पदार्थधर्मसङ्ग्रहः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
प्रशस्तपादेन विरचितः पदार्थधर्मसङ्ग्रहः

मङ्गलम्[सम्पाद्यताम्]

०.०: प्रशस्तपादभाष्यम् ।

१.१ प्रणम्यहेतुमीश्वरम्मुनिम्कणादमन्वतः ।
१.१ पदार्थधर्मसंग्रहःप्रवक्ष्यतेमहोदयः ॥

द्रव्यगुणकर्मसामान्यविशेषसमवायानाम्[सम्पाद्यताम्]

२.१: ६द्रव्यगुणकर्मसामान्यविशेषसमवायानाम्षण्णाम्पदार्थानाम्साधर्म्यवैधर्म्यतत्त्वज्ञानम् निह्श्रेयसहेतुः ॥

२.१: ७तच्चेश्वरचोदनाभिव्यक्ताद्धर्मादेव ॥

२.२: ८अथकेद्रव्यादयःपदार्थाःकिम्चतेषाम्साधर्म्यम्वैधर्म्यम्चेति ॥

२.२: ८तत्रद्रव्याणिपृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसिसामान्यविशेषसंज्ञयोक्तानि नवैवेति। तद्व्यतिरेकेणान्यस्यसंज्ञानभिधानात् ॥

२.२: १०गुणाश्च रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वबुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नाश्चेतिकण्ठोक्ताःसप्तदश । चशब्दसमुच्चिताश्चगुरुत्वद्रवत्वस्नेहसंस्कारादूष्टशब्दाःसप्तैवेत्येवम्चतुर्विंशतिर्गुणाः॥

२.२: ११उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानिपञ्चैवकर्माणि। गमनग्रहणाद्भ्रमणरेचनस्यन्दनोर्ध्वज्वलनतिर्यक्पवननमनोन्नमनादयोगमनविशेषानजात्यन्तराणि ॥

२.२: ११सामान्यम्द्विविधम्परमपरम्चानुवृत्तिप्रत्ययकारणम्। तत्रपरम्सत्ता,महाविषयत्वात्साचानुवृत्तेरेवहेतुत्वात्सामान्यमेव । द्रव्यत्वाद्यपरम्,अल्पविषयत्वात् । तच्चव्यावृत्तेरपिहेतुत्वात्सामान्यम्सद्विशेषाख्यामपिलभते ॥

२.२: १३नित्यद्रव्यवृत्तयोऽन्त्याविशेषाः । तेखल्वत्यन्तव्यावृत्तिहेतुत्वाद्विशेषाएव ॥

२.२: १४अयुतसिद्धानामाधार्याधारभूतानाम्यःसम्बन्धः’िहऽ-प्रत्ययहेतुःससमवायः ॥

२.२: १५एवम्धर्मैर्विनाधर्मिणामुद्देशःकृतः ॥

२.३: १६षण्णामपिपदार्थानामस्तित्वाभिधेयत्वज्ञेयत्वानि ॥

२.३: १६आश्रितत्वम्चान्यत्रनित्यद्रव्येभ्यः ॥

२.३: १६द्रव्यादीनाम्पञ्चानाम्समवायित्वमनेकत्वम्च ॥

२.३: १६गुणादीनाम्पञ्चानामपिनिर्गुणत्वनिष्क्रियत्वे ॥

२.३: १७द्रव्यादीनाम्त्रयाणामपिसत्तासम्बन्धह्,सामान्यविशेषवत्त्वम्,स्वसमयार्थशब्दाभिधेयत्वम्,धर्माधर्मकर्तृत्वम्च ॥

२.३: १७कार्यत्वानित्यत्वेकारणवतामेव ॥

२.३: १८कारणत्वम्चान्यत्रपारिमाण्डल्यादिभ्यः ॥

२.३: १८द्रव्याश्रितत्वम्चान्यत्रनित्यद्रव्येभ्यः ॥

२.३: १९सामान्यादीनाम्त्रयाणाम्स्वात्मसत्त्वम्,बुद्धिलक्षणत्वम्,अकार्यत्वम्,अकारणत्वम्,असामान्यविशेषवत्त्वम्,नित्यत्वम्,अर्थशब्दानभिधेयत्वम्चेति ॥

द्रव्यासङ्करः[सम्पाद्यताम्]

३: २०पृथिव्यादीनाम्नवानामपिद्रव्यत्वयोगह्,स्वात्मन्यारम्भकत्वम्गुणवत्त्वम्,कार्यकारणविरोधित्वम्,अन्त्यविशेषवत्त्वम् ॥

३: २१अनाश्रितत्वनित्यत्वेचान्यत्रावयविद्रव्येभ्यः ॥

३: २१पृथिव्युदकज्वलनपवनात्ममनसामनेकत्वापरजातिमत्त्वे ॥

३: २१क्षितिजलज्योतिरनिलमनसाम्क्रियावत्त्वमूर्तत्वपरत्वापरत्ववेगवत्त्वानि ॥

३: २२आकाशकालदिगात्मनाम्सर्वगतत्वम्,परममहत्त्वम्,सर्वसम्योगिसमानद्सत्वम्च ॥

३: २२पृथिव्यादीनाम्पञ्चानामपिभूतत्वेन्द्रियप्रकृतित्वबाह्यैकेन्द्रियग्राह्यविशेषगुणवत्त्वानि ॥

३: २४चतुर्णाम्द्रव्यारम्भकत्वस्पर्शवत्त्वे ॥

३: २४त्रयाणाम्प्रत्यक्षत्वरूपवत्त्वद्रवत्वानि ॥

३: २४द्वयोर्गुरुत्वम्रसवत्त्वम्च ॥

३: २४भूतात्मनाम्वैशेषिकगुणवत्त्वम् ॥

३: २५क्षित्युदकात्मनाम्चतुर्दशगुणवत्त्वम् ॥

३: २५आकाशात्मनाम्क्षणिकैकदेशवृत्तिविशेषगुणवत्त्वम् ॥

३: २५दिक्कालयोःपञ्चगुणवत्त्वम्सर्वोत्पत्तिमताम्निमित्तकारणत्वम्च ॥

३: २५क्षितितेजसोर्नैमित्तिकद्रवत्वयोगः ॥

३: २६एवम्सर्वत्रसाधर्म्यम्विपर्ययाद्वैधर्म्यम्चवाच्यमितिद्रव्यासङ्करः ॥

वैधर्म्यम्[सम्पाद्यताम्]

४.०: २७इहेदानीमेकैकशोवैधर्म्यमुच्यते ॥

४.१: २७पृथिवीत्वाभिसम्बन्धात्पृथिवी । रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वगुरुत्वद्रवत्वसंस्कारवती ।

४.१: २७एतेचगुणविनिवेशाधिकारेरूपादयोगुणविशेषाःसिद्धाः । ’चाक्षुषऽ-वचनात्सप्तसङ्ख्यादयः । पतनोपदेशाद्गुरुत्वम् । ’द्भिःसामान्यऽ-वचनाद्द्रव्यत्वम् । ’ुत्तरकर्मऽ-वचनात्संस्कारः ।

४.१: २७क्षितावेवगन्धः। रूपमनेकप्रकारम्शुक्लादि । रसःषड्विधोमधुरादिः । गन्धोद्विविधःसुरभिरसुरबिह्श्च । स्पर्शोऽस्याअनुष्णाशीतत्वेसतिपाकजः ।

४.१: २७सातुद्विविधा। नित्याचानित्याच । परमाणुलक्षणानित्या । कार्यलक्षणात्वनित्या । साचस्थैर्याद्यवयवसन्निवेशविशिष्टा+अपरजातिबहुत्वोपेताशयनासनाद्यनेकोपकारकरीच । त्रिविधम्चास्याःकार्यम् । शरीरेन्द्रियविषयसंज्ञकम् ॥

४.१: २७शरीरम्द्विविधम् । योनिजमयोनिजम्च । तत्रायोनिजमनपेक्ष्यशुक्रशोणितम्देवर्षीणाम्धर्मविशेषसहितेभ्योऽणुभ्योजायते ।

४.१: २८क्षुद्रजन्तूनाम्यातनाशरीराण्यधर्मविशेषसहितेभ्योऽणुभ्योजायन्ते । शुक्रशोणितसन्निपातजम्योनिजम्। तद्विविधम्जरायुजमण्डजम्च । माणुषपशुमृगाणाम्जरायुजम्। पक्षिसरीसृपाणामण्डजम् ॥

४.१: २८इन्द्रियम्गन्धव्यंजकम्सर्वप्राणिनाम्जलाद्यनभिभूतैःपार्थिवावयवैरारब्धम्घ्राणम् ।

४.१: २८विषयस्तुद्व्यणुकादिक्रमेणारब्धस्त्रिविधोमृत्पाषाणस्थावरलक्षणः। तत्रभूप्रदेशाःप्राकारेष्टकादयःमृत्प्रकाराः। पाषाणाउपलमणिवज्रादयः। स्थावरास्तृणौषधिवृक्षगुल्मलतावतानवनस्पतयैति ॥

४.२: ३५अप्त्वाभिसम्बन्धादापः । रूपरसस्पर्शद्रवत्वस्नेहसङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वगुरुत्वसंस्कारवत्यः ।

४.२: ३५पूर्ववदेषाम्सिद्धिः ।

४.२: ३५शुक्लमधुरशीताएवरूपरसस्पर्शाः। स्नेहोऽम्भस्येवसांसिद्धिकम्चद्रवत्वम् ।

४.२: ३६ताश्चपूर्ववद्द्विविधाः । नित्यानित्यभावात् । तासाम्तुकार्यम्त्रिविधम्। शरीरेन्द्रियविषयसंज्ञकम् ।

४.२: ३६तत्रशरीरमयोनिजमेववरुणलोके,पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम् ।

४.२: ३६इन्द्रियम्सर्वप्राणिनाम्रसव्यंजकम्विजात्यनभिभूतैर्जलावयवैरारब्धम्रसनम् ।

४.२: ३६विषयस्तुसरित्समुद्रहिमकरकादिः ॥

४.३: ३८तेजस्त्वाभिसम्बन्धात्तेजः । रूपस्पर्शसङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वद्रवत्वसंस्कारवत् ।

४.३: ३९पूर्ववदेषाम्सिद्धिः ।

४.३: ३९तत्रशुक्लम्भास्वरम्चरूपम्। उष्णएवस्पर्शः ।

४.३: ३९तदपिद्विविधमणुकार्यभावात् । कार्यम्चशरीरादित्रयम् ।

४.३: ३९शरीरमयोनिजमादित्यलोके,पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम् ।

४.३: ३९इन्द्रियम्सर्वप्राणिनाम्रूपव्यंजकमन्यावयवानभिभूतैस्तेजोऽवयवैरारब्धम्चक्षुः ।

४.३: ३९विषयसंज्ञकम्चतुर्विधम् । भौमम्दिव्यमुदर्यमाकरजम्च । तत्रभौमम्काष्ठेन्धनप्रभवमूर्ध्वज्वलनस्वभावम्पचनदहनस्वेदनादिसमर्थम्दिव्यमबिन्धनम्सौरविद्युदादिभुक्तस्याहारस्यरसादिपरिणामार्थमुदर्यमाकरजम्चसुवर्णादि ।

४.३: ३९तत्रसम्युक्तसमवायाद्रसाद्युपलब्धिरिति ॥

४.४: ४४वायुत्वाभिसम्बन्धाद्वायुः । स्पर्शसङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वसंस्कारवान् ।

४.४: ४४स्पर्शोऽस्यानुष्णाशीतत्वेसत्यपाकजः। गुणविनिवेशात्सिद्धः। ’रूपिष्वचाक्षुषऽ-वचनात्सप्तसङ्ख्यादयः। तृणकर्मवचनात्संस्कारः ।

४.४: ४४सचायम्द्विविधोऽणुकार्यभावात् ।

४.४: ४४तत्रकार्यलक्षणश्चतुर्विधःशरीरमिन्द्रियम्विषयःप्राणैति ।

४.४: ४४तत्रायोनिजमेवशरीरम्मरुताम्लोकेपार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम् ।

४.४: ४४इन्द्रियम्सर्वप्राणिनाम्स्पर्शोपलम्भकम्पृथिव्याद्यनभिभूतैर्वाय्ववयवैरारब्धम्सर्वशरीरव्यापित्वगिन्द्रियम् ।

४.४: ४४विषयस्तूपलभ्यमानस्पर्शाधिष्ठानभूतःस्पर्शशब्दधृतिकम्पलिङ्गस्तिर्यग्गमनस्वभावोमेघादिप्रेरणधारणादिसमर्थः ।

४.४: ४४तस्याप्रत्यक्षस्यापिनानात्वम्सम्मूर्च्छनेनानुमीयते। सम्मूर्च्छनम्पुनःसमानजवयोर्वाय्वोर्विरुद्धदिक्क्रिययोःसन्निपातः। सोऽपिसावयविनोर्वाय्वोरूर्ध्वगमनेनानुमीयते॑तदपितृणादिगमनेनेति ॥

४.४: ४४प्राणोऽन्तह्सेरीरेरसमलधातूनाम्प्रेरणादिहेतुरेकःसन्क्रियाभेदादपानादिसंज्ञाम्लभते ॥

सृष्टिसंहारविधिर्[सम्पाद्यताम्]

५: ४८.७-इहेदानीम्चतुर्णाम्महाभूतानाम्सृष्टिसंहारविधिरुच्यते ।

५: ४८.८-ब्राह्मणेमानेनवर्षशतान्ते वर्तमानस्यब्रह्मणोऽपवर्गकालेसंसारखिन्नानाम्सर्वप्राणिनाम्निशिविश्रामार्थम्सकलभुवनपतेर्महेश्वरस्यसंजिहीर्षासमकालम्शरीरेन्द्रियमहाभूतोपनिबन्धकानाम्सर्वात्मगतानामदृष्टानाम्वृत्तिनिरोधेसतिमहेश्वरेच्छात्माणुसम्योगजकर्मभ्यःशरीरेन्द्रियकारणाणुविभागेभ्यस्तत्सम्योगनिवृत्तौतेषामापरमाण्वन्तोविनाशः

५: ४८.१५-तथापृथिव्युदकज्वलनपवनानामपिमहाभूतानामनेनैवक्रमेणोत्तरस्मिन्नुत्तरस्मिन् सतिपूर्वस्यपूर्वस्यविनाशःततःप्रविभक्ताःपरमाणवोवतिष्ठन्तेधर्माधर्मसंस्कारानुविद्धाआत्मानस्

तावन्तमेवकालम् ।

५: ४८.१९-ततःपुनःप्राणिनाम्भोगभूतयेमहेश्वरसिसृक्षानन्तरम्

सर्वात्मगतवृत्तिलब्धादृष्टापेक्षेभ्यस्तत्सम्योगेभ्यःपवनपरमाणुषुकर्मोत्पत्तौतेषाम्परस्परसम्योगेभ्योद्व्यणुकादिप्रक्रमेणमहान्वायुःसमुत्पन्नोनभसिदोधूयमानस्तिष्ठति ।

५: ४९.१-तदनन्तरम्तस्मिन्नेववायावाप्येभ्यःपरमाणुभ्यस्तेनैवक्रमेणमहान्सलिलनिधिरुत्पन्नःपोप्लूयमानस्तिष्ठतितदनन्तरम्तस्मिन्नेव पार्थिवेभ्यःपरमाणुभ्योमहापृथिवी

संहतावतिष्ठते ।

५: ४९.५-तदनन्तरम्तस्मिन्नेवमहोदधौतैजसेभ्योऽणुभ्योद्व्यणुकादिप्रक्रमेणोत्पन्नोमहांस्तेजोराशिःकेनचिदनभिभूतत्वाद्देदीप्यमानस्तिष्ठति ।

५: ४९.७-एवम्समुत्पन्नेन्षुचतुर्षुमहाभूतेषुमहेश्वरस्याभिध्यानमात्रात्तैजसेभ्योऽणुभ्यः पार्थिवपरमाणुसहितेभ्योमहदण्डमारभ्यते

तस्मिंश्चतुर्वदनकमलम्सर्वलोकपितामहम्ब्रह्माणम्सकलभुवनसहितमुत्पाद्यप्रजासर्गेविनियुङ्क्ते ।

५: ४९.११-सचमहेश्वरेणविनियुक्तोब्रह्मातिशयज्ञानवैराग्यैश्वर्यसम्पन्नःप्राणिनाम्कर्मविपाकम्विदित्वाकर्मानुरूपज्ञानभोगायुषः सुतान्प्रजापतीन्मानसान्मौदेवर्षिपितृगणान्मुखबाहूरुपादतश्चतुरोवर्णानन्यानिचोच्चावचानिभूतानिचसृष्ट्वाशयाणुरूपैर्धर्मज्ञानवैराग्यैश्वर्यैःसम्योजयतीति ॥

द्रव्यपदार्थः[सम्पाद्यताम्]

६.१: ५८.५-आकाशकालदिशामेकैकत्वाद्परजात्यभावे पारिभाषिक्यस्तिस्रःसंज्ञाभवन्ति । आकाशः

कालोदिगिति । तत्राकाशस्यगुणाःशब्दसंख्यापरिमाणपृथक्त्वसम्योगविभागाः ।

६.१: ५८शब्दः

प्रत्यक्षत्वेसत्यकारणगुणपूर्वकत्वादयावद्द्रव्यभावित्वादाश्रयादन्यत्रोपलब्धेश्चनस्पर्शवद्विशेषगुणः। बाह्येन्द्रियप्रत्यक्षत्वादात्मान्तरग्राह्यत्वादात्मन्यसमवायादहङ्कारेणविभक्तग्रहणाच्चनात्मगुणः ।

६.१: ५८श्रोत्रग्राह्यत्वाद्वैशेषिकगुणभावाच्चनदिक्कालमनसाम्। परिशेषाद् गुणोभूत्वाआकाशस्याधिगमेलिङ्गम्। शब्दलिङ्गाविशेषाद्

एकत्वम्सिद्धम् ।

६.१: ५८तदनुविधानादेकपृथक्त्वम् । विभववचनात्परममहत्परिमाणम्। शब्दकारणत्ववचनात्

सम्योगविभागाविति ।

६.१: ५८अतोगुणवत्त्वाद् अनाश्रितत्वाच्चद्रव्यम् । समानासमानजातोयकारणाभावाच्चनित्यम् । सर्वप्राणिनाम्चशब्दोपलब्धौनिमित्तम्

श्रोत्रभावेन ।

६.१: ५८श्रोत्रम्पुनःश्रवणविवरसंज्ञकोनभोदेशः

शब्दनिमित्तोपभोगप्रापकधर्माधर्मोपनिबद्धस्तस्यचनित्यत्वेसत्युपनिबन्धकवैकल्याद्बाधिर्यमिति ॥

६.२: ६३.१५-कालःपरापरव्यतिकरयौगपद्यायौगपद्यचिरक्षिप्रप्रत्ययलिङ्गम् । तेषाम्विषयेषुपूर्वप्रत्ययविलक्षणानाम् उत्पत्तावन्यनिमित्ताभावाद्यद्

अत्रनिमित्तम्सकालः ।

६.२: ६३सर्वकार्याणाम् चोत्पत्तिस्थितिविनाशहेतुस्तद्व्यपदेशात्। क्षणलवनिमेषकाष्ठाकलामुहूर्तयामाहोरात्रार्धमासमासर्त्वयनसंवत्सरयुगकलपमन्वन्तरप्रलयमहाप्रलयव्यवहारहेतुः

६.२: ६३तस्यगुणाःसंख्यापरिमाणपृथक्त्वसम्योगविभागाः। काललिङ्गाविशेषादेकत्वम्सिद्धम् । तदनुविधानात्पृथक्त्वम् । कारणेकालैतिवचनात्परममहत्परिमाणम्। कारणपरत्वादिवचनात्

सम्योगः ।

६.२: ६४तद्विनाशकत्वाद्विभागैति। तस्याकाशवद्द्रव्यत्वनित्यत्वेसिद्धे काललिङ्गाविशेषादंजसैकत्वे[म्ऽ]पिसर्वकार्याणाम्

आरम्भक्रियाभिनिर्वृत्तिस्थितिनिरोधोपपाधिभेदान्मणिवत्पाचकवद्वानानात्वोपचारैति ॥

६.३: ६६.२०-दिक्पूर्वापरादिप्रत्ययलिङ्गा । मूर्तद्रव्यमवधिम्कृत्वामूर्तेष्वेवद्रव्येष्वेतस्मादिदम् पूर्वेणदक्षिणेनपश्चिमेनोत्तरेणपूर्वदक्षिणेनदक्षिणापरेणअपरोत्तरेणौत्तरपूर्वेणचाधस्तादुपरिष्टाच्चेतिदशप्रत्ययायतोभवन्ति

सादिगिति ।

६.३: ६६अन्यनिमित्तासम्भवात् ।

६.३: ६७तस्यास्तुगुणाःसंख्यायपरिमाणपृथक्त्वसम्योगविभागाःकालवदेतेसिद्धाः। दिग्लिङ्गाविशेषादंजसैकत्वेऽपिदिशःपरममहर्षिभिः श्रुतिस्मृतिलोकसंव्यवहारार्थम्मेरुम्प्रदक्षिणमावर्तमानस्यभगवतःसवितुर्येसम्योगविशेषाःलोकपालपरिगृहीतदिक्प्रदेशानामन्वर्थाःप्राच्यादिभेदेनदशविधाःसंज्ञाःकृताःतो

भक्त्यादशदिशःसिद्धाः ।

६.३: ६७तासामेवदेवतापरिग्रहात् पुनर्दशसंज्ञाभवन्ति। माहेन्द्रीवैश्वानरीयाम्यानैरृतीवारुणीवायव्याकौवेरी

ऐशानीब्राह्मीनागीचेति ।

६.४: ६९.६-आत्मत्वाभिसम्बन्धादात्मा । तस्यसौक्ष्म्यादप्रत्यक्षत्वेसति करणैःशब्दाद्युपलब्ध्यनुमितैःश्रोत्रादिभिःसमधिगमःक्रियते । वास्यादीनाम्करणानाम्कर्तृप्रयोज्यत्वदर्शनात्

शब्दादिषुप्रसिद्ध्याचप्रसाधकोऽनुमीयते ।

६.४: ६९नशरीरेन्द्रियमनसामज्ञत्वात् । नशरीरस्यचैतन्यम्घटादिवद्भूतकार्यत्वात्मृतेचासम्भवात् । नेन्द्रियाणाम्करणत्वातुपहतेषुविषयासान्निध्येचानुस्मृतिदर्शनात्

६.४: ६९नापिमनसःकरणान्तरानपेक्षित्वेयुगपदालोचनस्मृतिप्रसङ्गात् स्वयम्करणभावाच्च । परिशेषादात्मकार्यत्वात्तेनात्मासमधिगम्यतेशरीरसमवायिनीभ्याम्चहिताहितप्राप्तिपरिहारयोग्याभ्याम्प्रवृत्तिनिवृत्तिभ्याम्

रथकर्मणासारथिवत्प्रयत्नवान्विग्रहस्याधिष्ठातानुमीयतेप्राणादिभिश्चेति ।

६.४: ६९कथम्शरीरपरिगृहीते वायौविकृतकर्मदर्शनाद्भस्त्राध्मापयितेवनिमेषोन्मेषकर्मणानियतेनदारुयन्त्रप्रयोक्तेवदेहस्यवृद्धिक्षतभग्नसंरोहणादिनिमित्तत्वात्

६.४: ७०गृहपतिरिवअभिमतविषयग्राहककरणसम्बन्धनिमित्तेनमनह्कर्मणागृहकोणेषुपेलकप्रेरकैव दारकःनयनविषयालोचनानन्तरम्रसानुस्मृतिक्रमेणरसनविक्रियादर्शनादनेकगवाक्षान्तर्गतप्रेक्षकवद्

उभयदर्शीकश्चिदेकोविज्ञायते ।

६.४: ७०सुखदुह्खेच्छाद्वेषप्रयत्नैश्चगुणैर्गुण्यनुमीयतेतेचनशरीरेन्द्रियगुणाः कस्मादहङ्कारेणैकवाक्यताभावात्प्रदेशवृत्तित्वादयावद्द्रव्यभावित्वाद्बाह्येन्द्रियाप्रत्यक्षत्वाच्

चतथाहंशब्देनापिपृथ्श्श्दिव्यादिशब्दव्यतिरेकादिति ।

६.४: ७०तस्यगुणाःबुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारसंख्यापरिमाणपृथक्त्वसम्योगविभागाः। आत्मलिङ्गाधिकारेबुद्ध्यादयःप्रयत्नान्ताःसिद्धाः।

६.४: ७०धर्माधर्मावात्मान्तरगुणानामकारणत्ववचनात्संस्कारःस्मृत्युत्पत्तौकारणवचनात् । व्यवस्थावचनात् संख्यापृथक्त्वमप्यतएव तथाचात्मेतिवचनात्परममहत्परिमाणम् ।

६.४: ७०सन्निकर्षजत्वात्सुखादीनाम्सम्योगः । तद्विनाशकत्वाद्विभागैति ॥

६.५: ८९.८-मनस्त्वयोगान्मनः । सत्यप्यात्मेन्द्रियार्थसान्निध्येज्ञानसुखादीनामभूत्वोत्पत्तिदर्शनात्करणान्तरमनुमीयते । श्रोत्राद्यव्यापारेस्मृत्युत्पत्तिदर्शनात्बाह्येन्द्रियैरगृहीतसुखादिग्राह्यान्तरभावाच्चान्तह्करणम् ।

६.५: ८९तस्यगुणाःसंख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वसंस्काराः। प्रयत्नज्ञानायौगपद्यवचनात्प्रतिशरीरमेकत्वम्सिद्धम्। पृथक्त्वमप्यतएव। तदभाववचनादणुपरिमाणम् ।

६.५: ८९अपसर्पणोपसर्पणवचनात्सम्योगविभागौ । मूर्तत्वात्परत्वापरत्वेसंस्कारश्च। अस्पर्शवत्त्वाद्द्रव्यानारम्भकत्वम्। क्रियावत्त्वान्मूर्तत्वम्। साधारणविग्रहवत्त्वप्रसङ्गादज्ञत्वम् ।

६.५: ८९करणभावात्परार्थम् । गुणवत्त्वाद्द्रव्यम्। प्रयत्नादृष्टपरिग्रहवशादाशुसञ्चारिचेति ॥

६.०: ८९इतिप्रशस्तपादभाष्येद्रव्यपदार्थः॥

गुणपदार्थनिरूपणम्[सम्पाद्यताम्]

७.०: ९४.५अथगुणपदार्थनिरूपणम् ।

७.०: ९४.६-रूपादीनाम्गुणानाम्सर्वेषाम्गुणत्वाभिसम्बन्धोद्रव्याश्रितत्वम्निर्गुणत्वम्निष्क्रियत्वम् ॥

७.०: ९५.३-रूपरसगन्धस्पर्शपरत्वापरत्वगुरुत्वद्रवत्वस्नेहवेगामूर्तगुणाः ॥

७.०: ९५.९-बुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दाअमूर्तगुणाः ॥

७.०: ९५.१३संख्यापरिमाणपृथक्त्वसम्योगविभागाउभयगुणाः ॥

७.०: ९५.१५सम्योगविभागद्वित्वद्विपृथक्त्वादयोऽनेकाश्रिताः ॥

७.०: ९५.२१शेषास्त्वेकैकद्रव्यवृत्तयः ॥

रूपरसगन्धस्पर्शस्नेहसांसिद्धिकद्रवत्वबुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दावैशेषिकगुणाः ॥

संख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वगुरुत्वनैमितिकद्रवत्ववेगाःसामान्यगुणाः ॥

७.०: ९६.११-शब्दस्पर्शरूपरसगन्धाबाह्यैकैकेन्द्रियग्राह्याः ॥

संख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वद्रवत्वस्नेहवेगाद्वीन्द्रियग्राह्याः ॥

७.०: ९६.१९-बुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नास्त्वन्तह्करणग्राह्याः ॥

७.०: ९८.४गुरुत्वधर्माधर्मभावनाह्यतीन्द्रियाः ॥

अपाकजरूपरसगन्धस्पर्शपरिमाणैकत्वैकपृथक्त्वगुरुत्वद्रवत्वस्नेहवेगाःकारणगुणपूर्वकाः ॥

७.०: ९८.२०-बुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दाअकारणगुणपूर्वकाः ॥

बुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दतूलपरिमाणोत्तरसम्योगनैमित्तिकद्रवत्वपरत्वापरत्वापाकजाःसम्योगजाः ॥

७.०: ९९.६सम्योगविभागवेगाःकर्मजाः ॥

७.०: ९९.८शब्दोत्तरविभागौविभागजौ ॥

७.०: ९९.११परत्वापरत्वद्वित्वद्विपृथक्त्वादयोबुद्ध्यपेक्षाः ॥

७.०: ९९.१४-रूपरसगन्धानुष्णस्पर्शशब्दपरिमाणैकत्वैकपृथक्त्वस्नेहाःसमानजात्यारम्भकाः ॥

७.०: ९९.२२सुखदूह्खेच्छाद्वेषप्रयत्नाश्चासमानजात्यारम्भकाः ॥

सम्योगविभागसंख्यागुरुत्वद्रवत्वोष्णस्पर्शज्ञानधर्माधर्मसंस्काराःसमानासमानजात्यारम्भकाः ॥

७.०: १००.११-बुद्धिसुखदुह्खेच्छाद्वेषभावनाशब्दाःस्वाश्रयसमवेतारम्भकाः ॥

७.०: १००.१६रूपरसगन्धस्पर्शपरिमाणस्नेहप्रयत्नाःपरत्रारम्भकाः ॥

सम्योगविभागसंख्यैकपृथक्त्वगुरुत्वद्रवत्ववेगधर्माधर्मास्तूभयत्रारम्भकाः ॥

७.०: १०१.३-गुरुत्वद्रवत्ववेगप्रयत्नधर्माधर्मसम्योगविशेषाःक्रियाहेतवः ॥

रूपरसगन्धानुष्णस्पर्शसंख्यापरिमाणैकपृथक्त्वसनेहशब्दानामसमवायिकारणत्वम् ॥

७.०: १०२.१-बुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नधर्माधर्मभावनानाम्निमित्तकारणत्वम् ॥

७.०: १०२.४-सम्योगविभागोष्णस्पर्शगुरुत्वद्रवत्ववेगानामुभयथाकारणत्वम् ॥

७.०: १०२.१२परत्वापरत्वद्वित्वद्विपृथक्त्वादीनामकारणत्वम् ॥

७.०: १०२.१६-सम्योगविभागशब्दात्मविशेषगुणानाम्प्रदेशवृत्तित्वम् ॥

७.०: १०३.८शेषाणामाश्रयव्यापित्वम् ॥

अपाकजरूपरसगन्धस्पर्शपरिमाणैकत्वैकपृथक्त्वसांसिद्धिकद्रवत्वगुरुत्वस्नेहानाम्यावद्द्रव्यभावित्वम् ॥

७.०: १०३.१५शेषाणामयावद्द्रव्यभावित्वम्चेति ॥


गुणपदार्थः[सम्पाद्यताम्]

८.१: १०३.१८-रूपादीनाम्सर्वेषाम्गुणानाम्प्रत्येकमपरसामान्यसम्बन्धाद्रूपादिसंज्ञाभवन्ति ॥

८.१: १०४.१-तत्ररूपम्चक्षुर्ग्राह्यम्। पृथिव्युदकज्वलनवृत्तिद्रव्याद्युपलम्भकम्नयनसहकारिशुक्लाद्यनेकप्रकारम्सलिलादिपरमाणुषुनित्यम्पार्थिवपरमाणुष्वग्निसम्योगविरोधिसर्वकार्यद्रव्येषुकारणगुणपूर्वकमाश्रयविनाशादेवविनश्यतीति ॥

८.२: १०५.८-रसोरसनग्राह्यः । पृथिव्युदकवृत्तिःजीवनपुष्टिबलारोग्यनिमित्तम्रसनसहकारीमधुरांललवणतिक्तकटुकषायभेदभिन्नः। अस्यापिनित्यानित्यत्वनिष्पत्तयोरूपवत् ॥

८.३: १०५.२३-गन्धोघ्राणग्राह्यः । पृथिवीवृत्तिःघ्राणसहकारीसुरभिरसुरभिश्च । अस्यापिपूर्ववदुत्पत्त्यादयोव्याख्याताः ॥

८.४: १०६.८-स्पर्शस्त्वगिन्द्रियग्राह्यः । क्षित्युदकज्वलनपवनवृत्तिःत्वक्षहकारीरूपानुविधायीशीतोष्णानुष्णाशीतभेदात्त्रिविधः । अस्यापिनित्यानित्यत्वनिष्पत्तयःपूर्ववत् ॥

८.५: १०६.१९-पार्थिवपरमाणुरूपादीनाम्पाकजोत्पत्तिविधानम् । घटादेरामद्रव्यस्याग्निनासम्बद्धस्याग्न्यभिघातान्नोदनाद्वातदारम्भकेष्वणुषुकर्माण्युत्पद्यन्तेतेभ्योविभागाःविभागेभ्यःसम्योगविनाशाःसम्योगविनाशेभ्यश्चकार्यद्रव्यम्विनश्यति ।

८.५: १०६तस्मिन्विनष्टेस्वतन्त्रेषुपरमाणुष्वग्निसम्योगादौष्ण्यापेक्षाच्छ्यामादीनाम्विनाशःपुनरन्यस्मादग्निसम्योगादौष्ण्यापेक्षात्पाकजाजायन्ते ।

८.५: १०७तदनन्तरम्भोगिनामदृष्तापेक्षादात्माणुसम्योगादुत्पन्नपाकजेष्वणुषुकर्मोत्पत्तौतेषाम्परस्परसम्योगाद्द्व्यणुकादिक्रमेणकार्यद्रव्यमुत्पद्यते । तत्रचकारणगुणप्रक्रमेणरूपाद्युत्पत्तिः ।

८.५: १०७नचकार्यद्रव्यएवरूपाद्युत्पत्तिर्विनाशोवासम्भवतिसर्वावयवेष्वन्तर्बहिश्चवर्तमानस्याग्निनाव्याप्त्यभावादणुप्रवेशादपिचव्याप्तिर्नसम्भवतिकार्यद्रव्यविनाशादिति ॥

८.६: १११.३-एकादिव्यवहारहेतुःसंख्या । सापुनरेकद्रव्याचानेकद्रव्याच । तत्रैकद्रव्यायाःसलिलादिपरमाणुरूपदीनामिवनित्यानित्यत्वनिष्पत्तयः। अनेकद्रव्यातुद्वित्वादिकापरार्धान्ता ।

८.६: १११तस्याःखल्वेकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्योनिष्पत्तिरपेक्षाबुद्धिविनाशाद्विनाशैति। कथम् ।

८.६: १११यदाबोद्धुश्चक्षुषासमानासमानजातीययोर्द्रव्ययोःसन्निकर्षेसतितत्सम्युक्तसमवेतसमवेतैकत्वसामान्यज्ञानोत्पत्तावेकत्वसामान्यतस्सम्बन्धज्ञानेभ्यएकगुणयोरनेकविषयिण्येकाबुद्धिरुत्पद्यतेतदातामप्क्ष्यैकत्वाभ्याम्स्वाश्रययोर्द्वित्वमारम्भ्यतेततःपुनस्तस्मिन्द्वित्वसामान्यज्ञानमुत्पद्यतेतस्माद्द्वित्वसामान्यज्ञानादपेक्षाबुद्धेर्विनश्यत्ताद्वित्वसामान्यतत्सम्बन्धतज्ज्ञानेभ्योद्वित्वगुणबुद्धेरुत्पद्यमानतेत्येकःकालः ।

८.६: १११ततैदानीमपेक्षाबुद्धिविनाशाद्द्वित्वगुणस्यविनश्यत्ताद्वित्वगुणज्ञानम्द्वित्वसामान्यज्ञानस्यविनाशकारणम्द्वित्वगुणतज्ज्ञानसम्बन्धेभ्योद्वेद्रव्येइतिद्रव्यबुद्धेरुत्पद्यमानतेत्येकःकालः ।

८.६: १११तदनन्तरम्द्वेद्रव्येइतिद्रव्यज्ञानस्योत्पादःद्वित्वस्यविनाशःद्वित्वगुणबुद्धेर्विनश्यत्ताद्रव्यज्ञानात्संस्कारस्योत्पद्यमानतेत्येकःकालःतदनन्तरम्द्रव्यज्ञानाद्द्वित्वगुणबुद्धेर्विनाशोद्रव्यबुद्धेरपिसंस्कारात् ।

८.६: ११२एतेनत्रित्वाद्युत्पत्तिरपिव्याख्याता । एकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्योनिष्पत्तिरपेक्षाबुद्धिविनाशाच्चविनाशैति । क्वचिच्चाश्रयविनाशादिति । कथम् ।

८.६: ११२यदैकत्वाधारावयवेकर्मोत्पद्यतेतदैवैकत्वसामान्यज्ञानमुत्पद्यतेकर्मणाचावयवान्तराद्विभागःक्रियतेअपेक्षाबुद्धेश्चोत्पत्तिः ।

८.६: ११२ततोयस्मिन्नेवकालेविभागात्सम्योगविनाशस्तस्मिन्नेवकालेद्वित्वमुत्पद्यतेसम्योगविनाशाद्द्रव्यविनाशःसामान्यबुद्धेश्चोत्पत्तिः ।

८.६: ११२ततोयस्मिन्नेवकालेसामान्यज्ञानादपेक्षाबुद्धेर्विनाशःतस्मिन्नेवकालेआश्रयविनाशाद्द्वित्वविनाशैतिशोभनमेतद्विधानम्बध्यघातकपक्षेसहानवस्थानलक्षणेतुविरोधेद्रव्यज्ञानानुत्पत्तिप्रसङ्गः । कथम् ।

८.६: ११२गुणबुद्धिसमकालमपेक्षाबुद्धिविनाशाद्द्वित्वविनाशेतदपेक्षस्यद्वेद्रव्येइतिद्रव्यज्ञानस्यानुत्पत्तिप्रसङ्गैति। लैङ्गिकवज्ज्ञानमात्रादितिचेतस्यान्मतम्यथाऽभूतम्भूतस्येत्यत्रलिङ्गाभावेऽपिज्ञानमात्रादनुमानम्तथागुणविनाशेऽपिगुणबुद्धिमात्राद्द्रव्यप्रत्ययःस्यादिति ।

८.६: ११२न। विशेष्यज्ञानत्वात् । नहिविशेष्यज्ञानम्सारूप्याद्विशेषणसम्बन्धमन्तरेणभवितुमर्हति । तथाचाहसूत्रकारःसमवायिनःश्वैत्याच्छ्वैत्यबुद्धेःश्वेतेबुद्धिस्तेकार्यकारणभूतेइति ।

८.६: ११३.१-नतुलैङ्गिकम्ज्ञानमभेदेनोत्पद्यतेतस्माद्विषमोऽयमुपन्यासःनआशूत्पत्तेःयथाशब्दवदाकाशमितिअत्रत्रीणिज्ञानान्याशूत्पद्यन्तेतथाद्वित्वादिज्ञनोत्पत्तावित्यदोषः ।

८.६: ११३बध्यघातकपक्षेऽपिसमानोदोषैतिचेत्स्यान्मतम्। ननुबध्यघातकपक्षेऽपितर्हिद्रव्यज्ञानानुत्पत्तिप्रसङ्गः । कथम् । द्वित्वसामान्यबुद्धिसमकालम्संस्कारादपेक्षाबुद्धिविनाशादिति। न ।

८.६: ११३समूहज्ञानस्यसंस्कारहेतुत्वात्समूहज्ञान्मेवसंस्कारकारणम्नालोचनज्ञानमित्यदोषः । ज्ञानयौगपद्यप्रसङ्गैतिचेत्स्यान्मतम्ननुज्ञानानाम्बध्यघातकविरोधेज्ञानयौगपद्यप्रसङ्गैति। न ।

८.६: ११३अविनश्यतोरवस्थानप्रतिषेधात् ।

८.६: ११३ज्ञानायौगप्द्यवचनेनज्ञानयोर्युगपदुत्पत्तिरविनश्यतोश्चयुगपदवस्थानम्प्रतिषिध्यतेनहिबध्यघातकविरोधेज्ञानयोर्युगपदुत्पत्तिर्विनश्यतोश्चयुगपदवस्थानमस्तीति ॥

८.७: १३०.२०-परिमाणम्मानव्यवहारकारणम् । तच्चतुर्विधमणुमहद्दीर्घम्ह्रस्वम्चेति । तत्रमहद्द्विविधम्नित्यमनित्यम्च । नित्यमाकाशकालदिगात्मसुपरममहत्त्वमनित्यम्त्र्यणुकादावेव ।

८.७: १३०तथाचाण्वपिद्विविधम्नित्यमनित्यम्च। नित्यम्परमाणुमनस्सुतत्पारिमाण्डलुयम्। अनित्यम्द्व्यणुकएव । कुवलयामलकबिल्वादिषुमहत्स्वपितत्प्रकर्षभावाभावमपेक्ष्यभाक्तोऽणुत्वव्यवहारः ।

८.७: १३१.२-दीर्घत्वह्रस्वत्वेचोत्पाद्येमहदणुत्वैकार्थसमवेते। समिदिक्षुवंशादिष्वंजसादीर्घेष्वपितत्प्रकर्षभावाभावमपेक्ष्यभाक्तोह्रस्वत्वव्यवहारः ।

८.७: १३१अनित्यम्चतुर्विधमपिसंख्यापरिमाणप्रचययोनि । तत्रेश्वरबुद्धिमपेक्ष्योत्पन्नापरमाणुद्व्यणुकेषुबहुत्वसंख्यातैरारब्धेकार्यद्रव्येत्र्यणुकादिलक्षणेरूपाद्युत्पत्तिसमकालम्महत्त्वम्दीर्घत्वम्चकरोति ।

८.७: १३१द्विबहुभिर्महद्भिश्चारब्धेकार्यद्रव्येकारणमहत्त्वान्येवमहत्त्वमारभन्तेनबहुत्वम् । समानसंख्यैश्चारब्धेऽतिशयदर्शनात् ।

८.७: १३१प्रचयतूलपिण्डयोर्वर्तमानःपिण्डारम्भकावयवप्रशिथिलसम्योगानपेक्षमाणैतरेतरपिण्डावयवसम्योगापेक्षोवाद्वितूलकेमहत्त्वमारभतेनबहुत्वमहत्त्वानि ।

८.७: १३१समानसंख्यापलपरिमाणैरारब्धेऽतिशयदर्शनात्। द्वित्वसंख्याचाण्वोर्वर्तमानाद्व्यणुकेऽणुत्वमारभते । महत्त्ववत्त्र्यणुकादौकारणबहुत्वमहत्त्वसमानजातीयप्रचयेभ्योदीर्घत्वस्योपत्तिः ।

८.७: १३१अणुत्ववद्द्व्यणुकेद्वित्वसंख्यातोह्रस्वत्वस्योत्पत्तिः । अथत्र्यणुकादिषुवर्तमानयोर्महत्त्वदीर्घत्वयोःपर्स्परतःकोविशेषःद्व्यणुकेषुचाणुत्वह्रस्वत्वयोरिति ।

८.७: १३१तत्रास्तिमहत्त्वदीर्घत्वयोःपरस्परतोविशेषह्,महत्सुदीर्घमानीयताम्दीर्घेषुचमहदानीयतामितिविशिष्टव्यवहारदर्शनादिति ।

८.७: १३२.२-अणुत्वह्रस्वत्वयोस्तुपरस्परतोविशेषस्तद्दर्शिनाम्प्रत्यक्षैति। तच्चतुर्विधमपिपरिमाणमुत्पाद्यमाश्रयविनाशादेवविनश्यतीति ॥

८.८: १३८.५-पृथक्त्वमपोद्धारव्यवहारकारणम् । तत्पुनरेकद्रव्यमनेकद्रव्यम्च । तस्यतुनित्यानित्यत्वनिष्पत्तयःसंख्ययाव्याख्याताः । एतावांस्तुविशेषःेकत्वादिवदेकपृथक्त्वादिष्वपरसामान्याभावःसंख्ययातुविशिष्यतेतद्विशिष्टव्यवहारदर्शनादिति ॥

८.९: १३९.१३-सम्योगःसम्युक्तप्रत्ययनिमित्तम् । सचद्रव्यगुणकर्महेतुः । द्रव्यारम्भेनिरपेक्षस्तथाभवतीतिसापेक्षेभ्योनिरपेक्षेभ्यश्चेतिवचनात्। गुणकर्मारम्भेतुसापेक्षःसम्युक्तसमवायादग्नेर्वैशेषिकमितिवचनात् ।

८.९: १३९अथकथंलक्षणःकतिविधश्चेति । अप्राप्तयोःप्राप्तिःसम्योगःसचत्रिविधःन्यतरकर्मजःुभयकर्मजःसम्योगजश्च। तत्रान्यतरकर्मजःक्रियावतानिष्क्रियस्य ।

८.९: १३९यथास्थाणोःश्येनेन्नविभूनाम्चमूर्त्तैः । उभयकर्मजोविरुद्धदिक्क्रिययोःसन्निपातः । यथामल्लयोर्मेषायोर्वा।

८.९: १३९सम्योगजस्तूत्पन्नमात्रस्यचिरोत्पन्नस्यवानिष्क्रियस्यकारणसम्योगिभिरकारणैःकारणाकारणसम्योगपूर्वकःकार्याकार्यगतःसम्योगः ।

८.९: १४०.२-सचैकस्माद्द्वाभ्याम्बहुभ्यश्चभवति । एकस्मात्तावत्तन्तुवीरणसम्योगात्द्वितन्तुकवीरणसम्योगः। द्वाभ्याम्तन्त्वाकाशसम्योगाभ्यामेकोद्वितन्तुकाकाशसम्योगः। बहुभ्यश्चतन्त्तुरीसम्योगेभ्यएकःपटतुरीसम्योगः ।

८.९: १४०एकस्माच्चद्वयोरुत्पत्तिः । कथम् । यदापार्थिवाप्ययोरण्वोःसम्योगेसत्यन्येनपार्थिवेनपार्थिवस्यान्येनाप्येनचाप्यस्ययुगपत्सम्योगौभवतस्तदाताभ्याम्सम्योगाभ्याम्पार्ह्तिवाप्येद्व्यणुकेयुगपदारभ्येते ।

८.९: १४०ततोयस्मिन्कालेद्व्यणुकयोःकारणगुणपूर्वक्रमेणरूपाद्युत्पत्तिःतस्मिन्नेवकालेइतरेतरकारणाकारणगतात्सम्योगादितरेतरकायाकार्यगतौसम्योगौयुगपदुत्पद्येते। किम्कारणम् ।

८.९: १४०कारणसायोगिनाह्यकारणेनकार्यमवश्यम्सम्युज्यतेइतिन्यायःतःपार्थिवम्द्व्यणुकम्कारणसम्योगिनाप्येनाणुनासम्बद्ध्यतेआप्यमपिद्व्यणुकम्कारण्सम्योगिनापार्थिवेनेति ।

८.९: १४०अथद्व्यणुकयोरितरेतरकारणाकारणसम्बद्धयोःकथम्परस्परतःसम्बन्धैति। तयोरपिसम्योगजाभ्याम्सम्योगाभ्याम्सम्बन्धैति। नास्त्यजःसम्योगोनित्यपरिमण्डलवत्पृथगनभिधानात् ।

८.९: १४०यथाचतुर्विधम्परिमाणमुत्पाद्यमुक्त्वाहनित्यम्परिमण्डलमित्येवमन्यतरकर्मजादिसम्योगमुत्पाद्यमुक्त्वापृथङ्नित्यम्ब्रूयान्नत्वेवमब्रवीत्तस्मान्नास्त्यजःसम्योगः ।

८.९: १४१.३-परमाणुभिराकाशादीनाम्प्रदेशवृत्तिरन्यतरकर्मजःसम्योगः। विभूनाम्तुपरस्परतःसम्योगोनास्तियुतसिद्ध्यभावात् ।

८.९: १४१सापुनर्द्वयोरन्यतरस्यवापृथग्गतिमत्त्वम्पृथगाश्रयाश्रयित्वम्चेति । विनाशस्तुसर्वस्यसम्योगस्यैकार्थसमवेताद्विभागात्क्वचिदेस्रयविनाशादपि। कथम् ।

८.९: १४१यदातन्त्वोःसम्योगेसत्यन्यतरतन्त्वारम्भकेअंशौकर्मोत्पद्यतेतेनकर्मणाअंश्वन्ततराद्विभागःक्रियतेविभागाच्चतन्त्वारम्भकसम्योगविनाशःसम्योगविनाशात्तन्तुविनाशस्तद्विनाशेतदाश्रितस्यतन्त्वन्तरसम्योगस्यविनाशैति ॥

८.१०: १५१.४-विभागोविभक्तप्रत्ययनिमित्तम् । शब्दविभागहेतुश्च। प्राप्तिपूर्विकाऽप्राप्तिर्विभागः । सचत्रिविधः । अन्यतरकर्मजौभयकर्मजोविभागजश्चविभागैति ।

८.१०: १५१तत्रान्यतरकर्मजोभयकर्मजौसम्योगवत् । विभागजस्तुद्विविधःकारणविभागात्कारणाकारणविभागाच्च। तत्रकारणविभागात्तावत्कार्याविष्टेकारणेकर्मोत्पन्नम्यदातस्यावयवान्तराद्विभागम्करोतिनतदाकाशादिदेशात्यदात्वाकाशादिदेशाद्विभागम्करोतिनतदावयवान्तरादितिस्थितिः ।

८.१०: १५१अतोऽवयवकर्मावयवान्तरादेवविभागमारभतेततोविभागाच्चद्रव्यारम्भकसम्योगविनाशःतस्मिन्विनष्टेकारणाभावात्कार्याभावैत्यवयविविनाशःतदाकारणयोर्वर्तमानोविभागःकार्यविनाशविशिष्टम्कालम्स्वतन्त्रम्वावयवमपेक्ष्यसक्रियस्यैवावयवस्यकार्यसम्युक्तादाकाशादिदेशाद्विभागमारभतेननिष्क्रियस्यकारणाभावादुत्तरसम्योगानुत्पत्तावनुपभोग्यत्वप्रसङ्गःनतुतदवयवकर्माकाशादिदेशाद्विभागम्करोतितदारम्भकालातीतत्वात्प्रदेशान्तरसम्योगम्तुकरोत्येवअकृतसम्योगस्यकर्मणःकालात्ययाभावादिति ।

८.१०: १५१कारणाकारणविभागादपिकथम् ।

८.१०: १५२.१-यदाहस्तेकर्मोत्पन्नमवयवान्तराद्विभागमकुर्वदाकाशादिदेशेभ्योविभागानारभ्यप्रदेशान्तरेसम्योगानारभतेतदातेकारणाकारणविभागाःकर्मयाम्दिशम्प्रतिकार्यारम्भाभिमुखम्तामपेक्ष्यकार्याकार्यविभागानारभन्तेतदनन्तरम्कारणाकारणसम्योगाच्चकार्याकार्यसम्योगानिति ।

८.१०: १५२यदिकारणविभागानन्तरम्कार्यविभागोत्पत्तिःकारणसम्योगानन्तरम्कार्यसम्योगोत्पत्तिःनन्वेवमवयवावयविनोर्युतसिद्धिदोषप्रसङ्गःिति । न ।

८.१०: १५२युतसिद्ध्यपरिज्ञानात्। सापुनर्द्वयोरन्यतरस्यवापृथग्गतिमत्त्वमियन्तुनित्यानामनित्यानाम्तुयुतेष्वाश्रयेषुसमवायोयुतसिद्धिरिति ।

८.१०: १५२त्वगिन्द्रियशरीरयोःपृथग्गतिमत्त्वम्नास्तियुतेष्वाश्रयेषुसमवायोस्तीतिपरस्परेणसम्योगःसिद्धः। अण्वाकाशयोस्त्वाश्रयान्तराभावेप्यन्यतरस्यपृथग्गतिमत्त्वात्सम्योगविभागौसिद्धौ ।

८.१०: १५२तन्तुपटयोरनित्ययोराश्रयान्तराभावात्परस्परतःसम्योगविभागाभावैति । दिगादीनाम्तुपृथग्गतिमत्त्वाभावादितिपरस्परेणसम्योगविभागाभावैति ।

८.१०: १५२विनाशस्तुसर्वस्यविभागस्यक्षणिकत्वादुत्तरसम्योगावधिसद्भावाद्क्षणिकैति ।

८.१०: १५२नतुसम्योगविद्ययोरेवविभागस्तयोरेवसम्योगाद्विनाशोभवतिकस्मात्सम्युक्तप्रत्ययवद्विभक्तप्रत्ययानुवृत्त्यभावात्तस्मादुत्तरसम्योगावधिसद्भावात्क्षणिकैति ।

८.१०: १५३.३-क्वचिच्चाश्रयविनाशादेवविनश्यतीति । कथम् ।

८.१०: १५३यदाद्वितन्तुककारणावयवेअंशौकर्मोत्पन्नमंश्वन्तराद्विभागामारभतेतदैवतन्त्वन्तरेऽपिकर्मोत्पद्यतेविभागाच्चतन्त्वारम्भकसम्योगविनाशःतन्तुकर्मणातन्त्वन्तराद्विभागःक्रियतेइत्येकःकालः ।

८.१०: १५३ततोयस्मिन्नेवकालेविभागात्तन्तुसम्योगविनाशःतस्मिन्नेवकालेसम्योगविनाशात्तन्तुविनाशस्तस्मिन्विनष्टेतदाश्रितस्यतन्त्वन्तरविभागस्यविनाशैति। एवम्तर्ह्युत्तरविभागानुत्पत्तिप्रसङ्गः ।

८.१०: १५३कारणविभागाभावात्। ततःप्रदेशान्तरसम्योगवतिसम्योगाभावैत्यतोविरोधिगुणासम्भवात्कर्मणश्चिरकालावस्थायित्वम्नित्यद्रव्यसमवेतस्यचनित्यत्वमितिदोषः । कथम् ।

८.१०: १५३यदाप्यद्व्यणुकारम्भकपरमाणौकर्मोत्पन्नमण्वन्तराद्विभागम्करोतितदैवाण्वन्तरेऽपिकर्मततोयस्मिन्नेवकालेविभागाद्द्रव्यारम्भकसम्योगविनाशःतदैवाण्वन्तरकर्मणाद्व्यणुकाण्वोर्विभागःक्रियतेततोयस्मिन्नेवकालेविभागात्द्व्युअणुकाणुसम्योगस्यविनाशःतस्मिन्नेवकालेसम्योगविनाशात्द्व्यणुकस्यविनाशः

८.१०: १५४तस्मिन्विनष्टेतदाश्रितस्यद्व्यणुकाणुविभागस्यविनाशःततश्चविरोधिगुणासम्भवान्नित्यद्रव्यसमवेतकर्मणोनित्यत्वमिति ।

८.१०: १५४तन्त्वंश्वन्तरविभागाद्विभागैत्यदोषः । आश्रयविनाशात्तन्त्वोरेवविभागोविनष्टोनतन्त्वंश्वन्तरविभागैतिएतस्मादुत्तरोविभागोजायतेअङ्गुल्याकाशविभागाच्छरीराकाशविभागवत्तस्मिन्नेवकालेकर्मसम्योगम्कृत्वाविनश्यतीत्यदोषः ।

८.१०: १५४अथवाअंश्वन्तरविभागोत्पत्तिसमकालम्तस्मिन्नेवतन्तौकर्मोत्पद्यतेततोंश्वन्तरविभागात्तन्त्वारम्भकसम्योगविनाशःतन्तुकर्मणाचतन्त्वन्तराद्विभागःक्रियतेइत्येकःकालः ।

८.१०: १५४ततःसम्योगविनाशात्तन्तुविनाशःतद्विनाशाच्चतदाश्रितयोर्विभागकर्मणोर्युगपद्विनाशः । तन्तुवीरणयोर्वासम्योगेसतिद्रव्यानुत्पत्तौपूर्वोक्तेनविधानेनाश्रयविनाशसम्योगाभ्याम्तन्तुवीरणविभागविनाशैति ॥

८.११: १६४.३परत्वमपरत्वम्चपरापराभिधानप्रत्ययनिमित्तम् । तत्तुद्विविधम्दिक्कृतम्कालकृतम्च। तत्रदिक्कृतम्दिग्विशेषप्रत्यायकम् ।

८.११: १६४कालकृतम्चवयोभेदप्रत्यायकम्। तत्रदिक्कृतस्योत्पत्तिरभिधीयते । कथम् । एकस्याम्दिश्यवस्थितयोःपिण्डयोःसम्युक्तसम्योगबह्वल्पभावेसत्येकस्यद्रष्टुःसन्निकृष्टमवधिम्कृत्वाएतस्माद्विप्रकृष्टोऽयमितिपरत्वाधारेऽसन्निकृष्टाबुद्धिरुत्पद्यते ।

८.११: १६४ततस्तामपेक्ष्यपरेणदिक्प्रदेशेनसम्योगात्परत्वस्योत्पत्तिः। तथाविप्रकृष्टम्चावधिम्कृत्वाएतस्मात्सन्निकृष्टोयमित्यपरत्वाधारेइतरस्मिन्सन्निकृष्टाबुद्धिरुत्पद्यते ।

८.११: १६४ततस्तामपेक्ष्यापरेणदिक्प्रदेशेनसम्योगादपरत्वस्योत्पत्तिः । कालकृतयोरपिकथम् ।

८.११: १६४वर्तमानकालयोरनियतदिग्देशसम्युक्तयोर्युवस्थविरयोरूढश्मश्रुकार्कश्यबलिपलितादिसान्निध्येसत्येकस्यद्रष्टुर्युवानमवधिम्कृत्वास्थिविरेविप्रकृष्टाबुद्धिरुत्पद्यते ।

८.११: १६४ततस्तामपेक्ष्यपरेणकालप्रदेशेनसम्योगात्परत्वस्योत्पत्तिः। स्थविरम्चावधिम्कृत्वायूनिसन्निकृष्टाबुद्धिरुत्पद्यते । ततस्तामपेक्ष्यापरेणकालप्रदेशेनसम्योगादपरत्वस्योत्पत्तिरिति ।

८.११: १६४विनाशस्त्वपेक्षाबुद्धिसम्योगद्रव्यविनाशात्। अपेक्षाबुद्धिविनाशात्तावदुत्पन्नेपरत्वेयस्मिन्कालेसामान्यबुद्धिरुत्पन्नाभवतिततोऽपेक्षाबुद्धेर्विनश्यत्तासामान्यज्ञानतत्सम्बन्धेभ्यःपरत्वगुणबुद्धेरुत्पद्यमानतेत्येकःकालः ।

८.११: १६५.४ततोऽपेक्षाबुद्धेर्विनाशोगुणबुद्धेश्चोत्पत्तिःततोऽपेक्षाबुद्धिविनाशाद्गुणस्यविनश्यत्तागुणज्ञानतत्सम्बन्धेभ्योद्रव्यबुद्धेरुत्पद्यमानतेत्येकःकालः । ततोद्रव्यबुद्धेरुत्पत्तिर्गुणस्यविनाशैति ।

८.११: १६५सम्योगविनाशादपिकथम्। अपेक्षाबुद्धिसमकालमेवपरत्वाधारेकर्मोत्पद्यतेतेनकर्मणादिक्पिण्डविभागःक्रियतेअपेक्षाबुद्धितःपरत्वस्योत्पत्तिरित्येकःकालः ।

८.११: १६५ततःसामान्यबुद्धिएरुत्पत्तिःदिक्पिण्डसम्योगस्यचविनाशःततोयस्मिन्कालेगुणबुद्धिरुत्पद्यतेतस्मिन्नेवकालेदिक्पिण्डसम्योगविनाशाद्गुणस्यविनाशः। द्रव्यविनाशादपिकथम् ।

८.११: १६५परत्वाधारावयवेकर्मोत्पन्नम्यस्मिन्नेवकालेऽवयवान्तराद्विभागम्करोतितस्मिन्नेवकालेऽपेक्षाबुद्धिरुत्पद्यतेततोविभागाद्यस्मिन्नेवकालेसम्योगविनाशःतस्मिन्नेवकालेपरत्वमुत्पद्यतेततःसम्योगविनाशाद्द्रव्यविनाशःतद्विनाशाच्चतदाश्रितस्यगुणस्यविनाशः ।

८.११: १६५द्रव्यापेक्षाबुद्धोर्युगपद्विनाशादपिकथम् । यदापरत्वाधारावयवेकर्मोत्पद्यतेतदैवापेक्षाबुद्धिरुत्पद्यतेकर्मणाचावयवान्तराद्विभागःक्रियतेपरत्वस्योत्पत्तिरित्येकःकालः ।

८.११: १६६.१ततोयस्मिन्नेवकालेऽवयवविभागाद्द्रव्यारम्भकसम्योगविनाशस्तस्मिन्नेवकालेसामान्यबुद्धिरुत्पद्यतेतदनन्तरम्सम्योगविनाशाद्द्रव्यविनाशःसामान्यबुद्धेश्चापेक्षाबुद्धिविनाशैत्येकःकालः ।

८.११: १६६ततोद्रव्यापेक्षाबुद्धोर्विनाशात्परत्वस्यविनाशः। द्रव्यसम्योगविनाशादपिकथम् ।

८.११: १६६यदापरत्वाधारावयवेकर्मोत्पन्नमवयवान्तराद्विभागम्करोतितस्मिन्नेवकालेपिण्डकर्मापेक्षाबुद्धोर्युगपदुत्पत्तिःततोयस्मिन्नेवकालेपरत्वस्योत्पत्तिस्तस्मिन्नेवकालेविभागाद्द्रव्यारम्भकसम्योगविनाशःपिण्डकर्मणादिक्पिण्डस्यचविभागःक्रियतेइत्येकःकालः ।

८.११: १६६ततोयस्मिन्नेवकालेसामान्यबुद्धिरुत्पद्यतेतस्मिन्नेवकालेद्रव्यारम्भकसम्योगविनाशात्पिण्डविनाशःपिण्डविनाशाच्चपिण्डसम्योगविनाशःततोगुणबुद्धिसमकालम्पिण्डदिक्पिण्डसम्योगविनाशात्परत्वस्यविनाशः ।

८.११: १६६सम्योगापेक्षाबुद्धोर्युगपद्विनाशादपिकथम् । यदापरत्वमुत्पद्यतेतदापरत्वाधारेकर्मततोयस्मिन्नेवकालेपरत्वसामान्यबुद्धिरुत्पद्यतेतस्मिन्नेवकालेपिण्डकर्मणादिक्पिण्डविभागःक्रियतेततःसामान्यबुद्धितोऽपेक्षाबुद्धिविनाशोविभागाच्चदिक्पिण्डसम्योगविनाशैत्येकःकालः ।

८.११: १६६ततःसम्योगापेक्षाबुद्धिविनाशात्परत्वस्यविनाशः ।

८.११: १६७.१त्रयाणाम्समवाय्यसमवायिनिमित्तकारणानाम्युगपद्विनाशादपिकथम् । यदापेक्षाबुद्धिरुत्पद्यतेतदापिण्डावयवेकर्मततोयस्मिन्नेवकालेकर्मणावयवान्तराद्विभागःक्रियतेऽपेक्षाबुद्धेःपरत्वस्यचोत्पत्तिस्तस्मिन्नेवकालेपिण्डेऽपिकर्मततोऽवयवविभागात्पिण्डारम्भकसम्योगविनाशःपिण्डकर्मणाचदिक्पिण्डविभागःक्रियतेसामान्यबुद्धेश्चोत्पत्तिरित्येकःकालः ।

८.११: १६७ततःसम्योगविनाशात्पिण्डविनाशःविभागाच्चदिक्पिण्डसम्योगविनाशःसामान्यज्ञानादपेक्षाबुद्धेर्विनाशैत्येतत्सर्वम्युगपत्त्रयाणाम्समवाय्यसमवायिनिमित्तकारणानाम्विनाशात्परत्वस्यविनाशैति ॥

८.१२: १७१.१६बुद्धिरुपलब्धिर्ज्ञानम्प्रत्ययैतिपर्यायाः ॥

८.१२: १७२.१३साचानेकप्रकारार्थानन्त्यात्प्रत्यर्थनियतत्वाच्च ॥

८.१२: १७२.१९तस्याःसत्यप्यनेकविधत्वेसमासतोद्वेविधेविद्याचाविद्याचेति । तत्राविद्याचतुर्विधासंशयविपर्ययानध्यवसायस्वप्नलक्षणा ॥

८.१२.१.१: १७४.२०संशयस्तावत्प्रसिद्धानेकविशेषयोःसादृश्यमात्रदर्शनादुभयविशेषानुस्मरणादधर्माच्चकिंस्विदित्युभयावलम्बीविमर्षःसंशयः ।

८.१२.१.१: १७४सचद्विविधःन्तर्बहिश्च । अन्तस्तावतादेशिकस्यसम्यङ्मिथ्याचोद्दिश्यपुनरादिशतस्त्रिषुकालेषुसंशयोभवतिकिन्नुसम्यङ्मिथ्यावेति ।

८.१२.१.१: १७४बहिर्द्विविधःप्रत्यक्षविषयेचाप्रत्यक्षविषयेच ।

८.१२.१.१: १७५.१तत्राप्रत्यक्षविषयेतावत्साधारणलिङ्गदर्शनादुभयविशेषानुस्मरणादधर्माच्चसंशयोभवति । यथाऽटव्याम्विषाणमात्रदर्शनाद्गौर्गवयोवेति ।

८.१२.१.१: १७५प्रत्यक्षाविषयेऽपिस्थाणुपुरुषयोरूर्ध्वतामात्रसादूश्यदर्शनात्वक्रादिविशेषानुपलब्धितःस्थाणुत्वादिसामान्यविशेषानभिव्यक्तावुभयविशेषानुस्मरणादुभयत्राकृष्यमाणस्यात्मनःप्रत्ययोदोलायतेकिम्नुखल्वयम्स्थाणुःस्यात्पुरुषोवेति ॥

८.१२.१.२: १७७.१०विपर्ययोपिप्रत्यक्षानुमानविषयएवभवति ।

८.१२.१.२: १७७प्रत्यक्षविषयेतावत्प्रसिद्धानेकविशेषयोःपित्तकफानिलोपहतेन्द्रियस्यायथार्थालोचनातसन्निहितविषयज्ञानजसंस्कारापेक्षादात्ममनसोःसम्योगादधर्माच्चातस्मिंस्तदितिप्रत्ययोविपर्ययः ।

८.१२.१.२: १७७यथागव्येवाश्वैति। असत्यपिप्रत्यक्षेप्रत्यक्षाभिमानोभवतियथाव्यपगतघनपटलमचलजलनिधिसदूशम्बरमंजनचूर्णपुंजश्याअम्शार्वरम्तमैति ।

८.१२.१.२: १७७अनुमानविषयेऽपिबाष्पादिभिर्धूमाभिमतैर्वह्यनुमाणम्गवयविषाणदर्शनाच्चगौरिति ।

८.१२.१.२: १७७त्रयीदर्शनविपरीतेषुशाक्यादिदर्शनेष्विदम्श्रेयैतिमिथ्याप्रत्ययःविपर्ययःशरीरेन्द्रियमनस्स्वात्माभिमानःकृतकेषुनित्यत्वदर्शनम्कारणवैकल्येकार्योत्पत्तिज्ञानम्हितमुपदिशत्स्वहितमितिज्ञानमहितमुपदिशत्सुहितमितिज्ञानम् ॥

८.१२.१.३: १८२.१अनध्यवसायोपिप्रत्यक्षानुमानविषयएवसंजायते । तत्रप्रत्यक्षविषयेतावत्प्रसिद्धार्थेष्वप्रसिद्धार्येषुवाव्यासङ्गादर्ह्तित्वाद्वाकिमित्यालोचनमात्रमनध्यवसायः ।

८.१२.१.३: १८२यथावाहीकस्यपनसादिष्वनध्यवसायोभवति। तत्रसत्ताद्रव्यत्वपृथ्वीत्ववृक्षत्वरूपवत्त्वादिशाखाद्यपेक्षोऽध्यवसायोभवति ।

८.१२.१.३: १८२पनसत्वमपिपनसेष्वनुवृत्तमांरादिभ्योव्यावृत्तम्प्रत्यक्षमेवकेवलम्तूपदेशाभावाद्विशेषसंज्ञाप्रतिपत्तिर्नभवति ।

८.१२.१.३: १८२अनुमानविषयेऽपिनारिकेलद्वीपवासिनःसास्नामात्रदर्शनात्कोनुखल्वयम्प्राणीस्यादित्यनध्यवसायोभवति ॥

८.१२.१.४: १८३.१३उपरतेन्द्रियग्रामस्यप्रलीनमनस्कस्येन्द्रियद्वारेणैवयदनुभवनम्मानसम्तत्स्वप्नज्ञानम्। कथम् ।

८.१२.१.४: १८३यदाबुद्धिपूर्वादात्मनःशरीरव्यापारादहनिखिन्नानाम्प्राणिनाम्निशिविश्रमार्थमाहारपरिणामार्थम्वादृष्टकारितप्रयत्नापेक्षादात्मान्तह्करणसम्बन्धान्मनसिक्रियाप्रबन्धादन्तर्हृदयेनिरिन्द्रियेआत्मप्रदेशेनिश्चलम्मनस्तिष्ठतितदाप्रलीनमनस्कैत्याख्यायते

८.१२.१.४: १८३प्रलीनेचतस्मिन्नुपरतेन्द्रियग्रामोभवतितस्यामवस्थायाम्प्रबन्धेनप्राणापानसन्तानप्रवृत्तावात्ममनह्सम्योगविशेषात्स्वापाख्यात्संस्काराच्चेन्द्रियद्वारेणैवासत्सुविषयेषुप्रत्यक्षाकारम्स्वप्नज्ञानमुत्पद्यते ।

८.१२.१.४: १८४.१तत्तुत्रिविधम्। संस्कारपाटवाद्धातुदोषाददृष्टाच्च ।

८.१२.१.४: १८४तत्रसंस्कारपाटवात्तावत्कामीक्रुधोवायदायमर्थमादूतश्चिन्तयन्स्वपितितदासैवचिन्तासन्ततिःप्रत्यक्षाकारासंजायते ।

८.१२.१.४: १८४धातुदोषाद्वातप्रकृतिस्तद्दूषितोवाआकाशगमनादीन्पश्यति । पित्तप्रकृतिःपित्तदूषितोवाग्निप्रवेशकनकपर्वतादीन्पश्यति ।

८.१२.१.४: १८४श्लेष्मप्रकृतिःश्लेष्मदूषितोवासरित्समुद्रप्रतरणहिमपर्वतादीन्पश्यति।

८.१२.१.४: १८४यत्स्वयमनुभूतेष्वननुभूतेषुवाप्रसिद्धार्थेष्वप्रसिद्धार्थेषुवायच्छुभावेदकम्गजारोहणच्छत्त्रलाभादितत्सर्वम्सांस्काराधर्माभ्याम्भवतिविपरीतम्चतैलाभ्यंजनखरोष्टारोहणादितत्सर्वमधर्मसंस्काराभ्याम्भवति ।

८.१२.१.४: १८४अत्यन्ताप्रसिद्धार्थेष्वदृष्टादेवेति ।

८.१२.१.४: १८४स्वप्नान्तिकम्यद्यप्युपरतेन्द्रियग्रामस्यभवतितथाप्यतीतस्यज्ञानप्रबन्धस्यप्रत्यवेक्षणात्स्मृतिरेवेतिभवत्येषाचतुरिविधाऽविद्येति ॥

८.१२.२: १८६.६विद्यापिचतुर्विधा । प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणा ॥

८.१२.२.१: १८६.१२तत्राक्षमक्षम्प्रतीत्योत्पद्यतेप्रतक्षम् [.५: प्रतीत्ययदुत्पद्यतेतत्प्रत्यक्षम् ] ।

८.१२.२.१: १८६अक्षाणीन्द्रियाणिघ्राणरसनचक्षुस्त्वक्छ्रोत्रमनांसिषट्। तद्धिद्रव्यादिषुपदार्थेषूत्पद्यते ।

८.१२.२.१: १८६द्रव्येतावद्द्विविधेमहत्यनेकद्रव्यवत्त्वोद्भूतरूपप्रकाशचतुष्टयसन्निकर्षाद्धर्मादिसामग्र्येचस्वरूपालोचनमात्रम् ।

८.१२.२.१: १८६सामान्यविशेषद्रव्यगुणकर्मविशेषणापेक्षादात्ममनःसन्निकर्षात्प्रत्यक्षमुत्पद्यतेसद्द्रव्यम्पृथिवीविषाणीशुक्लोगौर्गच्छतीति ।

८.१२.२.१: १८६रूपरसगन्धस्पर्शेष्वनेकद्रव्यसमवायात्स्वगतविशेषात्स्वाश्रयसन्निकर्षान्नियतेन्द्रियनिमित्तमुत्पद्यते । तेनैवोपलब्धिः ।

संख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वस्नेहद्रवत्ववेगकर्मणाम्प्रत्यक्षद्रव्यसमवायाच्चक्षुःस्पर्शनाभ्याम्ग्रहणम् ।

८.१२.२.१: १८७बुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नानाम्द्वयोरात्ममनसोःसम्योगादुपलब्धिः। भावद्रव्यत्वगुणत्वकर्मत्वादीनामुपलभ्याधारसमवेतानामाश्रयग्राहकैरिन्द्रियैर्ग्रहणमित्येतदस्मदादीनाम्प्रत्यक्षम् ।

८.१२.२.१: १८७अस्मद्विशिष्टानाम्तुयोगिनाम्युक्तानाम्योगजधर्मानुगृहीतेनमनसास्वात्मान्तराकाशदिक्कालपरमणुवायुमनसस्सुतत्समवेतगुणकर्मसामान्यविशेषेषुसमवायेचावितथम्स्वरूपदर्शनमुत्पद्यते ।

८.१२.२.१: १८७वियुक्तानाम्पुनश्चतुष्टयसन्निकर्षाद्योगजधर्मानुग्रहसामर्थयात्सूक्ष्मव्यवहितविप्रकृष्टेषुप्रत्यक्षमुत्पद्यते ।

८.१२.२.१: १८७तत्रसामान्यविशेषेषुस्वरूपालोचनमात्रम्प्रत्यक्षम्प्रमाणम्प्रमेयाद्रव्यादयःपदार्थाःप्रमानात्माप्रमितिर्द्रव्यादिविषयम्ज्ञानम् ।

८.१२.२.१: १८७सामान्यविशेषज्ञानोत्पत्तावविभक्तमालोचनमात्रम्प्रत्यक्षम्प्रमाणमस्मिन्नान्यत्प्रमाणान्तरमस्तिअफलरूपत्वात् ।

८.१२.२.१: १८७अथवासर्वेषुपदार्थेषुचतुष्टयसन्निकर्षादवितथमव्यपदेश्यम्यज्ज्ञानमुत्पद्यतेतत्प्रत्यक्षम्प्रमाणम्प्रमेयाद्रव्यादयःपदार्थाःप्रमातात्माप्रमितिर्गुणदोषमाध्यस्थ्यदर्शनमिति ॥

८.१२.२.२: २००.४लिङ्गदर्शनात्संजायमानम्लैङ्गिकम् ॥

८.१२.२.२: २००.१८लिङ्गम्पुनः

८.१२.२.२: २००यदनुमेयेनसम्बद्धम्प्रसिद्धम्चतदन्विते ।

८.१२.२.२: २००तदभावेचनास्त्येवतल्लिङ्गमनुमापकम् ॥

८.१२.२.२: २००विपरीतमतोयत्स्यादेकेनद्वितयेनवा ।

८.१२.२.२: २००विरुद्धासिद्धसन्दिग्धमलिङ्गम्काश्यपोऽब्रवीत् ॥

८.१२.२.२: २०१.१८यदनुमेयेनार्थेनदेशविशेषेकालविशेषेवासहचरितमनुमेयधर्मान्वितेचान्यत्रसर्वस्मिन्नेकदेशेवाप्रसिद्धमनुमेयविपरीतेचसर्वस्मिन्प्रमाणतोऽसदेवतदप्रसिद्धार्थस्यानुमापकम्लिङ्गम्भवतीति ॥

८.१२.२.२: २०५.१०विधिस्तुयत्रधूमस्तत्राग्निरग्न्यभावेधूमोऽपिनभवतीति। एवम्प्रसिद्धसमयस्यासन्दिग्धधूमदर्शनात्साहचर्यानुस्मरणात्तदनन्तरमग्न्यध्यवसायोभवतीति ।

८.१२.२.२: २०५एवम्सर्वत्रदेशकालाविनाभूतमितरस्यलिङ्गम्। शास्त्रेकार्यादिग्रहणम्निदर्शनार्थम्कृतम्नावधारणार्थम्कस्माद्यूतिरेकदर्शनात् ।

८.१२.२.२: २०५तद्यथाअध्वर्युरोंश्रावयन्व्यवहितस्यहोतुर्लिङ्गम्चन्द्रोदयःसमुद्रवृद्धेःकुमुदविकाशस्यचशरदिजलप्रसादोऽगस्त्योदयस्येति ।

८.१२.२.२: २०५एवमादितत्सर्वमस्येदमितिसम्बन्धमात्रवचनात्सिद्धम्। तत्तुद्विविधम् । दृष्टम्सामान्यतोदृष्टम्च ।

८.१२.२.२: २०५तत्रदृष्टम्प्रसिद्धसाध्ययोरत्यन्तजात्यभेदेऽनुमानम्। यथागव्येवसास्नामात्रमुपलभ्यदेशान्तरेऽपिसास्नामात्रदर्शनाद्गविप्रतिपत्तिः ।

८.१२.२.२: २०६.१प्रसिद्धसाध्ययोरत्यन्तजातिभेदेलिङ्गानुमेयधर्मसामान्यानुवृत्तितोऽनुमानम्सामान्यतोदृष्टम् ।

८.१२.२.२: २०६यथाकर्षकवणिग्राजपुरुषाणाम्चप्रवृत्तेःफलवत्त्वमुपलभ्यवर्णाश्रमिणामपिदृष्टम्प्रयोजनमनुद्दिश्यप्रवर्तमानानाम्फलानुमानमिति ।

८.१२.२.२: २०६तत्रलिङ्गदर्शनम्प्रमाणम्प्रमितिरग्निज्ञानम्। अथवाग्निज्ञानमेवप्रमाणम्प्रमितिरग्नौगुणदोषमाध्यस्थ्यदर्शनमित्येतत्स्वनिश्चितार्थमनुमानम् ।

८.१२.२.२.आ॒ २१३.१२शब्दादीनामप्यनुमानेऽन्तर्भावःसमानविधित्वात् ।

८.१२.२.२.आ॒ २१३यथाप्रसिद्धसमयस्यासन्दिग्धलिङ्गदर्शनप्रसिद्ध्यनुस्मरणाभ्यामतीन्द्रियेऽर्थेभवत्यनुमानमेवम्शब्दादिभ्योऽपीति ।

८.१२.२.२.आ॒ २१३श्रुतिस्मृतिलक्षणोऽप्याम्नायोवक्तृप्रामाण्यापेक्षःतद्वचनादाम्नायप्रामाण्यम्लिङ्गाच्चानित्योबुद्धिपूर्वावाक्यकृतिर्वेदेबुद्धिपूर्वोददातिरित्युक्तत्वात् ॥

८.१२.२.२.आ॒ २२०.१०प्रसिद्धाभिनयस्यचेष्टयाप्रतिपत्तिदर्शनात्तदप्यनुमानमेव ॥

८.१२.२.२.आ॒ २२०.१७आप्तेनाप्रसिद्धस्यगवयस्यगवागवयप्रतिपादनादुपमानमाप्तवचनमेव ॥

८.१२.२.२.आ॒ २२३.१दर्शनार्थादर्थापत्तिर्विरोध्येवश्रवणादनुमितानुमानम् ॥

८.१२.२.२.आ॒ २२५.१०सम्भवोऽप्यविनाभावित्वादनुमानमेव ॥

८.१२.२.२.आ॒ २२५.१४अभावोऽप्यनुमानमेवयथोत्पन्नम्कार्यम्कारणसद्भावेलिङ्गम्। एवमनुत्पन्नम्कार्यम्कारणासद्भावेलिङ्गम् ॥

८.१२.२.२.आ॒ २३०.२४तथैवैतिह्यमप्यवितथमाप्तोपदेशएवेति ॥

८.१२.२.२.B॒ २३१.३पञ्चावयवेनवाक्येनस्वनिश्चितार्थप्रतिपादनाम्परार्थानुमानम् । पञ्चावयवेनैववाक्येनसंशयितविपर्यस्ताव्युत्पन्नानाम्परेषाम्स्वनिश्चितार्थप्रतिपादनम्परार्थानुमानम्विज्ञेयम् ॥

८.१२.२.२.B॒ २३३.२४अवयवाःपुनःप्रतिज्ञापदेशनिदर्शनानुसन्धानप्रत्याम्नायाः ।

८.१२.२.२B१: २३३.२५तत्रानुमेयोद्देशोऽविरोधीप्रतिज्ञा ।

८.१२.२.२B१: २३४.१प्रतिपिपादयिषितधर्मविशिष्टस्यधर्मिणोपदेशविषयमापादयितुमुद्देशमात्रम्प्रतिज्ञा। यथाद्रव्यम्वायुरिति ।

८.१२.२.२B१: २३४अविरोधिग्रहणात्प्रत्यक्षानुमानाभ्युपगतस्वशास्त्रस्ववचनविरोधिनोनिरस्ताभवन्ति ।

८.१२.२.२B१: २३४यथाऽनुष्णोऽग्निरितिप्रत्यक्षविरोधीघनमम्बरमित्यनुमानविरोधीब्राह्मणेनसुरापेयेत्यागमविरोधीवैशेषिकस्यसत्कार्यमितिब्रुवतःस्वशास्त्रविरोधीनशब्दोऽर्थप्रत्यायकैतिस्ववचनविरोधी ॥

८.१२.२.२B२: २३७.१६लिङ्गवचनमपदेशः । यदनुमेयेनसहचरितम्तत्समानजातीयेसर्वत्रसामान्येनप्रसिद्धम्तद्विपरीतेचसर्वस्मिन्नसदेवतल्लिङ्गमुक्तम्तस्यवचनमपदेशः ।

८.१२.२.२B२: २३७यथाक्रियावत्त्वाद्गुणवत्त्वाच्चतथाचतदनुमेयेऽस्तितत्समानजातीयेचसर्वस्मिन्गुणवत्त्वमसार्वस्मिन्क्रियावत्त्वम् ।

८.१२.२.२B२: २३७उभयमप्येतदद्रव्येनास्त्येवतस्मात्तस्यवचनमपदेशैतिसिद्धम् ॥

८.१२.२.२B२: २३८.९एतेनासिद्धविरुद्धसन्दिग्धानध्यवसितवचनानामनपदेशत्वमुक्तम्भवति । तत्रासिद्धश्चतुर्विधः। उभयासिद्धोऽन्यतरासिद्धःतद्भावासिद्धोऽनुमेयासिद्धश्चेति ।

८.१२.२.२B२: २३८तत्रोभयासिद्धःुभयोर्वादिप्रतिवादिनोरसिद्धःयथाऽनित्यःशब्दःसावयवत्वादिति ।

८.१२.२.२B२: २३८अन्यतरासिद्धःयथाऽनित्यःशब्दःकार्यत्वादिति । तद्भावासिद्धोयथाधूमभावेनाग्न्यधिगतौकर्तव्यायामुपन्यस्यमानोवाष्पेधूमभावेनासिद्धैति ।

८.१२.२.२B२: २३८अनुमेयासिद्धोयथापार्थिवम्द्रव्यम्तमःकृष्णरूपवत्त्वादिति। योह्यनुमेयेऽविद्यमानोऽपितत्समानजातीयेसर्वस्मिन्नास्तितद्विपरीतेचास्तिसविपरीतसाधनाद्विरुद्धःयथायस्माद्विषाणीतस्मादश्वैति ।

८.१२.२.२B२: २३८यस्तुसन्ननुमेयेतत्समानासमानजातीययोःसाधारणःसन्नेवससन्देहजनकत्वात्सन्दिग्धःयथायस्माद्विषाणीतस्माद्गौरिति। एकस्मिंश्चद्वयोर्हेत्वोर्यथोक्तलक्षणयोर्विरुद्धयोःसन्निपातेसतिसंशयदर्शनादयमन्यःसन्दिग्धैतिकेचित् ।

८.१२.२.२B२: २३९यथामूर्तत्वामूर्तत्वम्प्रतिमनसःक्रियावत्त्वास्पर्शवत्त्वयोरिति ।

८.१२.२.२B२: २३९नन्वयमसाधारणएवाचाक्षुषत्वप्रत्यक्षत्ववत्संहतयोरन्यतरपक्षासम्भवात्ततश्चानध्यवसितैत्वक्ष्यामः ।

८.१२.२.२B२: २३९ननुशास्त्रेतत्रतत्रोभयथादर्शनम्संशयकारणमपदिश्यतैतिनसंशयोविषयद्वैतदर्शनात् ।

८.१२.२.२B२: २३९संशयोत्पत्तौविषयद्वैतदर्शनम्कारणम्तुल्यबलत्वेचतयोःपरस्परविरोधान्निर्णयानुत्पादकत्वम्स्यान्नतुसंशयहेतुत्वम्नचतयोस्तुल्यबलवत्त्वमस्तिअन्यतरस्यानुमेयोद्देशस्यागमबाधितत्वादयम्तुविरुद्धभेदएव ।

८.१२.२.२B२: २३९यश्चानुमेयेविद्यमानस्तत्समानासमानजातीययोरसन्नेवसोऽन्यतरासिद्धोऽनध्यवसायहेतुत्वादनध्यवसितःयथासत्कार्यमुत्पत्तेरिति ।

८.१२.२.२B२: २३९अयमप्रसिद्धोऽनपदेशैतिवचनादवरुद्धः ।

८.१२.२.२B२: २३९ननुचायम्विशेषःसंशयहेतुरभिहितःशास्त्रेतुल्यजातीयेष्वर्थान्तरभूतेषुविशेषस्योभयथादृष्टत्वादितिनान्यार्थत्वाच्छब्देविशेषदर्शनात् ।

८.१२.२.२B२: २३९संशयानुत्पत्तिरित्युक्तेनायम्द्रव्यादीनामन्यतमस्यविशेषःस्याच्छ्रावणत्वम्किम्तुसामान्यमेवसम्पद्यतेकस्मात्तुल्यजातीयेष्वर्थान्तरभूतेषुद्रव्यादिभेदानामेकैकशोविशेषस्योभयथादृष्टत्वादित्युक्तम्नसंशयकारणमन्यथाषट्स्वपिपदार्थेषुसंशयप्रसङ्गात्तस्मात्सामान्यप्रत्ययादेवसंशयैति ॥

८.१२.२.२३: २४६.१४द्विविधम्निदर्शनम्साधर्म्येणवैधर्म्येणच। तत्रानुमेयसामान्येनलिङ्गसामान्यस्यानुविधानदर्शनम्साधर्म्यनिदर्शनम् ।

८.१२.२.२B३: २४६तद्यथायत्क्रियावत्तद्द्रव्यम्दृष्टम्यथाशरैति। अनुमेयविपर्ययेचलिङ्गस्याभावदर्शनम्वैधर्म्यनिदर्शनम्। तद्यथायदद्रव्यम्तत्क्रियावन्नभवतियथासत्तेति ॥

८.१२.२.२B३: २४७.१अनेननिदर्शनाभासानिरस्ताभवन्ति ।

८.१२.२.२B३: २४७तद्यथानित्यःशब्दोऽमूरत्वात्यदमूर्तम्दृष्टम्तन्नित्यम्यथापरमाणुर्यथाकर्मयथास्थालीयथातमःम्बरवदितियद्द्रव्यम्तत्क्रियावद्दृष्टमितिचलिङ्गानुमेयोभयाश्रयासिद्धाननुगतविपरीतानुगताःसाधर्म्यनिदर्शनाभासाः ।

८.१२.२.२B३: २४७यदनित्यम्तन्मूरतम्दृष्टम्यथाकर्मयथापरमाणुर्यथाकाशम्यथातमःघटवत्यन्निष्क्रियम्तदद्रव्यञ्चेतिलिङ्गानुमेयोभयाव्यावृत्ताश्रयासिद्धाव्यावृत्तविपरीतव्यावृत्तावैधर्म्यनिदर्शनाभासाइति ॥

८.१२.२.२B४: २४९.७निदर्शनेऽनुमेयसामान्येनसहदृष्टस्य्सलिङ्गसामान्यस्यानुमेयेऽन्वानयनमनुसन्धानम् ।

८.१२.२.२B४: २४९अनुमेयधर्मात्रत्वेनाभितम्लिङ्गसामान्यमनुपलब्धशक्तिकम्निदर्शनेसाध्यधर्मसामान्येनसहदृष्टमनुमेयेयेनवचनेनानुसन्धीयतेतदनुसन्धानम्। तथाचवायुःक्रियावानिति ।

८.१२.२.२B४: २४९अनुमेयाभावेचतस्यासत्त्वमुपलभ्यनचतथावायुर्निष्क्रियैति ॥

अनुमेयत्वेनोद्दिष्टेचानिश्चितेचपरेषाम्निश्चयापादनार्थम्प्रतिज्ञायाःपुनर्वचनम्प्रप्त्याम्नायः ।

प्रतिपाद्यत्वेनोद्दिष्टेचानिश्चितेचपरेषाम्हेत्वादिभिरवयवैराहितशक्तीनाम्परिसमाप्तेनवाक्येननिश्चयापादनार्थम्प्रतिज्ञायाःपुनर्वचनम्प्रत्यामनायः । तस्माद्द्रव्यमेवेति ।

नह्येतस्मिन्नसतिपरेषामवयवानाम्समस्तानाम्व्यस्तानाम्वातदर्थवाचकत्वमस्तिगम्यमानार्थत्वादितिचेन्नअतिप्रसङ्गात् ।

तथाहिप्रतिज्ञानन्तरम्हेतुमात्राभिधानम्कर्तव्यम्विदुषामन्वयव्यतिरेकस्मरणात्तदर्थावगतिर्भविष्यतीतितस्मादत्रैवार्थपरिसमाप्तिः ।

कथमनित्यःशब्दैत्यनेनानिश्चितानित्यत्वमात्रविशिष्टःशब्दःकथ्यतेप्रयत्नानन्तरीयकत्वादित्यनेनानित्यत्वसाधनधर्ममात्रमभिधीयते ।

इहयत्प्रयत्नानन्तरीयकम्तदनित्यम्दृष्टम्यथाघटैत्यनेनसाध्यसामान्येनसाधनसामान्यस्यानुगाममात्रमुच्यते ।

नित्यमप्रयत्नानन्तरीयकम्दृष्टम्यथाकाशमित्यनेनसाध्याभावेनसाधनस्यासत्त्वम्प्रदर्श्यते ।

तथाचप्रयत्नानन्तरीयकःशब्दोदृष्टोनचतथाकाशवदप्रयत्नानन्तरीयकःशब्दैत्यन्वयव्यतिरेकाभ्याम्दृष्टसामर्थ्यस्यसाधनसामान्यस्यशब्देऽनुसन्धानम्गम्यतेतस्मादनित्यःशब्दत्यनेनानित्यएवशब्दैतिप्रतिपिपादयिषितार्थपरिसमाप्तिर्गम्यतेतस्मात्पञ्चावयवेनैववाक्येनपरेषाम्स्वनिश्चितार्थप्र्तिपादनम्क्रियतेइत्येतत्परार्थानुमानम्सिद्धमिति ॥

८.१२.२.२.C॒ २५५.२३विशेषदर्शनजमवधारणज्ञानम्संशयविरोधीनिर्णयः । एतदेवप्रत्यक्षमनुमानम्वा ।

८.१२.२.२.C॒ २५५यद्विशेषदर्शनात्संशयविरोध्युत्पद्यतेसप्रत्यक्षनिर्णयः ।

८.१२.२.२.C॒ २५५यथास्थाणुपुरुषयोरूर्ध्वतामात्रसादृश्यालोचनाद्विशेषेष्वप्रत्यक्षेषूभयविशेषानुस्मरणात्किमयम्स्थाणुपुरुषोवेतिसंशयोत्पत्तौशिरह्पाण्यादिदर्शनात्पुरुषएवायमित्यवधारणज्ञानम्प्रत्यक्षनिर्णयः ।

८.१२.२.२.C॒ २५५विषाणमात्रदर्शनाद्गौर्गवयोवेतिसंशयोत्पत्तौसास्नामात्रदर्शनाद्गौरुएवायमित्यवधारणज्ञानमनुमाननिर्णयैति ॥

८.१२.२.३: २५६.१७ल्ङ्गदर्शनेच्छानुस्मरणाद्यपेक्षादात्ममनसोःसम्योगविशेषात्पट्वाभ्यासादरप्रत्ययजनिताच्चसंस्काराद्दृष्टश्रुतानुभूतेष्वर्थेषुशेषानुव्यवसायेच्छानुस्मरणद्वेषहेतुरतीतविषयास्मृतिरिति ॥

८.१२.२.४: २५८.१आम्नायविधातॄणामृषीणामतीतानागतवर्तमानेष्वतीन्द्रियेष्वर्थेषुधर्मादिषुग्रन्थोपनिबद्धेष्वनुपनिबद्धेषुचात्ममनसोःसम्योगाद्धर्मविशेषाच्चयत्प्रातिभम्यथार्थनिवेदनम्ज्ञानमुत्पद्यतेतदार्षमित्याचक्षते ।

८.१२.२.४: २५८तत्तुप्रस्तारेणदेवर्षीणाम्कदाचिदेवलौकिकानाम्यथाकन्यकाब्रवीतिश्वोमेभाताऽऽगन्तिहृदयम्मेकथयतीति ॥

८.१२.२.५: २५८.२१सिद्धदर्शनम्नज्ञानान्तरम्कस्मात्प्रयत्नपूर्वकमंजनपादलोपखड्गगुलिकादिसिद्धानाम्दृश्यद्रष्टॄणाम्सूक्ष्मव्यवहितविप्रकृष्टेष्वर्थेषुयद्दर्शनम्तत्प्रत्यक्षमेव ।

८.१२.२.५: २५९.१अथदिव्यान्तरिक्षभौमानाम्प्राणिनाम्ग्रहनक्षत्रसञ्वारादिनिमित्तम्धर्माधर्मविपाकदर्शनमिष्टम्तदप्यनुमानमेव ।

८.१२.२.५: २५९अथलिङ्गानपेक्षम्ध्रमादिषुदर्शनमिष्टम्तदपिप्रत्यक्षार्षयोरन्यतरस्मिन्नतर्भूतमित्येवम्बुद्धिरिति ॥

८.१३: २५९.१५अनुग्रहलक्षणम्सुखम् । स्रगाद्यभिप्रेतविषयसान्निध्येसतीष्टोपलब्धीन्द्रियार्थसन्निकर्षाद्धर्माद्यपेक्षादात्ममनसोःसम्योगादनुग्रहाभिष्वङ्गनयनादिप्रसादजनकमुत्पद्यतेतत्सुखम् ।

८.१३: २५९अतीतेषुविषयेषुस्मृतिजम्। अनागतेषुसङ्कल्पजम्। यत्तुविदुषामसतुविषयानुस्मरणेछासङ्कल्पेष्वाविर्भवतितद्विद्याशमसन्तोषधर्मविशेषनिमित्तमिति ॥

८.१४: २६०.१९उपघातलक्षणम्दुह्खम् ।

८.१४: २६०विषाद्यनभिप्रेतविषयसान्निध्येसत्यनिष्टोपलब्धीन्द्रियार्थसन्निकर्षादधर्माद्यपेक्षादात्ममनसोःसम्योगाद्यदमर्षोपघातदैन्यनिमित्तमुत्पद्यतेतद्दुह्खम् ।

८.१४: २६०अतीतेषुसर्पव्याघ्राचौरादिषुस्मृतिजम्। अनागतेषुसङ्कल्पजमिति ॥

८.१५: २६१.६स्वार्थम्परार्थम्वाऽप्रप्तप्रार्थनेच्छा। साचात्ममनसोःसम्योगात्सुखाद्यपेक्षात्स्मृत्यपेक्षाद्वोत्पद्यते ।

८.१५: २६१प्रयत्नस्मृतिधमाधर्महेतुः। कामोऽभिलाषःरागःसङ्कल्पःकारुण्यम्वैराग्यमुपधाभावैत्येवमादयैच्छाभेदाः। मैथुनेच्छाकामः ।

८.१५: २६१अभ्यवहारेच्छाभिलाषः। पुनःपुनर्विषयानुरंजनेच्छारागः। अनासन्नक्रियेच्छासङ्कल्पः। स्वार्थमनपेक्ष्यपरदुह्खप्रहाणेच्छाकारुण्यम् ।

८.१५: २६१दोषदर्शनाद्विषयत्यागेच्छावैराग्यम्। परवञ्वनेच्छाउपधा। अन्तर्निगूढेच्छाभावः। चिकीर्षाजिहीर्षेत्यादिक्रियाभेदादिच्छाभेदाभवन्ति ॥

८.१६: २६२.१४प्रज्वलनात्मकोद्वेषः । यस्मिन्सतिप्रज्वलितमिवात्मानम्मन्यतेसद्वेषः । सचातम्मनसोःसम्योगाद्दुह्खापेक्षात्स्मृत्यपेक्षाद्वोत्पद्यते ।

८.१६: २६२प्रयत्नस्मृतिधर्माधर्महेतुः। क्रोधोद्रोहःमन्युरक्षमामर्षैतिद्वेषभेदाः ॥

८.१७: २६३.३प्रयत्नःसंरम्भौत्साहैतिप्रयायाः। सद्विविधोजीवनपूर्वःिच्छाद्वेषपूर्वकश्च । तत्रजीवनपूर्वख्॑सुप्तस्यप्राणापानसन्तानप्रेरकःप्रबोधकालेचान्तह्करणस्येन्द्रियान्तरप्राप्तिहेतुः ।

८.१७: २६३अस्यजीवनपूर्वकस्यात्ममनसोःसम्योगाद्धर्माधर्मापेक्षादुत्पत्तिः। इतरस्तुहिताहितप्राप्तिपर्हिहारसमर्थस्यव्यापारस्यहेतुःशरीरविधारकश्च ।

८.१७: २६३सचातम्मनसोःसम्योगादिच्छापेक्षाद्द्वेषापेक्षाद्वोत्पद्यते ॥

८.१८: २६३.२५गुरुत्वम्जलभूम्योःपतनकर्मकारणम्। अप्रत्यक्षम्पतनकर्मानुमेयम्सम्योगप्रयत्नसांस्कारविरोधि । अस्यचाबादिपरमाणुरूपादिवन्नित्यानित्यत्वनिष्पत्तयः ॥

८.१९: २६४.२३द्रवत्वम्स्यन्दनकर्मकारणम् । त्रिद्रव्यवृत्ति । तत्तुद्विविधम्सांसिद्धकम्नैमित्तिकम्च। सांसिद्धिकमपाम्विशेषगुणः । नैमित्तिकम्पृथिवीतेजसोःसामान्यगुणः ।

८.१९: २६४सांसिद्धिकस्यगुरुत्ववन्नित्यानित्यत्वनिष्पत्तयः। सङ्घातदर्शनात्सांसिद्धिकमयुक्तमितिचेन्न।

८.१९: २६४दिव्येनतेजसासम्युक्तानामाप्यानाम्परमाणूनाम्परस्परम्सम्योगोद्रव्यारम्भकःसङ्घाताख्यःतेनपरमाणुद्रवत्वप्रतिबन्धात्कार्येहिमकरकादौद्रवत्वानुपत्तिः ।

८.१९: २६५.३नैमित्तिकम्चपृथिवीतेजसोरग्निसम्योगजम् ।

८.१९: २६५कथम्सर्पिर्जतुमधूच्छिष्टादीनाम्कारणेषुपरमाणुष्वग्निसम्योगाद्वेगापेक्षात्कर्मोत्पत्तौतज्जेभ्योविभागेभ्योद्रव्यारम्भकसम्योगविनाशात्कार्यद्रव्यनिवृत्तावग्निसम्योगादौष्ण्यापेक्षात्स्वतन्त्रेषुपरमाणुषुद्रवत्वमुत्पद्यतेततस्तेषुभोगिनामदृष्टापेक्षादात्माणुसम्योगात्कर्मोत्पत्तौतज्जेभ्यःसम्योगेभ्योद्यूणुकादिप्रक्रमेणकार्यद्रव्यमुत्पद्यतेतस्मिंश्चरूपाद्युत्पत्तिसमकालम्कारणगुणप्रक्रमेणद्रवत्वमुत्पद्यतैति ॥

८.२०: २६६.१६स्नेहोऽपाम्विशेषगुणः । संग्रहमृजादिहेतुः। अस्यापिगुरुत्ववन्नित्यानित्यत्वनिष्पत्तयः ॥

८.२१: २६६.२३संस्कारस्त्रिविधोवेगोभावनास्थितिस्थापकश्च । तत्रवेगोमूर्तिमत्सुपञ्वसुद्रव्येषुनिमित्तविशेषापेक्षात्कर्मणोजायतेनियतदिक्क्रियाप्रबन्धहेतुःस्पर्शवद्द्रव्यसम्योगविशेषविरोधीक्वचित्कारणगुणपूर्वक्रमेणोत्पद्यते। भावनासंज्ञकस्त्वात्मगुणोदृष्टश्रुतानुभूतेष्वर्थेषुस्मृतिप्रत्यभिज्ञानहेतुर्भवतिज्ञानमददुह्खादिविरोधी। पट्वभ्यासादरप्रत्ययजःपटुप्रत्ययापेक्षादात्ममनसोःसम्योगादाश्चर्येऽर्थेपटुःसंस्कारातिशयोजायते । यथादाक्षिणात्यस्योष्ट्रदर्शनादिति । विद्याशिल्पव्यायामादिष्वभ्यस्यमानेषुतस्मिन्नेवार्थेपूर्वपूर्वसंस्कारमपेक्षमाणादुत्तरोत्तरस्मात्प्रत्ययादात्ममनसोःसम्योगात्संस्कारातिशयोजायते । प्रयत्नेनमनश्चक्षुषिस्थापयित्वाऽपूर्वमर्थम्दिदूक्षमाणस्यविद्युत्सम्पातदर्शनवदादरप्रत्ययःतमपेक्षमाणादात्ममनसोःसम्योगात्संस्कारातिशयोजायते । यथादेवह्रदेराजतसौवर्णपद्मदर्शनादिति। स्थितिस्थापकस्तुस्पर्शवद्द्रव्येषुवर्तमानोघनावयवसन्निवेशविशिष्टेषुकालान्तरावस्थायिषुस्वाश्रयमन्यथाकृतम्यथावस्थितम्स्थापयति। स्थावरजङ्गमविकारेषुधनुह्शाखाशृङ्गदन्तास्थिसूत्रवस्त्रादिषुभुग्नसंवर्तितेषुस्थितिस्थापकस्यकार्यम्संलक्ष्यते । नित्यानित्यत्वनिष्पत्तयोस्यापिगुरुत्ववत् ॥

८.२२: २७२.८धर्मःपुरुषगुणः । कर्तुःप्रियहितमोक्षहेतुःतीन्दिर्योऽन्त्यसुखसंविज्ञानविरोधीपुरुषान्तह्करणसम्योगविशुद्धाभिसन्धिजःवर्णाश्रमिणाम्प्रतिनियतसाधननिमित्तः । तस्यतुसाधनानिश्रुतिस्मृतिविहितानिवर्णाश्रमिणाम्सामान्यविशेषभावेनावस्थितानिद्रव्यगुणकर्माणि। तत्रसामान्यानिधर्मेश्रद्धाअहिंसाभूतहितत्वम्सत्यवचनमस्तेयम्ब्रहमचर्यमनुपधाक्रोधवर्जनमभिषेचनम्शिचिद्रव्यसेवनम्विशिष्टदेवताभक्तिरुपवासोऽप्रमादश्च । ब्राह्मणक्षचियवैश्यानामिज्याध्ययनदानानिब्राह्मणस्यविशिष्टानिप्रतिग्रहाध्यापनयाजनानिस्ववर्णविहिताश्चसंस्काराः। क्षत्रियस्यसम्यक्प्रजापालनमसाधुनिग्रहोयुद्धेष्वनिवर्तनम्स्वकीयाश्चसंस्काराः। वैश्यस्यक्रियविक्रयकृषिपशुपालनानिस्वकीयाश्चसंस्काराः। शूद्रस्यपूर्ववर्णपारतन्त्र्यममन्त्रिकाश्चक्रियाः। आश्रमिणाम्तुब्रह्मचारिणोगुरुकुलनिवासिनःस्वशास्त्रविहितानिगुरुशुश्रूषाग्नीन्धनभैक्ष्याचरणानिमधुमांसदिवास्वप्नांजनाभ्यञजनादिवर्जनम्च ।

८.२२: २७३.१विद्याव्रतस्नातकस्यकृतदारस्यगृहस्थस्यशालीनयायावरवृत्त्युपार्जितैरर्थैर्भूतमनुष्यदेवपितृब्रह्माख्यानाम्पञ्वानाम्महायज्ञानम्सायम्प्रातरनुष्ठानमेकाग्निविधानेनपाकयज्ञसंस्थानाम्चनित्यानाम्शक्तौविद्यमानायामग्न्याधेयादीनाम्चहविर्यज्ञसंस्थानामग्निष्टोमादीनाम्सोमयज्ञसंस्थानाम्च। ऋत्वन्तरेषुब्रह्मचर्यमपत्योत्पादनम्च । ब्रह्मचारिणोगृहस्थस्यवाग्रामान्निर्गतस्यवनवासोवल्ककाजिनकेशश्मश्रुनखरोमधारणम्च । वन्यहुतातिथिशेषभोजनानिवानप्रस्थस्य । त्रयाणामन्यतमस्यश्रद्धावतःसर्वभूतेभ्योनित्यमभयम्दत्त्वासम्न्यस्यस्वानिकर्माणियमनियमेष्वप्रमत्तस्यषट्पदार्थप्रसंख्यानाद्योगप्रसाधनम्प्रव्रजितस्येति। दृष्टम्प्रयोजनमनुद्दिश्यैतानिसाधनानिभावप्रसादम्चापेक्ष्यात्ममनसोःसम्योगाद्धर्मोत्पत्तिरिति ॥

८.२३: २८०.४अधर्मोऽप्यात्मगुणः । कर्तुरहितप्रत्यवायहेतुरतीन्द्रियोऽन्त्यदुह्खसंविज्ञानविरोधी। तस्यतुसाधनानिशास्त्रेप्रतिषिद्धानिधर्मसाधनविपरीतानिहिंसानृतस्तेयादीनिविहिताकरणम्प्रमादश्चैतानिदुष्टाभिसन्धिम्चापेक्ष्यात्ममनसोःसम्योगादधर्मस्योत्पत्तिः ॥

८.२४: २८०.२०अविदुषोरागद्वेषवतःप्रवर्तकाद्धर्मात्प्रकृष्टात्स्वल्पाधर्मसहितात्ब्रह्मेन्द्रप्रजापतिपितृमनुष्यलोकेष्वाशयानुरूपैरिष्टशरीरेन्द्रियविषयसुखादिभिर्योगोभवति । तथाप्रकृष्टादधर्मात्स्वल्पधर्मसहितात्प्रेततिर्यग्योनिस्थानेष्वनिष्टशरीरेन्द्रियविषयदुह्खाभिर्योगोभवति ।

८.२४: २८१.१एवम्प्रवृत्तिलक्षणाद्धर्मादधर्मसहिताद्देवमनुष्यतिर्यङ्नारकेषुपुनःपुनःसंसारबन्धोभवति ॥

८.२४: २८१.१९ज्ञानपूर्वकात्तुकृतादसंकल्पितफलाद्विशुद्धेकुलेजातस्यदुह्खविगमोपायजिज्ञासोराचार्यमुपसङ्गम्योत्पन्नषट्पदार्थतत्त्वज्ञानस्याज्ञाननिवृत्तौविरक्तस्यरागद्वेषाद्यभावात्तज्जयोर्धर्माधर्मयोरनुत्पत्तौपूर्वसङ्चितयोश्चोपभोगान्निरोधेसन्तोषसुखम्शरीरपरिच्छेदम्चोत्पद्यरागादिनिवृत्तौनिवृत्तिलक्षणःकेवलोधर्मःपरमार्थदर्शनजम्सुखम्कृत्वानिवर्तते। तदानिरोधात्निर्बीजस्यात्मनःशरीरादिनिवृत्तिःपुनःशरीराद्यनुत्पत्तौदग्धेन्धनानलवदुपशमोमोक्षैति ॥

८.२४: २८७.१७शब्दोऽम्बरगुणःश्रोत्रग्राह्यःक्षणिकःकार्यकारणोभयविरोधीसम्योगविभागशब्दजःप्रदेशवृत्तिःसमानासमानजातीयकारणः। सद्विविधोवर्णलक्षणोध्वनिलक्षणश्च। तत्रअकारादिर्वर्णलक्षणःशङ्खादिनिमित्तोध्वनिलक्षणश्च। तत्रवर्णलक्षणस्योत्पत्तिरात्ममनसोःसम्योगात्स्मृत्यपेक्षाद्वर्णोच्चारणेच्छातदनन्तरम्प्रयत्नस्तमपेक्षमाणादात्मवायुसम्योगाद्वायौकर्मजायतेसचोर्ध्वम्गच्छन्कण्ठादीनभिहन्तिततःस्थानवायुसम्योगापेक्षमाणात्स्थानाकाशसम्योगात्वर्णोत्पत्तिः ।

८.२४: २८८.२अवर्णलक्षणोऽपिभेरीदण्डसम्योगापेक्षाद्भेर्याकाशसम्योगादुत्पद्यते । वेणुपर्वविभागाद्वेण्वाकाशविभागाच्चशब्दाच्चसम्योगविभागनिष्पन्नाद्वीचीसन्तानवच्छब्दसन्तानैत्येवम्ण्सन्तानेनश्रोत्रप्रदेशमागतस्यग्रहणम्श्रोत्रशब्दयोर्गमनागमनाभावादप्राप्तस्यग्रहणम्नास्तिप्ररिशेषात्सन्तानसिद्धिरिति ॥

८.०: २८८.९प्रशस्तपादभाष्येगुणपदार्थःसमाप्तः॥


कर्मपदार्थः[सम्पाद्यताम्]

९.०: २९०.१अथकर्मपदार्थनिरूपणम् ।

९.१: २९०.२उत्क्षेपणादीनाम्पञ्चानामपिकर्मत्वसम्बन्धः । एकद्रव्यवत्त्वम्क्षणिकत्वम्मूर्तद्रव्यवृत्तित्वमगुणवत्त्वम्गुरुत्वद्रवत्वप्रयत्नसम्योगजत्वम्स्वकार्यसम्योगविरोधित्वम्सम्योगविभागनिरपेक्षकारणत्वमसमवायिकारणत्वम्स्वपराश्रयसमवेतकार्यारम्भकत्वम्समानजातीयानारम्भकत्वम्द्रव्यानारम्भकत्वम्चप्रतिनियतजातियोगित्वम्। दिग्विशिष्टकार्यारम्भकत्वम्चविशेषः ॥

९.२.१: २९१.१०तत्रोत्क्षेपणम्शरीरावयवेषुतत्सम्बद्धेषुचयदूर्ध्वभागिभिःप्रदेशैःसम्योगकारणमधोभाग्भिश्चप्रदेशैःविभागकारणम्कर्मोत्पद्यतेगुरुत्वप्रयत्नसम्योगेभ्यस्तदुत्क्षेपणम् ॥

९.२.१: २९१.१७तद्विपरीतसम्योगविभागकारणम्कर्मापक्षेपणम् ॥

९.२.२: २९१.२१ऋजुनोद्रव्यस्याग्रावय्वानाम्तद्देशैर्विभागःसम्योगश्चमूलप्रदेशैर्येनकर्मणावयवीकुटिलःसंजायतेतदाकुञ्चनम् ॥

९.२.२: २९२.३तद्विप्रययेणसम्योगविभागोत्पत्तौयेनकर्मणावयवीऋजुःसम्पद्यतेतत्प्रसारणम् ॥

९.२.३: २९२.६यदनियतदिक्प्रदेशसम्योगविभागकारणम्तद्गमनमिति ॥

९.३: २९२.८एतत्पञ्चविधमपिकर्मशरीरावयवेषुतत्सम्बद्धेषुचसत्प्रत्ययमसत्प्रत्ययम्चयदन्यत्तदप्रत्ययमेवतेष्वन्येषुचतद्गमनमिति । कर्मणाम्जातिपञ्चकत्वमयुक्तंगमनाविशेषात्। सर्वम्हिक्षणिकम्कर्मगमनमात्रमुत्पन्नम्स्वाश्रयस्योर्ध्वमधिस्तिर्यग्वाप्यणुमात्रैःप्रदेशैःसम्योगविभागात्न्करोतिसर्वत्रगमनप्रत्ययोऽवुसिष्टस्तस्माद्गमनमेवसर्वमिति । नवर्गशःप्रत्ययानुवृत्तिव्यावृत्तिदर्शनातिहोत्क्षेपणम्परत्रापक्षेपणमित्येवमादिसर्वत्रवर्गशःप्रत्ययानुवृत्तिव्यावृत्तीदृष्टेतद्धेतुःसामान्यविशेषभेदोऽवगम्यते। तेषामुदाद्युपसर्गविशेषात्प्रतिनियतदिग्विशिष्टकार्यारम्भत्वादुपलक्षणभेदोऽपिसिद्धः । एवमपिपञ्चैवेत्यवधारणानुपपत्तिः । निष्क्रामणप्रवेशनादिष्वपिवर्गशःप्रत्ययानुवृत्तिव्यावृत्तिदर्शनात् । यद्युत्क्षेपणादिषुसर्वत्रवर्गशःप्रत्ययानुवृत्तिव्यावृत्तिदर्शनाज्जातिभेदैष्यतेएवम्चनिष्क्रमणप्रवेशनादिष्वपि। कार्यभेदात्तेषुप्रत्ययानुवृत्तिव्यावृत्तीइतिचेत्नौत्क्षेपणादिष्वपिकार्यभेदादेवप्रत्ययानुवृत्तिव्यावृत्तिप्रसङ्गः। अथसमानेवर्गशःप्रत्ययानुवृत्तिव्यावृत्तिसद्भावेउत्क्षेपणादीनामेवजातिभेदोननिष्क्रमणादीनामित्यत्रविशेषहेतुरस्तीतिनजातिसङ्करप्रसङ्गात्। निष्क्रमणादीनाम्जातिभेदात्प्रत्ययानुवृत्तिव्यावृत्तौजातिसङ्करःप्रसज्यते। कथम्द्वयोर्द्रष्ट्रोरेकस्मादपवरकादपवरकान्तरम्गच्छतोयुगपन्निष्क्रमणप्रवेशनप्रत्ययौदृष्टौतथाद्वारप्रदेशेप्रविशतिनिष्क्रामतीतिच । यदातुप्रतिसीराद्यपनीतम्भवतितदानप्रवेशनप्रत्ययोनापिनिष्क्रमणप्रत्ययःकिन्तुगमनप्रत्ययएवभवति । तथानालिकायाम्वंशपत्त्रादौपततिबहूनाम्द्रष्टॄणाम्युगपद्भ्रमणपतनप्रवेशनप्रत्ययादृष्टाइतिजातिसङ्करप्रसङ्गः । नचैवमुत्क्षेपणादिषुप्रत्ययसङ्करोदृष्टःतस्मादुत्क्षेपणादीनामेवजातिभेदात्प्रत्ययानुवृत्तिव्यावृत्तीनिष्क्रमणादीनाम्तुकार्यभेदादिति । कथम्युगपत्प्रययभेदैतिचेत्। अथमतम्यथाजातिसङ्करोनासितेवमनेककर्मसमावेशोऽपिनास्तीत्येकस्मिन्कर्मणियुगपद्द्रष्टॄणाम्भ्रमणपतनप्रवेशनप्रत्ययाःकथम्भवन्तीति। अत्रब्रूमःनअवयवावयविनोर्दिग्विशिष्टसम्योगविभागानाम्भेदात् ।

९.३: २९४.१योहिद्रष्टाअवयवानाम्पार्श्वतःपर्यायेणदिक्प्रदेशैःसम्योगविभागान्पश्यतितस्यभ्रमणप्रत्ययोभव्तियोह्यवयविनिऊर्ध्वप्रदेशैर्विभागमधःसम्योगम्चावेक्षतेतस्यपतनप्रत्ययोभवति। यःपुनर्नालिकान्तर्देशेसम्योगम्बहिर्देशेचविभागम्पश्यतितस्यप्रवेशनप्रत्ययोभवतीतिसिद्धःकार्यभेदान्निष्क्रमणादीनाम्प्रत्ययभेदैति । भवतूत्क्षेपणादीनाम्जातिभेदात्प्रत्ययभेदःनिष्क्रमणादीनाम्तुकार्यभेदादिति ॥

९.३: २९६.१अथगमनत्वम्किम्कर्मत्वपर्यायःाहोस्विदपरम्सामान्यमिति । कुतस्तेसंशयः। समस्तेषूत्क्षेपणादिषुकर्मप्रत्ययवद्गमनप्रत्ययाविशेषात्कर्मत्वपर्यायैतिगम्यते। यतस्तूत्क्षेपणादिवद्विशेषसंज्ञयाभिहितम्तस्मादपरम्सामान्यम्स्यादिति । न। कर्मत्वपर्यायत्वात्। आत्मत्वपुरुषत्ववत्कर्मत्वपर्यायएवगमनत्वमिति। अथविशेषसंज्ञयाकिमर्थम्गमनग्रहणम्कृतमितिनभ्रमणाद्यवरोधार्थत्वात्। उत्क्षेपणादिशब्दैरनवरुद्धानाम्भ्रमणपतनस्पन्दनादीनामवरोधार्थम्गमनग्रहणम्कृतमिति। अन्यथाहियान्येवचत्वारिविशेषसंज्ञयोक्तानितान्येवसामान्यविशेषसंज्ञाविषयाणिप्रसज्येरन्निति। अथवाअस्त्वपरम्सामान्यम्गमनत्वमनियतदिग्देशसम्योगविभागकारणेषुभ्रमणादिष्वेववर्ततेगमनशब्दश्चोत्क्षेपणादिषुभाक्तोद्रष्टव्यःस्वाश्रयसम्योगविभागकर्तृत्वसामान्यादिति ॥

९.४: २९७.१९सत्प्रत्ययकर्मविधिः । कथम्चिकीर्षितेषुयज्ञाध्ययनदानकृष्यादिषुयदाहस्तमुत्क्षेप्तुमिच्छत्यपक्षेप्तुम्वातदाहस्तवत्यात्मप्रदेशेप्रयत्नःसंजायतेतम्प्रयत्नम्गुरुत्वाचोपेक्षमाणादात्महस्तसम्योगाद्धस्तेकर्मभवतिहस्तवत्सर्वशरीरावयवेषुपादादिषुशरीरेचेति। तत्सम्बद्धेष्वपिकथम्यदाहस्तेनमुसलम्गृहीत्वेच्छाम्करोतिउत्क्षिपामिहस्तेनमुसलमितितदनन्तरम्प्रयत्नस्तमपेक्षमणादात्महस्तसम्योगाद्यस्मिन्नेवकालेहस्तेउत्क्षेपणकर्मोत्पद्यतेतस्मिन्नेवकालेतमेवप्रयत्नमपेक्षमाणाद्धस्तमुसलसम्योगात्मुसलएऽपिकर्मेति ।

९.४: २९८.४ततोदूरमुत्क्षिप्तेमुसलेतदर्थेच्छानिवर्ततेपुनरप्यपक्षेपणेच्छोत्पद्यतेतदनतरम्प्रयत्नस्तमपेक्षमाणाद्यथोक्तात्सम्योगाद्धस्तमुसलयोर्युगपदपक्षेपणकर्मणीभवतःततोऽन्त्येनमुसलकर्मणोलूखलमुसलयोरभिघाताख्यःसम्योगःक्रियतेससम्योगोमुसलगतवेगमपेक्षमाणोऽप्रत्ययम्मुसलेउत्पतनकर्मकरोति । तत्कर्माभिघातापेक्षम्मुसलेसंस्कारमारभतेतमपेक्ष्यमुसलहस्तसम्योगोऽप्रययम्हतेऽप्युत्पतनकर्मकरोति। यद्यपिप्राक्तनःसंस्कारोविनष्टःतथापिमुसलोलूखलयोःसम्योगःपटुकर्मोत्पादकःसम्योगविशेषभावात्तस्यसंस्कारारम्भेसाचिव्यसमर्थोभवति । अथवाप्राक्तनएवपटुःसंस्कारोऽभिघातादविनश्यन्नवस्थितैति । अतःसंस्कारवतिपुनःसंस्कारारम्भोनास्त्यतोयस्मिन्कालेसंस्कारापेक्षादभिघातादप्रययम्मुसलेउत्पतनकर्मतस्मिन्नेवकालेतमेवसंस्कारमपेक्षमाणात्मुसलहस्तसम्योगादप्रत्ययम्हस्तेऽप्युत्पतनकर्मेति ॥

९.४: ३००.१२पणिमुक्तेषुगमनविधिः। कथम्यदातोमरम्हस्तेनगृहीत्वोत्क्षेप्तुमिच्छोत्पद्यतेतदनन्तरम्प्रयत्नःतमपेक्षमाणाद्यथोक्तात्सम्योगद्वयात्तोमरहस्तयोर्युगपदाकर्षणकर्मणीभवतः । प्रसारितेचहस्तेतदाकर्षणार्थःप्रयत्नोनिवर्ततेतदनन्तरम्तिर्यगूर्ध्वदूरमासन्नम्वाक्षिपामीतीच्छासंजायतेतदनन्तरम्तद्नुरूपःप्रयत्नस्तमपेक्षमाणस्तोमरहस्तसम्योगोनोदनाख्यःतस्मात्तोमरेकर्ंतोपन्नम्नोदनापेक्षम्तस्मिन्संस्कारमारभतेततःसंस्कारनोदनाभ्याम्तावत्कर्माणिभवन्तियावद्धस्ततोमरविभागैतिततोविभागान्नोदनेनिवृत्तेसंस्कारादूर्ध्वम्तिर्यग्दूरमासन्नम्वाप्रयत्नानुरूपाणिकर्माणिभवन्त्यापतनादिति ॥

९.४: ३०१.१३तथायन्त्रमुक्तेषुगमन्विधिः । कथम्योबलवान्कृतव्यायामोवामेनकरेणधनुर्विष्टभ्यदक्षिणेनशरम्सन्धायसशराम्ज्याम्मुष्टिनागृहीत्वाआकर्षणेच्छाम्करोतिसज्येष्वाकर्षयाम्येतद्धनुरिति । तदनन्तरम्प्रयत्नस्तमपेक्षमाणादात्महस्तसम्योगादाकर्षणकर्महस्तेयदैवोत्पद्यतेतदैवतमेवप्रयत्नमपेक्षमाणाद्धस्तज्याशरसम्योगाद्ज्यायाम्शरेचकर्मप्रयत्नविशिष्टहस्तज्याशरसम्योगमपेक्षमाणाभ्याम्ज्याकोटिसम्योगाभ्याम्कर्मणीभवतोधनुष्कोट्योरित्येतत्सर्वम्युगपत् । एवमाकर्णादाकृष्टेधनुषिनातःपरमनेनगन्तव्यमितियज्ज्ञानम्ततस्तदाकर्शणार्थस्यप्रयत्नस्यविनाशस्ततःपुनर्मोक्षणेच्छासंजायतेतदनन्तरम्प्रयत्नस्तमपेक्षमाणादात्माङ्गुलिसम्योगादङ्गुलिकर्मतस्माज्ज्याङ्गुलिविभागःततोविभागात्सम्योगविनाशःतस्मिन्विनष्टेप्रतिबन्धकाभावाद्यदाधणुषिवर्तमानःस्थितिस्थापकःसंस्कारोमण्डलीभूतम्धनुर्यथावस्थितम्स्थापयतितदातमेवसंस्कारमपेक्षमाणाद्धनुर्ज्यासम्योगाज्ज्यायाम्शरेचकर्मोत्पद्यतेतत्स्वकारणापेक्षम्ज्यायाम्संस्कारम्करोतितमपेक्षमाणैषुज्यासम्योगोनोदनम्तस्मादिषावाद्यम्कर्मनोदनापेक्षमिषौसंस्कारमारभते ।

९.४: ३०२.८तस्मात्संस्कारान्नोदनसहायात्तावत्कर्माणिभवन्तियावदिषुज्याविभागोविभागान्निवृत्तेनोदनेकर्माण्युत्तरोत्तरानीषुसंस्कारादेवापतनादिति। बहूनिकर्माणिक्रमशःकस्मात्सम्योगबहुत्वातेकस्तुसंस्कारोऽन्तरालेकर्मणोऽपेक्षाकारणाभावादिति ॥

९.४: ३०३.२०एवमात्माधिष्ठितेषुसत्प्रत्ययमसत्प्रययम्चकर्मोक्तम् ।

९.५: ३०३.२१अनधिष्ठितेषुबाह्येषुचतुर्षुमहाभूतेष्वप्रत्ययम्कर्मगमनमेवनोदनादिभ्योभवति । तत्रनोदनम्गुरुत्वद्रवत्ववेगप्रयत्नान्समस्तव्यस्तानपेक्षमाणोयःसम्योगविशेषोनोदनमविभागहेतोरेकस्यकर्मणःकारणम्तस्माच्चतुर्ष्वपिमहाभूतेषुकर्मभवति ॥

९.५: ३०४.७यथापङ्काख्यायाम्पृथिव्याम्। वेगापेक्षोयःसम्योगविशेषाविभागहेतोरेकस्यकर्मणःकारणम्सोऽभिघातः। तस्मादपिचतुर्षुमहाभूतेषुकर्मभवतियथापाषाणादिषुनिष्ठुरेवस्तुन्यभिपतितेषुतथापादादिभिर्नुद्यमानायामभिहन्यमानायाम्वापङ्काख्यायाम्पृथिव्याम्यःसम्योगोनोदनाभिघातयोरन्यतरापेक्षौभयापेक्षोवाससम्युक्तसम्योगःतस्मादपिपृथिव्यादिषुकर्मभवति। येचप्रदेशाननुद्यन्तेनाप्यभिहन्यन्तेतेष्वपिकर्मजायते। पृथिव्युदकयोर्गुरुत्वविधारकसम्योगप्रयत्नवेगाभावेसतिगुरुत्वाद्यदधोगमनम्तत्पतनम् । यथामुसलशरीरादिषूक्तम् । तत्राद्यम्गुरुत्वाद्द्वितीयादीनितुगुरुत्वसंस्काराभ्याम् ॥

९.५: ३०५.२०स्रोतोभूतानामपाम्स्थलान्निम्नाभिसर्पणम्यत्तद्द्रवत्वात्स्यन्दनम्। कथम्समन्ताद्रोधह्सम्योगेनावयविद्रवत्वम्प्रतिबद्धमवयवद्रवत्वमप्येकार्थसमवेतम्तेनैवप्रतिबद्धमुत्तरोत्तरावयवद्रवत्वानिसम्युक्तसम्योगैःप्रतिबद्धानि । यदातुमात्रयासेतुभेदःकृतोभवतितदासमन्तात्प्रतिबद्धत्वादवयविद्रवत्वस्यकार्यारम्भोनास्तिसेतुसमीपस्थस्यावयवद्रवत्वस्योत्तरोत्तरेषामवयवद्रवत्वानाम्प्रतिबन्धकाभावाद्वृत्तिलाभः । ततःक्रमशःसम्युक्तानामेवाभिसर्पणम्ततःपूर्वद्रव्यविनाशेसतिप्रबन्धेनावस्थितैरवयविर्दीर्घम्द्रव्यमारभ्यतेतत्रचकारणगुणपूर्वक्रमेणद्रवत्वमुत्पद्यतेतत्रचकारणानाम्सम्युक्तानाम्प्रबन्धेनगमनेयदवयविनिकर्मोत्पद्यतेतत्स्यन्दनाख्यमिति ॥

९.५: ३०७.१०संस्कारात्कर्मैष्वादिषूक्तम्। तथाचक्रादिष्ववयवानाम्पार्श्वतःप्रतिनियतदिग्देशसम्योगविभागोत्पत्तौयदवयविनःसंस्कारादनियतदिग्देशसम्योगविभागनिमित्तम्कर्मतद्भ्रमणमिति। एवमादयोगमनविशेषाः ॥

९.५: ३०८.१प्राणाख्येतुवायौकर्मआत्मवायुसम्योगादिच्छाद्वेषपूर्वकप्रयत्नापेक्षाज्जाग्रतैच्छानुविधानदर्शनात्सुप्तस्यतुजीवनपूर्वकप्रयत्नापेक्षात् । आकाशकालदिगात्मनाम्सत्यपिद्रव्यभावेनिष्क्रियत्वम्सामान्यादिवदमूर्तत्वात्। मूर्तिरसर्वगतद्रव्यपरिमाणम्तदनुविधायिनीचक्रियासाचाकाशादिषुनास्तितस्मान्नतेषाम्क्रियासम्बन्धोऽस्तीति ॥

९.५: ३०८.१८सविग्रहेमनसीन्द्रियान्तरसम्बन्धार्थम्जाग्रतःकर्मआत्ममनह्सम्योगादिच्छाद्वेषपूर्वकप्रयत्नापेक्षातन्वभिप्रायमिन्द्रियान्तरेणविषयान्तरोपलब्धिदर्शनात्। सुप्तस्यप्रबोधकालेजीवनपूर्वकप्रयत्नापेक्षात्। अपसर्पणकर्मोत्पसर्पणकर्मचात्ममनह्सम्योगाददृष्टापेक्षात्। कथम्यदाजीवनसहकारिनोर्धर्माधर्मयोरुपभोगात्प्रक्षयोऽन्योन्याभिभवोवातदाजीवनसहाययोर्वैकल्यात्तत्पूर्वकप्रयत्नवैकल्यात्प्राणनिरोधेसत्यन्याभ्याम्लब्धवृत्तिभ्याम्धर्माधर्माभ्यामात्ममनह्सम्योगसहायाभ्याम्मृतशरीराद्विभागकारणमपसर्पणकर्मोत्पद्यते ।

९.५: ३०९.४ततःशरीराद्वहिरपगतम्ताभ्यामेवधर्माधर्माभ्याम्समुत्पनेनातिवाहिकशरीरेणसम्बन्ध्यतेतत्सङ्क्रान्तम्चस्वर्गम्नरकम्वागत्वाआशयानुरूपेणशरीरेणसम्बध्यतेतत्सम्योगार्थम्कर्मोपसर्पणमिति । योगिनाम्चबहिरुद्रेचितस्यमनसोऽभिप्रेतदेशगमनम्प्रत्यागमनम्च। तथासर्गकालेप्रत्यग्रेणशरीरेणसम्बन्धार्थम्कर्मादृष्टकारितम् । एवमन्यदपिमहाभूतेषुयत्प्रत्यक्षानुमानाभ्यामनुपलभ्यमानकारणमुपकारापकारसमर्थम्चभवतितदप्यदृष्टकारितम्। यथासर्गादावणुकर्मअग्निवाय्वोरूर्ध्वतिर्यग्गमनेमहाभूतानाम्प्रक्षेभणम् । अभिषिक्तानाम्मणीनाम्तस्करम्प्रतिगमनम्। अयसोऽयस्कान्ताभिसर्पणम्चेति ॥

९.०: ३०९इतिप्रशस्तपादभाष्येकर्मपदार्थःसमापतः ॥


सामान्यपदार्थः[सम्पाद्यताम्]

१०.०: ३११.१३अथसामान्यपदार्थनिरूपणम् ।

१०: ३११.१४सामान्यम्द्विविधम्परमपरम्च। स्वविषयसर्वगतमभिन्नात्मकमनेकवृत्तिएकद्विबहुष्वात्मस्वरूपानुगमप्रत्ययकारिस्वरूपाभेदेनाधारेषुप्रबन्धेनवर्तमानमनुवृत्तिप्रत्ययकारणम्। कथम्प्रतिपिण्डम्सामान्यापेक्षम्प्रबन्धेनज्ञानोत्पत्तावभ्यासप्रत्ययजनिताच्चसंस्कारादतीतज्ञानप्रबन्धप्रत्यवेक्षणाद्यदनुगतमस्तितत्सामान्यमिति। तत्रसत्तासा

न्यम्परमनुवृत्तिप्रत्ययकारणमेव । यथापरस्परविशिष्टेषुचर्मवस्त्रकम्बलादिष्वेकस्मानिलद्रव्याभिसम्बन्धात्नीलम्निलमितिप्रत्ययानुवृत्तिःतथापरस्परविशिष्टेषुद्रव्यगुणकर्मस्वविशिष्टासत्सदितिप्रत्ययानुवृत्तिःसाचार्थान्तराद्भवितुमर्हतीतियत्तदर्थानतर्म्सासत्तेतिसिद्धा ।

१०: ३१२.३सत्तानुसम्बन्धात्सत्सदितिप्रत्ययानुवृत्तिःतस्मात्सासामान्यमेव। अपरम्द्रव्यत्वगुणत्वकर्मत्वादिअनुवृत्तिव्यावृत्तिहेतुत्वात्सामान्यम्विशेषश्चभवति। तत्रद्रव्यत्वम्परस्परविशिष्टेषुपृथिव्यादिष्वनुवृत्तिहेतुत्वात्सामान्यम्गुणकर्मभ्योव्यावृत्तिहेतुत्वात्विशेषः। तथागुणत्वम्परस्परविशिष्टेषुरूपादिष्वनुवृत्तिहेतुत्वात्सामान्यम्द्रव्यकर्मभ्योव्यावृत्तिहेतुत्वात्विशेषः। तथाकर्मत्वम्परस्परविशिष्तेषूत्क्षेपणादिष्वनुवृत्तिप्रत्ययहेतुत्वात्सामान्यम्द्रव्यगुणेभ्योव्यावृत्तिहेतुत्वाद्विशेषःेवम्पृथिवीत्वरूपत्वोत्क्षेपणत्वगोत्वघटत्वपटत्वादीनामपिप्राण्यप्राणिगतानामनुवृत्तिव्यावृत्तिहेतुत्वात्सामान्यविशेषभावःसिद्धः। एतानितुद्रव्यत्वादीनिप्रभूतविषयत्वात्प्राधान्येनसामान्यानिस्वाश्रयविशेषकत्वाद्भक्त्याविशेषाख्यानीति ॥

१०: ३१४.१५लक्षणभेदादेषाम्द्रव्यगुणकर्मभ्यःपदार्थान्तरत्वम्सिद्धम्। अतएवचनित्यत्वम् । द्रव्यादिषुवृत्तिनियमात्प्रत्ययभेदाच्चपरस्परतश्चान्यत्वम् । प्रत्येकम्स्वाश्रयेषुलक्षणाविशेषाद्विशेषलक्षणाभावाच्चैकत्वम्। यद्यप्यपरिच्छिन्नदेशानिसामान्यानिभवन्तितथाप्युपलक्षणनियमात्कारणसामग्रीनियमाच्चस्वविषयसर्वगतानि । अन्तरालेचसम्योगसमवायवृत्त्यभावादव्यपदेश्यानीति ॥

१०.०: ३१४.२३इतिप्रशस्तपादभाष्येसामान्यपदार्थःसमाप्तः ॥


विशेषपदार्थः[सम्पाद्यताम्]

११.०: ३२१.११अथविशेषपदार्थनिरूपणम् ।

११: ३२१.१२अन्तेषुभवाअन्त्याःस्वाश्रयविशेषकत्वाद्विशेषाः। विनाशारम्भरहितेषुनित्यद्रव्येष्वण्वाकाशकालदिगात्ममनस्सुप्रतिद्रव्यमेकैकशोवर्तमानाःत्यन्तव्यावृत्तिबुद्धिहेतवः। यथास्मदीनाम्गवादिष्वश्वादिभ्यस्तुल्याकृतिगुणक्रियावयवसम्योगनिमित्ताप्रत्ययव्यावृत्तिर्दृष्टागौःशुक्लःशीघ्रगतिःपीनककुद्मान्महाघण्टैति । तथास्मद्विशिष्टानाम्योगिनाम्नित्येषुतुल्याकृतिगुणक्रियेषुपरमाणुषुमुक्तात्ममनस्सुचअन्यनिमित्तासम्भवाद्येभ्योनिमित्तेभ्यःप्रत्याधारम्विलक्षणोऽयम्विलक्षणोऽयमितिप्रत्ययव्यावृत्तिःदेशकालविप्रकर्षेचपरमाणौसएवायमितिप्रत्यभिज्ञानम्चभवतितेऽन्त्याविशेषाः ।

११: ३२२.२यदिपुनरन्त्यविशेषमन्तरेणयोगिनाम्योगजाद्धर्मात्प्रत्ययव्यावृत्तिःप्रत्यभिज्ञानम्चस्यात्ततःकिम्स्यान्नैवम्भवति । यथानयोगजाद्धर्मादशुक्लेशुक्लप्रत्ययःसंजायतेअत्यन्तादृष्टेचप्रत्यभिज्ञानम् । यदिस्यान्मिथ्याभवेत्तथेहाप्यन्त्यविशेषमन्तरेणयोगिनाम्नयोगजाद्धर्मात्प्रत्ययव्यावृत्तिःप्रत्यभिज्ञानम्वाभवितुमर्हति । अथान्त्यविशेषेष्विवपरमाणुषुकस्मान्नस्वतःप्रत्ययव्यावृत्तिःकल्प्यतेइतिचेन्नतादात्म्यात् । इहातदात्मकेष्वन्यनिमित्तःप्रत्ययोभवतियथाघटादिषुप्रदीपात्नतुप्रदीपेप्रदीपान्तरात्। यथागवाश्वमांसादीनाम्स्वतएवाशुचित्वम्तद्योगादन्येषाम्तथेहापितादात्म्यादन्त्यविशेषेषुस्वतएवप्रत्ययव्यावृत्तिःतद्योगात्परमाण्वादिष्विति ॥

११.०: ३२२.१७इतिप्रशस्तपादभाष्येविशेषपदार्थःसमाप्तः ॥


समवायपदार्थः[सम्पाद्यताम्]

१२.०: ३२४.१८अथसमवायपदार्थनिरूपणम् ।

१२: ३२४.१९अयुतसिद्धानामाधार्याधारभूतानाम्यःसम्बन्धैहप्रत्ययहेतुःससमवायः। द्रव्यगुणकर्मसामान्यविशेषाणाम्कार्यकारणभूतानामकार्यकारणभूतानाम्वायुतसिद्धानामाधार्याधारभावेनावस्थितानामिहेदमितिबुद्धिर्यतोभवतियतश्चासर्वगतानामधिगतान्यत्वानामविष्वग्भावःससमवायाख्यःसम्बन्धः । कथम्यथेहकुण्डेदधीतिप्रत्ययःसम्बन्धेसतिदृष्टस्तथेहतन्तुषुपटःिहवीरणेषुकटःिहद्रव्येगुणकंरणीइहद्रव्यगुणकर्मसुसत्ताइहद्रव्येद्रव्यत्वमिहगुणेगुणत्वमिहकर्मणिकर्मत्वमिहनित्यद्रव्येऽन्त्याविशेषाइतिप्रत्ययदर्शनादस्त्येषाम्सम्बन्धैतिज्ञायते ॥

१२: ३२६.१नचासौसम्योगःसम्बन्धिनामयुतसिद्धत्वातन्यतरकर्मादिनिमित्तासम्भवात्विभागान्तत्वादर्शनादधिकरणाधिकर्तव्ययोरेवभावादिति ॥

१२: ३२६.१२सचद्रव्यादिभ्यःपदार्थान्तरम्भाववल्लक्षणभेदात् । यथाभावस्यद्रव्यत्वादीनाम्स्वाधारेषुआत्मानुरूपप्रत्ययकर्तृत्वात्स्वाश्रयादिभ्यःपरस्परतश्चार्थान्तरभावःतथासमवायस्यापिपञ्चसुपदार्थेष्विहेतिप्रत्ययदर्शनात्तेभ्यःपदार्थान्तरत्वमिति । नचसम्योगवन्नानात्वम्भाववल्लिङ्गाविशेषात्विशेषलिङ्गाभावाच्चतस्माद्भाववत्सर्वत्रैकःसमवायैति ॥

१२: ३२७.९ननुयद्येकःसमवायोद्रव्यगुणकर्मणाम्द्रव्यत्वगुणत्वकर्मत्वादिविशेषणैःसहसम्बन्धैकत्वात्पदार्थसङ्करप्रसङ्गैतिनआधाराधेयनियमात् । यद्यप्येकःसमवायःसर्वत्रस्वतन्त्रःतथाप्याधाराधेयनियमोऽस्ति। कथम्द्रव्येष्वेवद्रव्यत्वम्गुणेष्वेवगुणत्वम्कर्मस्वेवकर्मत्वमिति। एवमादिकस्मादन्वयव्यतिरेकदर्शनात् । इहेतिसमवायनिमित्तस्यज्ञानस्यान्वयदर्शनात्सर्वत्रैकःसमवायैतिगम्यते । द्रव्यत्वादिनिमित्तानाम्व्यतिरेकदर्शनात्प्रतिनियमोज्ञायते । यथाकुण्डदध्नोःसम्योगैकत्वेभवत्याश्रयाश्रयिभावनियमः। तथाद्रव्यत्वादीनामपिसमवायैकत्वेऽपिव्यङ्ग्यव्यंजकशक्तिभेदादाधाराधेयनियमैति ॥

१२: ३२८.१९सम्बन्धनित्यत्वेऽपिनसम्योगवदनित्यत्वम्भाववदकारणत्वात् । यथाप्रमाणतःकारणानुपलब्धेर्नित्योभावैत्युक्तम्तथासमवायोऽपीति। नह्यस्यकिञ्चित्कारणम्प्रमाणतौपलभ्यतेइति । कयापुनर्वृत्त्याद्रव्यादिषुसमवायोवर्तते । नसम्योगःसम्भवतितस्यगुणत्वेनद्रव्याश्रितत्वात् । नापिसमवायस्तस्यैकत्वात्नचान्यावृत्तिरस्तीति। न। तादात्म्यात्। यथाद्रव्यगुणकर्मणाम्सदात्मकस्यभावस्यनान्यःसत्तायोगोऽस्ति। एवमविभागिनोवृत्त्यात्मकस्यसमवायस्यनान्यावृत्तिरस्तितस्मात्स्वात्मवृत्तिः ।

१२: ३२६.२अतएवातीन्द्रियःसत्तादीनामिवप्रत्यक्षेषुवृत्त्यभावात्स्वात्मगतसंवेदनाभावाच्च । तस्मादिहबुद्ध्यनुमेयःसमवायैति ॥

१२.०: ३२६.५इतिप्रशस्तपादभाष्येसमवायपदार्थःसमाप्तः ॥


०.०: ३२६.७योगाचारविभूत्यायस्तोषयित्वामहेश्वरम् । चक्रेवैशेषिकम्शास्त्रम्तस्मैकणभुजेनमः ॥

०.०: ३२६.९इतिप्रशस्तपादविरचितम्द्रव्यादिषट्पदार्थभाष्यम्समाप्तम् ॥

स्रोतः[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=पदार्थधर्मसङ्ग्रहः&oldid=399029" इत्यस्माद् प्रतिप्राप्तम्