परिव्रात् उपनिषद् (नारदपरिव्राजक)/उपदेशः ५

विकिस्रोतः तः
← उपदेशः ४ परिव्रात् उपनिषद् (नारदपरिव्राजक)
उपदेशः ५
[[लेखकः :|]]
उपदेशः ६ →

अथ हैनं पितामहं नारदः पप्रच्च्ह
भगवन्सर्वकर्मनिवर्तकः संन्यास इति त्वयैवोक्तः
पुनः स्वाश्रमाचारपरो भवेदित्युच्यते ।
ततः पितामह उवाच ।
शरीरस्य देहिनो जाग्रत्स्वप्नसुषुप्तितुरीयावस्थाः
सन्ति तदधीनाः कर्मज्ञानवैराग्यप्रवर्तकाः
पुरुषा जन्तवस्तदनुकूलाचाराः सन्ति तथैव
चेद्भगवन्संन्यासाः कतिभेदास्तदनुष्ठानभेदाः
कीदृशास्तत्त्वतोऽस्माकं वक्तुमर्हसीति ।
तथेत्यङ्गीकृत्य तु पितामहेन संन्यासभेदैराचारभेदJ
कथमिति चेत्तत्त्वतस्त्वेक एव संन्यासः अज्ञानेनाशक्तिवशा
त्कर्मलोपश्च त्रैविध्यमेत्य वैराग्यसंन्यासो
ज्ञानवैराग्यसंन्यासः कर्मसंन्यासश्चेति
चातुर्विध्यमुपागतस्तद्यथेति दुष्टमदनाभाच्चेति
विषयवैतृष्ण्यमेत्य प्राक्पुण्यकर्मवशात्संन्यस्तः
स वैराग्यसंन्यासी शास्त्रज्ञानात्पापपुण्यलोकानुभव
श्रवणात्प्रपञ्चोपरतः क्रोधेर्ष्यासूयाहङ्कारा
भिमानात्मकसर्वसंसारं निर्वृत्य दारेषणाधनेषणा
लोकेषणात्मकदेहवासनां शास्त्रवासनां लोकवासनां
त्यक्त्वा वमनान्नमिव प्रकृतीयं सर्वमिदं हेयं मत्वा
साधनचतुष्टयसंपन्नो यः संन्यसति स एव ज्ञानसंन्यासी ।
क्रमेण सर्वमभ्यस्य सर्वमनुभूय ज्ञानवैराग्याभ्यां
स्वरूपानुसन्धानेन देहमात्रावशिष्टः संन्यस्य
जातरूपधरो भवति स ज्ञानवैराग्यसंन्यासी ।
ब्रह्मचर्यं समाप्य गृही भूत्वा वानप्रस्थाश्रममेत्य
वैराग्यभावेऽप्याश्रमक्रमानुसारेण यः
संन्यस्यति स कर्मसंन्यासी ।
ब्रह्मचर्येण संन्यस्य संन्यासाज्जातरूपधरो
वैराग्यसंन्यासी ।
विद्वत्संन्यासी ज्ञानसंन्यासी विविदिषासंन्यासी
कर्मसंन्यासी ।
कर्मसंन्यासोऽपि द्विविधः निमित्तसंन्यासोऽनिमित्तसंन्यासश्चेति ।
निमित्तस्त्वातुरः । अनिमित्तः क्रमसंन्यासः ।
आतुरः सर्वकर्मलोपः प्राणस्योत्क्रमणकालसंन्यासः
स निमित्तसंन्यासः ।
दृढाङ्गो भूत्वा सर्वं कृतकं नश्वरमिति देहादिकं
सर्वं हेयं प्राप्य ।
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिधिर्दुरोणसत् ।
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ।
ब्रह्मव्यतिरिक्तं सर्वं नश्वरमिति निश्चित्याथो क्रमेण यः संन्यस्यति
स संन्यासोऽनिमित्तसंन्यासः ।
संन्यासः षड्विधो भवति ।
कुटीचको बहूदको हंसः परमहंसः तुरीयातीतोऽवधूतश्चेति ।
कुटीचकः शिखायज्ञोपवीती दण्डकमण्डलुधरः कौपीनकन्थाधरः
पितृमातृगुर्वाराधनपरः पिठरखनित्रशिक्यादिमन्त्रसाधनपर
एकत्रान्नादनपरः श्वेतोर्ध्वपुण्ड्रधारी त्रिदण्डः ।
बहूदकः शिखादिकन्थाधरस्त्रिपुण्ड्रधारी कुटीचकवत्सर्वसमो
मधुकरवृत्त्याष्टकवलाशी हंसो जटाधारी त्रिपुण्ड्रोर्ध्वपुण्ड्रधारी
असंक्लृप्तमाधुकरान्नाशी कौपीनखण्डतुण्डधारी ।
परमहंसः शिखायज्ञोपवीतरहितः पञ्चगृहेश्वेकरात्रान्नादनपरः
करपात्री एककौपीनधारी शाटीमेकामेकं वैणवं दण्डमेकशाटीधरो
वा भस्मोद्धूलनपरः सर्वत्यागी ।
तुरीयातीतो गोमुखः फलाहारी । अन्नाहारी चेद्गृहत्रये देहमात्रावशिष्टो
दिगंबरः कुणपवच्च्हरीरवृत्तिकः ।
अवधूतस्त्वनियमोऽभिशस्तपतितवर्जनपूर्वकं सर्ववर्णेष्वजगर
वृत्त्याहारपरः स्वरूपानुसन्धानपरः ।
आतुरो जीवति चेत्क्रमसंन्यासः कर्तव्यः
कुटीचकबहूदकहंसानां ब्रह्मच
र्याश्रमादितुरीयाश्रमवत् कुटीचकादीनां
संन्यासविधिः ।
परमहंसादित्रयाणां न कटीसूत्रं न कौपीनं
न वस्त्रं न कमण्डलुर्न दण्डः सार्ववर्णैक
भैक्षाटनपरत्वं जातरूपधरत्वं विधिः ।
संन्यासकालेऽप्यलंबुद्धिपर्यन्तमधीत्य
तदनन्तरं कटीसूत्रं कौपीनं दण्डं वस्त्रं
कमण्डलुं सर्वमप्सु विसृज्याथ जातरूपधरश्चरेन्न
कन्थावेशो नाध्येतव्यो न श्रोतव्यमन्यत्किञ्चित्प्रणवादन्यं
न तर्कं पठेन्न शब्दमपि बृहच्च्हब्दान्नाध्यापयेन्न
महद्वाचोविग्लापनं गिरा पाण्यादिना संभाषणं
नान्यस्माद्वा विशेषेण न शूद्रस्त्रीपतितोदक्यासंभाषणं
न यतेर्देवपूजा नोत्सवदर्शनं तीर्थयात्रावृत्तिः ।
पुनर्यतिविशेषः ।
कुटीचस्यैकत्र भिक्षा बहूदकस्यासंक्लृप्तं
माधुकरं हंसस्याष्टगृहेष्वष्टकवलं
परमहंसस्य पञ्चगृहेषु करपात्रं
फलाहारो गोमुखं तुरीयातीतस्यावधूतस्याजगरवृत्तिः
सार्ववर्णिकेषु यतिर्नैकरात्रं वसेन्न कस्यापि
नमेत्तुरीयातीतावधूतयोर्न ज्येष्ठो यो न स्वरूपज्ञः
स ज्येष्ठोऽपि कनिष्ठो हस्ताभ्यां नद्युत्तरणं
न कुर्यान्न वृक्षमारोहेन्न यानादिरूढो न
क्रयविक्रयपरो न किञ्चिद्विनिमयपरो न दाम्भिको
नानृतवादी न यतेः किंचित्कर्तव्यमस्त्यस्तिचेत्सांकर्यम् ।
तस्मान्मननादौ संन्यासिनामधिकारः ।
आतुरकुटीचकयोर्भूर्लोको बहूदकस्य
स्वर्गलोको हंसस्य तपोलोकः परमहंसस्य
सत्यलोकस्तुरीयातीतावधूतयोः स्वात्मन्येव
कैवल्यं स्वरूपानुसन्धानेन भ्रमरकीटन्यायवत् ।
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेव समाप्नोति नान्यथा श्रुतिशासनम् ।
तदेवं ज्ञात्वा स्वरूपानुसन्धानं विनान्यथाचारपरो
न भवेत्तदाचारवशात्तत्तल्लोकप्राप्तिर्ज्ञान
वैराग्यसंपन्नस्य स्वस्मिन्नेव मुक्तिरिति न सर्वत्राचारप्रसक्ति
स्तदाचारः । जाग्रत्स्वप्नसुषुप्तेष्वेकशरीरस्य जाग्रत्काले
विश्वः स्वप्नकाले तैजसः सुषुप्तिकाले प्राज्ञः
अवस्थाभेदादवस्थेश्वरभेदः कार्यभेदात्कारणभेदस्तासु
चतुर्दशकारणानां बाह्यवृत्तयोऽतर्वृतयस्तेषा
मुपादानकारणम् ।
वृत्तयश्चत्वारः मनोबुद्धिरहङ्कारश्चित्तं चेति ।
तत्तद्वृत्तिव्यापारभेदेन पृथगाचारभेदः ।
नेत्रस्थं जागरितं विद्यात्कण्ठे स्वप्नं समाविशत् ।
सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम् ।
तुरीयमक्षरमिति ज्ञात्वा जागरिते सुषुप्त्यवस्थापन्न
इव यद्यच्च्हृतं यद्यदृष्टं तत्सत्सर्वमविज्ञातमिव
यो वसेत्तस्य स्वप्नावस्थायामपि तादृगवस्था भवति ।
स जीवन्मुक्त इति वदन्ति । सर्वश्रुत्यर्थप्रतिपादनमपि तस्यैव
मुक्तिरिति । भिक्षुर्नैहिकामुष्मिकापेक्षः । यद्यपेक्षास्ति
तदनुरूपो भवति । स्वरूपानुसन्धानव्यतिरिक्तान्यशास्त्रा
भ्यासैरुष्ट्रकुङ्कुमभारवद्व्यर्थो न योगशास्त्र
प्रवृत्तिर्न साङ्ख्यशास्त्राभ्यासो न मन्त्रतन्त्रव्यापारः ।
इतरशास्त्रप्रवृत्तिर्यतेरस्ति चेच्च्हवालङ्कारवच्चर्मकारव
दतिविदूरकर्माचारविद्यादूरो न प्रणवकीर्तनपरो यद्यत्कर्म
करोति तत्तत्फलमनुभवति एरण्डतैलफेनवदतः सर्वं परित्यज्य
तत्प्रसक्तं मनोदण्डं करपात्रं दिगम्बरं दृष्ट्वा
परिव्रजेद्भिक्षुः । बालोन्मत्तपिशाचवन्मरणं जीवितं वा न
काङ्क्षेत कालमेव प्रतीक्षेत निर्देशभृतकन्यायेन परिव्राडिति ।
तितिक्षाज्ञानवैराग्यशमादिगुणवर्जितः ।
भिक्षामात्रेण जीवि स्यात्स यतिर्यतिवृत्तिहा ॥ १॥

न दण्डधारणेन न मुण्डनेन न वेषेण न दम्भाचारेण
मुक्तिः । ज्ञानदण्डो धृतो येन एकदण्डी स उच्यते ।
काष्ठदण्डो धृतो येन सर्वाशी ज्ञानवर्जितः ।
स याति नरकान्घोरान्महारौरवसंज्ञितान् ॥ २॥

प्रतिष्ठा सूकरीविष्ठासमा गीता महर्षिभिः ।
तस्मादेनां परित्यज्य कीटवत्पर्यटेद्यतिः ॥ ३॥

अयाचितं यथालाभं भोजनाच्च्हादनं भवेत् ।
परेच्च्हया च दिग्वासाः स्नानं कुर्यात्परेच्च्हया ॥ ४॥

स्वप्नेऽपि यो युक्तः स्याज्जाग्रतीव विशेषतः ।
ईदृक्चेष्टः स्मृतः श्रेष्ठो वरिष्ठो ब्रह्मवादिनाम् ॥ ५॥

अलाभे न विषादी स्याल्लाभे चैव न हर्षयेत् ।
प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ॥ ६॥

अभिपूजितलाभांश्च जुगुप्सेतैव सर्वशः ।
अभिपूजितलाभैस्तु यतिर्मुक्तोऽपि बध्यते ॥ ७॥

प्राणयात्रानिमित्तं च व्यङ्गारे भुक्तवज्जने ।
काले प्रशस्ते वर्णानां भिक्षार्थं पर्यटेद्गृहान् ॥ ८॥

पाणिपात्रश्चरन्योगी नासकृद्भैक्षमाचरेत् ।
तिष्ठन्भुञ्ज्याच्चरन्भुञ्ज्यान्मध्येनाचमनं तथा ॥ ९॥

अब्धिवद्धृतमर्यादा भवन्ति विशादाशयाः ।
नियतिं न विमुञ्चन्ति महान्तो भास्करा एव ॥ १०॥

आस्येन तु यदाहारं गोवन्मृगयते मुनिः ।
तदा समः स्यात्सर्वेषु सोऽमृतत्वाय कल्पते ॥ ११॥

अनिन्द्यं वै व्रजन्गेहं निन्द्यं गेहं तु वर्जयेत् ।
अनावृते विशेद्द्वारि गेहे नैवावृते व्रजेत् ॥ १२॥

पांसुना च प्रतिच्च्हन्नशून्यागारप्रतिश्रयः ।
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥ १३॥

यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः ।
यथालब्धोपजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः ॥ १४॥

निष्क्रम्य वनमास्थाय ज्ञानयज्ञो जितेन्द्रियः ।
कालकाङ्क्षी चरन्नेव ब्रह्मभूयाय कल्पते ॥ १५॥

अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः ।
न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित् ॥ १६॥

निर्मानश्चानहङ्कारो निर्द्वन्द्वश्च्हिन्नसंशयः ।
नैव क्रुध्यति न द्वेष्टि नानृतं भाषते गिरा ॥ १७॥

पुण्यायतनचारी च भूतानामविहिंसकः ।
काले प्राप्ते भवद्भैक्षं कल्प्यते ब्रह्मभूयसे ॥ १८॥

वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित् ।
अज्ञातचर्यां लिप्सेत न चैनं हर्ष आविशेत् ॥ १९॥

अध्वा सूर्येण निर्दिष्टः कीटवद्विचरेन्महीम् ।
आशीर्युक्तानि कर्माणि हिंसायुक्तानि यानि च ॥ २०॥

लोकसंग्रहयुक्तानि नैव कुर्यान्न कारयेत् ।
नासच्च्हात्रेषु सज्जेत नोपजीवेत जीविकाम् ।
अतिवादांस्त्यजेत्तर्कान्पक्षं कञ्चन नाश्रयेत् ॥ २१॥

न शिष्याननुबध्नीत ग्रन्थान्नैवाभ्यसेद्बहून् ।
न व्याख्यामुपयुञ्जीत नारम्भानारभेत्क्वचित् ॥ २२॥

अव्यक्तलिङ्गोऽव्यक्तार्थो मुनिरुन्मत्तबालवत् ।
कविर्मूकवदात्मानं तद्दृष्ट्या दर्शयेन्नृणाम् ॥ २३॥

न कुर्यान्न वदेत्किञ्चिन्न ध्यायेत्साध्वसाधु वा ।
आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः ॥ २४॥

एकश्चरेन्महीमेतां निःसङ्गः संयतेन्द्रियः ।
आत्मक्रीड आत्मरतिरात्मवान्समदर्शनः ॥ २५॥

बुधो बालकवत्क्रीडेत्कुशलो जडवच्चरेत् ।
वदेदुन्मत्तवद्विद्वान् गोचर्यां नैगमश्चरेत् ॥२६॥

क्षिप्रोऽवमानितोऽसद्भिः प्रलब्धोऽसूयितोऽपि वा ।
ताडितः संनिरुद्धो वा वृत्त्या वा परिहापितः ॥ २७॥

विष्ठितो मूत्रितो वाज्ञैर्बहुधैवं प्रकम्पितः ।
श्रेयस्कामः कृच्च्ह्रगत आत्मनात्मानमुद्धरेत् ॥ २८॥

संमाननं परां हानिं योगर्द्धेः कुरुते यतः ।
जनेनावमतो योगी योगसिद्धिं च विन्दति ॥ २९॥

तथा चरेत वै योगी सतां धर्ममदूषयन् ।
जना यथावमन्येरन्गच्च्हेयुर्नैव सङ्गतिम् ॥ ३०॥

जरायुजाण्डजादीनां वाङ्मनःकायकर्मभिः ।
युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश्च वर्जयेत् ॥ ३१॥

कामक्रोधौ तथा दर्पलोभमोहादयश्च ये ।
तांस्तु दोषान्परित्यज्य परिव्राड् भयवर्जितः ॥ ३२॥

भैक्षाशनं च मौनित्वं तपो ध्यानं विशेषतः ।
सम्यग्ज्ञानं च वैराग्यं धर्मोऽयं भिक्षुके मतः ॥ ३३॥

काषायवासाः सततं ध्यानयोगपरायणः ।
ग्रामान्ते वृक्षमूले वा वसेद्देवालयेऽपि वा ॥ ३४॥

भैक्षेण वर्तयेन्नित्यं नैकान्नाशी भवेत्क्वचित् ।
चित्तशुद्धिर्भवेद्यावत्तावन्नित्यं चरेत्सुधीः ॥ ३५॥

ततः प्रव्रज्य शुद्धात्मा संचरेद्यत्र कुत्रचित् ।
बहिरन्तश्च सर्वत्र संपश्यन्हि जनार्दनम् ॥ ३६॥

सर्वत्र विचरेन्मौनी वायुवद्वीतकल्मषः ।
समदुःखसुखः क्षान्तो हस्तप्राप्तं च भक्षयेत् ॥ ३७॥

निर्वैरेण समं पश्यन्द्विजगोश्वमृगादिषु ।
भावयन्मनसा विष्णुं परमात्मानमीश्वरम् ॥ ३८॥

चिन्मयं परमानन्दं ब्रह्मैवाहमिति स्मरन् ।
ज्ञात्वैवं मनोदण्डं धृत्वा आशानिवृत्तो भूत्वा
आशाम्बरधरो भूत्वा सर्वदा मनोवाक्कायकर्मभिः
सर्वसंसारमुत्सृज्य प्रपञ्चावाङ्मुखः
स्वरूपानुसन्धानेन भ्रमरकीटन्यायेन मुक्तो
भवतीत्युपनिषत् ॥

इति पञ्चमोपदेशः ॥ ५॥