पाणिनीयशिक्षा/प्रथमखण्डः

विकिस्रोतः तः
(पाणिनीयशिक्षा/प्रथमाखण्डः इत्यस्मात् पुनर्निर्दिष्टम्)
पाणिनीयशिक्षा
खण्डः १
पाणिनी
खण्डः २ →

अथ शिक्षां प्रवक्ष्यामि पाणिनीयं मतं यथा ।
शास्त्रानुपूर्वं तद्विद्याद्यथोक्तं लोकवेदयोः ।। १ ।।

प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः ।
पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् ।। २ ।।

त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शम्भुमते मताः ।
प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा ।। ३ ।।

स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः ।
यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ।। ४ ।।

अनुस्वारो विसर्गश्च „एक „एपौ चापि पराश्रितौ ।।
दुःस्पृष्टश्चेति विज्ञेयो ऌकारः प्लुत एव च ।। ५ ।।१ ।।