशनम् १
नवं स्थालीपाकं श्रपयित्वाज्यभागाविष्ट्वाज्याहुती जुहोति । शतायुधाय शतवीर्याय शतोतये अभिमातिषाहे । शतं यो नः शरदोऽजीजानिन्द्रो नेषदति दुरितानि विश्वा स्वाहा । ये चत्वारः पथयो देवयाना अन्तराद्यावापृथिवी वियन्ति । तेषां योऽज्यानिमजीजिमावहात्तस्मै नो देवाः परिधत्तेह सर्वे स्वाहेति २
स्थालीपाकस्याग्रयणदेवताभ्यो हुत्वा जुहोति स्विष्टकृते च स्विष्टमग्ने अभितत् पृणीहि विश्वांश्च देवः पृतना अविष्यत् । सुगन्नु पन्थां प्रदिशन्न एहि ज्योतिष्मद्धयेह्यजरन्न आयुः स्वाहेति ३
अथ प्राश्नाति । अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिः । भद्रान्नः श्रेयः समनैष्ट देवास्त्वयावशेन समशीमहि त्वा । स नोमयोऽभूः पितो आविशस्व शंतोकाय तनुवे स्योन इति ४
अन्नपतीयया वा ५
अथ यवानामेतमुत्यं मधुना संयुतम् । यवं सरस्वत्या अधिवनाय चकृषुः इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः
सुदानव इति ६
ततो ब्राह्मणभोजनम् ७

3.2
मार्गशीर्ष्यां पौर्णमास्यामाग्रहायणीकर्म १
स्थालीपाकं श्रपयित्वा श्रवणवदाज्याहुती हुत्वाऽपरा जुहोति । यां जनाः प्रतिनन्दन्ति रात्रीं धेनुमिवायतीम् । संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली स्वाहा । संवत्सरस्य प्रतिमा या तां रात्रीमुपास्महे । प्रजां सुवीर्यां कृत्वा दीर्घमायुर्व्यश्नवै स्वाहा । संवत्सराय परिवत्सरायेदावत्सरायेद्वत्सराय वत्सराय कृणुते बृहन्नमः । तेषां वयं सुमतौ यज्ञियानां ज्योग्जीता अहताः स्याम स्वाहा । ग्रीष्मो हेमन्त उतनो वसन्तः शिवा वर्षा अभया शरन्नः । तेषामृतूनां शतशारदानां निवात एषामभये वसेम स्वाहेति २
स्थालीपाकस्य जुहोति । सोमाय मृगशिरसे मार्गशीर्ष्यै पौर्णमास्यै हेमन्ताय चेति ३
प्राशनान्ते सक्तुशेषं शूर्पे न्युप्योपनिष्क्रमणप्रभृत्यामार्जनात् ४
मार्जनान्त उत्सृष्टो बलिरित्याह ५
पश्चादग्नेः स्रस्तरमास्तीर्याहतं च वास आप्लुता अहतवाससः प्रत्यवरोहन्ति दक्षिणतः स्वामी जायोत्तरा यथाकनिष्ठमुत्तरतः ६
दक्षिणतो ब्रह्माणमुपवेश्योत्तरत उदपात्रं शमीशाखासीतालोष्ठाश्मनो निधायाग्निमीक्षमाणो जपति । अयमग्निर्वीरतमोऽयं भगवत्तमः सहस्रसातमः । सुवीर्योऽयं श्रैष्ठ्ये दधातु नाविति ७
पश्चादग्नेः प्राञ्चमञ्जलिं करोति ८
दैवीं नावमिति तिसृभिः । स्रस्तरमारोहन्ति ९
ब्रह्माणमामन्त्रयते ब्रह्मन्प्रत्यवरोहामेति १०
ब्रह्मानुज्ञाताः प्रत्यवरोहन्ति आयुः कीर्यशो बलमन्नाद्यं प्रजामिति ११
उपेता जपन्ति । सुहेमन्तः सुवसन्तः सुग्रीष्मः प्रतिधीयतान्नः । शिवा नो वर्षाः सन्तु शरदः सन्तु नः शिवा इति १२
स्योना पृथिवि नो भवेति दक्षिणपार्श्वैः प्राक्शिरसः संविशन्ति १३
उपोदुतिष्ठन्ति उदायुषा स्वायुषोत्पर्जन्यस्य वृष्ट्या पृथिव्याः सप्तधामभिरिति १४
एवं द्विरपरं ब्रह्मानुज्ञाताः १५
अधः शयीरंश्चतुरो मासान्यथेष्टं वा १६

3.3
ऊर्द्ध्वमाग्रहायण्यास्तिस्रोऽष्टकाः १
ऐन्द्री वैश्वदेवी प्राजापत्या पित्र्येति २
अपूपमांसशाकैर्यथासंख्यम् ३
प्रथमाऽष्टका पक्षाष्टम्याम् ४
स्थालीपाकं श्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति । त्रिंशत्स्वसार उपयन्ति निष्कृतं समानं केतुं प्रतिमुञ्चमानाः । ऋतूंस्तन्वते कवयः प्रजानतीर्मध्ये छन्दसः परियन्ति भास्वतीः स्वाहा । ज्योतिष्मती प्रतिमुञ्चते नभो रात्री देवी सूर्यस्य व्रतानि । विपश्यन्ति पशवो जायमाना नानारूपा मातुरस्या उपस्थे स्वाहा । एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् । तेन दस्यून्व्यसहन्त देवा हन्ताऽसुराणामभवच्छचीभिः स्वाहा । अनानुजामनुजां मामकर्त्त सत्यं वदन्त्यन्विच्छ एतत् । भूयासमस्य सुमतौ यथा यूयमन्यावो अन्यामति मा प्रयुक्त स्वाहा । अभून्मम सुमतौ विश्ववेदा आष्ट प्रतिष्ठामविदद्धि गाधम् । भूयासमस्य सुमतौ यथा यूयमन्यावो अन्यामति मा प्रयुक्त स्वाहा । पञ्च व्युष्टीरनु पञ्चदोहा गां पञ्चनाम्नीमृतवोऽनुपञ्च । पञ्च दिशः पञ्चदशेन कॢप्ताः समानमूर्ध्नीरधिलोकमेकं स्वाहा । ऋतस्य गर्भः प्रथमा व्यूषिष्यपामेका महिमानं बिभर्ति । सूर्यस्यैका चरति निष्कृतेषु घर्मस्यैका सवितैकां नियच्छतु स्वाहा । या प्रथमा व्यौच्छत्सा धेनुरभवद्यमे । सा नः पयस्वती धुक्ष्वोत्तरामुत्तरां समांस्वाहा । शुक्रऋषभा नभसा ज्योतिषागाद्विश्वरूपा शबली अग्निकतुः । समानमर्थं स्वपस्यमाना बिभ्रती जरामजरौष आगाः स्वाहा । ऋतूनां पत्नी प्रथमेयमागादह्नां नेत्री जनित्री प्रजानाम् । एका सती बहुधोषो व्यौच्छत्साऽजीर्णा त्वं जरयसि सर्वमन्यत्स्वाहेति ५
स्थालीपाकस्य जुहोति शान्ता पृथिवी शिवमन्तरिक्षं शन्नो द्यौरभयं कृणोतु । शन्नो दिशः प्रदिश आदिशो नोऽहोरात्रे कृणुतं दीर्घमायुर्व्यश्नवै स्वाहा । आपो मरीचीः परिपान्तु सर्वतो धाता समुद्रो अपहन्तु पापम् । भूतं भविष्यदकृन्तद्विश्वमस्तु मे ब्रह्माभिगुप्तः सुरक्षितः स्यां स्वाहा । विश्वे आदित्या वसवश्च देवा रुद्रा गोप्तारो मरुतश्च सन्तु । ऊर्जं प्रजाममृतं दीर्घमायुः प्रजापतिर्मयि परमेष्ठी दधातु नः स्वाहेति च ६
अष्टकायै स्वाहेति ७
मध्यमा गवा ८
तस्यै वपां जुहोति वह वपां जातवेदः पितृभ्य इति ९
श्वोऽन्वष्टकासु सर्वासां पार्श्वसक्थिसव्याभ्यां परिवृते पिण्डपितृयज्ञवत् १०
स्त्रीभ्यश्चोपसेचनं च कर्षूषु सुरया तर्पणेन चाञ्जनानुलेपनं स्रजश्च ११
आचार्यायान्तेवासिभ्यश्चानपत्येभ्य इच्छन् १२
मध्यावर्षे च तुरीया शाकाष्टका १३

3.4
अथातः शालाकर्म १
पुण्याहे शालां कारयेत् २
तस्या अवटमभिजुहोत्यच्युताय भौमाय स्वाहेति ३
स्तम्भमुच्छ्रयति इमामुच्छ्रयामि भुवनस्य नाभिं वसोर्धारां प्रतरणीं वसूनाम् । इहैव ध्रुवां निमिनोमि शालां क्षेमे तिष्ठतु घृतमुक्षमाणा । अश्वावती गोमती सूनृतावत्युच्छ्रयस्व महते सौभगाय । आत्वा शिशुराक्रन्दत्वा गावो धेनवो वाश्यमानाः । आत्वा कुमारस्तरुण आवत्सो जगदैः सह । आत्वा परिस्रुतः कुम्भ आदध्नः कलशैरुप । क्षेमस्य पत्नी बृहती सुवासा रयिं नो धेहि सुभगे सुवीर्यम् । अश्वावद्गोमदूर्जस्वत् पर्णं वनस्पतेरिव । अभिनः पूर्यतां रयिरिदमनुश्रेयो वसान इति चतुरः प्रपद्यते ४
अभ्यन्तरतोऽग्निमुपसमाधाय दक्षिणतो ब्रह्माणमुपवेश्योत्तरत उदपात्रं प्रतिष्ठाप्य स्थालीपाकं श्रपयित्वा निष्क्रम्य द्वारसमीपे स्थित्वा ब्रह्माणमामन्त्रयते ब्रह्मन् प्रविशामीति ५
ब्रह्मानुज्ञातः प्रविशत्यृतं प्रपद्ये शिवं प्रपद्य इति ६
आज्यं संस्कृत्येहरतिरित्याज्याहुती हुत्वाऽपरा जुहोति । वास्तोष्पते प्रतिजानीह्यस्मान्स्वावेशो अनमीवो भवानः । यत्त्वेमहे प्रति तन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे स्वाहा । वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति तन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे स्वाहा । वास्तोष्पते शग्मया संसदा ते सक्षीमहि रण्वया गातुमत्या । पाहि क्षेम उत योगे वरन्नो यूयम्पात स्वस्तिभिः सदा नः स्वाहा । अमीवहा वास्तोष्पतेविश्वारूपाण्याविशन् । सखा सुशेव एधि नः स्वाहेति ७
स्थालीपाकस्य जुहोति । अग्निमिन्द्रं बृहस्पतिं विश्वान्देवानुपह्वये सरस्वतीं च वाजीं च वास्तु मे दत्त वाजिनः स्वाहा । सर्पदेवजनान्त्सर्वान् हिमवन्तं सुदर्शनम् । वसूंश्च रुद्रानादित्यानीशानं जगदैः सह । एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा । पूर्वाह्णमपराह्णं चोभौ मध्यंदिना सह । प्रदोषमर्द्धरात्रं च व्युष्टां देवीं महापथाम् । एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा । कर्तारं च विकर्तारं विश्वकर्माणमोषधींश्च वनस्पतीन् । एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा । धातारं च विधातारं निधीनां च पतिं सह । एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा । स्योनं शिवमिदं वास्तु दत्तं ब्रह्मप्रजापती । सर्वाश्च देवताः स्वाहेति ८
प्राशनान्ते कांस्ये संभारानोप्यौदुम्बरपलाशानि ससुराणि शाड्वलं गोमयं दधि मधु घृतं कुशान्यवांश्चासनोपस्थानेषु प्रोक्षेत् ९
पूर्वे सन्धावभिमृशति । श्रीश्च त्वा यशश्च पूर्वे सन्धौ गोपायेतामिति १०
दक्षिणे संधावभिमृशति । यज्ञश्च त्वा दक्षिणा च दक्षिणे सन्धौ गोपायेतामिति ११
पश्चिमे संधावभिमृशति । अन्न च त्वा ब्राह्मणाश्च पश्चिमे सन्धौ गोपायेतामिति १२
उत्तरे संधावभिमृशति । ऊर्क्च त्वा सूनृता चोत्तरे सन्धौ गोपायेतामिति १३
निष्क्रम्य दिश उपतिष्ठते । केता च मा सुकेता च पुरस्ताद्गोपायेतामित्यग्निर्वै केतादित्यः सुकेता तौ प्रपद्ये ताभ्यां नमोऽस्तु तौ मा पुरस्ताद्गोपायेतामिति १४
अथ दक्षिणतो गोपायमानं च मारक्षमाणा च दक्षिणतो गोपायेतामित्यहर्वै गोपायमानं रात्री रक्षमाणा ते प्रपद्ये ताभ्यां नमोऽस्तु ते मा दक्षिणतो गोपायेतामिति १५
अथ पश्चात् दीदिविश्च भा जागृविश्च पद्चाद्गोपायेतामित्यन्नं वै दीदिविः प्राणो जागृविस्तौ प्रपद्ये ताभ्यां नमोऽस्तु तौ मा पश्चाद्गोपायेतामिति १६
अथोत्तरतोऽस्वप्नश्च मानवद्राणश्चोत्तरतो गोपायेतामिति चन्द्रमा वा अस्वप्नो वायुरनवद्रानस्तौ प्रपद्ये ताभ्यां नमोस्तु तौ मोत्तरतो गोपायेतामिति १७
निष्ठितां प्रपद्यते धर्मस्थूणा जाजं श्रीरतूपमहोरात्रे द्वारफलके । इन्द्रस्य गृहा वसुमन्तो वरूथिनस्तानहं प्रपद्ये सह प्रजया पशुभिः सह । यन्मे किंचिदस्त्युपहूतः सर्वगणसखायसाधुसंवृतः । तां त्वा शाले
ऽरिष्टवीरा गृहान्नः सन्तु सर्वत इति १८
ततो ब्राह्मणभोजनम् १९

3.5
अथातो मणिकावधानम् १
उत्तरपूर्वस्यां दिशि यूपवदवटं खात्वा कुशानास्तीर्याक्षतानरिष्टकांश्चान्यानि चाभिमङ्गलानि तस्मिन् मिनोति मणिकं समुद्रोऽसीति २
अप आसिञ्चति । आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रं बिभृथामृतं च । रायश्च स्थ स्वपत्यस्य पत्नी सरस्वती तद्गृणते वयोधादिति ३
आपोहिष्ठेति च तिसृभिः ४
ततो ब्राह्मणभोजनम् ५

3.6
अथातः शीर्षरोगभेषजम् १
पाणी प्रक्षाल्य भ्रुवौ मिमार्ष्टि । चक्षुर्भ्यां श्रोत्राभ्यां गोदानाच्छुबुकादहि । यक्ष्मं शीर्षण्यंरराटाद्विवृहामीममिति । अर्द्धं चेदवभेदक विरूपाक्ष श्वेतपक्ष महायशः । अथो चित्रपक्ष शिरो मास्याभिताप्सीदिति ३
क्षेम्यो ह्येव भवति ४


उतूलपरिमेहः १
स्वपतो जीवविषाणे स्वं मूत्रमासिच्यापसलवि त्रिः परिषिञ्चन्परीयात् । परि त्वा गिरेरह परिमातुः परिस्वसुः परिपित्रोश्च भ्रात्रोश्च सख्येभ्यो विसृजाम्यहम् । उतूल परिमीढोऽसि परिमीढः क्व गमिष्यसीति २
स यदि भ्रम्याद्दावाग्निमुपसमाधाय घृताक्तानि कुशेण्ड्वानि जुहुयात् । परि त्वा ह्वलनो ह्वलनिर्वृत्तेन्द्रवीरुधः । इन्द्रपाशेन सित्वा मह्यं मुक्त्वाऽथान्यमानयेदिति ३
क्षेम्योह्येव भवति ४

3.7
शूलगवः १
स्वर्ग्यः पशव्यः पुत्र्यो धन्यो यशस्य आयुष्यः २
औपासनमरण्यं हृत्वा वितानं साधयित्वा रौद्रं पशुमालभेत ३
साण्डम् ४
गौर्वा शब्दात् ५
वपां श्रपयित्वा स्थालीपाकमवदानानि च रुद्राय वपामन्तरिक्षाय वसां स्थालीपाकमिश्रान्यवदानानि जुहोत्यग्नये रुद्राय शर्वाय पशुपतये उग्रायाशनये भवाय महादेवायेशानायेति च ६
वनस्पतिस्विष्टकृदन्ते ७

3.8
दिग्व्याघारणम् ९
व्याघारणान्ते पत्नीः संयाजयन्तीन्द्राण्यै रुद्राण्यै शर्वाण्यै भवान्या अग्निं गृहपतिमिति १०
लोहितं पालाशेषु कूर्चेषु रुद्रायसेनाभ्यो बलिं हरति यास्ते रुद्र पुरस्तात्सेनास्ताभ्य एष बलिस्ताभ्यस्ते नमो यास्ते रुद्र दक्षिणतः सेनास्ताभ्य एष बलिस्ताभ्यस्ते नमो यास्ते रुद्र पश्चात्सेनास्ताभ्य एष बलिस्ताभ्यस्ते नमो यास्ते रुद्रोत्तरतः सेनास्ताभ्य एष बलिस्ताभ्यस्ते नमो यास्ते रुद्रोपरिष्टात्सेनास्ताभ्य एष बलिस्ताभ्यस्ते नमो यास्ते रुद्राधस्तात्सेनास्ताभ्य एष बलिस्ताभ्यस्ते नम इति ११
ऊवध्यं लोहितलिप्तमग्नौ प्रास्यत्यधो वा निखनति १२
अनुवातं पशुमवस्थाप्य रुद्रैरुपतिष्ठते प्रथमोत्तमाभ्यां वाऽनुवाकाभ्याम् १३
नैतस्य पशोर्ग्रामं हरन्ति १४
एतेनैव गोयज्ञो व्याख्यातः
पायसेनानर्थलुप्तः १६
तस्य तुल्यवया गौर्दक्षिणा १७

3.9
अथ वृषोत्सर्गः १
गोयज्ञेन व्याख्यातः २
कार्तिक्यां पौर्णमास्थां रेवत्यां वाश्वयुजस्य ३
मध्येगवां सुसमिद्धमग्निं कृत्वाज्यं संस्कृत्येहरतिरिति षट् जुहोति प्रतिमन्त्रम् ४
पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः । पूषा व्वाजं सनोतु नः स्वाहा इति पौष्णस्य जुहोति ५
रुद्रान् जपित्वैकवर्नं द्विवर्णं वा यो वा यूथं छादययि यं वा यूथं छादयेद्रोहितो वैव स्यात्सर्वाङ्गैरुपेतो जीववत्सायाः पयस्विन्याः पुत्रो यूथे च रूपस्वित्तमः स्यात्तमलंकृत्य यूथे मुख्याश्चतस्रो वत्सतर्यस्ताश्चालंकृत्य एतं युवानं पतिं वो ददामि तेन क्रीडन्तीश्चरथ प्रियेण । मा नः साप्तजनुषाऽसुभगा रायस्पोषेण समिषा मदेमेत्येतयैवोत्सृजेरन् ६
नभ्यस्थमभिमन्त्रयते मयोभूरित्यनुवाकशेषेण ७
सर्वासां पयसि पायसं श्रपयित्वा ब्राह्मणान्भोजयेत् ८
पशुमप्येके कुर्वन्ति ९
तस्य
शूलगवेन कल्पो व्याख्यातः १०

3.10
अथोदककर्म १
अद्विवर्षे प्रेते मातापित्रोराशौचम् २
शौचमेवेतरेषाम् ३
एकरात्रं त्रिरात्रं वा ४
शरीरमदग्ध्वा निखनन्ति ५
अन्तःसूतके चेदोत्थानादाशौचं सूतकवत् ६
नात्रोदककर्म ७
द्विवर्षप्रभृति प्रेतमाश्मशानात्सर्वेऽनुगच्छेयुः ८
यमगाथां गायन्तो यमसूक्तम् च जपन्त इत्येके ९
यद्युपेतो भूमिजोषणादिसमानमाहिताग्नेरोदकान्तस्य गमनात् १०
शालाग्निना दहन्त्येनमाहितश्चेत् ११
तूष्णीं ग्रामाग्निनेतरम् १२
संयुक्तं मैथुनं वोदकम् याचेरन्नुदकं करिष्यामह इति १३
कुरुध्वं मा चैवं पुनरित्यशतवर्षे प्रेते १४
कुरुध्वमित्येवेतरस्मिन् १५
सर्वे ज्ञातयोऽपोभ्यवयन्त्यासप्तमात्पुरुषाद्दशमाद्वा १६
समानग्रामवासे यावत्संबन्धमनुरमरेयुः १७
एकवस्त्राः प्राचीनावीतिनः १८
सव्यस्यानामिकयाऽपनोद्यापनः शोशुचदघमिति १९
दक्षिणामुखा निमज्जन्ति २०
प्रेतायोदकम् सकृत्प्रसिञ्चन्त्यञ्जलिनाऽसावेतत्त उदकमिति २१
उत्तीर्णाञ्च्छुचौ देशे शाड्वलवत्युपविष्टांस्तत्रैतानपवदेयुः २२
अनवेक्षमाणा ग्राममायान्ति रीतीभूताः कनिष्ठपूर्वाः २३
निवेशनद्वारे पिचुमन्दपत्राणि विदश्याचम्योदकमग्निं गोमयं गौरसर्षपांस्तैलमालभ्याश्मानमाक्रम्य प्रविशन्ति २४
त्रिरात्रं ब्रह्मचारिणोऽधःशायिनो न किञ्चन कर्म कुर्न प्रकु २५
क्रीत्वा लब्ध्वा वा दिवैवान्नमश्नीयुरमांसम् २६
प्रेताय पिण्डं दत्त्वाऽवनेजनदानप्रत्यवनेजनेषु नामग्राहम् २७
मृन्मये तां रात्रीं क्षीरोदके विहायसि निदध्युः प्रेतात्रस्नाहीति २८
त्रिरात्रं शावमाशौचम् २९
दशरात्रमित्येके ३०
न स्वाध्यायमधीयीरन् ३१
नित्यानि निवर्तेरन्व्रैतानवर्जम् ३२
शालाग्नौ चैके ३३
अन्य एतानि कुर्युः ३४
प्रेतस्पर्शिनो ग्रामं न प्रविशेयुरानक्षत्रदर्शनात् ३५
रात्रौ चेदादित्यस्य ३६
प्रवेशनादि समानमितरैः ३७
पक्षं द्वौ वाऽऽशौचम् ३८
आचार्ये चैवम् ३९
मातामहयोश्च ४०
स्त्रीणां चाप्रत्तानाम् ४१
प्रत्तानामितरे कुर्वीरन् ४२
ताश्च तेषाम् ४३
प्रोषितश्चेत्प्रेयाच्छ्रवणप्रभृति कृतोदकाः कालशेषमासीरन् ४४
अतीतश्चेदेकरात्रं त्रिरात्रं वा ४५
अथ कामोदकान्यृत्विक्श्वशुरसखिसंबन्धिमातुलभागिनेयानाम् ४६
प्रत्तानां च ४७
एकादश्यामयुग्मान्ब्राह्मणान्भोजयित्वा मांसवत् ४८
प्रेतायोद्दिश्य गामप्येके घ्नन्ति ४९
पिण्डकरणे प्रथमः पितॄणां प्रेतः स्यात्पुत्रवांश्चेत् ५०
निवर्तेत चतुर्थः ५१
संवत्सरं पृथगेके ५२
न्यायस्तु न चतुर्थः पिण्डो भवतीति श्रुतेः ५३
अहरहरन्नमस्मै ब्राह्मणायोदकुम्भं च दद्यात् ५४
पिण्डमप्येके निपृणन्ति ५५
१०
3.11
पशुश्चेदाप्लाव्यागामग्रेणाग्नीन्परीत्य पलाशशाखां निहन्ति १
परिव्ययणोपाकरणनियोजनप्रोक्षणान्यावृता कुर्याद्यच्चान्यत् २
परिपशव्ये हुत्वा तूष्णीमपराः पञ्च ३
वपोद्धरणम् चाभिघारयेद्देवतां चादिशेत् ४
उपाकरणनियोजनप्रोक्षणेषु स्थालीपाके चैवम् ५
वपां हुत्वाऽवदानान्यवद्यति ६
सर्वाणि त्रीणि पञ्च वा ७
स्थालीपाकमिश्राण्यवदानानि जुहोति ८
पश्वङ्गं दक्षिणा ९
यद्देवते तद्दैवतं यजेत्तस्मै च भागं कुर्यात्तं च ब्रूयादिममनुप्रापयेति १०
नद्यन्तरे नावं कारयेन्नवा ११
११
3.12
अथातोऽवकीर्णिप्रायश्चित्तम् १
अमावास्यायां चतुष्पथे गर्दभं पशुमालभते २
निरृतिं पाकयज्ञेन यजेत ३
अप्स्ववदानहोमः ४
भूमौ पशुपुरोडाशश्रपणम् ५
तां छविं परिदधीत ६
ऊर्ध्वबालामित्येके ७
संवत्सरं भिक्षाचर्यम् चरेत्स्वकर्म परिकीर्तयन् ८
अथापरमाज्याहुती जुहोति ॥ कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा । कामाभिद्रुग्धोऽस्म्यभिद्रुग्धोस्मिकामकामाय स्वाहेति ९
अथोपतिष्ठते सं मा सिञ्चन्तु मरुतः समिन्द्रः संबृहस्पतिः । सं मायमग्निः सिञ्चतु प्रजया च धनेन चेति १०
एतदेव प्रायश्चित्तम् ११
१२
3.13
अथातः सभाप्रवेशनम् १
सभामभ्येति सभाङ्गिरसि नादिर्नामासि त्विषिर्नामासि तस्यै ते नम इति २
अथ प्रविशति सभा च मासमितिश्चोभे प्रजापतेर्दुहितरौ सचेतसौ । यो मा न विद्यादुप मा स तिष्ठेत्स चेतनो भवतु शंसथे जन इति ३
पर्षदमेत्य जपेदभिभूरहमागमविराडप्रतिवाश्याः । अस्याः पर्षद ईशानः सहसा सुदुष्टरो जन इति ४
स यदि मन्येत क्रुद्धोऽयमिति तमभिमन्त्रयते या त एषा रराट्या तनूर्मन्योः क्रोधस्य नाशनी । तान्देवा ब्रह्मचारिणो विनयन्तु सुमेधसः । द्यौरहं पृथिवी चाहं तौ ते क्रोधं नयामसि गर्भमश्वतर्यसहासाविति ५
अथ यदि मन्येत द्रुग्धोऽयमिति तमभिमन्त्रयते तां ते वाचमास्य आदत्ते हृदय आदधे यत्र यत्र निहिता वाक्तां ततस्तत आददे यदहं
ब्रवीमि तत्सत्यमधरो मत्तांद्यस्वेति ६
एतदेव वशीकरणम् ७
१३
3.14
अथातो रथारोहणम् १
युङ्क्तेति रथं संप्रेष्य युक्त इति प्रोक्ते साविराडित्येत्य चक्रे अभिमृशति २
रथन्तरमसीति दक्षिणम् ३
बृहदसीत्युत्तरम् ४
वामदेव्यमसीति कूबरीम् ५
हस्तेनोपस्थमभिमृशति अङ्कौ न्यङ्कावभितो रथं यौ ध्वान्तं वाताग्रमनुसंचरन्तम् । दूरेहेतिरिन्द्रियवान्पतत्रि ते नोऽग्नयः पप्रयः पारयन्त्विति ६
नमो माणिचरायेति दक्षिणं धुर्यं प्राजति ७
अप्राप्य देवताः प्रत्यवरोहेत्संप्रति ब्राह्मणान्मध्ये गा अभिक्रम्य पितॄन् ८
न स्त्रीब्रह्मचारिणौ सारथी स्याताम् ९
मुहूर्तमतीयाय जपेदिहरतिरिहरमध्वम् १०
एके मास्त्विहरतिरिति च ११
स यदि दुर्बलो रथः स्यात्तमास्थाय जपेदयं वामश्विना रथो मा दुर्गे मास्तरोरिषदिति १२
स यदि भ्रभ्यात्स्तम्भमुपस्पृश्य भूमिं वा जपेदेष वामश्विना रथो मा दुर्गे मास्तरोरिषदिति १३
तस्य न काचनार्त्तिर्न रिष्टिर्भवति १४
यात्वाऽध्वानं विमुच्य रथं यवसोदके दापयेदेष उ ह वाहनस्यापन्हव
इति श्रुतेः १५
१४
3.15
अथातो हस्त्यारोहणम् १
एत्य हस्तिनमभिमृशति हस्तियशसमसि हस्तिवर्चसमसीति २
अथारोहतीन्द्रस्य त्वा वज्रेणाभितिष्ठामि स्वस्ति मा संपारयेति ३
एतेनैवाश्वारोहणं व्याख्यातम् ४
उष्ट्रमारोक्ष्यन्नभिमन्त्रयते त्वाष्ट्रोऽसि त्वष्टृदैवत्यः स्वस्ति मा संपारयेति ५
रासभमारोक्ष्यन्नभिमन्त्रयते शूद्रोऽसि शूद्रजन्माग्नेयो वै द्विरेताः स्वस्ति मा संपारयेति ६
चतुष्पथमभिमन्त्रयते नमो रुद्राय पथिषदे स्वस्ति मा संपारयेति ७
नदीमुत्तरिष्यन्नभिमन्त्रयते नमो रुद्रायाप्सुषदे स्वस्ति मा संपारयेति ८
नावमारोक्ष्यन्नभिमन्त्रयते सुनावमिति ९
उत्तरिष्यन्नभिमन्त्रयते सुत्रामाणमिति १०
वनमभिमन्त्रयते नमो रुद्राय वनसदे स्वस्ति मा संपारयेति ११
गिरिमभिमन्त्रयते नमो रुद्राय गिरि षदेस्वस्ति मा संपारयेति १२
श्मशानमभिमन्त्रयते नमो रुद्रायं पितृषदे स्वस्ति मा संपारयेति १३
गोष्ठमभिमन्त्रयते मनो रुद्राय शकृत्पिण्डसदे स्वस्ति मा संपारयेति १४
यत्र चान्यत्रापि नमो रुद्रायेत्येव ब्रूयाद्रुद्रो ह्येवेदं सर्वमिति श्रुतेः १५
सिचाऽवधूतोऽभिमन्त्रयते सिगसि न वज्रोऽसि नमस्तेऽअस्तु मा माहिंसीरिति १६
स्तनयित्नुमभिमन्त्रयते शिवा नो वर्षाः सन्तु शिवा नः सन्तु हेतयः । शिवा नस्ताः सन्तु यास्त्वं सृजसि वृत्रहन्निति १७
शिवां वाश्यमानामभिमन्त्रयते शिवो नामेति १८
शकुनिं वाश्यमानमभिमन्त्रयते हिरण्यपर्ण शकुने देवानां प्रहितंगम । यमदूत नमस्तेऽस्तु किंत्वाकार्क्कारिणो ब्रवीदिति १९
लक्षण्यं वृक्षमभिमन्त्रयते मा त्वाऽशनिर्मा परशुर्मा वातो मा राजप्रेषितो दण्डः । अङ्कुरास्ते प्ररोहन्तु निवाते त्वाऽभिवर्षतु । अग्निष्टेमूलं माहिंसीत्स्वस्ति तेऽस्तु वनस्पते स्वस्तिमेऽस्तु वनस्पत इति २०
स यदि किंचिल्लभेत तत्प्रतिगृह्णाति द्यौस्त्वा ददातु पृथिवी त्वा प्रतिगृह्णात्विति साऽस्य न ददतः क्षीयते भूयसी च प्रतिगृहीता भवति । अथ यद्योदनं लभेत तत्प्रतिगृह्य द्यौस्त्वेति तस्य द्विः प्राश्नाति ब्रह्मा त्वाऽश्नातु ब्रह्मा त्वा प्राश्नात्विति २१
अथ यदि मन्थं लभेत तं प्रतिगृह्य द्यौस्त्वेति तस्य त्रिः प्राश्नाति ब्रह्मा त्वाऽश्नातु ब्रह्मा त्वा प्राश्नातु ब्रह्मा त्वा पिबत्विति २२
अथातोऽधीत्याधीत्यानिराकरणं प्रतीकं मे विचक्षण जिह्वा मे मधु यद्वचः । कर्णाभ्यां भूरिशुश्रुवे मा त्वं हार्षीः श्रुतं मयि । ब्रह्मणः प्रवचनमसि ब्रह्मणः प्रतिष्ठानमसि ब्रह्मकोशोसि सनिरसि शान्तिरस्यनिराकरणमसि ब्रह्मकोशं मे विश । वाचा त्वा पिदधामि वाचा त्वा पिदधामीति स्वरकरणकण्ठ्यौरसदन्त्यौष्ठ्यग्रहणधारणोच्चारणशक्तिर्मयि भवतु आप्यायन्तु मेऽङ्गानि वाक् प्राणश्चक्षुः श्रोत्रं यशो बलम् ।
यन्मे श्रुतमधीतं तन्मे मनसि तिष्ठतु तिष्ठतु २३
१५

परिशिष्टानि
अथातो वापीकूपतडागारामदेवतायतनानां प्रतिष्ठापनं व्याख्यास्यामः । तत्रोदगयन आपूर्यमाणपक्षे पुण्याहे तिथिवारनक्षत्रकरणे च गुणान्विते तत्र वारुणं यवमयं चरुं श्रपयित्वाज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति त्वं नो अग्न इमं मेवरुण तत्वायाभि येते शतमयाश्चाग्न उदुत्तममुरुं हि राजा वरुणस्योत्तभ्भनमग्नेरनीकमिति दशर्चं हुत्वा स्थालीपाकस्य जुहोत्यग्नये स्वाहा सोमाय स्वाहा वरुणाय स्वाहा यज्ञाय स्वाहोग्राय स्वाहा भीमाय स्वाहा शतक्रतवे स्वाहा व्युष्ट्यै स्वाहा स्वर्गाय स्वाहेति यथोक्तं स्विष्टकृत् प्राशनान्ते जलचराणि क्षिप्त्वाऽलंकृत्य गां तारयित्वा पुरुषसूक्तं जपन्नाचार्याय
वरं दत्वा कर्णवेष्टकौ वासांसि धेनुर्दक्षिणा ततो ब्राह्मणभोजनम्

अथातः शौचविधिं व्याख्यास्यामो दूरं गत्वा दूरतरं गत्वा यज्ञोपवीतं शिरसि दक्षिणकर्णे वा धृत्वा तृणमन्तर्धान कृत्वोपविश्याहनीत्युत्तरतो निशायां दक्षिणत उभयोः संध्ययोरुदङ्मुखो नाग्नौ न गोसमीपे नाप्सु नागे वृक्षमूले चतुष्पथे गवाङ्गोष्ठे देवब्राह्मणसंनिधौ दहनभूमिं भस्माच्छन्नं देशं फालकृष्टभूमिं च वर्जयित्वा मूत्रपुरीषे कुर्यात् । ततः शिश्नं गृहीत्वोत्थायाद्भिः शौचं गन्धलेपहरं विदध्यात् । लिङ्गे देया सकृन्मृद्वै त्रिवारं गुदे दशधा वामपाणावुभयोः सप्तवारं मृत्तिकां दद्यात् । करयोः पादयोः सकृत्सकृदेव मृत्तिका देयेति शौचं गृहस्थानां द्विगुणम् ब्रह्मचारिणां त्रिगुणं वनस्थानां चतुर्गुणम् यतीनामिति ।
यद्दिवा विहितं शौचं तदर्धं निशाया भवति मार्गे चेत्तदर्धमार्त्तश्चेद्यथाशक्ति कुर्यात् १
प्रक्षालितपाणिपादः शुचौ देश उपविश्य नित्यं बद्धशिखी यज्ञोपवीती प्रागुदङ्मुखो वा भूत्वा जान्वोर्मध्ये करौ कृत्वाऽशूद्रानीतोदकैर्द्विजातयो यथाक्रमं हृत्कण्ठतालुगैराचामन्ति । न तधिन्नोष्ठेन न विरलाङ्गुलिभिर्न तिष्ठन्नैव हसन्नापि फेनबुद्बुदयुतम् । ब्रह्मतीर्थेन त्रिः पिबेत् द्विः परिमृजेत् । ब्राह्मणस्य दक्षिणहस्ते पञ्चतीर्थानि भवन्ति अङ्गुष्ठमूले ब्रह्मतीर्थं कनिष्ठिकांगुलिमूले प्रजापतितीर्थं तर्जन्यङ्गुष्ठमध्यमूले पितृतीर्थमङ्गुल्यग्रे देवतीर्थं मध्येऽग्नितीर्थमित्येतानि तीर्थानि भवन्ति २
प्रथमं यत्पिबति तेन ऋग्वेदं प्रीणाति द्वितीयं यत्पिबति तेन यजुर्वेदं प्राणाति तृतीयं यत्पिबति तेन सामवेदं प्रीणाति चतुर्थं यदि पिबेत्तेनाथर्ववेदेतिहासपुराणानि प्रीणाति यदङ्गुलिभ्यः स्रवति तेन नागयक्षकुबेराः सर्वे वेदाः प्रीणन्ति यत्पादाभ्युक्षणं पितरस्तेन प्रीणन्ति यन्मुखमुपस्पृशत्यग्निस्तेन प्रीणाति यन्नासिके उपस्पृशति वायुस्तेन प्रीणाति यच्चक्षुरुपस्पृशति सूर्यस्तेन प्रीणाति यच्छ्रोत्रमुपस्पृशति दिशस्तेन प्रीणन्ति यन्नाभिमुपस्पृशति ब्रह्मा तेन प्रीणाति यद्धृदयमुपस्पृशति तेन परमात्मा प्रीणाति यच्छिर उपस्पृशति रुद्रस्तेन प्रीणाति यद्बाहू उपस्पृशति विष्णुस्तेन प्रीणाति मध्यमानामिकया मुखं तर्जन्यङ्गुष्ठेन नासिकां मध्यमाङ्गुष्ठेन चक्षुषी अनामिकाङ्गुष्ठेन श्रोत्रं कनिष्ठिकाङ्गुष्ठेन नाभिं हस्तेन हृदयम् सर्वाङ्गुलिभिः शिर इत्यसौ सर्वदेवमयो ब्राह्मणो देहिनामित्याह इत्येवं शौचविधिं कृत्वा ब्रह्मलोके महीयते ब्रह्मलोके महीयते इत्याह भगवान् कात्यायनः
इति कात्यायनकृतं परिशिष्टशौचसूत्रं समाप्तम्

अथातो नित्यस्नानं नद्यादौ मृद्गोमयकुशतिलसुमनस आहृत्योदकान्तं गत्वा शुचौ देशे स्थाप्य प्रक्षाल्य पाणिपादं कुशोपग्रहो बद्धशिखी यज्ञोपवीत्याचम्योरुंहीति तोयमामन्त्र्यावर्तयेद्येतेशतमिति सुमित्रियान इत्यपोऽञ्जलिनादाय दुर्मित्रिया इति द्वेष्यं प्रति निषिञ्चेत्कटिं बस्त्यूरू जङ्घे चरणौ करौ मृदा त्रिस्त्रिः प्रक्षाल्याचम्य नमस्योदकमालभेदङ्गानि मृदेदं विष्णुरिति सूर्याभिमुखो निमज्जोदापो अस्मानिति स्नात्वोदिदाभ्य इत्युन्मज्य निमज्योन्मज्याचम्य गोमयेन विलिम्पेन्मानस्तोक इति ततोऽभिषिञ्चेदिमम्मे वरुणेति चतसृभिर्माप उदुत्तम मुञ्चन्त्ववभृथेत्यन्ते चैतन्निमज्योन्मज्याचम्य दर्भैः पावयेदापो हिष्ठेति तिसृभिरिदमापो हविष्मतीर्द्देवीराप इति द्वाभ्यामपोदेवाद्रुपदादिव शन्नो देवीरपां रसमपोदेवीः पुनन्तुमेति नवभिश्चित्पतिर्मेत्योङ्कारेण व्याहृतिभिर्गायत्र्या चादावन्ते चान्तर्जलेऽघमर्षणं त्रिरावर्त्तयेद् द्रुपदादिवायङ्गौरिति वा
तृचं प्राणायामं वा सशिरसमोमिति वा विष्णोर्वा स्मरणम् १

उत्तीर्य धौते वाससी परिधाय मृदोरूकरौ प्रक्षाल्याचम्य त्रिरायम्यासून् पुष्पाण्यम्बुमिश्राण्यूर्द्ध्वं क्षिप्त्वोर्ध्वबाहुः सूर्यमुदीक्षन्नुद्वयमुदुत्यं चित्रं तच्चक्षुरिति गायत्र्या च यथाशक्ति विभ्राडित्यनुवाकपुरुषसूक्तशिवसङ्कल्पमण्डलब्राह्मणैरित्युपस्थाय प्रदक्षिणीकृत्य नमस्कृत्योपविशेत् दर्भेषु दर्भपाणिः
स्वाध्यायं च यथाशक्त्यादावारभ्य वेदम् २

ततस्तर्पयेद्ब्रह्माणं पूर्वं विष्णुं रुद्रं प्रजापतिं देवांश्छन्दांसि वेदानृषीन् पुराणाचार्यान् गन्धर्वानितराचार्यान्त्संवत्सरम् च सावयवं देवीरप्सरसो देवानुगान्नागान्सागरान्पर्वतान्सरितो मनुष्यान् यक्षान् रक्षांसि पिशाचान्त्सुपर्णान् भूतानि पशून् वनस्पतीनोषधीर्भूतग्रामश्चतुर्विधस्तृप्यतामिति ॐकारपूर्वं ततो निवीती मनुष्यान् । सनकं च सनन्दनं तृतीयं च सनातनम् । कपिलमासुरिञ्चैव वोढुं पञ्चशिखं तथा । ततोऽपसव्यं तिलमिश्रं कव्यवाडनलं सोमं यममर्यमणमग्निष्वात्तान् सोमपो बर्हिषदो यमांश्चैके । यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च । औदुम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नम इति एकैकस्य तिलैर्मिश्रांस्त्रींस्त्रीन्दद्याज्जलाञ्जलीन् । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति जीवत्पितृकोऽप्येतानन्यांश्चेतर उदीरतामङ्गिरस आयन्तुन ऊर्ज्जंवहन्ती पितृभ्यो येचेह मधुव्वाता इति तृचञ्जपन् प्रसिञ्चेत्तृप्यध्वमिति त्रिर्नमोव इत्युक्त्वा मातामहानां चैवं गुरुशिष्यर्त्विग्ज्ञातिबान्धवा न तर्पिता देहाद्रुधिरं पिबन्ति वासो निष्पीड्याचम्य ब्राह्मवैष्णवरौद्रसावित्रमैत्रवारुणैस्तल्लिङ्गैरर्चयेददृश्रं हंस इत्युपस्थाय प्रदक्षिणीकृत्य दिशश्च देवताश्च नमस्कृत्योपविश्य ब्रह्माग्निपृथिव्योषधिवाग्वाचस्पतिविष्णुमहद्भ्योऽद्भ्योऽपांपतये वरुणाय नम इति सर्वत्र संवर्चसेति मुखं विमृष्टे देवागातुविद इति विसर्जयेदेष
स्नानविधिरेष स्नानविधिः ३
इति श्रीकात्यायनोक्तं त्रिकण्डिकासूत्रं समाप्तम्

श्राद्धसूत्रम् अपरपक्षे श्राद्धं कुर्वीतोर्द्ध्वं वा चतुर्थ्या यदहः संपद्येत तदहर्ब्राह्मणानामन्त्र्य पूर्वेद्युर्वा स्नातकानेके यतीन् गृहस्थान् साधून्वा श्रोत्रियान् वृद्धाननवद्यान्त्स्वकर्मस्थानभावेऽपि शिष्यान्त्स्वाचारान् द्विर्नग्नशुक्लविक्लिधश्यावदन्तविद्धप्रजननव्याधितव्यङ्गिश्वित्रिकुष्ठिकुनखिवर्जमनिन्द्येनामन्त्रितो नापक्रामेदामन्त्रितो वाऽन्यदन्नं न प्रतिगृह्णीयात्स्नाताञ्च्छुचीनाचान्तान्प्राङ्मुखानुपवेश्य दैवे युग्मानयुग्मान्यथाशक्ति पित्र्ये एकैकस्योदङ्मुखान्द्वौ वा दैवे त्रीन् पित्र्य एकैकमुभयत्र वा मातामहानाञ्चैवं तन्त्रम् वा वैश्वदेविकम् । श्रद्धान्वितः श्राद्धंकुर्वीत शाकेनापि नापरपक्षमतिक्रामेन्मासि मासि वोशनमिति श्रुतेरतदहः शुचिरक्रोधनोऽत्वरितोऽप्रमत्तः सत्यवादी स्यादध्वमैथुनश्रमस्वाध्यायान्वर्जयेदावाहनादि वाग्यत ओपोस्पर्शनादामन्त्रिताश्चैवम् १

दैवपूर्वं श्राद्धं पिण्डपितृयज्ञवदुपचारः पित्र्ये द्विगुणास्तु दर्भाः पवित्रपाणिर्दद्यादासीनः सर्वत्र प्रश्नेषु पङ्क्तिमूर्द्धन्यं पृच्छति सर्वान्वासनेषु दर्भानास्तीर्य विश्वान्देवानावाहयिष्य इति पृच्छत्यावाहयेत्यनुज्ञातो विश्वेदेवास आगतेत्यनयाऽऽवाह्यावकीर्य विश्वेदेवाः शृणुतेममिति जपित्वा पितॄनावाहयिष्य इति पृच्छत्यावाहयेत्यनुज्ञात उशन्तस्त्वेत्यनयाऽऽवाह्यावकीर्यायन्तु न इति जपित्वा यज्ञियवृक्षचमसेषु पवित्रान्तर्हितेष्वेकैकस्मिन्नप आसिञ्चति शन्नोदेवीरित्येकैकस्मिन्नेव तिलानावपति तिलोऽसि सोमदैवत्यो गोसवो देवनिर्मितः । प्रत्नमद्भिः पृक्तः स्वधया पितॄँल्लोकान् प्रीणाहि नः स्वाहेति सौवर्णराजतौदुम्बरखड्गमणिमयानां पात्राणामन्यतमेषु यानि वा विद्यन्ते पत्रपुटेषु वैकैकस्यैकैकेन ददाति सपवित्रेषु हस्तेषु या दिव्या आपः पयसा संबभूवुर्या आन्तरिक्षा उत पार्थवीर्याः । हिरण्यवर्णा यज्ञियास्ता न आपः शिवाः शंस्योनाः सुहवा भवन्त्वित्यसावेषतेऽर्घ इति प्रथमे पात्रे संस्रवान्त्समवनीय पितृभ्यः स्थानमसीति न्युब्जं पात्रं निदधात्यत्र गन्धपुष्पधूपदीपवाससां च प्रदानम् २

उद्धृत्य घृताक्तमन्नं पृच्छत्यग्नौ करिष्य इति कुरुष्वेत्यनुज्ञातः पिण्डपितृयज्ञवद्धुत्वा हुतशेषं दत्वा पात्रमालभ्य जपति पृथिवी ते पात्रं द्यौरपिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वाहेति वैष्णव्यर्चा यजुषा वाऽङ्गुष्ठमन्नेऽवगाह्यापहता इति तिलान्प्रकीर्योष्णं स्विष्टमन्नं दद्याच्छक्त्या वाश्नत्सु जपेद्व्याहृतिपूर्वाङ्गायत्रीं सप्रणवां सकृत्त्रिर्वा राक्षोघ्नीः पित्र्यमन्त्रान्पुरुषसूक्तमप्रतिरथमन्यानि च पवित्राणि तृप्तान् ज्ञात्वाऽन्नं प्रकीर्य सकृत्सकृदपो दत्वा पूर्ववद्गायत्रीञ्जपित्वा मधुमतीर्मधुमध्विति च तृप्ताः स्थेति पृच्छति तृप्ताः स्म इत्यनुज्ञातः शेषमन्नमनुज्ञाप्य सर्वमन्नमेकतोद्धृत्योच्छिष्टसमीपे दर्भेषु त्रींस्त्रीन् पिण्डानवनेज्य दद्यादाचान्तेष्वित्येक आचान्तेषूदकं पुष्पाण्यक्षतानक्षय्योदकं च दद्यादघोराः पितरः सन्तु सन्त्वित्युक्ते गोत्रं नो वर्धतां वर्धतामित्युक्ते दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च । श्रद्धा च नो माव्यगमद्बहुधेयं च नोऽस्त्वित्याशिषः प्रतिगृह्य स्वधावाचनीयान्त्सपवित्रान् कुशानास्तीर्य स्वधां वाचयिष्य इति पृच्छति वाच्यतामित्यनुज्ञातः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यश्च स्वधोच्यतामित्यस्तु स्वधेत्युच्यमाने स्वधावाचनीयेष्वपो निषिञ्चति ऊर्ज्जमित्युत्तानं पात्रं कृत्वा यथाशक्ति दक्षिणां दद्याद् ब्राह्मणेभ्यो विश्वेदेवाः प्रीयन्तामिति दैवे वाचयित्वा वाजेवाजेवतेति विसृज्यामावाजस्येत्यनुव्रज्य
प्रदक्षिणीकृत्योपविशेत् ३

अथैकोद्दिष्टमेकोऽर्घ एकं पवित्रमेकः पिण्डो नावाहनं नाग्नौकरणं नात्र विश्वेदेवाः स्वदितमिति तृप्तिप्रश्नः । सुस्वदितमितीतरे ब्रूयुरुपतिष्ठतामित्यक्षय्यस्थानेऽभिरम्यतामिति विसर्गोऽभिरताः स्म इतीतरे ४

ततः संवत्सरे पूर्णे त्रिपक्षे द्वादशाहे वा यदहर्वा वृद्धिरापद्येत चत्वारि पात्राणि सतिलगन्धोदकानि पूरयित्वा त्रीणि पितॄणामेकं प्रेतस्य । प्रेतपात्रं पितृपात्रेष्वासिञ्चति ये समाना इति द्वाभ्याम् । एतेनैव पिण्डो व्याख्यातः । अत
ऊर्द्धं संवत्सरे संवत्सरे प्रेतायान्नं दद्यात् यस्मिन्नहनि प्रेतः स्यात् ५

आभ्युदयिके प्रदक्षिणमुपचारः पूर्वाह्णे पित्र्यमन्त्रवर्जं जप ऋजवो दर्भा यवैस्तिलार्थाः संपन्नमिति तृप्तिप्रश्नः सुसंपन्नमितीतरे ब्रूयुर्दधिबदराक्षतमिश्राः पिण्डा नान्दीमुखान् पितॄनावाहयिष्य इति पृच्छत्यावाहयेत्यनुज्ञातो नान्दीमुखाः पितरः प्रीयन्तामित्यक्षय्यस्थाने नान्दीमुखान् पितॄन्वाचयिष्य इति पृच्छति वाच्यतामित्यनुज्ञातो नान्दीमुखाः पितरः पितामहाः प्रपितामहा मातामहाः प्रमातामहा वृद्वप्रमातामहाश्च प्रीयन्तामिति न स्वधां प्रयुञ्जीत
युग्मानाशयेदत्र ६

अथ तृप्तिर्ग्राम्याभिरोषधीभिर्मासं तृप्तिस्तदभाव आरण्याभिर्मूलफलैरोषधीभिर्वा सहान्नेनोत्तरास्तर्पयन्ति छागोस्रमेषानालभ्य क्रीत्वा लब्ध्वा वा न स्वयंमृतानाहृत्य पचेन्मासद्वयं तु मत्स्यैर्मासत्रयं तु हारिणेन चतुरऽऔरभ्रेण पञ्च शाकुनेन षट् छागेन सप्त कौर्मेणाष्टौ वाराहेण नव मेषमांसेन दश माहिषेणैकादश पार्षतेन संवत्सरं तु गव्येन पयसा पायसेन वा वार्ध्रीणसमांसेन द्वादश वर्षाणि ७


अथाक्षय्यतृप्तिः खड्गमांसं कालशाकं लोहच्छागमांसं मधु महाशल्को वर्षासु मघाश्राद्धंहस्तिच्छायायाञ्च मन्त्राध्यायिनः पूताः शाखाध्यायी षडङ्गविज्ज्येष्ठसामगो गायत्रीसारमात्रोऽपि पञ्चाग्निः स्नातकस्त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णी द्रोणपाठको ब्रह्मोढापुत्रो वागीश्वरो याज्ञिकश्च नियोज्या अभावेऽप्येकं वेदविदं पङ्क्तिमूर्धनि नियुञ्ज्यात् आसहस्रात्पङ्क्तिं पुनातीति वचनात् ८

अथ काम्यानि भवन्ति स्त्रियोऽप्रतिरूपाः प्रतिपदि द्वितीयायां स्त्रीजन्माश्वास्तृतीयायां चतुर्थ्यां क्षुद्रपशवः पुत्राः पञ्चम्यां द्यूतर्द्धिः षष्ठ्यां कृषिः सप्तम्यां वाणिज्यमष्टम्यामेकशफं नवम्यां दशम्यां गावः परिचारका एकादश्यां धनधान्यानि द्वादश्यां कुप्यं हिरण्यं ज्ञातिश्रैष्ठ्यं च त्रयोदश्यां युवानस्तत्र म्रियन्ते
शस्त्रहतस्य चतुर्द्दश्याममावास्यायां सर्वमित्यमावास्यायां सर्वमिति १

भोजनसूत्रम् वन्दे श्रीदक्षिणामूर्त्तिं सच्चिदानन्दविग्रहम् । सर्वार्थानां प्रदातारं शिवादेहार्धधारिणम् १
अथातः श्रुतिस्मृतीरनुसृत्य भोजनविधिं व्याख्यास्यामः । आचान्तो धृतोत्तरीयवस्त्रो धृतश्रीखण्डगन्धपुण्ड्रो भोजनशालामागत्य गोमयेनोपलिप्य शुचौ देशे विहितपीठाधिष्ठितो नित्यं प्राङ्मुखो न दक्षिणामुखो न प्रत्यङ्मुखो न विदिङ्मुखः । श्रीकामश्चेत्प्रत्यङ्मुखः सत्यकामश्चेदुदङ्मुखो यशस्कामश्चेद्दक्षिणामुखो जीवन्मातृकवर्जं हस्तपादास्येषु पञ्चस्वार्द्रो नीवारचूर्णैर्गोमृदा भस्मनोदकेन वा मण्डलं कुर्यात् । चतुष्कोणं ब्राह्मणस्य त्रिकोणं क्षत्रियस्य मण्डलाकृति वैश्यस्याभ्युक्षणं शूद्रस्य यथा चक्रायुधो विष्णुस्त्रैलोक्यं परिरक्षति । एवं मण्डलभस्मैतत्सर्वभूतानि रक्षत्विति । तत्र भूमौ निहितपात्रेऽन्ने परिविष्टे पितुन्नुस्तोषमित्यन्नं स्तुत्वा मानस्तोके नमोवः किरिकेभ्यो नमः शंभवायेत्यभिमन्त्र्य प्रोक्षयेत् सत्यंत्वर्तेन परिषिञ्चामीति प्रातरृतं त्वा सत्येन परिषिञ्चामीति सायम् । तेजोऽसि शुक्रमस्यमृतमसीति यजुषाऽन्नमभिमृश्याग्निरस्मीत्यात्मानमग्निं ध्यात्वा भूपतये भुवनपतये भूतानां पतय इति चित्राय चित्रगुप्ताय सर्वेभ्यो भूतेभ्यो नम इति दिवा प्रणवादिकैः स्वाहानमोन्तैर्मन्त्रैः प्रतिमन्त्रं बलीन् हरेत् अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः । त्वं ब्रह्म त्वं यज्ञस्त्वं वषट्कारस्त्वमॐकरस्त्वं विष्णोः परमं पदम् । अमृतोपस्तरणमसि स्वाहेति विष्णुमन्त्रमभिध्यायन्नाचम्यान्नममृतं ध्यायन् मौनी हस्तचापल्यादिरहितो मुखे पञ्च प्राणाहुतीर्जुहोति १
प्राणाय स्वाहाऽपानाय स्वाहा व्यानाय स्वाहा समानाय स्वाहोदानाय स्वाहेति क्रमं याज्ञवल्क्यो मन्यत उदानाय स्वाहेति शौनकबौधायनौ । याज्ञवल्क्योदितक्रमो वाजसनेयिनाम् । दन्तैर्नोपस्पृशेत् । जिह्वया ग्रसेदङ्गुष्ठप्रदेशिनीमध्यमाभिः प्रथमामङ्गुष्ठमध्यमानामिकाभिर्द्वितीयामङ्गुष्ठानामिकाकनिष्ठिकाभिस्तृतीयां कनिष्ठिकातर्जन्यङ्गुष्ठैश्चतुर्थीं सर्वाभिरङ्गुलीभिः साङ्गुष्ठाभिः पञ्चमीम् । अङ्गुष्ठानामिकाग्राह्यान्ने नैता आहुतय इति हारीतव्याख्यातारः । सर्वाभिरेता इति बौधायनः । मौनं त्यक्त्वा प्राग्द्रवरूपमश्नीयान्मध्ये कठिनमन्ते पुनर्द्रवाशी स्यान्मधुरं पूर्वं लवणाम्लौ मध्ये कटुतिक्तादिकान् पश्चाद्यथासुखं भुञ्जीत भुञ्जानो वामहस्तेनान्नं न स्पृशेन्न पादौ न शिरो न बस्ति न पराभोजनं स्पृशेदेवं यथारुचि भुक्त्वा भुक्तशेषमन्नमादाय मद्भुक्तोच्छिष्टशेषं ये भुञ्जते पितरोऽधमाः । तेषामन्नं मया दत्तमक्षय्यमुपतिष्ठतु इति पितृतीर्थेन दत्वाऽमृतापिधानमसि स्वाहेति हस्तगृहीतानामपामर्धं पीत्वाऽर्धं भूमौ निक्षिपेत् । रौरवे पूयनिलये पद्मार्बुदनिवासिनाम् । अर्थिनां सर्वभूतानामक्षय्यमुपतिष्ठत्विति तस्माद्देशादपसृत्य गण्डूषशलाकादिभिस्तर्जनीवर्जमास्यं शोधयेत् २
न भार्यादर्शनेऽश्नीयान्न भार्यया सह न संध्ययोर्न मध्यान्हे नार्धरात्रे नायज्ञोपवीती नाऽऽर्द्रशिरा नाद्रवासा नैकवासा न शयानो न ताम्रभाजने न भिन्ने न राजतसौवर्नशङ्खस्फाटिककांस्यभाजनवर्जं न लौहे न मृन्मये न संधिसंस्थिते न भुवि न पाणौ न सर्वभोजी स्यात्किंचिद्भोज्यं परित्यजेदन्यत्र घृतपायसदधिसक्तुपललमधुभ्यः साध्वाचान्तो दक्षिणपादाङ्गुष्ठे पाणिं निःस्रावयेदङ्गुष्ठमात्रः पुरुषो अङ्गुष्ठं च समाश्रितः । ईशः सर्वस्य जगतः प्रभुः प्रीणातु विश्वभुगिति श्वात्राः पीता इति नाभिमालभेत अमृता इत्यतः प्रागगस्त्यं वैनतेयं च शनिं च वडवानलम् । आहारपरिणामार्थं स्मरेद्भीमं च पञ्चममित्युदरमालभ्य शर्यातिं च सुकन्यां च च्यवनं शक्रमश्विनौ । भोजनान्ते स्मरेन्नित्यं तस्य चक्षुर्न हीयत इति स्मृत्वा मुखशुद्धिं कुर्यान्नमो भगवते वाजसनेयाय
याज्ञवल्क्याय नमो भगवते वाजसनेयाय याज्ञवल्क्याय ३

अथ श्री६
योगीश्वरद्वादशनामानि
वन्देऽहं मङ्गलात्मानं भास्वन्तं वेदविग्रहम्
याज्ञवल्क्यं मुनिश्रेष्ठं जिष्णुं हरिहरप्रभम् १
जितेन्द्रियं जितक्रोधं सदा ध्यानपरायणम्
आनन्दनिलयं वन्दे योगानन्दं मुनीश्वरम् २
एवं द्वादश नामानि त्रिसंध्यं यः पठेन्नरः
योगीश्वरप्रसादेन विद्यावान्धनवान् भवेत् ३

"https://sa.wikisource.org/w/index.php?title=पारस्करगृह्यसूत्रम्&oldid=371658" इत्यस्माद् प्रतिप्राप्तम्