पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः २४
युधिष्ठिर उवाच-।
अथान्यानि तु तीर्थानि वसिष्ठोक्तानि मे वद ।
श्रुत्वा यानि च पापानि विलयं यांति नारद १।
नारद उवाच-।
शृणुष्वात्र हि तीर्थानि वसिष्ठोक्तानि पार्थिव ।
दक्षिणं सिंधुमासाद्य ब्रह्मचारी जितेंद्रियः २।
अग्निष्टोममवाप्नोति विमानं चाधिरोहति ।
चर्मण्वतीं समासाद्य नियतो नियताशनः ३।
रंतिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत् ।
ततो गच्छेत धर्मज्ञ हिमवत्सुतमर्बुदम् ४।
पृथिव्या यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर ।
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतं ५।
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ।
पिंगातीर्थमुपस्पृश्य ब्रह्मचारी नराधिप ६।
कपिलानां नरव्याघ्र शतस्य फलमाप्नुयात् ।
ततो गच्छेत धर्मज्ञ प्रभासं लोकविश्रुतम् ७।
यत्र सन्निहितो नित्यं स्वयमेव हुताशनः ।
देवतानां मुखं वीर अनलोऽनिलसारथिः ८।
तस्मिंस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः ।
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ९।
ततो गत्वा सरस्वत्याः सागरस्य च संगमम् ।
गोसहस्रफलं प्राप्य स्वर्गलोके महीयते १०।
दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ ।
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः ११।
त्रिरात्रमुषितस्तत्र तर्पयेत्पितृदेवताः ।
विराजति यथा सोमो वाजिमेधं च विंदति १२।
वरदानं ततो गच्छेत्तीर्थं भरतसत्तम ।
विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर १३।
वरदाने नरः स्नात्वा गोसहस्रफलं लभेत् ।
ततो द्वारवतीं गच्छेन्नियतो नियताशनः १४।
पिंडारके नरः स्नात्वा लभेद्बहुसुवर्णकम् १५।
तस्मिंस्तीर्थे महाराज पद्मलक्षणलक्षिताः ।
अद्यापि मुद्रा दृश्यंते तदद्भुतमरिंदम १६।
त्रिशूलांकानि पद्मानि दृश्यंते कुरुनंदन ।
महादेवस्य सान्निध्यं तत्रैव भरतर्षभ १७।
सागरस्य च सिंधोश्च संगमं प्राप्य भारत ।
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः १८।
तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ ।
प्राप्नोति वारुणं लोकं दीप्यमानः स्वतेजसा १९।
शंकुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर ।
अश्वमेधं दशगुणं प्रवदंति मनीषिणः २०।
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ ।
तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् २१।
तिमीति नाम्ना विख्यातं सर्वपापप्रमोचनम् ।
यत्र शक्रादयो देवा उपासंते महेश्वरम् २२।
तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर्वृतम् ।
जन्मप्रभृति पापानि कृतानि नुदते नरः २३।
तिमिरत्र नरश्रेष्ठ सर्वदेवैरभिष्टुतः ।
तत्र स्नात्वा नरश्रेष्ठ हयमेधमवाप्नुयात् २४।
जित्वा तत्र महाप्राज्ञ विष्णुना दितिनंदनम् ।
पुरा शौचं कृतं राजन्हत्वा दैवतकंटकान् २५।
ततो गच्छेत धर्मज्ञ वसुधारामभिष्टुताम् ।
गमनादेव तस्यां हि हयमेधमवाप्नुयात् २६।
स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः ।
तर्पयित्वा पितॄन्देवान्विष्णुलोके महीयते २७।
तीर्थं चापि परं तत्र वसूनां भरतर्षभ ।
तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत् २८।
सिंधुतममिति ख्यातं सर्वपापप्रणाशनम् ।
तत्र स्नात्वा नरश्रेष्ठ लभेद्बहुसुवर्णकम् २९।
ब्रह्मतुंगं समासाद्य शुचिः प्रयतमानसः ।
ब्रह्मलोकमवाप्नोति सुकृती विरजा नरः ३०।
कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम् ।
तत्र स्नात्वा नरश्रेष्ठ शक्रलोकमवाप्नुयात् ३१।
रेणुकायाश्च तत्रैव तीर्थं देवनिषेवितम् ।
स्नात्वा तत्र भवेद्विप्रो विमलश्चंद्रमा इव ३२।
अथ पंचनदं गत्वा नियतो नियताशनः ।
पंचयज्ञानवाप्नोति क्रमशो ये तु कीर्तिताः ३३।
ततो गच्छेत धर्मज्ञ भीमायाः स्थानमुत्तमम् ।
तत्र स्नात्वा न योन्यां वै नरो भरतसत्तम ३४।
देव्याः पुत्रो भवेद्राजन्तत्र कुंडलविग्रहः ।
गवां शतसहस्रस्य फलं चैवाप्नुयान्महत् ३५।
गिरिकुंजं समासाद्य त्रिषु लोकेषु विश्रुतम् ।
पितामहं नमस्कृत्य गोसहस्रफलं लभेत् ३६।
ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम् ।
अद्यापि यत्र दृश्यंते मत्स्याः सौवर्णराजताः ३७।
तत्र स्नात्वा नरश्रेष्ठ वाजपेयमवाप्नुयात् ।
सर्वपापविशुद्धात्मा गच्छेत्परमिकां गतिम् ३८।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे चतुर्विंशोऽध्यायः २४