पद्मिनीपरिणयः/तृतीयोऽङ्कः
॥ अथ तृतीयोऽङ्कः ॥
(ततः प्रविशतश्चेट्यौ)
प्रथमा-सहि कहिं तुमम् ? (सखि क्व त्वम् ?)
द्वितीया-उज्जाणमझ्झघरवासिणो कस्स वि राअकुमारस्स परिअरणकिदे णिउत्ताए भट्टदारिआसहीए भमरिआए पिअसही महुव्वदा णिउत्ता णिरन्तरं अरुणस्स णिदेशआरिणी होहिति । अहं ताए पस्सवट्टिणी होम्मि । दाणिं ताए णिदेस्सादो घणसारमि अमदमिस्सचन्दणं गण्हिअ तत्थ गच्छेमि । तुमं उण कहिम् ? ।
(उद्यानमध्यगृहवासिनः कस्यापि राजकुमारस्य परिचरणकृते नियुक्तया भर्तृदारिकासख्या भ्रमरिकया प्रियसखी मधुव्रता नियुक्ता 'निरन्तरमरुणस्य निदेशकारिणी भ'वेति । अहं तस्याः पार्श्ववर्तिनी भवामि । इदानीं तस्या निदेशात् घनसारमृगमदमिश्रं चन्दनं गृहीत्वा तत्र गच्छामि । त्वं पुनः क ? )
प्रथमा-अहं उज्जाणवसन्तमण्डपगताए भमरिआए अन्तेउरठ्ठिदं चित्तपडं आणेहिति पेसिदा तं गण्हिअ तत्थ गच्छेमि ।
(अहं उद्यानवसन्तमण्डपगतया भ्रमरिकया ‘अन्तःपुरस्थितं चित्रपटमान'येति प्रेषिता तं गृहीत्वा तत्र गच्छामि ) ।
द्वितीया-कस्स किदे? (कस्य कृते ?)
प्रथमा-भट्टदारिआ कस्सिं वि तरुणम्मि अणुरता जीमूआदो विरदा अ अहिअं चिन्ताउलत्ति मण्णे । ताए आसासणकिदे सही एदं आणेदिति तक्केमि ।
(कस्मिन्नपि भर्तृदारिका तरुणेऽनुरक्ता जीमूताद्विरता चाधिकं चिन्ताकुला इति मन्ये । तस्या आश्वासनकृते सखी एतमानयतीति तर्कयामि ) ।
द्वितीया-सो राअकुमारो हि सरिसो भट्टदारिआए । (स राजकुमरो हि सदृशो भर्तृदारिकायाः)
प्रथमा-इमस्सिं लिहिदो किं सो भवे ? (अस्मिन्लिखितः किं स भवेत्) । (इति चित्रपटं दर्शयति) ।
द्वितीया-(वीक्ष्य) एत्थ सो एव्व । (अत्र स एव)
प्रथ-मम्महो खु एत्थ लिहिदो । (मन्मथः खल्वत्र लिखितः)
द्विती-णो वट्टइ इमस्स करे इच्छुचाओ (नो वर्ततेऽस्य करे इक्षुचापः)
प्रथ-किं केसवो ?(किं केशवः ?) ।
द्विती-णो दीसइ हत्थे चक्कम् (नो दृश्यते हस्ते चक्रम्)
प्रथ-अत्थि खु हत्थे चक्कम् (अस्ति खलु ह्स्ते चक्रम्)
द्विती-सा चक्करेहा खु । (सा चक्ररेखा खलु)
प्रथ-अच्चरिअं फुष्फबाणमेतहीणो एसो मअणो । चक्काउहमेत्तहीणो माहवो ।
(आश्चर्यं पुष्पबाणमात्रहीन एष मदनः । चकायुधमात्रहीनो माधवः ।)
द्विती-अह्माणं भाअहेअं एव्व इमिणा रूपेण उवट्टिदम् ।
(अस्माकं भागधेयमेवानेन रूपेणोपस्थितम्) ।
प्रथ-तुमं केण वि उवाएण तं महाभाअं एदाए पुरो करेहि ।
(त्वं केनाप्युपायेन तं महाभागं एतस्याः पुरः कुरु) ।
द्विती-अत्थु, गच्छेम (अस्तु गच्छावः) ।
॥ प्रवेशकः ॥
(ततः प्रविशति वयस्यानुगतो भास्करः)
भास्क- जीमूते विमुखोऽपि भूपतिरसौ दाक्षिण्यमालम्बते
- कासारो यदनर्पणे हृदय किं तां द्रष्टुमुत्कण्ठसे ?।
- उत्कण्ठामथवा भजस्व तरुणीचेतोऽवगन्तुं यतः
- पुंसो यस्य वपुस्तदीयहृदयं प्रीणाति धन्योऽत्र सः ॥
अरुणः--(स्वगतम्) अभ्यधायि खलु मधुव्रतया साम्प्रतनुद्यानमण्डपमधिवसति पद्मिनीति । ततस्तां करोमि वयस्यनेत्रयोरतिथिम् । (प्रकाशं) सखे समन्तात्पश्यावः प्रमदावनश्रियम् । (परिक्रामतः) |
भास्क-सखे !
- जग्ध्वा तृणाङ्कुरचयं हरिणाः प्रियाभिः
- पीत्वा पयोऽतिविमलं विचरन्ति हृष्टाः ।
- जग्ध्वा तृणाङ्कुरचयं हरिणाः प्रियाभिः
- छायासु चम्पकपटीरमुखद्रुमाणां ।
- जानन्ति जातु नहि कञ्चन तापमेते ॥
(प्रविश्य) चेटी-अज्ज इदो अदूरे वट्टइ कवि पदुमिणि सा दस्सणिज्जा । (आर्य ! इतः अदूरे वर्तते कापि पद्मिनी । सा दर्शनीया) ।
अरु-हञ्जे, सा केन पथा अधिगन्तव्या ?
चेटी-इदो उभअपस्सविलसंतपूअतरुवेल्लिअनंबूललदामणोहराए पदवीए गन्तव्वम् ।
(इतः उभयपार्श्वविलसत्पूगतरुवेल्लितताम्बूललतामनोहरया पदव्या गतव्यम्) (इति निर्दिश्य निष्क्रान्ता)
भास्क--सखे ! चञ्चद्भालसुधांशुसन्निभदलश्रेणीनिकामस्फुरत्-
- ताम्बूलीपरिरब्धपूगविटपिप्रद्योतिपार्श्वद्वया ।
- चेतो मे हरतीयमत्र पदवी क्रीडावनान्तस्थली-
- सीमन्ताकृतिरुज्ज्वला रतिपतेर्लीलाविहारक्षमा ॥
- गभीरतरतो हृदात्प्रसृतमत्र कुल्यान्तरे
- निरन्तरमिदं विशत्तरुतलालवालं जलम् ।
- विभाति परितो वनान्तरतले स्वतश्श्यामले
- रजोभिरमलैस्मितै: रचितरङ्गवल्ली यथा ।
- गभीरतरतो हृदात्प्रसृतमत्र कुल्यान्तरे
अरु-
- दूरतो लसति शाद्वलो दृशोः कोमलोऽत्र पशुवर्गरक्षितः ।
- पञ्चबाणविहृतिक्षमा कुथा श्यामलेव परितस्समास्तृता ॥
भास्क--पश्य पश्य !
- पचेलिमफलैर्हृद्यैर्भासते लिकुचावलिः ।
- कुचैरभिनवोत्पन्नैः कुमारीणामिवावलिः ॥
अरु-
- फलेन लिकुचावलेः स्मृतिपथं नवोढाकुचौ
- प्रवेश्य शुभदाडिमीफलभरेण मध्यास्तनौ ।
- वनी विरहिणां मनो व्यथयति प्रगल्भाङ्गना-
- पयोधरघटौ फलैरहह नालिकेरोद्भवैः ॥
- फलेन लिकुचावलेः स्मृतिपथं नवोढाकुचौ
भास्क-(निरूप्य)
- कुसुमनिकरदीव्यद्वीरुदाच्छाद्यमाना
- विटपितटविचञ्चत्पञ्जरान्तस्थितानाम् ।
- विटपितटविचञ्चत्पञ्जरान्तस्थितानाम् ।
- शुकपिकमुखनानापत्रिणां हृद्यवाचां
- ततिभिरुपवनान्तर्भासते भद्रशाला ॥
- ततिभिरुपवनान्तर्भासते भद्रशाला ॥
- कुसुमनिकरदीव्यद्वीरुदाच्छाद्यमाना
अरु-तत्र दृश्यते कापि युवतिः सह सहचर्या ।
भास्क-सखे मार्गान्तरेण गत्वा वृक्षान्तरितौ जानीवः क्रमादेते । (उभौ परिक्रम्य तथा स्थितौ)
( प्रविशति मकरिकया सह पद्मिनी)
पद्मि-हला, कहं विणोदो मए मअणसरतावनप्ताए? (कथं विनोदो मम मदनशरतापतत्प्तायाः)
भास्क—
- शरीरविसरद्रुचा विजितचारुचामीकरा
- सुरालयकचाकचिक्षमकुचा पयोभृत्कचा ।
- सुरालयकचाकचिक्षमकुचा पयोभृत्कचा ।
- सुशारदनिशाधिपक्षतिविशारदस्वानना
- दृशा कृतकुशेशयावमतिरेति शातोदरी ॥
- दृशा कृतकुशेशयावमतिरेति शातोदरी ॥
- शरीरविसरद्रुचा विजितचारुचामीकरा
- हृदि न वहतु सत्यामुर्वशीगर्वलेशं
- त्यजतु झटेिति रम्भा विभ्रामारम्भमस्याम् |
- त्यजतु झटेिति रम्भा विभ्रामारम्भमस्याम् |
- व्रजतु विरतिमेव स्वावलेपाद्रतिस्सा
- युवतिषु गणनीया मेनका मे न कापि ॥
- हृदि न वहतु सत्यामुर्वशीगर्वलेशं
अरु-सखे ! कासारसंभवां पद्मिनीमेनां मन्ये ।
भास्क-कः संशयः ।
- अम्भोनीलीचिकुरनिकरा मीननेत्रा मृणाली-
- बाहुद्वन्द्वा सरसिजकरा चक्रवाकस्तनीयम् ।
- बाहुद्वन्द्वा सरसिजकरा चक्रवाकस्तनीयम् ।
- कम्बुग्रीवा द्युतिभरजलस्रोतसा पूर्यमाणा
- मन्ये धात्रा मदनसरसी केलये निर्मितेति ॥
- मन्ये धात्रा मदनसरसी केलये निर्मितेति ॥
- अम्भोनीलीचिकुरनिकरा मीननेत्रा मृणाली-
भ्रम-स हि! उपविसामो । (सखि ! उपविशावः) । (उभे उपविशतः) ।
भ्रम-स हि ! एदं चित्तपडं पेख्खंती विणोदेहि अत्ताणअम् ।
( सखि एतं चित्रपटं प्रेक्षमाणा विनोदयात्मानम्) । (इत्यर्पयति पटम्)
भास्क-सखे ! को वा लिखितश्चित्रपटे ।
अरु-अस्या हृदयदयित एव स्यात् ।
भास्क--को वा महाभागो हृदयदयितोऽभूदस्याः ?
पद्मि -(चित्रं प्रति) तुमं एव्व महाभाओ तिहुवणे । (त्वमेव महाभागस्त्रिभुवने) ।
अरु-ददात्युत्तरं पद्मिनी ते ।
भास्क-वयस्य ! जीमूताय दास्यति कासारस्सारसाक्षीमेनामिति श्रूयते ।
पद्मि-महाभाअ जणओ मं जदि जीमूदस्स वितरस्सइ सञ्जो ण जीविदं धारइस्सम् ।
(महाभाग जनको मां यदि जीमूताय वितरिष्यति सद्यो न जीवितं धारयिष्यामि) ।
अरु-वयस्य ! किं सुधाकरं विना विभावरी कामयते धूमकेतुम् ?
भ्रम-मा चिन्तेहि, जीमूअवसं ण गमिस्ससि, जदो सो राअकुमारो एत्त समाअदो सुणीअदी । (मा चिन्तय, जीमूतवशं न गमिष्यसि, यत: स राजकुमारः अत्र समागतः श्रूयते ।)
भास्क–स को नाम राजकुमारः ? ।
पद्मि-(चित्रं प्रति) तुमं एव्व लोअपदीवो (त्वमेव लोकप्रदीपः) ।
अरु-सखे ! भवानयिञ्च किं परोक्षमुचितमालपाव इति प्रतिजानाथे स्म ।
पद्मि-तुह हि !--(तव खलु !) ।
- मुहं राआचन्दं परिहसइ णेत्तं जलरुहं
- भुओ सुण्डादण्डं दसणवसणं विद्दुमफलम् ।
- भुओ सुण्डादण्डं दसणवसणं विद्दुमफलम् ।
- गलो सङ्घाआरं करअलजुअं पल्लवदलं
- णहो जोण्हं जाणू मुउरअलसोहं पिअतम ॥
- मुहं राआचन्दं परिहसइ णेत्तं जलरुहं
- [मुखं राकाचन्द्रं परिहसति नेत्रं जलरुहं
- भुजश्शुण्डादण्डं दशनवसनं विद्रुमफलम् ।
- गलश्शङ्खाकारं करतलयुगं पल्लवदलं
- नखो ज्योत्स्नां जानू मुकुरतलशोभां प्रियतम ॥ ]
- [मुखं राकाचन्द्रं परिहसति नेत्रं जलरुहं
भास्क-सखे ! को नाम तादृशः ।
भ्रम-(चित्रं प्रति) तुमं एव्व सरिसो सहीए । (त्वमेव सदृशस्सख्याः) ।
अरु-मया भणितव्यं भ्रमरिकेयमभाणीत् ।
भास्क-सखे ! मामेव किं मन्यसे चित्रविन्यस्तम्?
अरु-न शङ्का मम ।
भास्क-(स्वगतम्) यदीयमाकृतिः पद्मिनीमनोहरा, ततः को नाम युवा भास्करादन्यः ।
(प्रकाशम्) अम्भोरुहेण वदन विततान वेधा
- नीलोत्पलेन नयनं स्तबकेन कौचित् ।
- दन्तांश्च कुन्दमुकुलैरधरं जपाभि-
- र्नोचेत्कथं मम लगेदिह चित्तभृङ्गः ॥
पद्मि-हला, चित्तपडदस्सणप्पहुदि (चित्रपटदर्शनप्रभृति)
- परुसो परद्दुदणादो पवणो मन्दो पवाइ अच्चुण्णो ।
- जोह्वा आदवसरिसी किं कादव्वं सहेमि णो दावम् ॥
- (परुषः पत्मृतनादः पवनो मन्दः प्रवाति अत्युष्णः ।
- ज्योत्स्ना आतपसदृशी किं कर्तव्यं सहे न तापम् ॥)
भास्क- यस्मिन्नियं वहति मानसमीदृशेन
- प्रेम्णा भृतं हरिणलक्ष्मणि रोहिणीव ।
- दामोदरेऽर्णवसुतेव शशाङ्कचूडे
- दाक्षायणीव स हि पुण्यवदग्रगण्यः ॥
भ्रम-(चित्रं प्रति) तुमं एव्व पुण्णलोअग्गगणणिज्जो । तहा णो जदि कहं एव्वं तुमस्सिं एदाए हिअअं पच्चुत्तं भवे ।
(त्वमेव पुण्यलोकाग्रगणनीयः । तथा नो यदि कथमेवं त्वय्येतस्या हृदयं प्रत्युप्तं भवेत् ) ।
पद्मि-भो मअण ! दुल्लअजणणिमित्तं मं किं पीडेसि,? अहवा जेण सरेण णिहओ विरहिजणो सज्जो लोअन्तरं गच्छेत् तं ममस्सिं मुंचेहि ।
(भो मदन ! दुर्लभजननिमित्तं मां किं पीडयसि ? । अथवा येन शरेण निहतो विरहिजनो सद्यः लोकान्तरं गच्छेत् , तं मयि मुञ्च) ।
भ्रम-भअवंतसारदाणंदसंदिट्टमग्गेण देविं लच्छिं जदि आरहेसि किं दुल्लहो सो दयिदो ।
(भगवच्छारदानन्दसन्दिष्टमार्गेण देवीं लक्ष्मीं यद्याराधयसि किं दुर्लभस्स दयितः) ।
भास्क-सखे ! मनोरथो मे पल्लवित इव । यतोऽस्मद्गुरोशारदानन्दस्य प्रसादपात्रमेषापि । किञ्च दर्शनप्रभृति सुदत्याः स्फुरति मे वामेतरलोचनम् । अपि च ।
- साधारणीह गमने चरतां विमार्गे
- सद्योङ्गना शशिमुखी सुपयोधराभा ।
- सद्योङ्गना शशिमुखी सुपयोधराभा ।
- ताराबलाविलसिता पुरतो ममासी-
- त्स्वीयात्पदान्मयि विनिस्सरति प्रयातुम्[१] ।
- साधारणीह गमने चरतां विमार्गे
पद्मि-हला ! पाओ जीमूदो मं (हला ! पापो जीमूतो माम्-) (इत्यर्धोक्ते मूर्च्छति) ।
भ्रम-हला ! समस्ससिहि । (समाश्वसिहि) ।
भास्क- मूर्च्छानिमीलिताक्षी स्तब्धाङ्गी वाचि मुद्रिता सुदती ।
- मुकुलितपद्मा भ्रमरारवरहितेवाब्जिनी निबातस्था ॥
(पद्मिनीं निषिञ्चति हिमवारिणा भ्रमरिकरः)
पद्मि-(आश्वस्य) हला ! किं जीवेसि मं मन्दभाइणिं जीविदणिरासं ? ।
(किं जीवयसि मां मन्दभागिनीं जीवितनिराशाम् ?) ।
भ्रम-सहि ! तुमं विणा कहं मह जीवणम् ? (सखि ! त्वां विना कथं मम जीवनम् ?) ।
पद्मि-केवलं अत्तणो सुहं अहिलसन्तो मं पीडेसि ! । (केवलमात्मनस्सुखमभिलषन्ती मां पीडयसि !)
भास्क-सखे ! अतिक्रामति सुभ्रुवो विरहसन्तापः । तथाहि,
- सख्या तापनिवारणाय करयोरग्रे मृणालीलता
- विन्यस्ता वलयीकृता हरिमणीक्लृप्तेव संदृश्यते ।
- विन्यस्ता वलयीकृता हरिमणीक्लृप्तेव संदृश्यते ।
- शय्याऽम्भोजदलैः कृताऽऽतपभरम्लानेव सञ्जायते
- धूमो देहनिषेचनप्रसृमरप्रालेयतोयादपि ॥ पद्मि-हला ! एत्थ विणोदकिदे आअदं मं अहिअं पीडेइ उज्जाणं कण्णकठिणेहिं कोइलणादेहिं ण अणदुद्दस्सेहिं पुप्फणि अरेहिं, देहताक्करेहिं सुरहिवादेहिं वि ।
- सख्या तापनिवारणाय करयोरग्रे मृणालीलता
(अत्र विनोदकृते आगतां मां अधिकं पीडयति उद्यानं कर्णकठिनैः कोकिलनादैर्नयनदुर्दर्शैः पुष्पनिकरैः देहतापकरैः सुरभिवातैरपि) ।
भास्क-सत्यमेतत् !
- पुष्पेपोस्तरवारिसञ्चयरुचिं चूतद्रुमे पल्लवो
- धत्तेऽयं स्तबको नवोऽत्र नलकाभां नालिकेरद्रुषु ।
- धत्तेऽयं स्तबको नवोऽत्र नलकाभां नालिकेरद्रुषु ।
- तत्रैवाकलनीयवृत्तगुलिकाशोभाञ्च धात्रीफलं
- सज्जेष्वासधुरामगस्त्यमुकुलं भल्लश्रियं कैतकम् ॥
- पुष्पेपोस्तरवारिसञ्चयरुचिं चूतद्रुमे पल्लवो
अरु-(ऊर्ध्वमवलोक्य) सखे ! किमिदं धूमधूसरितं गगनं लक्ष्यते ।
भास्क-(विलोक्य) पश्य ! मायाकल्पितं व्योमयानं आपतति ।
अरु-सखे ! पद्मिनीविप्रलम्भाय समुत्पतितमेतदिति मन्ये ।
भास्क-तत् त्वरितं निवेशनाच्छरासनमानय ।
अरु-तथा । (इति निष्क्रान्तः) ।
(आकाशे यन्त्रयानारुढो हिमान्या सह तुहिनमण्डलः) ।
तुहि-प्रिये ! दृश्यते पद्मिनीयमुद्याने । भवती भवतु अवहितचित्ता, यावदेतामपहरामि । (धरण्यमवरुह्य)
हिमानी- होदु (भवतु) ।
पद्मि- हला ! कोवि पुरिसो अत्थिमालाभूसणभीसणो तुवरिअं गअणादो अहिधावइ ।
(कोऽपि पुरुषोऽस्थिमालाभूषणभीषणस्त्वरितं गगनादभिधावति) ।
भ्रम-हद्धि हद्धि । (हा धिक्, हा धिक्) ।
पद्मि-दाणिं में को णाहो रख्खिस्सदि ? । (इदानी मां को नाथो रक्षिष्यति ?)
(इति पलायिते)
भास्क- कः पद्मिनीं गुणवतीं परिभावयितुं भुवीह शक्नोति ।
- तां भास्करे निकामं रक्षितुकामे विरोधिनां भीमे ? ॥
(इति निवारयति तुहिनमण्डलम्)
- (मा धाव! समगतस्स महानुभावस्त्वां रक्षितुम्) ।
पद्मि-(परावृत्य पश्यति)
भास्क- वित्रस्तमुग्धहरिणीनयनां भयेन
- तां कम्पमानकुचकुम्भयुगां प्रियां मे ।
- सम्पश्यतो हृदयमप्यभियातिमेनं
- श्रृङ्गारवीररसयोः समुपैति काष्ठाम् ।
तुहि-किं मां रुणत्सि ? पश्य मे प्रतापम् ।
भास्क-तुच्छ ! किं जल्पसि दीनजनमात्रदुस्सहप्रसर ?
पद्मि– हला ! इदो परं णत्थि भअम् । तदो रुक्खन्तरे लीणाओ पेक्खम्मो दइदविलसिदम् ।
- (इहः परं नास्ति भयम् । ततो वृक्षान्तरे लीने प्रेक्षावहे दयितविलसितम्) ।
भ्रम-दिट्टिए दिट्टो महाप्पहाओ! । (दिष्टा दृष्ट्योमहाप्रभावः ?) (इति पादपान्तर्हिते स्थिते)
हिमा-हद्धि ! हे । को वि बालो मह दइदं अहिंक्खिवइ । (हा धिक् ! कोऽपि बालो मम दयितमधिक्षिपति) ।
तुहि-रे जाल्म, किं कथयसि ?
- उद्वेजयामि जनतां यदि सम्प्रवृत्तो
- भूमीभृतोऽत्र महतोऽपि तिरस्करोमि ।
- पीडामतीव जनयामि च विप्रयोगि-
- चित्तेषु कोऽस्ति सदृशी भुवनत्रये मे[२] ? ॥
- उद्वेजयामि जनतां यदि सम्प्रवृत्तो
हिमा-मन्द ! पिओ मे किं तुमं विमुञ्चे ? । (मन्द! प्रियो मे किं त्वां विमुञ्चेत् ?) ।
पद्मि-हला ! मम किदे पियस्स किं वि भवेत्ति वाउलंहि । (हत्य ! मम कृते प्रियस्य किमपि भवेदिति व्याकुलाऽस्मि) ।
भ्रम-न किं वि भवे । (न किमपि भवेत्)
भास्क - रे [३]कापालिकापशद ! लोकाधरमात्रव्रणकारिन् । नाथवियुक्ताबलाजनहिंसक ! हसन्तीवञ्चितप्रभाव ! तिष्ठ पुरतो मे ।
- [४]करप्रतापः प्रकटीभवेच्चेत् कश्शक्नुयाद्धीरतरोऽपि सोढुम् ।
- तमोमयोऽग्रे मम भास्करस्य स्थातुं भवादृक्कतमोऽतितुच्छः ? ॥
पद्मि-(सहर्षम्) हला ! आकिदिसरिसो से पहावो । (हला ! आकृतिसदृशोऽस्य प्रभावः) ।
हिमा-हा ! किं एदं अच्चाहिदं । (हा! किमेतदत्याहितम् ।
(प्रविश्य)
अरु--सखे ! गृह्यतां [५]स्वधर्मः (इति ददाति चापम्) ।
भास्क–(आदाय तमानमयन्) । हतक ! पश्य, लभस्व भास्कराभिगमनफलम् ।
हिमा-णाह ! मा साहसं करेहि (नाथ ! मा साहसं कुरु) ।
पद्मि-अच्चरिअम् । (आश्चर्यम्) ।
अरु–यावच्छरासनमसौ विनमय्य वेगात्
- तीक्ष्णस्वगोनिकरमत्र किरत्यमन्दम् ।
हिमा-हा ! पिअ, किं गदोऽसि विवख्खवसम् ? (हा ! प्रिय, किं गतोऽसि विपक्षवशम्)।
पद्मि-सहि ! दइदो दाणिं भीमो विअ । (सखि ! दयित इदानीं भीम इव) ।
अरु- तावत् पलायनपरो न्यपतद्विभिन्नः
- पापस्स वज्रनिहतः शिखरीव भूमौ ॥
पद्मि-(सामोदम्) हला ! संवुतो दाणिं एसो मह जीविअदाई। (संवृत्त इदानीमेष मम जीवितदायी) ।
हिमा-हा ! णाह ! असरणं मं उज्झिअ किं गदोऽसि लोअन्तरम् (हा नाथ ! अशरणां मां उज्झित्वा किं गतोऽसि लोकान्तरम् । (इति रोदिति ।)
पद्मि-हला ! संभावेम णाहम् । (हला संभावयाव नाथम्) । (इति भास्करमुपसरतः ।)
हिमा-(सकोपम्) मुद्धे, पदुमिणि ! तुह किदे म्ह णाहो जदो मिच्चुं गदो तदो जहाक्हं वि तुमं ओहरिअ संहरिस्सम् । (मुग्धे पद्मिनि ! तव कृते मम नाथो यतो मृत्युं गतः ततो यथाकथमपि त्वामपहृत्य संहरिष्यामि)।
भास्क–किम् प्रलपसि ?। (इति गृह्णाति बाणम्)।
पद्मि-अज्ज, इत्थिआ खु ! । (आर्य स्त्री खलु !) ।
हिमा–(यन्त्रयानेन पलायमाना निष्क्रान्ता) ।
भास्क-(चापमवरोपयन्) सखे ! सफलमासीदिहाभिगमनम् ।
अरु–लब्धं भक्ता रमणीजनरक्षणपुण्यम् ।
भास्क-सर्व शारदानन्दमहिम्ना ।
पद्मि-(अप) सहि ! कहिदव्वं कहेहि । (सखि! कथयितव्यं कथय) ।
भ्रम-अज्ज ! तुए जीविदं पाविदा मह पिअसही कं दे पच्चुपआरं करिस्सदि। (आर्य, त्वया जीवितं प्रापिता मम प्रियसखी कं ते प्रत्युपकारं करिष्यति) ।
अरुणः-यत्कन्यकाजनेन महोपकारिणो यूनः कुलीनस्य करणीयं तत्करोतु तव प्रियसखी ।
- (इति भास्करहस्ताच्चापं आदाय मन्दमपसरति) ।
भ्रम-सहि ! संभमादो तत्त णिख्खित्तं चित्तपडं गहिस्सम् ।
- (सखि संभ्रमात्तत्र निक्षिप्तं चित्रपटं ग्रहीष्यामि)। (इत्यपसरति) ।
पद्मि-(स्वयमपि गन्तुमिव प्रवर्तते) ।
भास्क-भद्रे ! मा भैषीः । (इत्युपसरति) ।
पद्मि-(सलज्जमपसरतीव) ।
भास्क-(अनुसृत्य गृह्णाति वसनाञ्चलम्) ।
(नेपथ्ये कलकलः)
पद्मि -अज्ज ! आअच्छदि विअ मं रविखदुं तुहिणमण्डलादो चउरङ्गसेना । तदो मं मुंचेहि ।
- (आर्य ! आगच्छतीव मां रक्षितुं तुहिनमण्डलात् चतुरङ्गसेना । ततो मां मुञ्च) ।
(इति निष्क्रान्ता)
भास्क -(मदनबाधां निरूपयन्)
- विसृज मयि यथेच्छं मन्मथ त्वं पृषत्कान्
- त्वयि कथमपराधो दैवमेवाद्य वाच्यम् ।
- त्वरितममृतवापीं द्राङ्मिमंक्षाऽवतीर्णे
- मयि हेि तिरयति स्म त्यक्तकारुण्यमेनाम् ॥
- विसृज मयि यथेच्छं मन्मथ त्वं पृषत्कान्
(सानुस्मरणम्) प्रयान्त्या तया मयि समाविष्कृतोऽनुरागः ।
तथाहि--
- गत्वा पदानि कतिचित्कमलायताक्षी
- नेत्नातिवर्तिपदसन्निहितैकपादा ।
- आसिञ्चति स्म वलिनं गलमारचय्य
- तादृक्कटाक्षसुधया प्रणयादियं माम् ॥
- गत्वा पदानि कतिचित्कमलायताक्षी
भवतु भावज्ञं सखायमुपगम्य केनाप्युपायेन लब्धप्रियतमाभूयोदर्शनो भविष्यामि ।
(इति निष्क्रान्ताः सर्वे)
॥ इति पद्मिनीपरिणये पद्मिनीभास्करावलोकनं नाम तृतीयोऽङ्कः ॥
- ↑ विमार्गे चरतां विटानाम् । पक्षिपथचारिणाञ्च । साधारणी स्वर्गवंश्या नभोरूपयुवतिश्च । प्रयाणकाले वेश्याभिगमनं शुभनिमित्तमिति प्रसिद्धम् । ताराबली हारविशेषः नक्षत्रपंक्तिश्च ।
- ↑ भूमीमृतः गिरिन् राज्ञश्च । विप्राश्च योगिनश्च, तेषां चित्तेषु ।
- ↑ कापालिकत्वात्, ब्राह्मणयोगिपीडाकरत्वम् । विप्रयोगिनो विरहिणश्च । लोकेऽधराः, अपकृष्टः । लोकस्य दन्तच्छदश्च । हसन्ती हासकारिणी वनिता, हसन्तिकायन्त्रश्च ।
- ↑ करः किरणः, हस्तश्च । तमोमयः जडः, ध्वान्तरूपश्च ।
- ↑ स्वधर्मः = निजचापः, हिमनिवारणरूपश्च ।