पाणिनीयशिक्षा/प्रथमखण्डः
दिखावट
पाणिनीयशिक्षा खण्डः १ पाणिनी |
खण्डः २ → |
अथ शिक्षां प्रवक्ष्यामि पाणिनीयं मतं यथा ।
शास्त्रानुपूर्वं तद्विद्याद्यथोक्तं लोकवेदयोः ।। १ ।।
प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः ।
पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् ।। २ ।।
त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शम्भुमते मताः ।
प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा ।। ३ ।।
स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः ।
यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ।। ४ ।।
अनुस्वारो विसर्गश्च एक एपौ चापि पराश्रितौ ।।
दुःस्पृष्टश्चेति विज्ञेयो ऌकारः प्लुत एव च ।। ५ ।।१ ।।