पाणिनीयशिक्षा/चतुर्थखण्डः

विकिस्रोतः तः
← खण्डः ३ पाणिनीयशिक्षा
खण्डः ४
पाणिनी
खण्डः ५ →

हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम् ।
उरस्यं तं विजानीयात्कण्ठ्यमाहुरसंयुतम् ।। १६ ।।

कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू ।
स्युर्मूर्धन्या ऋटुरषा दन्त्या ऌतुलसाः स्मृताः ।। १७ ।।

जिह्वामूले तु कु„ए प्रोक्तो दन्त्योष्ठ्यो वः स्मृतो बुधैः ।
ए ऐ तु कण्ठतालव्या ओ औ कण्ठोष्ठजौ स्मृतौ ।। १८ ।।

अर्धमात्रा तु कण्ठ्यस्य ऐकारैकारयोर्भवेत् ।
एकारौकारयोर्मात्रा तयोर्विवृतसंवृतम् ।। १९ ।।

संवृतं मात्रिकं ज्ञेयं विवृतं तु द्विमात्रिकम् ।
घोषा वा संवृताः सर्वे अघोषा विवृताः स्मृताः ।। २० ।।