पद्मिनीपरिणयः/प्रस्तावना

विकिस्रोतः तः
               




   


॥ श्रीः ॥

श्रीविखनसगुरुभ्यो नमः

श्रीसुन्दरराजकविजीवितसङ्ग्रहः

श्रीवरदराजसङ्कलितः ।

श्रीमत्सुन्दरराजसूरिचरितप्रख्यापनायोत्सुक-
स्तद्भ्रातृव्यतनूभवो वरदराजाख्यस्तदन्ते वसन् ।
तत्पादाम्बुजयुग्ममेव कलयन् स्वान्ते करोत्युद्यमं
श्रीवैखानसपार्थसारथिसुहृद्वर्येण सम्प्रेरित: ॥

इत्थम् अतीतेपु बहुषु वत्सरेषु अनन्तशयनसंस्थानन्तर्गते इलत्तूराख्याग्रहारे

आसीदत्र कुले सुधीर्वरदराजाख्यस्स कृष्णाम्बया
सत्या सद्गृहिधर्ममार्गनिरतो भैषज्यशास्त्राध्वरी ।
तस्यासन् गुणिनस्सुताः सहृदया अष्टौ तथा कन्यका
काचिताभिरयं प्रजाभिरामता-प्रीतिं दधौ शोभनाम् ॥

यो जातोऽध्वरिगट् पुरा स भुवने भूयोऽपि कृष्णाम्बिका-
गर्भालङ्करणो भवन् प्रथमतो जज्ञे धरण्यां पुमान् ।
कोल्लम्बे वरषोडशोत्तरसहस्राब्दे प्लवाख्येऽर्कदै-
वत्ये भेऽस्मदुदारभाग्यपरिणामो लोकपुण्यांशतः ॥

वार्तां विदन् शङ्करसुब्बनामा कार्तान्तिकः पुत्रजनेः स्वसख्युः ।
सद्यो मुदा संसदि जातमेनं हृद्यं कवीन्द्रं भवितारमूचे ॥

 अथ सुधीः सुन्दरराजतनुजन्मा वरदराजः सत्सन्तानोत्सवे व्रीहिदानादिभिर्भूसुरानानन्दयन् यथाविधि च जातकर्मोत्थाने समाचरन् सुसमय एनं वैष्णव्या पैतामह्या च शुभया आख्यया आह्वापयामास । ततः क्रमेण समेधमानमेधाधिलासं विजृम्भमाणतत्तत्कालीनलीलाविनोदं सर्वजनस्पृहणीयसर्वाङ्गसुन्दरं हृद्यसत्त्वोज्ज्वलन्मुखारविन्दं सुकुमारं कुमारं श्रीविखनोमुनीन्द्रमतमनतिक्रम्यान्नप्राशनादिभिस्समेधयामास । अयं वरदराजात्मजः श्रीमान्

आबाल्यत: सर्वमनोहराभिर्गीर्भिस्सदा रञ्जितसर्वलोकः ।
प्राप्यादिमं स्वाश्रममुज्ज्वलन्त्या ब्रह्मश्रियाऽऽचार्यवरं सिषेवे ॥

 अथ नवमे वयसि वर्तमानं निजात्मजं श्रीवरदार्थः श्रीमदनन्तशयनसंस्थानपण्डितवरेण्य श्रीपरदेवताकरुणापरिणाम श्रीरामस्वामिशास्त्रिणः सन्निधिं प्रापय्य तं महात्मानमर्थयामास तस्य काव्योपदेशाय । स पण्डितसार्वभौमस्तमेनमन्तेवासिपदेऽङ्गीकृत्य सद्यस्सुसमये श्रीरामोदन्तकाव्यपठनायाज्ञप्य 'वागर्थावि' वेति प्रथमः कालिदासीयमङ्गलपद्यं पाठयित्वा ‘वत्स! श्लोकपठनात्परं पदविभागः कर्तव्यः, उच्यता’ मिति । गुर्वाज्ञानुपदमेव अस्मत्सुन्दरराजसुधीवरेण्यः 'ज्ञातं ज्ञातं, वागर्थावि' वेति स्वयमेव पदविभागमकरोत् । तदानीं श्रीरामस्वामिशास्त्रिकविमणिः सञ्जातविस्मयः ‘ननु महाभाग वरदराज सखे ! सुप्रजा असि । मामेवैनं निश्चनु । अयं मदीयान्तेवासी

कविचक्रवर्ती भविष्यति इति सकरघोषमाघोषयति स्म । तदारभ्य काव्यनाटकालङ्कारादीन् श्रीमच्छास्त्रिसन्निधावभ्यस्यन् अन्तरान्तरा स्वसूत्रस्वशाखास्वागमादीन् पितृमुखेनाधीयानः पञ्चदशे वयसि सर्वशास्त्रमर्मवेदी कांश्चिच्छ्लोकानपि रचयितुमारेभे ।

 अथ श्रीमतः इलतूर् रामस्वामिशास्त्रिणः श्रीमदनन्तशयनसंस्थानाधिप श्रीविशाखमहाराजसन्निधाने वसन्तः श्रीकेरलवर्मदेवादीन् शास्त्राण्यध्यापयन्तः स्यानन्दूरनगरे चिरायन्ति स्म । तदानीं खलु श्रीसुन्दरराजाचार्यः समयवैयर्थ्यं किञ्चिदप्यसहमानः पितरमनुज्ञाप्य प्रस्थितः पादचार्येव वसुतातनगरीं प्राप्य तत्र तत्संस्थानमहापण्डितं कविकेसरिबिरुदाङ्कितं श्रीमन्तं स्वामिदीक्षितवरेण्यं प्राप्य व्याकरणशास्त्राभ्यासाय तमर्थयन्ववन्दे । तेन महात्मना 'तथे' त्यङ्गीकृतः सानन्दम् । स कविराडस्य मेधायै स्पृहयालुस्सत्स्वपि बहुषु शिष्येषु विशिष्यैनं कृपया संवर्धयन् तदेकपरायणोऽभूत् । स पण्डिताग्रणीः वल्लीपरिणयाग्ल्यं चम्पुकाव्यं रचयन् तल्लेखनायैनं नियुयुजे । अथ मेधावी सुन्दरराजस्तदविज्ञातमेव वल्लीपरिणयस्य काञ्चिन्मनोज्ञां व्याख्यां निर्मायानन्तरं गुरुसन्निधौ विज्ञापयामास । स दीक्षितवरेण्यस्तदाकर्ण्य महानन्दाब्धिमग्नः परिष्वज्यैनं ‘वत्स! उत्तरोत्तरं वाग्विलासो भूयाते । त्वमेवाहमहमेव त्वं’ इति बहधोद्घुष्य व्याख्यया तया सह वल्लीपरिणयं मुद्रयामास । तदारभ्य तत्संस्थानपण्डितसभायां स्वस्थाने एनमप्यारोपयामास । तदानीं तत्र महीपालपदमारूदः बहुभाषावेदी महाराजराजपूजितः वेङ्कटेश्वर एट्टप्पमहाराजः श्रीमतोऽस्मदाचार्यादलङ्कारशास्त्रमभ्यस्य अद्यापि तत्र शास्त्रे अद्वितीयो विराजते । तदारभ्य तत्संस्थानमहीपतीनां तद्राजवंश्यानां चायं सुधीर्नेत्रायते स्म ।

 रजभिर्बहुधा पीतवसनकटकादिभिस्सम्मानितस्तत्र वसन् एकविंशे वयसि निजानुरुपया श्रीवेङ्कटलक्ष्मीनाम्न्या सुरूपाया द्वैतीयीकाश्रममारुरोह ।अचिरात्कन्यकामणिञ्च लेभे ।

 तस्यानुजातानां नामानि । श्रीकृष्णः, शेषाद्रिः, लक्ष्मीनारायणः, रामः, वासुदेवः, लक्ष्मीः, श्रीनिवासः, वेङ्कटाचलः इति । एतेषु द्वितीयः तुरीयः पञ्चमस्सप्तमश्च एकैकशास्त्रेषु निपुणाः तत्र तत्र राजपण्डिताश्चासन् । अन्ये लोकविज्ञानचतुराः धनधान्यपोषणचणाः सर्वेऽप्यग्रजाज्ञां शिरसा वहन्तः ऐकमत्येन स्वस्वदारादिभिः अस्मिन्नेव एकगृहे सुखिनोऽवसन् ।

इत्थं भुवनविख्यातः श्रीसुन्दरराजाचार्यः पित्रोपदिष्टं श्रीमारुतिमन्त्रं विधिवज्जपन् अतित्वरितमेव पवननन्दनकरुणालहरीसंवर्धितः सीतालक्ष्मणहनुमत्समेतं श्रीरामचन्द्रविग्रहं भक्त्या परमया यथाविध्याराधयति स्म । श्रीमान् पावमानिरेतदाराधनसन्तर्पितः स्वप्ने जागरे दीपज्वालायां वाऽऽविर्भूयास्मै कालत्रयवार्तां साक्षान्निगदति स्म । भूतप्रेतादयः सुन्दरराजाचार्यनामश्रवणमात्रेण पलायन्तेस्म । इत्थं द्वितीयमिव कालिदासं सुधीवरेण्यं पार्थसारथिनामा कश्चित्(कलेक्टर्) प्रभुः श्री शङ्करालयनिकेतनः एट्टयापुरीनाथाय निवेद्य संस्कृतभाषाभ्यासाय स्वनिकटमानीय द्वित्रिवर्षाण्यभ्यस्यन् गैर्वाणीभाषायामतिनिपुणः कविरप्यासीत्।

कदाचित्प्रभुनिकटात्स्वपुरीं प्रति प्रस्थितः अनुजलक्ष्मीनारायणसहितः आरूढशकटोऽस्मदाचार्यः मध्येमार्गं निशीथिनीप्रथमयामे चोरैरावृतेऽनसि, शाकटिके पाचकं च वेपमानाङ्गे, अञ्जनानन्दनं साञ्जलि प्रार्थयति स्म । सद्यश्शकटं परितः दीपदण्डचतुष्टयमदृश्यत परमोज्ज्वलम् । सद्यः पलायिताश्चोराः । दृतं प्रचलितं शकटम् । दीपदण्डा नैनाग्रहारावध्यदृश्यन्त । तत्रान्तर्हिता अभवन् । स्वपुरं प्राप्य महात्मा अनुगतैर्वृत्तमेतदद्भुतं बन्धुभ्योऽकथयत् । सर्वेऽप्याकर्ण्यानन्दाब्धौ मज्जन्ति स्म ।

इत्थं भुवनभागधेयपरिणामाऽस्मदाचार्यवर्यप्रभावं कर्णाकर्णिकया निशम्य श्रीशालिवाटीनगरप्रधानप्राङ्विवाकवरेण्यः मूर्तिमानिव सुगुणसमुदायः औदार्येऽद्वितीयः बहुभाषावेदी कीर्तिमदग्रेसरः श्रीकृष्णस्वामिशर्मा प्रभुमणि: स्वनगरीमेनमानाय्य देवभाषावर्धनायाऽऽचार्यं वव्रे । तं सुधीरङ्गीकृत्य शिष्यपदे अचिरादेवान्तेवासिनं सर्वशास्त्रमर्मवेदिनं चक्रे । तत्र निवसन्नेव कविमणिः श्रीकृष्णार्याशतकं श्रीरामभद्रविजयचम्पुकाव्यं श्रीवैदर्भीवासुदेवनाटकं च प्रणिनाय । एते ग्रन्थाः निर्माणानुक्षणमेव श्रीकृष्णस्वामिप्रभुवरेण मुद्राप्य प्रख्यापिताः । तदन्तरा प्रभुमणिरयं स्वयं प्रश्नोतररामायणं बालनीत्याख्यग्रन्थद्वयञ्च निर्मायास्मत्कविमणिना परिष्कृत्य मुद्रितवान् । किञ्च स्वायत्तैः राजभिः प्रभुवरेण्यैश्च महात्मानमेनं बहुमानयामास ।

एवं शालिवाटीपुरी शाखानगर कैलासपुरमधिवसति वरदराजनन्दने श्रीलक्ष्मीराज्ञीप्रियनायकः श्रीकेरलवर्मदेवः कविकुलसार्वभौमः श्रीकंसवदाख्यं चम्पुकाव्यं निर्माय स्वप्रियमित्रमणये श्रीकृष्णस्वामिप्रभवे प्रैषयत् । तद्विज्ञायास्मदाचार्यः तस्य व्याख्यां काञ्चिन्निर्माय स्वान्तेवासिने ज्ञापयामास । स तु तदैव सामोदं व्याख्यया तया सह ग्रन्थवरं केरलवर्मदेवाय भूयो व्यजिज्ञपत् । स कुशाग्रवार्देवः निरीक्ष्य व्याख्याचातुर्यं सद्यः प्रहर्षातिशयेन स्वसंस्थानान्तर्गताय सुन्दरकवये महान्तं पारितोषिकं प्रादात् । अपि च निजोत्तममैत्रीसाम्राज्यनिरूपकपत्रिकारत्नेन सहानतिचिरादेव नागरलिपिमुद्रितकंसवधचम्पुकाव्यस्य शतं पुस्तकानि च प्रेषयामास ।

एवमतीतेषु द्वित्रवत्सरेषु चेन्नपट्टणनिवासी तिरुनेल्वेलिजिल्ला कलेक्टर् पदवीविराजमनः आनरबुल् रामराव् तनूभवः वरदरायाभिख्यः द्वाविंशवयस्कः कश्चित् प्रभुमणिः श्रीकृष्णस्वामिप्रभुदर्शनायागत्य तत्र सम्भाषणावसरे सन्निहितं कवीन्द्रं स्वस्य गीर्वाणभाषापोषणायार्थयामास । तदर्थनां 'तथे'त्यङ्गीकृत्य न्यवेदयद्गुरवे । गुरुमणिस्तमूरीकृत्य शिष्यपदे बहु वरदरायसमाराधितः तेन प्रभुणा तत्र तत्र सञ्चरन् तस्य पाश्चात्यमतानुसारेण स्वमतानादरतां विज्ञाय स्वसन्निधिमहिम्ना अचिरादेव तमुत्तमवेदवित्तमं स्वमतवर्धनोद्युक्तं संस्कृतभाषासारज्ञं कविमणिं भगवदारधननिरतञ्च कारयामास । एवं परमधार्मिकभूतस्वकुमारवरदरायालोकनाय स महात्मा रामरायस्समागत्य वीक्ष्यैतादृशं पुत्ररत्नं परमानन्दमग्नः सन्निहितमाचार्यं प्रति ‘ननु सुन्दरराज कविराज ! अस्मत्कुलमुद्भूतं त्वयैव' इति प्रणम्य बहुधा स्तुत्वा सकुमारं शास्त्रिवरेण्यं चेन्नपुरीं नयन् तत्र बहुधा सम्मानयामास । तदन्तरा कविमणिरचितं हनूमद्विजयनाटकञ्च आन्ध्रलिपिभिः मुद्रापयामास ।

तत्र मासमेकं चिरायति कविसिंहे कदाचिद्वरदरायप्रभु: स्वजनन्यास्वप्रियकान्तायाश्च अचिरादकारणविग्रहं आचार्याय विज्ञाप्य एतन्निरूपकः कश्चिद् ग्रन्थोऽवश्यं कर्तव्य इति सम्भाषणान्तरे जगाद । तदा उदासीन इव कविमणिः दिनद्वयादर्वागेव स्नुषाविजयाख्यं बहुलोकपरिज्ञाननिरूपकं नाटकं निर्माय प्रभवे न्यवेदयत् । स महाविस्मयानन्दपरवशः स्वपित्रादिभिस्सह समग्रं रूपकमाकर्ण्य गुरोस्सर्वज्ञतां तत्र तत्र प्रख्याप्य क्षिप्रं ग्रन्थलिपिभिः मुद्राप्य स्नुषविजयरूपकं उपचकार भुवनमण्डलाय ।

अथ स्वपुरीं प्राप्य गुरुः कञ्चित्समयं वसन् पद्मिनीपरिणयाख्यं नाटकमिदं नीतिरामायणाख्यं श्रीरामभद्रस्तुतिशतकाख्यञ्च ग्रन्थद्वयमरचयत् ।

तदानीमनन्तशयनसंस्थाने श्रीविशाखमहाराजतुलाभारमहोत्सवः प्रवृत्त: । तत्र रामस्वामिशास्त्रि केरलवर्मदेवादिभिः पत्रमुखेनाहूतः श्रीमदाचार्यः स्यानन्दूरपुरीं प्राप्य तत्र राजकीयप्रभुभिर्गुरुभिश्च बहुधा सत्कृतः प्राप्योत्तमसम्भावनां श्रीवञ्चिराज्ञीप्रियतममुखेन साक्षान्महाराजदर्शनायायतत । राज्ञा चाङ्गीकृतकेरलवर्मदेवनिवेदनेन निजदर्शनाय निर्दिष्टघण्टायां राजदूतैराहूतः गुरुमणिः प्रासादमारुह्य एकान्तवर्तिनं केरलचक्रवर्तिनं समर्यादं सविनयं प्रतीक्षमाण आस्त । सद्यो नृपालकविमणिः भावुकप्रश्नात्परं 'ननु कविमणे !

'दधार मूर्ध्ना गिरिशं शशाङ्कः'

इति समस्यामदात् । राजाज्ञोत्तरक्षण एव सुंदरकविरुत्थाय

'पुरा पुराणां त्रितयं विजेतुं हरे समारुह्य महीरथाङ्कम् ।
सूर्येन्दुचक्रं कुतुकात्प्रयाति दधार मूर्ध्ना गिरिशं शशाङ्कः'॥

इति समस्यामापूर्य विज्ञापयामास । राजेन्द्रः अतिसमीचीनमिति स्वाशयप्रकाशकसमस्यापूरणं सशिरःकम्पमुररीकृत्य सत्वरं सर्वाधिकारिसमानीतोत्तमकटकपीतवसनादिभिः स्वयमेव कविमणिमलङ्कृत्य एकविंशतिनिष्कप्रमाणसुवर्णद्रव्यादिभिश्च सत्कृत्य स्वमैत्रीमजहतं प्रतिश्रुत्य वार्षिकसत्कृतिञ्चोपसृत्य सादरं स्ववासनिकेतनाय अनुमन्यते स्म ।

राजप्रासादात्कविमणिसमागमं प्रतीक्षमाणाः श्रीरामस्वामिशास्त्रिगुरुमणि (जड्जि) प्राड्विवाक सीतारामप्रभुवर केरलवर्मदेवादयः सकरावलम्बं सुन्दरराजसूरिं सम्मानयन्तः कविमणिकृतसमस्यापूरणपरिपाटीञ्च शृण्वन्तः सकरघोषं श्लाघमाना मुमुदिरे ।

अथ कविराजः यथार्हं प्राप्तसम्मानेन लक्ष्मीनारायणाख्यकनिष्ठसहोदरेण स्वपुरीं प्राप्याववर्तत सुखी ।

पश्चात् कृष्णस्वामिप्रभुप्रहितपत्रिकया रामनाथपुरसंस्थानं प्राप्य तत्र महात्मना सेतुपति महाराजेन श्रीकृष्णस्वामिप्रभुसाचिव्येन प्रवर्तिते श्रीनवरात्रमहोत्सवे नानादिग्भ्यः समागतनां नानाशास्त्रप्रवीणविद्वन्मणीनां परीक्षाधिकारिपदे समादिष्टः सादरमस्मदाचार्यवरेण्यः । तत्र च तदा समागताः सुधीमणयः तत्र तत्र शास्त्रे कविमणिना परीक्षिताः राज्ञा यथार्हं बहुमानिताश्चाभूवन् । तदा हि दैवज्ञा अमुं वराहमिहिरं शास्त्रप्रवीणं अथ ज्योतिर्भूषणं द्वाशात्मानं, आलङ्काकारिकाः दीक्षितमथ रससारं जगन्नाथं, वैयाकरणाः नागेशं अथ शब्दब्रह्माणं पतञ्जलिं, आगमज्ञा सुन्दरराजं अथ वृषधररसिकं श्रीनिवासं, नीतिविदो भाष्यकारं, गायकाः तन्मर्मज्ञं, मन्त्रज्ञा मन्त्रमूर्तिं, मतसूक्ष्मदर्शने बोधने वा वाचस्पतिं, समाघोषयन्तः अनुमोदन्ते स्म । एवमापरिसमाप्तेर्नवरात्रमहोत्सवस्य तत्र वसन् महात्मा कस्यांचिद्रात्यां तत्र महासभायां निजविरचितश्रीवैदर्भीवासुदेवनाटकद्वितीयतृतीयाङ्कप्रसङ्गेन सर्वान् जनान् सम्मोदाम्भोनिधौ न्यमज्जयत् । तदा सर्वज्ञकेसरिणा सेतुपतिमहाराजेन निजनामाङ्कनप्रत्युप्तगारुत्मताश्मना कटकेन सोत्तरीयोत्तमपीताम्बरेण रूपिकापञ्चशत्या च बहुमानितोऽजनि । तथा यथायोगं लक्ष्मीनारायणसुधीश्च । अथ सुधीविश्लेषासहेन महाराजेन कृच्छात् कृतनिदेशः कृष्णप्रभुणा च दत्तानुमतिः निजनगरीं कुशली प्राप । अथ स्वग्रामे प्रतिष्ठितकृष्णालयं पलालच्छन्नं प्रस्तरसुधेष्टकादिभिः स्थिरीचिकीर्षुः तत्र प्रयतमानः अचिरादेव स्वार्जितद्रव्यैः भगवदालयकैङ्कर्योद्योगं यथायोगं समापूर्य तत्र सोत्सवबिम्बाचार्यविग्रहप्रतिष्ठाञ्च कुर्वन् आत्मनः कृतकृत्यतामापादयामास ।

तदानीं खलु विक्टोरिया चक्रवर्तिन्याः षष्ट्यब्दपूर्तिमहोत्सवः सर्वतः प्रवृत्तः । महोत्सवे षेङ्कोट्टै नगर महासभायां सुधीवरेण्यैः कृतो लोकोत्तरः प्रसङ्गः । तदा कविमणिकृतप्रसङ्गदिवाकरप्रभासु सभायु सर्वत्र अन्येषां वाग्धोरणी दिनदीपायते स्म । अथ द्वित्रदिनेभ्यः परं शालिवाटी-

नगरीं प्रति स्वीयानसा प्रस्थिते भक्ताग्रेसरे त्रियामाष्टमघण्टायां पावूर्नगर निकटमनुप्राप्ते पाटच्चराः त्रयः शकटं परीत्य सन्तर्ज्य सारथिं स्थिताः । अथ सम्भ्रान्ताः सर्वे साधुमुख्यसमीपे त्यक्तस्वाधिकाराः स्तम्भवत् निश्चलास्तिष्ठन्ति स्म । तदा खलु महानयं आञ्जनेयः सहाय इति उत्थायावतीर्यानसः 'मा भैष्टे'ति स्वीयान् समाधाय स्वयमेव अवमुच्य कर्णभूषणे पेटिकान्तस्थैककविंशतिंरूपिकाः शङ्कराचार्यसम्मानितपीतवसनपट्टञ्च चोरेभ्योऽदात् । सर्वं सविनयं गृह्णन्तस्ते पूजापेटिकायाः श्रीरामचन्द्रविग्रहमपि गृहीत्वा पलायनप्रवृत्ताः अनतिदूरे पुरतः भीमं किञ्चिद्रूपं साक्रन्दमालोक्य तदा वेपमाना ‘नास्मान् जहि ! नास्मान् जहि ! सर्वं भूयो भक्ताग्रगण्याय समर्पयामः, समस्तापराधान् क्षमस्व' इति प्रार्थयन्तः पुनरपि शकटान्तिकमागताः भगवद्विग्रहादर्शनमात्रखिन्नसुधीपुङ्गवचरणयोस्साष्टाङ्गं नमन्तः 'स्वामिन् सर्वं पुनः गृह्यतां अस्मानाशिषा योजयस्व । रक्ष रक्षास्मान् अन्तिकस्थभीमरूपा'दिति घुष्यन्त: विग्रहादिकं दिशन्तः पथि परीत्यावर्तन्त । विखनकुलीनभागधेयभूतोऽसौ तान् करुणार्द्रदृशा पश्यन् विग्रहमात्रं स्वीकृत्य अन्यत्तेभ्यो वितीर्य ताननुगृह्णन् सानन्दं प्रेषयित्वोद्दिष्टनगरीं प्राप्य कृष्णस्वामिप्रभवे त्रियामावृत्तं कथयामास । प्राड्विवाकाग्रिमः विस्मयाविष्टः उत्तमभक्ताग्रिमप्रभावं स्वतस्सिद्धौदार्यगुणञ्च सर्वलोकविख्यातमकरोत्पत्रिकामुखेन । कार्यगौरवेण भूयस्स्वनगरमाजगाम कविमणिः ।

आचार्यवर्यः पञ्चाशता वयसा पूर्णोऽभूत् । तथा हि । वैखानसकुलोद्धारणे निरन्तरजागरः शमादिगुणगणभूषणः धरातलं पुनरवतीर्णो विखनोमुनिरिवोज्ज्वलवपुर्वैदिकेनसुपथा सञ्चरमाणानां सुलभसमीचीनमार्गदर्शीं सततं वासुदेवसङ्कीर्तनेन वासुदेवभट्टाचार्य इति विख्यातः तञ्जै-संस्थानान्तर्गत-कोनेरिराजपुरी-निकेतनः श्रीरघुनाथभट्टाचार्यः चिरं श्रवणपथसञ्चरमाणकीर्तिमात्राकर्णनकौतुकाविष्टः श्रीसुन्दरराजुकवीन्द्रालोकनाय पत्रलिपुरीं (इलत्तूर्) आगत्य स्वागमेनावत्यान् पावयति स्म । उभौ विखनःकुलीनमणी अन्योन्यदर्शनानन्दसुखमन्वभूताम् । अथ स्वमतोद्धरणबहुलश्रद्धौ ज्ञानवयः कलाकीर्तितेजोऽभिवृद्धौ तालपत्रमात्रवर्तिस्वमतग्रन्थमुद्रणाय प्रवृत्तौ एतौ भक्तौ नानादेशेभ्यः प्रत्नश्रीवैखानसग्रन्थरत्नानि समानीय काकलेषु विलिख्य विशदमारोपयामासतुर्मुद्रायन्त्रे । अचिरादेव प्रकटयामासतुश्च तत्र तत्र । इतः पूर्वं प्रयतनाभावाद्विखनःकुलीनभवनपेटिकासु निद्रितेषु श्रीमत् दीक्षितीय श्रीवैखानसमहिममञ्जरीमोक्षोपायप्रदीपिका प्रभृतिषु बहुषु ग्रन्थवर्येषु तदा हि श्रीवासुदेवभट्टाचार्यसाह्येन श्रीसुन्दरराजसुधीवर्येण परिष्कृत्य मुद्रितेषु तदैव श्रीवैखानसकल्पलतिका कुसुमितेवासीत् । अथ परतत्त्वनिरूपणशास्त्रवैयासिकवेदान्तशास्त्रभाष्यकरिषु विहितलोकोपकारेषु श्रीशङ्करगुरुवर्यादिषु महामहिमसु गणनीयेन श्री श्रीनिवासदीक्षितेन्द्रेण सर्वतन्त्रपरतन्त्रेण श्री श्रीनिवासापरावतारेण सानुग्रहं विरचितस्य श्रीलक्ष्मीविशिष्टाद्वैतभाष्याभिधानश्रीवैखानसमतानुयायिवैयासिकसूत्रभाष्यस्य तत्र तत्र गभीरगृढाशयप्रकाशिकां निगमचूडादर्पणाख्यां काञ्चिद्व्याख्यां निर्माय

सुन्दरकविसार्वभौमः एतन्मुद्रणाय प्रवृत्तः नानादेशेषु सञ्चरन् श्रीवेङ्कटगिरिप्रभृतिषु महापुरीषु सम्मिलितासु विद्वत्सभासु श्रीश्रीनिवासदीक्षितीयभाष्याशयं गर्भचक्राङ्कनमहिमानञ्चाघोष्य तादात्विकसर्वशास्त्रमर्मवेदिभिर्निगमागमप्रवीणैः वेदान्तार्णवनिष्णातैः सहृदयशिरोभूषणैः श्रीवैष्णवस्मार्तसम्प्रदायप्रवर्तकैर्बहुभिः सुधीमणिभिः सामोदं वितीर्णबहुविधानुमोदनगद्यपद्यप्रकटीकृत समेधमानमेधाविलासः श्रीवेङ्कटगिरिमारुह्य तत्र पद्मासहायचरणनलिनसेवया सार्थयन्नात्मानं तदाराधनपरमभागधेयभावितात्मभिः श्री श्रीनिवासदीक्षीतसत्कुलीनश्रीशेषाद्रिदीक्षितप्रभृतिभिः सत्कृत: महात्मभिस्तैर्लक्ष्मीविशिष्टाद्वैतभाष्यमुद्रणाय सद्यःसमर्पितरूपिकासहस्रः तदानीमेव वासुदेवार्येण चेन्नपुरीं प्राप्य आन्ध्रग्रन्थलिपिद्वयेन कलेक्टर्-वरदराजान्तेवास्यनुमतेन सहसा मासदर्वागेव श्रीभाष्यं निरवद्यं मुद्राप्य सानुमोदनं सर्वत्र प्रख्याप्य पूर्वं कुसुमितां श्रीवैखानसकल्पलतिकां सञ्जातबहुपक्वफलां सर्वलोकस्पृहणीयाञ्च सम्भावयन् कवितासाम्राज्यसिंहासनमारुह्य बाभाति स्म विजयी नितराम् ।

इत्थं समुद्धरन् स्वकुलीनान् विविधग्रन्थमुद्रणेनास्मदाचार्यवरेण्यः अथ कविरत्नावलोखनि स्वपुरीं प्राप्य अचिराद्वयसा षष्टितमेन पूर्णषष्टिहायनगजराजवत् सम्मदश्रीविराजमानः सम्मन्त्र्य सहजातैः श्रीकृष्णमन्दिरप्रतिष्ठित श्रीविखनसाचार्यसन्निधौ श्रीभगवदाराधनरुपेण प्रपदनरूपेण च षष्ट्यब्दपूर्तिमहोत्सवं निर्वर्त्य अन्नदानस्वर्णदानादिभिः सन्तोष्य भूसुरान् सर्वत्र धन्योऽभूत् ।

एवं हि षष्ट्यब्दपूर्तेः परं वर्षत्रयादर्वाक् नैजजन्मप्रयोजनैः पूर्णोऽसौ चिरादविभक्तान् स्वसोदर्यसहृदयान् यथार्हं स्वीयार्जितपशुगृहारामकेदारधनकटकवसनादिभिः साधु सन्तोषयन् तदारभ्याजस्रं समुल्लसमाननैजमानसारविन्दे प्रतिष्ठाप्य परमात्मानं परमानन्दभरितः समर्प्य नैजभरं सर्वस्वामिने पुरतश्च तादृग्रूपप्रादुर्भावमेव भावयन् जीर्णां त्वचमिवोरगः स्वेच्छया पाञ्चभौतिकतनुत्यागाय जातामोदः उतमसमयप्रतीक्षी श्रीरामभद्रेति तारकनामैव सन्ततधारया समुच्चरन् योगधारणामहिम्ना तत्तादृगानन्दमयं सम्यग्विशन् कदाचित्समये सर्वतः श्रीकान्तनामसङ्कीर्तनपरेषु आबालवृद्धं बहुषु जनेषु प्रादुर्भवत्युदयगिरेः सहस्ररोचिषि धीरोऽयं सर्वान् यथार्हं समाभाष्य आत्मना सुचिरं समाराधितश्रीरघुवीरादिविग्रहानयनाय लक्ष्मीनारायणसोदर्यमाज्ञापयामास । 'तथे' ति स्नातेन तेन त्वरयाऽऽनीतं श्रीरामादिहनुमद्विग्रहान्तमेकैकमञ्जलिनाऽऽदायाऽनन्दाश्रुणाऽभिषिच्य पश्चान्मानसिकसर्वोपहारैः समाराध्य भूयश्च बिम्बानि भगवदालयप्रवेशनायादिदेशानुजन्मानम् । तथा कृते अयं महात्मा ‘अच्युतानन्द गोविन्दे' त्युच्चरन्नेव विलसन्मुखः विस्मयमान इव पुरतः निजेप्सितरूपदर्शनेन त्यक्तैहिकतुच्छानन्दः परमभक्तालोकमात्रसाधारणं परमपदं सनकादियोगिवरसमाजं स्वयमुत्तमव्योमयानेन प्रविश्य उद्दीप्तभगवल्लाञ्छनः अद्यापि विराजतितराम् ।

शुभकृदुत्तर एष महान् गुरुः जगति कीर्तिकलेवरमेधयन् ।
अभजदर्जुनमित्रमणेः पदं परमवाप्तचतुर्थवरेप्सितः ॥

(विवरणम्) अनेन श्लोकेन परमपदप्रवेशवत्सरादि सूच्यते । यथा, शुभकृदुत्तरेत्यनेन शोभकृद्वत्सरः सूच्यते, उत्तर इत्ययनं, गुरुरिति वासरः, अर्जुन इति शुक्लः पक्षः, मित्र इत्यनुराधानक्षत्रम्, चतुर्थ इति तिथिश्च, इत्येते सूच्यन्ते । अन्योऽर्थः स्पष्टः ।

इति श्री वरदराजसूरिसङ्गृहीतः श्रीसुन्दरराज कविराजजीवितसङ्ग्रहः ।
ये सन्त्यत्र धरातलेऽद्य सुधियो गर्भाङ्कनार्या जनाः
श्रीवैखानससन्मेतन्दुविजयाधानाय बद्धादराः ।
एते ते सुमखीन्द्रसुन्दरकविश्रेष्ठांशजाताः क्षितौ
नैजाभीष्टयुजो जयन्तु गुरुकारुण्येन संवर्धिताः ॥

                             इति,

इलत्तूर्,
15–8 –1908.

वरदराजः
अनन्तशयनसंस्थानाश्रित: