पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः १८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १७ पद्मपुराणम्
अध्यायः १८
वेदव्यासः
अध्यायः १९ →


भीष्मउवाच
अत्यद्भुतमिदं ब्रह्मन्श्रुतवानस्मि तत्त्वतः
अभिषेकं तु गायत्र्याः सदस्यत्र तथा कृतम्१
विरोधं चैव सावित्र्या शापदानं तथा कृतम्
विष्णुना च यथा देवी सर्वस्थानेषु कीर्तिता२
गायत्री चापि रुद्रेण स्तुता च वरवर्णिनी
तं श्रुत्वा प्रतिमात्मानं विस्तरेण पितामहम्३
प्रहृष्टानि च रोमाणि प्रशांतं च मनो मम
श्रुत्वा मे परमा प्रीतिः कौतूहलमथैव हि४
नारायणस्तु भगवान्कृत्वा तां परमां च वै
ब्रह्मपत्न्याः स्तुतिं भक्त्या न्यस्यतां पर्वतोपरि५
उवाच वचनं विष्णुस्तुष्टिपुष्टिप्रदायकम्
श्रीमति ह्रीमती चैव या च देवीश्वरी तथा६
एतदेव श्रुतं ब्रह्मंस्तव वक्त्राद्विनिःसृतम्
उत्तरं तत्र यद्भूतं यच्च तस्मिन्स्थले कृतम्७
आनुपूर्व्या च तत्सर्वं भगवान्वक्तुमर्हति
श्रुतेन मे देहशुद्धिर्भविष्यति न संशयः८
पुलस्त्य उवाच
यजतः पुष्करे तस्य देवस्य परमेष्ठिनः
शृणुराजन्निदं चित्रं पूर्वमेव यथाकृतम्९
आदौ कृतयुगे तस्मिन्यजमाने पितामहे
मरीचिरंगिराश्चैव पुलस्त्यः पुलहः क्रतुः१०
दक्षः प्रजापतिश्चैव नमस्कारं प्रचक्रिरे
विद्योतमानाः पुरुषाः सर्वाभरणभूषिताः११
उपनृत्यंति देवेशं विष्णुमप्सरसां गणाः
ततो गंधर्वतूर्यैस्तु प्रतिनंद्य विहायसि१२
बहुभिः सह गंधर्वैः प्रगायति च तुंबरुः
महाश्रुतिश्चित्रसेन ऊर्णायुरनघस्तथा१३
गोमायुस्सूर्यवर्चाश्च सोमवर्चाश्च कौरव
युगपच्च तृणायुश्च नंदिश्चित्ररथस्तथा१४
त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः
कलिः पंचदशश्चात्र तारकश्चात्र षोडशः१५
हाहाहूहूश्च गंधर्वो हंसश्चैव महाद्युतिः
इत्येते देवगंधर्वा उपगायंति ते विभुम्१६
तथैवाप्सरसो दिव्या उपनृत्यंति तं विभुं
धातार्यमा च सविता वरुणोंशो भगस्तथा१७
इंद्रो विवस्वान्पूषा च त्वष्टा पर्जन्य एव च
इत्येते द्वादशादित्या ज्वलंतो दीप्ततेजसः१८
चक्रुरस्मिन्सुरेशाश्च नमस्कारं पितामहे
मृगव्याधश्च शर्वश्च निर्ऋतिश्च महायशाः१९
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः
भवो विश्वेश्वरश्चैव कपर्दी च विशांपते२०
स्थाणुर्भगश्च भगवान्रुद्रास्तत्रावतस्थिरे
अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः२१
विश्वेदेवाश्च साध्याश्च तस्मै प्रांजलयः स्थिताः
शेषाद्यास्तु महानागा वासुकिप्रमुखाहयः२२
काश्यपः कंबलश्चापि तक्षकश्च महाबलः
एते नागा महात्मानस्तस्मै प्रांजलयः स्थिताः२३
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च महाबलः
वारुणिश्चैवारुणिश्च वैनतेया व्यवस्थिताः२४
नारायणश्च भगवान्स्वयमागत्य लोकवान्
प्राह लोकगुरुं श्रीमान्सहसर्वैर्महर्षिभिः२५
त्वया ततमिदं सर्वं त्वया सृष्टं जगत्पते
तस्माल्लोकेश्वरश्चासि पद्मयोने नमोस्तु ते२६
यदत्र ते मया कार्यं कर्तव्यं च तदादिश
एवं प्रोवाच भगवान्सार्धं देवर्षिभिः प्रभुः२७
नमस्कृत्य सुरेशाय ब्रह्मणेऽव्यक्तजन्मने
स च तत्रस्थितो ब्रह्मा तेजसा भासयन्दिशः२८
श्रीवत्सलोमसंच्छन्नो हेमसूत्रेण राजता
सुरर्षिप्रतिमः श्रीमान्स्वयंभूर्भूतभावनः२९
शुचिरोमा महावक्षाः सर्वतेजोमयः प्रभुः
यो गतिः पुण्यशीलानामगतिः पापकर्मणां३०
योगसिद्धा महात्मानो यं विदुर्लोकमुत्तमं
यस्याष्टगुणमैश्वर्यं यमाहुर्देवसत्तमम्३१
यं प्राप्य शाश्वतं विप्रा नियता मोक्षकांक्षिणः
जन्मनो मरणाच्चैव मुच्यंते योगभाविताः३२
यदेतत्तप इत्याहुः सर्वाश्रमनिवासिनः
सेवंसेवं यताहारा दुश्चरं व्रतमास्थिताः३३
योनंत इति नागेषु प्रोच्यते सर्वयोगिभिः
सहस्रमूर्द्धा रक्ताक्षः शेषादिभिरनुत्तमैः३४
यो यज्ञ इति विप्रेंद्रैरिज्यते स्वर्गलिप्सुभिः
नानास्थानगतिः श्रीमानेकः कविरनुत्तमः३५
यं देवं वेत्ति वेत्तारं यज्ञभागप्रदायिनं
वृषाग्निसूर्यचंद्राक्षं देवमाकाशविग्रहं३६
तं प्रपद्यामहे देवं भगवन्शरणार्थिनः
शरण्यं शरणं देवं सर्वदेवभवोद्भवं३७
ऋषीणां चैव स्रष्टारं लोकानां च सुरेश्वरं
प्रियार्थं चैव देवानां सर्वस्य जगतः स्थितौ ३८
कव्यं पितॄणामुचितं सुराणां हव्यमुत्तमं
येन प्रवर्तितं सर् तं नतास्मस्सुरोत्तमं ३९
त्रेताग्निना तु यजता देवेन परमेष्ठिना
यथासृष्टिः कृता पूर्वं यज्ञसृष्टिस्तथा पुनः४०
तथा ब्रह्माप्यनंतेन लोकानां स्थितिकारिणा
अन्वास्यमानो भगवान्वृद्धोप्यथ च बुद्धिमान्४१
यज्ञवाटमचिंत्यात्मा गतस्तत्र पितामहः
धनाढ्यैर्ऋत्विजैः पूर्णं सदस्यैः परिपालितम्४२
गृहीतचापेन तदा विष्णुना प्रभविष्णुना
दैत्यदानवराजानो राक्षसानां गणाः स्थिताः४३
आत्मानमात्मना चैव चिंतयामास वै द्रुतं
चिंतयित्वा यथातत्वं यज्ञं यज्ञः सनातनः४४
वरणं तत्र भगवान्कारयामास ऋत्विजाम्
भृग्वाद्या ऋत्विजश्चापि यज्ञकर्मविचक्षणाः४५
चक्रुर्बह्वृचमुख्यैश्च प्रोक्तं पुण्यं यदक्षरं
शुश्रुवुस्ते मुनिश्रेष्ठा वितते तत्र कर्मणि४६
यज्ञविद्या वेदविद्या पदक्रमविदां तथा
घोषेण परमर्षीणां सा बभूव निनादिना४७
यज्ञसंस्तरविद्भिश्च शिक्षाविद्भिस्तथा द्विजैः
शब्दनिर्वचनार्थज्ञैः सर्वविद्याविशारदैः४८
मीमांसा हेतुवाक्यज्ञैः कृता नानाविधा मुखे
तत्र तत्र च राजेंद्र नियतान्संशितव्रतान्४९
जपहोमपरान्मुख्यान्ददृशुस्तत्रवै द्विजान्
यज्ञभूमौ स्थितस्तस्यां ब्रह्मा लोकपितामहः५० 1.18.50
सुरासुरगुरुः श्रीमान्सेव्यमानः सुरासुरैः
उपासते च तत्रैनं प्रजानां पतयः प्रभुं५१
दक्षो वसिष्ठः पुलहो मरीचिश्च द्विजोत्तमः
अंगिरा भृगुरत्रिश्च गौतमो नारदस्तथा५२
विद्यामानमंतरिक्षं वायुस्तेजो जलं मही
शब्दः स्पर्शश्च रूपं च रसो गंधस्तथैव च५३
विकृतश्च विकारश्च यच्चान्यत्कारणं महत्
ऋग्यजुः सामाथर्वाख्या वेदाश्चत्वार एव च५४
शब्दः शिक्षा निरुक्तं च कल्पश्च्छंदः समन्विताः
आयुर्वेद धनुर्वेदौ मीमांसा गणितं तथा५५
हस्त्यश्वज्ञानसहिता इतिहाससमन्विताः
एतैरंगैरुपांगैश्च वेदाः सर्वे विभूषिताः५६
उपासते महात्मानं सहोंकारं पितामहं
तपश्च क्रतवश्चैव संकल्पः प्राण एव च५७
एते चान्ये च बहवः पितामहमुपस्थिताः
अर्थो धर्मश्च कामश्च द्वेषो हर्षश्च सर्वदा५८
शुक्रो बृहस्पतिश्चैव संवर्तो बुध एव च
शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च५९
मरुतो विश्वकर्मा च पितरश्चापि भारत
दिवाकरश्च सोमश्च ब्रह्माणं पर्युपासते६०
गायत्री दुर्गतरणी वाणी सप्तविधा तथा
अक्षराणि च सर्वाणि नक्षत्राणि तथैव च६१
भाष्याणि सर्वशास्त्राणि देहवंति विशांपते
क्षणा लवा मुहूर्ताश्च दिनं रात्रिस्तथैव च६२
अर्द्धमासाश्च मासाश्च क्रतवः सर्व एव च
उपासते महात्मानं ब्रह्माणं दैवतैः सह६३
अन्याश्च देव्यः प्रवरा ह्रीः कीर्तिर्द्युतिरेव च
प्रभा धृतिः क्षमा भूतिर्नीतिर्विद्या मतिस्तथा६४
श्रुतिः स्मृतिस्तथा क्षांतिः शांतिः पुष्टिस्तथा क्रिया
सर्वाश्चाप्सरसो दिव्या नृत्यगीतविशारदाः६५
उपतिष्ठंति ब्रह्माणं सर्वास्ता देवमातरः
विप्रचित्तिः शिविः शंकुरयःशंकुस्तथैव च६६
वेगवान्केतुमानुग्रः सोग्रो व्यग्रो महासुरः
परिघः पुष्करश्चैव सांबोश्वपतिरेव च६७
प्रह्लादोथ बलि कुंभः संह्रादो गगनप्रियः
अनुह्रादो हरिहरौ वराहश्च कुशो रजः६८
योनिभक्षो वृषपर्वा लिंगभक्षोथ वै कुरुः
निःप्रभः सप्रभः श्रीमांस्तथैव च निरूदरः६९
एकचक्रो महाचक्रो द्विचक्रः कुलसंभवः
शरभः शलभश्चैव क्रपथः क्रापथः क्रथः७०
बृहद्वांतिर्महाजिह्वः शंकुकर्णो महाध्वनिः
दीर्घजिह्वोर्कनयनो मृडकायो मृडप्रियः७१
वायुर्गरिष्ठो नमुचिश्शम्बरो विज्वरो विभुः
विष्वक्सेनश्चंद्रहर्ता क्रोधवर्द्धन एव च७२
कालकः कलकांतश्च कुंडदः समरप्रियः
गरिष्ठश्च वरिष्ठश्च प्रलंबो नरकः पृथुः७३
इंद्रतापन वातापी केतुमान्बलदर्पितः
असिलोमा सुलोमा च बाष्कलि प्रमदो मदः७४
सृगालवदनश्चैव केशी च शरदस्तथा
एकाक्षश्चैव राहुश्च वृत्रः क्रोधविमोक्षणः७५
एते चान्ये च बहवो दानवा बलवर्द्धनाः
ब्रह्माणं पर्युपासंत वाक्यं चेदमथोचिरे७६
त्वया सृष्टाः स्म भगवंस्त्रैलोक्यं भवता हि नः
दत्तं सुरवरश्रेष्ठ देवेभ्यधिकाः कृताः७७
भगवन्निह किं कुर्मो यज्ञे तव पितामह
यद्धितं तद्वदास्माकं समर्थाः कार्यनिर्णये७८
किमेभिस्ते वराकैश्च अदितेर्गर्भसंभवैः
दैवतैर्निहतैः सर्वैः पराभूतैश्च सर्वदा७९
पितामहोसि सर्वेषामस्माकं दैवतैः सह
तव यज्ञसमाप्तौ च पुनरस्मासु दैवतैः८०
श्रियं प्रति विरोधश्च भविष्यति न संशयः
इदानीं प्रेक्षणं कुर्मः सहिताः सर्वदानवैः८१
पुलस्त्य उवाच
सगर्वं तु वचस्तेषां श्रुत्वा देवो जनार्दनः
शक्रेण सहितः शंभुमिदमाह महायशाः८२
विघ्नं प्रकर्तुं वै रुद्र आयाता दनुपुंगवाः
ब्रह्मणामंत्रिताश्चेह विघ्नार्थं प्रयतंति ते८३
अस्माभिस्तु क्षमाकार्या यावद्यज्ञः समाप्यते
समाप्ते तु क्रतावस्मिन्युद्धं कार्यं दिवौकसां८४
यथानिर्दानवा भूमिस्तथा कार्यं त्वया विभो
जयार्थं चेह शक्रस्य भवता च मया सह८५
द्विजानां परिवेष्टारो मरुतः परिकल्पिताः
दानवानां धनं यच्च गृहीत्वा तद्यजामहे८६
अत्रागतेषु विप्रेषु दुःखितेषु जनेष्विह
व्ययं तस्य करिष्यामो दासभावे निवेशिताः८७
वदंतमेवं तं विष्णुं ब्रह्मा वचनमब्रवीत्
एते दनुसुताः क्रुद्धा युष्माकं कोपनेप्सिताः८८
भवता च क्षमा कार्या रुद्रेण सह दैवतैः
कृते युगावसाने तु समाप्तिं चक्रतौ गते८९
मया च प्रेषिता यूयमेते च दनुपुंगवाः
संधिर्वा विग्रहो वापि सर्वैः कार्यस्तदैव हि९०
पुलस्त्य उवाच
पुनस्तान्दानवान्ब्रह्मा वाक्यमाह स्वयंप्रभुः
दानवैर्न विरोधोत्र यज्ञे मम कथंचन९१
मैत्रभावस्थिता यूयमस्मत्कार्ये च नित्यशः
दानवा ऊचुः
सर्वमेतत्करिष्यामः शासनं ते पितामह९२
अस्माकमनुजा देवा भयं तेषां न विद्यते
पुलस्त्य उवाच
एतच्छुत्वा तदा तेषां परितुष्टः पितामहः९३
मुहूर्तं तिष्ठतां तेषामृषिकोटिरुपागता
श्रुत्वा पैतामहं यज्ञं तेषां पूजां तु केशवः९४
आसनानि ददौ तेषां तदा देवः पिनाकधृत्
वसिष्ठोर्घं ददौ तेषां ब्रह्मणा परिचोदितः९५
गामर्घं च ततो दत्वा पृष्ट्वा कुशलमव्ययम्
निवेशं पुष्करे दत्वा स्थीयतामिति चाब्रवीत्९६
ततस्ते ऋषयः सर्वे जटाजिनधरास्तथा
शोभयंतः सरःश्रेष्ठं गङ्गामिव दिवौकसः९७
मुंडाः काषायिणश्चैके दीर्घश्मश्रुधराः परे
विरलैर्दशनैः केचिच्चिपिटाक्षास्तथा परे९८
बृहत्तनूदराः केपि केकराक्षास्तथापरे
दीर्घकर्णा विकर्णाश्च कर्णैश्च त्रुटितास्तथा९९
दीर्घफाला विफालाश्च स्नायुचर्मावगुंठिताः
निर्गतं चोदरं तेषां मुनीनां भावितात्मनां१०० 1.18.100
दृष्ट्वा तु पुष्करं तीर्थं दीप्यमानं समंततः
तीर्थलोभान्नरव्याघ्र तस्य तीरे व्यवस्थिताः१०१
वालखिल्या महात्मानो ह्यश्मकुट्टास्तथापरे
दंतोलूखलिनश्चान्ये संप्रक्षालास्तथापरे१०२
वायुभक्षा जलाहाराः पर्णाहारास्तथापरे
नाना नियमयुक्ताश्च तथा स्थंडिलशायिनः१०३
सरस्यस्मिन्मुखं दृष्ट्वा सुरूपास्याः क्षणादभुः
किमेतदिति चिंत्याथ निरीक्ष्य च परस्परम्१०४
अस्मिंस्तीर्थे दर्शनेन मुखस्येह सुरूपता
मुखदर्शनमित्येव नाम कृत्वा तु तापसाः१०५
स्नाता नियमयुक्ताश्च सुरूपास्ते तदाभवन्
देवपुत्रोपमा जाता अनौपम्य गुणान्विताः१०६
शोभमाना नरश्रेष्ठ स्थिताः सर्वे वनौकसः
यज्ञोपवीतमात्रेण व्यभजंस्तीर्थमंजसा१०७
जुह्वतश्चाग्निहोत्राणि चक्रुश्च विविधाः क्रियाः
चिंतयंतो हि राजेंद्र तपसा दग्धकिल्बिषाः१०८
न यास्यामो परं तीर्थं ज्येष्ठभावेत्विदं सरः
ज्येष्ठपुष्करमित्येव नाम चक्रुर्द्विजातयः१०९
तत्र कुब्जान्बहून्दृष्ट्वा स्थितांस्तीर्थसमीपतः
बभूवुर्विस्मितास्तत्र जना ये च समागताः११०
दत्वा दानं द्विजातिभ्यो भांडानि विविधानि च
श्रुत्वा सरस्वतीं प्राचीं स्नातुकामा द्विजागताः१११
सरस्वतीतीर्थवरा नानाद्विजगणैर्युता
बदरेंगुदकाश्मर्य प्लक्षाश्वत्थविभीतकैः११२
पौलोमैश्च पलाशैश्च करीरैः पीलुभिस्तथा
सरस्वतीतीर्थरुहैर्धन्वनैः स्यंदनैस्तथा११३
कपित्थैः करवीरैश्च बिल्वैराम्लातकैस्तथा
अतिमुक्तकपंडैश्च पारिजातैश्च शोभिता११४
कदंबवनभूयिष्ठा सर्वसत्वमनोरमा
वाय्वंबुफलपर्णादैर्दंतोलूखलिकैरपि११५
तथाश्मकुट्टमुख्यैश्च वरिष्ठैर्मुनिभिर्वृता
स्वाध्यायघोषसंघुष्टा मृगयूथशताकुला११६
अहिंसैर्धर्मपरमैस्तथा चातीव शोभिता
सुप्रभा कांचनाख्या च प्राची नंदा विशालका११७
स्रोतोभिः पंचभिस्तत्र वर्तते पुष्करे नदी
पितामहस्य सदसि वर्त्तमाने महीतले११८
वितते यज्ञवाटे तु स्वागतेषु द्विजादिषु
पुण्याहघोषैर्विततैर्देवानां नियमैस्तथा११९
देवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तथा
तत्र चैव महाराज दीक्षिते च पितामहे१२०
यजतस्तस्य सत्रेण सर्वकामसमृद्धिना
मनसा चिंतिता ह्यर्था धर्मार्थकुशलास्तथा१२१
उपतिष्ठंति राजेंद्र द्विजातींस्तत्र तत्र ह
जगुश्च देवगंधर्वा ननृतुश्चाप्सरोगणाः१२२
वादित्राणि च दिव्यानि वादयामासुरंजसा
तस्य यज्ञस्य संपत्या तुतुषुदेर्वता अपि१२३
विस्मयं परमं जग्मुः किमु मानुषयोनयः
वर्तमाने तथा यज्ञे पुष्करस्थे पितामहे१२४
अब्रुवन्नृषयो भीष्म तदा तुष्टास्सरस्वतीम्
सुप्रभां नाम राजेंद्र नाम्ना चैव सरस्वतीम्१२५
ते दृष्ट्वा मुनयः सर्वे वेगयुक्तां सरस्वतीम्
पितामहं भासयंतीं क्रतुं ते बहु मेनिरे१२६
एवमेषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती
पितामहार्थं सम्भूता तुष्ट्यर्थं च मनीषिणाम्१२७
पुण्यस्य पुण्यताकारि पंचस्रोतास्सरस्वती
सुप्रभा नाम राजेंन्द्र नाम्ना चैव सरस्वती१२८
यत्र ते मुनयश्शान्ता नानास्वाध्यायवादिनः
ते समागत्य ऋषयस्सस्मरुर्वै सरस्वतीम्१२९
साभिध्याता महाभागा ऋषिभिः सत्रयाजिभिः
समास्थिता दिशं पूर्वां भक्तिप्रीता महानदी१३०
प्राची पूर्वावहा नाम्ना मुनिवंद्या सरस्वती
इदमन्यन्महाराज शृण्वाश्चर्यवरं भुवि१३१
क्षतो मंकणको विप्रः कुशाग्रेणेति नः श्रुतम्
क्षतात्किल करे तस्य राजन्शाकरसोस्रवत्१३२
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान्
ततस्तस्मिन्प्रनृत्ते तु स्थावरं जंगमं च यत्१३३
प्रानृत्यत जगत्सर्वं तेजसा तस्य मोहितम्
शक्रादिभिस्सुरै राजन्नृषिभिश्च तपोधनैः१३४
विज्ञप्तस्तत्र वै ब्रह्मा नायं नृत्येत्तथा कुरु
आदिष्टो ब्रह्मणा रुद्र ऋषेरर्थे नराधिप१३५
नायं नृत्येद्यथा भीम तथा त्वं वक्तुमर्हसि
गत्वा रुद्रो मुनिं दृष्ट्वा हर्षाविष्टमतीव हि१३६
भो भो विप्रर्षभ त्वं हि नृत्यसे केन हेतुना
नृत्यमानेन भवता जगत्सर्वं च नृत्यति१३७
तेनायं वारितः प्राह नृत्यन्वै मुनिसत्तमः
मुनिरुवाच
किं न पश्यसि मे देव कराच्छाकरसोस्रवत्१३८
तं तु दृष्ट्वाप्र नृत्तोहं हर्षेण महतावृतः
तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम्१३९
अहं न विस्मयं विप्र गच्छामीह प्रपश्य मां
एवमुक्तो मुनिश्रेष्ठो महादेवेन कौरव१४०
ध्यायमानस्तदा कोयं प्रतिषिद्धोस्मि येन हि
अंगुल्यग्रेण राजेंद्र स्वांगुष्ठस्ताडितस्तथा१४१
ततो भस्मक्षताद्राजन्निर्गतं हिमपांडुरं
तद्दृष्ट्वा व्रीडितश्चासौ प्राह तत्पादयोः पतन्१४२
नान्यद्देवादहं मन्ये रुद्रात्परतरं महत्
चराचरस्य जगतो गतिस्त्वमसि शूलधृत्१४३
त्वया सृष्टमिदं सर्वं वदंतीह मनीषिणः
त्वामेव सर्वं विशति पुनरेव युगक्षये१४४
देवैरपि न शक्यस्त्वं परिज्ञातुं मया कुतः
त्वयि सर्वे च दृश्यन्ते सुरा ब्रह्मादयोपि ये१४५
सर्वस्त्वमसि देवानां कर्ता कारयिता च यः
त्वत्प्रसादात्सुराः सर्वे भवंतीहाकुतोभयाः१४६
एवं स्तुत्वा महादेवमृषिश्च प्रणतोब्रवीत्
भगवंस्त्वत्प्रसादेन तपो न क्षीयते त्विह१४७
ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत्
तपस्ते वर्द्धतां विप्र मत्प्रसादात्सहस्रधा१४८
प्राचीमेवेह वत्स्यामि त्वया सार्द्धमहं सदा
सरस्वती महापुण्या क्षेत्रे चास्मिन्विशेषतः१४९
न तस्य दुर्लर्भं किंचिदिह लोके परत्र च
सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम्१५० 1.18.150
प्राचीतटे जाप्यपरो न चेह म्रियते पुनः
आप्लुतो वाजिमेधस्य फलमाप्स्यति पुष्कलं१५१
नियमैश्चोपवासैश्च कर्शयन्देहमात्मनः
जलाहारो वायुभक्षः पर्णाहारश्च तापसः१५२
तथा स्थंडिलशायी च ये चान्ये नियमाः पृथक्
करोति यो द्विजश्रेष्ठो नियमांस्तान्व्रतानि च१५३
स याति शुद्धदेहश्च ब्रह्मणः परमं पदं
तस्मिंस्तीर्थे तु यैर्दत्तं तिलमात्रं तु कांचनं१५४
मेरुदानसमं तत्स्यात्पुरा प्राह प्रजापतिः
तस्मिंस्तीर्थे तु ये श्राद्धं करिष्यंति हि मानवाः१५५
एकविंशकुलोपेताः स्वर्गं यास्यंति ते नराः
पितॄणां च शुभं तीर्थं पिंडेनैकेन तर्पिताः१५६
ब्रह्मलोकं गमिष्यंति स्वपुत्रेणेह तारिताः
भूयश्चान्नं न चेच्छंति मोक्षमार्गं व्रजंति ते१५७
प्राचीनत्वं सरस्वत्या यथा भूतं शृणुष्व तत्
सरस्वती पुरा प्रोक्ता देवैः सर्वैः सवासवैः१५८
तटं त्वया प्रयातव्यं प्रतीच्यां लवणोदधेः
वडवाग्निमिमं नीत्वा समुद्रे निक्षिपस्व ह१५९
एवं कृते सुराः सर्वे भवंति भयवर्जिताः
अन्यथा वाडवाग्निस्तु दहते स्वेन तेजसा१६०
तस्माद्रक्षस्व विबुधानेतस्मादचिराद्भयात्
मातेव भव सुश्रोणि सुराणामभयप्रदा१६१
एवमुक्ता तु सा देवी विष्णुना प्रभविष्णुना
आह नाहं स्वतंत्रास्मि पिता मे व्रियतां स्वराट्१६२
तदाज्ञाकारिणी नित्यं कुमारीह धृतव्रता
पित्रादेशाद्विना नाहं पदमेकमपि क्वचित्१६३
गच्छामि तस्मात्कोप्यन्य उपायश्चिंत्यतामहो
तदाशयं विदित्वाहुस्ते समेत्य पितामहं१६४
नान्येन शक्यते नेतुं वडवाग्निः पितामह
अदृष्टदोषाम्मुक्त्वैकां कुमारीं तनयां तव१६५
सरस्वतीं समानीय कृत्वांके वरवर्णिनीं
शिरस्याघ्रायसस्नेहमुवाचाथसरस्वतीम्१६६
मां च देवि सुराः प्राहुः स त्वं ब्रूहि यशस्विनीम्
नीत्वा विनिक्षिपेदेनं बाडवं लवणांबुनि१६७
पितुर्वाक्यं हि तच्छ्रुत्वा वियुक्ता कुररी यथा
पित्रा तदैव सा कन्या रुरुदे दीनमानसा१६८
शोभते तन्मुखं तस्याः शोकबाष्पाविलेक्षणं
सितं विकसितं तद्वत्पद्मं तोयकणोक्षितम्१६९
तत्तथाविधमालोक्य पितामहपुरस्सराः
विबुधाः शोकभावस्य सर्वे वशमुपागताः१७०
संस्तभ्य हृदयं तस्याः शोकसंतापितं तदा
पितामहस्तामुवाच मा रोदीर्नास्ति ते भयम्१७१
मान लाभश्च भविता तव देवानुभावतः
नीत्वा क्षारोदमध्ये तु क्षिपस्व ज्वलनं सुते१७२
एवमुक्ता तु सा बाला बाष्पाकुलितलोचना
प्रणम्य पद्मजन्मानं गच्छाम्युक्तवती तु सा१७३
मा भैरुक्ता पुनस्तैस्तु पित्रा चापि तथैव सा
त्यक्त्वा भयं हृष्टमनाः प्रयातुं समवस्थिता१७४
तस्याः प्रयाणसमये शंखदुंदुभिनिस्वनैः
मंगलानां च निर्घोषैर्जगदापूरितं शुभैः१७५
सितांबरधराधन्या सितचंदनमंडिता
शरदंबुजसच्छाय तारहारविभूषिता१७६
संपूर्णचंद्रवदना पद्मपत्रायतेक्षणा
शुभां कीर्तिं सुरेशस्य पूरयंती दिशो दश१७७
स्वतेजसा तद्धृदयान्निःसृता भासयज्जगत्
अनुव्रजन्ती तां गंगा तयोक्ता वरवर्णिनी१७८
द्रक्ष्यामि त्वां पुनरहं प्रयासि कुत्र मे सखि
एवमुक्ता तु सा गंगा प्रोवाच मधुरां गिरम्१७९
यदैवायास्यसि प्राचीं दिशं मां पश्यसे शुभे
विबुधैस्त्वं परिवृता दर्शनं तव संश्रये१८०
उदङ्मुखी तदा भूत्वा त्यज शोकं शुचिस्मिते
अहं चोदङ्मुखी पुण्या त्वं तु प्राची सरस्वति१८१
तत्र क्रतुशतं पुण्यं स्नानदानेन सुव्रते
श्राद्धदाने तथा नित्यं पितॄणां दत्तमक्षयम्१८२
ये करिष्यंति मनुजा विमुक्तास्त्ते ऋणैस्त्रिभिः
मोक्षमार्गं गमिष्यंति विचारो नात्र विद्यते१८३
तामुवाच ततो गंगा पुनर्दर्शनमस्तु ते
गच्छ स्वमालयं भद्रे स्मर्तव्याहं त्वयानघे१८४
यमुनापि तथैवं सा गायत्री च मनोरमा
सावित्र्या सहिताः सर्वाः सखीं संप्रैषयंस्तथा१८५
ततो विसृज्य तान्देवान्नदी भूत्वा सरस्वती
उत्तंकस्याश्रमपद उद्भूता सा मनस्विनी१८६
अधस्तात्प्लक्षवृक्षस्य अवरोप्य च तां तनुम्
अवतीर्णा महाभागा देवानां पश्यतां तदा१८७
विष्णुरूपस्तरुः सोत्र सर्वदेवैस्तु वंदितः
संसेव्यश्च द्विजैर्नित्यं फलहेतोर्महोदयः१८८
अनेकशाखाविततश्चतुर्मुख इवापरः
तत्कोटरकुटीकोटि प्रविष्टानां द्विजन्मनाम्१८९
श्रूयंते विविधा वाचः सुराणां रक्तचेतसाम्
वनस्पतिरपुष्पोपि पुष्पितश्चोपलक्ष्यते१९०
जातीचंपकवत्पुष्पैः शाखालग्नैः शुकैः शुभैः
केतकीभिः सुरभिभिरशोभत सरिद्वरा१९१
कोकिलाभिस्स मालेव फेनकैः पुष्पितेव सा
हरेणेव यथा गंगा प्लक्षेणैव हि सा तथा१९२
तत्रांभस्था तदा देवं प्रोवाचाथ जनार्दनम्
समर्पयस्व तं वह्निं देवादेशं करोम्यहम्९१३
एवमुक्तेन सा तेन प्रत्युक्ता विष्णुना तदा
न ते दाहभयं त्याज्यस्त्वयायं वह्निराट्स्वयम्१९४
पश्चिमं सागरं नेतुं वाडवज्वलनं शुभे
एवं क्रमेण गच्छंत्या तदापं प्राप्स्यते शुभे१९५
ततस्तं शातकुंभस्थं कृत्वासौ वडवानलं
समर्पयत गोविंदः सरस्वत्या महोदरे१९६
सा तं गृहीत्वा सुश्रोणी प्रतीच्यभिमुखी ययौ
अंतर्द्धानेन संप्राप्ता पुष्करं सा महानदी१९७
मर्यादापर्वते तस्मिन्संभूता विमला सरित्
पुष्करारण्यं विपुलं सुरसिद्धनिषेवितम्१९८
पितामहेन यत्रासीद्यज्ञसत्रं निषेवितम्
सिध्यर्थं मुनिमुख्यानामागतासौ महानदी१९९
येषु तत्र कृतो होमः कुंडेष्वासीद्विरिंचिना
तानि सर्वाणि संप्लाव्य तोयेनाप्युद्गता हि सा२०० 1.18.200
तत्र क्षेत्रे महापुण्या पुष्करे सा तथोत्थिता
तेन तत्पूरणं प्रोक्तं वायुना जगदायुषा२०१
सापि तत्क्षेत्रमासाद्य पुण्यं पुण्या महानदी
सरस्वती स्थिता देवी मर्त्यानां पापनाशिनी२०२
तत्र ये शुभकर्माणः पुष्करस्थां सरस्वतीम्
पश्यंति ते न पश्यंति सुघोरां तामधोगतिं२०३
यः पुनस्तत्र भावेन नरः स्नानं समाचरेत्
स ब्रह्मलोकमासाद्य ब्रह्मणा सह मोदते२०४
यस्तु दद्यात्तत्र दधि ब्राह्मणाय मनोरमम्
सोप्यग्निलोकमासाद्य भुंक्ते भोगान्सुशोभनान्२०५
वरं प्रावरणं योपि भक्त्या दद्याद्द्विजातये
सोपि सद्वस्त्रदानस्य फलं दशगुणं लभेत्२०६
ज्येष्ठकुंडे नरः स्नात्वा यः संतर्पयते पितॄन्
स तानुद्धरते सर्वान्नरकादपि शुद्धधीः२०७
क्षेत्रे पैतामहे पूते पुण्यां प्राप्य सरस्वतीम्
नरः किं प्रार्थयेदन्यत्तीर्थं ब्रह्मसुतोब्रवीत्२०८
तस्मात्सर्वेषु तीर्थेषु स्नातः प्राप्नोति यत्फलम्
तत्सर्वं प्राप्नुयान्मर्त्यो ज्येष्ठकुंडे सकृत्प्लुतः२०९
किमत्र बहुनोक्तेन क्षेत्रं तीर्थं गतिश्शुभा
येनैतत्त्रितयं प्राप्तं प्राप्ता तेन गतिः परा२१०
काले क्षेत्रे तथा तीर्थे स्नात्वा हुत्वापि तत्र यः
प्रयच्छते द्विजायार्थं सोनंतं सुखमश्नुते२११
कार्त्तिके मासि शुक्ले च वैशाखे शशिभूषणे
चंद्रसूर्योपरागे च काले च कुरुजांगले२१२
क्षेत्रेष्वेतेषु तीर्थानि यान्युक्तानि मुनीश्वरैः
तेषां पुण्यतमं तीर्थमिदमाह पितामहः२१३
कुंडे तु मध्यमे स्नात्वा कार्तिक्यां यः पुमान्द्विजे
प्रयच्छते चापि द्रव्यं सोश्वमेधमवाप्नुयात्२१४
एवं कनिष्ठकेप्यत्र कुंडे स्नात्वा समाधिना
यः प्रयच्छति विप्राय सुरूपामपि शालिकाम्२१५
स प्रयाति नरः क्षिप्रमग्निलोकं मनोरमम्
त्रिःसप्तकुलसंयुक्तो भुंक्ते तत्र महाफलम्२१६
तस्मात्सर्वप्रयत्नेन गमनाय मतिः स्थिरा
पुरुषेण तु कर्तव्या पुष्करावाप्तये शुभा२१७
पुष्करारण्यमासाद्य प्राची यत्र सरस्वती
मतिः स्मृतिः शुभा प्रज्ञा मेधा बुद्धिर्दयापरा२१८
सरस्वत्यास्तु पर्यायाष्षडेते संप्रकीर्तिताः
ततः प्रभृति यत्रासौ प्राचीभूता सरस्वती२१९
तत्रस्थं तज्जलं येपि पश्यंति तटसंस्थिताः
तेप्यश्वमेधस्यफलं लभंते नात्र संशयः२२०
योवतीर्य पुनस्तत्र कश्चित्स्नानं समाचरेत्
नरः समाधियुक्तो वै ब्रह्मणोनुचरो भवेत्२२१
शाकादिनापि हि पितॄन्यस्तत्रार्चयते नरः
सोप्येति विपुलान्भोगांस्तेषामेवानुभावतः२२२
ये पुनर्विधिना तत्र श्राद्धं कुर्वंति मानवाः
ते नयंति पितॄन्स्वर्गं नरकादपि दुःखदात्२२३
तृप्यंति पितरस्तस्य यस्तत्र कुशमिश्रितम्
स्नात्वा प्रयच्छते तोयं पूतं तेषां तिलान्वितम्२२४
सर्वेषामेव तीर्थानामिदमेवाधिकं स्मृतम्
आदितीर्थमिदं तस्मात्तीर्थानां भुवि विश्रुतम्२२५
धर्मापवर्गयोःनक्रीडाननिधिभूतमवस्थितम्
सरस्वत्यानपुनश्चैवनसमेतंनगुणवत्तरम्२२६
धर्मार्थकाममोक्षाणां चतुर्णामपि दायकम्
येप्यत्र मलनाशाय पुमांसो विविशुर्जलम्२२७
गोप्रदानसमं तेषां सुखेनैव फलं भवेत्
सुवर्णदानेन सममेवमाहुर्मनीषिणः२२८
तर्पणात्पिण्डदानाच्च नरकेष्वपि संस्थिताः
स्वर्गं प्रयान्ति पितरस्तत्र पुत्रेण तारिताः२२९
पुष्करेपि सरस्वत्यां ये पिबन्ति जलं जनाः
ते लभन्तेऽक्षयान्लोकान्ब्रह्मविश्वेशवंदितान्२३०
स्वर्गनिश्रेणिकाभूता पुष्करे च सरस्वती
सा पुण्यवद्भिस्संप्राप्तुं पुंभिश्शक्या महानदी२३१
मुनिभर्धर्मतत्त्वज्ञैस्तत्र तत्र निषेविता
तस्मात्सर्वत्र सा देवी पवित्रा सर्वतस्स्थिता२३२
पुष्करे तु विशेषेण पूतात्पूततमा हि सा
नदी सरस्वती पुण्या सुलभा जगति स्थिता२३३
दुर्लभा सा कुरुक्षेत्रे प्रभासे पुष्करे तथा
तत्तीर्थं सर्वतीर्थानां प्रवरं विहितं भुवि२३४
धर्मार्थकाममोक्षाणां चतुर्णामपि साधकम्
प्राचीं सरस्वतीं प्राप्य योन्यत्तीर्थं हि मार्गते२३५
स करस्थं समुत्सृज्य ह्यमृतं विषमिच्छति
ज्येष्ठे ज्येष्ठा प्रयागस्य मध्यमे मध्यमा स्मृता२३६
प्रदक्षिणं ततो गच्छेत्कनीयांसं विचक्षणः
त्रिष्वप्येतेषु स्नायीत कुर्याच्चापि प्रदक्षिणम्२३७
प्रयच्छति पितृभ्यो यस्तोयं तेषां तिलान्वितम्
तेपि तुष्टाः पुनस्तस्य प्रयच्छंत्यमितं फलम्२३८
यः स्नात्वा प्रयतो नित्यं ततः पश्येत्पितामहम्
अनुलोमविलोमाभ्यां तथा व्यस्तसमस्तयोः२३९
स्नातव्यं पुष्करे नित्यं ब्रह्मलोकमभीप्सिता
त्रीणि शृंगाणि शुभ्राणि त्रीणि प्रस्रवणानि च२४०
पुष्कराणि प्रसिद्धानि न विद्मस्तत्र कारणं
कनीयांसं मध्यमं च तृतीयं ज्येष्ठपुष्करं२४१
शृंगशद्बाभिधानानि शुभप्रस्रवणानि च
धर्मार्थकाममोक्षाणां संकल्पैरफलं नरः२४२
यस्तत्र संत्यजेद्देहं मोक्षं प्राप्नोत्यसंशयम्
प्रयतः संयतस्तस्यां स्नात्वा दद्याद्विजे शुभाम्२४३
गामेकां मंत्रपूतां च लोकानाप्नोतिमोक्षदान्
किमत्र बहुनोक्तेन रात्रावपि हि योर्थिने२४४
अर्थं प्रयच्छते स्नात्वा सोनन्तं सुखमश्नुते
तत्र दानं प्रशंसंति तिलानां मुनिसत्तमाः२४५
कृष्णपक्षे चतुर्दश्यां स्नानं च विहितं सदा
पिण्याकेन गुडेनापि पिंडं योत्र प्रयच्छति२४६
पितॄणां प्रयतो भूत्वा पितृलोकं स यछति
पुष्करारण्यमासाद्य पुनस्तस्मात्सरस्वती२४७
अंतर्द्धानं गता गंतुं प्रवृत्तागपश्चिमामुखी
नातिदूरे ततस्तस्य पुष्करस्य सुशोभना२४८
खर्जूरवनमासाद्य फलपुष्पोपशोभितं
तत्रोषित्वा पुनर्देवी वने मुनिमनोरमे२४९
सर्वर्तुकुसुमाकीर्णे सिद्धचारणसेविते
नंदा नाम सरिच्छ्रेष्ठा त्रिषुलोकेषु विश्रुता२५० 1.18.250
मीननक्रझषोपेता विमलोदकपूरिता
सूत उवाच
अथ देवव्रतःप्राह किमन्या सा सरिद्वरा२५१
एतन्मे कौतुकं ब्रह्मन्नंदा शब्दा सरस्वती
यथाभूता येन कृता कारणेन सरिद्वरा२५२
एवमुक्ते पुलस्त्यः स भीष्मायैतत्पुरातनं
आख्यातुमुपचक्राम नंदा नाम यतस्स्मृतं२५३
क्षत्रव्रतधरो नित्यमासीद्राजा प्रभंजनः
प्रवृत्तोसौ मृगान्हंतुं वने तस्मिन्महाबलः२५४
स ददर्श ततस्तस्मिन्मृगीं गुल्मांतरे स्थितां
मार्गणेन सुतीक्ष्णेन तां विव्याध पुरोगतां२५५
सा विलोक्य दिशः सर्वास्तं दृष्ट्वा शरपाणिनं
आह किं ते कृतं मूढ त्वयैतत्कर्मदुष्करं२५६
स्तनं तावत्प्रयच्छामि सुतस्याधोमुखी स्थिता
मांसलोभेन विद्धाहं तरसा ह्यकुतोभया२५७
पिबंतं गुप्तवत्सं च गूढमैथुनमागतं
एवंविधं मृगं राजन्न हन्यात्प्राङ्मया श्रुतं२५८
स्तनं तु तनयस्यास्य प्रयच्छंती त्वया हता
बाणेनाशनिकल्पेन निर्दोषा वनमागता२५९
तस्मात्त्वमपि दुर्बुद्धे क्रव्यादत्वमवाप्स्यसि
वनेस्मिन्कंटकाकीर्णे व्याघ्ररूपं त्वमाप्नुहि२६०
शापप्रदानं श्रुत्वैवं स राजापुरतः स्थितः
प्रोवाच प्रांजलिर्भूत्वा तां मृगीं व्यथितेन्द्रियः२६१
स्तनं तु तनयस्येह प्रयच्छंती न मे मता
अज्ञानेन हता भद्रे प्रसीद सुसमाधिना२६२
व्याघ्ररूपमहं त्यक्त्वा प्राप्स्यामि मानुषं कदा
एवंविधस्य शापस्य विमोक्षं शंस मे मृगि२६३
एवमुक्ते मृगी तस्य प्रोवाच वचनं शुभम्
राजन्नब्दशतांते तु शापस्यागतया गवा२६४
नंदया सह संवादमासाद्यांतो भविष्यति
मृग्योक्ते वचने राजा व्याघ्र एवाभवत्तदा२६५
नखदंष्ट्रायुधोपेतो व्याघ्ररूपोति भीषणः
तत्रासौ भक्षयन्नास्ते मृगान्हत्वा चतुष्पदः२६६
द्विपदानपि तत्रस्थान्कालेन क्रमयोजितान्
एवं तत्र वने तस्य संवत्सरशतं गतम्२६७
आत्मानं निंदमानस्य मृगमांसानि खादतः
कदाहं मानुषं भावं गमिष्यामीदृशं पुनः२६८
कुत्सितं न करिष्यामि वियोनिकरणं महत्
कुर्वता मांसलोभेन मृगयां परिधावता२६९
आपदासहितं प्राप्तं मानुषाणां भयावहम्
दर्शनं दुःखदं मह्यं मृगाणां मानुषैः सह२७०
पापेन पापतां नीतो ह्यपापेऽपि सतां कुले
उत्पन्नो विकृतिं नीतः पश्य कालस्य पर्ययम्२७१
तस्मान्मे सुकृतं नास्ति हिंसाप्येका विगर्हिता
तया तु प्राप्यते दुःखं न च मोक्षो भविष्यति२७२
कथं मे भविता मोक्षः कथं सत्या मृगी भवेत्
गते वर्षशते तस्य वसतस्तद्वने तदा२७३
आयातं गोकुलं काले यवसोदककारणात्
गोवाटवाटीसंस्थानं तत्तत्र समवस्थितम्२७४
वनोपकण्ठे मंथानरवेणापूरितं च यत्
क्षीबैर्गोपैः समाकीर्णं पादपैरपितद्वनम्२७५
निशिवंशरवोपेतं गोपीनां च शुभप्रदम्
एवं तु वसतस्तस्य खर्जूरवनसंसदि२७६
हृष्टा तुष्टा च पुष्टा च नंदा वै नाम नामतः
गोमंडलस्य सामुख्या हंसवर्णा घटस्रवा२७७
दीर्घघोणा विभक्तांगी बंधुरांगी तनुत्वचा
नीलकंठा शुभग्रीवा घंटाली मधुरस्वना२७८
सा च यूथस्य सर्वस्य पुरश्चरति निर्भया
घासस्थानं चरेच्छन्नं गत्वैका च यथासुखम्२७९
यथेष्टकामा सुरभी छन्नं चरति वै तृणम्
रोहितो नाम तत्रान्यः पर्वतः सरितस्तटे२८०
अनेककंदरदरी गुहासत्व निषेवितः
तस्य पूर्वोत्तरेभागे घोरे तृणसमाकुले२८१
संकटे विषमे दुर्गे भैरवे लोमहर्षणे
मृगसिंहसमाकीर्णे बहु श्वापद सेविते२८२
वल्लीवृक्षादिगहने शिवाशत निनादिते
दुर्गेस्मिन्वसते रौद्रः कामरूपी भयंकरः२८३
द्वीपी शोणित दिग्धांसो घोरदंष्ट्रानखायुधः
नंदो नाम स धर्मात्मा स च गोपीहिते रतः२८४
अच्छिन्नाग्रैस्तृणैर्दीर्घैर्गोधनं परिरक्षति
तस्य यूथपरिभ्रष्टा सानंदा तृणलिप्सया२८५
चरंती व्याघ्रपुरतः सा धेनुः प्रत्युपस्थिता
अभ्यद्रवच्च तां द्वीपी तिष्ठतिष्ठेति चाब्रवीत्२८६
त्वमद्य विहितो भक्षः स्वयं प्राप्तासि धेनुके
द्वीपिनश्च वचः श्रुत्वा निष्ठुरं रोमहर्षणं२८७
शुक्लरूपान्वितं बालं भद्रमिंदुसमप्रभम्
वत्सं स्मरति सा धेनुः स्नेहाक्ता गद्गदाक्षरम्२८८
दह्यंती पुत्रशोकेन नंदा सा पुत्रवत्सला
रुदंती करुणं चैव निराशा पुत्रदर्शने२८९
द्वीपी दृष्ट्वा तु तां धेनुं क्रंदमानां सुदुःखिताम्
उवाच वचनं घोरं धेनुके किं प्ररुद्यते२९०
दैवात्सुखोपपन्नासि भक्षस्त्वं मे यदृच्छया
रुदंत्या वा हसंत्या वा तवात्तं जीवितं भवेत्२९१
विहितं भुज्यते लोके स्वयंप्राप्तासि धेनुके
मृत्युस्ते विहितोद्यैव वृथा किमनुशोचसि२९२
पप्रच्छ तां पुनर्द्वीपी किमर्थं रुदितं त्वया
कौतुकं चात्र मे जातं महन्मे कथयस्व वै२९३
व्याघ्रस्य वचनं श्रुत्वा नंदा वाक्यमथाब्रवीत्
क्षंतुमर्हसि मे नाथ कामरूपिन्नमोस्तु ते२९४
त्वां समासाद्य लोकस्य परित्राणं न विद्यते
जीवितार्थं न शोचामि प्राप्तव्यं मरणं मया२९५
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च
तस्मादपरिहार्येर्थे न शोचामि मृगाधिप२९६
देवैरपि यथा सर्वैर्मर्त्तव्यमवशैर्ध्रुवम्
तस्मात्तु नाहमेवैका व्याघ्र शोचामि जीवितम्२९७
किंतु स्नेहेन वै साधो दुःखेन रुदितं मया
अस्ति मे हृदि संतापस्तं च त्वं श्रोतुमर्हसि२९८
प्रथमे वयसि प्राप्ते प्रसूताहं मृगाधिप
इष्टः प्रथमजातश्च सुतस्तु मम बालकः२९९
क्षीरपायी च मे वत्सस्तृणं नाद्यापि जिघ्रति
स च गोपकुले बद्धः क्षुधार्तो मामवेक्षते३०० 1.18.300
तमहं चानुशोचामि कथं जीविष्यते सुतः
तस्येच्छामि स्तनं दातुं पुत्रस्नेहवशं गता३०१
पाययित्वा स्तनं वत्समवलिह्य च मूर्द्धनि
सखीनामर्पयित्वा तु संदिश्य च हिताहितम्३०२
पुनः प्रत्यागमिष्यामि यथेष्टं भक्षयिष्यसि
स नंदाया वचः श्रुत्वा मृगेंद्रः पुनरब्रवीत्३०३
किं ते पुत्रेण कर्त्तव्यं मरणं किं न बुध्यसे
त्रस्यंति सर्वभूतानि म्रियंते मां निरीक्ष्य च३०४
त्वं पुनः कृपयाविष्टा पुत्रपुत्रेति भाषसे
न पुत्रा न तपो दानं न माता न पिता गुरुः३०५
शक्नुवंति परित्रातुं नरं कालप्रपीडितम्
कथं त्वं गोकुलं गत्वा गोपीजनसमाकुलम्३०६
वृषभैर्नादितं दिव्यं बालवत्सविभूषितम्
भूषणं देवलोकस्य स्वर्गतुल्यं न संशयः३०७
नित्यं प्रमुदितं दिव्यं सर्वदेवप्रपूजितम्
यत्पवित्रं पवित्राणां मंगलानां च मंगलम्३०८
यत्तीर्थं सर्वतीर्थानां धन्यानां धन्यमुत्तमम्
समस्तगुणसंपन्नमीश्वरायतनं महत्३०९
यत्ख्यातं सर्वतीर्थानां भूमिस्वर्गमनुत्तमम्
गोपीमंथनशब्देन बालवत्सरवेण च३१०
गवां हुंकारशब्देन अलक्ष्मीः प्रतिहन्यते
यत्र वत्साश्च हुंकारं करुणं मातृकांक्षया३११
यद्गोपैः पालितं शूरैर्बाहुयुद्धकृतश्रमैः
प्रगीतनृत्यसंलापं नंदितास्फोटनादितम्३१२
इतस्ततः स्थितैर्वत्सैर्नर्द्यमानं समंततः
सरोवद्राजते गोष्टं चलद्भिरिव पंकजैः३१३
तं श्रीनिकेतनं सौम्यं हृष्टपुष्टजनाकुलम्
गोलोकप्रतिमं दृष्ट्वा कथं प्रत्यागमिष्यसि३१४
पंचभूतानि मे भद्रे पिबंतु रुधिरं तव
न निर्विण्णानि भूतानि वाङ्मात्रेण करोम्यहम्३१५
नंदोवाच
एवं प्रथमवत्साया मृगेंद्र शृणु मे वचः
दृष्ट्वा सखीः सुतं बालं गोपांश्च प्रतिपालकान्३१६
गोपीजनमुपामंत्र्य जननीं च विशेषतः
शपथैरागमिष्यामि मन्यसे यदि मुंच मां३१७
यत्पापं ब्रह्मवध्यायां मातृपितृवधेषु च
तेन पापेन लिप्येहं यद्यहं नागमे पुनः३१८
यत्पापं लुब्धकानां तु म्लेच्छानां गरदायिनाम्
तेन पापेन लिप्येहं यद्यहं नागमे पुनः३१९
गोषु विघ्नांश्च ये कुर्युः स्वपंतीं ताडयंति च
तेन पापे नलिप्येहं यद्यहं नागमे पुनः३२०
सकृद्दत्वा तु यः कन्यां द्वितीये दातुमिच्छति
तस्य पापेन लिप्येहं यद्यहं नागमे पुनः३२१
यस्त्वनर्हान्बलीवर्दान्विषमे वाहयेत्पुमान्
कथायां कथ्यमानायां विघ्नं कारयते तु यः३२२
तेन पापेन लिप्येहं यद्यहं नागमे पुनः
गृहे यस्यागतं मित्रं निराशं प्रतिगच्छति३२३
तस्य पापेन लिप्येहं यद्यहं नागमे पुनः
इत्येतैः पातकैर्घोरैरागमिष्याम्यहं पुनः३२४
बुध्वा संप्रत्ययं द्वीपी पुनर्वचनमब्रवीत्
व्याघ्र उवाच
संजातः प्रत्ययोस्माकं शपथैर्धेनुके तव३२५
कदाचिन्मन्यसे गत्वा मूर्खोयं वंचितो मया
अत्रापि केचिद्वक्ष्यंति शपथे नास्ति पातकम्३२६
कामिनीषु विवाहेषु गवां मुक्तौ तथैव च
प्राणत्यागे समुत्पन्ने श्रद्धातव्यं न च त्वया३२७
लोकेस्मिन्नास्तिकाः केचिन्मूर्खाः पंडितमानिनः
भ्रामयिष्यंति ते चित्तं चक्रारूढमिव क्षणात्३२८
कुतर्कहेतुवृत्तांतैरज्ञानावृतचेतसः
मोहयंति नराः क्षुद्रा आगमानविशारदाः३२९
अतथ्यान्यपि तथ्यानि दर्शयंत्यतिपेशलाः
समे निम्नोन्नतानीव चित्रकर्मविदो जनाः३३०
प्रायः कृतार्थो लोकोयं मन्यते नोपकारिणम्
वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम्३३१
न तं पश्यामि लोकेस्मिन्कृते प्रतिकरोति यः
सर्वस्य हि कृतार्थस्य मतिरन्या प्रवर्तते३३२
ऋषिदेवासुरनरैः शपथाः कार्यसिद्धये
कृताः परस्परं पूर्वं तान्न मन्यामहे वयम्३३३
सत्येनापि शपेद्यस्तु देवाग्निगुरुसन्निधौ
तस्य वैवस्वतो राजा धर्मस्यार्द्धं निकृंतति३३४
मा ते बुद्धिर्भवेदेवं शपथैरेष वंचितः
त्वयैव दर्शितं सर्वं यथेष्टं कुरु सांप्रतं३३५
नंदोवाच
एवमेव महासाधो कस्त्वां वंचयितुं क्षमः
आत्मैव वंचितस्तेन यः परं वंचयिष्यति३३६
द्वीप्युवाच
धेनुके पश्य गच्छ त्वं पुत्रकं पुत्रवत्सले
पाययित्वा स्तनं वत्समवलिह्य च मूर्द्धनि३३७
मातरं भ्रातरं दृष्ट्वा सखीस्वजनबांधवान्
सत्यमेवाग्रतः कृत्वा शीघ्रमागमनं कुरु३३८
एवं सा शपथं कृत्वा धेनुर्वै सत्यवादिनी
अनुज्ञाता मृगेंद्रेण प्रयाता पुत्रवत्सला३३९
अश्रुपूर्णमुखीदीना वेपमाना सुदुःखिता
हंभारवं प्रमुंचंती पतिता शोकसागरे३४०
करीव चरणग्राहं गृहीतः सलिलाशये
अशक्ता स्वपरित्राणे विलपंती मुहुर्मुहुः३४१
सा तत्र गोकुलं प्राप्ता हरिन्नद्यास्तटे स्थितम्
श्रुत्वा वत्सं तु क्रोशंतं पर्यधावत संमुखी३४२
उपसृप्य च तं बालं बाष्पपर्याकुलेक्षणम्
संप्राप्य मातरं वत्सः शंकितः परिपृच्छति३४३
न ते पश्याम्यहं स्वास्थ्यं धैर्यं नैवाद्य लक्षये
उद्विग्ना चापि ते दृष्टिर्भीता चातीव लक्ष्यसे३४४
नन्दोवाच
पिब पुत्र स्तनं मेद्य कारणं यदि पृच्छसि
अशक्ताहं तवाख्यातुं कुरु तृप्तिं यथेप्सिताम्३४५
अपश्चिमं तु ते पुत्र दुर्लभं मातृदर्शनम्
एकाहमद्य मे पीत्वा प्रभाते कस्य पास्यसि३४६
त्वां त्यक्त्वा पुत्र गंतव्यं शपथैरागता ह्यहम्
क्षुत्क्षामस्य च व्याघ्रस्य दातव्यमात्मजीवितम्३४७
नंदायाश्च वचः श्रुत्वा वत्सो वचनमब्रवीत्
वत्स उवाच
अहं तत्र गमिष्यामि यत्र त्वं गंतुमिच्छसि३४८
श्लाघ्यं ममापि मरणं त्वया सह न संशयः
एकाकिनापि मर्तव्यं मयार्तेन त्वया विना३४९
यदि मां संहितं मातर्वने व्याघ्रो हनिष्यति
या गतिर्मातृभक्तानां ध्रुवं सा मे भविष्यति३५० 1.18.350
तस्मादवश्यं यास्यामि त्वया सह न संशयः
अथवा तिष्ठ मातस्त्वं शपथाः संतु ते मम३५१
जनन्या च वियुक्तस्य जीविते किं प्रयोजनम्
अनाथस्य वने नित्यं को मे नाथो भविष्यति३५२
नास्ति मातृसमो बंधुर्बालानां क्षीरजीविनाम्
नास्ति मातृसमो नाथो नास्ति मातृसमा गतिः३५३
नास्ति मातृसमः स्नेहो नास्ति मातृसमं मुखम्
नास्ति मातृसमो देव इहलोके परत्र च३५४
एवं वै परमो धर्मः प्रजापतिविनिर्मितः
ये तिष्ठंति सदा पुत्रास्ते यांति परमां गतिम्३५५
नंदोवाच
ममैव विहितो मृत्युर्न त्वं पुत्रागमिष्यसि
न चायमन्यजीवानां मृत्युः स्यादन्यमृत्युना३५६
अपश्चिममिमं पुत्र मातृसंदेशमुत्तमम्
अत्रातिष्ठस्व मद्वाक्यात्ततः शुशूषणं पुनः३५७
जलेस्थले च विचरन्प्रमादं तात मा कुरु
प्रमादात्सर्वभूतानि विनश्यंति न संशयः३५८
न च लोभेन चर्तव्यं विषमस्थं तॄणं क्वचित्
लोभाद्विनाशः सर्वेषामिहलोके परत्र च३५९
समुद्रमटवीं पुत्र विशंति लोभमोहिताः
लोभादकार्यमत्युग्रं विद्वानपि समाचरेत्३६०
लोभात्प्रमादाद्विस्रंभात्त्रिभिर्नाशो भवेन्नॄणाम्
तस्माल्लोभं न कुर्वीत न प्रमादं न विश्वसेत्३६१
आत्मा हि सततं पुत्र रक्षितव्यः प्रयत्नः
सर्वेभ्यः श्वापदेभ्यश्च म्लेच्छचोरादिसंकटात्३६२
तिरश्चां पापयोनीनामेकत्र वसतामपि
विपरीतानि चित्तानि विज्ञायंते न पुत्रक३६३
नखिनां च नदीनां च शृंगिणां शस्त्रधारिणाम्
न विश्वासस्त्वया कार्यः स्त्रीणां प्रेष्यजनस्य च३६४
न विश्वसेदविश्वस्ते विश्वस्तेनाति विश्वसेत्
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृंतति३६५
न विश्वसेत्स्वदेहेपि बलिष्ठे भीतचेतसि
वक्ष्यंति गूढमत्यर्थं सुप्तं मत्तं प्रमादतः३६६
गंधः सर्वत्र सततमाघ्रातव्यः प्रयत्नतः
गावः पश्यंति गंधेन राजानश्चारचक्षुषा३६७
नैकस्तिष्ठेद्वनेघोरे धर्ममेकं च चिंतयेत्
नचोद्वेगस्त्वयाकार्यः सर्वस्य मरणं ध्रुवं३६८
यथा हि पथिकः कश्चिच्छायामाश्रित्य तिष्ठति
विश्रम्य च पुनर्याति तद्वद्भूतसमागमः३६९
पुत्र नित्यं जगत्सर्वं तत्रैकः शोचसे कथं
तावत्त्वं शोकमुत्सृज्य मद्वाक्यमनुपालय३७०
शिरस्याघ्राय तं पुत्रमवलिह्य च मूर्द्धनि
शोकेन महताविष्टा बाष्पव्याकुललोचना३७१
विनिःश्वसंती नागीव दीर्घमुष्णं मुहुर्मुहुः
पुत्रहीनं जगच्छून्यं प्रपश्यंतीव साऽभवत्३७२
महापंकनिमग्नेव तिष्ठंती चावसीदती
विलप्य नंदिनी पुत्रमुवाचेदं पुनर्वचः३७३
नास्ति पुत्रसमः स्नेहो नास्तिपुत्रसमं सुखं
नास्ति पुत्रसमा प्रीतिर्नास्ति पुत्रसमा गतिः३७४
अपुत्रस्य जगच्छून्यमपुत्रस्य गृहेऽसुखम्
पुत्रेण लभते लोकमपुत्रो नरकं व्रजेत्३७५
लोको वदति वाक्यानि चंदनं किल शीतलं
पुत्रगात्रपरिष्वंगश्चंदनादतिशीतलः३७६
इति पुत्रगुणानुक्त्वा निरीक्ष्य च पुनःपुनः
स्वमातरं सखीर्गोपीस्त्वरमाणा च पृच्छति३७७
यूथस्याग्रे चरंतीं मामाससाद मृगाधिपः
मुक्ताहं तेन शपथैः पुनर्यास्यामि तत्र वै३७८
सुतं च मातरं चैव सखीर्द्रष्टुं च गोकुलं
आगता सत्यवाक्येन पुनर्यास्यामि तत्र वै३७९
मातः क्षमस्व तत्सर्वं दौःशील्यादि कृतं मम
बालस्तवायं दौहित्रः किमत्रान्यद्ब्रवीम्यहं३८०
विपुले चंपके मातर्भद्रे सुरभि मानिनि
वसुधारे प्रियानंदे महानंदे घटस्रवे३८१
अज्ञानाज्ज्ञानतो वापि यदुक्तं किंचिदप्रियं
तत्क्षमध्वं महाभागा यच्चान्यच्च कृतं मया३८२
सर्वाः सर्वगुणोपेताः सर्वा लोकस्य मातरः
सर्वाः सर्वप्रदा नित्यं रक्षध्वं मम बालकं३८३
अनाथं विकलं दीनं रक्षध्वं मम पुत्रकं
मातृशोकाभिसंतप्तं भगिन्यः पालयिष्यथ३८४
यस्मादनाथमबलं पुत्रवत्पालयिष्यथ
क्षमध्वं च महाभागा यास्यामि सत्यसंश्रयात्३८५
न चिंता महती कार्या सखीभिश्च कथंचन
प्रथमस्यास्य जातस्य स्थितं मरणमग्रतः३८६
श्रुत्वा तु नंदावचनं माता सख्यश्च दुःखिताः
विषादं परमं जग्मुरिदमूचुश्च विस्मिताः३८७
अहोऽत्र महदाश्चर्यं यद्व्याघ्रवचनं त्वया
प्रकर्तुमुद्यतं भीमं नंदा त्वं सत्यवादिनी३८८
शपथैः सत्यवाक्येन वंचयित्वा महाभयं
नाशनीयं प्रयत्नेन न गंतव्यं कथंचन३८९
नंदे न चैव गंतव्यमधर्मः क्रियते त्वया
यद्बालं स्वसुतं त्यक्त्वा सत्यलोभेन गम्यते३९०
अत्र गाथा पुरा प्रोक्ता ऋषिभिर्ब्रह्मवादिभिः
प्राणत्यागे समुत्पन्ने शपथैर्नास्ति पातकं३९१
उक्त्वानृतं भवेद्यत्र प्राणिनां प्राणरक्षणं
अनृतं तत्र सत्यं स्यात्सत्यमप्यनृतं भवेत्३९२
कामिनीषु विवाहेषु गवां मुक्तौ तथैव च
ब्राह्मणानां विपत्तौ च शपथैर्नास्ति पातकं३९३
नंदोवाच
परेषां प्राणरक्षार्थं वदाम्येवानृतं वचः
नात्मार्थमुत्सहे वक्तुं जीवितार्थे कथंचन३९४
एकः संश्लिष्यते गर्भे मरणे भरणे तथा
भुंक्ते चैकः सुखं दुःखमतः सत्यं वदाम्यहम्३९५
सत्ये प्रतिष्ठिता लोका धर्मः सत्ये प्रतिष्ठितः
उदधिस्सत्यवाक्येन मर्यादां न विलंघते३९६
विष्णवे पृथिवीं दत्वा बलि पातालमाश्रितः
छद्मनापि बलिर्बद्धः सत्यवाक्यं न चात्यजत्३९७
प्रवर्धमानः शैलेंद्रः शतशृंगः समुत्थितः
सत्येन संस्थितो विंध्यः प्रबन्धं नातिवर्तते३९८
स्वर्गापवर्गनरकाः सत्यवाचि प्रतिष्ठिताः
यस्तु लोपयते वाचमशेषं तेन लोपितं३९९
योऽन्यथा संतमात्मानमन्यथा प्रतिपद्यते
किं तेन न कृतं पापं चोरेणात्मापहारिणा४०० 1.18.400
यास्यामि नरकं घोरं विलोप्यात्मानमात्मना
तस्य वैवस्वतो राजा धर्मस्यार्धं निकृंतति४०१
अगाधे सलिले शुद्धे सत्य तीर्थे क्षमा ह्रदे
स्नात्वा पापविनिर्मुक्तः प्रयाति परमां गतिं४०२
अश्वमेधसहस्रं च सत्यं च तुलया धृतं
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते४०३
सत्यं साधुफलं श्रुतं च परमं क्लेशादिभिर्वर्जितं
साधूनां निकटं सतां कुलधनं सर्वाश्रमाणां फलं
यस्मात्तं समवाप्य गच्छति दिवं संत्यज्यतेऽसौ कथं
लोकैरत्र समागमे प्रतिदिनं सत्यं वदध्वं ध्रुवं४०४
सख्य ऊचुः
नंदे सा त्वं नमस्कार्या सर्वैरपि सुरासुरैः
या त्वं परमसत्वेन प्राणांस्त्यजसि दुस्त्यजान्४०५
ब्रूमः किं तत्र कल्याणि या त्वं धर्मधुरंधरा
त्यागेनानेन नाऽप्राप्यं त्रैलोक्ये वस्तु किंचन४०६
अवियोगं च पश्यामस्त्यागादस्मात्सुतेन हि
नार्याः कल्याणचित्तायानापदः संति कुत्रचित्४०७
दृष्ट्वा गोपीजनं सर्वं परिक्रम्य च गोकुलं
नंदा संप्रस्थिता देवान्वृक्षांश्चापृच्छ्य सा पुनः४०८
क्षितिं वरुणमग्निं च वायुं चापि निशाकरं
दशदिग्देवतावृक्षान्नक्षत्राणि ग्रहैः सह४०९
सर्वान्विज्ञापयामास प्रणिपत्य मुहुर्मुहुः
ये संश्रिता वने सिद्धाः सर्वाश्च वनदेवताः४१०
वने चरंतं च तृणं ते रक्षंतु सुतं मम
चंपकाशोक पुन्नागास्सरलार्जुनकिंशुकाः४११
शृण्वंतु पादपाः सर्वे संदेशं मम विक्लवं
वत्समेकाकिनं दीनं चरंतं विषमे वने४१२
रक्षध्वं वत्सकं बालं स्नेहात्पुत्रमिवौरसं
मात्रापित्राविहीनं च अनाथं दीनमानसं४१३
विचरंतमिमां भूमिं क्रंदमानं सुदुःखितं
तस्येह क्रंदमानस्य मत्पुत्रस्य महावने४१४
महाशोकाभिभूतस्य क्षुत्पिपासातुरस्य च
शून्यस्यैकाकिनः सर्वं जगच्छून्यं प्रपश्यतः४१५
चरमाणस्य कर्तव्यं सानुक्रोशैस्तु रक्षणं
संदिश्य नंदा प्रीत्यैवं पुत्रस्नेहवशं गता४१६
शोकाग्निना च सन्दीप्ता विच्छिन्ना पुत्रदर्शने
वियुक्ता चक्रवाकीव लतेव पतिता तरोः४१७
अंधेव दृष्टिरहिता प्रस्खलंती पदे पदे
अगच्छत्सा पुनस्तत्र यत्रासौ पिशिताशनः४१८
आस्ते विस्फूर्जितमुखस्तीक्ष्णदंष्ट्रो भयावहः
तावत्तस्याः सुतो वत्स ऊर्द्ध्वपुच्छोतिवेगवान्४१९
आगत्य मातुरग्रेसौ मृगेंद्रस्याग्रतोऽभवत्
आगतं तु सुतं दृष्ट्वा मृत्युं तमग्रतः स्थितं४२०
व्याघ्रं दृष्ट्वा तु सा धेनुरिदं वचनमब्रवीत्
भोभो मृगेंद्रागताहं सत्यधर्मव्रते स्थिता४२१
कुरु तृप्तिं यथाकाममस्मन्मांसेन सांप्रतम्
संतर्पय स्वभूतानि पिब त्वं शोणितं मम४२२
मृतायां तु मयि त्वं भो भक्षयेमं तु बालकम्
द्वीप्युवाच
स्वागतं तव कल्याणि धेनुके सत्यवादिनी४२३
न हि सत्यवतां किंचिदशुभं भवति क्वचित्
त्वयोक्तं धेनुके पूर्वं सत्यं प्रत्यागमे पुनः४२४
तेन मे कौतुकं प्राप्तं प्राप्ता गच्छेत्कथं पुनः
तव सत्यपरीक्षार्थं प्रेषितासि मया पुनः४२५
अन्यथा मां समासाद्य जीवंती यास्यसे कथम्
यच्च नः कौतुकं जातं सत्यमन्वेषणं मम४२६
तस्मादनेन सत्येन मुक्तासि च मयाऽधुना
भगिनी भवती मह्यं भागिनेयः सुतस्तव४२७
दत्तोपदेशस्य शुभे मम पापिष्ठकर्मणः
सत्ये प्रतिष्ठिता लोका धर्मः सत्ये प्रतिष्ठितः४२८
सत्येन गौः क्षीरधारां प्रमुंचति हविः प्रियाम्
स वै धन्यतमो गोपो यस्त्वत्क्षीरेण जीवति४२९
भूमिप्रदेशा धन्यास्ते सतृणा वीरुधः शुभे
ते धन्याश्च कृतार्थाश्च तैरेव सुकृतं कृतम्४३०
तैराप्तं जन्मनः सारं ये पिबंति पयस्तव
मृगेंद्रः प्रत्ययं गत्वा विस्मयं परमं गतः४३१
प्रत्यादेशोऽयमस्माकं सत्यं देवैः प्रदर्शितः
सत्यमिष्टं गवां दृष्ट्वा न मे वाञ्छास्ति जीवितुम्४३२
तत्करिष्याम्यहं कर्म येन मुच्येय किल्बिषात्
मया जीवसहस्राणि भक्षितानि शतानि च४३३
गतिं कामिह गच्छामि दृष्ट्वा गोः सत्यमीदृशम्
अहं पापो दुराचारो नृशंसो जीवघातकः४३४
कांस्तु लोकान्गमिष्यामि कृत्वा कर्म सुदारुणम्
गमिष्ये पुण्यतीर्थानि करिष्ये पापशोधनम्४३५
पतिष्ये गिरिमारुह्य प्रवेक्ष्ये वा हुताशनम्
धेनोऽद्य यन्मया कार्यं तपः पापाद्विशुद्धये४३६
तदादिशस्व संक्षेपान्न कालो विस्तरस्य तु
धेनुरुवाच
तपः कृते प्रशंसंति त्रेतायां ज्ञानमेव च४३७
द्वापरे यज्ञमित्याहुर्दानमेकं कलौ युगे
सर्वेषामेव दानानामिदमेवैकमुत्तमम्४३८
अभयं सर्वभूतानां नास्ति दानमतः परम्
चराचराणां भूतानामभयं यः प्रयच्छति४३९
स च सर्वभयान्मुक्तः परं ब्रह्माधिगच्छति
नास्त्यहिंसा समं दानं नास्त्यहिंसा समं तपः४४०
यथा हस्तिपदेष्वन्यत्पदं सर्वं प्रलीयते
सर्वे धर्मास्तथा व्याघ्र प्रलीयंते ह्यहिंसया४४१
योगवृक्षस्य छाया या तापत्रयविनाशिनी
धर्मज्ञाने च पुष्पाणि स्वर्गमोक्षौ फलानि च४४२
दुःखत्रयाभितप्तस्य छाया योगतरोः स्मृता
न बाध्यते पुनर्दुःखैः प्राप्य निर्वाणमुत्तमम्४४३
इत्येतत्परमं श्रेयः कीर्तितं ते समासतः
ज्ञातं चैव त्वया सर्वं केवलं मां तु पृच्छसि४४४
द्वीप्युवाच
अहं मृग्या पुरा शप्तो व्याघ्ररूपेण संस्थितः
ततः प्राणिवधात्सर्वमशेषं मम विस्मृतम्४४५
त्वत्संपर्कोपदेशाभ्यां संजातं स्मरणं पुनः
त्वं चाप्यनेन सत्येन गमिष्यसि परां गतिं४४६
तदहं त्वां पुनः पृच्छे प्रश्नमेकं हृदि स्थितम्
साग्रं वर्षशतं जातं चिंतयानस्य मे शुभे४४७
भवत्या भाग्ययोगेन कदाचित्स्वर्गशोभने
कृतं धर्मस्य संस्थानं सतां मार्गे प्रतिष्ठितम्४४८
किं तेऽभिधानं कल्याणि ब्रूहि मेऽज्ञस्य सुव्रते
नंदोवाच
मम नंदेति संज्ञा तु कृता नंदेन स्वामिना४४९
सांप्रतं भक्षयामीति ह्यतिष्ठः केन हेतुना
नंदेति श्रुत्वा तन्नाम मुक्तशापः प्रभंजनः४५० 1.18.450
पुनर्नृपत्वमापन्नो बलरूपसमन्वितः
एतस्मिन्नंतरे धर्मस्तां ज्ञात्वा सत्यवादिनीम्४५१
द्रष्टुं समागतस्तत्र प्राब्रवीच्च पयस्विनीम्
तव सत्यव्रताद्धृष्टो धर्मोहमिह चागतः४५२
नंदे वृणीष्व भद्रं ते वरं वरतमं हि यत्
एवमुक्ता हि सा देवी नंदा तं प्रार्थयद्वरम्४५३
तवानुभावात्ससुता गच्छामि पदमुत्तमम्
भवेदिदं शुभं तीर्थं मुनीनां धर्मदायकम्४५४
मन्नाम्ना च सरिदियं नंदा नाम सरस्वती
वरप्रदानाद्देवेश तदेतत्प्रार्थितं मया४५५
पुलस्त्य उवाच
सा तत्क्षणाद्गता देवी स्थानं सत्यवतां शुभम्
प्रभंजनोपि तद्राज्यं संप्राप्तः प्रागुपार्जितम्४५६
नंदा येन गता स्वर्गं नंदां प्राप्य सरस्वतीम्
तेनाख्यया बुधैस्तस्याः प्रोक्ता नंदा सरस्वती४५७
सरस्वती पुनस्तस्माद्वनात्खर्जूरसंज्ञितात्
दक्षिणेन पुनर्याता प्लावयंती धरातलम्४५८
आगच्छन्नपि यस्तस्या नाम गृह्णाति मानवः
जीवन्सुखं स आप्नोति मृतो भवति खेचरः४५९
तत्र ये शुभकर्माणस्त्यजंति स्वां तनुं नराः
ते विद्याधरराजानो भवंति सुखिनो जनाः४६०
नराणां स्वर्गनिःश्रेणी स्नानात्पानात्सरस्वती
तत्र स्नानं प्रकुर्वन्ति येष्टम्यां सुसमाहिताः४६१
ते मृताः स्वर्गमासाद्य मोदंते सुमनोरमाः
सरस्वती सदा स्त्रीणां तत्र सौभाग्यदायिका४६२
उपोषिता तृतीयायामपि सौभाग्यभाजना
तत्र तद्दर्शनेनापि मुच्यते पापसंचयात्४६३
स्पृशंति ये नराः केचित्तेपि ज्ञेया मुनीश्वराः
रजतस्य प्रदानेन रूपवान्जायते नरः४६४
पुण्या पुण्यजलोपेता नदीयं ब्रह्मणः सुता
नंदा नामेति विपुला प्रवृत्ता दक्षिणामुखी४६५
गत्वा ततो नातिदूरं पुनर्याता पराङ्मुखी
ततः प्रभृति सा देवी प्रसभं प्रकटा स्थिता४६६
तस्यास्तटेषु पुण्येषु तीर्थान्यायतनानि च
संसेवितानि मुनिभिः सिद्धैश्चापि समंततः४६७
तेषु सर्वेषु भवति धर्महेतुस्सरस्वती
स्नानात्पानात्प्रदानाद्वा हिरण्यस्य महानदी४६८
हाटकक्षितिगौरीणां नंदातीर्थे महोदयं
दानं दत्तं नरैः स्नातैर्जनयत्यक्षयं फलं४६९
धान्यप्रदानं प्रवदंति शस्तं वसुप्रदानं च तथा मुनींद्राः
यैस्तेषु तीर्थेषु नरैः प्रदत्तं तद्धर्महेतुः प्रवरं प्रदिष्टम्४७०
प्रायोपवेशं प्रयतः प्रयत्नाद्यस्तत्र कुर्यात्प्रमदा पुमान्वा
तीर्थेषु सायुज्यमवाप्य सोऽयं भुङ्क्ते फलं ब्रह्मगृहे यथेष्टं४७१
तस्योपकंठे तु मृतास्तु ये वै कर्मक्षयात्स्थावरजंगमाश्च
तैश्चापि सर्वैः सहसा प्रसह्य लभ्येत यज्ञस्य फलं दुरापम्४७२
ततस्तु सा धर्मफलप्रदा भवेज्जन्मादि दुःखार्दित चेतसां नृणाम्
सर्वात्मना पुण्यफला सरस्वती सेव्या प्रयत्नात्पुरुषैर्महानदी४७३

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे नंदाप्राचीमाहात्म्येष्टादशोऽध्यायः१८