परत्रिंशिकातत्त्वविवरणम्

विकिस्रोतः तः
परत्रिंशिकातत्त्वविवरणम्
अभिनवगुप्तः


ओं नमः शिवाय

विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः ।
तदुभययामलस्फुरितभावविसर्गमयं हृदयमनुत्तरामृतकुलं मम संस्फुरतात् ॥ मङ्गलाचरण १ ॥

यस्यामन्तर्विश्वमेतद्विभाति बाह्याभासं भासमानं विसृष्टौ ।
क्षोभे क्षीणेऽनुत्तरायां स्थितौ तां वन्दे देवीं स्वात्मसंवित्तिमेकाम् ॥ मङ्गलाचरण २ ॥

नरशक्तिशिवात्मकं त्रिकं हृदये या विनिधाय भासयेत् ।
प्रणमामि परामनुत्तरां निजभासां प्रतिभाचमत्कृतिम् ॥ मङ्गलाचरण ३ ॥

जयत्यनर्घमहिमा विपाशितपशुव्रजः ।
श्रीमानाद्यगुरुः शम्भुः श्रीकण्ठः परमेश्वरः ॥ मङ्गलाचरण ४ ॥

निजशिष्यविबोधाय प्रबुद्धस्मरणाय च ।
मयाभिनवगुप्तेन श्रमोऽयं क्रियते मनाक् ॥ मङ्गलाचरण ५ ॥
_____________________________________________________________



श्रीदेवी उवाच

अनुत्तरं कथं देव सद्यःकौलिकसिद्धिदम् ।
येन विज्ञातमात्रेण खेचरीसमतां व्रजेत् ॥ १ ॥

_____________________________________________________________


परमेश्वरः पञ्चविधकृत्यमयः सततमनुग्रहमय्या परारूपया शक्त्या आक्रान्तो वस्तुतोऽनुग्रहैकात्मैव न हि शक्तिः शिवाद्भेदमामर्शयेत् ।

[प्.१८८]

सा च शक्तिः लोकानुग्रहविमर्शमयी प्रथमतः परामर्शमयपश्यन्त्यासूत्रयिष्यमाणानन्तशक्तिशताविभिन्ना प्रथमतरं परमहामन्त्रमय्यामदेशकालकलितायां संविदि निरूढा तावत्पश्यन्त्युद्भविष्यदुक्तिप्रत्युक्त्यविभागेनैव वर्तते । सैव च सकलप्रमातृसंविदद्वयमयी सततमेव वर्तमानरूपा । ततस्तु पश्यन्ती यद्यतभीप्सितं तत्तदेव समुचितकारणनियमप्रबोधितं बोधसूत्रणमात्रेण विमृशति, यथा अनेकभावाभावज्ञानसंस्कारसंस्कृताया मेचकधियः स्मृतिबीजप्रबोधकौचित्यात्किंचिदेव स्मृतिर्विमृशति । न हि प्रथमज्ञानकाले भेदोऽत्रास्फुरत्यत्र वाच्यवाचकविशेषयोरभेदः । मध्यमा पुनस्तयोरेव वाच्यवाचकयोर्भेदम्
आदर्श्य सामानाधिकरण्येन विमर्शव्यापारा । वैखरी तु तदुभयभेदस्फुटतामय्येव इति तावद्व्यवस्थायां स्वसंवित्सिद्धायां यैव परावाग्भूमिः सैव मायीयशब्दशक्तिपरमार्थस्वभावासांकेतिकाकृतकपारमार्थिकसंस्कारसारा वक्ष्यमाणनयेन मन्त्रवीर्यभूतांशचोदिता तदुत्तरं पश्यन्त्यादिदशास्वपि वस्तुतो व्यवस्थिता । तया विना पश्यन्त्यादिषु अप्रकाशतापत्त्या जडताप्रसङ्गात् । तत्र च इदमेवमत्र इदानीमित्यादिभेदकलना न काचित् । तत एव च परमहामन्त्रवीर्यविसृष्टिरूपाया आरभ्य वैखरीप्रसृतभावभेदप्रकाशपर्यन्तं यदियं स्वचमत्कृतिमयी स्वात्मन्येव प्रकाशनमये विश्रम्य स्फुरति तदेवं स्फुरितमविच्छिन्नतापरमार्थमहमिति । तदेततग्रे
स्फुटीभविष्यति । तन्मध्य एव तु पश्यन्त्यां यत्र भेदांशस्यासूत्रणं यत्र च मध्यमायां भेदावभासस्तत्रोभयत्र ज्ञानक्रियाशक्तिमये रूपे सदाशिवेश्वरसारे सैव अहमिति चमत्कृतिरन्तःकृतानन्तविश्वेदन्ताचमत्कृतिपूर्णवृत्तिस्तत्पश्यन्तीमध्यमात्मिका स्वात्मानमेव वस्तुतः परसंविदात्मकं विमृशति ।

[प्.१८९]

परैव च संविद्भगवती देवी इत्युच्यते । इयता पश्यन्त्यादिसृष्टिक्रमेण बाह्यनीलादिपर्यन्तेन स्वविमर्शानन्दात्मना क्रीडनेन, सर्वोत्तीर्णत्वेन सर्वोत्कर्षावस्थितेर्भगवतो भैरवस्य तथा स्थातुमिच्छया विजिगीषात्मना, इयदनन्तज्ञानस्मृतिसंशयनिश्चयादिव्यवहारकरणेन, सर्वत्र च भासमाने नीलादौ तन्नीलाद्यात्मभासनरूपेण द्योतनेन, सर्वैरेव तदीयप्रकाशावेशैस्तत्प्रवणैः स्तूयमानतया, यथेच्छं च देशकालावच्छेदेन सर्वात्मतागमनेन । अत एव मुख्यतो भैरवनाथस्यैव देवत्वमिष्यते । तच्छक्तेरेव भगवत्या देवीरूपता । यदुक्तं दिवु क्रिडाविजिगीषाव्यवहारद्युतिस्तुतिगतिष्विति । तथा च एवंविधमुख्यपारमैश्वर्यमयदेवत्वांशांशिकानुग्रहाद्
विष्णुविरिञ्च्यादिषु देवताव्यवहारः । एवं भगवती पश्यन्ती मध्यमा च स्वात्मानमेव यदा विमृशति अहमेव परावाग्देवतामयी एवमवोचमिति, तदा तेन रूपेणोल्लसन्मायारम्भतया स्वात्मापेक्षतया तन्मायीयभेदानुसारात्तामेव पराभुवं स्वात्ममयीं भूतत्वेन अभिमन्वाना, भेदावभासप्राणनान्तर्बहिष्करणपथव्यतिवर्तिनीत्वात्परोक्षतया सूर्यादिसंचारायत्तदिनविभागकृताद्यतनानवच्छेदात् । ब्रह्मणोऽनेककल्पसंमितमहः, ततोऽपि विष्णुप्रभृतेः, अन्तश्च प्राणचारादौ प्राणीयशतसहस्रांशेऽपि अहर्व्यवहार इत्यनवस्थितं काल्पनिकं चाद्यतनत्वमकाल्पनिके संविद्वपुषि कथमिति न्यायात्
भूतानद्यतनपरोक्षार्थपरिपूरणात्परोक्षोत्तमपुरुषक्रमेण विमृशेत् । अहमेव सा परावाग्देवीरूपैव सर्ववाच्यवाचकाविभक्ततयैवमुवाचेति तात्पर्यम् । सुप्तोऽ हं किल विललाप इति ह्येवमेवोपपत्तिः । तथाहि तामतीतामवस्थां न स्मरति प्रागवेद्यत्वात्, इदानीं पुरुषान्तरकथितमाहात्म्याततिविलापगानादिक्रियाजनितगद्गदिकादिदेहविक्रियावेशेन वा तदवस्थां चमत्कारात्प्रतिपद्यते । न ह्यप्रतिपत्तिमात्रमेवैतत् । मत्तः सुप्तो वाहं किल विललाप इति मदस्वप्नमूर्छादिषु हि वेद्यविशेषानवगमात्परोक्षत्वम्, परावस्थायां तु वेद्यविशेषस्याभाव एव,

[प्.१९०]

केवलमत्र वेदकतादात्म्यप्रतिपत्त्या तुर्यरूपत्वात्, मदादिषु तु मोहावेशप्राधान्यात् इतीयान्विशेषः, परोक्षता तु समानैव । एवं सर्व एव प्रमाता गुरुशिष्यादिपदे अन्यत्र वा व्यवहारे स्थितः सर्वकालमेव यत्किंचित्कुर्वाण एनामेव संविदमनुप्रविश्य सर्वव्यवहारभाजनं भवति । अतस्तामेव वस्तुतो विमृशति देवी उवाच इति । यावदुक्तं स्यादहमेव सततं सर्वमभेदेन विमृशामि पराभूमौ, अन्यथा पश्यन्तीमध्यमाभूमिगं स्फुटमिदं प्रथनं न स्यात्, तावदेवोक्तं भवति देवी उवाच इति । एवमेव पुरस्ताद्भैरव उवाच इति मन्तव्यम् । तत्रापि हि स्वपरशक्त्यविभागमयो भैरवात्मैव अहमुवाच इत्यर्थः । केवलं
शक्तिप्रधानतया सृष्टिस्वभावाख्यामर्शे अहमित्युचितो देवीपरामर्शः, शक्तिमत्प्रधानतया संहारावेशविमर्शे मह इति भैरवरूपचमत्कारः । स्फुटयिष्यते चैतत् ।

एतच्च पश्यन्तीमध्यमाभुवि ज्ञानशक्तिमय्यामेव परस्या इच्छाशक्तिमय्याः संविदो विमर्शनं, तदेव च सर्वारम्भपर्यन्तशास्त्रप्रयोजनम् । अत एव ज्ञनशक्तावेव सदाशिवमय्यां पूर्वोत्तरपदवाक्यक्रमोल्लासाद्वास्तवपरमहामन्त्रवीर्यविमर्श एव दकारएकारवकारयकारौकारवकारआकारचकार, भकारऐकाररेफअकारवकारअकारादिपदवाक्ययोजना । उक्तं च स्वच्छन्दतन्त्रे

उद्धरण- गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः ।
उद्धरण- पुर्वोत्तरपदैर्वाक्यैस्तन्त्रं समवतारयत् ॥ [स्वत ८.३१]

इति । एवं चानुग्रहशक्तिः सततं सर्वप्रमातृष्वनस्तमितैवेति सैष षडर्धसारशास्त्रैकप्राणः पर एव संबन्धः । अत्रानुत्तरे संबन्धान्तराणां महदन्तरालदिव्यादिव्यादीनामुक्तोपदेशेन परैकमयत्वात् । तदुक्तं त्रिकहृदये

उद्धरण- नित्यं विसर्गपरमः स्वशक्तौ परमेश्वरः ।
उद्धरण- अनुग्रहात्मा स्रष्टा च संहर्ता चानियन्त्रितः ॥ [त्रिहृ]

इति । एवममुना क्रमेण सदोदितता ।

[प्.१९१]

एवंपरमार्थमयत्वात्परमेश्वरस्य चित्तत्त्वस्य यदेवाविभागेनान्तर्वस्तु स्फुरितं तदेव पश्यन्तीभुवि वर्णपदवाक्यविबिभाजयिषया परामृष्टं मध्यमापदे च भेदेन स्थितं वस्तुपूर्वकं संपन्नं यावद्वैखर्यन्तमनुत्तरं कथमित्यादि भिन्नमायीयवर्णपदवाक्यरचनान्तम् । एतदेव तदनुपलक्ष्यं भैरववक्त्रं सृष्टिपरामर्शात्मकम्, अनुत्तराहंभावसाराकाराकाररूपशिवशक्तिसंघट्टसमापत्तिक्षोभात्मकं त्रिकशास्त्रप्रसरबीजं ध्रुवपदं मौलिकं सर्वजीवतां जीवनैकरूपम् । अत एव व्यवच्छेदाभावात्स्थाननिर्देशाद्ययोगात्स्थानादिपूर्वकत्वं
नोपपन्नम् । वस्तु च प्रश्नतदुत्तररूपं सततोदितमेव प्रथममविभागमयम् । तेन एतावदेवात्र तात्पर्यम् स्वात्मा सर्वभावस्वभावः स्वयं प्रथमानः स्वात्मानमेव स्वात्माविभिन्नेन प्रश्नप्रतिवचनेन प्रष्टृप्रतिवक्तृस्वात्ममयेनाहन्तया चमत्कुर्वन् विमृशतीति । अहमेवैवंविचित्रचमत्कारेच्छुस्तथा जानन्नेव तथैव भवामीति यावत्तावदेव देवी उवाच, अनुत्तरं कथमित्यारभ्य भैरव उवाच शृणु देवि इति मध्यतो यावदित्येतद्रुद्रयामलमिति । यद्वा सर्वाणि पञ्चस्रोतःप्रभृतीनि शास्त्राणि यावत्लौकिकोऽयं व्यवहारः । स एष उक्तः परः संबन्धः ।

गोप्यमुपदेशसारं सद्योभैरवपदावहं सततम् ।
अभिनवगुप्तेन मया व्याख्यातं प्रश्नसर्वस्वम् ॥

शिष्यहितपरतया तु इदमेव संगृह्याभिदध्मः ।

सर्वेषु व्यवहारेषु ज्ञेयं कार्यं च यद्भवेत् ।
तत्परस्यां तुर्यभुवि गतभेदं विजृम्भते ॥
भेदासूत्रणरूपायां पश्यन्त्यां क्रमभूजुषि ।
अन्तःस्फुटक्रमायोगं मध्यायां तद्विभेदभाक् ॥
मध्या पश्यन्त्यथ परामध्यास्याभेदतो भृशम् ।
परोक्षमिव तत्कालं विमृशेन्मत्तसुप्तवत् ॥

[ . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . ]

एवमेव एतदनुत्तरत्वं निर्वक्ष्यतीति । तदुक्तं श्रीसोमानन्दपादैः

उद्धरण- पञ्चविधकृत्यतत्परभगवद्भैरवभट्टारकस्य प्रथमशाक्तस्पन्दसमन्तरम् [पर्त्रिवि ओf सोमानन्द]

इत्यादि निजविवृतौ ।

[प्.१९२]

तद्ग्रन्थिनिर्दलनार्थ एव अयमस्माकं तच्छासनपवित्रितानां यत्नः । उक्तः संबन्धः । अभिधेयं त्रीशिका इति । तिसृणां शक्तीनामिच्छाज्ञानक्रियाणां सृष्ट्याद्युद्योगादिनामान्तरनिर्वाच्यानामीशिका ईश्वरी । ईशना च ईशितव्याव्यतिरेकेणैव भाविनीति एतच्छक्तिभेदत्रयोत्तीर्णा तच्छक्त्यविभागमयी संविद्भगवती भट्टारिका परा अभिधेयम्, तद्योगादेव च इदमभिधानम् । त्रिंशका इत्यपि गुरवः पठन्ति, अक्षरवर्णसाम्यात्च निरुक्तमाहुः तिस्रः शक्तीः कायतीति त्रिंशका, न तु त्रिंशच्छ्लोकयोगात्त्रिंशिका । अतावतोऽपि त्रिंशकार्थत्वात् । तथाहि श्रीतन्त्रसारे

उद्धरण- त्रिंशकार्थस्त्वया प्रोक्तः सार्धकोटिप्रविस्तरः । [तसा]

इति । अभिधानाभिधेययोश्च पर एव संबन्धस्तादात्म्यादित्युक्तप्रायं प्रयोजनं च सर्वप्रमात्ःणां विभोः परशक्तिपातानुग्रहवशोत्पन्नैतावदनुत्तरज्ञानभाजनभावानामित्थंनिजस्वरूपहृदयङ्गमीभावेन निजामोदभरक्रीडाभासितभेदस्य निखिलबन्धाभिमततत्त्वव्रातस्य स्वात्मचमत्कारपूर्णाहन्तातादात्म्यभैरवस्वरूपाभेदसमावेशात्मिका जीवत एव मुक्तिः । प्राणदेहादिभूमावेव ह्यन्तर्बहिष्करणविषयायां प्रेरणाख्यायामुद्योगबलजीवनादिरूपायां रूढस्य बन्धाभिमतेभ्यो मुक्तिरिति गीयते । त्रुटितेऽपि हि मायीये संस्कारमात्रे केयं मुक्तिवाचोयुक्तिः, किमपेक्षया वेति । तदुक्तं श्रीस्पन्दे

उद्धरण- इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् ।
उद्धरण- स पश्यन् सततं युक्तो जीवन्मुक्तो न संशयः ॥ [स्पका २.५]

इति । स्फुटीभविष्यति च एततविदूर एव ।


[ , . . . . . , . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . ]

तदनेन स्वसंवेदनेन प्रयोजनमेव अत्र सकलपुमर्थपर्यवसानमिति प्रयोजनप्रयोजनानवकाशः । उक्तान्येव संबन्धाभिधेयप्रयोजनानि ।

[प्.१९३]

अथ ग्रन्थार्थो व्याख्यायते । अनुत्तरमिति । [१.] न विद्यते उत्तरमधिकं यतः । यथा हि तत्त्वान्तराणी षट्त्रिंशदनाश्रितशिवपर्यन् तानि परभैरवबोधानुप्रवेशासादिततथाभावसिद्धीनि संविदमधिकयन्ति नैवं परा परिपूर्णा परभैरवसंवित्, तस्याः सदा स्वयमनर्गलानपेक्षप्रथाचमत्कारसारत्वात् । [२.] तथा न विद्यत्युत्तरं प्रश्नप्रतिवचोरूपं यत्र । यत एव हि महासंवित्सिन्धोरुल्लसदनन्तप्रतिभापर्यन्तधाम्न उल्लास्य प्रश्नप्रतिभानादिपात्रं भवति शिष्यः, तदेव वस्तुतस्तत्त्वं सततोदितमिति किमिव आचार्यीयमुत्तरमन्यत्स्यात् । [३.] उत्तरणमुत्तरो भेदवादाभिमतोऽपवर्गः । स हि वस्तुतो नियतिप्राणतां नातिक्रामति
। तथा हि प्रथमं शरीरात्प्राणभूमावनुप्रविश्य, ततोऽपि बुद्धिभुवमधिशय्य, ततोऽपि स्पन्दनाख्यां जीवनरूपतामध्यास्य, ततोऽपि सर्ववेद्यप्रक्षयात्मशून्यपदमधिष्ठाय, ततोऽपि सकलमलतानवतारतम्यातिशयधाराप्राप्तौ शिवत्वव्यक्त्या अणुरपवृज्यते आरोपव्यर्थत्वातिति । [४.] ईद्र्श एव नाभिहृत्कण्ठतालुब्रह्मभैरवबिलाद्यधिष्ठानक्रमप्राप्त ऊर्ध्वतरणक्रम उत्तरः । [५.] तथा उत्तरन्ति अत इति उत्तरो बन्धः । [६.] उत्तरणमुत्तरो मोक्षः । तदेवंविधा उत्तरा यत्र न सन्ति । [७.] उत्तरं च शब्दनम् । तत्सर्वथा ईदृशं तादृशमिति व्यवच्छेदं कुर्यात् । तद्यत्र न भवत्यव्यवच्छिन्नमिदमनुत्तरम् । [८.] इदमित्यपि हि व्यवच्छिन्नोत्तरव्यवच्छेदप्राणमेवेति व्यवच्छेदकत्वात्
विकल्पात्मैव । अत एव यावदनुत्तरे रूपे प्रविविक्षुर्मायीयः प्रमाता तावत्कल्पित एव विशेषात्मनि । तत्रत्वविकल्पितं यदविनाभावि, तद्विना कल्पितरूपास्फुरणात्, तदेव वस्तुतोऽनुत्तरम् । तत्र हि भावनादेरनुपपत्तिरेव वस्तुत इति भावनाकरणोज्झितत्वमुक्तम्, न तु अनुपयुक्तित एव । [९.] तदीदृशमनुत्तरं व्यवहारवृत्तिष्वप्येवमेव । तदुक्तं मयैव स्तोत्रे

[प्.१९४]

उद्धरण- वितत इव नभस्यविच्छिदैव प्रतनु पतन्न विभाव्यते जलौघः ।
उद्धरण- उपवनतरुवेश्मनीध्रभागाध्युपधिवशेन तु लक्ष्यते स्फुटं सः ॥

तद्वत्

उद्धरण- ... परभैरवोऽतिसौक्ष्म्यादनुभवगोचरमेति नैव जातु ॥
उद्धरण- अथ देशाकृतिकालसन्निवेशस्थितिसंस्पन्दितकारकत्वयोगाः ॥
उद्धरण- जनयन्तो ह्यनुभाविनीं चितिं ते झटिति न्यक्कृतभैरवीयबोधाः ॥

इतियादि । तथा च वक्ष्यते उत्तरस्याप्यनुत्तरमिति । व्याख्यायते चैतत् । [१०.] एवमेव नरात्मनः शाक्तमुत्तरं ततोऽपि शाम्भवम् । तथा तेष्वपि भूततत्त्वात्ममन्त्रेश्वरशक्त्यादिभेदेन स्वात्मन्येव उत्तरोत्तरत्वम्, भूतादिष्वपि पृथिव्यादिरूपतया, जाग्रत उत्तरं स्वप्नः, ततः सुप्तम्, ततस्तुर्यम्, ततोऽपि तदतीतम्, जाग्रदादिष्वपि स्वात्मन्येव चतुरादिभेदतया उत्तरोत्तरत्वम् । तदेतत्श्रीपूर्वपञ्चिकायां मयैव विस्तरतो निर्णीतमिह अनुपयोगाद्ग्रन्थगौरवाच्च न वितत्योक्तम् । [११.] तदीदृशमौत्तराधर्यद्वैतसंमोहाधायि उत्तरत्वम् । तथा विप्रराजन्यविट्सूद्रान्त्यजातिविभागमयमूनाधिकत्वं यत्र न स्यात् । भावप्राधान्यमुत्तरशब्दस्य [१२.] उत्तराः पश्यन्त्याद्याः शक्तयः,
अघोराद्याः, पराद्याः, ता यत्र न स्युः । [१३.] नुद प्रेरणे इति नोदनं नुत् । तया तरणं दीक्षाक्रमेण तरः । शिष्यचैतन्ये गुरुचैतन्यं प्रेर्यते । तेन हंसप्राणादिशून्यविषुवत्प्रभृतिस्थानभेदपरिपाट्या सकले निष्कलेऽपि वा पूर्णाहुतियोजनिकादिस्थित्या मोक्षदां दीक्षां विधत्ते । तदत्र चैतन्यस्य स्वप्रकाशस्य व्यापिनो दे शकालाकारविशेषाविशेषितस्य कथंकारमिमा विडम्बनाः ।

[प्.१९५]

तदेवंविधो नुदा प्रेरणेन तरस्तरणं यत्र न भवति तदनुत्तरम् । यद्वक्ष्यते

उद्धरण- एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी ।
उद्धरण- दीक्षाभवति ... [वेर्से २५]

इति । [१४.] अनिति स्वसितीति क्विपि अनणुरात्मा देहपुर्यष्टकादिः । तथा अननं जीवनम् । अन् देहाद्यन्तर्गतैव भिन्नभिन्नशक्त्याद्यहन्ताशून्यप्राया जीवनाख्या वृत्तिः, यः शून्यप्रमाता इत्यभिहितः, तस्यैवोत्तरत्वं सर्वतः परमार्थतया आधिक्यं यत्र, भैरवैकमयत्वात् । जडाजडभरिते जगति जडैर्जीवदेकमग्नैः स्थीयते, जीवतां च जीवनं नाम प्रागुक्तम्, ज्ञानक्रियारूपमेकं पारमेश्वर्यं सर्वेषां, परत्रापि हि स्ववद्देहादिरेव पृथक्तया भाति । यत्पुनः प्राणनं तदभेदेनैव स्वप्रकाशम् । एतदेव च परमार्थो यदुक्तं श्रीमदुत्पलदेवपादैः

उद्धरण- ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम् । [ईश्वरप्रत्यभिज्ञाकारिका १.१४]

इति । तथा जीवनं ज्ञानक्रिये एव इति । [१५.] अ इति च येयममायीयाश्रौतनैसर्गिकमहाप्रकाशविश्रान्तनिस्तरङ्गचिदुदधिस्वात्मचमत्काररूपा शाक्तोल्लासमयविश्वामर्शनरूपपरिपूर्णाहंभावप्रथमपर्यवसानोभयभूमिगा कला तस्या एव वक्ष्यमाणनयेन येयं नुद्विसर्गान्तता तस्या एव तरः प्लवनं सर्वोपरिवृत्तित्वं यत्र । [१६.] अविद्यमाना देशकालगमनागमनादिद्वैतसापेक्षा नुत्प्रेरणा क्रमात्मकक्रियामयी यत्र ततनुदाकाशादि लोकप्रसिद्ध्या । ततोऽपि सातिशयमनुत्तरम् । तस्यापि ह्याकाशादेः संयोगिघटादिचित्रोपाधिवशात्समवायिशब्दादियोगाच्च स्यादपि ईदृशी सक्रमा क्रिया । संवित्तत्त्वे तु सर्वतोऽनवच्छिन्नपूर्णस्वातन्त्र्यैश्वर्यसारेऽविच्छिन्नचमत्कारमयविश्रान्त्या स्वीकृतशङ्क्यमानोपाधिभावे
सकलेदन्तास्पदभावपूगपरिपूरिताहमात्मनि निराभासे सदाभासमाने स्वीकाराभासीकृतानाभासे इदन्ताभासतदनाभाससारदेशकालापेक्षक्रमाभावादक्रमैव स्वात्मविमर्शसंरम्भमयी मत्स्योदरीमतादिप्रसिद्धा विमर्शाभिधा क्रिया इति तदेव अनुत्तरम् ।

[प्.१९६]

अतिशयमात्रे तमपो विधिः, द्विवचनविभज्योपपदे अत्र तरप् । तत्रायं शुक्लोऽयं शुक्लः, अयमनयोरतिशयेन शुक्ल इति वाक्येऽयमर्थः अनयोः शुक्लयोः मध्याततिशयेनायं शुक्लः शुक्लतरः लेषां तु शुक्लानामयमतिशयेन शुक्ल इति कोऽयमधिकोऽर्थः । तथा ह्ययं प्रासादः शुक्लः, अयं पटः शुक्लः, अयं हंसश्च शुक्लः, एषां सातिशयः शुक्लतम इति । तत्र प्रासादोऽपि शुक्लः पटोऽपि शुक्ल इति किमिव अधिकमुक्तं स्यात् । तमपि प्रत्यये एवंविधवाक्यकरणमयुक्तमेव । न च तरपः
तमपधिकमतिशयमभिदध्यात्, एवं तावत्तु स्यात्, अविवक्षिते प्रतियोगिविशेषे तमप्प्रयोगः, प्रतियोगिविशेषापेक्षायां तु तरप् । प्रतियोग्यपेक्षैव द्विवचनविभज्योपपदार्थः । एक एव हि प्रतियोगी भवेत् । अनयोरयं शुक्लोऽतिशयेन इति न तृतीयः प्रतीयते, निर्धारणार्थेन प्रथमस्यैव प्रतियोगित्वावगतेः । न च द्विप्रभृत्यपेक्षा भवति एकस्य युगपत्, एकैकापेक्षा मता इति तस्य क्रमेण नाधिकोऽर्थः कश्चित् । तारतम्यमिति तु प्रयोगः क्रमातिशयेऽव्युत्पन्न एव । न तु तरप्तमप्प्रत्ययार्थानुगमात्तार्यं ताम्यमित्याद्यपि हि स्यात् । तदलमकाण्डे श्रुतलवकौशलप्रथनेन । इह तूत्तरक्रमिकप्रतियोग्यपेक्षायामनुत्तममित्य्
अपि प्रयोगे अयमेवार्थः । तथाह्यागमान्तरे

उद्धरण- अद्यापि यन्न विदितं सिद्धानां बोधशालिनाम् ।
उद्धरण- न चाप्यविदितं कस्य किमप्येतदनुत्तमम् ॥ [? ।च्f तआल्२.२८]

इति । एवं स्वातन्त्र्यसाराकलितक्रियाशक्तिशरीरमनुत्तरम् । तदुक्तमुत्पलदेवपादैः

उद्धरण- सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः ।
उद्धरण- घटते न तु शास्वत्याः प्राभव्याः स्यात्प्रभोरिव ॥ [।िप्क्२.१.२]

[प्.१९७]

इति । तत्व्याख्यातमिदमनुत्तरं षोडशधा । यदुक्तं सारशास्त्रे

उद्धरण- अनुत्तरं तद्धृदयं हृदये ग्रन्थिरूपता ।
उद्धरण- ग्रन्थिं षोडशधा ज्ञात्वा कुर्यात्कर्म यथासुखम् ॥ [त्रिकसार ?]

इति । तथा

उद्धरण- हृदये यः स्थितो ग्रन्थिः [अध ऊर्ध्वनियामकः, ।चित् ।िप्व्व्३ प्. २९३ अत्त्रिब्. तो मालिनीसार]

इत्यादि ।

तदीदृगनुत्तरं केन प्रकारेण किमुत्तररूपपरित्यागेन उतस्विदन्यथेति । कश्चायं प्रकारः, यदनुत्तरं सर्वमिदं हि ज्ञानज्ञेयजातं सर्वत एवान्योन्यं भेदमयं विरोधमुपलभते, ततश्चेदमौत्तराधर्यं भवेदेवेति । कस्मिंश्च प्रकारे मोक्ष एव किं वा बन्धाभिमतेऽपीति । थमुप्रत्ययस्य विभक्तिविशेषार्थानियमेन प्रकारमात्रे विधानात्प्रकारमात्रविषय एवायं प्रश्नः । देव इति व्याख्यातम् ।

कुलं स्थूलसूक्ष्मपरप्राणेन्द्रियभूतादि समूहात्मतया कार्यकारणभावाच्च । यथोक्तं संहत्यकारित्वादिति । तथा कुलं बोधस्यैव आश्यानरूपतया यथावस्थानाद्बोधस्वातन्त्र्यादेव चास्य बन्धाभिमानात् । उक्तं हि कुल संस्त्याने बन्धुषु च इति । न हि प्रकाशैकात्मकबोधैकरूपत्वादृते किमप्येषामप्रकाशमानं वपुरुपपद्यते । तत्र कुले भवा कौलिकी सिद्धिस्तथात्वदार्ढ्यं परिनिर्वृत्यानन्दरूपं हृदयस्वभावपरसंविदात्मकशिवविमर्शतादात्मयम् । तां सिद्धिं ददाति । अनुत्तरस्वरूपतादात्म्ये हि कुलं तथा भवति । यथोक्तम्

उद्धरण- व्यतिरेकेतराभ्यां हि निश्चयोऽन्यनिजात्मनोः ।
उद्धरण- व्यवस्थितिः प्रतिष्ठाथ सिद्धिर्निर्वृतिरुच्यते ॥ [अजडप्रमातृसिद्धि १२]
इति । सद्य इति शब्दः समाने अहनि इत्यर्थवृत्तिरुक्तनयेन अह्नोऽनवस्थितत्वात्समाने क्षणे इत्यत्रार्थे वर्तते । समानत्वं च क्षणस्य न सादृश्यम्, अपि तु तत्त्वपर्यवसाय्येव । एवमेव सद्यःशब्दात्प्रतीतिः ।

[प्.१९८]

अतस्तस्मिन्नेव क्षण इति वर्तमानक्षणस्य सावधारणत्वेन भूतभविष्यत्क्षणान्तरनिरासे तदुभयापेक्षकलनाप्राणां वर्तमानस्यापि कालतां निरस्येत यतो यावदिदं परमेश्वरस्य भैरवभानोः रश्मिचक्रात्मकं निजभासास्फारमयं कुलमुक्तम् । तच्चेदन्तर्मुखपरभैरवसंवित्तादात्म्यलक्षणं निरोधमेति, तदा तदेव परमानन्दामृतास्वादमयमदेशकालकलितमनुत्तरं ध्रुवं विसर्गरूपं सततोदितम् । तदुक्तं श्रीवाद्यतन्त्रे

उद्धरण- संरुध्य रश्मिचक्रं स्वं पीत्वामृतमनुत्तमम् ।
उद्धरण- कालोभयापरिच्छिन्नं वर्तमाने सुखी भवेत् ॥ [श्रीवाद्यतन्त्र? ।चित्मालिनीविजयवार्त्तिक १.१५६ अत्त्रिब्. तो डामरतन्त्र]

इति । विस्तारितश्च विस्तरतोऽन्यत्र मयैव कालोभयापरिच्छेदः । तथा कुलात्प्राणदेहादेरागता सिद्धिर्भेदप्राणानां नीलसुखादीनां निश्चयरूपा तां ददातीति । शरीरादयो हि झगिति अनुत्तरध्रुवविसर्गवीर्यावेशेन अकालकलितेन प्राणादिमध्यमसोपानारोहेणैव भावानां तथात्वनिश्चयरुपां सिद्धिं विदधते । यथोक्तम्

उद्धरण- अपि त्वात्मबलस्पर्शात्पुरुषस्तत्समो भवेत्[स्पन्दकारिका १.८]

इति । तथा

उद्धरण- ... करणानीव देहिनाम् । [स्पन्दकारिका २.१०]

इति । तथा कुले शिवशक्त्यात्मनि संनिहितेऽपि सिद्धिरुक्तनयेन जीवन्मुक्ततामयी समभिलषिताणिमादिप्रसवपदम् । तां सद्यः अनाकलितमेव भावनाकरणादिरहितत्वेनैव ददाति । यदुक्तं श्रीसोमानन्दपादैः ।

उद्धरण- भावनाकरनाभ्यां किं शिवस्य सततोदितेः । [शिवदृष्टि ८.५,६ छेच्क्]

इति । तथा

उद्धरण- एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः ।
उद्धरण- ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना ॥
उद्धरण- करणेन नास्ति कृत्यं क्वापि भावनयापि वा । [शिवदृष्टि ७.५५६?छेच्क्]

इति । कुले जाता सिद्धिः शाक्तहादिरूपप्रसरणादारभ्य बहिर्भावपटलविकासपर्यन्तं भेदावभासना । तां ददाति ।

[प्.१९९]

तदेव ह्यनुत्तरं महाप्रकाशात्म अन्तःकृतबोधमयविश्वभावप्रसरमनुत्तरत्वादेव निरतिशयस्वातन्त्र्यैश्वर्यचमत्कारभराद्भेदं विकासयति । न ह्यप्रकाशरूपं भावविकासप्रकाशे कारणं भवेत् । प्रकाशात्मकं चेन्नूनं तत्परमेश्वरभैरवभट्टारकरूपमेवेति किमपरेण वाग्जालेन । तथा येन अनुत्तरेण विशेषेण ज्ञाता मात्रा मानेन प्रमात्मना त्राणं पालनं पतित्वं यासां प्रमातृप्रमाणप्रमेयप्रमितिरूपाणां ता मात्रा विज्ञाता येन तत्विज्ञातमात्रम् । तथा विशेषेण प्रतिपत्तिदार्ढ्यबन्धेन यज्ज्ञातं तद्विभातमेव, न पुनः भावनीयं सकृद्विभातात्मत्वात् । तथा ज्ञातमात्रं ज्ञातम्
एव ज्ञेयैकरूपत्वात्, न तु कदाचित्ज्ञातृरूपं घटादि । तथा ज्ञाता ज्ञेयरूपा भेदमयी इयं माया । तदुभयं विगतं यत्र तत्विज्ञातमात्रम् । घटादयो यत्र ज्ञात्रेकरूपत्वेन स्वप्रकाशात्मानः, यत्र च माया न प्रभवति, तेन विज्ञातमात्रेण ।

खे ब्रह्मण्यभेदरूपे स्थित्वा चरति विषयमवगमयति । तथा हानादानादिचेष्टां विधत्ते स्वरूपे चास्ते इति खेचर्यन्तर्बहिष्करणतदर्थसुखादिनीलादिरूपा । तथाहि वेद्यवेदकभावानुल्लासिपदे शून्ये संविन्मात्रदृगुल्लासे संवेद्यगतान्तरैक्यरूपदिश्यमानभेदोल्लासे स्फुटभेदोद्रेके च क्रमेण व्योमचरीगोचरीदिक्चरीभूचरीभूता याः शक्तयस्ता वस्तुत उक्तनयेन स्वभावचरखेचरीरूपशक्त्यविभक्ता एवेत्येकैव सा पारमेश्वरी शक्तिः । यदुक्तम्

उद्धरण- शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः । [अत्त्रिब्. तो मङ्गलशास्त्र]

इति । ततः स्त्रीलिङ्गेन निर्देषः । न ह्यात्मनो मनस इन्द्रियाणां बाह्यानां च भेदविषयस्य व्यवस्थापनं व्यवस्था च युज्यते, अभिसंधानाद्ययोगादप्रकाशत्वाच्च । सैव खेचरी कामक्रोधादिरूपतया वैषम्येन लक्ष्यते । तस्याः समता सर्वत्रैव परिपूर्णभैरवस्वभावात् । अणुमात्रमप्यविकलानुत्तरस्वरूपापरिज्ञानमेव चित्तवृत्तीनां वैषम्यम्, स एव च संसारः, अपूर्णाभिमानेन स्वात्मन्यणुत्वापादनाताणवमलस्य, तदपूर्णरूपपरिपूर्णाकाङ्क्षायां भेददर्शनात्मायाख्यस्य मलस्य, तच्छुभासुभवासनाग्रहेण कार्ममलस्य चोल्लासात् ।

[प्.२००]

स्वरूपापरिज्ञानमयतद्वैषम्यनिवृत्तौ मलाभावात् । क्रोधमोहादिवृत्तयो हि परिपूर्णभगवद्भैरवभट्टारकसंविदात्मिका एव । यदुक्तं श्रीसोमानन्दपादैः

उद्धरण- ... तत्सरत्प्रकृतिः शिवः । [शिवदृष्टि ३.९४]

इति । तथा

उद्धरण- सुखे दुःखे विमोहे च स्थितोऽहं परमः शिवः । [शिवदृष्टि ७.१०५]

इति ।

उद्धरण- दुःखेऽपि प्रविकासेन स्थैर्यार्थे धृतिसंगमात् । [शिवदृष्टि ५.९]

इत्यादि । क्रोधादिवृत्तयो हि चिच्चमत्कारतादात्म्यादन्यथा तत्स्वरूपलाभस्यैवायोगाच्च परमेश्वर्यः करणदेवता एव भगवत्यस्तास्ताः क्रीडा वितन्वत्यः शिवार्कस्य दीधितिरूपाः । तथा ता एव तत्तत्परस्परसांकर्यलब्धासंख्येयरूपास्तत्तदुच्चाटनमारणशान्त्यादिरूपेषु कर्मसु परिकल्पिततत्तत्समुचितसौम्यरौद्रप्रकाराः कृत्यादिभेदाद्देवतात्वेनोपास्या उक्ता मतादिशास्त्रेषु भगवद्भैरवभट्टारकपरिवारभूताश्च । यथोक्तम्

उद्धरण- उच्चाटने काकवक्त्रा ... । [मतशास्त्र?]

इत्याद्युपक्रम्य

उद्धरण- ता एव देवदेवस्य रश्मयः कादिधारिकाः । [मतशास्त्र?]

इत्यादि । तथात्वेन त्वपरिज्ञातस्वरूपाश्चिच्चमत्कारं विकल्पेऽपि निर्विकल्पैकसारं तेन तेन विचित्रवर्णाक्षरपुञ्जात्मना घोरतरात्मना विकल्परूपेण देवतात्मना शङ्कातङ्कानुप्रवेशेन तिरोदधत्यः सांसारिकपाश्यपशुभावदायिन्यः । यथोक्तम्

[प्.२०१]

उद्धरण- पीठेश्वर्यो महाघोरा मोहयन्ति मुहुर्मुहुः । [तिमिरोद्घाट अच्च्. तो क्षेमराज अद्शिवसूत्र १.४]

इति । तथा

उद्धरण- विषयेष्वेव संलीनानधोऽधः पातयन्त्यणून् । [मालिनीविजयोत्तर ३.३१ ब्]

इत्यादि । तथा

उद्धरण- शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् ।
उद्धरण- कलाविलुप्तविभवो गतः सन् स पशुः स्मृतः ॥ [स्पन्दकारिका ३.१३]

इति । ज्ञातस्वरूपास्ता एवोक्तयुक्त्या जीवन्मुक्तताप्रदायिन्यः । तथा उक्तम्

उद्धरण- यदा त्वेकत्र संरूढस्तदा तस्य लयोद्भवौ ।
उद्धरण- नियच्छन् भोक्तृतामेति ततश्चक्रेश्वरो भवेत् ॥ [स्पन्दकारिका ३.१९]

इति । स्वरूपपरिज्ञानं च एतावदेव यदेतासु वृत्तिषूदयसमयनिर्विकल्पैकरूपासु विकल्पोऽप्युदयमानो वर्णराशिसमारब्धतत्तद्विचित्रशब्दारूषितत्वेऽपि न तादृशेन वर्णपुञ्जात्मना शक्तिचक्रेण युज्यते, यत्तस्य प्राक्तननिर्विकल्पैकव्यवहारमयस्य विकल्पात्मनो मातुः स्वरूपं खण्डयेत् । न च विकल्पा अनुभवाद्विकल्पान्तराद्वा भिन्नाः, अपि तु स एवैकः स्वातन्त्र्यभेदितभावोपरागलब्धभेदभूताद्यभिधविज्ञानचक्रप्रभुः । तदेवं खेचरीसाम्यमेव मोक्षः । तच्चानुत्तरस्वरूपपरिज्ञानमेव सततोदितं परमेश्वर्याः शिवात्मनि संघट्टसमापत्त्या उभयविमर्शानन्दरूढि । शिवो हि परवाङ्मयमहामन्त्रवीर्यविसृष्टिमयः परमेश्वरीविसृष्ट्या
तद्वीर्यघनतात्मकप्रसूननिर्भरया सृष्ट्या युज्यते । तथा हि सर्वेषामन्तर्बहिष्करणानां यद्यदनुप्रविशति तत्तन्मध्यमनाडीभुवि सर्वाञ्गानुप्राणनसारायां प्राणात्मना चेतनरूपेणास्ते यदोज इति कथ्यते । तदेव सर्वाङ्गेष्वनुप्राणकतया तदविभक्तवीर्यरूपत्वेन ।

[प्.२०२]

ततोऽपि पुनरपि नयनश्रवणादीन्द्रियद्वारेण बृंहकरूपं रूपशब्दाद्यनुप्रविशद्बृंहकत्वादेव तद्वीर्यक्षोभरूपकामानलप्रबोधकं भवति । यथोक्तम्

उद्धरण- आलापाद्गात्रसंस्पर्शात्

इत्यादि । एकेनैव च रूपाद्यन्यतमेनोद्रिक्तप्राक्तनबलोपबृंहितस्य सर्वविषयकरणीयोक्तक्षोभकरणसमर्थत्वं सर्वस्य सर्वस्य सर्वसर्वात्मकत्वात् । स्मरणविकल्पनादिनापि सर्वमयमनोगतानन्तशब्दादिबृंहणवशाज्जायत एव क्षोभः । परिपुष्टसर्वमयमहावीर्यमेव पुष्टिकारि न त्वपूर्णं नापि क्षीनं समुचितं शैशववार्द्धकयोर् । वीर्यविक्षोभे च वीर्यस्य स्वमयत्वेनाभिन्नस्याप्यदेशकालकलितस्पन्दमयमहाविसर्गरूपमेव परिपूर्णभैरवसंविदात्मकं स्वातन्त्र्यमानन्दशक्तिमयं सुखप्रसवभूः । नयनयोरपि हि रूपं तद्वीर्यक्षोभात्मकमहाविसर्गविश्लेषणयुक्त्या एव सुखदायि
भवति । श्रवणयोश्च मधुरगीतादि । अन्यत्रापीन्द्रिये अन्यत्केवलं परिपूर्णसृष्टितां नाश्नुते स्वात्मन्येवोच्छलनात् । तथा च तद्वीर्यानुपबृंहितानामविद्यमानतथाविधवीर्यविक्षोभात्मकमदनानन्दानां पाषाणानामिव रमणीयतरतरुणीरूपमपि नितम्बिनीवदनघूर्णमानकाकलीकलगीतमपि न पूर्णानन्दपर्यवसायि । यथा यथा च न बृंहकं भवति तथा तथा परिमितचमत्कारपर्यवसानम् । सर्वतो ह्यचमत्कारे जडतैव । अधिकचमत्कारावेश एव वीर्यक्षोभात्मा सहृदयता उच्यते । यस्यैव एतद्भोगासङ्गाभ्यासनिवेशितानन्तबृंहकवीर्यबृंहितं हृदयं तस्यैव सातिशयचमत्क्रिया । दुःखेऽप्येष एव चमताक्रः । अन्तर्व्यवस्थितं
हि यत्तद्दयितसुतसुखादि वीर्यात्मकं तदेव भावनासदृशदृगाक्रन्दादिबोधेन क्षोभात्मकं विकासमापन्नं पुनर्न भविष्यतीति नैरपेक्ष्यवशसविशेषचमत्क्रियात्म दुःखसत्त्वम् । तदुक्तम्

[प्.२०३]

उद्धरण- दुखेऽपि प्रविकासेन [शिवदृष्त्टि ५.९]

इति । यदा सकलेन्द्रियनाडीभूतमरुदादिपरिपूरणे तु महामध्यमसौषुम्नपदानुप्रवेशे निजशक्तिक्षोभतादात्म्यं प्रतिपद्यते तदा सर्वतो द्वैतगलने परिपूर्णस्वशक्तिभरविमर्शाहन्तामयचमत्कारानुप्रवेशे परिपूर्णसृष्ट्यानन्दरूपरुद्रयामलयोगानुप्रवेशेन तन्महामन्त्रवीर्यविसर्गविश्लेषणात्मना ध्रुवपदात्मकनिस्तरङ्गाकुलभैरवभावाभिव्यक्तिः । तथा हि तन्मध्यनाडीरूपस्योभयलिङ्गात्मनोऽपि तद्वीर्योत्साहबललब्धावष्टम्भस्य कम्पकाले सकलवीर्यक्षोभोज्जिगमिषात्मकमन्तःस्पर्शसुखं स्वसंवित्साक्षिकमेव । न चैतत्कल्पितशरीरनिष्ठतयैव केवलम् । तदभिज्ञानोपदेशद्वारेणेयति महामन्त्रविसर्गविश्लेषणावाप्तध्रुवपदे
परब्रह्ममयशिवशक्तिसंघट्टानन्दस्वातन्त्र्यसृष्टिपराभट्टारिकारूपेऽनुप्रवेशः । तद्वक्ष्यते

उद्धरण- तत्र सृष्टिं यजेद्[परात्रिंश्. २९]

इत्यादि । तथा

उद्धरण- यथा न्यग्रोधबीजस्थः [परात्रिंश्. २४]

इत्यादि । तथा

उद्धरण- इत्येतद्रुद्रयामलम् [परात्रिंश्. ३५]

इत्यादि । अन्यत्राप्युक्तम्

उद्धरण- लेहनामन्थनाकोटैः स्त्रीसुखस्य भरात्स्मृतेः ।
उद्धरण- शक्त्यभावेऽपि देवेशि भवेदानन्दसंप्लवः ॥ [विज्ञानभैरव ७०]

इति । भरात्स्मर्यमाणो हि स स्पर्शस्तत्स्पर्शक्षेत्रे च मध्यमाकृत्रिमपरात्मकशक्तिनालिकाप्रतिबिम्बितस्तन्मुख्यशाक्तस्पर्शाभावेऽपि तदन्तर्वृत्तिशाक्तस्पर्शात्मकवीर्यक्षोभकारी भवतीत्यभिप्रायेण । तथा

[प्.२०४]

उद्धरण- शक्तिसंगमसंक्षोभशक्त्यावेशावसानकम् ।
उद्धरण- यत्सुखं ब्रह्मतत्त्वस्य तत्सुखं स्वाक्यमुच्यते ॥ [विज्ञानभैरव ६९]

इति ।

उद्धरण- ... स्नेहात्कौलिकमादिशेत् । [?]

इति च । महावीरेण भगवता व्यासेनापि

उद्धरण- मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ।
उद्धरण- संभवः सर्वभूतानां ततो भवति भारत ॥ [भगवद्गीता १४.३]

इत्य्{अपि} गीतम् । सोमानन्दपादैरपि निजविवृतौ

उद्धरण- भगवत्या रतस्थाया प्रश्न इति परैकमयत्वेऽपि तन्मयमहदन्तरालाभिप्रायेण् [परात्रिंशिकाविवृति ओf सोमानन्द]

इति । तदलममुना त्रिकशास्त्ररहस्योपदेशकथातिप्रस्तावेन । तदिदमनुत्तरं कौलिकसिद्धिदं येन ज्ञातमात्रेण खेचरीसाम्यमुक्तनयेन

_____________________________________________________________


पर्त्रि २ ब्

एतद्गुह्यं महागुह्यं कथयस्व मम प्रभो ।

_____________________________________________________________


गुह्यमप्रकटत्वात् । यतो गुहायां स्वरूपापरिज्ञानमय्यां सत्यां स्थितमप्यप्रकटम् । अथ च महदगुह्यं सर्वस्य एवंविधचमत्कारमयत्वात् । मातृमानमेयमयभेदाविभागशालिनी भगवती शुद्धविद्यैव त्रिकोणा मायायामतिशयप्रतिफलितभेदावग्रहा भवतीति मायापि जगज्जननभूर्विद्यैव वस्तुतः । तदुक्तेन नयेन सैवंभूतत्वेन परिज्ञायमानत्वादभेदमाहात्म्यतिरोहिततत्प्रमात्रादिकोणत्रयत्वान्महागुहेत्युच्यते । सैव च वस्तुतः पूजाधाम त्रिशूलं त्रिकार्थे । तदुक्तम्

उद्धरण- स त्रिकोणा महाविद्या त्रिका सर्वरसास्पदम् ।
उद्धरण- विसर्गपदमेवैष तस्मात्संपूजयेत्त्रिकम् । [?]

इति । तथा

उद्धरण- उदेत्येकः समालोकः प्रमाणार्थप्रमातृगः । [सिद्धपाद ?](क्रमस्तोत्र ओf एरकनाथ)

इति । ततश्च ईदृश्यां महागुहायां शुद्धविद्याहृदयमय्यां महासृष्टिरूपायां जगज्जन्मभूमौ स्वचमत्काररूपेण भवति यन्मह इति यदेतद्गुह्यम् । एतेन हि यदिदमविच्छिन्नभैरवभासाविमर्शरूपं स्वातन्त्र्यं भावेभ्यः स्वरूपप्रत्युपसंहारक्रमेण आत्मविमर्शविश्रान्तिरूपत्वम् । प्रकाशस्य हि स्वाभाविकाकृत्रिमपरवाङ्मन्त्रवीर्यचमत्कारात्म अहमिति । यथोक्तम्

उद्धरण- प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः । [अजडप्रमातृसिद्धि २२ द्]

इति । तदेव गुह्यमतिरहस्यम् । तथा हि सृष्टिक्रमेण यथाविकृतानुत्तरध्रुवरूपविश्रान्तो भैरवभट्टारकः सकलकलाजालजीवनभूतः सर्वस्यादिसिद्धोऽकलात्मकः स एव प्रसरात्मना रूपेण विसर्गरूपतामश्नुवानो विसर्गस्यैव कुण्डलिन्यात्मकहशक्तिमयत्वात्पुनरपि तच्छाक्तप्रसराभेदवेदकरूपबिन्द्वात्मना नररूपेण प्रसरति । तथा पुनरपि तन्मूलत्रिशूलप्राणपरशक्तित्रयोपसंहारे तद्विसर्गविश्लेषणया मूलध्रुवपदानुत्तरप्रवेशः सर्वदा । स्फुटयिष्यते चैतदविदूर एव । महे परमानन्दरूपे पूर्वोक्ते यदिदमुक्तनयेन अ इति रूपं तदेव गुह्यम् । एतदेव च महागुह्यं जगज्जननधाम । तथोभयसमापत्त्यानन्देनागुह्यं सर्वचमत्कारमयम् । स्व आत्मनेव हे प्रभो एवंविधवैचित्र्यकारितया
प्रभवनशील । आमन्त्रणमेतत् । तच्चामन्त्र्यस्यामन्त्रकं प्रति तादात्म्यमाभिमुख्यं प्रातिपदिकार्थादधिकार्थदायि । यथोक्तम् ।

उद्धरण- संबोधनाधिकः प्रातिपदिकार्थ । [।च्f वाक्यपदीय ३.७ (साधनसमुद्देश) १६३ (+ हेलाराज)]

इति । निर्णीतं चैतन्मयैव श्रीपूर्वपञ्चिकायाम् । एतत्कथय परावाग्रूपतयाविभक्तं स्थितमपि पश्यन्तीभुवि वाक्यप्रबन्धक्रमासूत्रणेन योजय । यथोक्तं प्राक्

उद्धरण- गुरुशिष्यपदे स्थित्वा ... [स्वच्छन्दतन्त्र ८.३१ ।चितबोवे]

इत्यादि । पराभट्टारिकायाश्च पश्यन्त्यादितादात्म्यं निर्णीतं प्रागेव ।

[प्.२०६]

तथा मम इत्यस्य प्रत्यगात्मसंबन्धित्वस्य इदंभावस्य यद्गुह्यं मह इत्युक्तमहमिति । तथा हि ममेदं भासत इति यद्भासनं तस्य विमर्शः पुनरप्यहंभावैकसारः । स पुनरहंभावो भावप्रत्युपसंहरणमुखेनेति मह इत्येतद्रूप एव यथोक्तं प्राक् । यदुक्तम्

उद्धरण- इदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता ।
उद्धरण- या स्वस्वरूपे विश्रान्तिर्विमर्शः सोऽहमित्ययम् ॥ [अजडप्रामातृसिद्धि १५]

इति । अन्यत्रापि

उद्धरण- घटोऽयमित्यध्यवसा नामरूपातिरेकिणी ।
उद्धरण- परेशशक्तिरात्मेव भासते न त्विदन्तया ॥ [ईश्वरप्रत्यभिज्ञाकारिका १.५.१०]

इति । तदुक्तं श्रीसोमानन्दपादैर्निजविवृतौ ।

उद्धरण- अबीजं शुद्धशिवरूपम् [परात्रिंशिकाविवृति ओf सोमानन्द]

इत्यादि । तदेवास्माभिर्विपञ्चितमिति । तथा स्वमम सुष्ठ्वविद्यमानं मम इति यस्य । अहन्ताभरैकरूढत्वात्विश्वं न किंचिद्यस्य व्यतिरिक्तनिर्देशप्राणषष्ट्यर्थयोगि भवति । शास्त्रान्तरदीक्षितानां विज्ञानाकलानां प्रलयकेवलिनां च यद्यपि ममेति व्यतिरिक्तं नास्ति तथापि यद्भेदयोग्यतावासना स्यादेव प्रबोधसमये तद्विकासातहंभावारूढिः । तदपाकृत्यै सुष्ठुशब्दार्थे सुः । यदुक्तं मयैव स्तोत्रे
उद्धरण- यन्न किंचन ममेति दीनतां प्राप्नुवन्ति जडजन्तवोऽनिशम् ।
उद्धरण- तन्न किंचन ममास्मि सर्वमित्युद्धुरां धुरमुपेयिवानहम् ॥ [? स्तोत्र ओf अभ्.]

इति । शोभनेन द्वैतकलङ्काङ्कनाकालुष्यलेषशून्येनामेन परमार्थोपदेशद्वयात्मना ज्ञानेन मा मानमवबोधो यस्य स्वप्रकाशैकरूपत्वात् । अमतीति अमा, अ इति मा यत्र, अविद्यमानं मा मानं निषेधश्च यत्र, नित्योदितत्वात्संहारश्च यत्र नास्ति, सा भगवती अमा इति उच्यते । अमा शोभना सततोदिता यत्र मायायां प्रमाणप्रमेयव्यवहृतौ सा तादृशी मा यस्येति बहुव्रीह्यन्तं बहुव्रीहिः ।

[प्.२०७]

परमेश्वरो हि प्रमाणादिव्यवहारेऽपि परशक्तिमय एव सर्वथाद्वैतरूपत्वात्तस्य । आमन्त्रणमात्मन एव ।

इदमेव सार्धश्लोकनिरूपितानन्तप्रश्नतात्पर्यम् । संग्रहेणैतदुक्तं भवतीति निर्णेतुं निरूप्यते ।

_____________________________________________________________

पर्त्रि २ द्३ ब्

हृदयस्था तु या शक्तिः कौलिनी कुलनायिका ॥ २ ॥
तां मे कथय देवेश येन तृप्तिं लभाम्यहम् ।

_____________________________________________________________


सर्वस्य नीलसुखादेर्देहप्राणबुद्ध्यादेश्च परं प्रतिष्ठास्थानं संविदात्म हृत् । तस्यैव निजस्वातन्त्र्यकल्पितभेदा अया विचित्रानि घटादिज्ञानानि । तत्स्था इयं स्फुरणमयी शक्तिः कुलस्य नायिका शरीरप्राणसुखादेः स्फुरत्तादायिनी ब्राह्म्यादेवताचक्रस्य वीर्यभूता निखिलाक्षनाडिचक्रस्य मध्यमध्यमरुपा जननस्थानकर्णिका लिङ्गात्मा अस्ति । तत्रैव च कुले भवा कुलरूपा कौलिकी । यद्वा कुले भवमकुलात्म कौलम् । तद्यस्यामन्तस्तादात्म्येनास्ति सा कौलिकी । कुलं ह्यकुलप्रकाशरूढमेव तथा भवति । यदुक्तम्

उद्धरण- अपि त्वात्मबलस्पर्शात् । [स्पन्दकारिका १.८]

इति । तथा

उद्धरण- तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः ।
उद्धरण- प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् ॥ [स्पन्दकारिका २.१]

इति । देवानां ब्रह्मविष्णुरुद्रादीनामीशस्यामन्त्रणम् । तन्मे कथय इत्यपि पठन्ति श्रीसोमानन्दपादा व्याचक्षते च तत्तस्मादिति । यद्वा तत्कथय येन तृप्तिं परमानन्दमयीं लभे परमाद्वयनिर्वृतिस्वातन्त्र्यरसीभवामीति समन्वयः । व्रजामि इत्यपि पाठः । अहमित्यनेन सर्वप्रमातृजीवनरूपमेव सततं परामृश्यते । तच्चैवमभिहितस्वरूपोपदेशेन प्रत्यभिज्ञाय निजमीश्वररूपं परिपूर्णभावात्मिकां तृप्तिं विन्दतीति प्राक्प्रकटितमेव ।

[प्.२०८]

तदुक्तं सोमानन्दपादैः स्वविवृतौ

उद्धरण- हृद्ययो गमनं ज्ञानम् [परात्रिंशिकाविवृति ओf सोमानन्द]

इत्यादि ।

इति शिवरसं पातुं येषां पिपासति मानसं सततमशिवध्वंसे सत्तां शिवेन निवेशिताम् ।
हृदयगगनग्रन्थिं तेषां विदारायितुं हठाद् अभिनव इमां प्रश्नव्याख्यां व्यधात्त्रिकतत्त्वगाम् ॥

तदत्र प्रश्नसर्वस्वे

_____________________________________________________________

पर्त्रि
श्रीभैरव उवाच

_____________________________________________________________


व्याख्यातं प्रागेवैतत् । किं पुनरुक्ततापादनेन । भैरवो भरणात्मको महामन्त्ररवात्मकश्च । केवलमत्र शक्तिमत्प्राधान्यं संहाररूपेण मह इत्येवंरूपमित्युक्तं प्राक्स्फुटीभविष्यति चाग्रत एव । तदियानत्र तात्पर्यार्थः ।

परा भगवती संवित्प्रसरन्ती स्वरूपतः ।
परेच्छाशक्तिरित्युक्ता भैरवस्याविभेदिनी ॥
तस्याः प्रसरधर्मत्वाज्ज्ञानशक्त्यादिरूपता ।
परापरापरारूपपश्यन्त्यादिवपुर्भृतिः ॥
तदेव प्रसराकारस्वरूपपरिमर्शनम् ।
प्रश्न इत्युच्यते देवी तन्मयप्रश्नकारिणी ॥
तस्य प्रसररूपस्या परामर्शनमेव यत् ।
तदेव परमं प्रोक्तं तत्प्रश्नोत्तररूपकम् ॥
तदेवापरसंवित्तेरारभ्यान्तस्तरां पुनः ।
परसंविद्घनानन्दसंहारकरणं मुहुः ॥
अन्तर्भावितनिःशेषप्रसरं भैरवं वपुः ।
प्रतिवक्तृस्वरूपेण सर्वदैव विजृम्भते ॥
एतौ प्रसरसंहारावकालकलितौ यतः ।
तदेकरूपमेवेदं तत्त्वं प्रश्नोत्तरात्मकम् ॥
तदेवं परसंबन्धमनुत्तरतयान्वितम् ।
षडर्धसारसर्वस्वं गुरवः प्राङ्न्यरूपयन् ॥

[. . . . . . . . . . . . . . . . . . . . . . . . . . . .]

[प्.२०९]


_____________________________________________________________


पर्त्रि ३ द्४ द्

शृणु देवि महाभगे उत्तरस्याप्यनुत्तरम् ॥ ३ ॥
यदयं कौलिको विधिर्मम हृद्व्योम्न्यवस्थितः ।
कथयामि न संदेहः सद्यः कौलिकसिद्धिदम् ॥ ४ ॥

_____________________________________________________________

देवि इति प्राग्वत् । महान् भागो यस्या या भज्यमाना उक्तवक्ष्यमाणोपदेशानुशीलनेन सेव्यमाना पारमेश्वर्याख्यमहाबलदा भवतीति । महत्परममहद्रूपतया प्रसिद्धोऽनाश्रितशिवरूपः स यस्या भाग अंशः । पारमेश्वरी हि शक्तिः अनन्तषट्त्रिंशदादितत्त्वगर्भिणी । महान् बुद्ध्यादिस्तत्त्वविशेषो भागो विभागः कलापेक्षि रूपं यस्याः । पारमेश्वरी हि संविदेकघनशक्तिः स्वस्वातन्त्र्योपकल्पितभिन्नज्ञेयकार्यप्रतिष्ठापदत्वे बुद्धिरित्युच्यते । यदुक्तं श्रीसोमानन्दपादैः

उद्धरण- ... अपरस्थितौ ॥
उद्धरण- सा बुद्धिर्यत्पुनः सूक्ष्मं सर्वदिक्कमवस्थितम् ।
उद्धरण- ज्ञानं बोधमयं तस्य शिवस्य सहजं सदा ॥ [शिवदृष्टि १.२६२७]

इति । भागो भेदः स यत्रास्तीति मत्वर्थीयाकारप्रत्ययान्तेन भागशब्देन विभक्तं रूपमुच्यते । विभक्ते च वपुषि परिच्छेदोऽन्योन्यव्यवच्छेदेनैव भवतीति प्रसादात्मकविषयनिश्चयो बुद्धावुपजायमानोऽपररम्यारम्यादिविश्ववर्तिनो भावानस्पृशन्नेव प्रत्युत तान् व्यवच्छिन्दनुपजायत इति । सुखवृत्तिबुद्धेर्धर्मैश्वर्यादिरूपत्वात्सत्त्वात्मको गुणनिःष्यन्द इति गीयते । यदि तु तत्रापि अन्तस्तमामनुप्रविश्यते तत्तद्द्वारेणैव तन्मूलवर्तिनि परमानन्दधाम्नि भवेदेव सततमुदयः । अत एव महस्य सर्वतोऽखण्डितपरिपूर्णनिरर्गलनिरपेक्षस्वातन्त्र्यजगदानन्दमयस्य आ ईषद्भागाः सुखलक्षणा अंशाः । यतो यत्यत्किल सुखं तन्महानन्दनिर्वृतिपरमधाम्नि विसर्गशक्ताव्
अनुप्रवेशात्तथाऽचेत्यमानतया कियद्रूपतां प्राप्तम् ।

[प्.२१०]

तदुक्तं भट्टनारायणेन

उद्धरण- त्रैलोक्येऽप्यत्र यो यावानानन्दः कश्चिदीक्ष्यते ।
उद्धरण- स बिन्दुर्यस्य तं वन्दे देवमानन्दसागरम् ॥ [स्तचिम ६१]

इति प्राङ्नयेन यदुक्तं मह इति रूपं तदेव भजनीयं यस्याः । परमेश्वरस्य हि स्वचमत्कारबृंहितं यदहमिति तदेव शाक्तं वपुः, तदेव च पराभट्टारिकारूपमित्युच्यते । अत एव सैव च परमेश्वरी सर्वं शृणोति । श्रवणाख्यया सत्तया तिष्ठन्ती श्रवणसंपुटस्फुटक्रमिकस्वस्पन्दमयवर्णराशिनिष्ठमैकात्म्यापादनरूपसंकलनानुसंधानाख्यं स्वातन्त्र्यम् । तेन हि विना कलकललीनशब्दविशेषं शृण्वन्नपि न शृणोमीति व्यवहरति प्रमाता । कलकलमात्रविषयमेव तु संकलनमिति तत्रैव श्रुतमिति व्यवहारः । वस्तुतस्तु स कलकलध्वनिः श्रोत्राकाश अनुप्रविशन् वर्णान्
अनुप्रवेशयन् तथा भवेत्तद्वर्णातिरिक्तस्य कलकलस्यैवाभावात् । तद्वर्णविशेषविवक्षायां च कलकलस्य च कारणाभावादेवानुत्पत्तिः स्यात्, तद्विवक्षोत्पन्नस्फुटवर्णमयशब्दकार्यत्वेऽपि सजातीयशब्दोत्पत्त्युपपत्तेः । सर्वथा त एव वर्णास्तेन स्फुटरूपेण संकलनामगच्छन्तः कलकलशब्दवाच्याः । तत्संकलनावधानोद्युक्तस्य भवेदेव कियन्मात्रस्फुटोपलम्भ इति संकलनमेवात्रोपयोगि । संकलनं च भगवती सैव परा परमेश्वरी करोति । यदुक्तम्

उद्धरण- तदाक्रम्य बलं मन्त्राः [स्पन्दकारिका २.१०]

इत्यादि । वस्तुतो हि शृणोति पश्यति वक्ति गृह्णातीत्यादि भगवत्या एव रूपम् । यथोक्तम्

उद्धरण- येन रूपं रसं गन्धं स्पर्शशब्दौ च मैथुनम् ।
उद्धरण- एतेनैव विजानाति किमत्र परिशिष्यते ॥ [कठोपनिषद्२.४.३]

इति वेदान्ते परमेश्वरेण ।

[प्.२११]

न तु श्रवणं नाम स्फुटकलकलात्मकतारगद्गदादिरूपवर्णाकर्णनमेव । तथा हि श्रीपरमेश्वर एव श्रीस्वच्छन्दशास्त्रे जपविभागनिर्णयावसर एवमेव निरूपितवान्

उद्धरण- आत्मना श्रूयते यस्तु स उपांशुरिति स्मृतः । [स्वत २.१४६]
अत्र हि मध्यमापदे आत्मैव संशृणुते नापर इत्युक्तम् । स्थानादिप्रयत्नस्फुटतायां दन्तौष्ठपुटादिसंयोगविभागेनातिनिभृतमपि शब्दोच्चारे निकटतरवर्तिपरश्रवणमपि स्यादिति सशब्दतापात्तिरेव ।

उद्धरण- परैः संश्रूयते यस्तु सशब्दोऽसौ प्रकीर्तितः । [स्वत २.२४७]

इत्युक्तम् । यतः न चात्र निकटादिविशेषः कश्चिदिति । परप्रमातृदर्शनमात्रगोचरजिह्वोष्ठपुटादिसंयोगे तु यद्यप्यात्मन एव श्रवणं स्यान्न परस्य तथापि मध्यमापदमेवैतत्संपद्यते वर्णस्य बहिरात्मलाभाभावात् । वाय्वभिघाताद्धि स्फुटवर्णनिष्पन्न एव । न च तत्र वाय्वभिघातो बाह्यतापत्तिपर्यन्तः स्यात् । ओष्ठादिचलनमपि न तत्र वर्णांशेऽनुप्रविशेदपि तु स्वात्मनिष्ठमेव तात्कालिकं तत्स्यात् । तात्कालिकेङ्गितनिमिषितकरव्यापारादिस्थानीये स्फुटस्थानकरणप्रयत्नयोगे तु वर्णनिष्पत्तावपि यदि नाम ध्वनीनां तारतम्येन तारमन्द्रादिविभागे दूरादूरादिश्रवणं स्यात्, सर्वथा परैः श्रूयत
इति वैखरीपदमेवैतदित्यलं प्रसक्तानुप्रसक्त्या । सैव परमेश्वरी आमन्त्रणयोगेन स्फुटं शक्तिरूपतयोक्ता । नरशक्तिशिवात्मकं हीदं सर्वं त्रिकरूपमेव । तत्र यत्केवलं स्वात्मन्यवस्थितं तत्केवलं जडरूपयोगि मुख्यतया नरात्मकं घटस्तिष्ठतीतिवत् । एष एव प्रथमपुरुषविषयः शेषः । यत्पुनरिदमित्यपि भासमानं यदामन्त्र्यमाणतया आमन्त्रकाहंभावसमच्छादिततद्भिन्नेदंभावं युष्मच्छब्दव्यपदेश्यं तच्छाक्तं रूपं त्वं तिष्ठसीति । अत्र ह्येष एव युष्मच्छब्दार्थो
आमन्त्रणतत्त्वं च ।

[प्.२१२]

तथा हि यथाहं तिष्ठामि तथैव अयमपीति तस्याप्यस्मद्रूपावच्छिन्नाहंभावचमत्कारस्वातन्त्र्यमविच्छिन्नाहंचमत्कारेणैवाभिमन्वान आमन्त्रयते युष्मदर्थेन मध्यमपुरुषेण व्यपदिशति । सेयं हि भगवती परापरा । सर्वथा पुनरविच्छिन्नचमत्कारनिरपेक्षस्वातन्त्र्याहंविमर्शे अहं तिष्ठामीति पराभट्टारिकोदयो यत्रोत्तमत्वं पुरुषस्य । यदुक्तम्

उद्धरण- यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
उद्धरण- अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ [भगवद्गीता १५.१८]

इति । अत्र क्षराक्षररूपादुभयतोऽपि ह्युत्तमत्वमस्मीत्यस्मदर्थेनोक्तम् । न ह्यत्र सर्वत्र अहमिति परिमितं शरीरद्यपदिश्यते तस्य प्रत्यक्षेणैव ताद्रूप्यविरोधात् । तदेवमीदृशं स्वयंप्रथात्मकं शिवात्मकं रूपम् । अत एव बोधस्यास्य स्वसंवित्प्रथात्मकस्य किंचिन्नोनं नाप्यधिकं तस्याप्रकाशरूपस्य चिन्मये अननुप्रवेशात्, तदपेक्षया च माध्यस्थ्यमपि न किंचिदित्युपचयापचयमध्यस्थानीयेदन्तानिर्देश्यभावलब्धप्रतिष्ठाने न प्रभवन्ति तद्बोधाविच्छेदरूपा अस्मदर्थाः । विच्छेदितोऽपि युष्मदर्थ एवमेवेति । अत एव अलिङ्गे युष्मदस्मदी गीते । देहगतसंख्याध्युपचारेण परापरादिशक्तिगर्भीकारात्
संख्यायोगस्तूपपद्यते । तथा हि स्वस्वातन्त्र्योपकल्पितभेदावभास्यनन्तशरीराद्येकतयैव विमृशेदावां युवां वयं यूयमिति च । उपचयाद्यास्तु देहगता उपचरितुमपि न शक्याः, चिद्रूपस्योनाधिकतानुपपत्तेः । सर्वं हि सर्वात्मकमिति नरात्मानो जडा अपि त्यक्ततत्पूर्वरूपाः शाक्तशैवरूपभाजो भवन्ति, शृणुत ग्रावाणः [।च्f महाभाष्य ३.१.१; ।च्f वाक्यपदीय ३ पुरुषसमुद्देश २], मेरुः शिखरिणामहं भवामि [भगवद्गीता १०.२३], अहं चैत्रो ब्रवीमीत्यपि प्रतीतेः । शाक्तमपि युष्मदर्थरूपमपि नरात्मकतां भजत एव शक्तरूपमुज्झित्वा त्वं गतभयधैर्यशक्तिरित्यनामन्त्रणयोगेनापि प्रतिपत्तेः ।
भवानित्यनेन पादा गुरव इत्यादिप्रत्ययविशेषैश्चापरावस्थोचितनरात्मकप्रथमपुरुषविषयतयापि प्रतीतिसद्भावात् ।

[प्.२१३]

त्यक्तशाक्तरूपस्यापि चाहंरूपशिवात्मकत्वमपि स्यात्, वयस्ये दयिते शरीरचित्तत्त्वमेवाहं भवामीति प्रत्ययात् । शिवस्वरूपमपि चोज्झितचिद्रूपमिव नरशक्त्यात्मकं वपुराविशत्येव । कोऽहम्, एषोऽहम्, अहो अहं, धिक्माम्, अहो मह्यमित्यादौ ह्यहमिति गुणीकृतमविच्छिन्नं स्वातन्त्र्यम् । मुख्यतया तु विच्छिन्नैवेदन्ता प्रतीयते यत्र भगवत्या अपराया उदयः । हेऽहमित्यादौ परापरशाक्तस्पन्दस्पर्श एव शिवस्य । किं तु पूर्वं पूर्वमव्यभिचरितमुत्तरत्र । तेन नररूपं स्फुटयैव प्रतिपत्त्या शाक्तशांभवधुरमारोढुं शक्नुयादेव । न पुनर्वैपरीत्येनारोहणं स्फुटप्रतीतिमयम् । अत्यक्तनिजनिजरूपतया त्र्यात्मकत्वादेकद्विबहुरूपभागित्वमेति प्रत्येकमेतत्त्रिकम् । उक्तं
हि

उद्धरण- एकं वस्तु द्विधा भूतं द्विधा भूतमनेकधा । [कुलपञ्चाशिकानक्३.२ ब्]

इति । एकात्मकत्वे ह्यप्रतियोगित्वाच्छिवता प्रतियोगिसंभवे शाक्तत्वमनेकतायां भेद एव नरात्मभाव एकस्यैव । घटः घटपटौ घटाः घटपटपाषाणा इत्यपि हि तिष्ठति तिष्ठतः तिष्ठन्तीति चैक्येनैव क्रियाशक्तिस्फुरितमेवैतत् । यथोक्तं

उद्धरण- अनेकमेकधा कृत्वा को न मुच्येत बन्धनात् । [लिके कुलपञ्चाशिकानक्३.२ द्]

इति । अत एव नरशक्तिशिवात्मनां युगपदेकत्र परामर्शे उत्तरोत्तरस्वरूपानुप्रवेश एव तस्यैव वस्तुतस्तत्परमार्थरूपत्वात् । स च त्वं च तिष्ठथः, स च त्वं चाहं च तिष्ठाम इति प्रतीतिक्रम एवाकृतकसंस्कारसारः शाब्दिकैर्लक्षणैरनुगम्यते । तथा च निजभाषापदेष्वपि संस्कारस्य यत्र नामापि न अवशिष्यते बौद्धान्द्रद्रविडादिषु तत्राप्ययमेव वाचनिकः क्रमः ।

[प्.२१४]

वचनक्रमश्च हार्दीमेव प्रतीतिं मूलतोऽनुसरन् तत्प्रतीतिरसरूपतया प्रतीतेरप्येवंरूपत्वमवगमयेत् । यथोक्तं मयैव

उद्धरण- ... न हृदयंगमगामिनी गीः ।

इति । तत्सर्वथाकृतकैवेयं प्रतीतिः । यथोक्तम्

उद्धरण- न तैर्विना भवेच्छब्दो नार्थो नापि चितेर्गतिः ।

इति । श्रीमालिनीतन्त्रेऽपि ।
उद्धरण- एवं सर्वाणुसंघातमधिष्ठाय यथा स्थिता ।
उद्धरण- तथा ते कथिता शम्भोः शक्तिरेकैव शांकरी ॥ [मालिनीविजयोत्तर ३.३४]

इति । श्रीतन्त्रसमुच्चयेऽपि

उद्धरण- नरशक्तिशिवावेशि विश्वमेतत्सदा स्थितम् ।
उद्धरण- व्यवहारे क्रिमीणां च सर्वज्ञानां च सर्वशः ॥

इति । तदेव नरशक्तिशिवात्मकं स्फुटप्रतिपत्तिसंप्रदायोपदेशेन दर्शितम् । नरः शक्तिः शिव इति तु सर्वंसहः प्रतिपत्तिक्रमः परमेश्वरेच्छास्वातन्त्र्यसृष्ट इत्यलं परशक्तिपातपवित्रितबहुश्रुतसहृदयसोपदेशकतिपयजनहृदयहारिण्या प्रसक्तानुप्रसक्त्या ।

तद्व्याख्यातम् ।प्रतिक{शृणु देवि} इति । ।प्रतिक{उत्तरस्यापि} इति यदुक्तं कथमनुत्तरमिति तत्र प्रतिवचनम् । उत्तरस्यापि संनिहितस्य यदनुत्तरम् । प्रागुक्तक्रमेण
ह्युत्तरमप्यनुत्तरतादात्म्येनैव भवेत्नान्यथा । अत एव उत्तरमप्यनादृत्य

उद्धरण- अनादरे षष्ठी ।

उत्तरं रूपं ह्यनादृततद्भावमनुत्तररूपमेव । भेदो ह्ययमुत्तररूपो नितरामेवाभेदभुवमधिशय्य तथा भवेत् । यथोक्तम्

उद्धरण- परव्यवस्थापि परे यावन्नात्मीकृतः परः ।
उद्धरण- तावन्न शक्यते कर्तुं यतो बुद्धः परः परः ॥

इति ।

पृष्ठ.२१५

तथोत्तरस्यापि ग्रन्थभागस्यानुत्तरं तेनापि उत्तरीतुं न शक्यते । पश्यन्त्या अपि पराभट्टारिकायाः प्रथमप्रसरत्वादुत्तरस्यापि च मदीयस्यैतदेवानुत्तरं परमार्थः । उत्तरस्य त्रिशूलप्रेरणादिमयस्य यदनुत्तरं विश्रान्तिस्थानम् । किं तदित्याह यतः स्यादयं कौलिको विधिः । कौलिकः कुलाकुलात्मा प्राग्व्याख्यातः विधीयमानत्वाद्विधिर्महासृष्टिरूपो गर्भीकृतानन्तसृष्ट्यादिकोटिशतो यस्मात्प्रसृत एतदेव तदनुत्तरम् । यदुक्तम्

उद्धरण- यतः सर्वम्

इति । तथा हीदं विश्वं चिच्चित्तप्राणदेहसुखदुःखेन्द्रियभूतघटादिमयमेकस्यां परस्यां परमेश्वर्यां भैरवसंविद्यविभागेनैव बोधात्मकेन रूपेणास्ते । यद्यपि बोधात्मकं रूपं नास्तमेति जातुचिदपि तदस्तमये अप्रकाशमानतापत्तेः, तथापि परस्पराभावात्मकोऽवच्छेदः तत्र नास्ति । विश्वात्मान एव भावाः, तत्र च यद्येषामवस्थितिर्न स्यात्तत्प्रथमानुसंधानादिकमेवाक्षप्रेरणोपयोग्यपि न भवेदिति समुचितानुदितेदन्ताकमहंपरामर्शमात्राभिन्नमेव भावजातं विगतभेदकलनं तिष्ठति । न तत्र कश्चिदवच्छेदः । तथा यद्यत्र स्पष्टः सन्न्
अयं विधिः कौलिकः स्थितो विश्रान्तिं प्राप्तः । सर्वमिदं हि षट्त्रिंशदात्म ततः सामान्यस्पन्दसंविदात्मनः शक्तिमतः परशक्तिप्रधानाच्छिवात्स्वशक्त्या सृष्टमपि सत्तत्रैव भैरवविशेषस्पन्दात्मनि शक्तिप्रधाने स्वस्वरूपे विश्राम्येत् । तदेव स्वस्वभावनिष्ठितत्वं भावानाम् । यदुक्तं

उद्धरण- यस्मिन् सर्वम्

इति । तदेतद्शिवशक्त्यात्मैव सामान्यविशेषरूपमेकात्मकमपि परमेश्वरेणैवोपदेशोपायप्रवेशाय पृथक्कृत्य निरूप्यमाणं वस्तुतः पुनरेकमेव स्वतन्त्रचिन्मयमहमित्यैश्वर्यशक्तिसारमनुत्तरम् । यत्र कीदृशे स्वस्वरूपेऽवस्थितः

उद्धरण- मम हृद्व्योम्नि ।

ममेति यदेतद्धृदयं सर्वभावानां स्थानं प्रतिष्ठाधाम । नीलादीनां ह्यन्ततः क्रिमिपर्यन्तं चिदंशानिविष्टानां न किंचित्नीलादिरूपमिति प्रमातुरेव यत्

उद्धरण- ममेति

अविच्छिन्नचमत्कारांशोपारोहित्वं

उद्धरण- मम नीलं भातम्

इति तदेव नीलादिरूपत्वमिति ।

पृष्ठ.२१६

तस्य ममेत्यस्य नीलाद्यनन्तसर्वभावहृदयस्य यद्व्योम यत्र तत्ममकारात्मकं विश्वं सम्यग्धृतम् । अत एव त्यक्तभिन्ननिजरूपतया शून्यरूपं व्योम यत्र । तथा ममेत्यस्य भिन्नाभिन्नरूपपरापरसंविदात्मनो यद्धृदयं पर्यन्तप्रतिष्ठाधाम अहमिति तस्यापि व्योम संहाररूपकलनेन मह इति नरात्मकं लीनं बिन्द्वात्मशक्तौ म इति, कुण्डलिनीहकलारूपायां प्रविश्य परिपूर्णनिरर्गलचमत्कारे सर्वाविच्छिन्ने अ इत्यनुप्रविष्टं तथा भवति । एतदेव मम हृद्व्योम । एवं यत इदं प्रषृतं यत्र च विश्रान्तं तदेव नित्यमनावृतस्वभावं स्वयं प्रथमानमनपह्नवनीयमनुत्तरम् । यथोक्तम्

उद्धरण- यत्र स्थितमिदं सर्वं कार्यं यस्माच्च निर्गतम् ।
उद्धरण- तस्यानावृतरूपत्वान्न निरोधोऽस्ति कुत्रचित् । [स्पन्दकारिका १.५]

इति । आवरकत्वेन निरोधकाभिमतोऽपि हि तदावरणादिस्वातन्त्र्येण प्रकाशमानो दृक्क्रियात्मक एव परमेश्वरः । यदित्ययं निपातः सर्वविभक्त्यर्थवृत्तिरपरवाक्यीयसंबन्धौचित्याद्विशेषे स्थास्नुरत्र पञ्चम्यर्थे सप्तम्यर्थे च वर्तते । अयं ह्याञ्जस्येन अर्थो यदयं कौलिकः सृष्टिप्रसरः, यच्च मम हृद्व्योम्न्यवस्थितस्तदेवानुत्तरम् ।

एवं तस्यैव प्रसरविश्रान्त्युभयस्थानत्वं निरूप्य प्रसरक्रमस्वरूपं क्रियाशक्तिस्पन्दविसर्गं निरूपयति

उद्धरण- कथयामि

इत्यादि । तदेव हि रूपमहं परानुत्तरात्म परापरादिमयपश्यन्त्यादिप्रसरपरिपाट्याऽविच्छिन्नैकतापरमार्थः कथयामीति समुचितव्यपदेशं पराभट्टारिकोदयभागि वैखर्यन्तं वाक्यप्रबन्धं शास्त्रीयलौकिकादिबहुभेदं व्यक्तयामीति । तदुक्तम्

उद्धरण- ... सर्वतश्च यः

इति । प्रथमपर्यन्तभुवि पराभट्टारिकात्मनि तत्प्रसरात्मनि च परापरादेवतावपुष्यनुत्तरध्रुवपदविजृम्भैव । तदाहुर्निजविवृतौ श्रीसोमानन्दपादाः कथयामित्युच्चारयाम्युत्कलिकात इति । तथाहमेव सर्वस्यान्तश्चिद्रूपेण कथयामीति । तदेवास्माभिर्युक्त्युपदेशसंस्कारैर्निर्मलय्य हृदयङ्गमीकृतम् ।

पृष्ठ.२१७

स्वरूपं चास्य परमेश्वरस्य सद्य इति । य एव च परमेश्वरो भैरवात्माकुलानुत्तरध्रुवधामतयोक्तस्तदेवेदं सर्वं सत्कौलिकविधिरूपम् । न हि प्रकाशविमर्शशुद्धभैरवस्वरूपातिरेकि किंचित्भावानां सत्त्वम् । सत्तासंबन्धार्थक्रियाकारित्वादीनामपि सत्ताहेतुतापराभिमतानामपि सत्ताऽयोगे तथात्वानुपपत्तेः सत्त्वान्तरार्थाक्रियान्तरयोगे चानवस्थापत्तेः ।प्रथमत एव तथा विमर्शजीवितप्रकाशमयत्वमेव सत्त्वं, तच्च स्वातन्त्र्यविमर्शसाराहंभावभरितमिति भैरवरूपमेव । यद्वा सति सद्रूपे यस्यति यत्नं करोति क्रियाशक्तिप्राणत्वात् । तत्सद्य इति क्विपि नपुंसकनिर्देशः । सद्यदिति केचित्गुरवः पठन्ति । तदुक्तं श्रीसिद्धसन्ताने

उद्धरण- प्रकाशमानाभासैव यद्भूतिस्तत्सदेव हि ।

इति । श्रीस्पन्देऽपि

उद्धरण- ... तदस्ति परमार्थतः ।

इति । श्रीसोमानन्दपादैरपि

उद्धरण- यत्सत्तत्परमार्थो हि परमार्थस्ततः शिवः ।

इति स्वरूपमुक्तम् । तदुक्तम् ।प्रतिक{यः सर्वं} इति । अस्यैव क्रियाशक्तिप्रसरं निरूपयति ।प्रतिक{कौलिकसिद्धिदम्} इति । कौलिकं यत्व्याख्यातम् । तस्य सिद्धिः तथात्वदार्ढ्यम् । तद्यतो भवति । तत्र हि परमार्थप्रमातरि सकलं कुलाकुलादि तथा भवति । यत्र प्रतीयमानं सर्वं तथात्वदार्ढ्यं भजते । तदुक्तम्

उद्धरण- कुलात्परतरं त्रिकम् ।

इति । अन्यत्रापि

उद्धरण- वेदाच्छैवं ततो वामं ततो दक्षं ततः कुलम् ।
उद्धरण- ततो मतं ततश्चापि त्रिकं सर्वोत्तमं परम् ॥

इति । श्रीनिशाचारेऽपि

उद्धरण- वाममार्गाभिषिक्तोऽपि दैशिकः परतत्त्ववित् ।
उद्धरण- संस्कार्यो भैरवे सोऽपि कुले कौले त्रिकेऽपि सः ॥ [निशिसंचार]

इति ।

पृष्ठ.२१८

श्रीसर्वाचरेऽ पि

उद्धरण- वाममार्गार्गाभिषिक्तोऽपि दैशिकः परतत्त्ववित् ।
उद्धरण- क्रमाद्भैरवतन्त्रेषु पुनः संस्कारमर्हति ॥ [सर्वाचार]

इति । क्रमश्चैष एव । यथोक्तमेवं यत्सर्वलोकवेदसिद्धान्तवामदक्षिणकुलमतभूमिषु परमार्थप्रमातृ इति । यथोक्तम्

उद्धरण- यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः ।

इति । तदेवानुत्तरम् । एतत्सर्वं गर्भीकृत्योक्तं निजविवृतौ सोमानन्दपादैः,

उद्धरण- किं बहुना सर्वमेवानुत्तरमनुत्तरत्वाद्

इति । अयं तात्पर्यार्थः

[ ... ] प्राकृतम्

इति । ईदृग्व्याख्यानं त्यक्त्वा यदन्यैर्व्याख्यातं तत्प्रदर्शनं दूषणम् । यद्यपि पदवाक्यसंस्कारविहीनैः सह व्रीडावहा गोष्ठी कृताभवति तथापि सचेतसोऽनुत्तरमवबोधयितुं तदेकवारं तावल्लिख्यते । ।प्रतिक{अनुत्तरम्} इत्यादिना सार्धेन श्लोकेन शिवविषयः प्रश्नः । ।प्रतिक{हृदयस्था} इत्यादिना श्लोकेन शक्तिविषयः । तथा ।प्रतिक{शृणुदेवि} इत्यत्र प्रतिवचनग्रन्थे ।प्रतिक{उत्तरस्याप्यनुत्तरम्} इति तत्रार्थ उत्तरं च शृण्वनुत्तरं चेति । अत्र यद्येषा त्रिकार्थाभिप्रायेण व्याख्या तन्नरविषयतृतीयप्रश्नप्रसङ्गः । अथ तु यामलाभिप्रायेण तत्रापि न द्वे वस्तुनी शिवशक्त्यात्मके यामलमुच्यते येन पृथक्
प्रश्नविषयतोपपत्तिः । अथशब्दार्थश्च न संगच्छते । स हि सजातीयनिश्चयानन्तर्यवृत्तिः । उत्तरस्वरूपावधारणमन्तरेण चानुत्तरविषयस्यैकप्रश्नस्यानुपपत्तिः । तथाहि केषुचिद्वृद्धपुस्तकेष्वीदृक्श्लोकान्तरं दृश्यते

उद्धरण- श्रुतं देव महाज्ञानं त्रिकाख्यं परमेश्वर ।
उद्धरण- उत्तरं च तथा ज्ञानं त्वत्प्रसादावधारितम् ॥

इति । तस्मात्श्रीसोमानन्दपादनिरूपितव्याख्यानुसारेणैव यद्गुरवः समादिक्षन् तदेव सर्वस्य करोति शिवम् ।

इत्यसंस्कृतदुर्व्याख्यातामसोन्मूलनव्रतः ।
षडर्धशासनापूतहृदंबुजविकासकः ॥
संस्त्यानानन्तपाशौघविलापकलसद्रुचिः ।
दीप्तोऽभिनवगुप्तेन व्याख्याभानुः प्रकाशितः ॥

पृष्ठ.२१९

एवं यतोऽयं कौलिको विधिः प्रभवति यत्र च प्रतिष्ठापदवीं भजते यन्मयं चेदं कौलिकं तदेवानुत्तरमित्युक्तम् । तत्र कस्तावत्कौलिको विधिः कथं चास्य प्रसरोऽनुत्तरात्कथं चात्रैवास्य प्रतिष्ठा कथं चानुत्तरैकरूपत्वम् ? यच्चोक्तमुत्तरस्याप्यनुत्तरमिति तत्सर्वं युक्त्यागमस्वसंवेदननिष्कर्षणतत्त्वावबोधावाप्तविमर्शनिपुणान् शिष्यान् प्रति वितत्य निर्णिनीषुर्भगवान् प्रस्तौति ग्रन्थान्तरम् । एतावद्दृढोपदेशनिर्दलितभेदाभिमानविकल्पानल्पसंस्काराणां तु सर्वमेतावतैव

<ॠ>
अनुत्तरं कथम्
<।ॄ>

इत्यादिसार्धश्लोकयुगलनिगमितेन प्रश्नेन

<ॠ>
शृणु देवि
<।ॄ>

इत्यादिना सार्धश्लोकनिर्णीतेन चोत्तरेणानुत्तरपदप्राप्तिवशाविष्टजीवन्मुक्तभावानां कृतकृत्यता । अतस्तावन्मात्र एव दृढप्रतिपत्तिपवित्रीकृतैर्विश्रमणीयमित्युद्भुजाः फूत्कुर्मः । तदनुत्तरपरभैरवपदविमलदर्पणान्तर्निविष्टकौलिकपदप्रविविक्तये ग्रन्थान्तरमवतरति इत्युक्तम् । तद्यथा

_____________________________________________________________

पर्त्रि ५९ ब्

अथाद्यास्तिथयः सर्वे स्वरा बिन्द्ववसानकाः ।
तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ ॥ ५ ॥
पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु ।
क्रमात्कादिषु वर्गेषु मकारान्तेषु सुव्रते ॥ ६ ॥
वाय्वग्निसलिलेन्द्राणां धारणानां चतुष्टयम् ।
तदूर्ध्वे शादिविख्यातं पुरस्ताद्ब्रह्मपञ्चकम् ॥ ७ ॥
[पाठभेद ७ दूर्द्व्हं]
अमूला तत्क्रमा ज्ञेया क्षान्ता सृष्टिरुदाहृता ।
सर्वेषां चैव मन्त्राणां विद्यानां च यशस्विनि ॥ ८ ॥
इयं योनिः समाख्याता सर्वतन्त्रेषु सर्वदा ।

_____________________________________________________________


तत्राकुलमनुत्तरमेव कौलिकं सृष्टिरूपमिति निर्णीयते । अथ तत्सृष्टिरिति संबन्धस्तदेवानुत्तरं पदं सृष्टिरित्यर्थः । यद्यपि च सृष्टावपि प्राक्तननयेन कालापेक्षि पौर्वापर्यं न स्यात्तथाप्युपदेश्योपदेशभावलक्षणो भेदो यावत्स्वात्मनि स्वातन्त्र्यात्परमेश्वरेण भास्यते तावत्पौर्वापर्यमपीति तदपेक्षया अथशब्देनानन्तर्यम् ।

पृष्ठ २२०

अनन्तरमकुलमेव सृष्टिरूपमिति
यावत् । न तु प्रश्नप्रतिज्ञाभ्यामानन्तर्यमथशब्देनोक्तमेकप्रघट्टकगतसजातीयप्रमेयापेक्षक्रमतात्पर्यप्रतीतिप्रवणत्वाद्
अस्य । अन्यथा तूष्णींभावादेरनन्तरमिदमित्यपि सर्वत्र तत्प्रयोगावकाशः । अस्तु, क इवात्र भवतः क्लेश ? इति चेन्न कश्चिदृते
प्रतीत्यभावात् । यत्तु श्रीसोमानन्दपादाः

उद्धरण- अकारः शिव इत्युक्तस्थकारः शक्तिरुच्यते ।

इत्यागमप्रदर्शनेनाथ इत्येतावदेवानुत्तरमिति व्याचचक्षिरे थकारसमव्याप्तिकताभिप्रायेण सर्वत्र प्रथमोल्लासे प्रसरदनन्तानन्तवस्तुसृष्टिशक्त्यभेदरूपत्वात्सर्वभूतजीवनरूपपरनादावलम्बनरूपत्वाच्चाथशब्दार्थस्य । तन्नास्माभिर्वितत्य विवेचितं, तादृशस्यागमस्य यतो न साक्षाद्वयमभिज्ञाः । तैस्तु तथाविधागमसाक्षात्कारिभिरनेकयुक्तिशतसहिष्णुता सूत्रग्रन्थस्य सूत्रितैव । धूलिभेदप्रदर्शनमपि तेनैवाभिप्रायेण तैरितश्चामुतश्च विततम् । वयं तु तच्छासनपवित्रितास्तद्ग्रन्थग्रन्थिनिर्दलनाभिलषितस्वात्मपवित्रभावास्तैर्निर्णीतेष्वर्थेषूदासीना एव । धूलिभेदादिना च कल्पितसामयिकलिप्यपेक्षणमपि भवेदपि कस्य चितुपायाय, न तु तत्सकलदेशकालगतशिष्यविषयम्
इति नास्मभिर्वितत्य विपञ्चितम् । एतदनुभवयुक्त्यनुप्रविष्टानां च तदकार्यकरं स्वकल्पनाभिश्च सुकरमव्यवस्थितं च, अन्येषां चैतदुपदेशानभिज्ञानां तदुपदेशनमप्यकिंचित्करमित्यलमनेन प्रकृतविघ्नविधायिना । प्रस्तुतमनुसरामः ।

’’"आद्यो येषां स्वराणां यदि वा थकारेण सुखोच्चारणार्थेन सह अथाद्यो येषामिति आद्यशब्दश्चात्र न व्यवस्थामात्रे नापि सामीप्यादौ, अपि त्वादौ भव आद्यः ।

तथा ह्यमीयां वर्णानां परावाग्भूमिरियमिह निर्णीयते यत्रैवैषामसामयिकं नित्यमकृत्रिमं संविन्मयमेव रूपम् ।

पृष्ठ २२१

संविन्मये च वपुषि सर्वसर्वात्मकता सततोदितैव । सा च परमेश्वरी पराभट्टारिका तथाविधनिरतिशयाभेदभागिन्यपि पश्यन्त्यादिकाः परापराभट्टारिकादिस्फाररूपा अन्तःकृत्य तत्तदनन्तवैचित्र्यगर्भमयी । न हि तत्र यन्नास्ति तत्क्वाप्यस्तीति न्याय्यम् । परामृशत च प्रथमां प्रतिभाभिधानां संकोचकलङ्ककालुष्यलेशशून्यां भगवतीं संविदम् । तथाहि यत्किंचिच्चरमचरं च तत्पारमार्थिकेनानपायिना रूपेण वीर्यमात्रसारात्मना तदुद्भविष्यदीषदस्फुटतमे यदस्फुटतरे यदस्फुटादिवस्तुशतसृष्टिकालो लक्ष्यमाणतत्तदनन्तवैचित्र्यप्रथोन्नीयमानतथाभावेन संविदि भगवद्भैरवभट्टारिकात्मनि
तिष्ठत्येव । तथावधानातिशयरूढैः सहसैव सर्वज्ञताभूमिरसंकुचितपरमार्था अकृत्रिमतद्रूपा अधिशय्यते एव परानुग्रहपवित्रितैरभ्यासक्रमशाणनिघर्षनिष्पेषिततदप्रत्ययरूपकम्पाद्यनन्तापरपर्याय विचिकित्सामलैः, सविचिकित्सैरपि प्रतिभातकियन्मात्रवस्तुदत्तसंकोचा न त्वकृत्रिमा । यदाहुः श्रिकल्लटपादाः

उद्धरण- तुटिपाते सर्वज्ञत्वसर्वकर्तृत्वलाभ

इति । एवमेष स्वप्रकाशैकरूपोऽप्यर्थो युक्त्या प्रदर्श्यते । यद्यत्स्वसामर्थ्योद्भूतोत्तरकालिकार्थक्रियायोग्यतादिवशनिःशेष्यमाणसत्यतावशावाप्ताविचलसवादविरोधावभासिसंमतक्रमिकविकल्प्यमाननीलादिनिष्ठविकल्पपूर्वभावि निर्विकल्पसंविद्रूपं तत्तद्विकल्पनीयविरुद्धाभिमतनीलपीताद्याभासाविभागि भवति, यथा चित्रज्ञानशिखरस्थसंविन्मेचकबोधादि । यत्तु तद्विरुद्धरूपनीलपीताद्याभासाविभक्तं न भवति तत्तदनन्तस्वसामर्थ्योद्भूतनीलपीताद्याभासविकल्पपूर्वभाग्यपि न भवति, यथा नीलैकसाक्षात्कारि ज्ञानम् । भवति चेदमस्तमितोदेष्यदुभयविकल्पज्ञानान्तरालवर्त्युन्मेषप्रतिभादिशब्दागमगीतं निर्विकल्पकं ससंवादविरुद्धाभिमतनीलादिविकल्पपूर्वभावि
। तस्मात्तदनन्तावभासाविभागमयमेवेति । उभयोश्च ज्ञानयोरन्तरालमनपह्वनीयां ज्ञानयोर्भेदादेव । तच्च संविदात्मकमेव, अन्यथा तेनैव संवित्संस्कारोच्छेदे स्मरणाद्यनुसंधानाद्ययोग इति प्रतिभाख्यस्य धर्मिणः सर्ववादिनः प्रत्यविवाद एवेति नासिद्धिः । संकेतव्युत्पत्तिकालानवलम्बनाच्चास्याविकल्पत्वमेव ।

पृष्ठ २२२

सहजासामयिकतथापरामर्शयोगो हि जडविलक्षणसंविद्रूपनान्तरीयकः । न विकल्पतुल्यत्वं भेदानुल्लासात् । भेदसारतालम्बतया त्वर्थभावं कुर्यात् । विकल्पानां चाविकल्पं विना नोदयः, अस्वातन्त्र्यात् । अस्वातन्त्र्यं च संकेतादिस्मरणोपायत्वात्, संकेतादिस्मरणं च तथानुभवं विना कुतः । संविदश्च प्रङ्न्यायेन कालादिपरिच्छेदाभाव इति एकैव सा पारमेश्वरी प्रतिभा अस्मदुक्तिमाहात्म्यकल्पिता एवंविधपरिच्छिन्नस्वभावापि सर्वात्मैव । मध्येऽपि वर्तमानभूतभविष्यद्रूपविकल्पान्तरप्रसवभूरेव । तथा च विवेककुशलैरालयविज्ञानमेवमेवोपगतम् । ससंवादत्वं च तदनन्तरभाविनां
विकल्पानां दर्शितमेवेति नासिद्धो हेतुः साध्यधर्मिणि, न चैकावभासिविकल्पसंविभागकारिणि अविकल्पके विपक्षे सदा वा कदाचिदपि वा वर्तते, न च ततोऽस्य व्यावृत्तिः संदिग्धेति न विरुद्धो नानैकान्तिको न संदिग्धविपक्षव्यावृत्तिः, दृष्टान्तधर्मिण्यपि चित्रज्ञानादौ हेतोरेवमेवासिद्धतादिदोषा परिहृता भवन्त्येव । हेतुदोषेषु तु परिहृतेषु दृष्टान्तादिदोषा निरवकाशा एव इत्यादि बहु निर्णीतकल्पमपरैरेवेति किं तदनुभाषणक्लेशेन । सिद्धं तावद्ध्येतत्

यत्प्रातिभं निखिलवैषयिकावबोधपूर्वापरान्तरचरं निखिलात्मकं तत् ।
तस्यां प्रलीनवपुषः परशक्तिभासि ग्लानिर्घटेत किमभाववशोपकॢप्ता ॥
शरीरप्राणादौ परधनसुखास्वादपटलमनालोक्य स्वस्मिन् स्पृशति हृदये ग्लानिमसमाम् ।
प्रविष्टा चेदन्तर्निखिलजगतीसूतिसरसा परा देवी हन्त प्रविलसतु पूर्णं हविरिव ॥

तदुक्तं स्पन्दे

उद्धरण- ग्लानिर्विलुम्पिका देहे तस्याश्चाज्ञानतः सृतिः ।
उद्धरण- तदुन्मेषविलुप्तं चेत्कुतः सा स्यादहेतुका ॥ स्पका_३.८ ॥
वर विलुण्ठिका>

इति ।

पृष्ठ २२३

उद्धरण- एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः ।
उद्धरण- उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् ॥ स्पका_३.९ ॥

इति च ।

उद्धरण- मायीयकार्ममलमूलमुशन्ति तावदज्ञाननाममलमाणवमेव भद्राः ।
उद्धरण- बीजं तदेव भवजीर्णतरोः परस्मिन् संविन्निशातदहने दहते क्षणेन ॥

यथाहुः

उद्धरण- मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् । [म्वुत्१.२३ द्]

इति । तदेवोक्तम्

उद्धरण- तदुन्मेषविलुप्तं चेत्... ।

इति । एवमेव च व्याख्यातमदः । अन्यथा ग्लानेर्विलोपकत्वमस्याश्चाज्ञानात्सरणमज्ञानस्य चोन्मेषेण विलोप इति किं केन संश्लिष्टमिति नृपनिरूपणप्रायमेव भवेत् ।

[..............................................................]

तदेवं भगवती परावाग्भूमिर्गर्भीकृतस्वस्वातन्त्र्यसत्तोद्भविष्यत्पश्यन्त्यादिविनिविष्टपरापराभट्टारिकादिप्रसरा तद्गर्भीकारवशाविवादघटितसकलभूतभुवनभावादिप्रपञ्चप्रबोधैक्यचमत्कारसारा परमेश्वरभैरवभट्टारकाविर्भावप्रथिततथाविधाद्भूतभूतपरमार्थस्वरूपा स्वात्मविमलदर्पणनिर्भासितानन्तसृष्तिस्थितिसंहारैक्यमयमहासृष्टिशक्तिरादिक्षान्तरूपा अथाद्या इत्यादिना ग्रन्थेन निःशेषं भगवता निर्णीयत इति स्थितम् ।

तदेवं स्थिते ग्रन्थार्थो निर्णीयते । अकारादिविसर्गान्तं शिवतत्त्वम् । कादिङान्तं धरादिनभोऽन्तं भूतपञ्चकम् । चादिञान्तं गन्धादिशब्दान्तं तन्मात्रपञ्चकम् । टादिणान्तं पादादिवागन्तं कर्माक्षपञ्चकम् । तादिनान्तं घ्राणदिश्रोत्रान्तं बुद्धिकरणपञ्चकम् । पादिमान्तं मनोऽहंकारबुद्धिप्रकृतिपुरुषाख्यं पञ्चकम् ।

पृष्ठ २२४

वाय्वादिशब्दवाच्या यादयो वकारान्ता रागविद्याकलामायाख्यानि तत्त्वानि । धारयन्ति पृथग्भूततयाभिमानयन्तीति धारणानि । द्वावत्र णिचौ प्रयोज्यप्रयोजकभावद्वैरूप्यात् । तथाहि ध्रियन्ते स्वात्मन्येव सर्वे भावाः प्रकाशात्मनि परमपरिपूर्णे पदे भैरवात्मनि सर्वात्मनि । यथोक्तं शिवदृष्टौ

उद्धरण- आत्मैव सर्वभावेषु स्फुरन्निर्वृतचिद्वपुः ।
उद्धरण- अनिरुद्धेच्छाप्रसरः प्रसरद्दृक्क्रियः शिवः ॥ [शिवदृष्टि_१.२] ॥

इति । यथोक्तं स्पन्दे

उद्धरण- यत्र स्थितमिदं सर्वं [स्पका १.२ ]

इति । एवं स्वात्मन्येव प्रभास्वरे प्रकाशनेन ध्रियमाणान् भावान् धारयति स्वयमप्रकाशीभावेन जडतास्वभावेदंभावास्पदताप्रापणेन प्रकाशयति परमेश्वर एव । पुनरप्यहंभावेनैवाच्छादयति । तदियं भगवत्सदाशिवेशदशा शुद्धविद्यामयी एकेन णिचा ध्वनिता । तत्रापि च यदिदन्ताया अहन्तयाच्छादनं तदाच्छादनीयेदन्तोपपत्तावुपपद्यते, न च शुद्धपरमेश्वरचिन्मयरूपापेक्षं भिन्नप्रथात्मकमिदन्ताख्यं रूपमुपपद्यत इत्याच्छादनीयानुपपत्तौ तद्वशेन तदाच्छादकताप्यहंभावस्य नोपपन्नेति तथाविधेश्वरबोधानुपपत्तिः । तदनुपपत्तौ च न किंचिद्भासेत कारणाभवादित्युक्तमसकृत् । भासते चेदं तद्भासाव्यतिरेकरहितमपि परमेश्वरशक्तित एव बहिः
प्रथते कारणान्तरासंभवात्स्वसंविदि च संविद एव सर्वमयत्वप्रथनात् । तदेवं स्वात्मरूपं जगद्भेदेन भासमानं प्रकाशात्मन्येव अहमात्मनि भासते सामानाधिकरण्येनेतीयता एतावदवश्यमेवाक्षिप्तं यथा ईश्वर एव कस्यापि वेदितुर्भिन्नान् वेद्यानहन्तया पश्यति यश्चासौ कोऽपि वेदयिता सोऽपि भासनात्स्वात्ममय एवेति स्वात्मनि तथाविधाः शक्तीरधिशेते याभिरसौ तदैव भिन्नवेद्यवेदकीभावमुपाश्नुवीत । रागादिभिरेव च तथाविधत्वमस्येति रागादय एव ध्रियमानान् भावानुक्तन्यायेन धारयन्तमीश्वरं प्रति प्रयोजकतां गच्छन्ति । अतस्तस्यैव पुंस्त्वव्यपदेशकारणैकभूता द्वितीये णिचि उत्पन्ने धारणशब्दवाच्याः ।

पृष्ठ २२५

णिजुत्पत्तावपि सर्वत्रैव प्रकृत्यर्थान्वयानपायः । ध्रियमाणतया प्रकाशमानस्यैव हि धार्यमाणता प्रकाशनासंज्ञा उपपद्यते यतः । यथोक्तं मयैव शिवदृष्ट्यालोचने

उद्धरण- प्रेर्योऽपि स भवेद्यस्य शक्तता नाम विद्यते ।

इति । भर्तृहरिरपि
उद्धरण- अप्रवृत्तस्य हि प्रैषे प्रच्छादेर्लोड्विधीयते ।
उद्धरण- प्रवृत्तस्य यदा प्रैषस्तदा स विषयो णिचः ॥

इति । तदेवं धारणशब्देनापरशास्त्रेषु कञ्चुकनामधेयप्रसिद्धान्येव तत्त्वानीह निरूपितानि । यदुक्तं श्रीतन्त्रसारे
उद्धरण- धारयन्ति पशोः पाशान् भावान् स्वात्ममयांस्तथा ।
उद्धरण- विद्यामायानियत्याद्याः शोध्यास्तेन प्रयत्नतः ॥

इति । यत्तु श्रीसोमानन्दपादैर्धारणशब्देनाङ्गानि निरूपितानि पक्षान्तराश्रयणेन तत्र परपक्षसर्वदृश्यत्वप्रथनमात्मन्यभिप्रायः । तेषां हीदृशी शैली

उद्धरण- स्वपक्षान् परपक्षांश्च निःशेषेण न वेद यः ।
उद्धरण- स्वयं स संशयाम्भोधौ निमज्जंस्तारयेत्कथम् ॥

इति । शादिक्षान्तं महामायाविद्येश्वरसदाशिवशक्त्याख्यं तत्त्वपञ्चकम् । तथा हि मायातत्त्वस्योपरि विद्यातत्त्वाधश्च अवश्यं तत्त्वान्तरेण भावितव्यं यत्र विज्ञानाकलानां स्थितिः । यथोक्तम्

उद्धरण- मायोर्ध्वे शुद्धविद्याधः सन्ति विज्ञानकेवलाः ॥

इति । तथा हि महामायाभावे मायापदे प्रलयकेवलानामवस्थितिः विद्यापदे च विद्येश्वरादीनामिति किमिव तद्विज्ञानकेवलास्पदं स्यात् । अत एव विद्यापदप्रच्युतानामप्येषां भेदमयभावराशिगतभिन्नवेद्यप्रथानुदयान्मायीयाभिधानमलानुल्लासे

उद्धरण- तत्र विज्ञानकेवलो मलैकयुक्तः

इत्यज्ञानात्मकाणवमलावलम्बित्वं श्रीपूर्वशास्त्रे कथितम् । त एव शुद्धविद्यापदानुग्रहाद्बोधिता मन्त्रतदीशादिभावभागिनो भवन्तीति तत्रैवोक्तं

[प्.२२६]

उद्धरण- विज्ञानकेवलानष्टौ बोधयामास पुद्गलान् । [म्वुत्१.१९ ब्]

इत्यादिना

उद्धरण- मन्त्रमहेश्वरेशत्वे संनियोज्य... [म्वुत्१.२१]

इत्यादिना च । केषु चित्तु शास्त्रेषु सा महामाया भेदमलाभावोपचाराद्विद्यातत्त्वशेषतयैव निर्णीयते । क्वचित्पुनरज्ञानमलसद्भावोपरोधान्मायातत्त्यपुच्छतया यथा केषु चित्शास्त्रेषु

उद्धरण- रागतत्त्वं पुंस्येव लग्नम्

इति न पृथक्परामृष्टम्, यथा वेहैव श्रीत्रिकागमेषु नियतिकालौ न पृथङ्निरूपितौ । अत्र मते विद्याद्यनाश्रितशिवान्तं ब्रह्मपञ्चकं निर्णेष्यते चैतत् । एषां च तत्त्वानं बृहत्त्वं बृंहकत्वं च प्रायो भेदसमुत्तीर्णत्वात्संसारसूतिकर्तृत्वाच्च । एवमेतानि चतुस्त्रिंशत्तत्त्वानि प्रक्रियात्मना स्थितान्यकारमेव आदिरूपतया भजन्ते । तत्रेदं विचार्यते । प्रथमतः शिवतत्त्वमवर्गे, ततो भूतानीत्यादि यावदन्ते शक्तितत्त्वमिति कोऽयं सृष्टिसंहारज्ञप्तिस्थित्यवतारक्रमाणां मध्यात्क्रमः । सर्वत्र च श्रीमालिनीविजयोत्तरसिद्धातन्त्रस्वच्छन्दादिशास्त्रेषु क्षकारात्प्रभृत्यवर्गान्तं
पार्थिवादीनां शिवान्तानां तत्त्वानां निवेश उक्तः
उद्धरण- आद्यं धारिकया व्याप्तं तत्रैकं तत्त्वमिष्यते ।
उद्धरण- एकमेकं पृथक्क्षार्णं पदार्णमनुषु स्मरेत् ॥ [म्वुत्_२.५०]

इत्यादिना । तत्रैव च पुनर्भिन्नयोनिमालिनीभट्टारिकानुसारेण फकारादीनामभिन्नयोनिमातृकानिवेशावाप्ततत्त्वान्तरस्थितीनामपि
उद्धरण- फे धरातत्त्वमुद्दिष्टं दादिझान्तेऽनुपुर्वशः ।
उद्धरण- त्रयोविंशत्यबादीनि । [म्वुत्_४.१५]

इत्यादिना पार्थिवादितत्त्वयोजना निरूपिता । पुनरपि च तत्रैव श्रीविद्यात्रयानुसारेण

उद्धरण- निष्कले पदमेकार्णं त्र्यर्णैकार्णद्वयं द्वये ।

[प्.२२७]

इति परापराभट्टारिकानुसारेण ओंकारं शिवतत्त्वमघोरे इत्यत्र शक्तितत्त्वमित्यादिक्रमेण पार्थिवादितत्त्वनिरूपणा योजिता । श्रीमदपराभट्टारिकाभिप्रायेण च

उद्धरण- सार्धेनाण्डद्वयं व्याप्तमेकैकेन पृथग्द्वयम् ।
उद्धरण- अपरायाः समाख्याता व्याप्तिरेषा विलोमतः ॥

इत्यादिना फट्कारे पार्थिवप्राकृताण्डद्वयं, हुंकारे मायीयं, ह्रींकारे शाक्तमण्डं चेति तत्त्वनिवेशः । श्रीपराभट्टारिकाव्याप्तिनिरूपणे च

उद्धरण- सार्णेन त्रितयं व्याप्तं त्रिशूलेन चतुर्थकम् ।
उद्धरण- सर्वातीतं विसर्गेण परा व्याप्तिरुदाहृता ॥

इत्यन्यथैव प्रक्रियायोजनं निरूपितम् । पुनरपि मातृकासद्भावरतिशेखरकुलेश्वरादिमन्त्रभट्टाराकाद्यभिप्रायेणान्यथान्यथा च । अपरतन्त्रेष्वप्येवमेव विपर्यस्तप्रायं बहु बहुशो निरूपितम् । तत्पुनरिह सर्वमेवान्यथेति परिदृश्यत इति महानयमागमविदः स्वकटकक्षोभ इव सर्वविनाशकः समुद्भूतः । न च सांकेतिकमिदं येन पुरुषेच्छावशोपकल्पितेन रूपेण चान्यथान्यथा निरूप्यमाणमिह संगतं भवेत्, यथा दाक्षिणात्याः चौरशब्देन ओदनं व्यपदिशन्ति, सैन्धवास्तु तेनैव दस्युम्, ओदनं तु क्रूरश्रुत्या, तया तु काश्मीरिका वितुषितयवगोधूमतण्डुलानिति । सांकेतिकत्वे ह्यनवस्थितत्वादपारमार्थिकत्वाच्
च शोध्यशोधकभावाद्यनुपयोगादनिरूपणीयत्वमेव स्यात् । संकेतस्यापि परमार्थसत्तैव । न हि संकेतो नाम अन्यः कश्चिदृते परमेश्वरेच्छातः । प्रसिद्धो हि नः संकेतो भगवदिच्छाप्रकल्पितस्तन्नामाक्षरलिप्यादिगताप्यायनादिकर्मविधिजनिततच्छान्तिकादिफलसंपत्तेरिति चेत् । तर्ह्येकेनैव संकेतेन सर्ववस्तुसंपत्तौ किं संकेतान्तराश्रयेण । तदाश्रयणे वा स्वशास्त्रितशास्त्रान्तरीयलौकिकपार्षददैशिकघनकृतप्रतिपुरुषनियताद्यनन्तसंकेतनिवेशपूर्वकं तदपि निरूप्यमेव । न तावद्भिरुपयोगः, एतावतैव कार्यसिद्धिरित्यपि निरक्षरकुक्षिकुहरैरुच्यमानं श्रूयमाणं
च शोभत एव ।

[प्.२२८]

अविकला भगवदिच्छा न विचारपदवीमधिशेते इति चेदलं ग्रन्थधारणवाचनव्याख्यानविचारणादिमिथ्यायासेन, परित्याज्य एवायं गुरुभारः, तूष्णींभावशरणैरेव स्थेयम्, भगवदिच्छैवोत्तारणीयमुत्तारयेत् । तदिच्छैव अनुग्रहात्मा एवंविचारणायां पर्यवसाययति । न खलु पादप्रसारिकयैव सुखं सयानैर्भुञ्जानैश्च स्वयमविमृशद्भिः स्वापेक्षतीव्रतरादिपरमेश्वरानुग्रहोत्पन्नाधिकाधिकसूक्ष्मतमविमर्शकुशलधिषणापरिशीलनपराङ्मुखैर्वा स्थातव्यमिति । तत्सर्वदा विमृश्यमिदं वर्तत इति एतावन्न जहीमः । तदत्रावधार्य स्थीयतां यावत्परिहरामः सर्वमिदं किं चिन्न वस्तुतश्चोद्यजातं
परमेश्वर्यां परावाग्भुव्यनुत्तरदुर्घटकारितात्मकनिरपेक्षस्वातन्त्र्यसारायां पारतन्त्र्यांशलेशमात्रपरमाणुनाप्यनुपरक्तायामिति । प्रायः प्रागेव प्रतिसमाहितमदः । तथापि विस्तरतः परिह्रियते । यत्तावदुक्तं शिवतत्त्वं ततः पृथिवीत्यादीति कोऽयं क्रम इति । तन्न कश्चित्क्रम इति ब्रूमः । अक्रमं यदेतत्परं पारमेश्वरं विचित्रं गर्भीकृतानन्तवैचित्र्यं स्वातन्त्र्यं त्रिकार्थरूपं तदेवैतत् । तथा हि येयमपरा परापरा पराभट्टारिका पारमेश्वरी भैरवीया सत्ता सा सदाशिवतत्त्वानाश्रितशक्तितत्त्वस्याप्युपरिवृत्तिस्तदन्तस्याप्यासनपक्षीकृतत्वात् । तथा हि

उद्धरण- ईश्वरं च महाप्रेतं प्रहसन्तमचेतनम् ।

इत्यनेन सदाशिवान्तमासनं नादान्तपक्षनिविष्टं श्रीपूर्वशास्त्रोपसंहृतम्

उद्धरण- इत्येतत्सर्वमासनम्

इत्युक्त्वा

उद्धरण- तस्य नाभ्युत्थितं शक्तिशूलशृङ्गत्रयं स्मरेत्

इति शक्तिव्यापिनीसमनात्मकशृङ्गत्रयमुक्तं, तत्राप्यौन्मनसोर्ध्वकुण्डलिकापदपरमधाम सितकमलत्रयरूपतया निरूपितमित्येतत्परमासनं परापर्यन्तत्वादिति । तदुपरि च देवीनां स्थितिरिति ।

[प्.२२९]

तत्परं पश्यन्त्याख्यं ज्ञानशक्तेरेव पर्यन्तधाम नादाख्यरूपमतिक्रमणीयत्वेनैव स्थितम् । यथोक्तं शिवदृष्टौ

उद्धरण- अथास्माकं ज्ञानशक्तिर्या सदाशिवरूपता ।
उद्धरण- वैयाकरणसाधूनां सा पश्यन्ती परा स्थितिः ॥

इति । प्रत्यगात्मनि हि बुद्धिः पश्यन्ती रुद्रदेवता परं सदाशिवज्ञानशक्तावेव अनाश्रितशिवशक्त्यात्मनि विश्राम्यति । मनोऽहंकारयोर्ब्रह्मविष्णुदेवतयोर्वैखरीमध्यमापदे पत्योरीशसदाशिवक्रियाशक्तिपदमेव परा प्रतिष्ठाभूरिति तावदागमसिद्धं स्वसंवेदनबृंहितं च । तत्पश्यन्त्युपरि पराभूमिर्भगवती यत्र सर्वमभेदेनैव भाति च विमृश्यते च । यद्यपि हि विद्यापदे मायापदेऽप्यभेदेन भासना स्थितापि तत्र विमर्शोऽन्यथा । विद्यापदे हीदमिति प्रमातृप्रमेयजातमेकतोऽहमात्मनि संक्रामेत्तदाच्छादितं विमृश्यते

उद्धरण- अहमिदम्

इति । तदेतत्समाने चिदात्मन्यधिकरणे उभयं प्रतिबिम्बितमभेदेनैवावभासमानं सामानाधिकरण्यमुक्तम् । अत एव

उद्धरण- ईश्वरावस्थायां परापरात्मिकां दशां भावा भजन्ते, यथैव मायाध्वन्यपरां, न तु
सैव परापरशक्तिरपरा वा

इति यदीश्वरतत्त्वं प्रत्यभिहितं श्रीमदुत्पलदेवपादैस्तत्प्रदर्शितागमविपर्यासशङ्कायुक्तमिति न मन्तव्यम् । मन्त्रमहेशादिषु तु रूपं बोधैकपरमार्थमपि अपरबोधैकपरमार्थादन्यद्

उद्धरण- अहमहमिदं पुनरिदमेव

इति संवित् । विज्ञानाकलानां तु बोधैकपरमार्थेऽपि रूपे

उद्धरण- नाहं नेदम्

इति संविदप्रबोधादहमित्येव तत्र प्रबुद्धम् । प्रलयकेवलिनामिदमहमित्यप्रबुद्धमेव । अत्र मायापदे च तन्निर्विकल्पकताभासेन यद्यप्यस्ति तथाविध एव प्राणभूतो विमर्शस्तथापि तद्रूपव्यवहारकस्य तत्प्रसादासादितसत्ताकस्यापि तदव्यतिरिक्तस्यापि पश्चात्तनस्य विमर्शस्य

[प्.२३०]

उद्धरण- इदं शरीराद्यहम्, अहं योऽसौ ज्ञाता, इदं घटादिकम्, इदं यत्तत्ज्ञेयम्

इति भेदेनैव विमर्शरूपतया व्यवहारो विकल्पात्मैव । तत्र तु तथाविधत्वे कारणान्तरासंवेदनात्कल्प्यमानेऽपि च कारणे पुनरपि तथाविधबोधाविनिर्भागमात्रपर्यवसानत्तस्यैवाविकल्पसंविदात्मनस्तथासामर्थ्यं तथासामर्थ्ययोगादेव च तदनन्तवैचित्र्यात्मकत्वमित्यैश्वर्यमनपायि सिद्ध्येत् । अस्यां च सत्तायामैश्वर्यमनपेतं यतो वैखर्यात्मनि एवं मायीये वेद्येऽपि वा मध्यमामये धाम्नि भासनातिरेक्यपि संभाव्य एवं विमर्शः । अत्र तु परसंविदि यथैव भासा तथैव व्यवहारमयोऽपि विमर्शः । तेन जल इव जलं ज्वालायामिव ज्वाला सर्वथाभेदमया एव भावा भासन्ते, न तु प्रतिबिम्बकल्पेनापि । केवलं यावदेषापि परमेश्वरी उपदेशाय निरूप्यते
तावदधरसत्ताकॢप्ता तथा भवति । एवं च भासात्मकं भैरवरूपं स्वतःसिद्धमनादि प्रथमं सर्वतः चरमं च सर्वतश्च वर्तमानमिति किमपरं तत्रोच्यताम् । तत्त्वभावविकासमात्ममयमात्मैक्येनैव स्वप्रकाशं प्रकाशयति तथैव च विमृशत्यनपेततथाचमत्कारत्वेऽपि । यच्च तत्तथा विमर्शनं तद्भाविमायीयानन्तसृष्टिसंहारलक्षकोट्यर्बुदपरार्धसाक्षात्कारिणि भासने भवेत्तथारूपमेव भवति । तथाभवच्च तद्यदि सृष्टौ प्राथमिकं माध्यमिकं वा पदं भासनाद्विमृशेत्तत्पूर्वस्य तदुत्तरव्यभिचारणाशङ्कासंभावनानपगमादपरिपूर्णमप्रथितेतरभावराशि खण्डिताभेदं
कथमनिर्व्यूढपरभैरवमहाधामसमाश्रिताधस्तनपश्यन्त्यादिनिष्ठभेदासूत्रणकलङ्कं तथाविधवस्त्वपोषणवसनाममात्रीभूतपराभट्टारिकारूपं तत्किमपि रूपं भवेत् । एतादृशधारारोहणाभावे च न किं चितिदं विजृम्भमाणं भासेत इति न व्रजत्वपूर्णता मा प्रथिष्ठ भावराशिरभेदकथा खण्ड्यतां मा निर्वाक्षीद्भैरवाश्रयता भेदकलङ्कमुद्वहतु नामधेयमात्रेण परत्वमिति वक्तुं युक्तम् ।

[प्.२३१]

तदेतदेव भवति संगच्छते च यदि प्रथमतरं सर्वचरमे एवमाभासा पतन्ती तत्रैव विमर्सेनापि पदं बन्धयेत् । स हि चरमो भागस्तथा तावत्स्वात्मरूपं बिभ्रत्तत्स्वात्मरूपनान्तरीयकतास्वीकृततदनन्तनिजपूर्वपूर्वतरादिभागान्तरो भासमानो विमृश्यमानश्च पूर्ण एव । तत्पुर्वोऽपि भागस्तदुत्तरभागपृष्ठपातिवृत्तपूर्वपरिपूर्णभासासारविमर्शतादात्म्यात्तदुत्तररूपपरिपूर्णतामजहत्स्वयं च स्वरूपनान्तरीयकताहठकृष्टस्वपूर्वपूर्वतरादिभागान्तराभोगो भासमानो विमृश्यमानश्च तथैवाखण्डित इत्येवं तत्पूर्वपूर्वगता भासा तत्तद्द्वित्रादिनिजनिजोत्तरभागभासा विभागे लब्धभैरवभावस्वभावाव्यभिचारानुरोधबलस्वीकृतस्वस्वपूर्वभागचमत्कार एकैकमपि परं पूर्णा भवति यावत्स्वप्रकाशनिजभैरवाभिमतनिकटतरवर्ति
रूपम् । तदेव स्वेच्छाविश्रान्तिधाम वा भैरवाख्यं वपुः । स्वयमेव तद्विमर्शकुशला भवत प्रसंख्यानपराः । ह्रदगिरितरुप्रभृत्युपाधिसंकोचेन रहिते तद्वत्यपि वारण्यानीप्रदेशे दुरादखण्डिता दृष्टिरेवमेवाखण्डिततामुपाश्नुवाना भैरवबोधानुप्रवेशं प्रति संप्रदायतामासादयेत ।

उद्धरण- निर्वृक्षगिरिभित्त्यादौ देशे दृष्टिं विनिक्षिपेत् ।

इत्यादि । अन्यथा भागशः पाते प्रथमभागादारभ्य यदि वा निरवयवमेवैतत्क इव अपरसंवेदनेभ्योऽपुर्णाभिमतेभ्यो विशेषः । विशेषस्तु गर्भीकृतानन्तवैचित्र्यचमत्कारकृत इवापूर्णसंविदन्तरेभ्यः पूर्णाभिमतसंवेदनस्येति स्वयमेव जानन्तु सोपदेशाह्पारमेश्वराः । परमेशशक्तिपातकिरणाविकसिते तु पशुजनहृदयकुशेशये न अस्मदीयैर्वचनशतैरप्यतितीक्ष्णाभिधेयसूचिभिरपि संभेदोऽथ विकासोऽथ वितरीतुं शक्यः । घटेऽपि एवमेव परिपूर्णो दृष्टिपातः । तत्रापि ह्यविकल्पा संवित्झगिति चरमभाग एव निपतति । ततस्तु क्रमाद्विकल्पसंविद आयान्त्य आचरमनिकटभागादन्तस्तरामन्तस्तमां चानुप्रविशन्तीति
किमन्येन । तदेवमेवेहापि शिवतत्त्वं सदा अविकल्पमेव विकल्पसूति स्वातन्त्र्यसरसमनादि सर्वादिभूतं सिद्धम् । अत्र तावन्न विमतिः । तत्तु परिपूर्णं तथा भवति यदि सर्वचरमां पार्थिवीमेव भुवमधिशेते । धरासंविद्धि तथा धरां विषयतयाप्यभेदेनाभासयेद्विमृशेच्च यदि तत्स्वरूपसर्वस्वावभासविमर्शयोः व्याप्रियेत ।

[प्.२३२]

स्वरूपसतत्त्वं चास्याः परिपूर्णप्रसरत्स्वातन्त्र्यकॢप्ताप्ररूढभेदतत्पूर्वकैकरसभेदावभासतद्वशोदितसकुचच्चित्स्वातन्त्र्यसत्तामयमायाग्राहकतद्ग्राह्यचक्राविभेदात्मक्प्रधानतद्विकारधीतत्त्वतत्परिणामात्मकाहंकारतन्मूलकारणपूर्वकतन्मात्रवर्गप्रसृतखादिजलान्तभूतवर्गाधरवृत्तितयावस्थानम् । सा हि यावदाक्षेपेणैव वर्तमाना तावत्स्वरूपसतत्त्वैव । यावदेव पञ्चगुणत्वात्तन्मात्राण्याक्षिपेत्तावत्तान्याक्षिप्यमाणानि निजस्वरूपोपकॢप्तये समाक्षिप्तप्राक्तनप्रातिष्ठिकमूलान्तरपरम्परानुबन्धिस्वकपूर्वकमूलान्येव । न ह्य्
उद्धरण- उपादानाभिमतकारणस्वरूपानन्वयः कार्यसत्तायां स्यात्
इति न्याय्यम् । निमित्तकारणादीनि कथं चिन्नान्वीयुरित्युच्येतापि कदा चित् । एतच्च प्रकृतविघातकमन्यत्र तदभिधानप्रवणे शास्त्रे निष्कुष्य निष्कुषितमस्माभिरेवेति नेह विततम् ।

तदेवं प्रथमं तावद्धरा ततोऽपि जलं तथैव स्वरूपसाकल्येन भासमानं विमृश्यमानं च तद्भासाविमर्शचमत्कारमन्तःकृततथाविधधरणितत्त्वसंस्कारसत्ताकं पूरयेदेवेति यावदन्ते सैव पूर्णसंविद्भगवती शिवात्मैव । तदनेनैवोपदेशयुक्तिनयेन

उद्धरण- प्रदेशमात्रमपि ब्रह्मणः सर्वरूपमेकैकत्रापि च तत्त्वे षट्त्रिंशत्तत्त्वमयत्वं

शास्त्रेषु निरूपितम् । एवं च श्रीस्पन्दशास्त्रोपदेशो

उद्धरण- दिदृक्षयेव सर्वार्थान् यदा व्याप्यावतिष्ठते ।
उद्धरण- तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते ॥

इत्ययं हृदयंगमीकर्तव्यः । चरमेण पादेन तदेवात्र सूचितमिति किमन्यत् । यच्च येन विना न भवति तत्तावत्स्वरूपं यथा शिंशपात्वं वृक्षत्वस्वरूपं पारमेशस्वातन्त्र्यातिरोहितनियतिविजृम्भायाम् । यत्तु यावत्स्वरुपं न भवति तत्तेन विना भवत्येव यथा वृक्षत्वमृते शिंशपात्वापवादः ।

[प्.२३३]

न भवन्ति च धरादीन्युत्तरोत्तरतत्त्वानि जलादि पूर्वपूर्वं विनेति तावत्स्वरूपाण्येव । धरा हि न जलं विना भवेत्स्रुतेरेव काठिन्ये दर्शनादित्येवंक्रमेण भूतानि तन्मात्रैर्विना कथम्, तान्यपि इन्द्रियजृम्भया विना, इन्द्रियाण्यपि तत्तथाविधाध्यवसायेन विना । सर्वाणि चैतदाद्याविभक्तान्वितसूक्ष्मरूपमूलकारणविनाकृतानि न भवन्ति । मूलप्रकृतिरपि भोग्या भोक्तारं तद्भोग्यविभागभागित्वादेव संकुचितं संकोचवशादेव च स्वात्मारोहितकालकलादिपाशजालं संविदात्मकं चान्तरेण कथम् । संविदश्चाखण्डरूपायाः कथं संकोचकारणस्वातन्त्र्यं मायापरपर्यायं विना संकुचितत्वम् । स्वातन्त्र्यं
च संकोचेऽसंकुचिततासारतत्संकोचतारतम्याक्षेपि भवदीषदसंकुचितासंकुचितेषड्विकासिविकस्वररूपं विरहय्य नैव भवेत् । सर्वमेव चेदं प्रथमानं स्वतन्त्रपरिपूर्णप्रथासारभैरवं विना किं चिदेव नेति स्वसंवित्सिद्धोऽयं तत्त्वक्रमः । स्रुतिरपि जलात्मिका काठिन्यं विना क्वेति धरापि पूर्विका सलिलेऽस्त्विति कथ्यमानमपि किं नश्छेदयेत् । प्रत्युत परिपूर्णसर्वात्मकभैरवभट्टारकात्मकपरासंवित्परिपोषणायैव स्यात् । सर्वश्चायं परापराभट्टारिकादिरूपपश्यन्त्यादिसत्तासमयोद्भविष्यदीषत्स्फुटस्फुटतरादितत्त्वभेदानुसारेण पराभट्टारिकामहसि
तदुचितेनैव वपुषा विराजते । तत्र हि निःश्वस्येव । हस्ते द्रविणमसन्न क्व चिदपि स्यात् । भविष्यदपि वस्तु चरममपि प्रथमप्रकाशे भासेतैव । केवलमेकरसतद्भेदसारस्फुटरूपापेक्षया भविष्यत्ता । तथा हि भविष्यति कल्की हनिष्यत्यधर्मपरानित्यादि यदि न प्रकाशितं तत्कथं पुराणेषु निबद्धम् । क्वचन सर्गे बभूव कल्की तथैव व्यधित इति चेत्किं स एवासावन्य एव वा, अन्यश्चेदप्रकाशोऽसौ, स एव चेत्कथं कालभेदः । अकालकलितश्चेत्कथमिव ।

पृष्ठ २३४


चित्त्वाद्विश्वरूपत्वादिति चेत्तर्ह्यकालकलिते संविदात्मनि सततविश्वशक्त्यवियुक्ते स्वातन्त्र्यवशसंकोचविकासावभासितसंहृतिसृष्टिसताविरूद्धैकरूपतदात्मकवपुषि परमेश्वरेऽस्मज्जिह्वाग्रहृदयानपायिनि भैरवभट्टारके सर्वमस्तीत्यस्माभिरुपन्यस्यमानमेव मुक्तमन्दाक्षं कथं नाद्रियते विवृततरकण्ठमेव वा स्वयमेव न निर्णीय निरूप्यते । तस्मात्शिवतत्त्वमिदमनाद्यन्तं स्वयं प्रथमानं पूर्णतात्मकनिरपेक्षतामात्रसतत्त्वस्वातन्त्र्यसारमन्तःक्रोडीकृत्यात्मतैकपरमार्थं तत्त्वजातं परसंविदि सततोदितत्वात्सर्वाविरोधित्वान्निखिलानुग्राहकत्वाच्च अवस्थाशब्दव्यपदेशासहिष्णौ यावदकालकलितमासीनं
भैरवरूपमवतिष्ठते तावदेतच्छास्त्रसमुचितेनैव महासृष्ट्यादिरूपेण न तु मितसृष्ट्यादिक्रमेणैति सिद्धम् । स एष एव संपुटयोगे अस्मद्गुरूणां संप्रदायः शुद्धपरसत्तया सर्वस्यैव एकैकतत्त्वस्य निखिलस्य च तत्त्वौघस्य संपुटीकरणात् । वक्ष्यते चाप्येतत् ।

पश्यन्तीदशायाश्चारभ्य भेदासूत्रणात्मांशांशोल्लास इति ततः प्रभृत्येव शोध्यशोधकभाव इति तावद्व्यवस्थानापह्नवनीया । यथोक्तम्

उद्धरण- यत्सदाशिवपर्यन्तं पार्थिवाद्यं च सुव्रते ।
उद्धरण- तत्सर्वं प्राकृतं ज्ञेयं विनाशोत्पत्तिसंयुतम् ॥

इत्यादि । पश्यन्ती च परापराभट्टारिकासतत्त्वा परशक्तेरेव स्वात्मशक्तिर्दर्पणकल्पा यत्र तत्पराभट्टारिकास्वरूपमेव चकास्ति प्रतिबिम्बवत् । यच्च रूपं सदा बिम्बे प्रतिबिम्बे चैकतापरमार्थं मुखपरामर्शमात्रमिव न तत्प्रतिबिम्बितमुच्यते तन्मात्रसत्त्वादेव । यत्तु तत्रान्यथा तथा च भाति मुखाकार इव पूर्वापरवामदक्षिणतादिविपर्ययादेतदेवापि तदेवापि तदेव प्रतिबिम्बितमुच्यते तच्च तत्समानधर्मैव भवति न तु विजातीयम् । एवं च पश्यन्तीसतत्त्वपरापराविमलमुकुरिकायां तत्तत्तथाविधोक्तक्रमपूर्णपृथिव्यादितत्त्वसामग्रीनिर्भरमन्तस्तथाविधसहजाकृत्रिमपारमार्थिकानपायिकादिपरामर्शक्रोडीकारेणैव वर्तमानमपि
श्रीपराभट्टारिकावपुः प्रतिबिम्बमर्पयत्स्वरूपान्यथात्वासहिष्णुकादिपरामर्शानन्यथाभावेनैव तत्परैकरूपं परामृश्यं धरण्यम्भःप्रभृति तथोल्लसद्भेदसूत्रणतया सजातीयायां विमलायां च यावत्प्रतिबिम्बयति तावद्धरादितत्त्वानां विपर्यास एवोपजायते ।

पृष्ठ. २३५

यत्परसंविदि शक्तितत्त्वं तदेव परापरात्मनि पृथिवीतत्त्वं, यत्तु धरातत्त्वं तच्छक्तितत्त्वमिति क्षकारात्प्रभृति धरादीनां स्थितिः । भगवद्भैरवभट्टारकस्तु सदा पूर्णोऽनन्तस्वतन्त्र एव न विपर्यस्यते जातुचिदपि चिद्रूपातिरेकाद्यभावादित्युक्तं बहुशः । परात्मनि परामर्शे परामर्शैकतत्त्वान्येव तत्त्वानि परामर्शश्च कादिक्षान्तशाक्तरूपपरमार्थ इति तत्र अभेद एव । परापरायां तु भेदाभेदात्मकता प्रतिबिम्बन्यायेन । सा च परापरा परामर्शमयी कादिक्षान्तवर्णमालाशरीरा यावत्स्वोर्ध्वव्यवस्थितपराभट्टारिकानिविष्टतत्त्वप्रतिबिम्बानि धारयति तावत्तेष्वेवामायीयाश्रौतकादिक्षान्तपरमार्थपरामर्शेषूर्ध्वाधरविपर्यासेन
तत्त्वानि संपद्यन्ते ऊर्ध्वबिम्बाधरप्रतिबिम्बधामस्वभावमहिम्नाइति तात्पर्यम् । ततः पृथिवी क्षकार इत्यादि शोध्यरूपापेक्षया न किंचिद्विरुद्धम् । तत्रापि परदशानपायातेष एव कादिवर्णसंतानः । तत्रैव च स्वांशोद्रेकात्स्वांशान्तर्वर्तिमध्यमापदोल्लासात्स्वरूपवर्तमानवैखरीरूपप्रावण्याच्च वर्णमन्त्रपदरूपता शोध्यांशवृत्तिरित्यास्ताम् । अप्रकृतमेतन्निर्णीतं च मयैव श्रीपूर्वप्रभृतिपञ्चिकासु । यदप्युक्तं श्रीमालिनीभट्टारिकानुसारेण

उद्धरण- अन्यथा चान्यथा स्थितिः

इति तदपि निर्णीय निरूप्यमाणं विमृशन्तु त्रिकोपदेशविसीर्णाज्ञानग्रन्थयः पारमेश्वराः । अनाश्रितशक्त्यात्मकपश्यन्तीपरमकोटिमतिक्रम्य पारमेश्वर्यां परसंविदि देवतास्तिस्र इति यदुक्तं तत्तावन्न प्रस्मर्तुमर्हन्ति तत्रभवन्तः ।

एवं च परसंविदन्तर्वर्तिनि मध्यमापदे परापराभट्टारिकाविजृम्भास्पदे स्थितिर्विमृश्यते । मध्यमा तावत्स्वाधिकारपदे क्रियाशक्त्यात्मन्यैश्वरे पदे स्फुटवेद्यप्रच्छादकवेदनरूपा वाच्ये वाचकं तत्रापि च वाच्यमध्यस्यते ।

[प्.२३६]

विश्वत्र वाच्ये विश्वात्मनि वाचकमपि यदि विश्वात्मैव तदेवं परस्पराच्छादनलोलीभावात्मा निर्वहेदध्यासो न त्वन्यथा । न हि त्रिचतुरङ्गुलन्यूनतामात्रेऽपि पटः पटान्तराच्छादकः स्यात् । विश्वात्मकत्वं च परस्परस्वरूपव्यामिश्रतया स्यात् । बीजात्मनां स्वराणां वाचकत्वं योनिरूपानां च व्यञ्जनानां वाच्यत्वं क्रमेण शिवशक्त्यात्मकत्वात्

उद्धरण- बीजमत्र शिवः शक्तिर्योनिरित्यभिधीयते ।

इति । तथा

उद्धरण- बीजयोन्यात्मकाद्भेदाद्द्विधा बीजं स्वरा मताः ।
उद्धरण- कादिभिश्च स्मृता योनिः ... ॥
इति श्रीपूर्वशास्त्रनिरूपणात् । शिव एव हि प्रमातृभावमत्यजन् वाचकः स्यात्प्रमेयांशावगाहिनी च शक्तिरेव वाच्या । भेदेऽपि हि वाचकः प्रतिपाद्यप्रतिपादकोभयरूपप्रमातृस्वरूपाविच्छिन्न एव प्रथते । शिवात्मकस्वरबीजरूपा श्यानतैव शाक्तव्यञ्जनयोनिभावो बीजादेव योनेः प्रसरणादिति समनन्तरमेव निर्णेष्यामः । अत एव च स्वरात्मकबीजव्यामिश्रीभावश्चेद्योनेः तत्समस्तफलप्रसवो हन्त निर्यत्न इत्यपवर्गभोगावकृष्टपच्यावेव भवतो बीजवर्णोऽपि स्वात्मनि योनिवर्णो योनिवर्णोऽपि तथैवेति किं कस्य भेदकमिति कथ्यमानं नास्मानाकुलयेत्ये वयमेकां तावदनन्तचित्रतागर्भिणीं तां संविदात्मिकां गिरं संगिरामहे
। मायीयेऽपि व्यवहारपदे लौकिकक्रमिकवर्णपदस्फुटतामयी एकपरामर्शस्वभावैव प्रत्यवमर्शाकारिणी प्रकाशरूपा वाक् । अन्यैश्चैतत्प्रयत्नसाधितरो इह च एतावदुपदेशधाराधिशयनशालिनामप्रयत्नत एव सिद्ध्यतीति नास्माभिरत्र वृथा वैयाकरणगुरुगृहगमने पूतशरीरताविष्क्रियामात्रफले निर्बन्धो विहितः । एवमेव नवात्मपिण्डप्रभृतिष्वपि मालामन्त्रेष्वपि च क्रमाक्रमपूर्वापरादिभेदचोद्यप्रतिविधानं सिद्धमेव ।

एवं भगवती मालिन्येव मुख्यपारमार्थिकमध्यमाधाम शक्तिसतत्त्वम् । अत एवोक्तं श्रीपूर्वशास्त्रे

[प्.२३७]

उद्धरण- यथेष्टफलसंसिद्ध्यै मन्त्रतन्त्रानुवर्तिनाम् ।
उद्धरण- न्यसेच्छाक्तशरीरार्थं भिन्नयोनिं तु मालिनीम् ॥

इति । भिन्नयोनित्वं च निर्णीतम् । अन्यत्रापि

उद्धरण- न पुंसि न परे तत्त्वे शक्तौ मन्त्रं निवेशयेत् ।
उद्धरण- जडत्वान्निष्क्रियत्वाच्च न ते भोगापवर्गदाः ॥

इति । एवं च स्थिते सर्वसर्वात्मकत्वाद्यदेव ’’न ऋ ऋ ळ ळ३ थ च ध ई ण उ ऊ ब क ख ग"इत्यभिहितेहत्यपरसंविदमपेक्ष्य क्रमेण श्रोत्रं नादात्मकभावरूपं योन्यात्म अमृताप्यायकारिणि बीजचतुष्काप्यायभूमौ पतितं बृंहितत्वमवाप्य झटिति ग्रहणात्मकरससतत्त्वरसनामयत्वं प्रतिपद्य धरण्याकारगन्धविशेषीभूय तत्रैव स्पर्शकरणतां श्रित्वा एतावच्च शाक्तं यौनं धाम ईशानबीजेनाधिस्थाय वागात्मनि करणशक्तौ प्रतिफलितं ततोऽपि करणशक्तेरुन्मेषोर्ध्वाश्रयणबीजरूपतया बुद्धिरूपां शाक्तयोनिमधिशय्य पृथिव्यप्तेजोयोनिसमाविष्टम् । पश्यन्तीरूपानुसृत्या तु ग्रहणात्मकवाणिरूपायां तत्रैव बीजेषु
प्रसृत्य चाक्षुष्यां भुवि तत्सामान्याशुद्धविद्याकरणे तत्सर्वान्त्यकरणे च घ्राणे स्थित्वा ईशानबीजेनाक्रम्य श्रोत्रशक्तिमालम्ब्योन्मेषोर्ध्वबीजयोगेन आनन्देन्द्रिययोनिगं सदाशिवेश्वरशुद्धविद्यामयं भवति इति सर्वाग्रमध्यान्तगामित्वेनापरिच्छिन्नमनन्तशक्ति शिवतत्त्वमत्रोक्तं भवति । मालिन्यामिहत्यपरसंविदनुसृत्या पश्यन्त्यात्मकसत्तानुसृत्या च क्रमेण वायुर्माया घ सादाख्यम् । नभः कला च ङ ईश्वरः । इच्छैव शक्तिमयी इ शुद्धविद्या । अनुत्तर एव स्वतन्त्रोऽहंभावः अ शिवाख्यो माया । अशुद्धविद्या गन्धश्च व कला । प्रकृतिः पादेन्द्रियं च भ अशुद्धविद्या । कालः स्पर्शश्च य रागः । पायुरहंकृच्च ड नियतिः
। हस्तौ मनश्च ढ कालः । आनन्देन्द्रियं बुद्धिश्च ठ पुरुषः । स्पर्शः कालश्च झ प्रकृतिः । शब्दः पुमान् च ञ धीः । रूपं नियतिश्च ज अहंकृतम् । नियती रूपं च र मनः । पादेन्द्रियं प्रकृतिश्च ट श्रोत्रम् ।

[प्.२३८]

मनो हस्तश्च प त्वक् । रसो रागश्च छ नेत्रे । रागो रसश्च ल रसना । आनन्दशक्तिः शैवी आ घ्राणम् । विद्या तेजश्च स वाक् । विसर्गशक्तिश्च अः करौ । ईशो जलं च ह पायुः । माया वायुश्च ष आनन्देन्द्रियम् । सादाख्यं पृथिवी च क्ष पादौ । पुमान् शब्दश्च म शब्दः । कला नभश्च श स्पर्शः । बैन्दवी शिवशक्तिः अं रूपम् । नासिका त्वक्च त रसः । शिवशक्तिः सात्त्वी ए गन्धः । सैव दीर्घा ऐ नभः । तथैव वायुतेजसी ओ औ । नेत्रे रसश्च द आपः । अहंकृत्पायुश्च फ पृथिवी । अत्रैव च यथोक्तं शरीरनिवेश इत्येवं सर्वसर्वात्मकत्वं निर्व्यूढं भवेत् । पराभट्टारिकैव हि प्रोक्तनयेन
पश्यन्त्यां प्रतिबिम्बं स्वकमर्पयमाणा तत्समकालमेव स्वात्मतादात्म्यव्यवस्थितमध्यमाधाम्नि भिन्नयोनितामश्नुवाना तत्तद्योनिबीजपरस्परसंभेदवैचित्र्यस्यानन्त्यादसंख्येनैव प्रकारेण तत्तत्कुलपुरुषादिभेदेनापरिगणनभेदभागिनी मालिन्येव । यथोक्तम्

उद्धरण- अनन्तैः कुलदेवैस्तु कुलशक्तिभिरेव च ।
उद्धरण- मालिनीं तु यजेद्देवीं परिवारितविग्रहाम् ॥

इति । अनेनैव च क्रमेण बहिर्भुवनेषु तत्त्वेषु शारीरेषु च चक्रेषु अभ्यासपरो योगी तत्तत्सिद्धिभाग्यत्रैव देहे प्राणे वा भवति ।
यथा काश्चिदेवौषध्यः समुद्भूय किंचिदेव कार्यं विदधते
तथा काचिदेव समुद्भूय भावना मन्त्रन्यासहोमादिगतिर्वा
कांचिदेव सिद्धिं वितरेत्, अत्रापि यावन्नियतिव्यापारानतिक्रमात् ।
तथा हि प्रतिशास्त्रमन्यथा चान्यथा च वर्णनिवेशपुरःसरं निजनिजविज्ञानसमुचितततत्तद्वर्णभट्टारकप्राधान्येन तत्तद्वर्णप्राथम्यानुसारायातनियतपरिपाटीपिण्डितवर्णसमूहरूपः प्रस्तारो नि रूपितः तत एव च मन्त्रोद्धारो निरूपितः तामेव मातृकारूपतां
तथाविधवीर्यदानोपबृंहितमन्त्रस्फुरत्तादायिनीं दर्शयितुं, यथा श्रीनित्यातन्त्रेषु ऐकारात्मकमोहनबीजप्राधान्यहेतुः । परनादात्मनिवेशप्राधान्यात्तदनुसारापतितश्रीमन्नादिफान्तक्रमेणैव
निवेशः । अत्र कुलपुरुषाणां कुलशक्तीनां च एष एव निवेश अभिप्रायो न च वर्णमन्त्रादिगुप्तिमात्रमेव फलम् । तथा श्रीवाजसनेयतन्त्रे वर्णान् यथोचितं निवेश्योक्तम्

[प्.२३९]

उद्धरण- इत्येतन्मातृकाचक्रं दिव्यं विष्णुपदास्पदम् ।
उद्धरण- ज्ञातं गुरुमुखात्सम्यक्पशोः पाशान्निकृन्तति ॥

इति । तथा श्रीत्रिकहृदयेऽपि

उद्धरण- चक्रशूलाम्बुजादीनां प्राणिनां सरितं नृणाम् ॥
उद्धरण- आयुधानां च शक्तीनामन्यस्यापि च कस्य चित् ॥
उद्धरण- यो निवेशस्तु वर्णानां तद्वीर्यं तत्र मन्त्रगम् ।
उद्धरण- तेन गुप्तेन ते गुप्ताः शेषा वर्णास्तु केवलाः ॥

इति । तथाहि मन्त्राणामक्षरमात्रानन्यथाभावेऽपि तेषामेव शास्त्रेष्वाणवशाक्तशाम्भवादिविभागेनान्यथात्वं यथा मायाबीजस्य प्रणवस्य सर्वस्यामृतबीजस्य वैष्णवशैववामादिशास्त्रेषु यथा वा चतुष्कलभट्टारकस्य कालोत्तरादौ श्रीमदुच्छुष्मशास्त्रे च । अत्र च कुलपुरुषबहुभेदप्रकटनायामभियुक्तानामुपायो लिख्यते

उद्धरण- पूर्वे परेषामपरे परे पृष्ठवदेव च ।
उद्धरण- पूर्वेऽपि च यथापूर्वं मातृकाया विधिर्मतः ॥
उद्धरण- एतेनैवानुसारेण भिन्नयोनिस्वरूपतः ॥
उद्धरण- शाक्ता ह्यसंख्या देवीयं परैवोत्तरमालिनी ॥
उद्धरण- ऊर्ध्वाधो विनिविष्टेषु भेदसंख्येषु धामसु ।
उद्धरण- एकं बिन्दुरथापि प्रागन्येषु प्राक्तनान्त्यगाम् ॥
उद्धरण- स्वपृष्ठगां च तां संख्यां विनिवेश्यैकतः क्षिपेत् ।
उद्धरण- अस्मादन्यैर्भवेत्संख्या स्पृष्टैरिष्टैः पुनः क्रमः ॥

यथोक्तं कुलशक्तीनां विधिरानन्त्यवेदन इति । तदेतेन विधिना ये कुलपुरुषशक्तियोगिनो निरधिकारीभूताः, यथोक्तम्

उद्धरण- ब्रह्मादिस्तम्बपर्यन्ते जातमात्रे जगत्यलम् ॥
उद्धरण- मन्त्राणां कोटयस्तिस्रः सार्धाः शिवनियोजिताः ।
उद्धरण- अनुगृह्याणुसंघातं याताः पदमनामयम् ॥

इति मन्त्रमहेस्वराः, न तु मन्त्राः, तेषां स्वलयावसरे अनामयपदपर्यन्तताभावः ।

[प्.२४०]

तेभ्यो नैव मन्त्रोद्धारस्तस्य निष्फलत्वात् । तत एव

उद्धरण- अभिन्नयोनिमध्ये तु नादिफान्तं कलौ युगे ।

इति । तदेवं भगवती परापराभट्टारिका पदभेदशालिनी मध्यमया मुख्यया वृत्त्या भगवन्मालिनीरूपैवानन्तापरिगणप्रदर्शितवैश्वरूप्यस्वस्वरूपापीति । तत्रापि च तथैव स्वात्मनि सर्वात्मकत्वेनांशत्रयोद्रेकाद्वर्णपदमन्त्रात्मकत्वम् । एतच्च शोधनकरणभावेनेति मन्तव्यम् । पश्यन्त्यंशोल्लसन्तो हि पाशाः सूक्ष्मा एव शोध्या भवन्त्यन्तर्लीनत्व एव पाशत्वात् । उदितोदितविजृम्भामयशाक्तप्रसरे तु मध्यमापदे शोधनकरणतैवान्तर्लीनपटमलापसरणे बाह्यस्थूलमलस्येव ।

तत्पराभट्टारिकासंविदन्तर्गतं तु वैखरीपदं विमृश्यते । न हि तत्रैव वैखर्या असंभवः । तथा हि बाला द्वित्रैर्वर्षैर्यद्यपि स्फुटीभूतस्थानकरणा भवन्ति तथाप्येषां मासानुमासदिनानुदिनमेव वा व्युत्पत्तिरधिकाधिकरूपतामेतीति तावत्स्थितम् । तत्र यदि मध्यमापदे तथाविधवैखरीप्रसरस्फुटीभविष्यत्स्थानकरणाविभागवर्णांशस्फुरणं न स्यात्तदहर्जातस्य बालकस्य मासजातस्य संवत्सरजातस्य वा व्युत्पत्तौ न विशेषः स्यात् । मध्यमैव सा व्युत्पत्त्या विशिष्यत इति चेत्कथमिति चर्च्यतां तावत् । सृन्वन्नेव ताञ्शब्दान् पश्यंश्चार्थान् व्युत्पद्यते वमांश्च श्रूयमानानेव परामृशेच्छ्रूयन्ते च वैखरीमयाः,
तेषु च असौ रूप एव जात्यन्धवत् । तस्मादन्तर्मध्यमानिविष्टस्थानकरणादिमयी अस्त्येव वैखरी । मूकेऽप्येवमेव । सर्वात्मकत्वं च संविदो भगवत्या एवोक्तम् । एवं च वैखरीपदमेव मध्यमाधामलब्धविजृम्भं स्वांशे परस्परवैचित्र्यप्रथात्मनि स्फुटवाच्यवाचकभावोल्लासे जाते तत्त्वजालमन्तःकृत्य यावदास्ते तावदपराभट्टारिका । तदन्तर्वर्तिमध्यमापदोल्लासे परापरा । पश्यन्त्युल्लासे च स्वरूपतो भगवती देवी चेति शोधकभावेन स्थितिः त्रैधमेवावतिष्ठते । सोधको हि विश्वात्मा विततरूपो वैतत्यं चैवमेव भवतीत्युक्तम् ।

[प्.२४१]

शोधनं प्रति तु करणत्वं कर्तुरेव स्वस्वातन्त्र्यगृहीतसंकोचस्य शाक्तमहिमविश्रान्तस्य भगवतः । शोध्यता तु संकोचैकरूपस्य सप्तत्रिंशातिक्रान्तत्रिकैकरूपभैरवभट्टारकाविनिर्भक्तपराभट्टारिकातुल्यकक्ष्यपरापरादेवताक्षोभात्मकसदाशिवज्ञानशक्तिविस्फारितपशुशक्तिरूपपश्यन्तीधामप्रथमासूत्रितभेदात्मनो नरात्मनः पाशजालस्येति निर्णयः । यथोक्तं श्रीसोमानन्दपादैः शिवदृष्टौ

उद्धरण- अस्मद्रूपसमाविष्टः स्वात्मनात्मनिवारणे ।
उद्धरण- शिवः करोतु परया नमः शक्त्या ततात्मने ॥

इति । सर्वक्रियाकलापे एवंरूपतासूचकत्वं शिवदृष्टौ । तत्रापि चोत्तरोत्तरं शोध्यसोधकानामपि विगलनम् ।

उद्धरण- त्यज धर्ममधर्मं च उभे सत्यानृते त्यज ।
उद्धरण- उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज ॥

इति । तदियमेतावती धारा यच्छोधनमपि शोध्यमेवेति श्रीषडर्धशास्त्रे एव एक उत्कर्षः । तिसृणामपि चासां युगपत्स्थितिर्भवत्येव । वक्ति ह्यन्यत्विकल्पयंश्चान्यत्जल्पत्यविकल्पमेव अन्यत्पश्यति । अत्र तु परिपूर्ण एव तावति भगवान् भैरव एवेत्याद्यनुभवसंप्रदायोपदेशपरिशीलनेनास्यार्थस्य स्वसंविन्मयस्यानपलापनीयत्वात् । न तद्युगपतपि तु तथासौक्स्म्यादलक्सणमिति यौगपद्याभिमानः शिरीषकुसुमपल्लवसतव्यतिभेद इवेति चेत्केयं खलु भाषा युगपदिति । समानकालमिति चेदन्तर्मुखे सम्विदात्मनि प्रोक्तनयेन कः कालः तस्य ज्ञेयरूपप्राणगमागमादिमयाभासतदभावप्राणत्वात् । ज्ञेयोपाधिगतोऽपि ज्ञानमवस्कन्देत्स इति चेज्ज्ञेयस्य स्वात्मनि भासामयेऽन्यथा
वा कस्य निवेशो ज्ञानमुखे नोक्तः । इतरेतराश्रयसंप्लवः स्वतो भेदादित्याद्यपि सर्वमुच्यमानं ज्ञानमुखमेवापतेत्तथा च स एव दोषः ।

[प्.२४२]

बहुतरकुसुमपल्लवसतव्यतिभेदोऽपि चानेक इत्युच्यमाने सर्वत्र सूक्ष्मपरमाण्वन्तावयवयोगान्नास्ति कर्म इत्यापतेत् । न चानुसंधानं ज्ञानाभावेन सह स्यादनुसंधायाः स्मृतिभेदे तस्याश्चानुभवोपजीवित्वेऽनुभवाभावाभावात् । वितत्य च विचारितं मयैतत्पदार्थप्रवेशनिर्णयटीकायामिति किमिह वृथावाग्जालेन प्रकृतोपदेशविघ्नपर्यवसायिना । एवं भगवत्यपरा सोधकभावेन स्थिता परा परापरापि च यत्र भगवतीनामघोरदीनां शक्तीनां स्थितिर्यद्योगाद्विज्ञानाकलसाधकयोगिनो मन्त्रमहेसादिरूपेणाघोराद्याः संपन्नाः । ब्रह्म्यादिशक्त्यनुग्रहेणैव साधकाणवो ब्रह्मविष्ण्वादयः । परमेश्वरो हि भैरवभट्टारकः समग्रशक्तिपुञ्जपरिपूर्णनिर्भरवपुर्
निजशक्तिनिवेशनया ब्राह्म्यादीन् स्वातन्त्र्यात्करोति इति किमन्यत् । एवं शोधकस्यापि शोध्यत्वमित्यन्य उत्कर्षः

उद्धरण- ... कुलात्परतरं त्रिकम् ।

इति स्थित्या । ततश्च शोध्यशोधनशोधकानां सर्वत्रैव त्र्यात्मकत्वात्त्रिकमनपायि यथोक्तं मयैव स्तोत्रे
उद्धरण- ... यत्र त्रिकानां त्रितयं समस्ति ।

इति । न चैवमनवस्था सर्वस्यास्य भगवत्परसंविदेकमयत्वात् ।

उद्धरण- ... येन त्यजसि तत्त्यज

। इत्येवमेव मन्तव्यम् । शोधनमपि अन्ततः शोधकोऽपि वा भेदांशोच्छलत्तायां पाशात्मकत्वात्शोध्य एव । शोधनं च परमार्थतः सर्वमलप्लोषचतुरभैरवसंविदभेदिहुतवह एव सर्वस्यानुप्रवेशे परिपूर्णतैव । यद्वक्स्यति

उद्धरण- एवं यो वेत्ति तत्त्वेन ... ।

इत्यादि । तत्परसंविदेकमयपरापरादिदेवतानं सर्वात्मकत्वात्

उद्धरण- परापराङ्गसंभूता योगिन्योऽष्टौ महाबलाः ।

[प्.२४३]

इत्यादिवचनाल्लौकिकशास्त्रान्तरीयादिवाच्यवाचकानन्त्यमपि संगृहीतम् । तदेवं कृतकरिष्यमाणाद्यनन्तसंकेतगर्भीकारेणैवायं शोध्यशोधकभावो न चानवस्था न चातिप्रसङ्गो नाव्यप्तिर्न संकेतितस्यापारमार्थिकतेति स्थितम् । एवं स्थिते प्रकृतमनुसरामः । अकाराद्या एव कालयोगेन सोमसूर्यौ यौ तौ तदन्तः प्रकीर्तिताविति संबन्धः। तच्छब्देन प्राक्तनश्लोकोक्तमकुलं भैरवात्म परामृश्यते । तेनाकुलमेवान्तर्गृहीतकलनाकं कुलशक्तेरत्रैव निवेशात् । कलनात्मिका हि विमर्शशक्तिः । तामन्तरेणाकुलमपि तुर्यातीतं नाम न किं चित्सौषुप्तपदाविष्टत्वात्तुर्यानन्तरताया अपि समानत्वात् । विमर्शशक्तिश्च परा परमेश्वरी
भैरवभट्टारकस्य निरतिशयस्वातन्त्र्यात्मिका पूर्णकृशतदुभयात्मकतदुभयरहितत्वेनावतिष्ठते । तत्र यद्यपि न कश्चिदत्र क्रमयौगपद्योदयकलङ्कः प्रोक्तोपदेशनयेनैतावत्याः पराभट्टारिकासंविदोऽनन्तागामिप्रलयोदयात्मकस्वस्वभावविमर्शैकघनत्वात्

उद्धरण- स्वतन्त्रः परिपूर्णोऽयं भगवान् भैरवो विभुः ।
उद्धरण- तन्नास्ति यन्न विमले भासयेत्स्वात्मदर्पणे ॥

इति नीत्या क्रमयौगपद्यासहिष्णुस्वात्मरूपमध्य एव यावत्क्रमाक्रमावभासस्तावत्तदनुसारेणायं क्रमो विचारणीयः, अक्रमस्य तत्पूर्वकत्वेन संविद्येव भावात्प्रतिपादनायास्तु सर्वथैव सक्रमत्वात् । तथा च सर्व एवायं वाग्रूपः परामर्शः क्रमिक एव, अन्तःसंविन्मयस्त्वक्रम एवेति सदैवेयमेवंविधैव एवमेव विचित्रा पारमेश्वरी पराभट्टारिका । ततस्तत्क्रमानुसारेण ’’त्"इत्यादिव्यपदेशः । एवं परमेश्वरस्य स्वात्मनीच्छात्मिका स्वातन्त्र्यशक्तिरनुन्मीलितभावविकासा तथाविधान्तर्घनसंवित्स्वभावविमर्शसारा ’’"इत्युच्यते । स चावस्था इच्छेति व्यपदेश्या इष्यमानानुद्रेका तत एवानुत्तरसत्तापरामर्शात्मिकैव एषा ।

[प्.२४४]

परमेश्वरः सततं स्वस्वरूपामर्शकोऽकुलशक्तिपदात्मकमपि रूपमामृशन् यद्यपि कुलशक्तीरनुयातु तथापि कुलपरामर्शतोऽस्य स्यादेव विशेष इति भैरवशक्तिमद्विमर्शसत्तेयम् । तादृश्येव पुनः प्रसरन्ती आनन्दशक्तिः ’’ा"इति । प्रसृता परिपूर्णेच्छा ’’ि"इति । इच्छैव भाविज्ञानशक्त्यात्मकस्वातन्त्र्येण जिघृक्षन्ती ईशनरूपा ’’ी"इति । उन्मिषन्ती तु ज्ञानशक्तिरिष्यमाणसकलभावोन्मेषमयी ’’ु"इति । उन्मिषत्तैव उन्मिमिषतामपि अन्तःप्राणसर्वस्वरूपोन्मेषोत्तरैकरूपैरपि अन्तःकरणवेद्यदेशीयास्फुटप्रायभेदांशभासमाभिः संकोचवशेनोनीभूतानुत्तरसंवित्सर्वभावगर्भीकारेणानङ्गधैनवीरूपपरदेवताया ऊढोरूपा
ऊढसकलभावराशिः सुस्फुटा प्रसृता ज्ञानशक्तिः ’’ू"इति । तदेवमेते परमेश्वरस्य भैरवस्य द्वे शक्ती, प्रथमा स्वरूपपरिपूरणारूपत्वात्पूर्णा चान्द्रमसीशक्त्यव्यतिरेकाच्च सहोमया वर्तत इति सोमरूपा स्वानन्दविश्रान्तिभावा इच्छाख्या कलना महासृष्टिव्यपदेश्या, यद्वक्ष्यते ’’तत्र सृष्टिं यजेद्"इति । द्वितीया तु तत्स्वरूपभावराशिरेचनानुप्रवेशाद्रिक्ता तद्रेचनादेव कृशा भावमण्डलप्रकाशनप्रसारणव्यापारा सूर्यरूपा स्वरूपभूतकुलसंवित्संजिहीर्षात्मिका महासंहारशक्तिर्ज्ञानाख्या । तत्रापि च प्रसरतत्प्राक्तनरूपपर्यालोचनावसात्स्वात्मनि यथाक्रमं सोमसूर्यरूपतायुगलकभावेन स्वसंविदात्मकं भावाख्यं च रूपमपेक्ष्य विपर्ययोऽपि
सोमसूर्यात्मकसृष्टिसंहृतिकलनयोः । न चात्रानवस्था ज्ञानेच्छयोरपि प्रसराप्रसरान्तरादिरूपत्वं, तयोरपि प्रसराप्रसरयोरिच्छाज्ञानप्रसराप्रसरान्तरादिपरिकल्पनाप्रसङ्गादिति वाच्यम् । उपसंहरत बाह्यविभ्रमभ्रमभ्रमणं तावत्, अनुप्रविशत सूक्ष्मां विमर्शपदवीम् । यावद्धि घटादावपि विज्ञानं जायते तावदेव ज्ञेयघटाद्यंशकर्बुरीकृतस्वयंप्रथं ज्ञानं प्रथत एव । तत्रापि च तद्रूपकर्बुरीभावे घटादिप्रथमसूक्ष्मोल्लासोऽपि संवेद्य एकभावोद्गमस्य अन्यतः कुतश्चिदभावस्य प्रथमानत्वात् ।

[प्.२४५]

संविद एव स्वातन्त्र्यं भावोज्जिगमिषात्मकमीशनं स्वसंवित्प्रमाणलब्धमेव । तद्भावानुचयरूपा संविद्घना परिपूर्णा स्वातन्त्र्यसत्तापि संवेद्या । स्वात्मन्यानन्दघनो भवंस्तथा स्वतन्त्रः स्यादित्यानन्दोऽपि नापह्नवनीयः । अनुत्तरश्च शक्तिमानव्यपदेश्यपरचमत्कारसारो भैरवभट्टारकः सर्वत्र कर्तृत्वेन भासत एव । तत्रापि त्वनुत्तरानन्देच्छेशनोन्मेषणोनत्वनिमेषाणां स्वरूपविमर्शे तेषां विच्छेदविचारणेन ज्ञानभूमिमधिशयानानां ता एव भगवत्यः संविच्छक्तयः समापतन्त्यनन्या एव स्वयं संविदः, परिपूर्णत्वेनाभेदात्
संवेद्योपाधेश्च भेदकत्वात्तस्य देहसंवेद्यमात्रतयैव भावात् । अत एव श्रीतन्त्रसारे निजोत्तमाङ्गच्छाया तत्त्वमित्युक्तम्

उद्धरण- स्वपदा स्वशिरश्छायां यद्वल्लङ्घितुमीहते ।
उद्धरण- पादोद्देशे शिरो न स्यात्तथेयं बैन्दवी कला ॥

इति । तदेवं षट्कं प्रवृत्तं ज्ञानशक्त्यन्तम् । क्रियाशक्तिस्तु प्रसरन्ती विचार्यते । इच्छाज्ञाने एव परस्परस्वरूपसांकर्यवैचित्र्यचमत्कारमयपूर्वापरीभूतस्वरूपपरिग्रहे संरम्भसारा क्रिया । तत्र यद्यदन्यव्यामिश्रितसांकर्यमन्यसंबन्धादेति तत्तदनामर्शनीयशून्यप्रायस्वरूपाक्रमणपुरःसरीकारेण तथा भवति प्लवानामिव भेकादिः । तत्रानुत्तरानन्दात्मकं वपुर्न व्यपसरति, अव्यपदेश्यरूपत्वात्सर्वज्ञानेषु सर्वाधारवृत्तित्वेन पर्यवसतिपर्यन्तभित्तिरूपत्वात्, अपि तु क्रमसहिष्णुत्वात्संरम्भ इच्छैवेशनान्ता स्वात्मन्यनुत्तरानन्दपदे च प्रसरणक्षमा । ततः सैव शून्यात्मकं स्वं वपुरवगाहमाना
भास्वरं रूपं तेजोमयमिव प्रथमं गाहते ’’ृ ः"इति । अत्र हि ’’ि ई"इत्यनुगमो भास्वररूपरेफश्रुत्यनुगमश्च कथमपह्नूयताम् । यथाह भगवान् पुष्पदन्तः

उद्धरण- रश्रुतिसामान्याद्वा सिद्धम्

इति । शून्ये हि निश्चले रूपे अनुप्रविविक्षायां भास्वररूपसंवित्तिसोपानाक्रमणं स्थितमेव ।

[प्.२४६]

ततो निश्चलरूपानुप्रवेशात्पार्थिवरूपसतत्त्वनिश्चलतात्मकलकारश्रुत्यनुगमे ळ ळ३ इति । तथा च पर्यन्ते ईशनरूपतैव समग्रभावात्मस्वरूपोल्लङ्घनेन दीर्घतरं प्लुत्वा निश्चलां शून्यां सत्तामेतीति प्लुतत्वमेति ’’ॢवर्णस्य दीर्घा न सन्ति"इति न्यायात् । अवर्णादीनां तु दीर्घस्यैव दीर्घतरता प्लुतत्वम् । तच्च प्राङ्नीत्या दीर्घत्वमेव पृथगपर्येषणीयमित्यास्तां तावत् । एतच्चतुष्कं शून्यरूपतानुप्रवेशाद्दग्धबीजमिव षण्ठरूपं भण्यते न तु सर्वथा बीजरूपत्वाभावात्, बीजयोन्यात्मकशिवशक्त्युभयातिरेकिनः कस्य चिदप्यभावात्, श्रीपूर्वादिशास्त्रेषु चानभिधानात् । लौकिकसुखादिषु चैवंविधैव विश्रान्तिरानन्दरूपेति तदेवामृतबीजचतुष्कम्
इत्युक्तम् । तदेवमिच्छेशनं चानन्दवपुषि अनुत्तरपरधामनि च प्राग्भाविनि स्वरूपादप्रच्याविन्यनुप्रविश्य ’’ आ इ ई इति एऽऽ, न तु विपर्यये, यथोक्तम् ’’वर्ण इवर्णे ए"इति । अनुप्रवेशे चानुत्तरपदानुप्रवेशे स्यादपि कश्चिद्विशेषः । आनन्दपदानुप्रवेशे हि स्फुटता । अनुत्तरधामसंभेदे तु सूक्ष्मता तदपेक्षया । तथाहि भगवान् भुजगविभुरादिशत्

उद्धरण- छन्दोगानां सात्यमुग्रिराणायनीया अर्धमेकारमर्धमोकारं चाधीयते ।

इति । लोकेऽपि प्राकृतदेशभाषादौ स्फुट एव प्रचुरो निवेशः । पारमेश्वरेष्वपि एकारौकारयोरेकारौकारापेक्षया यद्ध्रस्वत्वमङ्गवक्त्रादिविनियोगे दृश्यते तदेवमेव मन्तव्यमर्धैकारार्धौकारभिप्रायेण । एवम् ’’े"इति बीजं स्थितम् । एतदपि तथाशबलीभूतं संविद्वपुस्तथैव तदेव रूपमनुवसत्’’ आ ए"इति ऐ । एवमुन्मेषेऽपि वाच्यम् ’’ आ उ ऊ इति ओ"। ’’ आ ओ इति औ"। केवलमुन्मेषो ज्ञानशक्त्यात्मा प्रसरन् यद्यपि शून्यतावगाहनं कुर्यात्तथापि अस्येशनेच्छात्मकोभयरूपप्रवेश एव शून्यता, इच्छेशनयोस्तु स्वपरिवृत्तिरूपं नास्तीत्युक्तनयेनैव स्थितिः । एवमिच्छाज्ञाने अनुत्तरस्वरूपानुप्रवेशेन प्राप्तोपचये पश्चात्परित्यज्य तथाविधोपाधिपरिस्पन्दसत्ताम्
अभेदसत्तारोहणचिन्मयपुरुषतत्त्वसतत्त्ववेदनारूपबिन्दुमात्रावशेषेण वपुषा तथानुत्तरपद लीने ’’ं"इति ।

[प्.२४७]

तथाहि औकारे एव क्रियाशक्तिपरिस्पन्दः परिसमाप्यते इतीच्छाज्ञानयोरत्रैवान्तर्भावात्त्रिशूलरूपत्वमस्य षडर्धशास्त्रे निरूपितम्

उद्धरण- ...त्रिसूलेन चतुर्थकम् ।

इत्याद्युद्देशेषु । बिन्दुः पुनर्वेदनामात्रशेषतैव सर्वस्य । वेदनामात्रावशेषमपि विश्वं यदा स्वात्मन्येकगमनाय विसृजति स्वात्मनश्च सकाशात्तन्निर्माणेन विसृजति स एव परमेश्वरः, प्रथमं शक्तिमद्रूपप्रधानतया, इदानीं तु शाक्तविसर्गप्रधानतया ’’ः"इति । औकारपर्यन्ते हि निर्भरीभूते क्रियाशक्तिप्रसरे एतावदनुप्रविष्टम् । अनुत्तरपदस्य भैरवभट्टारकस्य स्वरूपसतत्त्वस्येच्छाज्ञानक्रियात्मकशक्तिपरिस्पन्दादिमध्यान्तभागा उल्लिलसिषोल्लसत्तोल्लसिततास्वभावाः सूक्ष्मतमप्रसंख्यानगृहीततावद्भूमिकाधिरूढयोगिजनस्फुटलक्सणीयाः श्रीस्वच्छन्दादिप्रक्रियाशास्त्रेषु प्रबुद्धप्रसरणावरणादिरूपत्वेनोक्ताः । अत
एव शिवदृष्टिशास्त्रे सप्तमाह्निके

उद्धरण- सुनिर्भरतराह्लादभरिताकाररूपिणि ।
उद्धरण- निलीनशक्तित्रितये परात्मन्यनुभावनात् ॥

इत्यादि

उद्धरण- तस्यापि शक्तिर्मृत्पिण्डघटवद्विश्वरूपताम् ।

गता ... ॥


इत्यन्तं निरूप्य

उद्धरण- एकमेव हि तत्तत्त्वं न संख्यातोऽतिरिक्तता ।

इति यच्छिवतत्त्वमेव अनन्तविचित्रस्वातन्त्र्यस्फारस्फुरणशक्तिचमत्कारभरिततोपात्तभैरवभावं निर्णीतं तत्रायमेवोक्तक्रमः । संप्रदायप्रथमाह्निकेऽपि

उद्धरण- स यदास्ते चिदाह्लादमात्रानुभवतल्लयः ।
उद्धरण- तदिच्छा तावती तावज्ज्ञानं तावत्क्रिया हि सा ॥
उद्धरण- सुसूक्ष्मशक्तित्रितयसामरस्येन वर्तते ।
उद्धरण- चिद्रूपाह्लादपरमो निर्विभागः परः सदा ॥

[प्.२४८]

इति । तथा

उद्धरण- ...घटं जानाति यावसा ।
उद्धरण- जानाति ज्ञानमत्रैव निरिच्छोर्वेदनक्षतिः ॥
उद्धरण- औन्मुख्याभावतस्तस्य निवृत्तिर्निर्वृतिं विना ।
उद्धरण- द्वेष्ये प्रवर्तते नैव न च वेत्ति विना चितिम् ॥

इति । तथा

उद्धरण- यत इच्छति तज्ज्ञातुं कर्तुं वा सेच्छया क्रिया ।
उद्धरण- तस्याः पूर्वापरौ भागौ कल्पनीयौ पुरा हि या ॥
उद्धरण- तत्कर्मनिर्वृतिप्राप्तिरौन्मुख्यं तद्विकासिता ।
उद्धरण- न चौन्मुख्यप्रसङ्गेन शिवः स्थूलत्वभाक्क्वचित् ॥

इत्यादि । एतदागमसर्वस्वप्राणतयैव युक्तियुक्ततया हृदयंगमीकृतम् । स एष परमेश्वरो विसृजति विश्वम्, तच्च धरादिशक्त्यन्तं कादिक्षान्तरूपमित्येतवती विसर्गशक्तिः ’’षोडशी कला"इति गीयते

उद्धरण- पुरुषे षोडशकले तामाहुरमृतां कलाम् ।

इति एषा हि न संख्येया नापि वैदन्तिकी दृगपि तु शैव्येव । विसर्गशक्तिरेव च परमेश्वरी परमानन्दभूमिबीजम् । एवं ह्यकारादिरूपं घनतापत्त्या योनिरूपतां गृहीत्वा स्वरूपाप्रच्युतं तदेव स्वस्वरूप एव योनिरूपे संक्रामद्विसर्गपदमित्युच्यते । यथोक्तम्

उद्धरण- स विसर्गो महादेवि यत्र विश्रान्तिमृच्छति ।
उद्धरण- गुरुवक्त्रं तदेवोक्तं शक्तिचक्रं तदुच्यते ॥

इत्यादि । अकारस्यैव घनता कवर्गः, कण्ठ्यत्वात् । इकारस्य चवर्गः, तालव्यत्वात् । उकारस्य पवर्गः, औष्ठ्यत्वात् । ऋकारस्य तवर्गः, मर्धन्यत्वात्, ळकारस्य तवर्गः, दन्त्यत्वात् । यशौ चवर्गस्यान्तः, रषौ टवर्गस्य, लसौ तवर्गस्य, वकारोऽपि तपवर्गयोः । घनता बोधस्यामूर्तस्यापि चिन्मात्रस्यापि क्रियाशक्तिरूपतैव । सा चोक्तनीत्या शक्तिषट्कक्रमेणैवोपजायते । तेन पञ्च प्रसृताः षड्गुणितास्त्रिंशत्, षड्भिः सह षट्त्रिंशद्भवन्तीति ।

[प्.२४९]

तदेवं शिवबीजमेव स्वातन्त्र्याद्घनीभूततया क्वचिद्वपुषि शाक्तरूपे कुसुमतया तिष्ठद्योनिरित्यभिधीयते । तदेव हि पुष्पं पुर्वोक्तनयेन ग्राह्यग्राहणग्राहककोणत्रयमयं वस्तुतः प्रसूतिपदं बीजसंमिश्रतयैव भवति, तदैव पुष्परूपत्वात्, अन्यदा तु योग्यतयैव तथाव्यपदेशः । तथा च तत्कुसुममेव त्रिकोणतया योनिरूपम् । तत्स्फुटीभूतविभक्तग्राह्यादिरूपसोमसूर्याग्निसृष्टिस्थितिसंहृतीडापिङ्गलासुषुम्नाधर्माधर्मशबलादिकोणत्रितया पारमेश्वरी भैरवी भट्टारिका मुद्रा तद्रूपयोन्याधारतया योनिरिति निर्दिष्टा । तथा च श्रीकुब्जिकामते खण्डचक्रविचारे अमुमेवार्थं प्रधानतयाधिकृत्यादिष्टम्

उद्धरण- मायोपरि महामाया त्रिकोणानन्दरूपिणी । नोतिनेद्. ओf कुम? fओर्महामाया ।च्f ।रौसुसम् ४२८ द्मायोपरि महामाया सर्वकारणकारणम्; = ।गम{निश्वासगुह्य} ७.२५३ ब्

इत्यादि । अत एव तथाविधबीजकुसुमैकघनभावशिवशक्तिसंघट्टः स्वयं स्वात्मनैव पूज्य इत्युपदिष्टं श्रीत्रिकतन्त्रसारे

उद्धरण- शिवशक्तिसमापत्त्या शिवशक्तिघनात्मकः ।
उद्धरण- शिवशक्तिसमापत्ति त्रिकं संपूजयेत्परम् ॥ [त्रिकतन्त्रसार]

इति । एवं च घनीभावोऽपि वैखरीरूपे यद्यपि स्फुटीभवति तथापि सर्वसर्वात्मनि परावाग्वपुषि मुख्यतयावतिष्ठते । तत्र परं कण्ठोष्ठस्थानकरणान्यपि सर्वसर्वात्मकमेवेति विशेषः । तथा ह्यन्तरपि संजल्पेत्पश्येदिति स्फुट एवानुभवो भेदश्च स्थानादिकृत एव, श्रुत्येकप्राणत्वात्वर्णानाम् । किं बहुना । बालोऽपि व्युत्पाद्यमानोऽन्तस्तथारूपतया विमृशति भावजातं, विपर्ययेण संशयेनापि वा विमृशति । अवच्छेदं तावत्संवेदयत एव । स च वाग्विमर्शकृत एव । अत एव संवारविवाराल्पप्राणमहाप्राणताश्वासनादानुप्रदानादियोगोऽपि चान्तस्तथासमुचितस्वभावः स्यादेव, अन्यथा सस्थानेषु भेदायोगात् । अन्तर्हितकरणशक्तयोऽपि
स्युरेव, शृणोम्यश्रौषं पश्याम्यद्राक्षं संकल्पयामि समकल्पयमित्यादेरपि संकल्पस्यान्यथावैचित्र्यायोगात् । तदनया युक्त्या निभालितयान्तरधिकमधिकमनुप्रविश्य परिशीलयत तां सम्विदं यत्र सर्वसर्वात्मकबोधैकघनकण्ठौष्ठादिधाम्नि तथाविधबोधैकघनविमर्शात्मकस्वातन्त्र्यसारमहामन्त्ररूपवर्णभट्टारकनिवेशः ।

[प्.२५०]

बोधैकघनतानिर्विशेषतायामिदं स्थानम्, इदं करणम्, अयं वर्ण इति कथंकारं विभाग इति चेद्यदेवं स्वातन्त्र्यं तथाविधे स्वात्मनि घटोऽयम्, सुखमिदम्, ज्ञानमिदम्, ज्ञाताहमित्यवभासयति तस्यैवंविधचित्रतररूपावभासेन को वा कियान् वा प्रयासः । अत एव सर्वे पाषाणतरुतिर्यङ्मनुष्यदेवरुद्रकेवलिमन्त्रतदीशतन्महेशादिका एकैव परभट्टारिकाभूमिः सर्वसर्वात्मैव परमेश्वररूपेणास्ते इति तद्विचित्रस्थानादिसार्वात्म्यनिर्विष्टस्फुटास्फुटव्यक्ताव्यक्तादिरूपशब्दशरीरा मन्त्र वीर्यमिति गीयत् तथा हि वीणाविपञ्चीकच्छपिकामुरुजादिषु स एव स्वनोऽन्यतोऽन्यतो देशादप्युद्भवन्नेकस्थान इति कथ्यते । एवं तारमध्यमन्द्रेष्व्
अपि तत्स्थायिस्वरैकात्म्येऽपि वाच्यम् । अत एव च स एव वर्णः क्व चित्प्राणिनि स्थानान्तरसमुल्लास्यपि भवति यथा ध्वांक्षेषु ककारटकाररेफा उच्चरन्तः सर्व एवोदरपायुकण्ठतालुनिर्वर्त्या उपलभ्यन्ते । अव्यक्तत्वेऽपि त एव तावन्तः शब्दत्वात्शब्दस्य च मातृकातिरेकिनोऽभावात् । मातृकातिरेक्यपि अव्यक्तः शब्दोऽनुपयोगान्न संगृहीत इत्यप्ययुक्तम् । अव्यक्तवर्णरूपस्यापि मौरुजसामुद्रादिध्वनितस्य ह्लादपरितापकारित्वमपि अस्त्येवेति कोऽन्योऽभिमत उपयोगः । पारमेश्वरेऽपि अव्यक्तध्वनेर्मुख्यतयैव प्रायशो मन्त्रत्वं निरूपितमर्धचन्द्रादीनामेव मन्त्रव्याप्तिसारत्वेनाभिधानात् । तत्र च

उद्धरण- निरोधिनीमनुप्राप्तः शब्दः शुमशुमायते ।

इत्याद्युक्तम् । घण्टाकांस्यादिध्वनीनां श्रोत्रघट्टनादीनां च नादोपदेशे निरूपणात्

उद्धरण- हयो हेषति यद्वच्च दान्त उद्रवतीव च ।
उद्धरण- सिंहो गर्जति यद्वच्च उष्ट्रः सीत्कुरुते यथा ॥
उद्धरण- तथोदीर्य पशोः प्राणानाकर्षन्ति बलाधिकाः ।
उद्धरण- महामन्त्रप्रयोगोऽयमसाध्याकृष्टिकर्मणि ॥

इत्युक्तं गुह्ययोगिनीतन्त्रे । तत्रोपायमात्रमेतत् । वस्तुतस्त्वान्तर एवासौ नादात्मा मन्त्र इति तु कथ्यमानं भवद्भिरपि अस्माभिरपि व्यक्तवर्णमालादिमन्त्रेष्वपि न न संचारयितुं शक्यते ।

[प्.२५१]

तस्मादव्यक्तो वर्णात्मैव शब्दो यथा विदूरगतोऽपि घटो घट एव इति स्थितम् । स च प्राणभेर्यादिभेदेन स्थानान्तरमपि अनुसरन् स एवेत्यपि स्थितम् । अत एवेदनीं सर्वभूतरुतज्ञानं यच्छेषमुनिना भगवतोपदिष्टं तद्धृदयंगमीभूतं, अन्यथा शब्दार्थप्रत्ययानां य इतरेतराध्यासो यश्च ध्यानधारणासमाधिसंयमेन तत्प्रविभागपर्यन्तपरलाभः स कथमस्फुटवर्णरूपत्वातिरेकिविहगादिकूजितज्ञानाय पर्यवस्येत् । यदा तु त एव वर्णा वर्णानामेव च परमार्थतोऽर्थतादात्म्यलक्षणं वाचकत्वं तदा युक्त्यात एव विहगादिरुतज्ञानम् । भेर्यादिशब्दा अपि ह्यर्थवन्त एव जयाजयसूचकतयोपदेशाद्विहगादिरुतवत् । तदभिप्रायेणैव शिक्षासूत्रकारसूत्राणि हविसर्जनीयावुरस्याव्
एकेषां रदनमूलमेकेषामित्यादीनि वाचकीभवन्ति न त्वपरथा कथंचिदपि । अत एव किंचिद्वैचित्र्यमालम्ब्यान्यत्वमन्यत्वं चाशङ्कमानैः विसर्जनीयाज्जिह्वामूलीयोपध्मानीयौ, अनुनासिकेभ्यः पञ्चयमान्, डकारढकारयरलवक्षकारेभ्यः तानेव लघुप्रयत्नतरान् भेदेनाभिमन्य चतुःषष्टिर्वर्णा उक्ताः । अन्यत्वं चात्र स्वरव्यञ्जनयोरिव ऋवमरशब्दयोः । श्रीत्रिकरत्नकुलेऽपि उक्तम्

उद्धरण- अष्टाष्टकविभेदेन मातृका या निरूपिता ।
उद्धरण- तदेव कुलचक्रं तु तेन व्याप्तमिदं जगत् ॥ [त्रिकरत्नकुल]

इति । मातृकाज्ञानभेदे विस्तरतो निरूपितमेतत् । इह तु तत्प्रक्रियानभिनिवेशः, पूर्णतैकसारत्वात् । तदेवं सर्वत्रायमीदृशः संविदनुप्रवेशक्रमः । पदार्थः संकल्प्यमानः साक्षात्क्रियमाणो वामायीयासांकेतिकस्वरूपभूतशुद्धविमर्शात्मपरवाङ्मन्त्रमहामहसि तावत्प्रतिष्ठां भजते यत्र सर्ववादिभिरविकल्पा दशा गीयते । तच्च परममन्त्रमहः पृथिव्यादौ शुद्धव्यामिश्रादिपारमार्थिकबीजपिण्डरूपकादिवर्णात्मकमेव, अन्यथा मेरुबदरजलज्वलनभावाभावघटसुखनिर्विकल्पज्ञानानीत्येकमेव सर्वं स्यात् । विकल्पोऽपि तत्प्रसादोत्थः तामेव सरणिमनुसरेत्,

[प्.२५२]

न तु प्रत्युत तत्स्वरूपं भिन्द्यात् । तथा च यदेव तदसांकेतिकं मन्त्रवपुस्तदेव अन्योन्यविचित्ररूपं पश्यद्भिः सर्वज्ञैः संकेतोपायमुपास्यतया उपदिश्यते । तत्रैव चासांकेतिके वाङ्महसि तथा खलु मायीयाः संकेताः पतन्ति यथा त एवामायीयासंकेतितमन्त्रतादात्रोयं प्रतिपद्यन्ते । तथास्वरूपप्रतिपत्तिरेव हि तेषां वाचकताभावो नान्यः कश्चित् । अत्र च स्फुटमभिज्ञानमभ्यासवसात् । सांकेतिकतामापन्नो चिरतरपूर्ववृत्तगोशब्दपरामर्शस्तथैव संकेतकाले गोपरामर्शोऽप्यन्योऽमायीयासांकेतिकपरामर्शधामन्येव निपतति । यावत्बालस्यापिजन्मान्तरानुसरणेऽपि चित्स्वभावस्यादौ स्थितैवासंकेतिकी
सत्ता, अन्यथानवस्थानात् । एवमेव खलु संकेतग्रहणोपपत्तिर्नान्यथेतीश्वरप्रत्यभिज्ञाटीकायामपि श्रीमदुत्पलदेवपादैर्निर्णीतम् । अत्र चानुप्रवेशयुक्तिः

उद्धरण- पश्यत्यन्यच्छृणोत्यन्यत्करोत्यन्यच्च जल्पति ।
उद्धरण- चिन्तयत्यन्यदाभुङ्क्ते तत्रासांकेतिकी स्थितिः ॥

इति । भट्टारकश्रीश्रीकण्ठपादाः

उद्धरण- मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम्

इत्याद्यप्यवोचन् । तदप्यसांकेतिकमन्त्रवपुः स्वबीजमनुधावदनुत्तरपदपर्यवसायि भवति । तदप्यनुत्तरपदं सतततथाविधानन्तसमुदायवैचित्र्यसंरम्भसारं विसर्गदृष्ट्या प्रसरदेव, विसर्गस्यैव हकलापर्यन्ततया प्रसरात्तस्या अपि हकाराख्यशक्तिकुण्डलिन्याः स्वरूपभेदात्मकबिन्दुस्वरूपद्वारेणानुत्तरपद एव संक्रमात्, स्वरूप एव विश्राम्यति । एकाक्षरसंवित्किल स्वरूपत एव देशकालकलनोपाधानादिनैरपेक्ष्येणैव प्रागुक्ततत्त्वपूर्णतानयेन झगिति विसर्गभूमौ धावति । विसर्गभूमिश्लेष एवानन्देच्छेशनोन्मेषतत्प्रसृतितद्वैचित्र्यक्रियाशक्तिमयानामाकारादीनां स्थितिः ।

[प्.२५३]

स एव विसर्गः स्वसत्तानान्तरीयकतयैव तथैवातिभरितया सत्तया प्रसरन् द्रागित्येव हकलामयः संपद्यते । हकलामयतासंपत्तिरेव वस्तुतः कादिसत्तानन्ततत्त्वजालस्थितिः । हकलैव च पुनरपि बिन्दावनुप्रविशन्त्यनुत्तरपद एव पर्यवस्यतीत्येकैवाद्वयपरिपूर्णरूपा संवेदनसत्ताभट्टारिकेयं परा भगवती परमेश्वरी, न त्वत्र क्रमादियोगः कश्चित् । तदेतदुच्यते ’’हम्"इति विपर्यये तु संहृतौ ’’मह"इति । द्वैधमपि चेयमेकैव वस्तुतः संवित् । एवमेष स सर्वत्र घटसुखादिप्रकाशेऽपि स्वात्मविश्रान्तिसर्वस्वभूतोऽहम्भावः । यथोक्तम्

उद्धरण- प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः ।

इति । स च वस्तुतः सर्वात्मकः समनन्तरनिर्णीतनीत्या इति पराभट्टारिकानुविद्धो भैरवात्मक एव । यथोक्तं मयैव स्तोत्रे

उद्धरण- विश्वत्र भावपटले परिजृम्भमाण
उद्धरण- विच्छेदशून्यपरमार्थचमत्कृतिर्या ।
उद्धरण- तां पूर्णवृत्त्यहमिति प्रथनस्वभावां
उद्धरण- स्वात्मस्थितिं स्वरसतः प्रणमामि देवीम् ॥

इति । एष एव श्रीवामनविरचिते द्वयसंपत्तिवार्तिके उपदेशनयो बोद्धव्यः । तेन स्थितमेतदकार एव सर्वाद्यः । यत्रापि हर्षघटनीलादौ हकाराद्या अपि वर्णास्तत्रापि तथाविधानन्तनिजपूर्वापरवर्णसमाक्षेप एव, अन्यथा तस्यैव हादेः समुदयायोगात् । ते परमाक्षिप्यमाणत्वादेवान्तमिलीना विकल्पगोचरत्वमप्राप्ताः, अत एव सर्वत्र विज्ञाने सर्वा एव देवताः सममेव समुदायं दधत्यश्चित्रां संवित्तिवृत्तिं वर्तयन्ति । तदनेनैवाशयेन कालाधिकारादावेकस्मिन्नेव प्राणे प्राणषोडशांशेऽपि वा षष्टितद्द्विगुणाद्यब्दोदयपूर्वकं मातृरुद्रलोकपालग्रहनागादीनामुदयप्रलयाश्चित्रा निरूपिताः


[प्.२५४]

तच्चित्रानन्तोदयप्रलयमय एव द्वितीयोऽपि प्राणचारादिरित्यकालकलितमेव तत्त्वं वस्तुतः परमार्थः, यदि परमेतावन्मात्रं मायीयाध्यवसायानध्यवसेयमिति नास्तिताभिमानकारि परसंविदि तु तत्कालं भासते एव । अत एवैकस्यामेव ज्ञानकलनायां पश्यत्यन्यद्विकल्पयत्यन्यदित्याद्युपदेशेन यदुक्तं देवतात्रयाधिष्ठानं तत्सर्वत्रैवानपायि । सर्वाण्येव च संवेदनानि वस्तुतोऽहमिति परमार्थानि विमर्शमयान्येव । तदेवं स्थितमेतद्विश्वमन्तःस्थितमानन्दशक्तिभरितो वमन् ग्रसमानश्च विसर्ग एव परमेश्वरो घनीभूय हकारात्मतां प्रतिपद्यानन्तसंयोगवैचित्र्येण क्षरूपतामप्येति । स एवैष
दूत्यत्मकशाक्तयोनिसंघट्टसमुचितवर्णात्मकक्षोभः । अनाहतनाददशाश्रयणेन मध्यमसौषुम्नपदोच्छलत्तत्तदनन्तभावपटलात्मा विसर्गो विश्लिष्यन् ध्रुवधाम्नि अनुत्तरपद एव प्रविशतीति प्रागप्युक्तमेत । अमी चाकाराद्याः स्थितिमन्तः प्राणे तुटिषोडशकादिस्थित्या एकां तुटिं संधीकृत्यार्धार्धभागेन प्रलयोदययोर्बहिरपि पञ्चदशदिनात्मककालरूपतां तन्वते इति तिथयः कलाश्चोक्ताः । षोडश्येव च कला विसर्गात्मा विश्लिष्यन्ती सप्तदशी कला श्रीवाद्यादिशास्त्रेषु निरूपिता

उद्धरण- सा तु सप्तदशी देवी हकारार्धार्धरूपिणी ।

इति । विसर्गस्य हकारार्धत्वात्ततोऽपि विश्लेषस्यार्धत्वादिति निरवयवस्यैकवर्णस्य कथमेषा विकल्पना इति चेदस्मत्पक्षे सर्वमेवानवयवं चिन्मयैकावभासनानतिरेकात्, तथापि च स्वातन्त्र्यादेव अवयवावभासेऽप्यनवयवतैवानपायिनी, तथेहापि अस्तु को विरोधः । एवमेव वर्णोपपत्तिः, अपरथा दन्त्योष्ठ्यकण्ठ्यतालव्यादिवर्णेषु क्रमप्रसारी पवन आघातकः कथं कण्ठं हत्वा ताल्वाहन्तीति । युगपदापूरकत्वेऽपि समानकालता स्यात्, यत्र कण्ठघाटोत्थं रूपं तत्तु ताल्वाहतिजं सर्वत्र संभवति । श्वासनादयोश्च पश्चात्प्रतीयमानतयानुप्रदानत्वमुच्यते । द्विमात्रत्रिमात्रेषु च द्विकादियोगो गर्भीकृतैकद्वयादिरेव ।

[प्.२५५]

तथैव मात्रकेऽप्यर्धमात्रादियोगः संवेद्यः, यथोक्तं भट्टनारायणेन

उद्धरण- प्रणवोर्ध्वार्धमात्रातोऽप्यणवे महते नमः ।

इति । इह तु पञ्चाशद्वर्णा विश्वमपि वा अक्रममेकमेव । क्व चित्तु मतादिशास्त्रेषु विसर्गविश्लेषस्यैवानुत्तरपदसत्तालम्बनेनाष्टादशी कला इत्यभ्युपगमः । तदेवमेताः कला एव ह्लादनामात्रचित्तवृत्त्यनुभावकाः ’’स्वरा"इत्युक्ताः । स्वरयन्ति शब्दयन्ति सूचयन्ति चित्तं स्वं च स्वरूपात्मानं रान्त्येवमिति परप्रमातरि संक्रामयन्तः ददति स्वं चात्मीयं कादियोनिरूपं रान्ति बहिः प्रकाशयन्तो ददतीति स्वराः । एत एव हि चित्तवृत्तिसूचका नादात्मकाः करुणाशृङ्गारशान्तादिकां चित्तवृत्तिमाक्रन्दनचाटुकस्तुत्यादौ केवला वा योनिवर्णनिविष्टा वा तिर्यक्तत्तदहर्जातादिष्वपि प्रथमत एवापतन्तः
संकेतविघ्नादिनैरपेक्ष्येणैव संविदासन्नवर्तित्वात्स्वरकाक्वादिरूपतामश्नुवानाः प्रकाशयन्तीत्यर्थधर्मा उदात्तादय उपदिष्टाः, तेषामेव चित्तवृत्त्यनुभावकषड्जादिस्वरूपत्वात् ।

एवं सर्वत्र संवेदने सर्वा एवैता वैचित्र्यचर्याचारचतुराः शक्तय आदिक्षान्ताः समापतन्त्योऽहमहमिकया अक्रममेव भासमानाः कलनामयतयैव ज्ञानक्रमसंक्रमणमेव दिश्यमानं देशमुत्थापयन्त्यः,

उद्धरण- अन्यथा मेरुपरमाण्वोरविशेषात्

इति न्यायेन गर्भीकृतदेशात्मकवैचित्र्यं क्रियावैचित्र्यात्मकं क्रमरूपं कालं बहिर्योजनयोल्लासयन्त्यः स्वात्मनि युञ्जानत्वेन ग्रसमानाः प्रोल्लाससमयेऽपि रिक्तरूपतया उद्योगावभाससंक्रामविलापनरूपेण द्वादशात्मिकां कृशरूपतामाश्रयन्त्यस्तद्गृहीतप्रमदादिगतोद्योगादिकलाचतुष्टयपरिपूर्णतयाप्यङ्कुरीभूय सालसं षोडशात्मकभरितपूर्णरूपतया प्रविशन्त्योऽन्तर्बहिश्च तदमृतानन्दविश्रान्तिरूपं चमत्कारसत्तासारकलाचतुष्कं विसृजन्त्य एवंविधामेव पूर्णकृशात्मकदोलालीलां निर्विशमानाः सोमसूर्यकलाजालग्रसनवमनचतुराः ।

अकारमेवादितया मध्ये च कादियोनिजातमवसाने च बिन्दुं दधती ’’हम्"इत्येषैव भगवती सृष्टिः ।

[प्.२५६]

तदुक्तं श्रीसोमानन्दपादैर्निजविवृतौ ’’म इत्येषैव विकृताविकृतरूपा मातृका"इत्यादि । ते तु ’’"इत्येतदनुत्तरमाकाराद्याश्च तिथयः, यद्वा बिन्दुरंकारः अकाराद्यास्तिथयस्तदन्तो विसर्ग इत्यपि व्याचक्षते । तदेव संवित्सतत्त्वं ’’स्पन्द"इत्युपदिशन्ति । स्पन्दनं च किंचिच्चलनम् । स्वरूपाच्च यदि वस्त्वन्तराक्रमणं तच्चलनमेव न किंचित्त्वम्, नो चेत्चलनमेव न किंचित् । तस्मात्स्वरूप एव क्रमादिपरिहारेण चमत्कारात्मिका उच्छलत्ता ऊर्मिरिति मत्स्योदरीतिप्रभृतिशब्दैरागमेषु निदर्शितः स्पन्द इत्युच्यते, किंचिच्चलनात्मकत्वात् । स च शिवशक्तिरूपः सामान्यविशेषात्मा । तद्व्याख्यातम्, आद्यास्तिथयः
बिन्द्ववसानगाः कालयोगेन सोमसूर्यौ तस्यैवाकुलस्यान्तः ।

पृथिव्यादीनि च यावद्ब्रह्मपञ्चकं तावत्तेषां स्वराणामन्तः । कथम् । क्रमात् । अथ च क्रमस्यादनं भक्षणं कालग्रासः तथा कृत्वेति क्रियाविशेषणं च । सोभने व्रते भोगे रिक्तत्वे भोगनिवृत्तौ च पूर्णत्वे सुव्रते । आमन्त्रणमप्येततेवं व्याख्येयम् ।

एवममूला अकारमूला अविद्यमानमूला चानादित्वात् । स क्रमो यस्याः प्रश्लेषेणातद्रूपः । अन्यथारूपोऽपि क्रमो यस्याः तथाप्यमूला । अमूलस्य यदातननमातत्ततस्तदेव च क्रमो यस्याः । एष चाज्ञेया ज्ञातृरूपा, एषैव च ज्ञेया, अन्यस्याभावात् । अविद्यमानं क्षान्तं तुष्णीमासनमविरतं सृष्ट्यादिरूपत्वेन अस्याम् । आक्षाणामैन्द्रियकाणामन्ते समीपे प्रागपर्यवसाना या भवेदिति । उपचारादाक्षान्ता सृष्टिरपूर्वमाहरणं स्वात्मानुप्रवेशात्मस्वरूपं संहाररूपं यस्याम् । एषैव च शिवात्मकबीजप्रसररूपाणां मननत्राणधर्मानां सर्वेषाम्
एव वाच्यवाचकादिरूपवर्णभट्टारकात्मनां मन्त्राणां शक्त्यात्मकयोनिस्पन्दानाम्, सर्वासां तद्बीजोद्भूतानां वेदनारूपाणां विद्यानामियं समा सर्वत्रानूनाधिका सर्वेषु तन्त्रेषु तन्त्रणासु च सर्वासु क्रियासु सर्वकालं च सर्वं ददती सिद्धिसङ्घम् । अख्याता अप्रकटा । अख्यातिरूपतां मायीयामुद्दिश्य भेदो वर्णानाम् । तथा हि त एव शुद्धमन्त्ररूपा वर्णाः प्रथमं पञ्चविधविपर्ययाशक्त्यादिरूपप्रत्ययात्मकभावसृष्टितामेत्य स्वरूपमावृण्वते ।

[प्.२५७]

उद्धरण- पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् ।
उद्धरण- अष्टाविंशतिभेदा तुष्टिर्नवधाष्टधा सिद्धिः ॥

इति ह्येत एव प्रत्ययाः पाशवसृष्टिरूपाः पाशा मुख्यतया, यथोक्तम्

उद्धरण- स्वरूपावरणे चास्य शक्तयः सततोत्थिताः ।
उद्धरण- यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः ॥

इति । तथा

उद्धरण- परामृतरसापायस्तस्य यः प्रत्ययोद्भवः ।

इत्यादि । एवं प्रत्ययसृष्टित्वान्तरालीकरणेन स्फुटश्रूयमाणश्रुत्यात्मकक्रमाभासमानमायीयवर्णसृष्टिराद्यपारमार्थिकशुद्धरूपालिङ्गिता तत्तत्कार्यफलप्रसवदायिनी निरूपिता श्रीपूर्वशास्त्रे ।

उद्धरण- सर्वशास्त्रार्थगर्भिण्यै ...।

इत्येवंविधया

उद्धरण- अनया संप्रबुद्धः सन् योनिं विक्षोभ्य शक्तितः ।
उद्धरण- तत्समानश्रुतीन् वमांस्तत्संख्यानसृजत्प्रभुः ॥

इत्यादि,

उद्धरण- ते तैरालिङ्गिताः सन्तः सर्वकामफलप्रदाः ।

इत्यादि । एवमाख्याता अप्रकटापि मायान्धानां सर्वदैव ख्याता । प्रकाशा शुद्धवेदनात्मिका । यशः सर्वत्र स्वस्वभावात्मकप्रभावप्रख्याप्रसरानिरोधो यस्या इत्यामन्त्रणं शोभनव्रते इतिवत् । तदयमत्र संक्षेपार्थः ।

स्वातन्त्र्यैकरसावेशचमत्कारैकलक्षणा ।
परा भगवती नित्यं भासते भैरवी स्वयम् ॥१॥
तस्याः स्वभासायोगो यः सोऽनिरुद्धः सदोदितः ।
सदाशिवधरातिर्यङ्नीलपीतसुखादिभिः ॥२॥

[प्.२५८]

भासमानैः स्वस्वभावैः स्वयंप्रथनशालिभिः ।
प्रथते संविदाकारः स्वसंवेदनसारकः ॥ ३ ॥
स्वस्वसंवेदनं नाम प्रमाणमिति वर्ण्यते ।
बालतिर्यक्सर्वविदां यत्साम्येनैव भासते ॥४॥
इन्द्रियाणि त्रिरूपं च लिङ्गं परवचःक्रमः ।
सारूप्यमन्यथायोगः प्रतीत्यनुदयो यमः ॥ ५ ॥
इत्यादिको यस्य सर्वं द्वारमात्रे निरूप्यते ।
तत्स्वसंवेदनं प्रोक्तमविच्छेदप्रथामयम् ॥ ६ ॥
येषां नाक्षत्रिरूपादिनाममात्रेऽप्यभिज्ञता ।
तेषामपि तिरश्चां हि समा संवित्प्रकाशते ॥ ७॥
एवं भासा स्वभावेन स्वरूपामर्शनात्मिका ।
स्वरूपामर्शनं यच्च तदेव परवाग्वपुः ॥ ८ ॥
तद्विचित्रस्वभावत्वाद्विचित्रप्रथनामयम् ।
प्रथने पारतन्त्र्यं हि न जातु भजते क्व चित् ॥ ९ ॥
अपारतन्त्र्यात्संकेतप्रत्यूहादेः कथं स्थितिः ।
अतः संकेतरहितं स्वस्वरूपविमर्शनम् ॥१० ॥
देशकालकलामायास्थानघातक्रियोत्तरम् ।
परिपूर्णं स्वतः सर्वं सर्वाकारविलक्षणम् ॥११ ॥
स्वाभाविकमहासंवित्सत्संस्कारैकलक्षणम् ।
शुद्धविद्यात्मकं रूपमहमित्युभयात्मकम् ॥१२॥
तदेव मातृकारूपं धरादीनां निजं वपुः ।
तत्पारमार्थिकाकरं द्रुत्याश्यानस्वरूपतः ॥१३॥
बीजयोन्यात्मकं प्रोक्तं शिवशक्तिस्वरूपकम् ।
शिवशक्त्योस्तु संघट्टादन्योन्योच्छलितत्वतः ॥१४॥
परस्परसमापत्तिर्जगदानन्ददायिनी ।
अन्तःस्थविश्वपर्यन्तपारमार्थिकसद्वपुः ॥१५॥
यद्वीर्यमिति निर्णीतं तद्विस्लेषणयोजनात् ।
विसर्ग इति तत्प्रोक्तं ध्रुवधाम तदुच्यते ॥१६ ॥
अनुत्तरपदावाप्तौ स एष सुघटो विधिः।
अस्मादेव त्वमायीयाद्वर्णपुञ्जान्निरूपिता ॥१७ ॥

[प्.२५९]

मायामालम्ब्य भिन्नैव श्रीपूर्वे सृष्टिराक्षरी ।
पञ्चाशद्भेदसंभिन्नप्रत्ययप्रसवात्मिका ॥१८॥
बन्धरूपा स्वभावेन स्वरूपावरणात्मिका ।
अत्रैवान्तर्गतास्तास्ताः खेचर्यो विषयात्मिकाः ॥१९॥
तन्वते संसृतिं चित्रां कर्ममायाणुतामयीम् ।
अस्याः साम्यां स्वभावेन शुद्धभैरवतामयम् ॥ २० ॥
प्रोक्तं प्रागेव जीवत्वे मुक्तत्वं पारामार्थिकम् ।
भिन्नाया वर्णसृष्टेश्च तदभिन्नं वपुः परम् ॥ २१ ॥
वीर्यमित्युक्तमत्रैव यद्गुप्त्या मन्त्रगुप्तता ।
तदेतदहमित्येव विसर्गानुत्तरात्मकम् ॥ २२॥
स्वस्वभावं परं जानञ्जीवन्मुक्तः सकृद्बुधः ।
सिद्ध्यादिप्रेप्सवस्तेन कॢप्तसंकोचसूत्रितम् ॥ २३ ॥
नाभिकुण्डलहृद्व्योम्नोर्योगिनोऽहमुपासते ।
तदेतत्किल निर्णीतं यथागुर्वागमं मनाक् ॥ २४॥
एनां संविदमालम्ब्य यत्स्यात्तत्पृच्छ्यतां स्ववित् ।
नैतावतैव तुलितं मार्गांशस्तु प्रदर्शितः ॥ २५ ॥
इयतीति व्यवच्छिन्द्याद्भैरवीं संविदं हि कः ।
एतावाञ्छक्तिपातोऽयमस्मासु प्रविजृम्भितः ॥ २६ ॥
येनाधिकारितैरेतदस्माभिः प्रकटीकृतम् ।
अस्माकमन्यमात्ःणामद्य कालान्तरेऽपि वा ॥ २७ ॥
भवत्यभूत्वा भविता तर्कः सूक्ष्मतमोऽप्यतः ।
यः सर्वयोगावयवप्रकाशेषु गभस्तिमान् ॥ २८ ॥
श्रीपूर्वशास्त्रे निर्णीतो येन मुक्तश्च मोचकः ।
एतत्तु सर्वथा ग्राह्यं विमृश्यं च परेप्सुभिः ॥ २९ ॥
क्षणं मर्त्यत्वसुलभां हित्वासूयां विचक्षणैः ।
आलोचनक्षणादूर्ध्वं यद्भवेदात्मनि स्थितिः ।
चिदर्काभ्रलवास्तेन संशाम्यन्ते स्वतो रसात् ॥ ३०॥

[. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . .]

एवमुत्तरस्याप्यनुत्तरमिति यदुक्तं योऽसाव्’’ुत्तरस्य"इत्यंशेनोपात्तः कुलात्मा शाक्तः सृष्टिप्रसरः स विस्तरतो निर्णीतः ।

[प्.२६०]

तच्चोत्तरमपि यथानुत्तरं तथा निरूपितम् । इदानीं त्वनुत्तरमेव स्वरूपेण विस्तरतो विचारपदवीमपेक्षते ।ेवं विध्यनुवादौ निर्वहतः, यद्यनूद्यमानो विधीयमानश्चांशः स्वरूपतो लक्षितौ स्याताम्, यथा यदेव शिवनामस्मरणमेतदेव समस्तसौख्योच्छलनमिति द्वावप्यंशौ लक्ष्यौ । इह तु यद्यप्यनुत्तरं नाम अन्यद्वस्तु किंचिन्नास्ति, अन्यत्वे तस्याप्युत्तरत्वे एवाभिपातात्, तथापि स्वातन्त्र्यकॢप्तोपदेश्योपदेशकभावाभिप्रायेणेयं व्यवस्था इत्युक्तं प्राक् । ततश्च विस्तरतोऽनुत्तरस्वरूपनिरूपणाय ग्रन्थान्तरावतारः । तन्निरूपयति ।

_____________________________________________________________

पर्त्रि ९ द्१८ ब्

चतुर्दशयुतं भद्रे तिथीशान्तसमन्वितम् ॥ ९ ॥
तृतीयं ब्रह्म सुश्रोणि हृदयं भैरवात्मनः ।
एतन्नायोगिनीजातो नारुद्रो लभते स्फुटम् ॥ १० ॥
हृदयं देवदेवस्य सद्यो योगविमोक्षदम् ।
अस्योच्चारे कृते सम्यङ्मन्त्रमुद्रागणो महान् ॥ ११ ॥
सद्यस्तन्मुखतामेति स्वदेहावेशलक्षणम् ।
मुहूर्तं स्मरते यस्तु चुम्बकेनाभिमुद्रितः ॥ १२ ॥
स बध्नाति तदा देहं मन्त्रमुद्रागणं नरः ।
अतीतानागतानर्थान् पृष्टोऽसौ कथयत्यपि ॥ १३ ॥
प्रहराद्यदभिप्रेतं देवतारूपमुच्चरन् ।
सक्षात्पश्यत्यसंदिग्धमाकृष्टं रुद्रशक्तिभिः ॥ १४ ॥
प्रहरद्वयमात्रेण व्योमस्थो जायते स्मरन् ।
त्रयेण मातरः सर्वा योगेश्वर्यो महाबलाः ॥ १५ ॥
वीरा वीरेश्वराः सिद्धा बलवाञ्छाकिनीगणः ।
आगत्य समयं दत्त्वा भैरवेण प्रचोदिताः ॥ १६ ॥
यच्छन्ति परमां सिद्धिं फलं यद्वा समीहितम् ।
अनेन सिद्धाः सेत्स्यन्ति साधयन्ति च मन्त्रिणः ॥ १७ ॥
यत्किंचिद्भैरवे तन्त्रे सर्वमस्मात्प्रसिद्ध्यति ।

_____________________________________________________________


[प्.२६१]

भैरवरूपस्य विश्वस्य प्रदर्शितयुक्त्यागमनिरूपितपरापराभट्टारिकास्वभावः शाक्तः । तस्य हृदयं सारं शिवरूपं परमेश्वर्या श्रीमत्पराभट्टारिकया समालिङ्गितम् । भैरवशब्देन विश्वस्य सर्वसर्वात्मकतावपुः शक्तिरूपम् । तत्सहितस्यात्मनः प्रत्येकस्य भेदस्य नररूपस्य एतावच्छिवात्मकं हृदयम् । परेणाभेदेन सर्वात्मकताया एव तेन तया च विनास्य भेदस्यैवायोगदित्युक्तं प्राक् । ’’सुस्रोणि"इत्यामन्त्रणम् । शोभनं मायात्मकतायामप्यनपेतं शुद्धचिन्मयं यदेतत्श्रोण्यां हृदयं योनिरूपमुक्तं तन्नोऽन्तःकृतसकलमन्त्रमहेशादितिर्यक्स्थावरान्तप्रमातृजालस्यामात्मनोऽस्माकमिति समुचितापतितव्यपदेशस्य भैरवात्म पूर्णतामयम्
अन्तर्गतविश्ववीर्यसमुच्छलत्तात्मकविसर्गविश्लेषानन्दशक्त्यैकघनं ब्रह्म बृहद्व्यापकं बृंहकं बृंहितं च, न तु वेदान्तपाठकाङ्गीकृतकेवलशून्यवादाविदूरवर्ति ब्रह्मदर्शने इव । एतच्च तृतीयं नराद्यपेक्षया शिवपरैकरूपम् । अत एवामीषु शास्त्रेष्वत्र च मुख्यतया तदेव हृदयं पूज्यतयोपदिष्टम् । अननुप्रविष्टतथावीर्यव्याप्तिसारहृदया अपि तावन्मात्रबाह्याचारपरिशीलनेनैव क्रमवशशिथिलीभवच्छिथिलितविदलद्विदलितपाशवनियमबन्धना एतद्धृदयव्याप्तिं स्वयमेव समधिशेरते । न ह्येतद्धृदयानुप्रवेश एव ’’ेतद्धृदयेऽनुप्रविष्टोऽस्मि, इयं देवी परा"इत्येतच्छाब्दविकल्पकल्प्यः, अस्य च प्रत्युत
हृदयान्तरमार्गणादित्युक्तं विस्तरतः, अपि तु

उद्धरण- संकोचयन्ति हृदयं नहि शास्त्रपाशा नो संविदं कलुषयेद्यदयं च लोकः ।
उद्धरण- सम्यक्स्वभावपदवीपरिपूर्णरूपा सैवोल्लसल्लयभरा भरिता स्थितिः स्यात् ॥

यदुक्तं मयैव स्तोत्रे

उद्धरण- भगवद्भक्त्यावेसाद्विशदतरसंजातमनसाम्
उद्धरण- क्षणेनैषावस्था स्फुटमधिवसत्येव हृदयम् ।

[प्.२६२]

इति । अत एव कोणेषु पूज्यास्तिस्रः । मध्ये देवी परानन्दभैरवनिर्मथनरूपा नित्यानन्दरसप्रसरेणैव क्षोभात्मकविसर्गेण इति देवतानां संप्रदायः । यामलयोगे वीराणामप्यानन्देन्द्रियनित्यानन्दक्षोभात्मकदूतीसंघट्टजेनेति । एकवीरतायमपि स्वरूपानन्दविश्रान्तियोगेन । पुंसोऽपि आनन्देन्द्रियनिःसरणधाम त्रिकोणं कन्दाधोविनिविष्टं चित्तनिवेशाद् आनन्दक्षोभप्रसवं करोति तदिन्द्रियमूलतत्पर्यन्तसंघट्टघनतायाम् । अत्रोक्तम्

उद्धरण- वह्नेर्विषस्य मध्ये तु... ।
इति । एवमानन्दयोग एव हृदयपूजा, यथोक्तं त्रिकतन्त्रसारे

उद्धरण- आनन्दप्रसरः पूजा तां त्रिकोणे प्रकल्पयेत् ।
उद्धरण- पुष्पधूपादिगन्धैस्तु स्वहृत्संतोषकारिणीम् ॥

इति । सर्वं हि मुद्राद्वयानुविद्धम्, ज्ञानक्रियाशक्तिसारत्वत् । केवलं देवतासु ज्ञानमुद्रा अन्तरुद्रिक्ता, क्रियामुद्रा बहिः, वीरेषु विपर्ययः । अनुप्रवेशस्तु समतया विपर्ययाच्च । अनेनैवाभिप्रायेण ज्ञानशक्त्यात्मके लिङ्गे क्रियाशक्तिसमर्पणमुक्तम् ।

एवमेतत्चतुर्दषसु युतं संश्लिष्टं पञ्चदशात्मकं तिथीशान्तेन विसर्गेण षोडशेनान्वितम् । यद्वा चतुर्दशसहितं युतं युग्मं षोडश । तिथीनां पञ्चदशानामीसो विसर्गः तस्यान्तः सप्तदश्यनुत्तरकला, तदन्वितं हृदयम् । सर्वाणि घटसुखादीनि वस्तूनि तामेव बीजसत्तां परमार्थरूपेणाक्रामन्तीत्युक्तं विस्तरतः । अतस्तदेव हृदयम् ।

एवं षोडशधा हृदयमेतत् ।

१) तत्रानुत्तरानुसारेण यदेतद्ब्रह्म सामरस्यं वेद्यवेदकयोः, चतसृणां दशानामुद्योगादीनां समाहारोऽविभागभूः प्राथमिकी, तया युतमविभागि । य एते तिथीनामीशा ऊकारान्ताः तत्प्रभवत्वादन्यस्येति ह्युक्तम् । तेसां तिथीशानामन्ता अमृतवर्णाः चत्वारः । तैः सम्यगन्वितम् । तच्च तृतीयं नराद्यपेक्षया शिवरूपं परम् । वेदकश्चतसृभिर्दशाभिरुल्लसन् वेद्यमेव ताभिराप्यायकौतुकात्मना ता एवामृतकलाः स्वात्मनि एकीकुर्वन् वेद्यवेदकक्षोभसमापत्त्या ऐकात्म्य लक्षणं प्रसंख्यानेनाभ्यासेन वा गम्यं भैरवात्मनो विश्वहृदयमनुत्तरं प्रविशेत् । यथोक्तम्

[प्.२६३]

उद्धरण- सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । इति ।

२) इच्छोल्लसत्तात्मन्यानन्दशक्तौ यदेतत्संहृत्यनुसृत्या क्रियाशक्तिमपेक्ष्य तृतीयं रूपमिच्छात्म तदेव प्राक्कोटाविष्यमाणद्यकलुषं ब्रह्म । चतुर्ये दश चत्वारिंशद्भैरवभेदापेक्षया परभैरवपरशक्तित्रयसहितानि तत्त्वानि, यथोक्तम्

उद्धरण- षट्त्रिंशच्छोदनीयनि शोधको भैरवः परः ।
उद्धरण- परं त्रिकं तु करणं दीक्षेयं पारमार्थिकी ॥

इत्यादि । तैर्युतम् । आनन्दशक्तिर्हि प्रागपररूपा पूर्णा । कथम् । तिथीशैर्बीजैः तदन्तैश्च योनिरूपधरादिभिः समन्वितमिति क्रियाविशेषणम् । तदेव हृदयम् । सर्वत्रात्र सकृद्विभातं प्रसंख्यानगम्यं रूपं मुख्यतः तत्रयोग्यानां तु परशक्तिपातपवित्रितानां वृथैन्द्रजालिककलनालालसानां वा योगाभ्यास इति मन्तव्यम् ।

३) इच्छाभिप्रायेण तृतीयमिच्छा । तच्च बृंहितमिष्यमाणेनाभिन्नेन पूर्णं ब्रह्म । चतुर्दश चत्वारिंशत् । युतानि विभागभाञ्जि यतोऽनन्तरम् । युतशब्दो विभक्तवाच्यपि युतसिद्धत्वादित्यादौ । तिथीश्वरस्याकुलमयानुत्तरकलात्मनोऽन्तः आनन्दः तस्यानु पश्चात् । सम्यगितं भोदमयम् ।

४) ईशानापेक्षया तृतीयमिच्छारूपं प्रसरवशाद्बृहद्भूतमीशानतापन्नम् । चतुर्दशानां चत्वारिंशत उक्ताया युतं परस्परव्यामिश्रता यत्र । तिथीश्वरस्याकुलमयानुत्तरकलात्मनोऽन्तः संहृतिः कुलशक्तिप्रथमस्पन्दः । तेनान्वितम् ।

५) उन्मेषात्मकज्ञानशक्तियोगेन तृतीयं ब्रह्मेशानमेव यदा चतुर्दशानां तस्या एव तत्त्वचत्वारिंशतो युतं प्रथमविभागो यत्र तथाविधं भवति । तथा तिथीशान्तेन कुलशक्तिप्रथमस्पन्देन सम्यक्प्ररुरुक्षुतया अन्वितम् । संशब्दोऽत्र भरणापेक्षः ।

[प्.२६४]

६) तज्ज्ञानशक्तिक्रियाशक्तिमध्यकोटिरूपप्राङ्निर्णीतऊकारकलालम्बितोढतारुढ्या यदेतत्ब्रह्म यत्किंचिच्चराचरं तदशुद्धशुद्धाशुद्धसृष्ट्यपेक्षया तृतीयं शुद्धसृष्ट्यात्मकमत एव तिथीश्वरैर्हृदयभूततया तदन्तैश्च कादिक्षान्तैः समन्वितम् ।

७) अथ शून्यचतुष्कानुसृत्या चतुर्णां धरादीनां दशा विनाशात्मिका विद्यते यत्र तद्व्योम । तेन युतं तृतीयं ब्रह्मेच्छाख्यं तिथीश्वरस्यार्कस्य अन्तेन बाह्येन तेजसान्वितम् ।

८) व्याख्यातक्रमेण तृतीयं ब्रह्मेशनम् । एतदपि एवमेव ।

९) तृतीयं ब्रह्मेच्छाख्यम् । चतुर्णां नभःप्रभृतीनामन्तदशा यत्र सा धरा । तया युतं समन्वितं तिथीशान्तस्य वह्नेस् तेजसो यदनुसरद्रूपं तेन सहितं व्योमात्म ।

१०) तथैव तृतीयं ब्रह्म चतुर्दशयुतं तिथीशान्तसमन्वितं परिपूर्णशून्यरूपप्लुत्या भैरवात्म । इच्छा खलु निजस्वभावभूतेशनसहिता वेद्यभूमेर्व्योमसत्तां यदाक्रामति तदा किंचित्प्रकाशभुवि विश्रम्य झटित्यपर्यन्तां काष्ठपाषाणप्रायां निश्चलां व्योमभूमिमनुप्रविशति यत्रापवेद्यसुषुप्तमहाव्योमानुप्रविष्टान् योगिनः प्रत्युच्यते

उद्धरण- भेरीकांस्यनिनादोऽपि व्युत्थानाय न कल्पते । इत्यादि ।

११) अधुनोक्तव्याप्ति यदेतत्परस्पररूपसांकर्यवैचित्र्यं शक्तीनां तदुद्देशेन । एवमिच्छा यदानुत्तरपदप्रवेशशालिनी भवति, यथा शक्तिक्षोभस्य रसनादेरनन्तरं, तत्रोच्यते विलम्बितमध्यद्रुतानां चिद्विशेषस्पन्दानां सत्त्वादियोगजुषां चतुःशब्दोपलक्षिता चतुर्थी दशा यत्रास्ति सामान्यस्पन्दरूपा तदकुलम् । तेनाकुलेनानुत्तरेण युतं तृतीयं ब्रह्मेच्छात्म ईशनसहितं तिथीशस्याकारस्यान्तेनानन्दशक्त्यात्मना अन्वितम् ।

[प्.२६५]

१२) तदपि तथैव पुनरपि परां सत्तामनुप्रविशति यदा तदा भैरवात्म परिपूर्णं दीर्घीभूतम् । नोऽस्माकमिति पूर्ववत् । अत एवैतदेव बीजयुग्ममेवंविधबीजवैचित्र्यानुप्रवेशादाच्छादप्रसवसमर्थमिति कामवाक्तत्त्वोपयोगेनोच्यते

उद्धरण- कामेन कामयेत्कामान् कमं कामेषु योजयेत् । [वामकेश्वरीमत ४.४६]

इत्यादि

उद्धरण- एओकारगतं बीजं वाग्विधानाय केवलम् । [वामकेश्वरीमत १.८३]

इत्यादि ।

१३) पञ्चमषष्ठ ... वर्णद्वयेन ... ।

१४) ... यदुक्तं ’’चतुर्दशयुतं तृतीयं ब्रह्म तिथीशान्तसमन्वितं"तदेव भैरवात्मानुत्तरपदानुप्रविष्टम् ।

१५) एतद्ब्रह्म चत्वारिंशद्युतमुक्तनीत्या तिथीशान्तसमन्वितं भैरवात्म वेदनरूपतया बिन्द्वात्मकं हृदयम् ।

१६) सकलमिदं तत्त्वजालं भैरवात्मतयोच्छलदत एव बहिर्विसृज्यमानं बृंहितं ब्रह्म विसर्गात्मकम् । बहिःस्थितं च भैरवात्मतयैकीभूतं भेदात्मकव्यवच्छेददारिद्र्यापसरणेन सर्वसर्वात्मकपदप्राप्त्या बृंहितमिति विसर्गपदम् । निर्णीतं चैतदवधानेन ।

एवं षोडशात्मिका बीजव्याप्तिरुक्ता । योनिव्याप्तिस्तु प्रतिवर्णं प्रागेवोक्ता । वर्गीकरणाभिप्रायेण तु निरूपणीया । बाल्ययौवनस्थाविरदेहान्तरग्रहणरूपदशाचतुष्टयसमाहारमयं पाञ्चभौतिकमन्तस्तिथीशान्तेन प्रवेशनिर्गमनात्मना प्राणापानरूपेण युतम् । तृतीयं च पुर्यष्टकात्म । ब्रह्म बृहत्त्वाच्च शून्यम् । अत्र च यद्धृदयं शक्त्यात्म । त एते सर्व एव शरीरप्राणपुर्यष्टकशून्यतुर्यशक्तिरूपा बोधात्मकबीजसातिशयघनताक्रमप्राप्तक्रमिकतथाभावा बाह्यात्मभूतात्मातिवाहिकात्मान्तरात्मपरमात्मव्यपदेश्याः प्रमातारः । एतद्भैरवात्म हृदयम् । प्रवेशोपायोऽत्र सर्वाः प्रमातृभूमीरनवच्छेदेनाक्रमेत् ।

अन्तर्बहिष्करणत्रयोदशकं प्रकृत्या सह च ।

चतुर्दश चत्वारिंशत्तद्युतं द्विगुणितमशीतिः । तिथयः पञ्चदश । ईशा रुद्रा एकादश । अन्ताः कालास्त्रयः ।

[प्.२६६]

एवं द्वादशोत्तरशतमर्मगतस्थूलसूक्ष्मपरशाक्तस्पन्दरूपमन्त्रवीर्यविकासस्फुरीकृतविसर्गविस्लेषणसंघट्टक्षोभात्मिकां शरीरसत्तामेव भैरवरूपां परिशीलयेद्युगपन्निवेशसंप्रदाययुक्त्या ।

चतस्रो मधुरकषायतिक्ताम्लदशा यस्य मद्यसुरासवादेस्तत् । तिथीशान्तमुभयविसर्गात्मद्रव्यम् । समन्वितं तदिन्द्रियद्वयान्तर्वर्ति । कुसुमशब्दवाच्यं मलं तृतीयम् । ब्रह्म जगदिन्धनदाहशेषं भस्म । भैरवात्म भरिताकारमाप्यायकमम्बु । हृदयं च सर्वेन्द्रियान्तर्वर्ति रसाश्यानोभयरूपम् । तदेतानि द्रव्याणि यथालाभं भेदमलविलापकानि । तथाहि दृश्यते एवायं क्रमो यदियं संकोचात्मिका शङ्कैव समुल्लसन्ती रूढा फलपर्यन्ता संसारजीर्णतरोः प्रथमाङ्कुरसूतिः । सा चाप्रबुद्धान् प्रति <शुद्धाशुद्धादीनां> स्थितिर्भवेदिति प्रबुद्धैः कल्पिता बालान् प्रति च । कल्प्यमानापि च तेषां रूढा वैचित्र्येणैव
फलति । अत एव वैचित्र्यकल्पनादेव सा बहुविधा धर्मादिशब्दनिर्देश्या प्रतिशास्त्रं प्रतिदेशं चान्यान्यरूपा, यथोक्तम्

उद्धरण- ग्लनिर्विलुम्पिका देहे. . . । इति । [स्पन्दकारिका ३.८]

सेयं यदा झटिति विगलिता भवति तदा निरस्तपाशवयन्त्रणाकलङ्को भैरवहृदयानुप्रविष्टो भवतीति सर्वथैतदभ्यासे यतितव्यम् । श्रीतिलकशास्त्रेऽयं भावः । श्रीभर्गशिखायामपि उक्तम्

उद्धरण- वीरव्रतं चाभिनन्देद्यथायोगं तथाभ्यसेत् । [भर्गशिखा*]

इत्यादि । श्रीसर्वाचारेऽपि

उद्धरण- अज्ञानाच्छन्कते मूढस्ततः सृष्टिश्च संहृतिः ।
उद्धरण- मन्त्रा वर्णात्मकाः सर्वे वर्णाः सर्वे शिवात्मकाः ॥
उद्धरण- पेयापेयं स्मृता आपो भक्ष्याभक्ष्यं तु पार्थिवम् ।
उद्धरण- सुरूपं च विरूपं च तत्सर्वं तेज उच्यते ॥
उद्धरण- स्पृश्यास्पृश्यौ स्मृतो वायुश्छिद्रमाकाश उच्यते ।
उद्धरण- नैवेद्यं च निवेदी च नैवेद्यं गृह्णते च ये ॥
उद्धरण- सर्वं पञ्चात्मकं देवि न तेन रहितं क्वचित् ।
उद्धरण- इच्छामुत्पादयेदात्मा कथं शङ्का विधीयते ॥ [सर्वाचार*]

इति । श्रीवीरावलिशास्त्रेऽपि अयमेवाभिप्रायः । उक्तं च क्रमस्तोत्रे

[प्.२६७]

उद्धरण- सर्वार्थसंकर्षणसंयमस्य यमस्य यन्तुर्जगतो यमाय ।
उद्धरण- वपुर्महाग्रासविलासरागात्संकर्षयन्तीं प्रणमामि कालीम् ॥ [क्रमस्तोत्र]

इति । व्याख्यातं चैतन्मया तट्टीकायामेव क्रमकेलौ विस्तरतः । अत एव षडर्धशास्त्रेष्वेषैव क्रिया प्रायो नियन्त्रणारहितत्वेन पूजा । तत्परिपूरणायैव सर्वद्रव्यालाभात्संवत्सरमध्ये चतुस्त्रिर्द्विः सकृद्वा पवित्रकविधिरुक्तः ।

उद्धरण- क्रियायाः पूरणार्थाय यागाज्ञापूरणाय च ।
उद्धरण- चतुः सकृद्वा यः कुर्यान्न पवित्रं स निष्फलः ॥

इति । विज्ञानक्रमो विस्तरत उक्तः ।

जातीनां च ब्राह्मणादीनां नास्ति स्थितिः कल्पितत्वातुपदेशव्यङ्गतेति तु दुर्बुद्धीन् पशून् प्रत्याययेदिति च भगवता मुकुटसंहितायां विस्तरतो निर्णीतम् । इह तु अयत्नसिद्धमेव ।

गुणा इच्छाद्या निर्णीताः चतुर्दशस्वरेभ्यः ।

ओकारअंकारमध्यगः । तिथीशान्तो विसर्गः । तृतीयं ब्रह्म षहमध्यगम् । एतद्बीजं वस्तुतो विश्वस्य । तथाहि यत्किंचित्सत्पार्थिवप्राकृतमायीयरूपं भासते तदिच्छायां ज्ञाने वा क्रियायां वा पतितमपि सर्वात्मकत्वात्त्रिकरूपं परत्र शिवपदे विसृज्यते सर्वं च शिवपदाद्विसृज्यते इत्यविरतमेष एव प्रबन्धो निर्विकल्पकः । विकल्पोऽपि प्रमदारातिप्रभृतिरेवंकार्यभूत्, अत एवंकारी भवति, एवंकारी भविष्यतीति वर्तमानकालत्रयानुसंधितोऽभेदपरमार्थतयैव विसर्ग इति प्रत्युत मोक्षमयशिवभूमिरेव सदैव दैवदग्धानां संसारभयमरुमहाटवी संपन्ना


उद्धरण- जलात्स्फूर्जज्ज्वालाजटिलवडवावह्निनिवहः सुधाधाम्नः पुर्णाद्भयसदनदम्भोलिदलना ।
उद्धरण- विकल्पादैश्वर्यप्रसरसरणेः संसृतिदरः कियच्चित्रं चित्रं हतविधिविघातात्प्रसरति ॥

[प्.२६८]

ईश्वरप्रत्यभिज्ञायामप्युक्तम्

उद्धरण- सर्वो ममायं विभव इत्येवं परिजानतः ।
उद्धरण- विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता ॥ [ईश्वरप्रत्यभिज्ञाकारिका आगमाधिकार २.१२]

इति । यथा चाकृतिमध्य एव चतुर्भुजत्रिनयनपूर्णकृशाद्या आकृतयो द्रव्यमध्ये च सुरासवाद्या बलादेव तां सत्तां समधिशाययन्तीव लिप्यक्षराणीव सत्यवर्णभूमिमित्युत्कर्षभागित्वमेषाम्, एवं सर्ववर्णमध्येऽपि अयं वर्णः । तथाहि सकारस्तावत्परमानन्दामृतस्वभाव उल्लसनेव समस्तं वर्णजालमाक्षिप्य उल्लसति । यद्यत्सत्यसुखसंपत्सत्तादीनां पारमार्थिकं वपुः सीत्कारसमुल्लासशेफकम्पवराङ्गसंकोचविकासोपलक्ष्यम् । तदेव हि सत्यादीनाममायीयं वस्तुतो रूपम् । तथाहि परहृदयग्रहणेङ्गितनिपुणा गगनगवयगवाद्यनन्तपदप्राङ्मध्यान्तभाविनोऽपि गकारादिमात्रादेवाभीष्टं
चिन्वते, तावति सत्यपदेऽनुप्रवेशात् । एवमेकैकस्यैव वर्णस्य वास्तवं वाचकत्वम् । यथोक्तम्

उद्धरण- शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरः तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् । [योगसूत्र ३.१७]

इति । अत एव प्रायशोऽमी अकारचकाराद्या एकवर्णात्मानो निपातविभक्त्यादयो मायापदेऽपि पारमार्थिकमिव प्रमातृपदलीनमिदन्तापराङ्मुखमसत्त्वभूतं तत्तन्निषिध्यमानसमुच्चीयमानाभिन्नरूपनिषेधसमुच्चयादिकमर्थमभिदधति । एष एव भावस्तत्रभवतो भर्तृहरेः, यदाह

उद्धरण- पदमाद्यं पृथक्सर्वं पदं साकाङ्क्षमित्यपि । [वाक्यपदीया २.२]

इति वाक्यविचारे । तथा च वेदव्याकरणे पारमेश्वरेषु शास्त्रेषु मन्त्रदीक्षादिशब्देष्वक्षरवर्णसाम्यान्निर्वचनमुपपन्नम् । तत्तु न रूढं नियतिवशादिति न लोकपर्यन्तम् । तदेवं सकार ईदृशः । औकारविसर्गावपि व्याख्यातौ । तदुक्तं श्रीपूर्वशास्त्रे

उद्धरण- सार्णेन त्रितयं व्याप्तं त्रिशूलेन चतुर्थकम् ।
उद्धरण- सर्वातीतं विसर्गेण परा व्याप्तिरुदाहृता ॥ [मालिनीविजयोत्तर ४.२५]

इति । तथा

[प्.२६९]

उद्धरण- सिष्येणापि तदा ग्राह्या यदा संतोषितो गुरुः ।
उद्धरण- शरीरद्रव्यविज्ञानशुद्धिकर्मगुणादिभिः ॥
उद्धरण- बोधिता तु यदा तेन गुरुणा हृष्टचेतसा ।
उद्धरण- तदा सिद्धिप्रदा ज्ञेया नान्यथा विरवन्दिते ॥ [मालिनीविजयोत्तर ३.५७८]

इति । अन्यत्रापि

उद्धरण- एकं सृष्टिमयं बीजम् ... । [।च्f तिमिरोद्घाटन]

इति । अत एवालेख्यं पुस्तके इति नियमः । श्रीपूर्वशास्त्रेऽपि

उद्धरण- वामजङ्घान्वितो जीवः पारम्पर्यक्रमागतः । [मालिनीविजयोत्तर ३.५४]

इति । इहापि वक्ष्यते

उद्धरण- यथा न्यग्रोधबीजस्थः... । [।च्f किरण ४.२२; ।चित्वसुगुप्त अद्स्पन्दकारिका १.२१७]

इति ।
तदेतद्भैरवात्मनो हृदयं मालिन्यपेक्षया नकारात्वस्तुतस्त्वकाराद्योगिन्याश्च विसर्गशक्तेर्जातः । प्रादुर्भूतप्रमातृभावो रुद्रो रोधको द्रावकश्च पाशानां, स एव ना पुरुषः, एतत्स्फुटं लभते, न त्वरुद्रो नापि अयोगिनीगर्भसंभवः । सद्योयोगो भैरवैकात्म्यम् । स एव मोक्षो निर्णीतः । तं ददातीति यो लभते स एवंविधो नान्यः । यश्चैवंविधः स स्फुटं लभते । एवं हृदयमेव लभते सद्योयोगविमोक्षदमेवेति सर्वतो नियमः ।

मन्त्रा वर्णभट्टारका लौकिकपारमेश्वरादिरूपा मननत्राणरूपा अविकल्पसंविन्मयाः । मुद्राश्च सकलकरचरणादिकरणव्यापारमयाः क्रियाशक्तिरूपाः । तत्कृतो गणः समूहात्मा परशक्त्येकरूपः । स्वस्यात्मनः प्राणपुर्यष्टकशून्यादेर्देहस्य य आवेशो झटिति परस्वरूपानुप्रवेशेन पारतन्त्र्यात्मकजडतातिरोधानेन स्वतन्त्रकर्तृतानुविद्धप्रमातृतोदयः । तथा स्वं स्वभावं पदार्थस्य ददातीति स्वदा । ईहा इच्छाद्या क्रियान्ता । तया आवेशः । तदेव लक्षणं यत्र । तथा कृत्वा य उदेति सोऽस्य बीजस्योच्चारे ऊर्ध्वचरणे स्थितौ सत्याम् । अस्य अकारस्य । यथैतत्तथा निर्णीतं बहुशः ।

[प्.२७०]

सद्य इत्यनेन सतित्यप्यनुप्रवेशः सूच्यते । तन्मुखतां तत्पररूपप्राधान्यमेति, न तु पशूनामिव तद्रूपं प्रत्युत तिरोधत्ते ।

अत एव मुहूर्तं, अकालकलितत्वेऽपि परकलनापेक्षया उन्मेषमात्रम्, यः स्मरत्यनुसंधत्ते स एव व्याख्यातं मन्त्रमुद्रागणं संबध्नाति स्वात्मन्येकीकरोत्यद्वयतः । कथम् । चुम्बकेन विश्वस्पर्शकेन शाक्तेन रूपेणाभितः सर्वतो मुद्रितं मुद्रणं कृत्वा । तुरवधारणे । य एव शाक्तस्पन्दमुद्रित एवंविधतत्त्वमयशिवरूपानुसंधायकः स एवैवं करोति न तु नरैकरूपः पाषानादिः । यदतीतं यच्चानागतं यदनर्थरूपं प्रागन्याभावादितरदपि स एव कथयति कथापर्यन्ततां नयति संकल्पनात् । कथम् ।

उद्धरण- पृष्टः प्रश्नो ज्ञीप्सा पृष्टं तद्यस्यास्ति स तथा ।
उद्धरण- यदेव किल ज्ञीप्सति तत्तदेवान्तर्गतं बहिष्कुरुते ॥

यथोक्तम्

उद्धरण- यथेच्छाभ्यर्थितो धाता जग्रतोऽर्थान् हृदि स्थितान् ।
उद्धरण- सोमसूर्योदयं कृत्वा संपादयति देहिनः ॥ [स्पन्दकारिका ३.१]

इत्यादि । एको ह्यसौ स्मरणोत्प्रेक्षणादावपि तावानेव वर्तमानो
न स्तो भूतभविष्यती । यथोक्तं

उद्धरण- कालोभयापरिच्छिन्नम् ... इत्यादि । [श्रीवाद्यतन्त्र? ।चित्मालिनीविजयवार्त्तिक १.१५६ अत्त्रिब्. तो डामरतन्त्र]

प्राग्भावत एवानधिकरूपस्य पुनरिदं जानाति करोति इत्यादिसंकोचासहिष्णोः सकृद्विभातत्वम् । अत एवोक्तं भूताद्यपेक्षया वर्तमानकालस्य तदभावे वस्तुतोऽप्रसक्तेरकालकलितमेव वस्तुतत्त्वमिति ह्युक्तमसकृत् । स एव तु कालशक्तिमवभासयति चित्राम्

उद्धरण- किं च जाग्रति कस्मिंश्चिद्घटिकाभिमतापि या ।
उद्धरण- तस्यामेव प्रमातारः स्वप्नगाश्चित्रताजुषः ।
उद्धरण- दिनप्रहरवर्षादिवैचित्र्यमपि चिन्वते ॥

इति नीत्या ।

[प्.२७१]

प्रकृष्टो हरः संहारोऽकुलाख्यस्ततोऽनन्तरमभिप्रेतं प्रेतशब्दवाच्यसदाशिवतत्त्वनिविष्टज्ञानशक्त्याभिमुख्येन देवताया इच्छाया रूपं रूपाणां कलानां साक्षस्य सेन्द्रियस्य रूपस्यादनं भक्षणमतनं च सातत्यगमनं कृत्वा रोधनद्रावणरूपशक्तिभिराकृष्टं पश्यत्यसंदिग्धं कृत्वा । एतदुक्तं भवति यदिदं दर्शनं नाम तत्सर्वतरङ्गप्रत्यस्तमयाख्याकुलसत्ताधिरूढस्यानन्तमहिमस्वातन्त्र्ययोगादिच्छाशक्तिमतः । सैवेच्छा स्वान्तर्गतेष्यमाणवस्तुन ईषदस्फुटभेदावभासनरूपज्ञानशक्त्यात्मकतामेति । तज्ज्ञानशक्तिर्
विशेषस्पन्दनरूपसमस्तेन्द्रियाणां बहीरोधनम् । एतदेव सातत्यगमनम् । यच्च द्रावणं तदेव भक्षणम् । एते एव वमनभक्षणे दर्शनस्य सर्वप्रथैकमयत्वात्प्रथायाश्च तथाविधवैचित्र्ययोगात् । अनिश्चितोभयालम्बनत्वमपि स्थाणुपुरुषादावप्यसंदिग्धमेव । एवं दुष्कृतमयी परमेशशक्तिः ।

एवं त्वसौ परापररूपस्मृतिशक्तिमान् भैरव इत्याह ’’प्रहरद्वयेत्यादि"। एवं तु स्मरन् जायते व्योम विद्यते यत्र पुर्यष्टके शून्ये च तत्प्रमातृरूपतामादधानः । प्रहरोपलक्षितं दर्शनाख्यं रूपं यदा पुनः पुनः परामृशति स्मरत्यपि च प्राग्वत्’’साक्षात्पश्यत्यसंदिग्धमाकृष्टं रुद्रशक्तिभिः"इति संबन्धः । तावद्धि तदपि दर्शनमेव इत्युक्तम् । एवं तु अपरात्मकविकल्पशक्तियुक्त इत्युच्यते । त्रयेणेति पश्यन् स्मरंश्च व्योमस्थो यदा पुनरपि पश्यति तदनेन प्रहरोपलक्षितदर्शनत्रयेण मातरोऽन्तःप्रमाट्र्मयाः परमेशशक्तयः ताश्
च प्रमातृत्वादेव सिद्धाः प्रमात्रन्तरविषयसिद्ध्यनपेक्षाः, तद्रूपैकात्म्यलक्षणेन योगेनैश्वर्यम्, तथा गृहीतस्वातन्त्र्यांशाः, महद्बाह्येन्द्रियवृत्त्यपेक्षया सर्वत्राप्रतिहतप्रसरत्वं बलं यासां ता अन्तःकरणदीधितयः ता अपि सिद्धा एव ।

[प्.२७२]

विश्वत्र पाशवसासनयन्त्रणानिरपेक्षतयैव सरभसप्रवृत्तिरूपत्वाद्वीरा बुद्धिक्रियेन्द्रियाख्यास्तेऽपि सिद्धा एव । तेषामपि चेस्वराः कादिवर्णात्मानः तेऽपि सिद्धाः । तत्कादिवर्णोद्धारोदितश्च ब्राह्म्यादिदेवतात्मा तत्तद्द्वेषरागादिचित्तवृत्तिरसमयः शक्तिसमूहः सोऽपि सिद्ध एव, अत एव बलवान् । एते सर्वे संभूय पराज्ञया परस्य मां मानमयीम् ’’सौ परः"इति विकल्पात्मिकां सिद्धिम् । यद्वा समीहितं फलमेव ’’हं"ददति प्रयच्छन्ति । अज्ञातार्थक्रिये ज्ञातार्थक्रिये च एष क्रमेण विकल्पाविकल्पयोगः । किं बहुना । ये मन्त्रिणोऽपरकुलान्तमन्त्रसिद्धा अपि साधयन्ति । अपि च तेऽप्यनेन हृदयेन सेत्स्यन्ति जीवन्मुक्ताः ।
एतेन विना पारमार्थिकी सिद्धिर्न भवतीति भावः । ’’यत्किंचिद्भैरवेत्यादि"। तथा ये सिद्धाः साधयन्ति च ये च सेत्स्यन्ति अणिमादियोगात्तेऽप्यनेनैव । न हि एतद्धृदयानुप्रवेशं विना व्यावहारिक्यपि सिद्धिः, यतो भैरवे विश्वात्मनि तन्त्रे क्रियाकलापे यत्किंचित्सिद्धिजातं तदत एव ।


एवमेष परमेश्वर एव हृदयात्मा एवंरूपतया शक्तित्रितयबृंहितसततोदयमानसंह्रियमाणानन्तसंविदैक्यशाली परिकल्पितः सनदृष्टमसंदर्शनमेवाख्यातिरूपं मण्डं मायामलम्, मण्डं च भावानां भेदाख्यं सारं लुम्पति । एवमदृष्टमेतद्धृदयमण्डलोपि । चत्वार्यण्डान्येव । लोपः संकोचः । तद्योगि ।

एवमेष विद्यामायोभयात्मा परमेश्वर एक एव चिद्घनः, यथोक्तम्

उद्धरण- दर्शनं तु परा देवी स्मरणं च परापरा ।
उद्धरण- विकल्पस्त्वपरा देवी त्रिकशक्तिमयः प्रभुः ॥
उद्धरण- मायाविद्ये उभे तस्य माया तु चतुरण्डिका ।
उद्धरण- विद्या स्वरूपसंवित्तिरनुग्रहमयी शिवा ॥

इति । यदि तु योगप्राधान्यं तदा श्रीपूर्वादिशास्त्रनिरूपितं पूर्वमेव व्रतादि कृत्वा, ’’स्योच्चारे कृते"इत्यादि स्पष्टमेव व्यख्येयम्, यतो दृष्टकार्येषु नियतिपरतन्त्री क्रियाकलापं नियतमेवापेक्षते ।

[प्.२७३]

योगिनामपि हि नाडीचक्रकरणभावनासंवेदनयुक्त्या नियम एव ।

अस्येदानीं त्रिकार्थस्य यदुक्तं

उद्धरण- कुलात्परतरं त्रिकमिति

सर्वोत्तरमनुत्तरत्वं तन्निरूपयति ।

_____________________________________________________________

पर्त्रि १८ द्१८ f

अदृष्टमण्दलोऽप्येवं यः कश्चिद्वेत्ति तत्त्वतः ।
स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः ॥ १८ ॥

_____________________________________________________________


मण्डलं देवताचक्रमपश्यन्नप्यप्राप्तमेलकोऽपि चर्यानिशाटनहठादिना, मण्डलानि शरीरनाडीचक्रानुचक्ररूपाणि योगाभ्यासेनासाक्षात्कुर्वन्नपि, त्रिसूलाब्जादिमण्डलमदृष्ट्वापि । नात्र मण्डलादिदीक्षोपयोगः । एवमेव कश्चित्परशक्तिपातानुगृहीतो वेत्ति यः ’’ेतज्ज्ञानमेव हि दीक्षा कान्यात्र दीक्षाऽऽ, अत एव एवं जानन् विभुना भैरवभट्टारकेण दीक्षितः । अत एव स्वयंगृहीतमन्त्रश्चेत्येतदेतद्धृदयातिरिक्तमन्त्रविषयम् । न हि अयं मन्त्रो हृदयमयत्वात्, मन्त्रमहेशतन्महेशरूपोत्तीर्णत्वादस्य । पुस्तकेष्वलेख्यमेवेदं हृदयमिति परशक्तिपातानुग्रहादेव एतल्लाभस्तत्त्वत इति निर्णीतम् । तथा यः कश्चिदिति जातिव्रतचर्यादिनैरपेक्ष्यम्
। अत्र वेदनमेव हि प्रधानम् । स सिद्धिभाग्योगी

उद्धरण- योगमेकत्वमिच्छन्ति [म्वुत्४.००]

इति यतः । ज्ञानदानमायाक्षपणलक्षणा च तस्यैव दीक्षा । चकारोऽवधारणे तच्च सर्वतो मन्तव्यम् । स एव सिद्धिभाग्योगी दीक्षितः । सिद्धिभागेव योग्येव दीक्षित एव सः । तदाह नित्यमिति ।

_____________________________________________________________


पर्त्रि १९ ब्

अनेन ज्ञातमात्रेण ज्ञायते सर्वशक्तिभिः ।

_____________________________________________________________


सर्वाभिर्देवताभिः सर्वशक्तिभिश्च सर्वज्ञैरसौ ज्ञायत एतज्जानन्नेव । तैरपि यत्किंचित्ज्ञायते तदनेन ज्ञतमात्रेण
ज्ञायत इति प्राग्वत् । सर्वाभिः शक्तिभिरिति करणे तृतीया ।

तथा
_____________________________________________________________

पर्त्रि १९ द्

शाकिनीकुलसामान्यो भवेद्योगं विनापि हि ॥ १९ ॥

_____________________________________________________________



[प्.२७४]

अनेन ज्ञातमात्रेण योगमाभ्यासिकं मायीयदेहपातावाप्ततदैक्यरूपं च विनापि शाकिनीकुलस्य विशेषस्पन्दात्मनः सामान्यस्पन्दरूपोऽकुलरूपः शक्तिचक्रेश्वरो भवेदिति ।

किं च

_____________________________________________________________


पर्त्रि २०

अविधिज्ञो विधानज्ञो जायते यजनं प्रति ॥ २० ॥

_____________________________________________________________


विधिः क्रिया ज्ञा ज्ञानम् । तद्यस्य द्वयं नास्ति स पशुः, यथोक्तं किरणायाम्

उद्धरण- पशुर्नित्यो ह्यमूर्तोऽज्ञो निष्क्रियो निर्गुणोऽप्रभुः ।
उद्धरण- व्यापी मायोदरान्तःस्थो भोगोपायविचिन्तकः ॥ [किरण १.१५]

इति । स पशुरप्यनेन ज्ञातमात्रेण विधानं ज्ञा च यस्य स कर्ता ज्ञाता च विषयसंगतिकरणं प्रति जायते । यजनं चास्यापूर्णमपि पूर्णं भवतीति सर्वमयत्वाद्धृदयस्य । तथाहि


_____________________________________________________________

पर्त्रि २१
कालाग्निमादितः कृत्वा मायान्तं ब्रह्मदेहगम् ।
शिवो विश्वाद्यनन्तान्तः परं शक्तित्रयं मतम् ॥ २१ ॥

_____________________________________________________________


कालाग्नेर्धरातत्त्वादिभुवनान्मायातत्त्वं यावद्ब्रह्मणः सकारस्य देहे । विश्वभुवनाद्विद्यातत्त्वादेरारभ्य यावत्शिवोऽनाश्रितशक्तिरूपोऽनन्तस्यौकारस्यान्तः । परं विसर्गात्मकं शक्तित्रयं तच्च परम् । उक्तं च ’’सार्णेन"इत्यादि ॥

_____________________________________________________________


पर्त्रि २२

तदन्तर्वर्ति यत्किंचिच्छुद्धमार्गे व्यवस्थितम् ।
अणुर्विशुद्धमचिरादैश्वरं ज्ञानमश्नुते ॥ २२ ॥

_____________________________________________________________


यत्किंचिद्वस्तु व्यवस्थितं विचित्रावस्थं तद्धृदयबीजान्तर्वर्ति शुद्धं भवेत् । तदेव चैश्वरं ज्ञानमणुरण्यते प्राणिति अणति नदति परिमितोच्चारात्मूर्धन्यो भगवत्प्रभावादचिरादेव प्राप्नोति ।

कथम् ।

[प्.२७५]


_____________________________________________________________


पर्त्रि २३

तच्चोदकः शिवो ज्ञेयः सर्वज्ञः परमेश्वरः ।
सर्वगो निर्मलः स्वच्छस्तृप्तः स्वायतनः शुचिः ॥ २३ ॥

_____________________________________________________________


यस्तच्चोदको गुरुः स शिव एव ज्ञेयः । शिव एव तच्चोदकः । स चाज्ञेयो ज्ञातैव । स्वायतनः स्वानयान् विज्ञानरूपान् भावांस्तनोतीति । सर्वं चैतद्विस्तरतो निर्णीतमेव ॥
एवं विस्तरशोऽभिधाय तात्पर्येण निगमयति ।

_____________________________________________________________


पर्त्रि २४२५

यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः ।
तथा हृदयबीजस्थं जगदेतच्चराचरम् ॥ २४ ॥
एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी ।
दीक्षा भवत्यसंदिग्धा तिलाज्याहुतिवर्जिता ॥ २५ ॥

_____________________________________________________________


इहासत्तावन्न किंचिदित्युक्तम् । विश्वं च विश्वात्मकमिति । ततश्च यथा वटबीजे तत्समुचितेनैव वपुषाङ्कुरविटपपत्रफलादि तिष्ठतीत्येवं विश्वमिदं हृदयान्तः । एवंपरिज्ञानमेवासंदिग्धा निर्वाणदीक्षा, यथोक्तम्

उद्धरण- इयमेवामृतप्राप्तिरयमेवात्मनो ग्रहः ।
उद्धरण- इयं निर्वाणदीक्षा च शिवसद्भावदायिनी । [स्पन्दकारिका २.७]

इति । अन्या अपि दीक्षा भोगान् वितरेयुरपि, एतत्परिज्ञानमेव तु तत्त्वतो दीक्षेति तत एवात्र सर्वोत्तरत्वम्, कुलशास्त्रेभ्योऽपि आधिक्यात् । यथा हि तुलाङ्केषूर्ध्वमूर्ध्वं परिमितेऽपि उन्नत्यवनतियोगेऽनन्तमन्तरं परिमाणस्य भवति, एवमूर्ध्वोर्ध्वतत्त्वेषु देशकालभोगसंवेदनानामनन्तमेवान्तरमित्येवमेवाधिकीभवेत्, षट्त्रिंशतोऽपि अधिकं भवेदिति । यतश्च संवेदनमेव दीक्षा तदेवोक्तमेतत्संविदनुप्रविष्टौ वीरो वा योगिनी वा निजपरसत्तासततोदितामायीयबाह्यान्तःकरणरश्मिदेवताद्वादशकचक्रेश्वरपरभैरवभट्टारकात्मकनिर्णीततत्त्वाहरूपानुगृहीतौ न कृतदीक्षाविति ।

[प्.२७६]

एवमनुत्तरपदमुत्तररूपापरित्यागेनैव यथा भवति तथा व्याससमासाभ्यां भूयसा निर्णीतम् । अधुना त्विदं वक्तव्यम् । उच्यते तावच्छास्त्रेषु

उद्धरण- मनुष्यदेहमास्थाय च्छन्नास्ते परमेश्वराः ।
उद्धरण- निर्वीर्यमपि ये हार्दं त्रिकार्थं समुपासते ॥

इति । तत्कथमस्योपासा । तथापि चानुत्तरसत्तयात्रापि भाव्यमनुत्तरत्वादेव । सा च कथमित्याकाञ्क्षां निर्णिनीषुर्ग्रन्थान्तरमवतारयति ।

_____________________________________________________________


पर्त्रि २६३२

मूर्ध्नि वक्त्रे च हृदये गुह्ये मूर्तौ तथैव च ।
न्यासं क्र्त्वा शिखां बद्ध्वा सप्तविंशतिमन्त्रिताम् ॥ २६ ॥
एकैकं तु दिशां बन्धं दशानामपि योजयेत् ।
तालत्रयं पुरा दत्त्वा सशब्दं विघ्नशान्तये ॥ २७ ॥
शिखासंख्याभिजप्तेन तोयेनाभ्युक्षयेत्ततः ।
पुष्पादिकं क्रमात्सर्वं लिङ्गे वा स्थण्डिलेऽथवा ॥ २८ ॥
चतुर्दशाभिजप्तेन पुष्पेणासनकल्पना ।
तत्र सृष्टिं यजेद्वीरः पुनरेवासनं ततः ॥ २९ ॥
सृष्टिं तु सम्पुटीकृत्य पश्चाद्यजनमारभेत् ।
सर्वतत्त्वसुसम्पूर्णां सर्वाभरणभूषिताम् ॥ ३० ॥
यजेद्देवीं महेशानीं सप्तविंशतिमन्त्रिताम् ।
ततः सुगन्धिपुष्पैस्तु यथाशक्त्या समर्चयेत् ॥ ३१ ॥
पूजयेत्परया भक्त्या आत्मनं च निवेदयेत् ।
एवं यजनमाख्यातमग्निकार्येऽप्ययं विधिः ॥ ३२ ॥

_____________________________________________________________


मूर्धादीनि बाह्ये तथोचितरूपाणि । वस्तुतः परं ब्रह्मरूपाभिहितपञ्चात्मकव्योमादिधरण्यान्तसतत्त्वेशानादिसारचिदुन्मेषेच्छाज्ञानक्रियारूपाण्येव, मन्त्रलिङ्गात्, यथा मन्त्राः १) ईशानमूर्ध्ने, २) तत्पुरुषवक्त्राय, ३) अघोरहृदयाय, ४) वामदेवगुह्याय, ५) सद्योजातमूर्तये इति । तत्रैतत्पञ्चकाविभागात्मकमुपक्रमोपसंहारयोः रूपमिति द्वे, मध्ये च प्रोल्लसति विभागत्वे पञ्चानामेकैकशः पञ्चात्मकता इति पञ्चविंशतिः । अत्रैव मालिन्यादिमन्त्राणामनुप्रवेशः ।

[प्.२७७]

तिस्रश्च देव्याः प्रत्येकमिच्छादित्रययोगान्नवात्मतां प्राप्ताः पुनरपि सृष्टिस्थितिसंहृतिवशात्त्रैधमापन्ना इति सप्तविंशतिसंस्मृतहृद्बीजेन शिखाया एवंरूपधरण्यन्तपरिकल्पनस्वातन्त्र्यरूपायाः परचिद्बुद्धिस्पर्शप्राणब्रह्मरन्ध्रवाहरूपैरुपचर्यमाणाया बन्धनं सर्वाविभागसारं तादात्म्यम् । मूर्धादिषु केवलेष्वपि प्रत्येकं सर्वाणि वक्त्रादीनि परस्परं विशेषणानि । तच्च निर्णीतमेव सर्वसर्वात्मकत्वनिर्णयेणैव । दिश्यमाना घटाद्या एव दिशः ताश्च स्वापेक्षया दशैव भवन्ति । तत्राप्येतदेव बन्धनमात्मसात्कारात्मकम् । एतच्च तालत्रयेण । ताला प्रतिस्था विश्रान्तिः । तत्र सकारादि हृदयम्
एव । ताश्च सशब्दं मध्यमान्तम् । शब्दनं हि शब्दः, तच्च मध्यमैव वैखर्यास्तच्छेषात्मकत्वादित्युक्तं बहुशः । एषा च विघ्नानामभेदात्मन्यखण्डिते परमात्मनि खण्डनात्मकसंकोचसारभेदकल्लोलकलङ्कानां शान्तिरभेदभैरवार्णवतादात्म्यमेव । यदाहुः श्रीसोमानन्दपादाः

उद्धरण- अस्मद्रूपसमाविष्टः स्वात्मनात्मनिवारणे ।
उद्धरण- शिवः करोतु निजया नमः शक्त्या ततात्मने ॥ इति । [शिवदृष्टि १.१]

एवमेव सप्तविंसतिजप्तं तोयमित्यर्घपात्रविधिः । तोयमत्र सर्वमेव हृदयं द्रवात्म, अनियन्त्रितत्वादसंकोचदानाच्च । पुष्पं व्याख्यातम् । लिङ्गं च

उद्धरण- ...यत्र लीनं चराचरम् । [मालिनीविजयोत्तर १८.३ ]
इत्येतदपि निर्णीतमेव । विश्वात्मनि तत्त्वे आसिक्रियायामधिकरणस्य कर्तुश्चासनस्य स्वातन्त्र्यात्कल्प्यमानस्य स्वातन्त्र्येण कल्प्यमानत्वं चतुर्दशेन औकारेण, तस्यैव त्रिशूलरूपत्वादित्युक्तमेव । सृष्टिरादिक्षान्ततादात्म्यमयं हृदयं शक्तिर्गुह्यमिति वीरत्वम् । अत एव आसनमपि सर्वं तत्रैव, आधाराधेययोः परस्परैकरूपत्वात् । यथोक्तम्

[प्.२७८]

उद्धरण- सर्वभूतस्थमात्मानम् ... । [भगवद्गीता ६.२९ ]

इत्यादि । संपुटीकरणं सृष्टेरादिक्षान्तायाः प्रत्येकं सर्वशश्च हृदयबीजेन । परतत्त्व एवोल्लासात्संहाराच्च न चानवस्थेत्युक्तमेव । सृष्टेश्च संपुटीकरणमुभयसंघट्टक्षोभानन्दरूपम् । तदुत्थद्रव्योपयोगोऽपि । क्त्वा अत्र शब्दप्रतीतिपौर्वापर्यमात्रे । सर्वतत्त्वैः सुष्ठ्वभेदेन सम्यगनपायितया पूर्णत्वम् । सर्वत्र च परमाणावपि यदा समन्तात्भरणं सर्वात्मीकरणम्, सर्वैर्वा घटसुखतिर्यङ्नरविरिञ्चिविष्णुरुद्रमन्त्रसदाशिवादिप्रमातृरूपैरवयवमानैरहमेकरसावयवित्वं निर्णीतमेव । अत एव विशिष्टाकृत्यायुधादिध्यानमत्र नोक्तम्, तस्य निर्मेयत्वात् । आरुरुक्षुरेतावत्त्रिकार्थाभिलाषुकश्
च कथमारोहत्विति चेत्कस्यायमर्थिभावः । मा तर्हि आरुक्षत् । सिद्धातन्त्रादिविधिमेव तदाशयेनैव निरूपिततद्ध्यानादिसंकोचमालम्बताम् । असंकोचितानुत्तरपदे ह्यनधिकृत एव । एष एव सदोदितो योगः । गन्धपुष्पादि निर्णीतम् । यथाशब्दः सहार्थे, तृतीया च तत्रैवोक्ता । परयैव हृदयरूपया पूजयेत् । कथम् । भक्त्या तादात्म्यानुप्रवेशप्रह्वतात्मना । भक्त्या स्वयंकॢप्तेन पूज्यपूजकविभागेन । पूज्यो हि स्वयं सृज्यते । स परं स्वतन्त्रचिन्मयतापरमार्थ एवानुत्तरस्वातन्त्र्यबलात्, न घटादिरिव जड इति विशेषोऽत्र । तदुक्तं श्रीप्रत्यभिज्ञायाम्

उद्धरण- स्वातन्त्र्यामुक्तमात्मानं स्वातन्त्र्यादद्वयात्मनः ।
उद्धरण- प्रभुरीशादिसंकल्पैर्निर्माय व्यवहारयेत् ॥ [ईश्वरप्रत्यभिज्ञाकारिका १.५.१६]

इति । भक्त्या च लक्षणया । पूजनेन परं तत्त्वं लक्ष्यते । सर्वक्रियास्वेवंरूपताप्रत्यभिज्ञानम्, उपायत्वात्, लिप्यक्षरस्येव मायीयवर्णव्युत्पत्तौ तस्यापि च वर्णवीर्यानुप्रवेश इव । आत्मानं निवेदयेत्, अन्यस्य निवेद्यस्याभावात् । एवं च आत्मानमेव निःशेषेण निरुत्तरपदं वेदयेत् । अनुत्तरसत्तानुसारेणात्र संभावनायां लिङ्, सततमेवंमयत्वेनैवावस्थितेरिति ह्युक्तम्, उपासानुसारेण तु नियोगादावपि ।

[प्.२७९]

एवमा समन्तात्सर्वत्र सदा यत्ख्यातं पारमार्थिकशुद्धशिवस्वरूपप्रथात्मिका ख्यातिरिति तदेव यजनम्, परभैरवसंविद्देवतायाः पूजनात्तया च तादात्म्यसम्यग्गमनरूपताकरणात्सर्वत्र च परिमितात्मीयात्मरूपस्वत्वनिवृत्त्या परिपूर्णचिद्घनशिवशक्त्यात्मकात्मीयरूपपरस्वत्वापादनात्म दानाच्च । एतदेव अग्निकार्यं सर्ववासनाबीजानां सर्वपदार्थेन्धनग्रासलांपट्यजाज्वल्यमाने शिवसंघट्टक्षोभक्षुभितपरशक्त्यरणिसततसमुदितपरभैरवमहामहसि सर्वाभिष्वङ्गरूपमहास्नेहाज्यप्राज्यप्रतापे हवनादन्तर्दाहात् । अयमेव अग्निकार्ये विधिर्दीक्षापर्यन्तोऽपि, नान्यः पृथक्कश्चिदिति तात्पर्यम् ।

स्वस्वरूपपरिज्ञानं मन्त्रोऽयं पारमार्थिकः ।
दीक्षेयमेष यागश्च क्रियेयमप्यनुत्तरः ॥

अत एव प्रागेवोक्तं यथान्यत्र मन्त्रोपासादिक्रिया उत्तरेण ज्ञानग्रन्थेनोत्तीर्यते नैवमिहेति । यदुक्तम् ’’ुत्तरस्याप्यनुत्तरम्"इति सूत्रे तदेवैतदन्तेन ग्रन्थेन निर्व्यूढं हृदयस्यैव यागदीक्षाक्रियारूपत्वात्तस्य चानुत्तरत्वात् । श्रीसोमानन्दपादैस्तु स्रुक्स्रुवसंस्कारादि सर्वंसहत्वप्रतिपादनेनाप्यखण्डितत्वाभिप्रायेण निरूपितम् । एवमादावङ्गहृद्भेदधूलिभेदाद्यपि तद्रूपं युज्यते न किंचिदत्र नाप्युपपद्यते नाप्यस्ति नाप्यधरशास्त्रपातित्वेन तदुपजीवकत्वमिति निर्णीतप्रायमेव ।

किमेवमुपासायां भवतीत्यवतरति ।


_____________________________________________________________

पर्त्रि ३३ ब्

कृतपूजाविधिः सम्यक्स्मरन् बीजं प्रसिद्ध्यति ।

_____________________________________________________________


एवमनवरतं व्यवहारेष्वपि बीजं स्मरन्नेव स्मरणादेव कृतपूजाविधिः प्रकर्षेणान्यकुलशास्त्रादिशैववैष्णवान्तशास्त्रातिरेकेणैव भगवद्भैरवभट्टारकरूपसमावीष्टो निजपरसंविच्चमत्कारवशविनिर्मितभावक्रिडाडम्बरो जीवन्मुक्त एव प्रथमोक्तनयेन भवति इत्यनुभव एवायमावर्तते न त्वन्यत्किंचिदिति स्मरणमुक्तम् । श्रीमतशास्त्रेष्वेवमेव । उपासकस्त्व् अननुप्रविष्टवीर्यसत्तासारहृदयोऽपि क्रमपूजामाहात्म्याद्बीजं संयक्स्मरन् प्राप्तहृदयाख्यतत्त्वमन्त्रवीर्यः प्रकर्षेण सिद्ध्यति क्रमपूजामाहात्म्यादेव ।

[प्.२८०]

तारतम्यातिशयात्स्वयं वा प्रसन्नगुरुभट्टारकवदनकमलाद्वा मन्त्रवीर्यं हृदयात्मकमासादयति जीवन्मुक्तश्च भवतीति यावत् । अत्र द्वारपरिवारगुरुपूजनं गुणं खण्डनां वा न वहति तत एव भट्टपादैः न्यरूपि । अत्र तु कुलपार्वाणि पवित्रं चेति सम्यक्त्वं पूजाविधेः ।

यत्रान्तरखिलं भाति यच्च सर्वत्र भासते ।
स्फुरत्तैव हि सा ह्येका हृदयं परमं बुधा ॥१ ॥
रासभी वडवा वापि स्वं जगज्जन्मधाम यत् ।
समकालं विकास्यैव संकोच्य हृदि हृष्यति ॥ २॥
तथोभयमहानन्दसौषुम्नहृदयान्तरे ।
स्पन्दमानमुपासीत हृदयं सृष्टिलक्षणम् ॥ ३ ॥
ध्यायन् स्मरन् प्रविमृशन् कुर्वन् वा यत्र कुत्रचित् ।
विश्रान्तिमेति यस्माच्च प्रोल्लसेद्धृदयं तु तत् ॥ ४ ॥
तदेकमेव यत्रैतज्ज्ञानं वैकल्पिकं परम् ।
तत्त्वानि भुवनाभोगाः शिवादिपशुमातरः ॥ ५ ॥
स्वं स्वं विचित्रमेवान्तःस्वरूपं पारमार्थिकम् ।
चित्रीकुर्वन्त एषन्ति तां चित्रं संविदं पराम् ॥ ६ ॥
दशाद्रव्यक्रियास्थानज्ञानादिष्वपि सर्वशः ।
अशङ्कयैव संक्रामः पूजास्य सततोदिता ॥ ७ ॥
क्रमपूजनमात्रं च कुलपर्वपवित्रकैः ।
सहात्र पूजने प्रोक्तं सम्यक्त्वं त्रिकशासने ॥ ८॥

यथोक्तम्

उद्धरण- द्रवाणामिव शारीरं वर्णानां सृष्टिबीजकम् ।
उद्धरण- शासनानां त्रिकं शास्त्रं मोक्षाणां भैरवी स्थितिः ॥
उद्धरण- उपासायाः समापत्तिर्व्रतानां वीरवृत्तिता ।
उद्धरण- तथैव पर्वमध्ये तु कुलपर्वाणि शासने ॥
उद्धरण- सर्वेषां चापि यागानां पूरणाय पवित्रकम् ।
उद्धरण- पवित्रकं न कुर्वन्ति चतुस्त्रिर्द्विः सकृत्तु ये ॥
उद्धरण- कुलपर्व न जानन्ति तेषां वीर्यं न रोहति ।

[प्.२८१]

इति ।

[ . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . ]

एवमनुत्तरस्वरूपं विस्तरतो निर्णीतम्, यत्र भावनाद्यनवकाशः । प्रसंख्यानमात्रमेव दृढचमत्कारलक्षणहृदयङ्गमतात्मकप्रतिपत्तिदार्ढ्यपर्यन्तम् । यत्रोपायधौरेयधाराधरन्निधत्ते सिद्धिप्रेप्सुषु तु योगो वक्तव्यः । स्वातन्त्र्यानीयमानास्वपि दृष्टयोगसिद्धिषु लौकिकप्रसिद्धिनियत्युत्तरत्वेऽपि पारमेशव्यवस्थारूपनियत्यनतिक्रमात्, यदुक्तं शिवदृष्टौ

उद्धरण- तथापि चित्रकर्मार्थमुपायो वाच्य अदरात् ।

इति । तत्रापि चानुत्तररूपस्य नास्ति खण्डना काचित्, दृष्टसिद्धीप्सायत्नसेवातदाप्तितत्फलविश्रान्त्यादेरपि परैकमयत्वात्, किं तु जीवन्मुक्तापेक्षया मन्दशक्तिपातोऽसावुच्येत अपूर्णप्रायत्वात् ।

तं योगमार्गं निरूपयितुं ग्रन्थशेषोऽवतरति ।

_____________________________________________________________


पर्त्रि ३३ द्३३ f

आद्यन्तरहितं बीजं विकसत्तिथिमध्यगम् ।
हृत्पद्मान्तर्गतं ध्यायेत्सोमांशं नित्यमभ्यस्येत् ॥ ३३ ॥

_____________________________________________________________


एतदेव हृदयबीजं दीपकाभावाद्गमागमशून्यत्वात्सततोदितत्वाच्चानाद्यन्तम् । तदेव विकसत्परिपूर्णत्वं यातम् । तिथीनं मध्यगं हृदयत्वात् । तदेव संकोचविकासधर्मोपचरितपद्मभावे कन्दे गुह्ये हृदैव ध्यायेत् । किं चास्य ध्यानमाह । सोमांशं षोडशकलात्मकं केसररूपमभितः समन्तादस्येत्क्षिपेत्परिपूर्णचन्द्रस्यास्य हृत्कार्णिकानिवेशिकलया स्वस्वद्वादशान्तगम् । पुष्पाद्युदयस्थानादाहृतामृतस्पर्शः प्रोद्यन्नादानुसारचुम्बिकालक्षणकाकचञ्चुपुटमुद्रामुद्रितः पुनस्तदुपसृतशिशिरामृतरसास्वादविकस्वरहार्दसोमप्रसरन्नादनिर्मथिथसुधापानपूरितचन्द्रमाः पुनः सूर्यकलोदयमयोऽनच्कसकारमात्रविश्रान्तो
रोमाञ्चस्तोभोत्पतनबाष्पकम्पस्तम्भाद्यनुगृहीतदेहोऽभ्यासं कुर्यादिति भट्टधनेश्वरशर्मा ।

[प्.२८२]

आद्यन्तरहितं सकारमात्रं षोडशाकारादितिथिरहितं कलाग्रासक्रमेण हृदयेऽन्तर्निक्षिपेत्नालिकाजलाकर्षणवत् ।

चलनकम्पनस्पन्दनसमाविष्टमूलाधारत्रिकोनभद्रकन्दहृन्मुखमुद्रासु युगपदेव विलम्बितमध्यद्रुततरतदतिशयादिधाराप्राप्तिवशगलितसूर्यसोमकलाजालग्रासे आद्यन्तरहितं कृत्वा ।

आद्यन्ताभ्यामेतद्बीजं मातृकापेक्षया औकारसकाराभ्यां रहितं विश्लेषणयुक्तिलब्धवीर्यपरिचयं ध्रुवं विसर्गात्मकं विकसतां पञ्चदशानां तिथीनां यन्मध्यं तिथिरहितमेव ग्रस्तकालं षोडशं ततोऽपि गच्छति यत्’’सप्तदशी कला"इत्युक्तम् ।

सोमस्य सोडशात्मकमामृतमंशं हृत्कमले ध्यायेत् । तदेव नित्यमभ्यस्येदित्यस्मद्गुरवः । तथा हि सहोमया भगवत्या संघट्टात्मकसमापत्तिक्षोभेण तत्त्वनिर्मथनात्मना वर्तत इति सोमो भट्टारकः । तस्य समग्रभवभावावयविनः परिपूर्णाहमात्मनोऽंशो नीलसुखादिः । तदेवमभ्यस्यति स्वस्वरूपावर्तनसृष्टिसंहारावर्तचक्राक्षमालिकया पुनः पुनरावर्तयतीति यत्सत्यं भाव्यते स एव एष सततोदितो हृदयजपः । संभावनायां लिङ् ।

अन्ये तु हृत्स्थानाद्द्वादशान्तान्तं यश्चारः षट्त्रिंशदङ्गुलस्तत्र सूर्यरूपतयोल्लास्य बहिरर्धतुटिमात्रं विश्रम्य अविनाश्यमृताख्य वि सर्गरूपसोमकलोदये सपादाङ्गुलद्वितयमात्रायां तुटौ तुटौ प्रत्येकं चन्द्रकलापरिपूरणे पञ्चदश्यां तुटौ पूर्णायां हृत्पद्मे पूर्णश्च भवति । अर्धतुटिमात्रं च तत्रापि विश्रान्तिः । एवं षोडशतुट्यात्मा षट्त्रिंशदङ्गुलश्चारो भवति इत्यवस्थायामाद्यन्तरहितमनस्तमितत्वात्विकसत्सु द्वितीयादिष्वन्तर्गतं सोमांशं विसर्गरूपं हृत्पद्ममध्ये विश्लिष्य सप्तदशात्मकं परिशीलनेन ध्यायन् कलाग्रासाभ्यासं कुर्याद्
इत्यादि समादिशन् । सर्वं चैतद्युक्तमेव मन्तव्यम् । अत्र चावृत्त्यानन्तं व्याख्यानं सूत्रत्वादुपपन्नमेव यत उक्तम् ’’नन्तार्थसूत्रणात्सूत्रम्"इति । ’’त्रिंशिका चानुत्तरसूत्रम्"इति गुरवः । एवं पूर्वेष्वपि श्लोकसूत्रेषु ।

[प्.२८३]

किमित्थमभ्यासे सति भवतीत्याह

_____________________________________________________________


३४

यान् यान् कामयते कामांस्तान् ताञ्च्छीघ्रमवाप्नुयात् ।
अस्मात्प्रत्यक्षतामेति सर्वज्ञत्वं न संशयः ॥ ३४ ॥

_____________________________________________________________


एवमभ्यासाद्यद्यत्कामयते तत्तदचिरादेव तथाविधसर्वमयहृदयवीर्यसमुच्छलितेच्छाप्रसरावष्टम्भविशेषबलोद्योगसंरम्भसोत्साहः पुनः पुनस्तत्स्थितिरूढिरूपाभ्यासात्प्राप्नोति । किं बहुना । सर्वज्ञत्वं परभैरवात्मकत्वमनेनैव देहेनेति सर्वमुक्त्वोपसंह्रियते । पर्यन्ते हि प्रसरस्योपसंहारे विश्रान्तिरूपाकुलसत्तासादने भैरवता इत्युक्तमसकृत् ।

सोऽयमुपसंहारग्रन्थः

_____________________________________________________________
पर्त्रि ३५

एवं मन्त्रफलावाप्तिरित्येतद्रुद्रयामलम् ।
एतदभ्यासतः सिद्धिः सर्वज्ञत्वमवाप्यते ॥ ३५ ॥

_____________________________________________________________


मन्त्राणां शास्त्रान्तरीयाणां वर्णानां च फलमेवमवाप्यते नान्यथा । इति समाप्तौ । रुद्रस्य रुद्रायाश्च यद्यामलं संघट्टो निर्विभागप्रश्नोत्तररूपस्वरूपामर्शनप्रसरादारभ्य यावद्बहिरनन्तापरिगणनीयसृष्टिसंहारशतभासनं यत्रान्तः, तदेतदकुलोपसंहृतमेवेति प्रसंख्याननिगमनम् । ’’ेतदभ्यासात्सर्वज्ञत्वम्"इति योगफलनिगमनम् । सततोदितं ह्येतत्सर्वस्येति शिवम् ।

इत्थं प्रपन्नजनतोद्धरणप्रवृत्तश्रीमन्महेश्वरपदाम्बुजचञ्चुरीकः ।
वृत्तिं व्यधात्त्रिकरहस्यविमर्शगर्भां काश्मीरिकाच्चुखलकादधिगम्य जन्म ॥१ ॥
एतावदेतदिति कस्तुलयेत्प्रसह्य श्रीशांभवं मतमनर्गलिताश्च वाचः ।
एतत्तु तावदखिलात्मनि भाति यन्मे भातं ततोऽत्र सुधियो न पराङ्मुखाः स्युः ॥ २ ॥
अज्ञस्य संशयविपर्ययभागिनो वा ज्ञानं प्रकम्परहितं प्रकरोति सम्यक् ।
रूढस्य निश्चयवतो हृदयप्रतिष्ठां संवादिनीं प्रकुरुते कृतिरीदृशीयम् ॥३॥

[प्.२८४]

एतावदर्थरससंकलनाधिरूढो धाराधिरूधहृदयो विमृशेदतोऽपि ।
यद्युत्तरं तदपि नैव सहेत नेदं सोपानमेतदमलं पदमारुरुक्षोः ॥४॥
कस्मीरेषु यशस्करस्य नृपतेरासीदमात्याग्रणीः श्रीमान् वल्लभ इत्युदाहृततनुर्यः प्राग्र्यजन्मा द्विजः ।
तस्य स्वाङ्गभवः प्रसिद्धिपदवीपात्रं समग्रैर्गुणैः श्रीशौरिः शिशुचन्द्रचूडचरणध्यानैकरत्नाकरः ॥५॥
शीलस्यायतनं परस्य यससो जृम्भास्पदं नर्मभूर्वात्सल्यस्य समग्रलोककरुणाधर्मस्य जन्मस्थितिः ।
श्रीमद्वत्सलिकाभिधा सहचरी तस्यैव भक्त्युल्लसत्प्रोद्रिक्तान्तरवृत्ति शङ्करनुतौ यस्या मनो जृम्भते ॥६॥
तस्यैवात्मभवो विभावितजगत्सर्गस्थितिः शङ्करध्यानार्चापरिचिन्तनैकरसिकः कर्णाभिधानो द्विजः ।
यो बाल्येऽप्यथ यौवनेऽपि विषयासक्तिं विहाय स्थिरामेनामाश्रयते विमर्शपदवीं संसारनिर्मूलिनीम् ॥७॥
भ्राता ममैव शिवशासनरूढचित्तः प्रेप्सुः परात्मनि मनोरथगुप्तनामा ।
यः शास्त्रतन्त्रमखिलं प्रविवेक्तुकामः प्राप्तुं परं शिवपदं भवभेदनाय ॥ ८॥
शिवशास्त्रैकरसिकः पदवाक्यप्रमाणवित् ।
रामदेवाभिधानश्च भूषितोत्तमजन्मकः ॥ ९ ॥
एतत्प्रियहितकरणप्ररूढहृदयेन यन्मया रचितम् ।
मार्गप्रदर्शनं तत्सर्वस्य शिवाप्तये भूयात् ॥१०॥
अन्तर्वेद्यामत्रिगुप्ताभिधानः प्राप्योत्पत्तिं प्राविशत्प्राग्र्यजन्मा ।
श्रीकाश्मीरांश्चन्द्रचूडावतावैर्निःसंख्याकैः पावितोपान्तभागान् ॥११॥

[प्.२८५]

तस्यान्ववाये महति प्रसूताद्वराहगुप्तात्प्रतिलब्धजन्मा ।
संसारवृत्तान्तपराङ्मुखो यः शिवैकचित्तश्चुखलाभिधानः ॥१२॥
तस्माद्विवेचितसमस्तपदार्थजाताल्लब्ध्वापि देहपदवीं परमेशपूताम् ।
प्राप्ताभयोऽभिनवगुप्तपदाभिधानः प्रावेसयत्त्रिकसतत्त्वमिदं निगूढम् ॥१३॥
ये तावत्प्रविवेकवन्ध्यहृदयास्तेभ्यः प्रणामो वरः केऽप्यन्ये प्रविविञ्चते न च गताः पारं धिगेताञ्जडान् ।
यस्त्वन्यः प्रविमर्शसारपदवीसंभावनासुस्थितो लक्षैकोऽपि स कश्चिदेव सफलीकुर्वीत यत्नं मम ॥१४॥
स्वात्मानां प्रविवेक्तुमप्यलसतां ये बिभ्रति प्रार्थना तान् प्रत्यात्मकदर्थनान्न परतः किंचित्फलं सोष्यते ।
विश्वस्यास्य विविक्तये स्थिरधियो ये संरभन्ते पुनः तानभ्यर्थयितुं मयैष विहितो मूर्ध्ना प्रणामादरः ॥१५॥
भ्राम्यन्तो भ्रमयन्ति मन्दधिषणास्ते जन्तुचक्रं जडं स्वात्मीकृत्य गुणाभिधानवसतो बद्ध्वा दृढं बन्धनैः ।
दृष्ट्वेत्थं गुरुभारवाहविधये यातानुयातान् पसून् तत्पाशप्रविकर्तनाय घटितं ज्ञानत्रिशूलं मया ॥१६॥
बहुभिरपि सोऽहमेव भ्रमितस्तत्त्वोपदेशकंमन्यैः ।
तत्त्वमिति वर्णयुगमपि येषां रसना न पस्पर्श ॥१७॥
परमेश्वरः प्रपन्नप्रोद्धरणकृपाप्रयुक्तगुरुहृदयः ।
श्रीमान् देवः शंभुर्मामियति नियुक्तवांस्तत्त्वे ॥१८॥
तत्तत्त्वनिर्मलस्थिति विभागिहृदये स्वयं प्रविष्टमिव ।
श्रीसोमानन्दमतं विमृश्य मया निबद्धमिदम् ॥१९॥

[प्.२८६]

हंहो हृच्चक्रचारप्रविचरणलसन्निर्भरानन्दपूर्णा देव्योऽस्मत्पाशकोटिप्रविघटनपटुज्ञानशूलोर्ध्वधाराः ।
चेतोवाक्कायमेतद्विगतभवभयोत्पत्ति युष्मासु सम्यक्प्रोतं यत्तेन मह्यं व्रजत किल हृदि द्राक्प्रसादं प्रसह्य ॥२०॥
व्याख्यादिकर्मपरिपाटिपदे नियुक्तो युष्माभिरस्मि गुरुभावमनुप्रविश्य ।
वाक्चित्तचापलमिदं मम तेन देव्यास्तच्चक्रचारचतुरस्थितयः क्षमध्वम् ॥ २१॥

समाप्तमिदं परत्रिंशिकातत्त्वविवरणम्

शतैरेकोनविंशत्या त्रिंशिकेयं विवेचिता ।
सर्वेषु त्रिकशास्त्रेषु ग्रन्थीर्निर्दलयिष्यति ॥

कृतिरभिनवगुप्तस्य