परमलघुमञ्जूषा
परमलघुमञ्जूषा [[लेखकः :|]] |
महावैयाकरण-श्रीमन्नागेशभट्टप्रणीता
परमलघुमञ्जूषा
आचार्यलोकमणिदाहालप्रणीत-
`किरणावली'- संस्कृत-हिन्दीव्याख्योपेता
(1) अथ शक्तिनिरूपणम्
मङ्गलाचरणम्
(1) शिवं नत्वा हि नागेशेनानिन्द्या परमा लघुः ।
वैयाकरणसिद्धान्तमञ्जूषैषा विरच्यते ।।1।।
(2) तत्र वर्णपदवाक्यभेदेन स्फोटस्त्रिधा। तत्रापि जातिव्यक्तिभेदेन पुनः षोढा। अखण्डपदस्फोटोऽखण्डवाक्यस्फोटश्चेति सङ्कलनयाऽष्टौ स्फोटाः।
(3) तत्र वाक्यस्फोटो मुख्यस्तस्यैव लोकेऽर्थबोधकत्वात् तेनैवार्थसमाप्तेश्चेति। तदाह न्यायभाष्यकारः-- `पदसमूहो वाक्यमर्थसमाप्तौ' इति। अस्य समर्थमिति शेषः।
(4) तत्र प्रतिवाक्यं सङ्केतग्रहासम्भवाद् वाक्यान्वाख्यानस्य लघूपायेनाशक्यत्वाच्च कल्पनया पदानि प्रविभज्य पदे प्रकृतिप्रत्ययभागान् प्रविभज्य कल्पिताभ्यामन्वयव्यतिरेकाभ्यां तत्तदर्थविभागं शास्त्रमात्रविषयं परिकल्पयन्ति स्माचार्याः।
(5) शास्त्रप्रक्रियानिर्वाहको वर्णस्फोटः। प्रकृतिप्रत्ययास्तत्तदर्थवाचका इति तदर्थः। उपसर्गनिपातधात्वादिविभागोऽपि काल्पनिकः। स्थानिनो लादय आदेशास्तिबादयः कल्पिता एव। तत्र ऋषिभिः स्थानिनां कल्पिता अर्थाः कण्ठरवेणैवोक्ताः। आदेशानां तु स्थान्यर्थाभिधानसमर्थस्यैवादेशतेति भाष्यात्तेऽर्थाः। एवञ्च वाचकत्वमादेशानां वेति विचारो निष्फल एव, कल्पितवाचकत्वस्योभयत्र सत्त्वात्। मुख्यं वाचकत्वं तु कल्पनया बोधितसमुदायरूपे पदे वाक्ये वा लोकानां तत एवार्थबोधात्।
`उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः'।
इति न्यायेन व्याकरणभेदेन स्थानिभेदेऽपि न क्षतिः, देशभेदेन लिपिभेदवदिति दिक्।
(6) तत्र प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि इति गौतमसूत्रे। शब्दश्चाप्तोपदेशरूपः प्रमाणम्। आप्तो नामानुभवेन वस्तुतत्त्वस्य कार्त्स्न्येन निश्चयवान्। रागादिवशादपि नान्यथावादी यः स इति चरके पतञ्जलिः।
(7) तद्धर्मावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मावच्छिन्ननिरूपितवृत्तिविशिष्टज्ञानं हेतुः। अत एव नागृहीतवृत्तिकस्य शाब्दबोधः। अत एव च `न हि गुड इत्युक्ते मधुरत्वं प्रकारतया गम्यते इति समर्थसूत्रभाष्यं सङ्गच्छते। गुडादिशब्देन गुडत्वजात्यवच्छिन्नो गुडपदवाच्य इत्येव बोधो जातिप्रकारकः। मधुरत्वं तु `गुडो मधुर ऐक्षवत्त्वात्' इत्यनुमानरूपमानान्तरगम्यम्।
(8) विशेष्यविशेषणभावव्यत्यासेन गृहीतशक्तिकस्य पुंसो घटपदात् घटत्वविशिष्टघटबोधवारणाय तद्धर्मावच्छिन्नेति। ज्ञाने वृत्तिवैशिष्ट्यञ्च स्वविषयकोद्बुद्धसंस्कारसामानाधिकरण्यस्य स्वाश्रयपदविषयकत्वोभयसम्बन्धेन बोध्यम्। अतो नागृहीतवृत्तिकस्य बोधो नापि विस्मृतकस्य नापि तद्वाचकपदमजानतो नापि घटापदादाश्रयत्वेनोपस्तिताकाशस्य जनकतयोपस्थितचैत्रादेश्च बोधः। संस्कारकल्पिका च वृत्तस्मृतिरेव शाब्दबुद्धिरेव वेत्यन्यदेतत्।
(9) सा च वृत्तिस्त्रिधा-- शक्तिर्लक्षणा व्यञ्जना च।
(10) तत्र शक्तिः कः पदार्थ इति चेत् ? अत्र तार्किकाः-- `अस्माच्छब्दादयमर्थो बोद्धव्य' इत्याकारा `इदं पदमिममर्थं बोधयतु'इत्याकारा वेश्वरेच्छाशक्तिर्लाघवात्। सैव सङ्केतः सम्बन्धः। शक्तेर्यद्यपि विषयत्वलक्षणः सम्बन्धः पदेऽर्थे बोधे च तथापि बोधनिष्ठजन्यतानिरूपतिजनकतावत्त्वेन शक्तिविषयो वाचकः पदजन्यबोधविषयत्वेन शक्तिविषयो वाच्य इति नातिप्रसङ्गः। यद्यपि प्रथमं शक्तिग्रहो वाक्य एव तथाप्यावापोद्वापाभ्यां शास्त्रकृत्कल्पिताभ्यां तत्तत्पदशक्तिग्रह इत्याहुः।
(11) तन्न। इच्छायाः सम्बन्धिनोराश्रयतानियामकत्वाभावेन सम्बन्धत्वासम्भवात्। `सम्बन्धो हि सम्बन्धिद्वयभिन्नत्वे सति द्विष्टत्वे च सति आश्रयतया विशिष्टबुद्धिनियामक'इत्यभियुक्तव्यवहारात्। यथा घटवद् भूतलमित्यादौ संयोगरूपः सम्बन्धः सम्बन्धिभ्यां भिन्नो द्विष्ठो घटनिरूपितसंयोगाश्रयो भूतलम् इति विशिष्टबुद्धिनियामकश्च। नात्र तथा घटशब्द इच्छावान् तदर्थो वेच्छावानिति व्यवहारः।
(12) तस्मात् पदपदार्थयोः सम्बन्धान्तरमेव शक्तिर्वाच्यवाचकभावापरपर्याया। तद्ग्राहकञ्चेतरेतराध्यासमूलकं तादात्म्यम्। तदेव सम्बन्धः। उभयनिरूपिततादात्म्यवानुभय इति अर्थपदयोर्व्यवहारात्। शक्तेरपि कार्यजनकत्वे सम्बन्धस्यैव नियामकत्वात्। दीपादिगतप्रकाशकत्वशक्तावपि आलोकविषयसम्बन्धे सत्येव वस्तुप्रकाशकत्वं नान्यथेति दृष्टत्वात्।
(13) तदुक्तं हरिणा--
उपकारः स यत्रास्ति धर्मस्तत्रानुगम्यते।
शक्तीनामप्यसौ शक्तिर्गुणानामप्यसौ गुणः।। इति।
उपकारः उपकार्योपकारयोर्बोधशक्त्योरुपकारस्वभावः सम्बन्धो यत्रास्ति तत्र धर्मः शक्तिरूपः कार्यं दृष्टत्वाऽनुमीयते। असौ सम्बन्धः शक्तीनामपि कार्यजनने उपकारकः। गुणानामपि द्रव्याश्रितत्वनियामक इति हेलाराजः।
(14) स सम्बन्धः पदे वाक्ये च। तदाह न्यायभाष्यकारः-- `समयज्ञानार्थञ्चेदं पदलक्षणाया वाचोऽन्वाख्यानं व्याकरणम्। वाक्यलक्षणाया वाचोऽर्थलक्षणम्' इति। अनेन पदेष्विव वाक्येष्वपि ईश्वरसमय इति स्पष्टमेवोक्तम्। तस्मादितरेतराध्यासः सङ्केतस्तन्मूलकं तादात्म्यञ्च सम्बन्ध इति सङ्घातार्थः।
(15) तदुक्तं पातञ्जलभाष्ये--
`सङ्केतस्तु पदपदार्थयोरितरेतराध्यासरूपः स्मृत्यात्मको योऽयं शब्दः सोऽर्थो योऽर्थः स शब्द' इति।
`स्मृत्यात्मक' इत्यनेन ज्ञातस्यैव सङ्केतस्य शक्तिबोधकत्वं दर्शितम्।
(16) उक्त ईश्वरसङ्केत एव शक्तिरिति नैयायिकमतं न युक्तम्। `अयमेतच्छक्यः' `अत्रास्य शक्तिः' इत्यस्य सङ्केतस्य शक्तितः पार्थक्येन प्रसिद्धत्वात्। अत एव न्यायवाचस्पत्ये उक्तम्--
`सर्गादिभुवां महर्षिदेवतानामीश्वरेण साक्षादेव कृतः सङ्केतस्तद्व्यवहाराच्चास्मदादीनामपि सुग्रहस्तत्सङ्केतः' इति।
(17) तस्य च तादात्म्यस्य निरूपकत्वेन विवक्षितोऽर्थः शक्यः आश्रयत्वेन विवक्षितः शब्दः शक्त इत्युच्यते। शब्दार्थयोस्तादात्म्यादेव `श्लोकमशृणोत्' अथ `अर्थं शृणोति' `अर्थं वदति' इत्यादिव्यवहारः। `ओमित्येकाक्षरं ब्रह्म' `रामेति द्व्यक्षरं नाम मानभङ्गः पिनाकिनः' `वृद्धिरादैच्' इति शक्तिग्राहकश्रुतिस्मृतिविषये सामानाधिकरण्येन प्रयोगाश्च।
(18) तादात्म्यञ्च तद्भिन्नत्वे सति तदभेदेन प्रीतयमानत्वमिति भेदाभेदसमनियतम्। अभेदस्याध्यस्त्वाच्च न तयोर्विरोधः। यत्तु तार्किकाः शब्दार्थयोस्तादात्म्यस्वीकारे मधुशब्दोच्चारणे मुखे माधुर्यरसास्वादापत्तिर्वह्निशब्दोच्चारणे मुखे दाहापत्तिरित्याहुस्तन्न; भेदाभेदस्योपपादितत्वात्। वस्तुतो बोद्ध एवार्थः शक्यः पदमपि स्फोटात्मकं प्रसिद्धम्। तयोस्तादात्म्यम्। तत्र बौद्धे वह्न्यादावर्थे दाहादिशक्तिमत्त्वाभावात्।
(19) अत एव `शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः' इति विकल्पसूत्रं सङ्गच्छते। शब्दज्ञानमात्रेणानुपाती बुद्धावनुपतनशीलो वस्तुशून्यो बाह्यार्थरहितो विशेषेण कल्प्यत इति विकल्पः, बुद्धिपरिकल्पित इति तदर्थः। अत एव--
एष वन्ध्यासुतो याति खपुष्पकृतशेखरः।
कूर्मक्षीरचये स्नातः शशशृह्गधनुर्धरः।।
इत्यत्र वन्ध्यासुतादीनां बाह्यार्थशून्यत्वेऽपि बुद्धिपरिकल्पितं वन्ध्यासुतशब्दवाच्यार्थमादायार्थवत्त्वात् प्रातिपदिकत्वम्। अन्यथाऽर्थवत्त्वाभावेन प्रातिपदिकत्वाभावात् स्वाद्युत्पत्तिर्न स्यात्। यत्तु शशशृङ्गमित्यत्र शृङ्गे शसीयत्वभ्रम इतितार्किकैरुक्तम्। तन्न। शशशब्दवाच्यजन्तुदर्सनरूपबाधे सति शशशृङ्गं नास्तीति वाक्ये शशशृङ्गमित्यस्य प्रातिपदिकत्वानापत्तेः।
(20) अर्थपदयोस्तादात्म्यात् तत्तदर्थतादात्म्यापन्नः शब्दो भिन्न इति हेतोरर्थभेदाच्छब्दभेद इति व्यवहारः। समानाकारमात्रेण तु एकोऽयं शब्दो बह्वर्थ इति व्यवहारः।
(21) सा च शक्तिस्साधुष्विवापभ्रंशेष्वपि शक्तिग्राहकशिरोमणेर्व्यवहारस्य तुल्यत्वात्। व्यवहारदर्शनेन च पूर्वजन्मानुभूतशक्तिस्मरणम्। अत एव बालानां तिरश्चां चान्वयबोधः। नहितेषां तदैव तत्सम्भवः। यत्तु तार्किकाः-- असाधुशब्देन साधुस्मरणद्वाराऽर्थबोध इत्याहुस्तन्न; साधुस्मरणं विनाऽपि बोधानुभवात् तद्वाचकसाधुशब्दमजानतां बोधानापत्तेश्च।
(22) न च `शक्तिभ्रमाद् बोधोऽसाधुशब्देषु इति वाच्यम्; निस्सन्देहप्रत्ययस्य बाधकं विनाभ्रमत्वायोगात्। अत एव स्त्रीशूद्रबालादीनामुच्चारिते साधावर्थसंशये तदपभ्रंशेनार्थनिर्णयः। अत एव `समानायामर्थावगतौ शब्दैश्चापशब्दैश्च शास्त्रेण धर्मनियमः' इति भाष्यम्, `वाचकत्वाविशेषेऽपि नियमः पुण्यपापयोः।' इति हरिकारिका च सङ्गच्छते।
(23) अत एवार्यम्लेच्छाधिकरणं सङ्गच्छते। तत्र हि यद्यपि आर्या यवशब्दं दीर्घशूके प्युञ्जते, म्लेच्छास्तु प्रियङ्गौ प्रयुञ्जते, तमेव च बुध्यन्ते, तथापि आर्यप्रसिद्धेरबलवत्त्वाद् वेदे दीर्घशूकपरतैवेति सिद्धान्तितम्। तव तु म्लेच्छबोधस्य शक्तिभ्रममूलकत्वेन भ्रान्तिविषयरजतज्ञानस्यैव म्लेच्छप्रसिद्धेर्वस्त्वसाधकतया आर्यम्लेच्छप्रिसद्ध्योः कस्या बलवत्त्वमिति विचारासङ्गतिः स्पष्टैव। साधुत्वञ्च-- व्याकरणान्वाख्येयत्वं पुण्यजनकतावच्छेदकधर्मवत्त्वं वा। तद्भिन्नत्वमसाधुत्वम्।
(24) सा च शक्तिस्त्रिधा-- रूढिर्योगो योगरूढिश्चेति। शास्त्रकल्पितावयवार्थमानाभावे समुदायार्थनिरूपतिशक्ती रूढिर्यथा मणिनूपुरादौ। शास्त्रकल्पितावयवार्थनिरूपिता शक्तिर्योगः, यथा पाचकादौ। शास्त्रकल्पितावयवार्थान्वितविशेष्यभूतार्थनिरूपिता शक्तिर्योगरूढिर्यथा पङ्कजपदे। तत्र पङ्गजनिकर्त- पद्ममिति बोधात्। पद्मेऽनुपपत्तिसन्धानं सम्बन्धप्रतिसन्धाऩञ्च विना न लक्षमावसरः। क्वचित्तात्पर्यग्राहकवशात् केवलरूढ्यर्थस्य केवलयोगार्थस्य च बोधः। `भूमौ पङ्कजमुत्पन्नं' `कह्लारकैरवमुखेष्वपि पङ्कजेषु' इत्यादौ। स्पष्टञ्चेदम् `आर्हाद.' इति सूत्रे भाष्ये।
(25) अश्वगन्धादिपदमोषधिविशेषे रूढम्। अश्वसम्बन्धिगन्धवत्तया वाजिशालाबोधे यौगिकम्। इदं यौगिकरूढम् इत्युच्यते। एवं मण्डपपदं गृहविशेषे रूढम्, मण्डपानकर्तरि यौगिकम्।
(26) सैषा शक्तिः संयोगादिभिर्नानार्थेषु नियम्यते। तदुक्तं हरिणा--
संयोगो विप्रयोगश्च साहचर्यं विरोधिता।
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः।।
सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः।
शब्दस्यार्थानवच्छेदे विशेषस्मृतिहेतवः।। इति।
एते संयोगादयो नानार्थेषु शब्देषु शब्दार्थस्यानवच्छेदे सन्देहे तदपाकरणद्वारा विशेषार्थनिर्णायका इति तदर्थः।
(27) संयोगविप्रयोगोरुदाहरणे सवत्सा धेनुरवत्सा धेनुरिति। साहचर्यस्य रामलक्ष्मणौ इति। साहचर्यं सादृश्यं सदृशयोरेव सहप्रयोग इति नियमात्। रामार्जुनगतिस्तयोरित्यादौ विरोधेन तत्। `अञ्जलिना जुहोति, अञ्जलिना सूर्यमुपतिष्ठते' इत्यत्र जुहोतीत्यादिपदार्थवशात् अञ्जलपदस्य तत्तदाकाराञ्जलिपरत्वम्। `सैन्धवमानय' इत्यादौ प्रकरणेन तत्। `अक्ताः शर्करा उपदधाति' इत्यादौ `तेजोवै घृतम्' इति घृतस्तुतिरूपाल्लिङ्गात् अक्ता इत्यस्य घृतसाधनकाञ्जनपरत्वम्। रामो जामदग्न्य इति जामदग्न्यपदसन्निधानात् रामः परशुरामः। `अभिरूपाय कन्या देया' इत्यादौ अभिरूपतराय इति सामर्थ्यात् प्रतीयते।
यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा।
यश्चैनं गन्धमाल्याद्यैः सर्वस्य कटुरेव सः।।
ित्यत्रौचित्यात् परशुना इत्यस्य छेदनार्थत्वम्, मधुसर्पिषा इत्यस्य सेचनार्थत्वम् गन्धमाल्याद्यैरित्यस्य पूजनार्थत्वम्। भात्यत्र परमेश्वर इत्यत्र राजधानीरूपदेशात् परमेश्वरपदं राजबोधकम्। चित्रभानुर्भाति इत्यादौ रात्रौ अग्नौ दिवा सूर्ये। व्यक्तिर्लिङ्गम्। मित्रो भाति, मित्रं भाति इत्यादौ आदौ सूर्योऽन्त्ये सुहृत्। स्थूलपृषतीम् इत्यादौ स्वरात् तत्पुरुषबहुव्रीह्यर्तनिर्णयः।
इति शक्तिनिरूपणम्।
अथ लक्षणानिरूपणम्।
(28) ननु लक्षणा कः पदार्थ इति चेत्, अत्र तार्किकाः-- स्वशक्यसम्बन्धो लक्षणा । साच द्विविधा-- गौणी शुद्धा च ।
स्वनिरूपतिसादृश्याधिकरणत्वसम्बन्धेन शक्यसम्बन्ध्यर्तप्रतिपादिका गौणी। तदतरिक्तसम्बन्धेन शक्यसम्बन्ध्यर्थप्रतिपादिका शुद्धा।
(290 प्रकारान्तरेणापि सा द्विविधा-- अजहत्स्वार्था जहत्स्वार्था च। स्वार्थसंवलितपरार्थाभिधायिका अजहत्स्वार्था। तेन `छत्रिणो यान्ति' `कुन्तान् प्रवेशय' `यष्टीः प्रवेशय' `काकेभ्यो दधि रक्ष्यताम्' इत्यादौ छत्रिसहितसेनाकुन्तास्त्रसहितपुरुष-यष्टिसहितपुरुष-काकसहितसर्वदध्युपघातकबोधः। स्वार्थपरित्यागेनेतरार्थाभिधायिकाऽन्त्या। तत्परित्यागश्च शक्यार्थस्य लक्ष्यार्थान्वयिनाऽनन्वयित्वम्। तेन `गां वाहीकं पाठय' इत्यादौ गोसदृशलक्षणायामपि न गोस्तदन्वयिपाठनक्रियान्वयित्वम्।
(30) सा च लक्षमा तात्स्थ्यादिनिमित्तिका । तदाह--
तात्स्थ्यात् तथैव ताद्धर्म्यात् तत्सामीप्यात् तथैव च ।
तत्साहचर्यात् तादर्थ्याज्ज्ञेया वै लक्षणा बुधैः।। इति।
तात्स्थ्यात् `म़ञ्चा हसन्ति'`ग्रामः पलायितः'। ताद्धर्म्यात् `सिंहो माणवकः' `गौर्वाहीकः'। तत्सामीप्याद् `गङ्गायां घोषः' तत्साहचर्याद् `यष्टीः प्रवेशय'। तादर्थ्याद् `इन्द्रार्था स्थूणा इन्द्रः'।
(31) अन्वयानुपपत्तिप्तिसन्धानञ्च लक्षणाबीजम्। वस्तुतस्तु तात्पर्यानुपपत्तिप्रतिसन्धानमेव तद्बीजम्। अन्यता `गङ्गायां घोषः' इत्यादौ घोषादिपदे एव मकरादिलक्षणापत्तिस्तावताऽप्यन्वयानुपपत्तिपरिहारात्। `गङ्गायां पापी गच्छति' इत्यादौ गङ्गापदस्य नरके लक्षणापत्तेश्च। अस्माकं तु भूतपूर्वपापावच्छिनलक्षकत्वे तात्पर्यान्न दोषः। `नक्षत्रं दृष्ट्वा वाचं विसृजेत्' इत्यत्रान्वयसम्भवेऽप तात्पर्यानुपपत्त्यैव लक्षमास्वीकारात्। एकानुगमकस्वीकारेण निर्वाहे अनेकानुगमकस्वीकारे गौरवाच्च।
(32) विशिष्टार्थबोधकशब्दस्य पदार्थैकदेशे लक्षणायां जहदजहल्लक्षणेति व्यवहरन्ति वृद्धाः। वाच्यार्थे किञ्चिदंशत्यागः कञ्चिदंशपरिग्रहश्च। अत्र ग्रामैकदेशे पटैकदेशे च दग्धे `ग्रामो दग्धः' `पटो दग्धः'इति व्यवहारः। `तत्त्वमसि' इत्यत्र सर्वज्ञत्वाल्पज्ञत्वयोस्त्यागः, शुद्धचैतन्ययोरभेदान्वयः।
(33) स्वबोध्यसम्बन्धो लक्षणा इति केचित्। गभीरायां नद्यां घोष इत्याद्यनुरोधात्। तथाहि-- न तावद् गभीरपदं तीरलक्षकम्, नद्यामित्यनन्वयापत्तेः। न हि तीरं नदी। अत एव न नदीपदेऽपि , गभीरपदार्थानन्वयात्। नहि तीरं गभीरम्। न च प्रत्येकं पदद्वये सा, विशिष्टनदीबोधानापत्तेः। तस्मात् समुदायबोध्यगभीरत्वविशिष्टनदीपदार्थः तत्सम्बन्धो लक्षणेति।
(34) द्विरेफपदस्य स्वलक्ष्यभ्रमरशब्दवाच्यार्थे लक्षणायां लक्षितलक्षणेति व्यवहारः। स्वबोध्यपदवाच्यत्वं सम्बन्धः।
(35) प्रकारान्तरेण पुनर्लक्षणा द्विविधा। तथाहि---
`प्रयोजनवती रूढा च लक्षणा द्विविधा मता'। इति। असति प्रयोजने शक्यसम्बन्धो निरूढलक्षणा। `त्वचा ज्ञातम्' इत्यादौ यथा त्वचस्त्वगिन्द्रिये। इयं तु शक्यपरपर्यायैवेति बोध्यम्। `गङ्गायां घोषः' इत्यत्र तीरे गङ्गागतशैत्यपावनत्वादिप्रतीतिः प्रयोजनम्। गौर्वाहीकः इत्यत्र सादृश्यं लक्ष्यतावच्छेदकं गवाभेदप्रत्ययः प्रयोजनम्। `कुन्ताः प्रविशन्ति' इति भीतिपलायमानवाक्ये कुन्तविशिष्टपुरुषे कुन्तगततैक्ष्ण्यप्रतीतिः प्रयोजनमित्याहुः।
(36) तन्न। सति तात्पर्ये `सर्वे सर्वाथवाचकाः' इति भाष्याल्लक्षणाया अभावात्, वृत्तिद्वयावच्छेदकद्वयकल्पने गौरवात्, जघन्यवृत्तिकल्पनाया अन्याय्यत्वाच्च। कथं तर्हि गङ्गादिपदात् तीरादिप्रत्ययः ? भ्रान्तोऽसि । सति तात्पर्ये `सर्वे सर्वार्थवाचकाः' इति भाष्यमेव गृहाण। तथा हि -- शक्तिर्द्विविधा-- प्रसिद्धाऽप्रसिद्धा च। आमन्दबुद्धिवेद्यात्वं प्रसिद्धात्वम्। सहृदयमात्रवेद्यात्वमप्रसिद्धात्वम्। तत्र गङ्गादिपदानां प्रवाहादौ प्रसिद्धा शक्तिस्तीरादौ चाप्रसिद्धा इति किमनुपपन्नम्।
(37) ननु सर्वे सर्वार्थवाचका इति चेद् ब्रूषे तर्हि घटपदात् पटप्रत्ययः किं न स्यादिति चेन्न; सति तात्पर्ये इत्युक्तत्वात् तात्पर्याभावादिति गृहाण। तात्पर्यञ्चात्र । ऐश्वरं देवतामहर्षिलोकवृद्धपरम्परातोऽस्मदादिभिर्लब्धमिति सर्व सुस्थम्।
इति लक्षणानिरूपणम्।
अथ व्यञ्जनानिरूपणम्।
(38) ननु व्यञ्जना कः पदार्थः ? उच्यते। मुख्यार्थबाधनिरपेक्षबोधजनको मुख्यार्थसम्बद्धासम्बद्धसाधारणः प्रसिद्धाप्रसिद्धार्थविषयको वक्त्रादिवैशिष्ट्यज्ञानप्रतिभाद्युद्बुद्धः संस्कारविशेषो व्यञ्जना।
(39) अत एव निपातानां द्योतकत्वं स्फोटस्य व्यङ्ग्यता च हर्यादिभिरुक्ता। द्योतत्वञ्च स्वसमभिव्याहृतपदनिष्टशक्तिव्यञ्जकत्वमिति। वैयाकरमानामप्येतत्स्वीकार आवश्यकः। एषा च शब्दतदर्थपदपदैकदेशवर्णवाक्यरचनाचेष्टादिषु सर्वत्र, तथैवानुभवात्। वक्त्रादिवैशिष्ट्यज्ञानं च व्यङ्ग्यविशेषबोधे सहकारीति न सर्वत्र तदपेक्षेत्यन्यत्र विस्तरः। यत्तु तार्किका `लक्षणयैव गतार्था व्यञ्जनेति न सा स्वीकार्ये' त्याहुस्तन्न; लक्षणाया मुख्यार्थबाधपूर्वकलक्ष्यार्थबोधकत्वात्, मुख्यार्थसम्बद्धार्थस्यैव लक्षणाया बोधकत्वात्। व्यञ्जनाया अतथात्वेन तदनन्तर्भावाच्चेति दिक्।
इति व्यञ्जनाविचारः।
(4) अथ स्फोटनिरूपणम्।
(40) ननु कोऽयं वृत्त्याश्रयः शब्दः ? वर्णाः प्रत्येकमिति चेन्न; द्वितीयादिवर्णोच्चारणवैयर्थ्यापत्तेः। नाऽपि वर्णसङ्घातः; उच्चरितप्रध्वंसित्वेन यौगपद्यासम्भवात्। अभिव्यक्तेरुत्पत्तेर्वा क्षणस्थायित्वात् क्षणात्मककालस्य प्रत्यक्षायोग्यत्वेन तदवच्छिन्नवर्णस्याप्यप्रत्यक्षत्वात्। उच्चारणाधिकरणकालोत्तरकालवृत्तिध्वंसप्रतियोगित्वमुच्चरितप्रध्वंसित्वम्। `इको यणचि' इत्यादौ तस्मिन्निति परिभाषोपस्कृतवाक्यार्थेऽयं पूर्वोऽयं पर इति नष्टस्य प्रत्यक्षविषयेदं शब्देन पौर्वापर्यव्यवहारायोगाच्च।
(41) यत्तु तार्किकाः वर्णानामनित्यत्वेऽपि उत्तरोत्तरवर्णे पूर्वपूर्ववर्णवत्त्वमव्यवहितोत्तरत्वसम्बन्धेन संस्कारवशाद् गृह्यत इति पदस्य प्रत्यक्षत्वाच्छाब्दबोधः। यद्वा पूर्वपूर्ववर्णजाः शब्दाः शब्दजशब्दन्यायेन चरमवर्णप्रत्यक्षपर्यन्तं जायमाना एव सन्तीति न पदप्रत्यक्षानुपपत्तिः। यद्वा पूर्वपूर्ववर्णानुभवजन्यसंस्कारसध्रीचीनचरमवर्णानुभवतः शाब्दबोधः इत्याहुः।
(42) तन्न। आद्येऽयम्पूर्वोऽयम्परः इत्यभिलाषासम्भवेनाव्यवहितोत्तरत्वसम्बन्धायोगात्। नष्टविद्यमानयोरव्यवहितोत्तरत्वसम्बन्धस्य वक्तुमशक्यत्वाच्च। द्वितीये शब्दजशब्दन्यायेन पदप्रत्यक्षोपपादनेऽपि पदस्याविद्यमानत्वेन तत्र शक्त्याश्रयत्वस्य ग्रहानुपपत्तेः। अविद्यमाने आश्रयत्वाङ्गीकारे `नष्टो घटो जलवान्' इत्यद्यापत्तेश्च। तृतीये येन क्रमेणानुभवस्तेनैव क्रमेण तत्संस्कारस्थितिरित्यत्र विनिगमकाभावात् `सरोरसः' `नदी दीनः' इत्यादौ विपरीतसंस्कारोद्बोधेन प्रत्येकमन्यार्थप्रत्ययापत्तेः। उत्पत्तिविनाशवद्वर्णसमुदायरूपपदस्य मनुष्यादिवद् भेदे `एक इन्द्रः शब्दः क्रतुशते प्रादुर्भूतो युगपत् सर्वयागेष्वङ्गं भवति' इति भाष्यविरोधापत्तेश्च। प्रादुर्भूतोऽभिव्यक्तः।
(43) ननु कस्तर्हि वृत्त्याश्रयः शब्दः ? स स्फोटात्मक इति गृहाण। ननु कोऽयं स्फोटः ? उच्यते। चतुर्विधा हि वागस्ति--- परा, पश्यन्ती, मध्यमा वैखरी च। तत्र मूलाधारस्थपवनसंस्कारीभूता मूलाधारस्था शब्दब्रह्मरूपा स्पन्दशून्या बिन्दुरूपिणी परा वागुच्यते। नाभिपर्यन्तमागच्छता तेन वायुनाऽभिव्यक्ता मनोगोचरीभूता पश्यन्ती वागुच्यते। एतद्द्व्यं वाग्ब्रह्म योगिनां समाधौ निर्विकल्पकसविकल्पज्ञानविषय इत्युच्यते। ततो हृदयपर्यन्तमागच्छता तेन वायुनाऽभिव्यक्ता तत्तदर्थवाचकशब्दस्फोटरूपा श्रोत्रग्रहणायोग्यत्वेन सूक्ष्मा जपादौ बुद्धिनिर्ग्राह्या मध्यमा वागुच्यते। तत आस्यपर्यन्तमागच्छता तेन वायुनोर्ध्वमाक्रामता च मूर्धानमाहत्य परावृत्त्य च तत्तस्थानेष्वभिव्यक्ता परश्रोत्रेणाऽपि ग्राह्या वैखरी वागुच्यते।
(44) तदाह--
परा वाङ्मूलचक्रस्था पश्यन्ती नाभिसंस्थिता।
हृदिस्था मध्यमा ज्ञेया वैखरी कण्ठदेशगा।। इति।
वैखर्या हि कृतो नादः परश्रवणगोचरः।
मध्यमया कृतो नादः स्फोटव्यञ्जक उच्यते।। इति च।
यगुपदेव मध्यमावैखरीभ्यां नाद उत्पद्यते। तत्र मध्यमानादोऽर्थवाचकः स्फोटात्मकशब्दव्यञ्जकः। वैखरीनादो ध्वनिः सकलजनश्रोत्रग्राह्यो भेर्यादिनादवन्निरर्थकः। मध्यमानादश्च सूक्ष्मतरः कर्णपिधाने जपादौ च सूक्ष्मतरवायुव्यङ्ग्यः शब्दब्रह्मरूपस्फोटव्यञ्जकश्च। तादृशमध्यनादव्यङ्ग्यः शब्दः स्फोटात्मको ब्रह्मरूपो नित्यश्च।
(45) तदाह हरिः---
अनादिनिधनं ब्रह्म शब्दतत्वं यदक्षरम्।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः।। इति।।
(46) स च यद्यप्येकोऽखण्डश्च तथापि पदं वाक्यं जपाकुसुमादिलौहित्यपीतत्वादिव्यञ्जकोपरागवशाल्लोहितः पीतः स्फटिक इति भानवद् वर्णादिव्यङ्ग्यो वर्णरूपः पदरूपो वाक्यरूपश्च। यथा च मुखे मणिकृपाणदर्पणव्यञ्जकोपाधिवशाद्दैर्घ्यवर्तुलत्वादिभानं तद्वत्। तदुक्तम्--
पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च।
वाक्यात् पदानामत्यन्तं प्रविवेको न कश्चन।। इति।
(47) किञ्च व्यञ्जकध्वनिगतकत्वगत्वादिकं स्फोटे भासते। बिम्बगतधर्मवैशिष्ट्येनैव प्रतिबिम्बस्य लोकेऽवधारणात्, व्यञ्जकनिरूपितस्यैव स्फटिकादेर्भानाच्च। यथा चैकस्याकाशस्य घटाकाशो महाकाश इत्यौपाधिको भेदो यथा चैकस्यैव चेतनस्यौपाधिको जीवेश्वरभेदो जीवानाञ्च परस्परभेदः। एवं स्फोटे व्यञ्जकध्वनिगतकत्वादिभानात् ककारो बुद्ध इत्यौपाधिको भेदव्यवहारः। औपाधिको भेद इत्यत्रोपाधिः घटकत्वादिर्भिन्न उपधेयस्तु आकाशस्फोटादिरेक एवेति तात्पर्यम्। पदवाक्ययोस्सखण्डत्वपक्षे त्वन्तिमवर्णव्यङ्ग्यः स्फोट एक एव। पूर्वपूर्ववर्णस्तु तात्पर्यग्राहको न्यायनये चित्रगुरित्यादौ चित्रादिपदवत्।
(48) ध्वनिस्तु द्विविधः-- प्राकृतो वैकृतश्च। प्रकृत्या अर्थबोधनेच्छया स्वभावेन वा जातः स्फोटव्यञ्जकः प्रथमः प्राकृतः। तस्मात् प्राकृताज्जातो विकृतिविशिष्टश्चिरस्थायी निवर्तको वैकृतिकः। हरिरप्याह----
शब्दस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते।
शब्दस्योर्ध्वमभिव्यक्तेर्वृत्तिभेदे तु वैकृताः।
ध्वनयः समुपोहन्ते स्फोटात्मा तैर्न भिद्यते।।। इति।।
शब्दस्याभिव्यक्तेरूर्ध्वं वैकृतां ध्वनयो जायन्ते इति शेषः। वृत्तिभेदे इति--
अभ्यासार्थे द्रुता वृत्तिर्मध्या वै चिन्तने तथा।
शिष्याणामुपदेशार्थं वृत्तिरिष्टा विलम्बिता।। इति।।
तिसृषु वृत्तिषु समुपोहन्ते कारणानि भवन्ति स्फोटस्तु तैर्न भिद्यते इति तदर्थः।
(49) अत्रेदं बोध्यम्-- केनचिद् `घटमानय' इति वैखरीनादः प्रयुक्तः। स केनचिच्छ्रोत्रेन्द्रियेण गृहीतः। स नादः इन्द्रियद्वारा बुद्धिहृद्गतः सन् अर्थबोधकं शब्दं स्वनिष्टकत्वादिना व्यञ्जयति तस्मादर्थबोधः। स्फुटत्यर्थाऽस्मादिति व्युत्पत्त्या स्फोटः। उच्चारयितुस्तु युगपदेव मध्यमावैखरीभ्यां नाद उत्पद्यते। तत्र वैखरीनादो वह्नेः फूत्कारादिवन्मध्यमानादोत्साहकः। मध्यमानादः स्फोटं व्यञ्जयतीति शीघ्रमेव ततोऽर्थबोधः, परस्य विलम्बेनानुभवसिद्धत्वात्। अत एव श्रोत्रोपलब्धिर्बुद्धिनिर्ग्राह्यः प्रयोगेणाभिज्वलितः आकाशदेशः शब्द इत्याकरग्रन्थः सङ्गच्छते। कत्वादिना श्रोत्रोपलब्धित्वं स्फोटात्मकपदादिरूपेण तु बुद्धिनिर्ग्राह्यत्वम्। स च प्रयोगेण वैखरीरूपेणाभिज्वलितः स्वरूपरूपितः कृत इति तदर्थः। तत्रापि शक्यत्वस्येव शक्ततावच्छेदिकाया वर्णपदवाक्यनिष्ठजातेर्वाचकत्वम्। तदुक्तम्---
`अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता।' इति।
तस्मादष्टविधस्फोटात्मकः शब्दो वृत्त्याश्रयः। वस्तुतस्तु वाक्यस्फोटो वाक्यजातिस्फोट एव वा वृत्त्याश्रयः। ततएव लोकेऽर्थबोध इत्याद्युक्तत्वादिति सर्वं सुस्थम्।
इति स्फोटनिरूपणम्।
(5) अथाकाङ्क्षाविचारः
(50) अथ शाब्दबोधसहकारिकारणानि आकाङ्षायोग्यताऽऽसत्तितात्पर्याणि। वाक्यसमयग्राहिका आकाङ्क्षा। सा चैकपदार्थज्ञाने तदर्थान्वययोग्यार्थस्य यज्ज्ञानं तद्विषयेच्छा `अस्यान्वय्यर्थः कः' इत्येवंरूपा पुरुषनिष्ठैव। तथापि तस्याः स्वविषयेऽर्थे आरोपः। अयमर्थो।ञर्थान्तरमाकाङ्क्षतीति व्यवहारात्। इदमेवाभिधाना पर्यवसानमित्युच्यते। पदे तु नारोपः अर्थबोधोत्तरमेवाकाङ्क्षोदयात्। पदं साकाङ्क्षमिति तु साकाङ्क्षार्थबोधकमित्यर्थकम्। तदुक्तं समर्थसूत्रे भाष्ये--- `परस्परव्यपेक्षां सामर्थ्यमेके। का पुनश्शब्दयोर्व्यपेक्षा ? न ब्रूमः शब्दयोरिति किं तर्हि अर्थयोरि'ति। ईदृशजिज्ञासोत्थापकं चैकपदार्थेऽपरपदार्थव्यतिरेकप्रयुक्तस्यान्वयबोधाजनकत्वस्य ज्ञानमिति तद्विषये तादृशान्वयबोधाजनकत्वेऽप्याकाङ्क्षेति व्यवहारः।
(51) यद्वा उत्थापकताविषयतान्यतरसम्बन्धेनोभयसम्बन्धेन वाऽर्थान्तरजिज्ञासाऽऽकाङ्क्षा। आद्यं `पश्य मृगो धावति' इत्यत्र दर्शनार्थस्य कारकधावनाकाङ्क्षोत्थापकत्वं धावनं तु तद्विषय एव। अन्त्यं तु `पचति तण्डुलं देवदत्तः' इत्यादौ क्रियाकारकयोर्द्वयोरपि परस्परं तदुत्थापकत्वात्तदविषयत्वाच्च। अतः `घटः कर्मत्वमानयनं कृतिः' इत्यतो घटमानय इतिवन्नान्वयबोधः। आकाङ्क्षाविरहात्। घटमानयेति विभक्त्यन्ताख्यातान्तयोरेव साकाङ्क्षत्वाच्च।
इति आकाङ्क्षाविचारः।
(6) अथ योग्यताविचारः।
(52) योग्यता परस्परान्वयप्रयोजकधर्मवत्त्वम्। तेन `पयसा सिञ्चति' इति वाक्यं योग्यम्। अस्ति च सेकान्वयप्रयोजकद्रवद्रव्यत्वं योग्यता जले। करणत्वेन जलान्वयप्रयोजकार्द्रीकरणत्वं योग्यता सेकक्रियायाम्। अत एव `वह्निना सिञ्चति' इति वाक्यमयोग्यम्, वह्नेः सेकान्वयप्रयोजकद्रवद्रव्यत्वाभावात्।
(53) एतादृशस्थलेषु नान्वयबोधः किन्तु प्रत्येकं पदार्थबोधमात्रमिति नैयायिकाः। तन्न। बौद्धार्थस्यैव सर्वत्र बोधविषयत्वेन बाधस्याभावात्। हरिरप्याह--
`अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति च'। इति।
अतो वन्ध्यासुतादिशब्दानामपि प्रातिपदिकत्वम्। `वह्निना सिञ्चतीत्यतो बोधाभावे तद्वाक्यप्रयोक्तारं प्रति `अद्रवेण वह्निना कथं सेकं ब्रवीषि' इत्युपहासानापत्तेश्च। वाक्यार्थबोधे जाते बुद्धार्थविषये प्रवृत्तिस्तु न भवति, बुद्धार्थेऽप्रामाण्यग्रहादित्यन्यत्र विस्तरः।
इति योग्यताविचारः।
अथासत्तिविचारः
(54) प्रकृतान्वयबोधानुकूलपदाव्यवधानमासत्तिः `गिरिरग्निमाग्नि'त्यासन्नम्। अनासन्नञ्च `गिरिर्भुक्तमग्निमान् देवदत्तेन' इति। आसत्तिरपि मन्दबुद्धेरविलम्बेन शाब्दबोधे कारणम्। अमन्दबुद्धेस्त्वासत्त्यभावेऽपि पदार्थोपस्थितावाकाङ्क्षादितोऽविलम्बेनैव बोधो भवतीति न बोधे तस्याः कारणत्वम्। ध्वनितञ्चेदं `न पदान्त'सूत्रे भाष्ये।
स्थाल्यामोदनं पचीत्यादौ स्थाल्यामित्यस्यौदनपदेन व्यवधाने सत्यपि प्रकृतान्वयबोधानुकूलत्वादासन्नत्वाक्षतिः।
इत्यासत्तिनिरूपणम्।
(8) अथ तात्पर्यविचारः।
(55) एतद् वाक्यं पदं वा एतदर्थबोधायोच्चारमीयमितीश्वरेच्छा तात्पर्यम्। अत एव सति तात्पर्ये `सर्वे सर्वार्थवाचकाः' इति शाब्दिकनये घटशब्दात्पटप्रत्ययो नेत्याद्युक्तम्। नानार्थस्थले लोके तात्पर्यं तु एतत्पदं वाक्यं वा एतदर्थः प्रत्ययाय मयोच्चार्यते इति प्रयोक्तुरिच्छारूपम्। तात्पर्यनियामकञ्च लोके प्रकरणादिकमेव। अतो भोजनप्रकरमे सैन्धवमानयेत्युक्ते सैन्धवपदेन लवणप्रत्ययो युद्धावसरेऽश्वप्रत्ययः। वेदवाक्ये चैश्वरतात्पर्यादर्थबोधः।
ननु प्रकरणादीनां शक्तिनियामकत्वे शक्त्यैव निर्वाहे किं तात्पर्येणेति चेन्न; अस्माच्छब्दादर्थद्व्यविशेष्यो बोधो जायतेऽर्थद्वये शक्तिसत्त्वात्, तात्पर्यं तु क्वेति न जानीम इत्याद्यनुभवविरोधात्। अत एव च `पय आनय' इत्युक्तेऽप्रकरणज्ञस्य `दुग्धं जलं वाऽऽनेयम्' इति प्रश्नः सङ्गच्छते।
इति तात्पर्यविचारः।