सामग्री पर जाएँ

पवनदूतम् (वादिराजविरचितम्)

विकिस्रोतः तः
पवनदूतम्
वादिराजः
१९१६

श्रीमद्वादिचन्द्रनिर्मितं
पवनदूतकाव्यम् ।

राजा राज्ञीं खगपतिहतां नामतः श्रीसुतारां
 ध्यायंश्चित्ते जगति विदितां शीलसौभाग्यभाग्यैः
दूतं मोहात्पवनमहृदं प्राहिणोदश्चनेत्रः
 प्रायो मोहो भवति भविनां बोधशून्यत्वहेतुः ॥ १ ॥
भूम्याधारा जलगिरिनगाः साप्यधारि त्वया चे-
 त्किं तेऽसाध्यं भवति वद मे मित्र तेनार्थिभावम् ।
यातस्तस्मात्कथय कथितं योषितः क्षेममुच्चैः
 प्रायः शक्तः सकलविषयेऽशक्तिकानां हि याच्यः ॥ २ ॥
क्षित्यां नीरे हुतभुजि परव्योन्नि काले विशाले
 त्वं लोकानां प्रथममकथि प्राणसंत्राणतत्त्वम् ।
तस्माद्वातीधर चलगते तान्वियोगे हि नार्याः
 स्यान्नैवान्तर्विपुलकरुणः सत्त्वरक्षायपेक्षः ॥ ३ ॥
एते वृक्षाः सति नवधनेऽप्यत्र सर्वत्र मूमौ
 बोभूयन्ते न हि बहुफलास्त्वां विनेति प्रसिद्धिः ।
तस्मात्तांस्त्वं घनफलधनान्संप्रयच्छन्प्रकुर्याः
 प्रायः प्राप्तो भवनमतुलां पुष्टितामातनोति ॥ ४ ॥

साथै दारैर्हसितवदनैः क्रीडनासक्तचित्ता-
 शुण्डादण्डैः कलितगिरिभिर्भूरजः खोच्चपृष्ठौ ।
त्वं नागेन्द्रान्किरत उचित्तान्खस्य सङ्गेन कुर्व-
 न्यायाः प्रायो भवति महतां संगतेः पापहानिः ॥ ५ ॥
खाङ्गामोदप्रसरविजिताशेषपुष्पद्रुमाणां
 नानाभूषद्युतिचयहतप्रान्तनागीमणीनाम्
वर्नारीणां सुरतमभितः कुर्वतीनां खभर्ना
 स्वेदाम्भस्त्वं वनभुवि हरन्सौख्यहेतुः प्रभूयाः ॥ ६ ॥
मिल्लयाः शीर्षे अमरसदृशे स्थापितां स्वस्य पत्या
 तीरे नद्याः पवन रमता पुष्पमाला कुटानाम्
तां निर्गन्धां बहुसमयतः संप्रजानन्द्वितीयं
 दूरं नीत्वा नवसुसमरं स्थापयन्याहि वृक्षान् ॥ ७ ॥
वेगाद्याताः पथि तब परार्थान्विधातुः प्रकृत्या
 ये संरोधं प्रतततनवः कुर्वते गण्डशैलाः
तास्त्वं सर्वानमिनबबलैः पातयेः स्तब्धवृत्ती-
 न्केषां स्थानं भवति पुरतः स्थायिनां सद्वलानाम् ॥ ८ ॥
संतापेऽसिन्प्रबलतरणे: संज्वलद्वह्निकल्पे
 छायाक्षेत्रं तव सुदिशतो वार्मुचो नैव नाशः ।
चेतत्कारी निजबलवशात्तर्हि ते ताप उच्चै-
 र्वीर्य तस्माच्चतुरमतिना नैव सर्वत्र योज्यम् ॥ ९ ॥
व्यादायास्यं कथमपि पुरो भक्षितुं त्वां स्वपन्त्यो
 निर्वद्भालाहललवगणा दीर्घपृष्ठा गरिष्ठाः ।
तांस्त्वं हन्तुं निजसखमलं वह्निमग्रे प्रकुर्या-
 स्तेषां भीतिर्न भवति यतो मेदजेया द्विषन्तः ।। १० ॥
मार्गे श्रान्तः कथमपि तदा वाहनं चातिशोभं
 सारङ्गं त्वं ऋमितगगनं शृङ्गभिन्नाम्बुवाहम् ।

आरुह्याग्रे सुखदमतुलं वेगतः संप्रगच्छेः
 पादैर्गन्तुं न भवति सतां दूरमार्गो हि शक्यः ।। ११ ॥
स्त्रीभिः शीर्षे मधुमदकृतां संधृतां पुष्पकाना-
 मालिप्तानां वपुषि सरसैः केसरैश्चन्दनानाम्
संक्षिप्तानां श्रुतिपुटयुगे मूल्यकस्तूरिकाणां
 गृहन्गन्धं बहुमधुरिमकान्तगेहान्तराणाम् ॥ १२ ॥
पुत्रः सीतां दशमुखहृतां तावको दूरनाथां
 तत्संदेशैपितकुशलैर्जीवयामास वेगात् ।
तत्किं चित्रं त्वकामह पदे संस्थितस्तां च पैञ्ये
 प्रायः कार्ये लघुजनकृतं नाधिके चित्रकारि ॥ १३ ॥
रात्रौ स्त्रीणां सुरतसमये प्रेक्षितुं खेचराणां
 नग्नं चाङ्गं पवन सततं नेत्रदत्तानुरागम् ।
हार्म्यान्तःस्थान्प्रहततमसो दीपकान्मा विहन्याः
 प्रायः सन्तः सकलसमये रङ्गभङ्गे न शूराः ।। १४ ।।
नीरं नद्या उपकृतिकरं शोषयन्नान्धवत्या-
 स्तत्कंजानां परमिह भुवां यादसां च प्रहन्ता
तस्माद्रक्षञ्जलमविकलं येन ते धर्मराशिः
 कार्ये कार्ये परमविदुषा हिंसयैवात्र लोके ॥ १५ ॥
गच्छन्तीनां निशि पतिगृहं येऽधकारं सृजन्ति
 तास्त्वं स्त्रीणां स्थगितमबनं छादयित्वाजताराः
दूरीकुर्या विरहिविषदानम्बुवाहास्वशक्त्या
 प्रायः सन्तः शिशुतरुणिषु ह्यार्द्रचित्ता भवन्ति ॥ १६ ॥
तस्याः शुम्भत्तटभवनगस्थायिहंसांगतापं
 मन्दं यास्त्वं बहुगिरिवशात्संनिवार्यासदिष्टः
तत्पक्षैश्च द्विगुणितवपुश्चालितैश्चामरामै-
 र्भूयाः सन्तो न हि पस्कृतं चोपकारं सहन्ते ॥ १७ ॥

वध्वो विद्याधरकुलभवाः संनिसर्गैकरूपा
 यासां साम्यं ललिततनवो यान्ति नो नाककन्याः
तास्त्वं पश्यन्स्थिरतरगनिर्मा स्म भूर्मिञ्च मार्गे
 धीराः ख्यातास्त इह भुवने येऽन्तराये न भन्दाः ॥ १८ ॥
ग्रीष्मातापैर्ग्लपितवषुषामर्थिनां चातकाना-
 मुच्चास्यानां कृषिकरनृणां संददानोऽम्बु मेधः ।
याता मार्गे प्रबलबलिना नैद हन्यस्त्वयासौ
 प्रायो रक्षाः परहितकरादायिनो दत्तसाराः ॥ १९ ।।
नीला अद्रौ बहुफलघृतो मानवानामगण्या
 दाचाद्भीताः सहजकृपया ये नगा मुक्तमार्गाः ।
तांस्त्वं धुत्वा हिततनुधृतस्तत्फलैरेणवर्गा-
 न्कुर्वस्तृप्तान्पवनपदवीं योषकेष्वग्रगण्याम् ॥ २० ॥
प्राणानां तत्तरुणिविरहे कुर्बतां निर्गमें द्रा-
 ग्दक्षेहं तान्पुनरिति तनाचाशयास्थानकं च ।
मोहादित्थं पवन गमनं द्यागमं च प्रयातां
 रक्षा कार्या विततकरुणां कुर्वतात्र त्वयालम् ॥ २१ ॥
गच्छन्द्रष्टा करिणमतुल देवराजस्य मार्गे
 साधोः सारं चरणयुमलं वन्दितुं वागतस्य ।
शुण्डावातैर्गिरितटनगान्पालयन्तं प्रचण्डै-
 र्भूमौ शश्वनिजतनुभरात्पीडयन्तं फणीशम् ॥ २२ ॥
त्वं गङ्गाया जललवकणैस्तत्तटावर्तिपुष्पै-
 र्मुक्तारूपैः समदमधुपोद्भुतशङ्कारसारैः
भूत्वा शीतः परिमलतनुस्तन्नगैश्चातवेगो
 हन्या ध्याने निहतमनसां योगिनां बुद्ध्यातायम् ॥ २३ ॥
शाटी भूमेर्विपिनवसतेर्योगिमः किं जटा वा
 के निर्मोको घरफणिनश्चागतस्यात्र लोके ।

कि निःश्रेणिः शिखरपदवीं गन्तुकामस्स चाद्रे-
 र्गङ्गां दृष्ट्वा सुतटनटतो भाविनी तेऽत्र शङ्का ॥ २४ ॥
भूयो द्रष्टा जगदधिपतेरालयं तीर्थकर्तु-
 स्तीक्ष्णैः शृङ्गैर्हतधनपतद्वारिसंसिक्तदेहम् ।
नृत्यच्छका तनुकरकजोद्भूतरेणुभ्रमौषं
 प्रान्तोद्यानावनिभवखगध्वानदत्तप्ररावम् ॥ २५ ॥
भीमाटव्यानमरवनितास्पर्धिरूपाभिमाना
 वेणीबन्धप्रथितकुसुमा भूर्जपत्रापवस्त्राः-
गुञ्जायुक्ततृणमणिगला यत्र भिल्लादिनार्य-
 स्तास्त्वं पश्येर्यदि हि भवतो दृष्टिसृष्टिश्च देवान् ॥ २६ ॥
गच्छेर्वन्दंस्त्वमपि शमिनः संजयं तस्य साधोः
 पादौ नन्तुं निजगृहमणैः खेचरैरापतद्भिः ।
सिद्धौ यत्र वलनजटिनः साधयामास पुत्रो
 ज्वालामाली खगगणनतामर्ककीर्तिर्महौजाः ।। २७
तत्संदृष्टेर्भवतु भवतो विघ्नराशेः प्रहाणिः
 सद्यश्चोग्रायुधगणकराः शत्रवो यान्तु नाशम् ।
भूयाद्भूयः प्रतिपदमलं मङ्गलं मन्जुलं च
 प्राप्तोदन्तः पुनरिह मया सौख्यदः संगमस्ते ॥ २८ ॥
दुःखानि त्वं समगतवधोर्मित्र जानासि सम्य-
 विश्वप्राणः श्रिततनुमता वृद्धकारुण्यभावः ।
तस्मात्तेऽहं पदमुपगतः सर्वलोकानपेक्षा
 कृत्यं ते यद्भवति सदयं तत्त्वयापादनीयम् ॥ २९ ॥
सद्यः कार्ये कृतमिह नृणां दत्तमाह्लादकारि
 तस्माच्छीघ्रं पवन मनसः साधयेष्टं प्रगम्य
त्वत्तः कार्ये न भवति पुनर्नेति चित्तप्रतीतिः
 कालं नीत्वा विहितमिह तन्नैव चित्तं धिनोति ॥ ३० ॥

म्रान्तो गच्छन्निजविधिवशात्संपतज्जीर्णकूपे
 तृण्वां दोष्णा धरति पथिकस्तं च सालं न पातुम्
तद्दुःखार्ता निजतनुमल प्रक्षिपेत्तेन साकं
 तर्हि त्वं किं जगति विदितो मेऽत्र कार्ये न कुर्याः ।। ३१ ।।
नार्यो बह्व्यः सुकुलजनुषः सन्ति मे मित्र गेहे
 सैकैव स्त्री निजवरगुणैश्चर्करीति प्रशोभाम् ।
नानादिको रविरपि तरां न प्रभात्यम्बरेऽस्मि-
 न्पूर्वा काष्ठामुदयमतुलं संददानां विहाय ॥ ३२ ॥
नार्यस्तारामनु च भुवने माग्यसौभारवक्त्यो
 नार्यस्तारामनु च भुवने शीलसंपन्निवासाः
नार्यस्तारामनु च भुवने भर्तृभक्त्येकरागा
 नार्यस्तारामनु च भुवने दीनदानप्रदात्र्यः ॥ ३३ ॥
साक्षाद्भोगस्तव शुभतनोः पापतश्चातिदूरं
 तार्ह खमे भवतु स पुनः सोऽपि मे सौख्यहेतुः
क्षीराभावे क्षुधितवपुषा तक्रकं किं न पेयं
 प्राप्तिर्भद्रं कथमपि चिरान्नैव मूलप्रहाणिः ॥ ३४ ॥
संस्मर्तुर्मे सुरतसमये पादयोस्ते नटन्तं
 सन्मञ्जीरैः श्रिततनुदवं लीलया नीलकण्ठम् ।
तत्पक्षौर्वा तनुसुखकरं स्वेदबिन्दुप्रमार्जे
 कान्ते रात्रौ कथमपि चिरान्नेत्रयोर्न्नैव निद्रा ॥ ३५ ॥
गत्यास्ते वा स्मरणमसकृद्विप्रयोगे गजेन्द्रो
 गच्छन्वेण्याः प्रविपुलवने कारयेश्चोत्फणो हिं
चित्तं कान्ते प्रततमदनं केवलं नो दुनोति
 वैसाः कञ्जोऽवघृतसुकलेश्चक्षुषोः संमुखोऽस्य ।। ३६ ॥
गौरे कण्ठे विजितजलजे तद्वियोगस्य भीत्या
 क्षिप्तो हारोऽसुरसुरमतो विद्ययाप्तो भया न ।

कुर्वे किंवा विधिविलसिताश्चाधुना दुर्निवारा-
 द्वृक्षाः शैलाः परमसरितो ह्वन्तरे संगता मे ॥ ३७ ।।
पादौ दृष्ट्वा वनभुवि तवानन्ददौ प्रेमबन्धा-
 दात्मानं खप्रणतमभितो यावदीहे प्रकर्तुम्
तावत्पुष्पैस्तरुकपिगतेः संच्युतैश्छादितौ तौ
 पापं तस्मिन्नपि न सहते संगमं सौत्यहेतुम् ॥ ३८
कृत्वा भूषां तव न च तनौ लोकयन्रूपमुच्चै-
 र्लोकेऽत्यन्तं नयनरुचिरं लोकष्टिप्रदोषम् ।
हन्तुं स्वच्छे कनकसदृशे कज्जलं तत्कपोले
 सद्यो दोषाकृतमिह मया संस्मरामि त्रिसंध्यम् ।। ३९ ।।
हस्ताङ्गी ते वरमुखि सुखं नालकेल्यौ वनेजं
 वक्षोजौ वा कटितटमलं श्यामकेशाः शिरस्याः
चक्रौ सिंह फणिरिपुकुलं निर्जयन्ति रस येशा()-
 स्तेषां स्मर्तुर्मम च विरहे रात्रयो वर्षकल्पाः ॥ १० ॥
घोरारण्यं विपुलनगरं कन्दरा स्वर्णगेहं
 शय्या पौष्पी पृथुतरशिला व्यालरत्नानि दीपाः
पर्णाधो वा विमलमशनं त्वक्तरोर्देवबासो
 जानीयास्त्वं कमलनयनादर्शने भो समायि ॥ ४१ ।।
अस्यां पुर्या मुरजजनिताः कर्णरम्या निनादाः
 प्रोत्सङ्गेहाः कनकघटिताः सूध्वजोत्तम्भिकुम्भाः ।
सा मेऽत्यन्तं सजलपरिखा तां विना दुःखबीजं
 किं वारण्यं विविधविषमा भीतिदा यत्र भावाः ॥ ४२ ॥
मा देयास्त्वं जगति सरितां देहिनां जन्म मार्त्यै
 देयास्त्वं चेत्कथमपि पुनस्तर्हि मा संप्रयोगम् ।
दत्त्वा तं भो प्रदयनिलयं मा विधेया वियोगं
 भूयो भूयस्तव पदपुरश्चेदमभ्यर्थयामि ॥ ४३ ॥

जाने प्राणान्पवनकलितान्मामकांस्तद्वियोगे
 याता नो चेत्कनकनृपतेश्चन्द्रकान्तेरिवाशु।
धितान्भूयः खजनहरणे ये प्रयान्त्युतराशां
 सत्सौख्यानां मनसि सततं चिन्तितानां हि मिथ्या ॥ ४४ ॥
विद्या निद्या परमविदुषां जीवन मेघमाला
 वृक्षालीनां कृधिरथ नृणां वारिधिर्यादसां च ।
भृत्यौघानामतुलनृपतिर्ह्यङ्गिनां भूरि वित्तं
 सूर्योऽब्जानां जगति धनदश्चार्थिनां सा तथा मे ॥ ४५ ॥
तचिन्तातः सकलविषये शून्यमासीन्मनो मे
 लसाजाने न हितमहितं किं प्रकुर्वे ह्युपायम् ।
नो वा बुद्धिः प्रसरति परा किं प्रजल्पामि वाचं
 प्रेष्यं पत्रं मम कथमथो संप्रभाषे ह्यभिज्ञाम् ॥ ४६ ।।
मदुःखात्सा श्रुतिमुपगता दुःखिनी संभवित्री-
 तस्माद्वाचं न हि तब यथा वर्तते में कमुच्चैः
किं तत्सत्यं निजमतजनो दुःखमाप्नोति येन
 तत्सत्यन्तो भवति हि मतो देहिनामिष्टसौख्यम् ॥ ४७ ॥
दानं साधौ जिनचरणयोरेकचित्ता प्रपूजा
 उग्रं किंचित्परमविधिना संतपश्चेदकारि ।
तत्सामर्थ्याद्विहितविभवान्प्राणसंत्राणहेतो-
 र्धर्मात्ते वा भवतु सुखदो योषितः संप्रदर्शः ॥ ४८ ॥
दैवाल्लब्धो वसति न सखे रत्नवर्गो हि रङ्के
 मानामुक्ताकलितमतुलं दाम कण्ठे कपीनाम् ।
वाचोयुक्तिः शठजनमुखे सज्जने प्रेमहस्ते
 नारी चैषा सुकृतवसतिर्यातपुण्याङ्कुरस्य ॥ ४ ९ ॥
वासाटव्याः समदरिपुणा जो हृतानेन चित्ता-
 द्वेदस्तस्मान्न हि हृदि परस्त्रोषवृत्तिः कथंचित् ।

तां त्वं पूर्णी कुरु निजबलैः पापविद्याधरेशं
 हत्वा युद्धे प्रबलबलिनो नो सहन्ते पराकम् ॥ ५० ॥
पात्रे दानाद्भवति विपदः संप्रहानिश्च केषां
 केषां चोग्राद्गुरुमुखकृतासनताद्वाञ्छिताप्तिः
इष्टाद्देवाद्भवति भुवने सत्रुनाशश्च केषां
 भूयादेतत्रितयमचिरादेकतस्त्वत्सुमित्रात् ।। ५१ ॥
सा मे सेना मदनविजये सारसर्वाङ्गयुक्ता
 सा मे मित्रं परमहितकृत्सर्वलोकेऽप्यनूनम् ।
सा में भूषातनुरुचिकरा सा च केल्यास्तडायः
 संतापानां सहजहरणात्सा च दृष्टिः प्रवृत्तेः ।। ५२ ॥
सा निःश्रोणिः परपदगतौ सार्गला दुःखरोधा-
 त्सा मे मन्त्रो नगरवनितादृष्टिदोषं प्रहन्तुम् ।
सा मे वल्लिर्विपुलफलदा सा सरित्रब्धिनाशा-
 त्सा मे लक्ष्मीर्विविधविभवानन्दसंसाधनाच्च ।। ५३ ॥
चन्द्रश्चायं दहति विरहे योषितोऽङ्गं क्षपायां
 त्वद्यानं तत्प्रकृतिपुरुषस्तेन संबोधवाजम् ।
संसारे भो मम विरचितः केवलं नैव दुःखं
 सर्वेषां स्थाः कृततनुमतां चक्रनेमिक्रमेण ॥ ५४ ।।
चन्द्रश्चैको न दहति परं दुःखदस्ते मृगोऽपि
 नीचाः प्रायोः विधमगतयो मानिताः सज्जनैश्च ।
नाहं चैको रघुपतिरपि श्रीनाथोऽपि नेयिः
 के केऽनेन प्रवरमनुजाः कष्टमार्गे न नीताः ।। ५५ ।।
गोपः कामं जनयति शठी लोकसंतापहेतो-
 र्धीमानीशो जगदुपकृतौ तं प्रहन्ति स मुक्त्वा ।
चन्द्रं चैषा परविकलता कुत्र तस्य प्रजाता
 प्रायः कार्ये वचिदपि पुनर्योगिनोऽपि प्रमोहाः ।। ५३ ॥

कंसो ध्वस्तो मधुरपि हतो मारितो मल्लवर्ग:
 किं तैर्लोके विहितमशुभं धातिता विष्णुनामी ।
नैतद्युक्तं कृतमिह पुरा तत्सुलोका हितेषु
 कामे चन्द्रे सरसविपिने कोकिले सद्वसन्ते ॥ ५७ ॥
भार्या दूरं मधुरपि न वा चाक्षुषो नैव रम्यं
 दृश्यं रोहं न भवतिः बने सर्वशस्या च सस्था ।
एकः पापो दहति शशभृन्मे तनुं नेत्रगम्यः
 कृष्णौ पक्षौ यदि च भवतो भाग्वतो नास्य दृष्टिः ।। ५८ ॥
क्षीरं नीरं पिबति जलधेः पङ्कमश्राति भूमे-
 र्नानाग्राहाग्रसति कठिनान्वाडवाग्निः स्वशक्त्या ।
एकं चन्द्रं किमिति सरसं देहपित्तापहारं
 दुष्टात्मानं भुवि विरहिणो नैव तं जन्मशत्रुम् ॥ ५९ ॥
लब्धं चन्द्रं वदनकुहरे दैवतो राहुरेष
 कस्मान्मुञ्चेज्जठरपिठरे नास्ति किंचित्प्रबोधः ।
चेद्वा मुञ्चेत्कथमिह पुनः शंभुना स्थाप्यते के
 निखापो यः सृजति विपदं किं न लब्धप्रविष्टः ॥ ६० ॥
ताबच्चन्द्रो भ्रमतु गगने दीनवका वियोगं
 द्युच्चैः स्वैरं लपतु परभृद्यावदस्या न गीतिः ।
तावच्छोभा भवतु कमले नेत्रयोः कज्जलं नो
 युष्मद्भाग्यादिह परमभूत्तद्धृतिः खेचरेण ।। ६१ ॥
तावत्तेजस्तपतु तपनेऽस्या न शीर्षे खचक्रं
 शेषे कान्तिर्वसतु विमला वेणिबन्धो न यावत् ।
जिष्णोश्वायं चरतु गगने सा न कौसुम्भवाना-
 स्तेषां भाग्यैरिह परमभूद्धिप्रयोगो मया सा ॥ ६२ ।।
तद्वक्रं चेज्जपति शशिनं तत्पुरः किं च कर्जं
 वेणीमानं हरपलधृतं तद्विषः किं च पिच्छम् ।

बाणान्नेत्रे मदननृपतेः खञ्जनः किं च खेट
 ओष्ठावधे रमणमभितो विद्रुमं किं च बिम्बा ॥ ६३ ॥
भृङ्गः पुष्पं जलधरजलं चातको गां प्रवत्सः
 आम्नं पक्वं पिक इव वने राजहंसस्तडागम् ।
चक्रश्चक्रीं तरुकिसलयं नागराजस्तटिन्या-
 स्तद्वत्कान्ताकलितकमला चिन्तयेद्यत्र शून्यः ॥ ६४ ॥
पुण्ये लक्ष्मीधनविकलतां पापपाके निदानं
 संयोगेऽस्या इह न हि परं संप्रपश्यामि लिङ्गम् ।
मुक्त्वा त्वां भो जगति बहुनो किं प्रवच्मि प्रवाक्यं
 कार्यो यत्नो भवतिः क्रियता येन तस्याश्च योग: ।। ६५ ।।
दानं नो मे सकलजनतारोरदावापहारि
 तीव्रं नो वा करणदमनं सत्तपोऽपि प्रसिद्धिम्
शुद्धा नो में परमकरुणा यत्प्रभावाच्च तस्या
 योगासारः पवन सुखदस्त्वां विनेति प्रजाने ।। ६६ ।।
भाग्यं लक्ष्म्याः संकलशशिनः सत्कलां श्रीजिनेशा-
 त्क्षान्तिं कीर्ति मदनजनकाद्व्रह्मणो भारतीं च ।
शीलं साधोः परमकरुणां ध्यानिनः कर्म पुंसां
 संप्रार्थ्यालं नयनदयितं तच्छरीरं व्यधायि ।। ६७ ।।
केषां श्लाघ्या विभवसंहिता भारती वाथ लक्ष्मी-
 र्वन्द्या गङ्गा जलधिजलंगा गौः प्रमान्या हि केषाम् ।
दुर्गा ध्ये या हरतनुगता शाक्तिकानां च शक्ति-
 स्तुल्या वन्द्या मम विरहिणः सैव मान्या प्रचिन्त्या ॥ ६८ ॥
अन्यस्त्रीणां हृदयहरणे वर्धितात्माभिमानः
 कस्तारावामसनिखगयो मुक्तलज्जो वराकः ।
भूमेरुर्ध्वान्तरमधिवसन्भूधरस्थापि काकः
 किं वा जायात्सुरगिरिशिरः क्षुद्रजीवाद्यगम्यम् ॥ ६९

शक्रीश्चक्री धरणफणिभृन्नैव भङ्क्तुं समर्थ-
 स्तस्याः शीलं किमिह खगराण्मेऽपरं मोहशङ्का ।
त्वं तच्छङ्कामयनय बलात्संनिधिं संप्रगम्य
 प्रायो दृष्टं भवति सकलं वस्तुमात्रं प्रमाणम् ॥ ७० ॥
आश्वास्यैवं कथितवचनैस्तच्छुचं संप्रहृत्य
 पश्चाद्गत्वामरपुरपतिं वाचमित्यं हि जल्पन् ।
किं चाज्ञातं विहितमधुना कोऽपदे तेऽनुरागः
 प्रायो लोको भवति विकलः प्राक्च मृत्योरचिन्त्यात् ।। ७१ ॥
गर्जत्यब्धे विलसति सदा चक्रचापेऽतिदीर्घे
 वाणीं मुश्चत्यथ कलगिरा कोकिलानां समूहे ।
शीतोद्गारे प्रसरति वने मार्गपक्षिबजे च
 त्यक्तुं को वा प्रभुरिह हृदो वस्तुतो वामनेत्राम् ।। ७२ ॥
उष्णान्वातान्क्षिपति दुरसा संहरत्यम्बुचक्र-
 मन्तस्तापं जनयति परं बाधयत्यम्बुजारात् ।
ग्रीष्मस्यालं सपति तपने धारयत्यम्बुतृष्णां
 तां योगीवानिशमजपदं चिन्तयामि त्रिकालम् ॥ ७३ ।।
नो वा हन्ति द्विरदमतुले शीतकाले मृगेन्द्रो
 नो वा दूर्वा चरति समजोऽप्यत्र क्षुद्रः पशूनाम् ।
यत्र प्रांतर्न पतति रुचः संनिधानेऽपि बह्ने-
 र्विप्रस्तस्मिन्मम मनसिजस्तां विना बाधतेऽङ्गम् ॥ ७४ ॥
गत्या हंसी कुवलयदलं चक्षुषा निर्जयन्त्याः
 शुभ्रत्स्वर्णद्युतिचयतनोस्तर्जितानन्तलक्ष्म्याः ।
भो ताराया विषमविरहे वैरिणां नामतुल्ये
 मृत्योर्गेहं वदि नहिं गतः सप्तक्न्मेऽमरत्वम् ।। ७५ ॥
विश्वं कुर्वन्विधिरच वरं चन्द्रमध्ये गृहीत्वा
 चक्रे तारामुखसरसिजं सेन छिद्राण्यभूवन्।

तत्र व्योमावनिजनगणैर्दृश्यते चापरस्थं
 भूमेश्छाया न मृगशाकौ नापि देहस्वभावः ॥ ७६ ॥
लोके वह्नेर्विरह्दहनं संप्रजाने गरिष्ठं
 कस्मात्प्रश्ने कृत इह जनस्तद्विशेषं ब्रवीमि
एकश्छेद्यो विपुलसलिलैर्मन्त्रवर्णैश्च कैश्चि-
 दन्यः पापो विहितविधिरप्यत्र वर्धिष्णुभावः ।। ७७ ।।
तेजोराशिं जगति दहनस्ते सखा मेऽतिदूरां
 नार्थी प्रेक्षानयति यदि नो किंनिमित्तं हि तेजः ।
प्राप्तं द्रव्यं परजनकृते नो भवेदुन्मुखं य-
 त्तस्यावश्यं किमिह महतां सर्वथा चात्मतापम् ।। ७८ ॥
यस्या दृष्टर्भवति विमदः शत्रुवर्गोऽभिमानी
 वक्रः पन्थाः सततसरलो वारिधिः स्वल्पकूपा ।
खङ्गो माला स्तभति करिराट् दस्युसंघो हि सार्थ-
 स्तां तन्मुद्रां मम करगतां तत्कराब्जे धरस्व ॥ ७९ ॥
उष्णोच्छ्वासैः शुषितवदनां शीलरक्षार्तचित्तां
 त्यक्तास्नानामसितवसनां नेत्रयुक्ताश्रुपातैः ।
त्वं तां दूनां खगपरिचितेर्मद्वपुः क्षेमवाचा
 संतोष्यारं व्यपगतशुचं सर्वथा संप्रकुर्याः ।। ८० ॥
सर्तव्योऽहं पथि च सरता येन में भद्रमुच्चै-
 र्नैवाहं त्वां कथमिति पुनः संप्रयुङ्गेऽस्तमित्रे ।
स्थाने चित्ते भवति भविनां संस्मृतिश्चित्तवृत्ति-
 स्तचित्तं मे चलितचपलं कि स्मरामि त्वयैव ।। ८१ ।।
दूर्वाटव्यां भवतु कुशलं सर्वदा चाशिषा मे
 वेगादस्मिन्विजननिपिने तेऽस्तु मे पुण्ययोगः ।
कारं कारं रिपुमदहति सांधनीयं स्वकार्ये
 किं वाच्यन्ते बहुबलवतो ज्ञातसर्वाङ्गवृत्तेः ॥ ८२ ।।

दीनं श्रुत्वा नृपतिवचनं संचचालातिवेगा-
 त्पश्यङ्रामाङ्रामान्वनगिरितटारामभूदेशभागान् ।
दृष्ट्वा शत्रोश्चकितनयनः पत्तनं भूविशेषं
 प्रायो दृष्टं जगति भविनां विस्मयादेश्च हेतुः ।। ८३ ॥
दृष्ट्वा तारां प्रमुदितमनाः संजयन्ती जिनेशं
 धिक्कुर्वाणां स्वचरवनितां शीलरत्नप्रभाभिः ।
विद्याधीशं स्मरशरवशं बन्धुवन्मानयन्ती
 चित्ते भूयो विरहविधुरं स्वं पतिं चिन्तयन्तीम् ।। ८४ ॥
दूतं मां श्रीविजयनूपतेश्चेतसा मानयस्व
 पत्या दत्तां निजकरकजे मुद्रिकां त्वं धरेमाम् ।
जानीथा भो कतिपयदिनैर्निर्जितं खेचरेशं
 जेयः शक्रो यदि हि बलिनस्ते प्रभोः कोऽन्यलोकः ॥
दीपे वह्नौ रविमणिकृते प्रोच्छल द्विस्फुलिङ्गे
 क्षेप्तुं जीवं विषमविरहादुद्यतोऽरण्यमध्ये ।
तावद्दैवादमितगतिना जानता ते हृतिं च
 प्रोक्तोदन्तं निखिलमचिराद्रक्षितः खेचरेण ॥ ८६ ॥
सस्मारक्षेमं शशिमुखि बने वर्तते स्वामिनस्ते
 योगो भावी गणितदिवसैर्नास्ति हेतुर्विलम्वे ।
तस्माद्भक्तिं कुरु च सुभगे भूषयाङ्गं स्वकीयं
 न स्युर्दुःखे परमगुणिनः कातराः संप्रजा ते ॥ ८७ ॥
अन्यां भार्यो सहज सुतनो क्रीडतो भूमिनाथा-
 जातः कोपो मनसि परमप्रीतितस्तेषु चित्ते ।
तस्माज्ज्ञात्वा विमुखवदनां त्वां प्रसन्नां प्रकर्तु
 नम्रो यावद्भवति चरणे संहतः स त्वया के ॥८८॥
पादाघातं कुसुमसदृशं मानयित्वा महीशः
 कृत्वा तेऽग्रे शपथमतुलं चान्यगेहं प्रधातुम् ।

भूयो भूयस्तव पदकजे किं न लग्नोऽत्र पातः
 स्वार्थे कर्तुं चतुरमनुजा मन्यते नापमानम् ॥ ८९ ।।
अन्तर्गूढं वचनमतुलं वायुतः संनिशम्य
 स्वीयां स्मृत्वा कृतचविकृतिं गद्गदामश्रुपातम् ।
नीचेऽवज्ञां सृजति गुणिनश्चेत्प्रपीडां कदाचि-
 त्किं वा पूज्ये प्रणयिनि जने सर्वतश्चोत्तमे च ॥ ९० ॥
स त्वदुःखादशनमतिशं नात्ति न स्नाति नैति
 विद्यां नो संस्मरति कुलजां पैतृकं नापि चापम् ।
आदत्ते नो रुचिरवचनं वक्ति पश्येन्न मृत्युं
 मृत्युं कर्तुं प्रभवति परं बन्धुभिर्वारितोऽपि ॥ ९१ ॥
गेहे तेऽसौ विरहघटिकां नैव सोढुं समर्थो
 मासं किंवा परकरगतायास्तवातिप्रसत्ता ।
नीराहूरं स्थलमिह भुवो यादसां दुःखहेतुः
 किं वा तत्र ह्यनलवशतो मुर्मुरा भासुराङ्गाः ।। ९२ ॥
तारे नारी विषभविषयासक्तचित्तप्रचारः
 किं तद्दुःखं जगति कथितं यन्न चाप्नोति जीवः ।
वाक्यं चेदं विशदमतुलं योगिनो यद्वदन्ति
 तत्ते भर्ता नयनविषयं में कृतं भुञ्ज पाकम् ।। ९३ ।।
तद्वत्त्वं भो हृदयसरले मा स्म युमन्यरेथा
 दुःखेऽवश्यं तनुरपि तरां तानवं संप्रवाति ।
संपश्यस्तत्तव च दयितः सोऽपि दीनाङ्गदीप्ति-
 स्तस्मात्त्वं चेत्स्वपरसुखदा तर्हि मुञ्चात्मपीडाम् ।। १४ ।।
चित्ते तेऽसौ प्रवसति नृपस्तर्हि किं चर्करीषि
 मिथ्याश्रूणां स्वपितवदनं संनिपातं ह्यसम्यक्
चेन्नास्तीशो हृदयवसतौ प्रेमभारः कुतस्ते
 तस्याभावे किमिति सुभगे निर्निमित्तोऽत्र शोकः ।। ९५ ।।

स्वस्थीकृत्वा तरुणितिलकं संययौ खेचरेशं
 न्यक्कुर्वन्तं चमरपक्नैरात्मनो धर्ममार्गम् ।
प्रत्यागच्छन्वननृपशिरोमौलिमाणिक्यमाभिः
 पादाब्जे स्वे मधुपरचनां संदधानं सभान्ते ।। ९६ ॥
नत्वायोचच्छृणु खगपते मामकीं सारवाचं.
 तारां हृत्वा कथमिह हृदि स्वास्थ्यमामोति मूढः ।
कुक्षौ कृत्वा विषमगरलं जीवितुं कोऽप्यधीश-
 स्तस्मात्याज्या परकुलवधूर्वाञ्छता स्वात्मभद्रम् ॥ ९७ ॥
नो क्रीडातो न हि धनमदान्नापि चाज्ञानभाषा-
 त्कामान्नो मे गजपतिगमाः सन्ति गेहे स्वचर्यः
ज्ञातुं तेजोऽप्रमितमहसो भर्तुरस्यां च युद्धे
 तेनानीता प्रवसति भुजे तत्तदा यान्तु शीघ्रम् ॥ ९८ ।।
श्रुत्वा चैतत्खगपजननी संनिवार्य स्वसूनुं
 युद्धं कर्तुं विधृतधनुषं सार्पयत्तां च तस्मै ।
साध्यासाध्यं निजमतिवशाद्ये प्रगम्य स्वकार्यं
 कुर्वन्तोऽमी क्वचिदपि जना नापमान प्रयान्ति ॥ ९९ ॥
तो लात्वा श्रीविजयनृपतेः संमुखं वागतस्य
 योद्धं सैन्यैर्जितखगरिपोः श्रीप्रभाचन्द्रकीर्तेः,
सूर्यश्चक्रीशिवविरहिणे चक्रवाकाय दत्ता
 दुष्टो वायुर्न भवति धृतिः कस्य चेष्टं प्रकर्तः ॥ १०० ॥
पादौ नत्वा जगदुपवृतावर्धसामर्थ्यवन्तौ
 विघ्नध्वान्तप्रसरतरणेः शान्तिनाथस्य भक्त्या ।
श्रोतुं चैतत्सदसि गुणिना वायुदूताभिधानं
 काव्यं चक्रे विगतवसनः स्वल्पधौर्वादिचन्द्रः ॥ १०१ ॥

इति सूरिवादिचन्द्रकृत पवनदूताभिधं काव्यं समाप्तम् ।