पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ४८

विकिस्रोतः तः
Jump to navigation Jump to search

ब्रह्मोवाच-
अतः परं तु विप्रर्षे चांडालपतितो द्विजः
प्रलप्य च बहून्शोकान्जगाम कश्यपं मुनिम्१
गत्वोवाच मुनिश्रेष्ठ वदास्माकं हितं वचः
यथा पापाद्विमुच्येहं मुनिश्रेष्ठ तथा कुरु२
तमुवाच महातेजा ईषद्धास्यः समंततः
कश्यप उवाच-
संदर्शनाच्च म्लेच्छानामुपशांतोसि वै स्वयम्३
गायत्र्याश्च जपैर्होमैर्व्रतैश्चांद्रायणदिभिः
स्मर नित्यं हरेः पादमुपोष्य हरिवासरम्४
अहर्निशं हरेर्ध्यानं प्रणामं कुरु तं प्रभुम्
तीर्थस्नानेन मंत्रेण पंकस्यांतं गमिष्यसि५
ततः पापक्षयादेव ब्राह्मणत्वं च लप्स्यसे
व्रतैर्वृषाधिकैर्मोक्षं नाशयन्कल्मषं द्विज६
मुनेस्तस्य वचः श्रुत्वा कृतकृत्योऽभवत्तदा
पुण्यं स विविधं कृत्वापुनर्ब्रह्मत्वमाप्तवान्७
ततस्तप्त्वा तपस्तीव्रंस्वर्लोकं चिरमभ्यगात्
सद्वृत्तस्याखिलं पापं क्षयं याति दिने दिने८
असद्वृत्तस्य पुण्यं हि क्षयं यात्यंजनोपमम्
अनाचाराद्धतो विप्र आचारात्सुरतां व्रजेत्९
ततः कंठगतैः प्राणैराचारं कुरुते द्विजः
कर्मणा मनसांगेन सदाचारं सदा कुरु१०
कश्यपस्योपदेशेन स विनीतोऽभवद्द्विजः
आचारं तु पुनः कृत्वा तपस्तप्तत्वा दिवं गतः११
अनाचारी हतो विप्रः स्वर्गलोकेषु गर्हितः
आचारं तु पुनः कृत्वा सुरलोके महीयते१२
नारद उवाच-
प्राप्नुवंति गतिं लोकाः पूजयित्वा द्विजोत्तमान्
द्विजानां पीडनं कृत्वा गतिं गच्छति कां प्रभो१३
ब्रह्मोवाच-
क्षुधा संतप्तदेहानां ब्राह्मणानां महात्मनाम्
नार्चयेच्छक्तितो भक्त्या स याति नरकं नरः१४
परुषेण क्रोशयित्वा क्रोधाद्यस्तु विसर्जयेत्
स याति नरकं घोरं महारौरवकृच्छ्रकम्१५
सन्निवृत्तस्ततः कीटाद्यन्त्यजातिषु जायते
ततो रोगी दरिद्रस्तु क्षुधया परिपीडितः१६
नावमन्येत्ततो विप्रं क्षुधया गृहमागतम्
न ददामीति यो ब्रूयाद्देवाग्निब्राह्मणेषु सः१७
तिर्यग्योनिशतं गत्वा चांडाल्यमुपगच्छति
पादमुद्यम्य यो विप्रं हंति गां पितरौ गुरुम्१८
रौरवे नियतो वासस्तस्य नास्तीह निष्कृतिः
यदि पुण्याद्भवेज्जन्म स एव पंगुतां व्रजेत्१९
अतिदीनो विषादी च दुःखशोकाभिपीडितः
एवं जन्मत्रयं प्राप्य भवेत्तस्य च निष्कृतिः२०
मुष्टिचपेटकीलैश्च हन्याद्विप्रं तु यः पुमान्
तापने रौरवे घोरे कल्पांतं सोपि तिष्ठति२१
अथ जन्म समासाद्य कुक्कुरः क्रूरचंडकः
अंत्यजातिषु जातोपि दरिद्रः कुक्षिशूलवान्२२
पादमुद्यच्छते वा यस्तस्य पादे शिलीपदः
खंजो वा मंदजंघो वा खण्डपादो भवेन्नरः२३
पक्षवातेन चांगानि प्रकंपंते सदैव हि
मातरं पितरं विप्रं स्नातकं च तपस्विनम्२४
हत्वा गुरुगणं क्रोधात्कुंभीपाके चिरं भवेत्
उषित्वा चैव जायेत कीटजातिषु तत्परम्२५
विरुद्धं परुषं वाक्यं यो वदेद्धि द्विजातिषु
अष्टौ कुष्ठाः प्रजायंते तस्य देहे दृढं सुत२६
विचर्चिकाथ दद्रूश्च मंडलः शुक्ति सिध्मकौ
कालकुष्ठस्तथा शुक्लस्तरुणश्चातिदारुणः२७
ततो भिषक्प्रयोगे च पापात्पुण्यं पलायते
अपुण्याज्जलरेखेव तेनैव निधनं व्रजेत्२८
एषां मध्ये महाकुष्ठास्त्रय एव प्रकीर्तिताः
कालकुष्ठस्तथा शुक्लस्तरुणश्चातिदारुणः२९
महापातकभावानां ज्ञानात्संसर्गतोपि वा
अतिपातकिनामेव त्रयो देहे भवंति वै३०
संसर्गात्सहसंबंधाद्रोगः संचरते नृणाम्
दूरात्परित्यजेद्धीरः स्पृष्ट्वा स्नानं समाचरेत्३१
पतितं कुष्ठसंयुक्तं चांडालं च गवाशिनम्
श्वानं रजस्वलां भिल्लं स्पृष्ट्वा स्नानं समाचरेत्३२
दुरितस्यानुरूपेण देहे कुष्ठा व्यवस्थिताः
इहलोके परत्रैवाप्यत्र नास्ति तु संशयः३३
न्यायेनोपार्जितां वृत्तिं ब्रह्मस्वं हरते तु यः
अक्षयं नरकं प्राप्य पुनर्जन्म न विद्यते३४
पिशुनो यस्तु विप्राणां रंध्रान्वेषणतत्परः
तं दृष्ट्वाप्यथवा स्पृष्ट्वा सचेलो जलमाविशेत्३५
ब्रह्मस्वं प्रणयाद्भुक्तं दहत्यासप्तमं कुलम्
विक्रमेण तु भुंजानो दशपूर्वान्दशापरान्३६
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते
विषमेकाकिनं हंति ब्रह्मस्वं पुत्रपौत्रकम्३७
मोहाच्च मातरं गत्वा ब्राह्मणीं च गुरोस्त्रियम्
पतित्वा रौरवे घोरे पुनरुत्पत्तिदुर्लभः३८
पतंति पितरस्तस्य कुंभीपाकेथ तापने
अवीचिकालसूत्रे च महारौरवरौरवे३९
कदाचिदपि वा तेषां निष्कृतिं नानुमेनिरे
प्राणं हत्वा द्विजातीनां स्वयं यात्यपुनर्भवम्४०
पतंति पुरुषास्तस्य रौरवे च सहस्रशः
नारद उवाच-
सर्वेषामेव विप्राणां वधे च पातकं समम्४१
विषमं वा कुतस्तिष्ठेत्तत्त्वतो वक्तुमर्हसि
ब्रह्मोवाच-
हत्वा विप्रं ध्रुवं पुत्र पातकं यदुदाहृतम्४२
लभते ब्रह्महा घोरं वक्तव्यं चापरं शृणु
लक्षकोटिसहस्राणां ब्राह्मणानां वधं भजेत्४३
वेदशास्त्रयुतं हत्वा श्रोत्रियं विजितेंद्रियम्
विप्रं च वैष्णवं हत्वा तस्माद्दशगुणोत्तरम्४४
स्ववंशान्पातयित्वा तु पुनर्जन्म न विंदते
त्रिवेदं स्नातकं हत्वा वधस्यांतं न विन्दते४५
श्रोत्रियं च सदाचारं तीर्थमंत्रप्रपूतकम्
ईदृशं ब्राह्मणं हन्तुः पापस्यांतो न विद्यते४६
अपकारं समुद्दिश्य द्विजः प्राणान्परित्यजेत्
दृश्यते येन चान्येन ब्रह्महा स भवेन्नरः४७
वचोभिः परुषैर्वृत्तैः पीडितस्ताडितो द्विजः
यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातिनम्४८
ऋषयो मुनयो देवाः सर्वे ब्रह्मविदस्तथा
देशानां पार्थिवानां च स च वध्यो भवेदिह४९
अतो ब्रह्मवधं प्राप्य पितृभिः सह पच्यते
प्रायोपवेशकं विप्रं बुधः संमानयेद्ध्रुवम्५० 1.48.50
दोषैश्चापि विनिर्मुक्तमुद्दिश्य प्राणमुत्सृजेत्
स प्रलिप्तो वधैर्घोरैर्न तु यं परिकीर्तयेत्५१
आत्मघातं द्रुमारोहं कोटरै रूपजीविनं
यः कुर्यादात्मनोघातं स्ववंशे ब्रह्महा भवेत्५२
भ्रूणं च घातयेद्यस्तु शिशुं वा आतुरं गुरुम्
ब्रह्महा स्वयमेव स्यान्न तु यं परिकीर्तयेत्५३
मारयेच्च सगोत्रं वा ब्राह्मणं ब्राह्मणाधमः
तस्यैव तद्भवेत्पापं न तु यं परिकीर्त्तयेत्५४
पीडयित्वा द्विजं शूद्रः स्वकार्यं चापि साधयेत्
तत्रापापे च शूद्रस्य पातकं नान्यथा भवेत्५५
तात्कालिक वधं हत्वा हंतारमाततायिनं
न च हंता च तत्पापैर्लिप्यते द्विजसत्तम५६
आततायिनमायांतमपि वेदांतगं रणे
जिघांसंतं जिघांसेच्च न तेन ब्रह्महा भवेत्५७
अग्निदो गरदश्चैव धनहारी च सुप्तघः
क्षेत्रदारापहारी च षडेते ह्याततायिनः५८
खलो राजवधोद्योगी पितॄणां च वधे रतः
अनुयायी नृपो राज्ञश्चत्वारश्चाततायिनः५९
तत्क्षणान्न मृतं विप्रं पुनर्हंतुं न युज्यते
पुर्नहत्वा वधं घोरं ज्ञानात्प्राप्नोति निश्चितं६०
लोके विप्रसमो नास्ति पूजनीयो जगद्गुरुः
हत्वा तं यद्भवेत्पापं तत्परं च न विद्यते६१
देववत्पूजनीयोसौ देवासुरगणैर्नरैः
ब्राह्मणस्य समो नास्ति त्रिषु लोकेषु निश्चितं६२
नारद उवाच-
कां वृत्तिं समुपाश्रित्य जीवितव्यं द्विजेन हि
अपानेन सुरश्रेष्ठ तत्वतो वक्तुमर्हसि६३
ब्रह्मोवाच-
अयाचिता च या भिक्षा प्रशस्ता सा प्रकीर्तिता
उञ्छवृत्तिस्ततो भद्रा सुभद्रा सर्ववृत्तिषु६४
यामाश्रित्य मुनिश्रेष्ठा गच्छंति ब्रह्मणः पदम्
दक्षिणा यज्ञशेषाणां ग्राह्या यज्ञगतेन हि६५
पाठनं याजनं कृत्वा ग्रहीतव्यं धनं द्विजैः
पाठयित्वा पठित्वा च कृत्वा स्वस्त्ययनं शुभं६६
ब्राह्मणानामिदं जीव्यं शिष्टा वृत्तिः प्रतिग्रहः
शास्त्रोपजीविनो धन्या धन्या वृक्षोपजीविनः६७
धन्या वृक्षलताजीव्या वाटीसस्योपजीविनः
अन्न जंतु वधे पापं तस्य दोषोपशांतये६८
नवधान्यानि शस्तानि विप्रेभ्यः संप्रदापयेत्
न चेत्प्राणिवधे ह्यत्र क्षीयंते चायुषो ध्रुवं६९
तस्माद्दद्यात्सुबहूनि पितृदेवद्विजातिषु
अभावात्क्षत्त्रियावृत्तिर्ब्राह्मणैरूपजीव्यते७०
न्याययुद्धेषु योद्धव्यं चरेद्वीरव्रतं शुभम्
स तया च द्विजो वृत्या यद्धनं लभते नृपात्७१
पितृयज्ञादिदानेषु मेध्यं तद्धनमुच्यते
समभ्यसेद्धनुर्विद्यां वेदयुक्तां सदानघः७२
शक्तिकुंतगदाखड्ग परिघाणां समंततः
अश्वारोहं गजारोहमैंद्रजालममानकं७३
रथभूमिगतं युद्धं युक्तं सर्वत्र कारयेत्
द्विज देव ध्रुवाणां च स्त्रीणां वृत्तं तपस्विनाम्७४
साधु साध्वी गुरूणां च नृपाणां रक्षणाद्ध्रुवम्
यत्पुण्यं लभ्यते शूरैः कथं तद्ब्रह्मवादिभिः७५
सर्वपापक्षयं कृत्वा सोक्षयं स्वर्गमश्नुते
सम्मुखे न्याययुद्धे च पतंति ब्राह्मणा रणे७६
ते व्रजंति परं स्थानं न गम्यं ब्रह्मवादिनां
धर्मयुद्धस्य यद्वृत्तं शृणु पुण्यं यथार्थतः७७
संमुखेन प्रयुध्यंते न च गच्छंति कातरं
न भग्नं पृष्ठतो घ्नंति निःशस्त्रं प्रपलायितम्७८
अयुध्यमानं भीरुं च पतितं गतकल्मषं
असच्छूद्रं स्तुतिप्रीतमाहवे शरणागतम्७९
हत्वा च नरकं यांति दुर्वृत्ता जयकांक्षिणः
एषा च क्षत्त्रिया वृत्तिः सदाचारैस्तु गीयते८०
यामाश्रित्य दिवं यांति सर्वक्षत्रियकुंजराः
धर्मयुद्धे शुभो मृत्युः संमुखे क्षत्त्रियस्य च८१
अत्र पूतो भवेत्सोपि सर्वपापैः प्रमुच्यते
स तिष्ठेत्स्वर्गलोके च प्रासादे रत्नभूषिते८२
जांबूनदमयस्तंभे रत्नभूषितभूतले
इष्टद्रव्यैः सुसंपूर्णे दिव्यवस्त्रोपशोभिते८३
पुरतः कल्पवृक्षाश्च तिष्ठंति सर्वदायिनः
वापीकूपतटाकाद्यैरुद्यानैरुपशोभिते८४
यौवनाढ्याश्च सेवंते तं देवपुरकन्यकाः
तस्याग्रतो मुदा नित्यं नृत्यंत्यप्सरसां गणाः८५
गीतं गायंति गंधर्वा देवाश्च स्तुतिपाठकाः
एवं क्रमेण कल्पांते सार्वभौमो भवेन्नृपः८६
सर्वभोगैककर्ता च नीरुङ्मन्मथविग्रहः
तस्य पत्न्यः प्ररूपाढ्याः सदैव यौवनान्विताः८७
धर्मशीलाः सुताः शुभ्राः समृद्धाः पितृसंमताः
एवं क्रमेण भुंजंति सप्तजन्मसु क्षत्रियाः८८
अन्यायेन तु योद्धारस्तिष्ठंति नरके चिरम्
एवं च क्षत्रिया वृत्तिर्ब्राह्मणैरुपजीव्यते८९
वैश्यैः शूद्रैस्तथान्यैश्च अंत्यजैर्म्लेच्छजातिभिः
ये च योधाः प्रयुध्यंते न्याययुद्धेन सर्वदा९०
तेपि यांति परं स्थानं सर्वे वर्णा द्विजातयः
न शूरो यो द्विजो भीरुरस्त्रशस्त्रविवर्जितः९१
विपत्तौ वैश्यवृतिं च कारयेद्द्विजसत्तमः
वैश्यवृत्तिं वणिग्भावं कृषिं चैव तथापरैः९२
कारयेत्कृषिवाणिज्यं विप्रकर्म न च त्यजेत्
वणिग्भावान्मृषात्युक्तौ दुर्गतिं प्राप्नुयाद्द्विजः
आर्द्रद्रव्यं परित्यज्य ब्राह्मणो लभते शिवम्
समुत्पाद्य ततो वृत्तिं दद्याद्विप्राय सर्वशः९४
पितृयज्ञे तथा चाग्नौ जुहुयाद्विधिवद्द्विजः
तुलेऽसत्यं न कर्त्तव्यं तुलाधर्मप्रतिष्ठिता९५
छलभावं तुले कृत्वा नरकं प्रतिपद्यते
अतुलं चापि यद्द्रव्यं तत्र मिथ्या परित्यजेत्९६
एवं मिथ्या न कर्त्तव्या मृषा पापप्रसूतिका
नास्ति सत्यात्परोधर्मो नानृतात्पातकं परम्९७
अतः सर्वेषु कार्येषु सत्यमेव विशिष्यते
अश्वमेधसहस्रं तु सत्यं च तुलया धृतम्९८
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते
यो वदेत्सर्वकार्येषु सत्यं मिथ्या परित्यजेत्९९
स निस्तरति दुर्गाणि स्वर्गमक्षयमश्नुते
वाणिज्यं कारयेद्विप्रो मिथ्याऽवश्यं परित्यजेत्१०० 1.48.100
वृद्धिं च निक्षिपेत्तीर्थे स्वयं शेषं तु भोजयेत्
देहक्लेशात्तत्सहस्रगुणं भवति सर्वदा१०१
अर्थार्जनविधौ मर्त्या विशंति विषमे जले
कांतारमटवीं चैव श्वापदैः सेवितां तथा१०२
गिरिं गिरिगुहां दुर्गां म्लेच्छानां शस्त्रपातिनाम्
गृहं प्रतिभयं स्थानं धनलोभात्समंततः१०३
सुतदारान्परित्यज्य दूरं गच्छंति लोभिनः
स्कंधे भारं वहंत्यन्ये तर्यां चक्रे निपातनैः१०४
क्षेपणीभिर्महादुःखैस्सदा प्राणव्ययेन च
अर्थस्य संचयः पुत्र प्राणात्प्रियतरो महान्१०५
एभिर्न्यायार्जितं वित्तं वणिग्भावेन यत्नतः
पितृदेवद्विजातिभ्यो दत्तं चाक्षयमश्नुते१०६
एतौ दोषौ महांतौ च वाणिज्ये लाभकर्मणि
लोभानामपरित्यागो मृषा ग्राह्यश्च विक्रयः१०७
एतौ दोषो परित्यज्य कुर्यादर्थार्जनं बुधः
अक्षयं लभते दानाद्वणिग्दोषैर्न लिप्यते१०८
पुण्यकर्मरतो विप्रः कृषिं हि परिकारयेत्
वाहयेद्दिवसस्यार्धं बलीवर्दचतुष्टयम्१०९
अभावात्त्रितयं चैव अविश्रामं न कारयेत्
चारयेच्च तृणेऽच्छिन्नै चोरव्याघ्रविवर्जिते११०
दद्याद्घासं यथेष्टं च नित्यमातर्पयेत्स्वयम्
गोष्ठं च कारयेत्तस्य किंचिद्विघ्नविवर्जितम्१११
सदा गोमयमूत्राभ्यां विघसैश्च विवर्जितम्
न मलं निक्षिपेद्गोष्ठे सर्वदेवनिकेतने११२
आत्मनः शयनीयस्य सदृशं कारयेद्बुधः
समं निर्वापयेद्यत्नाच्छीतवातरजस्तथा११३
प्राणस्य सदृशं पश्येद्गां च सामान्यविग्रहम्
अस्य देहे सुखंदुःखं तथा तस्यैव कल्पते११४
अनेन विधिना यस्तु कृषिकर्माणि कारयेत्
स च गोवाहनैर्दोषैर्न लिप्येत धनी भवेत्११५
दुर्बलं पीडयेद्यस्तु तथैव गदसंयुतम्
अतिबालातिवृद्धं च स गोहत्यां समालभेत्११६
विषमं वाहयेद्यस्तु दुर्बलं सबलं तथा
स गोहत्यासमं पापं प्राप्नोतीह न संशयः११७
यो वाहयेद्विना सस्यं खादंतं गां निवारयेत्
मोहात्तृणं जलं वापि स गोहत्यासमं लभेत्११८
संक्रांत्यां पौर्णमास्यां चामावास्यायां तथैव च
हलस्य वाहनात्पापं गवामयुतहत्यया११९
अमूषु पूजयेद्यस्तु सितैश्चित्रादिभिर्नरः
कज्जलैः कुसुमैस्तैलैः सोक्षयं स्वर्गमश्नुते१२०
घासमुष्टिं परगवे यो ददाति सदाह्निकम्
सर्वपापक्षयस्यस्य स्वर्गं चाक्षयमश्नुते१२१
यथा विप्रस्तथा गौश्च द्वयोः पूजाफलं समम्
विचारे ब्राह्मणो मुख्यो नृणां गावः पशौ तथा१२२
नारद उवाच-
विप्रो ब्रह्ममुखे जातः कथितो मे त्वयानघ
कथं गोभिः समो नाथ विस्मयो मे विधे ध्रुवम्१२३
ब्रह्मोवाच-
शृणु चात्र यथातथ्यं ब्राह्मणानां गवां यथा
एकपिंडक्रियैक्यं तु पुरुषैर्निर्मितं पुरा१२४
पुरा ब्रह्ममुखोद्भूतं कूटं तेजोमयं महत्
चतुर्भागप्रजातं तद्वेदोग्निर्गौर्द्विजस्तथा१२५
प्राक्तेजः संभवो वेदो वह्निरेव तथैव च
परतो गौस्तथा विप्रो जातश्चैव पृथक्पृथक्१२६
तत्र सृष्टा मया चादौ वेदाश्चत्वार एकशः
स्थित्यर्थं सर्वलोकानां भुवनानां समंततः१२७
अग्निर्हव्यानि भुंजीत देवहेतोस्तथा द्विजः
आज्यं गोप्रभवं विद्धि तस्मादेते प्रसूतकाः१२८
न संति यदि लोकेषु चत्वारोमी महत्तराः
तदाखिलं च भुवनं नष्टं स्थावरजंगमम्१२९
एभिर्धृताः सदा लोकाः प्रतिष्ठंति स्वभावतः
स्वभावो ब्रह्मरूपोसावेते ब्रह्ममयाः स्मृताः१३०
तस्माद्गौः पूजनीयोसौ विप्र देवासुरैरपि
उदारः सर्वकार्येषु जातस्तथ्यो गुणाकरः१३१
सर्वदेवमयः साक्षात्सर्वसत्वानुकंपकः
अस्य कार्यं मया सृष्टं पुरैव पोषणं प्रति१३२
अतएव मया दत्तं वरं चातिसुशोभनम्
एकजन्मनि ते मोक्षस्तवास्त्विति विनिश्चितम्१३३
अत्रैव ये मृता गावस्त्वागच्छंति ममालयम्
पापस्य कणमात्रं तु तेषां देहेन तिष्ठति१३४
देवी गौर्धेनुका देवाश्चादिदेवी त्रिशक्तिका
प्रसादाद्यस्य यज्ञानां प्रभवो हि विनिश्चितः१३५
गवां सर्वपवित्राणि पुनंति सकलं जगत्
मूत्रं गोर्गोमयं क्षीरं दधिसर्पिस्तथैव च१३६
अमीषां भक्षणे पापं न तिष्ठति कलेवरे
तस्माद्घृतं दधि क्षीरं नित्यं खादंति धार्मिकाः१३७
विशिष्टं सर्वद्रव्येषु गव्यमिष्टं परं शुभम्
यस्यास्ये भोजनं नास्ति तस्य मूर्तिस्तु पूतिका१३८
अन्नाद्यं पंचरात्रेण सप्तरात्रेण वै पयः
दधि विंशतिरात्रेण घृतं स्यान्मासमेककम्१३९
अगव्यैर्यस्तु भुंक्ते वै मासमेकं निरंतरम्
भोजने तस्य मर्त्यस्य प्रेताः खादंति चैव हि१४०
परमान्नं परं शुद्धं स्विन्नं चातपतण्डुलैः
भुक्त्वा तु यत्कृतं पुण्यं कोटिकोटिगुणं भवेत्१४१
अन्यच्चापि च यद्द्रव्यं हविष्यं शास्त्रनिर्मितम्
तद्भुक्तवा यत्कृतं कर्म सर्वं लक्षगुणं भवेत्१४२
निरामिषं च यत्किंचित्तस्माद्यद्यत्फलं लभेत्
तस्माद्गौः सर्वकार्येषु शस्त एको युगेयुगे१४३
सर्वदा सर्वकामेषु धर्मकामार्थमोक्षदः
नारद उवाच-
केषु किं वा प्रयोगेण परं पुण्यं प्रकीर्तितं१४४
वद तत्सर्वलोकेश यथा जानामि तत्वतः
ब्रह्मोवाच
सकृत्प्रदक्षिणं कृत्वा गोधनं चाभिवंदयेत्१४५
सर्वपापैर्विनिर्मुक्तः स्वर्गं चाक्षयमश्नुते
सुराचार्यो यथा वंद्यः पूज्योसौ माधवो यथा१४६
सप्तप्रदक्षिणं कृत्वा चैश्वर्यात्पाकशासनः
कल्य उत्थाय गोमध्ये पात्रं गृह्य सहोदकम्१४७
निषिंचेद्यो गवां शृंगं मस्तकेनैव तज्जलम्
प्रतीच्छेत निराहारस्तस्य पुण्यं निबोधत१४८
श्रूयंते यानि तीर्थानि त्रिषु लोकेषु नारद
सिद्धचारणयुक्तानि सेवितानि महर्षिभिः१४९
अभिषेकस्समस्तेषां गवां शृंगोदकस्य च
प्रातरुत्थाय यो मर्त्यः स्पृशेद्गां च घृतं मधु१५० 1.48.150
सर्षपांश्च प्रियंगूंश्च कल्मषात्प्रतिमुच्यते
घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः१५१
घृतनद्यो घृतावर्तास्ता मे संतु सदा गृहे
घृतं मे सर्वगात्रेषु घृतं मे मनसि स्थितम्१५२
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च
गावश्च सर्वगात्रेषु गवांमध्ये वसाम्यहम्१५३
इत्याचम्य जपेन्मंत्रं सायंप्रातरिदं शुचिः
सर्वपापक्षयस्तस्य स्वर्लोके पूजितो भवेत्१५४
यथा गौश्च तथा विप्रो यथाविप्रस्तथा हरिः
हरिर्यथा तथा गंगा एतेन ह्यवृषाः स्मृताः१५५
गावो बंधुर्मनुष्याणां मनुष्या बांधवा गवाम्
गौश्च यस्मिन्गृहे नास्ति तद्बंधुरहितं गृहम्१५६
गोमुखे चाश्रिता वेदाः सषडंगपदक्रमाः
शृंगयोश्च स्थितौ नित्यं सहैव हरिकेशवौ१५७
उदरेऽवस्थितः स्कंदः शीर्षे ब्रह्मा स्थितः सदा
वृषद्ध्वजो ललाटे च शृंगाग्र इंद्र एव च१५८
कर्णयोरश्विनौ देवौ चक्षुषोश्शशिभास्करौ
दंतेषु गरुडो देवो जिह्वायां च सरस्वती१५९
अपाने सर्वतीर्थानि प्रस्रावे चैव जाह्नवी
ऋषयो रोमकूपेषु मुखतः पृष्ठतो यमः१६०
धनदो वरुणश्चैव दक्षिणं पार्श्वमाश्रितौ
वामपार्श्वे स्थिता यक्षास्तेजस्वंतो महाबलाः१६१
मुखमध्ये च गंधर्वा नासाग्रे पन्नगास्तथा
खुराणां पश्चिमे पार्श्वेऽप्सरसश्च समाश्रिताः१६२
गोमये वसते लक्ष्मीर्गोमूत्रे सर्वमंगला
पादाग्रे खेचरा वेद्या हंभाशब्दे प्रजापतिः१६३
चत्वारः सागराः पूर्णा धेनूनां च स्तनेषु वै
गां च स्पृशति यो नित्यं स्नातो भवति नित्यशः१६४
अतो मर्त्यः प्रपुष्टैस्तु सर्वपापैः प्रमुच्यते
गवां रजः खुरोद्धूतं शिरसा यस्तु धारयेत्१६५
स च तीर्थजले स्नातः सर्वपापैः प्रमुच्यते
नारद उवाच-
गवां च दशवर्णानां कस्य दाने च किंफलम्१६६
ब्रूहि तत्त्वं गुरुश्रेष्ठ परमेष्ठिन्प्रियं यदि
ब्रह्मोवाच-
श्वेतां गां ब्राह्मणे दत्वा मानवश्चेश्वरो भवेत्१६७
प्रासादे वसते नित्यं भोगी च सुखमेधते
धूम्रा तु स्वर्गकांतार संसारे पापमोक्षिणी१६८
अक्षयं कपिलादानं कृष्णां दत्वा न सीदति
पांडुरा दुर्लभा लोके गौरी च कुलनंदिनी१६९
रक्ताक्षी रूपकामस्य धनकामस्य नीलिका
एकां च कपिलां दत्वा सर्वपापैः प्रमुच्यते१७०
यत्तु बाल्यकृतं पापं यौवने वार्धके कृतम्
वाचाकृतं कर्मकृतं मनसा यत्प्रचिंतितं१७१
अगम्यागमनं चैव मित्रद्रोहे च पातकम्
मानकूटं तुलाकूटं कन्यानृतं गवानृतम्१७२
सर्वं च नाशयेत्क्षिप्रं कपिलां यः प्रयच्छति
दशयोजनविस्तीर्णा महापारा महानदी१७३
नारा च जलकांतारे प्रसृते चोदकार्णवे
यावद्वत्सस्य द्वौ पादौ मुखं यावन्न जायते१७४
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुंचति
सुवर्णशृंगीं वस्त्राढ्यां सर्वालंकारभूषिताम्१७५
ताम्रपृष्ठीं रौप्यखुरां तथा कांस्योपदोहनाम्
शोभितां गंधपुष्पैश्च सर्वालंकारभूषितां१७६
ईदृशीं कपिलां दद्याद्द्विजातौ वेदपारगे
सर्वपापक्षयस्तस्य विष्णुलोकेऽच्युतो भवेत्१७७
तस्यां तु दुह्यमानायां भूमौ पतंति बिंदवः
आरामादि विजायंते बहुपुष्पफलोत्तमाः१७८
यत्र कामफला वृक्षा नद्यः पायसकर्दमाः
प्रासादाश्चापि सौवर्णास्तत्र गच्छंति गोप्रदाः१७९
दशधेनूश्च यो दद्यादेकं चैव धुरंधरं
समानं तु फलं प्रोक्तं ब्रह्मणा समुदाहृतम्१८०
एकं च दशभिर्दद्यात्सहस्राणां शतं फलम्
तस्यानुसारतो वेद्यं फलं नारद यत्नतः१८१
पितॄनुद्दिश्य यः पुत्रो वृषं च मोक्षयेद्भुवि
पितरो विष्णुलोकेषु महीयंते यथेप्सितम्१८२
चतस्रो वत्सतर्यश्च एकस्यैव वृषस्य च
मोक्ष्यंते सर्वतः पुत्र विधिरेष सनातनः१८३
यावंति चैव रोमाणि तस्य तासां च सर्वशः
तावद्वर्षसहस्राणि स्वर्गं भुजंति मानवाः१८४
लांगूलेन वृषो यच्च जलं चोत्क्षिपति ध्रुवं
तत्तोयं तु सहस्राब्दं पितॄणाममृतं भवेत्१८५
खुरेण कर्षयेद्भूमिं ततो लोष्ठं च कर्दमः
पितृभ्यश्च स्वधा तत्र लक्षकोटिगुणं भवेत्१८६
विद्यमाने च जनके यदि माता विनश्यति
चंदनेनांकिता धेनुस्तस्याः स्वर्गाय दीयते१८७
दाता चैव पितॄणां च ऋणं चैव प्रमुंचति
अक्षयं लभते स्वर्गं पूजितो मघवा यथा१८८
सर्वलक्षणसंयुक्ता तरुणा गौः पयस्विनी
समाप्रसूतिका भद्रा सा च गौः पृथिवी स्मृता१८९
तस्य दानेन मंत्रस्य पृथ्वीदानसमं फलं
शतक्रतुसमो मर्त्यः कुलमुद्धरते शतं१९०
गवां च हरणं कृत्वा मृते गोरथवत्सके
क्रिमिपूर्णे स कूपे च तिष्ठेदाभूतसंप्लवं१९१
गवां चैव वधं कृत्वा पितृभिः सह पच्यते
रौरवे नरके घोरे तावत्कालं प्रतिक्रिया१९२
गोप्रचारप्रभग्नश्च षंडवाहनबंधनः
अक्षयं नरकं प्रायान्पुनर्जन्मनि जन्मनि१९३
सकृच्च श्रावयेद्यस्तु कथां पुण्यतमामिमां
सर्वपापक्षयस्तस्य देवैश्च सह मोदते१९४
य इदं शृणुयाद्वापि परं पुण्यतमं महत्
सप्तजन्मकृतात्पापान्मुच्यते तत्क्षणेन हि१९५

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे गोमाहात्म्यं नामाष्टचत्वारिंशत्तमोऽध्यायः४८