पतञ्जलिचरितम्/अष्टम: सर्गः
अष्टम: सर्गः ।
प्रव्रज्य तातचरणे परया विरक्तया
काशीं गिरीश इव पावयति द्वितीये ।
ज्ञानेन शास्त्रजनितेन गृहीतधैर्या-
स्तस्यात्मजा वररुचिप्रमुखा न मम्लुः ॥ १ ॥
नात्यन्तमेव परिचिक्लिशुरिन्द्रियाणि
नाप्यन्ववर्तिषत तानि यथाभिलाषम् ।
स्वस्वानुरूपमवलम्बितशास्त्रमार्गाः
सर्वेऽपि संजगृहिरे सदृशं त्रिवर्गम् ॥ २ ॥
सर्वासु शास्त्रपदवीषु विचक्षणोऽपि
ग्रन्थान्व्यधाद्गणित एव जनोपकारान् ।
तेष्वग्रजो वररुचिर्दिवसेश्वरो हि
प्राच्यामुदेत्यखिलदिक्ष्वपि निर्निरोधः ॥ ३ ॥
तस्यानुजो भवति यः किल विक्रमार्कः
संक्रन्दनेन सुरलोकसभान्तराले ।
स स्वर्नटीनटनविभ्रमतारतम्य-
जिज्ञासया पटुरहूयत नाट्यदृष्टौ ॥ ४ ॥
निश्चित्य शासितवते दिवि तारतम्यं
नाट्येषु गोत्रभिददादभिनन्द्य तस्मै ।
राज्यं कुरु त्वमुपविश्य समाः सहस्र-
मस्मिन्क्षिताविति ततो मणिपीठमेकम् ॥ ५ ॥
रत्नासनेन सुरकिंकरधारितेन
साकं समागतवतो गिरमग्रजस्य ।
भट्टिर्निशम्य सचिवोऽस्य भवन्नुपाया-
द्द्वे चायुषामुपनिनाय तदा सहस्रे ॥ ६ ॥
मासान्षडेकशरदो मणिपीठमध्य-
मध्यास्य राज्यमकरोदनुजोपदेशात् ।
अन्यानरण्यचर एव तु षट् च मासा-
नित्यायुषामलभतायमुभे सहस्रे ॥ ७ ॥
भट्टिस्तदा सकलशास्त्रविशारदत्वा-
द्बुध्द्यानया नयविवेकधुरां वहन्त्या ।
कार्येषु तस्य नृपतेः स्वयमप्रमाद्य-
न्वोढाभरन्नट इवाजनि रज्जुमार्गे ॥ ८ ॥
बुध्द्याग्रिमोऽपि जनुषाः चरमः कनीया-
न्नामस्य राक्षसरिपोश्चरितप्रबन्धम् ।
नामाग्रजस्य परिगृह्य स भट्टिकाव्य-
मित्याततान सुपदैः पदशास्त्रलक्ष्यैः ॥ ९ ॥
संदर्भणेन च स भर्तृहरिः पदानां
कंदर्पकार्मुकरसार्पणकर्मठेन ।
श्रृङ्गारनीतिविगतस्पृहतानुबन्ध-
मन्यच्च पद्यशतकत्रयमाततान ॥ १० ॥
ग्रन्थोऽधिकृत्य किल वाक्यपदे बुधानां
चक्रेऽथ तेन निखिलार्थविबोधहेतुः ।
यस्यातनोद्विवरणप्रणयेन हेला-
राजः शशीव किरणेन विवृद्धिमब्धेः॥ ११ ॥
वत्सक्षतं सपितृकुण्डलितं यथाव-
द्बुध्द्याकलय्य लिपिजालकमन्तरन्तः ।
टीकां पतञ्जलिकृतस्य सपादलक्ष
ग्रन्थात्मनातनुत भाष्यनिबन्धनस्य ॥ १२ ॥
अत्यन्तदुर्गहमशेषमनीषिवर्गै-
र्भावं पतञ्जलिकृतेर्मनसा स पश्यन् ।
तस्य स्फुटं विवरणे पटुतां निजां च
दुर्वारगर्वगरिमोष्मलमाह चेदम् ॥ १३ ॥
अहो भाष्यमहो भाष्यमहो वयमहो वयम् ।
मामदृष्ट्वा गतः स्वर्गमकृतार्थः पतञ्जलिः ॥ १४ ॥
इत्युक्तिसंजनितगुर्वपराधयोगा-
ट्टीका न तस्य लभते स्म भुवि प्रतिष्ठाम् ।
विद्यां न दूषयति किं विनयव्यपायो
नासावियोग इव योषितमुज्ज्वलाङ्गीम् ॥ १५ ॥
इत्थं सुमन्त्रसचिवैस्तमसोऽपगत्या
शुद्धैश्चतुर्भिरुरुकीर्तिभिरुज्जयिन्याम् ।
कालस्तदा कलिरपि प्रथते स्म पुण्य-
स्त्रेतेव दाशरथिभिर्मनुराजधान्याम् ॥ १६ ॥
अत्रान्तरे सरिति नक्रगृहीतपादः
संन्यस्तशंकरमुनिर्दुरिताद्विमुक्तः ।
गोविन्ददेशिकपदाम्बुजदर्शनाय
बद्धादरो बदरिकाश्रममन्वियाय ॥ १७ ॥
शैलान्वनानि सरितो नगराणि पल्ली-
ग्रामाञ्जनानपि पशून्पथि सोऽथ पश्यन् ।
नन्वैन्द्रजालिक इवाद्भुतमिन्द्रजालं
ब्रह्मैवमेव परिदर्शयतीति मेने ॥ १८ ॥
दण्डान्वितेन धृतरागधनाम्बरेण
काशीपुरं कलितविश्रमनीलकण्ठम् ।
तेन प्रविष्टमजनिष्ट दिनावसाने
चण्डत्विषा च शिखरं चरमाचलस्य ॥ १९ ॥
वन्यद्विपस्य चरमाचलवासभाजो
ह्स्तेन केलिचटुलेन गृहीतकीर्णैः ।
तत्रत्यगैरिकरजोभिरिवानुलिप्त-
मारुण्यमाप भृशमम्बुजबन्धुबिम्बम् ॥ २० ॥
व्यातन्वता विहरणं वरुणावरोध-
कान्ताजनेन चरमाचलकन्दराग्रे ।
विक्षिप्तरत्नमयकन्तुकविभ्रमस्य
पात्रं बभूव परिपाटलमर्कबिम्बम् ॥ २१ ॥
प्रत्यग्गिरेरुपरि कुङ्कुमपाटलाभ-
श्चण्डद्युतिः क्षणमलक्ष्यत जीवलोकैः ।
न्यस्तः पुरा हनुमता निजवाललग्नः
प्रासादशृङ्ग इव पङ्क्तिमुखस्य वह्निः ॥ २२ ॥
आकृष्य सर्वमहिमद्युतिरंशुजालं
विद्वानिवेन्द्रियगणं विषयप्रपञ्चात् ।
आरुह्य चान्तिममिवाश्रममद्रिशृङ्ग-
मानन्दमद्वयमिवापरमब्धिमाप ॥ २३ ॥
हृ[१]त्वानुतापभरिते द्विजराजलक्ष्मीं
पाश्चात्यमब्धिमघनिष्कृतयेऽनुमङ्क्तुम् ।
चण्डद्युतौ व्रजति संभ्रमतोऽस्य शीर्णा
रेजुस्त्विषस्त्रिचतुरा इव सांध्यरागाः ॥ २४ ॥
भूमण्डलस्य कवलीकरणाय पूर्वं
तालीवनं प्रविशता तमसां भरेण ।
संदर्शिता ननु चमूविनिवेशभङ्ग्या
कालीकटाक्षकलुषः किल कालिमैकः ॥ २५ ॥
च[२]क्रद्वयीमधिगताम्बुजनालडोला
मन्योन्यसंघटितपक्षपुटामकाण्डे ।
दूरे वियोजितवतो दिवसात्ययस्य
दुष्कीर्तिवृन्दमिव संददृशे तमिस्रम् ॥ २६ ॥
तत्कालसंकुचदशेषदलाग्ररोधा-
द्गर्भे रणन्मधुकरं कमलं वहन्ती ।
अम्भोजिनी दिनकरप्रियविप्रयोगा-
दन्तःप्रवृत्तरुदितेव तदा व्यलोकि ॥ २७ ॥
यद्वारुणीपतिरसेवत पङ्कजिन्याः
पादं तदर्पयितुमप्यविदन्पृथिव्याः ।
दूरे खलु न्यपतदम्बरमप्यपास्य
हीहीति नीलनलिनी व्यहसीदिवाग्रे ॥ २८ ॥
आसायमम्बुजवनीमलिराप्रभात-
माश्रित्य तत्समयमत्यजदेव दूरे ।
क्व[३] स्थातुमिच्छति मुखे मुकुलीकृतेऽपि
स्थान न चेत्कुवलये क्वचिदप्यलभ्यम् ॥ २९ ॥
दिष्ट्या वृता वसुमती तमसा घनेन
निम्नोन्नतानि भुवि तेन समीकृतानि ।
इत्यादरादभिसृतिः कुलटाजनस्य
जाता तदा सदधिपेन विना यथेष्टम् ॥ ३० ॥
प्राप्तो ह्यहं त्रिजगति द्विजराजभावं
बिम्बाधरे मुहुरभीकभुजङ्गदष्टे ।
हर्तुं क्षमेत सुदृशां रसपारवश्य-
मित्यन्तरिन्दुरुदियाय मिलत्कलङ्कः ॥ ३१ ॥
चन्द्रोदयेन सहसा बिभिदे तमिस्रा
त्रय्यन्तबोधविधिनेव चिरादविद्या ।
द्रागन्वभूयत तदा किल जीवलोकैः
कोऽप्यद्भुतः सुखमयः परिणामभेदः ॥ ३२ ॥
तां तारकाहितरुचिं तमसो निहन्त्रीं
तापस्य चोज्ज्वलमृगाङ्ककरां त्रियामाम् ।
काश्यामसेवत तदा किल शंकराख्यो
लिङ्गे शिवस्य महिते मनसा च मूर्तिम् ॥ ३३ ॥
आत्मानमेकमखिलेष्वयमद्वितीयं
पश्यन्नपि व्यवहरन्निव लोकरीत्या ।
तुष्टाव नूतनसुधातुलितैर्वचोभि-
रेवं प्रपन्नकरुणाकरमिन्दुमौलिम् ॥ ३४ ॥
कस्त्वामवाङ्मनसगोचरमस्तु शक्तः
स्तोतुं सहस्व तदिहं स्तुतिसाहसं मे ।
देव स्तवाय तव यन्निगमाः प्रवृत्ताः
शवानो बभूवुरपराधिन इत्यवमि ॥ ३५ ॥
चित्तेऽन्धकारिणि मम क्रमितुं क्षमेत
पादाब्जमेकमपि तावकमिन्दुमौले ।
अस्त्यक्षि यस्य हरिणार्पितमर्चनार्थं
मञ्जीरपन्नगफणामणिदीपिका च ॥ ३६ ॥
यद्गीयसे श्रुतिगिरा त्वमपाणिपाद-
स्तद्विश्वसन्ति भु[४]वनानि विनामरौ द्वौ ।
भानुं करप्रहृतिकल्पितदन्तभङ्गं
पादाहतित्रुटितवक्षसमन्तकं च ॥ ३७ ॥
जानीमहे जगदधीश्वर यः पुरा ते
नालक्षयज्जवनमप्यधिरुह्य हंसम् !
अत्रेर्विधिः स तनयस्त्वयि भक्तिभाजो
भूत्वाधिगच्छति शिरः शिशिरः शशाङ्कः ॥ ३८ ॥
अन्विष्यतो मुहुरपि श्रमशुष्कतालो-
र्धातुश्चिराय जनितात्खलु विप्रलम्भात् ।
यत्पापमुत्थितमपास्तमिदं ममेति
पार्थाहतः किमु विवेद तवेश मूर्धा ॥ ३९ ॥
न स्तस्तवेश पितरौ श्वशुरः शिलात्मा
व्यालः स्वमार्गणतनुः सुतयोरथैकम् ।
लोकाः कुमारमितरं विदुरेकदन्तं
त्वं भिक्षुकोसि वसितुं वसनं कुतस्ते ॥ ४० ॥
मौ[५]नं विधाय गुरुरस्म्यहमित्यकाण्डे
किं विप्रलम्भयसि मूलगतो वटस्य ।
प्राचो मुनीनपि वृषध्वज यत्प्ररूढो
नाद्यापि ते विगलितः पशुपालभावः ॥ ४१ ॥
दग्धस्त्वया प्रथमतः प्रमथेश कामो
दग्धं पुरत्रयमथ स्मितलीलयैव ।
धत्से करेऽग्निमधुनापि जगन्ति दग्धुं
बिभ्यत्यतस्त्वदिह पञ्च यमादयोऽपि ॥ ४२॥
त्व[६]त्तोऽधिको हरिरिति ब्रुवतो यदास्तां
स्तब्धौ भुजौ नियमिनोऽभ्यधिकं ततस्त्वाम् ।
निश्चिन्वतो घटभुवस्तु स विन्ध्यशैल-
संभेदनेऽप्यभवदस्खलितः प्रभावः ॥ ४३ ॥
सर्वेश्वरोऽसि भव नास्ति तवान्तकोऽपि।
हृष्टाः प्रजा दधति चाप्यधुना विवृद्धिम् ।
ख्यातो भिषक्तम इति त्वमतो विनृत्य-
स्यानन्दतो यदि विनृत्य किमासितव्यम् ॥ ४४ ॥
इत्थं कृतस्तुतिरवाप्य ततः प्रसन्ना-
त्त्रय्यन्तसूत्रमृदुभाष्यनिबन्धशक्तिम्।
काशीपुरान्निरगमत्सविकासभाजः
प्रातः सरोजमुकुलादिव चञ्चरीकः ॥ ४५ ॥
अद्वैतदर्शनविदां भुवि सार्वभौमो
यात्येष इत्युडुपबिम्बसितातपत्रम् ।
अस्ताचले वहति चारुपुरःप्रकाश-
व्याजेन चामरमधादिव दिङ्मघोनः ॥ ४६ ॥
ता[७]रास्तदा ददृशिरे तरला नलिन्या
हृत्वा श्रियं शशिनि धावति साध्वसेन ।
तत्संभ्रमत्रुटितहारलता विशीर्णा
मुक्ता इव त्रिचतुरा गगनान्तराले ॥ ४७ ॥
अ[८]म्भोजकाननमहोत्सवलक्षणानि
शीतांशुकान्तिशिथिलीकृतिसूचकानि ।
तावन्निशम्य चरणायुधकूजितानि
शय्यामहो परिजहार न जारयुग्मम् ॥ ४८ ॥
सर्वां निशामपि विनीय विमुक्तनिद्रा
संकेतितादपसृतापि तदा निकुञ्जात् ।
वामेन हन्त नयनेन चलेन किंचि-
ज्जाराङ्गना सरभसं विनिवर्तते स्म ॥ ४९ ॥
राज्ञोऽवरोधभवनेषु कवाटिकाना-
मुद्घाटनादजनि यद्ध्वनितं तदानीम् ।
कामागमस्य गणनावसरे वधूनां
ज्यायाननध्ययनहेतुरयं बभूव ॥ ५० ॥
सर्वात्मना व्यपसृतं न यदा तमिस्रं
मन्दं तदा स्पृशति गन्धवहेऽङ्गमङ्गम् ।
नाथागमात्प्रथमतो नलिनी दधाना
वक्त्रे विकासमपि कम्पितमूर्तिरासीत् ॥ ५१ ॥
पुष्पंधयीविकसितात्कियदुत्पतन्ती
नालीककुड्मलमुखान्नलिनाकरस्य |
व्योमद्रुमाग्रगतिषूडुविहंगमेषु
मुक्ता निपातघुटिकेव तदा बभास ॥ ५२ ॥
अस्या भविष्यति किमूपशमो निशायाः
संद्रक्ष्यते सहचरी च मया पुनः किम् ।
इत्याकुलं दयितया सह दीर्घिकायां
कोकं सखीव समयोजयदूर्मिरेका ॥ ५३ ॥
दूरापसारिततमोरुचिरालकेन
प्राचीमुखं परिमृशत्यरुणे करेण ।
द्रष्टुं ह्रिया किमसितोत्पलिनीभिरग्रे
तावत्प्रसूननयनानि निमीलितानि ॥ ५४ ॥
पूर्वाचलोपवनसीम्नि पुरंदरस्य
स्त्रीभिर्विहृत्य निशि निःसरतः प्रभाते ।
तावद्दधार परिवारवधूगृहीत-
माणिक्यखेटकतुलां मिहिरस्य बिम्बम् ॥ ५५ ॥
उत्पिञ्जराम्बररजःकपिशालिचक्र-
व्याजेन मे वितनुते दिगियं मघोनः ।
नीराजनामिति तदानु नवातपेन
रत्नांशुकेन समभावि विवस्वता सा ॥ ५६ ॥
दृष्ट्वा पतिं परवधूकुचकुङ्कुमाङ्क-
दोर्मध्यमप्युषसि भाति नवातपोऽयम् ।
अस्योरसीति हृदि विश्वसती नताङ्गी
मेने तदा न दयितेन न चानुनिन्ये ॥ ५७ ॥
पद्माकरोऽयमरविन्दविकासलक्ष्मीं
सानन्दमुद्वहति सांप्रतमित्यलीनाम् ।
नादच्छलादिव जगुर्मधुरं तदानीं
दिग्योषितो धृतनवातपकुङ्कुमाङ्ग्यः ॥ ५८ ॥
बिम्बे भजत्युदयमम्बुजबान्धवस्य
दध्यौ तदा पुरुषमेकमृषिः स दिव्यम् ।
आह श्रुतिर्भगवती किल यं हिरण्य-
श्मश्रुं हिरण्यकचमा प्रणखात्सुवर्णम् ॥ ५९ ॥
तेनान्ववर्ति मह्ता क्व[९]चिदुष्णशालि
शीतं क्वचित्क्वचिदृजु क्वचिदप्यरालम् ।
उत्कण्टकं क्वचिदकण्टकवत्क्वचिच्च
तद्वर्त्म मूर्खजनचित्तमिवान्यवस्थम् ॥ ६० ॥
आत्मानमक्रियमपव्यथमीक्षितापि
पान्थैः समं स चलितः पथि लोकरीत्या ।
आदत्फलानि मधुराण्यपिबत्पयांसि ।
प्रायादुपाविशदशेत तथोदतिष्ठत् ॥ ६१ ॥
तेन व्यनीयत तदा पदवी दवीय-
स्यासादितं बदरिकाश्रमभूतलं च ।
शंसन्ति यत्र वसतिं तरवो मुनीनां
शाखाभिरुज्ज्वलमृगाजिनवल्कलाभिः ॥ ६२ ॥
आदेशमेकमनुयोक्तुमयं व्यवस्य-
न्प्रादेशमात्रविवरप्रतिहारभाजम् ।
तत्र स्थितेन कथितां यमिनां गणेन
गोविन्ददेशिकगुहां कुतुकी ददर्श ॥ ६३ ॥
तस्याः प्रपन्नपरितोषदुहो गुहायाः
स त्रिः प्रदक्षिणपरिक्रमणं विधाय ।
द्वारं प्रति प्रणिपतञ्जपतां पुरोगं
तुष्टाव तुष्टहृदयस्तम[१०]पास्तशोकम् ॥ ६४ ॥
पर्यङ्कतां भजति यः पतगेन्द्रकेतोः
पदाङ्गदत्वमथवा परमेश्वरस्य ।
तस्यैव मौलिधृतिसार्णवशैलभूमेः
शेषस्य विग्रहविशेषमहं भजे त्वाम् ॥ ६५ ॥
दृ[११]ष्ट्वा पुनर्नेिजसहस्रमुखीमभैषु-
रन्तेवसन्त इति तामपहाय भूयः ।
एकाननेन भुवि यस्त्ववतीर्य शिष्या-
नन्वग्रहीन्ननु स एव पतञ्जलिस्त्वम् ॥ ६६ ॥
तस्मिन्निति स्तुवति कस्त्वमिति ब्रुवन्तं ।
दिष्ट्या स[१२]मधिपथरुद्धविसृष्टचित्तम् ।
गोविन्ददेशिकमुवाच तदा स[१३] वाग्भिः
प्राचीनपुण्यजनितात्मविबोधचिह्नैः ॥ ६७ ॥
खामिन्नहं न पृथिवी न जलं न तेजो
न स्पर्शनोन गगनं न च तद्गुणा वा ।
नापिन्द्रियाण्यपि तु बुद्धि ततो विशिष्टो
यः केवलोऽस्ति परमः स शिवोऽहमस्मि ॥ ६८ ॥
आकर्ण्य शंकरमुनेर्वचनं तदित्थ-
मद्वैतदर्शनसमुत्थमुपात्तहर्षः ।
स प्राह शंकर स शंकर एव साक्षा-
ज्जातस्त्वमित्यहमवैमि समाधिनेति ॥ ६९ ॥
तस्याथ दर्शितवतश्चरणौ गुहायां
द्वा[१४]रे ह्यपूजयदुपेत्य स शंकरार्यः ।
चार इत्युपदिदेश स तत्त्वमस्मै
गोविन्दतापसगुरुर्गुरवे यतीनाम् ॥ ७० ॥
गोविन्ददेशिकमुपास्य चिराय भक्त्या
तस्मिन्स्थिते निजमहिम्नि विदेहमुक्त्या ।
अद्वैतभाष्यमुपकल्प्य दिशो विजित्य
काञ्चीपुरे स्थितिमवाप स शंकरार्यः ॥ ७१ ॥
गोविन्दस्य व्रतिकुलगुरोः सिद्धिमा[१५]कर्ण्य कृत्वा
यत्कर्तव्यं तदपि वररुंच्यादयो भ्रातरस्ते ।
स्वे स्वे कर्मण्यवहितधियो विद्यया कीर्तिमन्त-
श्चत्वारोऽपि स्थितिमभिमतामुज्जयिन्यामकुर्वन् ॥ ७२ ॥
इति श्रीयज्ञरामर्दीक्षितपुत्रस्य श्रीरामभद्रयज्वनः कृतौ
पतञ्जलिचरितेऽष्टमः सर्गः ।
समाप्तोऽयं ग्रन्थः ।
- ↑ 'भानोः पश्चिमशैलकन्दरकुटीमभ्येयुषः संभ्रमा-
त्संध्यारागमिषेण किं विगलिता भान्ति त्विषः पञ्चषाः ।
किं चैषा कृतनिश्चयेन कवलीकर्तुं महीमण्डली-
माक्रान्ता प्रथमं घनेन तमसा नीला तमालाटवी ॥'
इति श्रृङ्गारतिलकभाणे. - ↑ ‘चकद्वन्द्वं चटुलनलिनीनालडोलाधिरूढं
गाढाश्लिष्टं त्यजति रजनीजातविश्लेषदुःखम् ।
नक्तं भुक्त्वा नवकुमुदिनीं विश्रमार्थीं विभाते
गञ्जागेहं विकचकमलं गाहते चञ्चरीकः ॥'
इति शृङ्गारतिलकभाणे. - ↑ 'कः स्थातुमिच्छति' ख.
- ↑ ‘भुवनानि विभो विना द्वौ'ख. अयं पाठः समीचीनतरश्चेति दृश्यते.
- ↑ 'चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा ।
गुरोस्तु मौनं व्याख्यानं शिष्यास्तु च्छिन्नसंशयाः ॥'.
- ↑ 'गोविन्दादधिकं न दैवतमिति प्रोत्तार्य हस्तावुभौ’ इति.
- ↑ ‘तारास्तदा ददृशिरे विरला’ ख. विद्यमानः पाठः साधीयान्भाति.
- ↑ 'अम्भोजकाननमहोत्सवलक्षणानि
शीतांशुकान्तिशिथिलीकृतिसूचकानि ।
आविर्भवन्ति मिथुनश्रुतिदुःसहानि
कुक्कूरुतानि चरणायुधकण्ठनालात् ॥'
इति श्रृङ्गारतिलकभाणे. - ↑ ‘क्वचिदुष्णशाली’ क. तत्प्रामादिकमिति भाति.
- ↑ 'अपास्तचेत्यम्' क.
- ↑ 'दृष्ट्वा पुरा निजसहस्रमुखीम्' ख.
- ↑ समाधिपथरूढि ख.
- ↑ ‘स वाग्मी प्राचीनपुण्यजनितं भुवि बोधचिह्नैः' ख.
- ↑ 'द्वारेऽभ्यपूजयदुपेत्य क
- ↑ ‘आकर्ण्य काले'क.