पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०१४

विकिस्रोतः तः
← अध्यायः ०१३ पद्मपुराणम्
अध्यायः ०१४
वेदव्यासः
अध्यायः ०१५ →

शेष उवाच।
अथ स्वागतसंतुष्टं शत्रुघ्नं प्राह भूमिपः ।
रघुनाथकथां श्रेष्ठां शुश्रूषुः पुरुषर्षभः १।
सुमद उवाच।
कच्चिदास्ते सुखं रामः सर्वलोकशिरोमणिः ।
भक्तरक्षावतारोऽयं ममानुग्रहकारकः २।
धन्या लोका इमे पुर्यां रघुनाथमुखांबुजम् ।
ये पिबंत्यनिशं चाक्षिपुटकैः परिमोदिताः ३।
अर्थजातं मदीयं च नितरां पुरुषर्षभ ।
कृतार्थं कुलभूम्यादि वस्तुजातं महामते ४।
कामाक्षया प्रसादो मे कृतः पूर्वं दयार्द्रया ।
रघुनाथमुखांभोजं द्रक्ष्येद्य सकुटुंबकः ५।
इत्युक्तवति वीरे तु सुमदे पार्थिवोत्तमे ।
सर्वं तत्कथयामास रघुनाथगुणोदयम् ६।
त्रिरात्रं तत्र संस्थित्य रघुनाथानुजः परम् ।
गंतुं चकार धिषणां राज्ञा सह महामतिः ७।
तज्ज्ञात्वा सुमदः शीघ्रं पुत्रं राज्येऽभ्यषेचयत् ।
शत्रुघ्नेन महाराज्ञा पुष्कलेनानुमोदितः ८।
वासांसि बहुरत्नानि धनानि विविधानि च ।
शत्रुघ्नसेवकेभ्योऽसौ प्रादात्तत्र महामतिः ९।
ततो गमनमारेभे मंत्रिभिर्बहुवित्तमैः ।
पत्तिभिर्वाजिभिर्नागैः सदश्वैरथ कोटिभिः १०।
शत्रुघ्नः सहितस्तेन सुमदेन धनुर्भृता ।
जगाम मार्गे विहसन्रघुनाथप्रतापभृत् ११।
पयोष्णीतीरमासाद्य जगाम स हयोत्तमः ।
पृष्ठतोऽनुययुः सर्वे योधा वै हयरक्षिणः १२।
आश्रमान्विविधान्पश्यन्नृषीणां सुतपोभृताम् ।
तत्रतत्र विशृण्वानो रघुनाथगुणोदयम् १३।
एष धीमान्हरिर्याति हरिणा परिरक्षितः ।
हरिभिर्हरिभक्तैश्च हरिवर्यानुगैर्मुहुः १४।
इति शृण्वञ्छुभा वाचो मुनीनां परितः प्रभुः ।
तुतोष भक्त्युत्कलितचित्तवृत्तिभृतां महान् १५।
ददर्श चाश्रमं शुद्धं जनजंतुसमाकुलम् ।
वेदध्वनिहताशेषा मंगलं शृण्वतां नृणाम् १६।
अग्निहोत्रहविर्धूम पवित्रितनभोखिलम् ।
मुनिवर्यकृतानेक यागयूपसुशोभितम् १७।
यत्र गावस्तु हरिणा पाल्यंते पालनोचिताः ।
मूषका न खनंत्यस्मिन्बिडालस्य भयाद्बिलम् १८।
मयूरैर्नकुलैः सार्द्धं क्रीडंति फणिनोनिशम् ।
गजैः सिंहैर्नित्यमत्र स्थीयते मित्रतां गतैः १९।
एणास्तत्रत्य नीवारभक्षणेषु कृतादराः ।
न भयं कुर्वते कालाद्रक्षिता मुनिवृंदकैः २०।
गावः कुंभसमोधस्का नंदिनी समविग्रहाः ।
कुर्वंति चरणोत्थेन रजसेलां पवित्रिताम् २१।
मुनिवर्याः समित्पाणि पद्मैर्धर्मक्रियोचिताम् ।
दृष्ट्वा पप्रच्छसुमतिं सर्वज्ञं राम मंत्रिणम् २२।
शत्रुघ्न उवाच।
सुमते कस्य संस्थानं मुनेर्भाति पुरोगतम् ।
निर्वैरिजंतु संसेव्यं मुनिवृंदसमाकुलम् २३।
श्रोष्यामि मुनिवार्तां च विदधामि पवित्रताम् ।
निजं वपुस्तदीयाभिर्वार्ताभिर्वर्णनादिभिः २४।
इति श्रुत्वा महद्वाक्यं शत्रुघ्नस्य महात्मनः ।
कथयामास सचिवो रघुनाथस्य धीमतः २५।
सुमतिरुवाच।
च्यवनस्याश्रमं विद्धि महातापसशोभितम् ।
निर्वैरिजंतुसंकीर्णं मुनिपत्नीभिरावृतम् २६।
योऽसौ महामुनिः स्वर्गवैद्ययोर्भागमादधात् ।
स्वायंभुवमहायज्ञे शक्रमानविभेदनः २७।
महामुनेः प्रभावोऽयं न केनापि समाप्यते ।
तपोबलसमृद्धस्य वेदमूर्तिधरस्य ह २८।
श्रुत्वा रामानुजो वार्तां च्यवनस्य महामुनेः ।
सर्वं पप्रच्छ सुमतिं शक्रमानादिभंजनम् २९।
शत्रुघ्न उवाच।
कदासौ दस्रयोर्भागं चकार सुरपंक्तिषु ।
किं कृतं देवराजेन स्वायंभुव महामखे ३०।
सुमतिरुवाच।
ब्रह्मवंशेऽतिविख्यातो मुनिर्भृगुरिति श्रुतः ।
कदाचिद्गतवान्सायं समिदाहरणं प्रति ३१।
तदा मखविनाशाय दमनो राक्षसो बली ।
आगत्योच्चैर्जगादेदं महाभयकरं वचः ३२।
कुत्रास्ति मुनिबंधुः स कुत्र तन्महिलानघा ।
पुनः पुनरुवाचेदं वचो रोषसमाकुलः ३३।
तदाहुतवहो ज्ञात्वा राक्षसाद्भयमागतम् ।
दर्शयामास तज्जायामंतर्वत्नीमनिंदिताम् ३४।
जहार राक्षसस्तां तु रुदंतीं कुररीमिव ।
भृगो रक्षपते रक्ष रक्ष नाथ तपोनिधे ३५।
एवं वदंतीमार्तां तां गृहीत्वा निरगाद्बहिः ।
दुष्टो वाक्यप्रहारेण बोधयन्स भृगोः सतीम् ३६।
ततो महाभयत्रस्तो गर्भश्चोदरमध्यतः ।
पपात प्रज्वलन्नेत्रो वैश्वानर इवांगजः ३७।
तेनोक्तं मा व्रजाशु त्वं भस्मी भव सुदुर्मते ।
न हि साध्वी परामर्शं कृत्वा श्रेयोऽधियास्यसि ३८।
इत्युक्तः स पपाताशु भस्मीभूतकलेवरः ।
माता तदार्भकं नीत्वा जगामाश्रममुन्मनाः ३९।
भृगुर्वह्निकृतं सर्वं ज्ञात्वा कोपसमाकुलः ।
शशाप सर्वभक्षस्त्वं भव दुष्टारिसूचक ४०।
तदा शप्तोऽतिदुःखार्तो जग्राहांघ्र्याशुशुक्षणिः ।
कुरु मेऽनुग्रहं स्वामिन्कृपार्णव महामते ४१।
मयानृतं वचोभीत्या कथितं न गुरुद्रुहा ।
तस्मान्ममोपरि कृपां कुरु धर्मशिरोमणे ४२।
तदानुग्रहमाधाच्च सर्वभक्षो भवाञ्छुचिः ।
इत्युक्तवान्हुतभुजं दयार्द्रो मुनितापसः ४३।
गर्भाच्च्युतस्य पुत्रस्य जातकर्मादिकं शुचिः ।
चकार विधिवद्विप्रो दर्भपाणिः सुमंगलः ४४।
च्यवनाच्च्यवनं प्राहुः पुत्रं सर्वे तपस्विनः ।
शनैःशनैः स ववृधे शुक्ले प्रतिपदिंदुवत् ४५।
स जगाम तपः कर्तुं रेवां लोकैकपावनीम् ।
शिष्यैः परिवृतः सर्वैस्तपोबलसमन्वितैः ४६।
गत्वा तत्र तपस्तेपे वर्षाणामयुतं महान् ।
अंसयोः किंशुकौ जातौ वल्मीकोपरिशोभितौ ४७।
मृगा आगत्य तस्यांगे कंडूं विदधुरुत्सुकाः ।
न किंचित्स हि जानाति दुर्वारतपसावृतः ४८।
कदाचिन्मनुरुद्युक्तस्तीर्थयात्रां प्रति प्रभुः ।
सकुटुंबो ययौ रेवां महाबलसमावृतः ४९।
तत्र स्नात्वा महानद्यां संतर्प्य पितृदेवताः ।
दानानि ब्राह्मणेभ्यश्च प्रादाद्विष्णुप्रतुष्टये ५०।
तत्कन्या विचरंती सा वनमध्ये इतस्ततः ।
सखीभिः सहिता रम्या तप्तहाटकभूषणा ५१।
तत्र दृष्ट्वाथ वल्मीकं महातरुसुशोभितम् ।
निमेषोन्मेषरहितं तेजः किंचिद्ददर्श सा ५२।
गत्वा तत्र शलाकाभिरतुदद्रुधिरं स्रवत् ।
दृष्ट्वा राज्ञांगजा खेदं प्राप्तवत्यतिदुःखिता ५३।
न जनन्यै तथा पित्रे शशंसाघेन विप्लुता ।
स्वयमेवात्मनात्मानं सा शुशोच भयातुरा ५४।
तदा भूश्चलिता राजन्दिवश्चोल्का पपात ह ।
धूम्रा दिशो भवन्सर्वाः सूर्यश्च परिवेषितः ५५।
तदा राज्ञो हया नष्टा हस्तिनो बहवो मृताः ।
धनं नष्टं रत्नयुतं कलहोभून्मिथस्तदा ५६।
तदालोक्य नृपो भीतः किंचिदुद्विग्नमानसः ।
जनानपृच्छत्केनापि मुनये त्वपराधितम् ५७।
पारंपर्येण तज्ज्ञात्वा स्वपुत्र्याः परिचेष्टितम् ।
ययौ सुदुःखितस्तत्र समृद्धबलवाहनः ५८।
तं वै तपोनिधिं वीक्ष्य महता तपसायुतम् ।
स्तुत्वा प्रसादयामास मुनिवर्य दयां कुरु ५९।
तस्मै तुष्टो जगादायं मुनिवर्यो महातपाः ।
तवात्मजाकृतं सर्वमुत्पाताद्यमवेहि तत् ६०।
तव पुत्र्या महाराज चक्षुर्विस्फोटनं कृतम् ।
बहुसुस्राव रुधिरं जानती त्वामुवाच न ६१।
तस्मादियं महाभूप मह्यं देया यथाविधि ।
ततश्चोत्पातशमनं भविष्यति न संशयः ६२।
तच्छ्रुत्वा दुःखितो राजा प्रज्ञाचाक्षुष आत्मजाम् ।
ददौ कुलवयोरूप शीललक्षणसंयुताम् ६३।
दत्ता यदा नृपेणेयं कन्या कमललोचना ।
तदोत्पाताः शमं याताः सर्वे मुनिरुषोद्गताः ६४।
राजा दत्त्वात्मजां तस्मै मुनये तपसांनिधे ।
प्राप स्वां नगरीं भूयो दुःखितोऽयं दयायुतः ६५।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे।
च्यवनोपाख्यानंनाम चतुर्दशोऽध्यायः १४ ।