पतञ्जलिचरितम्/षष्ठः सर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

षष्ठः सर्गः ।

[१]बुधं ततः सिन्धुतटे प्रतिष्ठितं बुभुक्षितं काचिदवेक्ष्य तं वधूः ।
नवं वहन्ती न[२]वनीतमाययौ करेण पीयूषमिवादिमोहिनी ॥ १ ॥

विजेतुकामस्य विला[३]सिनीगणं मनोभुवः खङ्गलतां मनोहराम् ।
चमत्कृतां चम्पकपुष्पमालया कयापि वेणीकपटेन बिभ्रतीम् ॥ २ ॥

अभिप्रपन्नैरभितो मधुव्रतैः सरोजकिञ्जल्कपरागशङ्कया ।
कचापदेशाद्दधती करम्बितं चिराय सिन्दूररजोधिकारुणम् ॥ ३ ॥

निशाकरार्धे निटिलेन निर्जिते तदीयकीर्तिप्रथमाङ्कुरोपमाम् ।
ललन्तिकामौक्तिकपङ्क्तिमुज्ज्वलां ललाटपट्टे ललिते वितन्वती ॥ ४ ॥

दृशा ललाटस्थितया महेश्वरो ददाह यं दर्शितबाहुविक्रमम् ।
प्ररोहयन्ती प्रसवास्त्रमेव तं विचित्रयेवालिकचित्रकश्रिया ॥ ५ ॥

क्षमे न किं वा पुरुषस्य पश्यतः प्रदातुमावां हृदये धनंजयम् ।
इतीव कर्णव्यतिलङ्घनोद्यते दृशौ दधाना दलिताम्बुजद्युती ॥ ६ ॥

रुचिं सु[४]वर्णद्युतिभूषणस्थिता बबन्ध मुक्तावलिरुज्ज्वला ययोः ।
तयोर्विशेषं गमिता कपोलयोस्तमालपत्राङ्कुरलेखनश्रिया ॥ ७ ॥

द्विजान्विशुद्धानपि नित्यमाश्रयन्न[५]वाधरः पल्लवविभ्रमं जहौ ।
इतीव नासाभरणस्य रश्मिभिर्निबध्नती रागभृतं तमायतैः ॥ ८ ॥

शरीरसौन्दर्यपयोधिजन्मना गलेन पुष्पायुधवीरकम्बुना ।
धृतस्य हारस्य कुचेभकुम्भयो रुचा दिशन्ती करशीकरभ्रमम् ॥ ९ ॥

भृशं गभीरं हृदयं हृदान्तरं विगाहमानेन मनोजदन्तिना ।
बहिष्प्रकाशं गमितौ पृथून्नतौ चिराय कुम्भाविव बिभ्रती कुचौ ॥ १० ॥

प्रविष्टनाभीबिलमन्मथोरगस्फुटेन्द्रनीलोद्गतकान्तिकन्दलैः ।
अभिन्नया मेचकरोमलेखया कृशेऽवलग्ने कृतरामणीयका ॥ ११ ॥

विलो[६]चनान्याक्षिपता विलासिनां सलीलमन्यत्र समर्पितान्यपि ।
कलेन काञ्चीरणितेन बिभ्रती मनोजपीठं जघनस्य मण्डलम् ॥ १२ ॥

युवप्रपञ्चे युगपत्समुज्झितुं श[७]रान्कराभ्यामपि शम्बरारिणा |
निषङ्गयुग्मं निदधे यदार्जितं तदेव जङ्घाकपटेन बिभ्रती ॥ १३ ॥

तरङ्गवेगेन तटान्तमागतैः स्थलारविन्दं यदि सिन्धुमौक्तिकैः ।
वृताञ्चलं कैरपि तेन बिभ्रती कृतोपमानौ चरणौ नखोज्ज्वलौ ॥ १४ ॥

कलक्वणत्काञ्चननूपुरोज्ज्वलं समाह्वयन्तं सहसेव मन्मश्रम् ।
अलक्तकश्रीजितरक्तसंध्यकं पदक्रमं चारु शनैर्वितन्वती ॥ १५ ॥

ततः सपात्रं नवनीतमङ्गना धरातले तस्य निधाय पार्श्वतः ।
प्रणम्य बद्धाञ्जलिरित्थमर्थयांबभूव भक्तिप्रतिपन्नया गिरा ॥ १६ ॥

बुधेन्द्र पूर्वं बहवस्तपोधनाः फलाम्बुदर्भाजिनबर्हिरर्पणैः ।
मया कुमार्या परितोषिता भृशं प्रसादसर्वस्वमिदं वचोऽवदन् ॥ १७ ॥

इहागमिष्यत्यखिलं पतञ्जलेरधीत्य भाष्यं किल कश्चन द्विजः।
तदीयशिष्यादचिरेण रक्षसः प्रणम्य तं पूजय पद्मलोचने ॥ १८ ॥

प्रचारयिष्यन्कृतिमात्मन: स्वयं पतञ्जलिस्तद्वपुषाभवद्भुवि ।
स पूजितस्त्वां परिणीय कन्यकां ग[८]रीयसि श्रेयसि वर्तयिष्यति ॥ १९ ॥

इतीरितां योगिजनेन शृण्वती गिरं द्विजं तं मृगयेऽधुनाप्यहम् ।
स चेद्भवाञ्जन्म कृतार्थमेव मे त्वयि प्रसन्ने किमु दुर्लभं मया ॥ २० ॥

गिरां प्रपञ्चैरथवा किमीदृशैः पुनाति ते दर्शनमेव देहिनः ।
तथापि भोक्तुं नवनीतमाहृतं मया प्रसादं कुरु दृश्यसे श्रमी ॥ २१ ॥

चिरादिति प्रार्थयमानया तया समाधिदृष्टागमिपूर्वचेष्टितः ।
कृतस्मितस्तन्नवनीतमर्पितं यथेष्टमश्नन्स जहौ परिश्रमम् ॥ २२ ॥

तदिङ्गितैरेव विजानती द्विजं पतञ्जलेराकृतिभेदमागतम् ।
तमब्रवीदुद्वह मां कृपानिधे तुरीयवर्णप्रभवामपि त्विति ॥ २३ ॥

जगाद तामेवमुदीरितो द्विजो मनोरथो मानिनि ते फलोन्मुखः ।
उदूह्य वर्णत्रयकन्यका यतो विवोढुमीहेऽन्तिमवर्णजामिति ॥ २४ ॥

तदुक्तिमाकर्ण्य गृहं निनाय सा तमुल्लसद्यौवनमिन्दुसुन्दरम् ।
तया ततस्तज्जननीवितीर्णया समं पुरीमुज्जयिनीं जगाम सः ॥ २५ ॥

वटद्रुपर्णस्थितवर्णमेलनादथैष भाष्यं निखिलं पतञ्जलेः ।
लिलेख वत्सक्षतदुर्ग्रहाक्षरे स्थले क्वचित्कुण्डलनामकल्पयत् ॥ २६ ॥

निजे गृहे तत्र निविश्य पाठयंस्तदुज्जयिन्यां फणिभाष्यमाश्रुवान् ।
निनाय कालं नियमेन स द्विजः प्रियासु तुल्यं चतसृष्वपि स्थितः ॥ २७ ॥

[९]दीयपातञ्जलभाष्यपाठनप्रभावसंदर्शनकौतुकादिव ।
तदा वसन्तस्तरुपुष्पपल्लवप्र[१०]सञ्जनव्यञ्जितमूर्तिराययौ ॥ २८ ॥

नवप्रवाला नृपकेलिकानने बभासिरे बालरसालवल्लिषु |
जगत्त्रयीजेतुरनङ्गभूभुजो भुजप्रतापा इव दृष्टिगोचराः ॥ २९ ॥

वनेषु शाखाः सहकारभूरुहामदर्शयन्त प्रतिपर्व कुड्मलान् ।
चिरोज्झितेषु व्यसनोन्मुखस्मरप्रविद्धगात्रोत्पतितानिवाशुगान् ॥ ३० ॥

मधुव्रते गायति मञ्जु पार्श्वतः श्रमाम्बुतुल्यं म[११]करन्दमुज्झती ।
पुरो ननर्तेव पिकस्य पश्यतः समीरलोला सहकारमञ्जरी ॥ ३१ ॥

क्षणं भ्रमन्व्योम्नि शनैः क्षुपाञ्चले पदं वितन्वन्परितो विलोकयन् ।
समीरधूतामपि चूतमञ्जरीं न चञ्चरीको विजहौ चिरं पिबन् ॥ ३२ ॥

मृगीदृशां मानपरिग्रहानयः प्रियेषु मा भूदिति शम्बरद्विषः ।
अनङ्गभावादिव शासनाक्षरं पिकस्य कण्ठादुदियाय पञ्चमः ॥ ३३ ॥

रसालशाखामवलम्ब्य कश्चन द्विजश्चिरायाधिजगे कलस्वरम् ।
मनोजतत्त्वोपनिषद्गिरस्तथा प्रियेषु मानं सुदृशो यथा जहुः ॥ ३४ ॥

द्वि[१२]जोऽपि रागं प्रतिपद्य चक्षुषो रजस्वलामेव रसालमञ्जरीम् ।
अचुम्बदेको म[१३]धुपप्रियामिति स्मितं वितेने कुरबस्य कोरकः ॥ ३५ ॥

रसेन गन्धेन रजोभिरुज्ज्वलैरुपागतं सा तमुपाचरत्तथा ।
अचुम्बदाजिघ्रदमृक्षदादराद्यथा द्विरेफः कुरबस्य मञ्जरीम् ॥ ३६ ॥

मनोरमां चम्पकमञ्जरीं वने न षट्पदो वीक्षितुमेव चक्षमे ।
कथं नु दृष्ट्यापि सुवर्णसंभवा गृहीतुमर्हा मधुपस्य गायतः ॥ ३७ ॥

दिशत्यशोके कुसुमानि सुभ्रुवामकल्पताङ्घ्रिर्नवयावकाङ्कित: ।
नवागसां नादितरत्ननूपुरो विलासिनामाहननाय केवलम् ॥ ३८ ॥

युवा वियोगेऽभिनवानि केसरे स्थितानि पुष्पाणि दृशां निरीक्षितुम् ।
न चक्षमे यानि वधूकचार्पितान्यमूनि जिघ्रन्प्रजहर्ष संगमे ॥ ३९ ॥

रतान्ततान्तस्य रहो विलासिनीकचार्पितं केसरदाम कामिनः ।
अभीक्ष्णमाघ्रातमभूच्छ्रमापहं तदीयबिम्बाधरचुम्बनादपि ॥ ४० ॥

चकास्ति कीदृक्कियदत्र सौरभं नवेषु पुष्पेष्विति बोद्धुमिच्छवः ।
अशोकपुन्नागरसालमल्लिकावनेषु संचेरुरिवालिकुञ्जराः ॥ ४१ ॥

वसन्तसंसर्गवती वनस्थली श्लथालका षट्पदजालकश्रिया ।
रराज मल्लीमुकुलैरितस्ततो विहारकीर्णैरिव हरमौक्तिकैः ॥ ४२ ॥

क्वचित्सितं निर्मलमल्लिकारुचा क्वचिच्च गौरं नवचम्पकश्रिया ।
परत्र कङ्केलिदलत्विषारुणं त्रिवर्णमुद्यानमभूत्किमद्भुतम् ॥ ४३ ॥

वपुर्विलिम्पन्सहकाररेणुना प्रफुल्लमल्लीपरिरम्भसंभ्रमी ।
निपीतकङ्केलिलतादलाधरश्चचार मन्दं किल दक्षिणोऽनिलः ॥ ४४ ॥

रतान्तघर्मोदकबिन्दुसुन्दरं मुखाम्बुजं मुग्धदृशां प्रशंसितः ।
सुवर्णजालान्तरतः समागतश्चुचुम्ब धन्यो मलयाचलानिलः ॥ ४५ ॥

शरैः किमन्यैरिह शम्बरद्विषो वियोगिनां प्राणवियोगकर्मणि ।
यतः परार्थोऽजनि फुल्लमल्लिकावनान्तसंचारसुगन्धिराशुगः ॥ ४६ ॥

न मध्यमह्नाय बबन्ध कक्ष्यया न चाददे कार्मुकमाहवोद्भटः ।
वसन्तमन्दानिलयोगमात्रतो जिगाय कामो जगतामपि त्रयम् ॥ ४७ ॥

वधूजनानां परिचारिका मधौ वियोगिनामप्यवियोगिनामपि ।
प्रवालशय्यां किल पर्यकल्पयन्नदीनिकुञ्जेषु च नर्मवेश्मसु ॥ ४८ ॥

तव स्वभावं तरलेक्षणे विदन्न जातु कान्तो मधुमत्यवर्तत ।
इतीरिते प्रोषितवल्लभा सखीजनेन रोमाञ्चमधादुरोजयोः ॥ ४९ ॥

समागतस्ते प्रिय इत्युवाच सा कृतं किमस्यै हृदि पारितोषिकम् ।
वदेति सख्या गिरमेव शृण्वती वधूरनङ्गज्वरमत्यजन्मधौ ॥ ५० ॥

सखि प्रगल्भो मधुरेष दृश्यते गतो य इत्यर्धमुदीर्य जालके ।
निधाय दृष्टिं सहसा नितम्बिनी स्मितेन सख्यै वचनं समापयत् ॥५१॥

चलद्रसालस्तबकोऽत्र वर्तते वसन्त इत्याशु समेयुषि प्रिये ।
पपात पश्चात्सुदृशो दृगञ्चलं सखीषु केलीसदने तु पूर्वतः ॥ ५२ ॥

वधूर्वसन्ते बिसकङ्कणं करे दृशोरुदश्रु स्तनयोरुशीरवत् ।
प्रियस्य दूरादुपसेदुषो गृहं शरीरमेवाकुरुतोपदापदे ॥ ५३ ॥

यथा सितक्षामकपोलमाननं निरीक्ष्य नार्या नितरां ननन्द सः ।
सपत्रलेखं दयितः सकुङ्कुमं तथा न देशान्तरतः समागतः ॥ ५४ ॥

समाप्तिहीनाधरबिम्बचुम्बनामनुज्झितोरोजदृढोपगूहनाम् ।
निशां निनीषन्नपि संल्लपन्स्थितो मधौ प्रवासी पतिरेत्य कान्तया ॥ ५५ ॥

नृणां तृतीयप्रथमार्थसाधने प्रशस्तमासाद्य मधुं स भूसुरः ।
मखेन यष्टव्यमयष्ट दैवतं नयेन दारांश्चतुरोऽप्यरीरमत् ॥ ५६ ॥

प्रियाश्चतस्रः प्रतिपेदिरे शनैः शरत्प्रसन्नामिव चन्द्रिकां दिशः ।
द्विजस्य हर्षार्णववृद्धिदायिनीं नितान्तरम्यामथ दौहृदश्रियम् ॥ ५७ ॥

बभूवुरासां श्रमवारिबिन्दवो मुखेषु केलीकमलग्रहादपि ।
विहारिकारण्डवपातिताः कणास्तरङ्गिणीनां सरसीरुहेष्विव ॥ ५८ ॥

तदा तदीयास्तनवश्चकाशिरे परिष्कृता दौहृदपाण्डिमश्रिया ।
शशाङ्ककान्त्येव शरत्प्रसन्नया करम्बिताः काश्चन सालभञ्जिकाः ॥ ५९ ॥

रसान्तराद[१४]प्यवकृष्य केवलं मनो बबन्धुर्हृदि योषितस्तदा ।
निसर्गतः सर्गविधौ हि वेधसः प्रियाप्रिये वस्तुषु न व्यवस्थिते ॥ ६० ॥

क्रमेण तासामसितभ्रुवां घनाः पयोधरा नीलमुखाश्चकाशिरे ।
सुरेन्द्रनीलोपलमुद्रिताञ्चला मनोभवार्हा इव हैमसंपुटाः ॥ ६१ ॥

तनुस्फुरत्पाण्डिमचण्डिकारुचा कलाधरे गर्भगते निरूपिते ।
तमस्विनीं तत्कुतुकादिवागतां बभार रोमावलिमङ्गनागणः ॥ ६२ ॥

विनेतुमेकं बलिमेव चक्षमे समुत्थितं विष्णुपदं पुरा युगे ।
इति स्थितामप्यवधूय तत्तुलां वधूवलग्न्यान्यहरन्वलित्रयम् ॥ ६३ ॥

ततो मुहूर्ते रुचिरे द्विजोत्तमैः पुरंध्रिभिः पूरितचत्वरे गृहे ।
स शास्त्रदृष्टेन पथा मृगीदृशां समन्वतिष्ठत्समयोचिताः क्रियाः ॥ ६४ ॥

कृतैर्यथाचोदितमेव कर्मभिर्विरेजिरे विप्रवरस्य सुभ्रुवः ।
कृषीवलस्यौषधयः प्ररोपिताः स्वकाललब्धैरिव वर्षवारिभिः ॥ ६५ ॥

दिनेषु ताः सत्पुरुषोदयोचितेष्वरालकेश्यो विदुषां शिखामणेः ।
क्रमात्कुमारान्कमनीयतेजसो मणीनिवासोषत सिन्धुशुक्तयः ॥ ६६ ॥


स पुत्राणां तेषां जननसमयार्हाणि विधिव-
द्वितन्वन्कर्माणि द्विजकुलकृताशीः परिषदि ।
यथा यस्मै यावद्यदभिलषितं देयमददा-
त्तथा तस्मै तावत्तदुपनमितं स्वेन तपसा ॥ ६७ ॥

इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वनः कृतौ पतञ्जलिचरिते

षष्ठः सर्गः ।


  1. ‘बुधस्ततः’ क.
  2. ‘नवनीतमादधौ’ ख.
  3. ‘विलासिनां गणं’ ख.
  4. ‘सुवर्णश्रुतिभूषणस्थिता’ इति क-पुस्तकपाठः साधुरिति भाति.
  5. ‘न चाधरः पल्लवविभ्रमं जहौ’ इति ख-पुस्तकपाठ एव शुद्धो भाति.
  6. ‘विलोचनान्याक्षिपतः’ क; 'विलोचनान्याक्षिपतो’ ख.
  7. द्वितीयः पादः क-पुस्तके नास्ति.
  8. ‘वरीयसि श्रेयसि’ क.
  9. ‘तदीयपातञ्जलभाष्यपाठनापभाव’ क.
  10. ‘प्रसाधनव्यञ्जित’ इति क.
  11. ‘मकरन्दमुज्झति’ क-ख.
  12. अयं श्लोकः ख-पुस्तके नास्ति.
  13. ‘मधुपप्रियाम्’ इत्येव पुस्तकद्वयेऽपि.
  14. ‘दप्यक्कर्ष्य’ क; ‘दप्यपकृष्य’ ख.