पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १६५

विकिस्रोतः तः
← अध्यायः १६४ पद्मपुराणम्
अध्यायः १६५
वेदव्यासः
अध्यायः १६६ →

महादेव उवाच।
भूतालयं ततो गच्छेत्तीर्थं पापहरं पदम् ।
भूतालयो वटो यत्र यत्र प्राची तु चंदना १।
भूतालये नरः स्नात्वा कृष्णाष्टम्यामुपोषितः ।
यस्तु कृष्णतिलान्दद्यान्न स प्रेतोऽभिजायते २।
पितॄनुद्दिश्य यो दद्यादुदकुंभं तिलैः सह ।
पूर्वजान्प्रेतभावात्स मोचयेन्नात्र संशयः ३।
यस्य नाम्ना नरः स्नाति प्रेतत्वात्स विमुच्यते ।
चतुर्दश्यामथाष्टम्यां प्रभाते विमलोदके ४।
तीर्थे भूतालये स्नात्वा दृष्ट्वा भूतालयं वटम् ।
भूतेश्वरप्रसादेन भूतेभ्यो न लभेद्भयम् ५।
इति श्रीभूतेश्वरतीर्थम् ।
अतस्तीर्थात्परं तीर्थं घटेश्वरमिति स्मृतम् ।
यत्र स्नात्वा तु तं दृष्ट्वा मुक्तिभागी भवेद्ध्रुवम् ६।
यत्र साभ्रमती तीर्थं घटो वै परमो महान् ।
दृष्ट्वा चैव महादेवं मुच्यते नात्र संशयः ७।
तत्र गत्वा विशेषेण प्लक्षपूजां करोति यः ।
मनसाभीप्सितान्कामाँल्लभते मानवो भुवि ८।
इति घटेश्वरतीर्थम् ।
ततो गच्छेन्नरो भक्त्या वैद्यनाथेति विश्रुतम् ।
तत्र स्नात्वा नरस्तीर्थे शिवपूजनतत्परः ९।
पितॄन्संतर्प्य विधिना सर्वयज्ञफलं लभेत् ।
विजयो देवसंभूतः सर्वपापक्षयंकरः ।
यं दृष्ट्वा विविधान्कामान्प्राप्नुयुस्ते नराः सदा 6.165.१०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे विजयीतीर्थमाहात्म्यंनाम पंचषष्ट्यधिकशततमोऽध्यायः १६५