पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०८४

विकिस्रोतः तः
← अध्यायः ०८३ पद्मपुराणम्
अध्यायः ०८४
वेदव्यासः
अध्यायः ०८५ →

महादेव उवाच-
अस्मिन्वै चैत्रमासे तु कार्यो दमनकोत्सवः ।
द्वादश्यां तु तथा सम्यग्विधिः कार्यो विशेषतः १।
वैष्णवैः श्रद्धया पुण्यो जनतानंदवर्द्धनः ।
देवानंदसमुद्भूता दिव्या दमनमंजरी २।
निवेद्या वैष्णवैर्भक्तैः सर्वपूजाफलेप्सुभिः ।
चैत्रे तु शुक्लपक्षे तु द्वादश्यां नगनंदिनि ३।
कारयेत्परया भक्त्या महोत्सवमनास्तथा ।
तत्रादौ च स्वयं गत्वा आरामं प्रति चानघे ४।
गुर्वाज्ञया प्रकर्त्तव्यं पूजनं रतिना सह ।
कामदेव नमस्तेऽस्तु विश्वमोहनकारक ५।
विष्णोरर्थे विचेष्यामि कृपां कुरु ममोपरि ।
गीतवादित्रनिर्घोषैरानेतव्यो गृहं प्रति ६।
एकादश्यां सुरश्रेष्ठि ह्यधिवासनपूर्वकम् ।
कर्त्तव्यं पूजनं तत्र रात्रौ भक्त्या तु वैष्णवैः ७।
कर्त्तव्यमग्रतस्तस्य सर्वतोभद्र मंडलम् ।
स्थापयित्वा तु देवेशं रतिना सह तत्र वै ८।
आच्छाद्य श्वेतवस्त्रेण दमनं स्थापयेद्बुधः ।
तत्र वै पूजनं कार्यं वैष्णवैर्द्विजसत्तमैः ९।
क्लीं कामदेवाय नमो ह्रीं रत्यै च तथा नमः ।
एंद्र्यादि दिशि संस्थाप्य कंदर्प्पं पूजयेद्बुधः १०।
गंधं पुष्पं तथा धूपं दीपमारार्तिकं तथा ।
रात्रौ भक्त्या प्रकर्त्तव्यं विधिनात्र सुरेश्वरि ११।
मदनाय नम इति प्राच्याम् ।
मन्मथाय नम इति आग्न्येय्याम् ।
कंदर्पाय नम इति याम्ये ।
अनंगाय नम इति रक्षोदिशि ।
भस्मशरीराय नमः इति वारुण्याम् ।
स्मराय नम इति वायव्याम् ।
ईश्वराय नमः इति कौबेर्याम् ।
पुष्पबाणाय नमः इति ईशान्याम् ।
चतुर्दिक्षु च सर्वासु पूजनं तत्र कारयेत् ।
पूजिते केशवे चात्र सर्वे देवाः सुपूजिताः १२।
अक्षतगंध धूपदीपैर्नैवेद्यैस्तांबूलैश्च दमनकं पूजयित्वा तु ।
तत्पुरुषाय विद्महे कामदेवाय धीमहि ।
तन्नोऽनंगः प्रचोदयात् ।
इति वै कामगायत्र्या अष्टोत्तरशतवारं तं दमनकं अभिमंत्र्य नमस्कुर्यात् ।
नमोस्तु पुष्पबाणाय जगदाह्लादकारिणे ।
मन्मथाय जगन्नेत्रे रतिप्रीतिकराय च १३।
देवदेव नमस्तेऽस्तु श्रीविश्वेश नमोस्तु ते ।
रतिपते नमस्तेस्तु नमस्ते विश्वमंडन १४।
नमस्तेस्तु जगन्नाथ सर्वबीज नमोस्तु ते ।
एतैर्नानाविधैर्मंत्रैरागमोक्तैर्विशेषतः १५।
पूजनीयः प्रयत्नेन लक्ष्म्या सह जनार्दनः ।
ततो निवेद्य तत्कर्म जागरं कारयेद्बुधः १६।
देवदेव जगन्नाथ वांच्छितार्थप्रदायक ।
हृत्स्थान्पूरय मे विष्णो कामान्कामेश्वरीप्रिय १७।
इत्येतैर्बहुभिर्मंत्रैः पूजनीयः प्रयत्नतः ।
श्रीनिवासो जगन्नाथो भक्तानां शमभीप्सकः १८।
ततो दमनकमुष्टिं गृहीत्वा तत्र मूलमंत्रेण ।
श्रीश्रीविष्ण्वादिदेवेभ्यो दमनकं निवेदयेत् ।
ततो गंधादिभिर्महतीपूजागीतवाद्यनृत्यैश्च महोत्सवः कार्यः ।
देवाग्रेस्थापितः कलशोदकं देवस्य पादयोर्निक्षिप्य जलक्रीडा तस्मिन्दिने कर्त्तव्या ।
ततः स्वगुरुं वस्त्रालंकारद्रविणैः श्रद्धया प्रपूजयेत् ।
ततः स्वयं वैष्णवैर्बंधुभिः सह अश्नीयात् १९।
महादेव उवाच-
ततो दमनकमंजर्या यो वै विष्णुं प्रपूजयेत् ।
पूजिते वै जगन्नाथे ह्यहं वै पूजितः सदा २०।
ब्रह्महा हेमहारी च मद्यपो मांसभक्षकः ।
मुच्यते पातकाद्देवि दृष्ट्वा दमनकोत्सवम् २१।
एवं दमनको देवि पूजितो यैः सुवैष्णवैः ।
सर्वं तीर्थं कृतं तैस्तु मंजर्या पूजनं कृतम् २२।
वेदाध्ययनं कृतं तेन शास्त्राध्ययनमेव च ।
अग्निहोत्रं कृतं तेन मंजर्या पूजितो हरिः २३।
तत्कुलं तु महज्ज्ञेयं ब्राह्मं वा चाथ क्षात्रियम् ।
शौद्रं वैश्यं च यच्चान्यद्धन्यं धन्यतरं स्मृतम् २४।
यस्मिन्कुलेऽवतीर्याथोत्सवो दमनकः कृतः ।
स च धन्यस्तु धन्यो वै येन विष्णुः प्रपूजितः २५।
दमनकेन तु तथा संप्राप्ते मधुमाधवे ।
संपूज्य गोसहस्रस्य देवि संलभते फलम् २६।
मल्लिकाकुसुमैर्देवं वसंते गरुडध्वजम् ।
योऽर्चयेत्परया भक्त्या मुक्तिभागी भवेत्तु सः २७।
मरुकोदमनकश्चैव सद्यस्तुष्टिकरो हरेः ।
अतः पूजा प्रकर्त्तव्या वैष्णवैर्नरसत्तमैः २८।
गोसहस्रं कृतं तेन कन्यादानं तथैव च ।
पृथ्वीदानं कृतं तेन विष्णोर्वै पूजने कृते २९।
एकामेकां गृहीत्वा तु मंजरीं दमनस्य तु ।
यः पूजयति देवेशं संप्राप्ते मधुमाधवे ३०।
पुण्यसंख्यां न जाने वै तस्याहं नगनंदिनि ।
स वै चतुर्भुजो भूत्वा इह लोके परत्र च ।
धर्मानर्थांश्च कामांश्च प्रभुंक्ते वैष्णवं पदम् ३१।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे दमनकमहोत्सवो नाम चतुरशीतितमोऽध्यायः ८४।