पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०८५

विकिस्रोतः तः
← अध्यायः ०८४ पद्मपुराणम्
अध्यायः ०८५
वेदव्यासः
अध्यायः ०८६ →

अंबरीष उवाच-
साधुसाधु मुनिश्रेष्ठ लोकानुग्रहकारक ।
विष्णोर्ध्यानं त्वया प्रोक्तं सगुणं निर्गुणं च यत् १।
अधुना लक्षणं ब्रूहि भक्तेः साधु कृपाकर ।
यादृशी क्रियते येन यथा यत्र यदा तथा २।
सूत उवाच-
इत्युक्तमाकर्ण्य नृपोत्तमस्य मुनिः प्रहृष्टो निजगाद भूपम् ।
शृणुष्व राजन्निखिलाघहारिणीं भक्तिं हरेस्ते प्रवदामि सम्यक् ३।
अथ भक्तिं प्रवक्ष्यामि विविधां पापनाशिनीम् ।
विविधा भक्तिरुद्दिष्टा मनोवाक्कायसंभवा ४।
लौकिकी वैदिकी चापि भवेदाध्यात्मिकी तथा ।
ध्यानधारणया बुद्ध्या वेदानां स्मरणं हि यत् ५।
विष्णुप्रीतिकरी चैषा मानसी भक्तिरुच्यते ।
मंत्रवेदसमुच्चारैरविश्रांतविचिंतनैः ६।
जाप्यैश्चारण्यकैश्चैव वाचिकी भक्तिरुच्यते ।
व्रतोपवासनियमैः पञ्चेंद्रियजयेन च ७।
कायिकी सैव निर्दिष्टा भक्तिः सर्वार्थसाधिनी ।
भूषणैर्हेमरत्नांकैश्चित्राभिर्वाग्भिरेव च ८।
वासः प्रतिसरैः सूत्रैः पावकव्यजनोच्छ्रितैः ।
नृत्यवादित्रगीतैश्च सर्वबल्युपहारकैः ९।
भक्ष्यभोज्यान्नपानैश्च या पूजा क्रियते नरैः ।
नारायणं समुद्दिश्य भक्तिः सा लौकिकी मता १०।
कायिकी सैव निर्दिष्टा भक्तिः सर्वार्थसाधिकी ।
ऋग्यजुःसामजाप्यानि संहिताध्ययनानि च ११।
क्रियंते विष्णुमुद्दिश्य सा भक्तिर्वैदिकोच्यते ।
वेदमंत्रहविर्यागैः क्रियाया वैदिकी मता १२।
दर्शे च पौर्णमास्यां च कर्त्तव्यं चाग्निहोत्रकम् ।
प्राशनं दक्षिणादानं पुरोडाशं चरु क्रिया १३।
इष्टिर्धृतिः सोमपानं याज्ञियं कर्म सर्वशः ।
अग्निभूम्यनिलाकाश द्युति शंकर भास्करम् १४।
तमुद्दिश्यकृतं कर्म तत्सर्वं विष्णुदैवतम् ।
आध्यात्मिकीति विविधा ब्रह्मभक्तिस्थिता नृप १५।
सांख्याख्यां योगसंजातां शृणु भूप यथोदिताम् ।
चतुर्विंशति तत्त्वानि प्रधानादीनि संख्यया १६।
अचेतनानि भोग्यानि पुरुषः पंचविंशकः ।
चेतनः स समुद्दिष्टो कर्ता भोक्ता च कर्मणाम् १७।
आत्मा नित्योव्ययश्चैव अधिष्ठाता प्रयोजकः ।
पुरुषोऽव्यक्त नित्यः स्यात्कारणं च महेश्वरः १८।
तत्त्वसर्गो भावसर्गो भूतसर्गश्च तत्त्वतः ।
संख्यायाः परिसंख्यायाः प्रधानं च गुणात्मकम् १९।
ज्ञात्वा साधर्म्यवैधर्म्यं प्रधानं च विधर्मि च ।
कारणं ब्रह्मणश्चैव कामित्वमिदमुच्यते २०।
प्रयोज्यत्वं प्रधानस्य वैधर्म्यमिदमुच्यते ।
सर्वत्र कर्तृता ब्रह्म पुरुषस्याप्यकर्तृता २१।
अचेतनप्रधानेन समत्वमिदमुच्यते ।
तत्त्वांतरं च तत्त्वानां कार्यकारणमेव च २२।
प्रयोजनं प्रयोज्यत्वं ज्ञात्वा तत्त्वप्रसंख्यया ।
संख्यातमुच्यते प्राज्ञैर्विजयार्थविचिंतकैः २३।
इति मत्वास्य सद्भावं तत्त्वं संख्यां च तत्त्वतः ।
ब्रह्मतत्त्वाधिकं चापि भूततत्त्वं विदुर्बुधाः २४।
सांख्यैः कृता भक्तिरेषा भक्तिराध्यात्मिकी स्मृता ।
योगजामपि ते भूप शृणु भक्तिं वदाम्यहम् २५।
प्राणायामपरो नित्यं ध्यानवान्नियतेंद्रियः ।
भैक्ष्यभक्षव्रती चापि सर्वप्रत्याहृतेन्द्रियः २६।
धारणं हृदये कृत्वा ध्यायमानो महेश्वरम् ।
हृत्पद्मकर्णिकासीनं पीतवस्त्रं सुलोचनम् २७।
पश्यन्नुद्योतितमुखं ब्रह्मसूत्रकटीतटम् ।
श्वेतवर्णं चतुर्बाहुं वरदाभयहस्तकम् २८।
योगजा मानसीसिद्धिर्विष्णुभक्तिः परा स्मृता ।
य एवं भक्तिमान्देवं विष्णुभक्तिः स उच्यते २९।
एवं भक्तिः समुद्दिष्टा विविधा नृपनंदन ।
सात्विकी राजसी चैव तामसीभेदतस्त्विमाः ३०।
नानाप्रकारा विज्ञेया विष्णोरमिततेजसः ।
यथाग्निः सुसमृद्धार्च्चिः करोत्येधांसि भस्मसात् ३१।
पापानि भगवद्भक्तिस्तथा दहति तत्क्षणात् ३२।
यावज्जनो न शृणुते भुवि विष्णुभक्तिं साक्षात्सुधारसमशेषरसैकसारम् ।
तावज्जरामरणजन्मशताभिघातदुःखानि तानि लभते बहुदेहजानि ३३।
संकीर्तितश्चिंतितकीर्तिरंतः श्रुतानुभावो भगवाननंतः ।
समंततोऽघविनिहंति मेघं वायुर्यथाभानुरिवांधकारम् ३४।
न दान देवार्चन याग तीर्थ स्नान श्रुताचार तपः क्रियाभिः ।
तथा विशुद्धिं लभतेंऽतरात्मा यथा हृदिस्थे भगवत्यनंते ३५।
कथा विशुद्धा नरनाथ तथ्यास्ता एव पथ्या हरिनाथ तथ्याः ।
संकीर्तिता यत्र पवित्रमूर्तेः संश्रूयते च श्रुतसाधुकीर्तिः ३६।
धन्योसि धीरधरणीधर धर्मधुर्य्य ध्यानैकतान हृदयः पुरुषोत्तमस्य ।
यन्नैष्ठिकीमतिरसौ तव सौभगश्रीः श्रीकृष्णनाथसुकृतः श्रवणे प्रवृत्ता ३७।
अनाराध्य हरिं भक्त्या वरदं विष्णुमव्ययम् ।
कुतः श्रेयो भवेद्भूप पुरुषस्यात्ममानिनः ३८।
मायाजनिरमायोऽसौ भक्त्या राजन्नमायया ।
साध्यते साधुपुरुषः स्वयं जानाति तद्भवान् ३९।
न विद्यते ते नृप धर्मतत्त्वमज्ञातमेतद्विमलं पुनर्माम् ।
त्वं पृच्छसे तीर्थपदं प्रसंगात्कथारसं वैष्णव गौरवेण ४०।
नातः परं परमतोषविशेषपोषं पश्यामि पुण्यमुचितं च परस्परेण ।
संतः प्रसह्य यदनंतगुणाननंतश्रेयोनिधीनधिकभावभुजो भुजंति ४१।
ब्राह्मणाः सुरभी सत्य श्रद्धा याग तपांसि च ।
श्रुति स्मृति दया दीक्षा शांतयस्तनवो हरेः ४२।
आदित्यश्चंद्रमा वायुर्भूमिरापोंऽबरं दिशः ।
ब्रह्माविष्णुश्च रुद्रश्च सर्वभूतमयो विभुः ४३।
विश्वरूपः स्वयं चक्रे जगदेतच्चराचरम् ।
स्वयं ब्राह्मणमाविश्य सदान्नमुपभुंजते ४४।
ततस्तु तीर्थास्पदपादरेणून्धराधरात्मालय भूमिदेवान् ।
परात्मनः पूजय पुण्यलक्ष्मी सर्वस्वभूतानखिलात्मभूतान् ४५।
ब्राह्मणं विष्णुबुद्ध्य्या यो विद्वांसं साधु पश्यति ।
स एव वैष्णवो यश्च स्वस्वकर्मैकनिष्ठितः ४६।
किंचिदेतन्मयाप्रोक्तं रहस्यं समयो हि मे ।
स्नातुं गंतुं च गंगायां न कथावसरोऽधिकः ४७।
प्राप्तोऽयं माधवो मासः पुण्यो माधववल्लभः ।
तस्यापि सप्तमी शुक्ला गंगायामतिदुर्ल्लभा ४८।
वैशाख शुक्ल सप्तम्यां जाह्नवी जह्नुना पुरा ।
क्रोधात्पीता पुनस्त्यक्ता कर्णरंध्रात्तु दक्षिणात् ४९।
तस्यां समर्चयेद्देवीं गंगां गगनमेखलाम् ।
स्नात्वा सम्यग्विधानेन स धन्यः सुकृती नरः ५०।
तस्यां यस्तर्पयेद्देवान्पितॄन्मर्त्यो यथाविधि ।
साक्षात्पश्यति तं गंगा स्नातकं गतपापकम् ५१।
न माधव समो मासो न गंगा सदृशी नदी ।
दुर्ल्लभः खलु योगोऽयं हरिभक्त्यैव लभ्यते ५२।
विष्णुपादोदकोद्भूता ब्रह्मलोकादुपागता ।
त्रिभिः स्रोतोभिरश्रांता या पुनाति जगत्त्रयम् ५३।
स्वर्गारोहणनिःश्रेणी सततानंदकारिणी ।
अनेकदुरितोद्गारहारिणी दुर्गतारिणी ५४।
श्रीमहेशजटाजूटवासिनी दुःखनाशिनी ।
भजमानजनस्वांतकान्तकेलि विनाशिनी ५५।
सगरान्वयनिर्वाणकारिणी धर्मधारिणी ।
त्रिमार्गचारिणी देवी लोकालंकृतिकारिणी ५६।
दर्शन स्पर्शन स्नान कीर्त्तन ध्यान सेवनैः ।
पुण्यानपुण्यान्पुरुषान्पावयंती सहस्रशः ५७।
गंगा गंगेति गंगेति यैस्त्रिसंध्यमितीरितम् ।
सुदूरस्थैश्च तत्पापं हंति जन्मत्रयार्जितम् ५८।
योजनानां सहस्रेषु गंगां यः स्मरते नरः ।
अपि दुष्कृतकर्मासौ लभते परमां गतिम् ५९।
वैशाखे शुक्ल सप्तम्यां दुर्ल्लभा सा विशेषतः ।
प्राप्यते जगतीपाल हरि विप्र प्रसादतः ६०।
न माधवसमो मासो न माधवसमो विभुः ।
गतोहि दुरितांभोधौ मज्जमानजनस्य यः ६१।
दत्तं जप्तं हुतं स्नातं यद्भक्त्या मासि माधवे ।
तदक्षयं भवेद्भूप पुण्यं कोटिशताधिकम् ६२।
यथा देवेषु विश्वात्मा देवो नारायणो हरिः ।
यथा जप्येषु गायत्री सरितां जाह्नवी तथा ६३।
यथोमा सर्वनारीणां तपतां भास्करो यथा ।
आरोग्यलाभो लाभानां द्विपदां ब्राह्मणो यथा ६४।
परोपकारः पुण्यानां विद्यानां निगमो यथा ।
मंत्राणां प्रणवो यद्वद्ध्यानानामात्मचिंतनम् ६५।
सत्यं स्वधर्मवर्तित्वं तपसां च यथा वरम् ।
शौचानामर्थशौचं च दानानामभयं यथा ६६।
गुणानां च यथा लोभक्षयो मुख्यो गुणः स्मृतः ।
मासानां प्रवरो मासस्तथासौ माधवो मतः ६७।
तत्र यत्क्रियते श्राद्धं यज्ञ दानमुपोषणम् ।
तपोऽध्ययनपूजादि तदक्षयफलं स्मृतम् ६८।
वैशाखांतानि पापानि सूर्यांतानि तमांसि च ।
परापकारपैशुन्य प्रांतानि सुकृतानि च ६९।
कार्तिके मासि यत्किंचित्तुलासंस्थे दिवाकरे ।
स्नानदानादिकं राजंस्तत्परार्धगुणं भवेत् ७०।
तस्मात्सहस्रगुणितं माघे मकरगे रवौ ।
ततोऽपि शतसंख्यातं वैशाखेमेषगे रवौ ७१।
ते धन्यास्ते सुकृतिनो नरा वैशाख मासि ये ।
प्रातः स्नात्वा विधानेन पूजयंति मधुद्विषम् ७२।
प्रातःस्नानं च वैशाखे यज्ञदानमुपोषणम् ।
हविष्यं ब्रह्मचर्यं च महापातकनाशनम् ७३।
पुनः कलियुगे राजन्नेतद्गोप्यं भविष्यति ।
अश्वमेधादिकं यस्मान्माहात्म्यं माधवस्य यत् ७४।
अश्वमेधमखः पुण्यः कलौ नैव प्रवर्तते ।
एष माधवमासस्य हयमेध समो विधिः ७५।
अश्वमेधस्य यत्पुण्यं स्वर्गमोक्षफलप्रदम् ।
न वेत्स्यंति कलौ पापा जना दुरितबुद्धयः ७६।
तस्मिन्भवैर्नरैः पापैर्गंतव्यं नरकार्णवे ।
अतस्तु विरलस्तस्य प्रचारो येन निर्मितः ७७।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये पंचाशीतितमोऽध्यायः ८५।