पञ्चविंशब्राह्मणम्/अध्यायः ४

विकिस्रोतः तः
Jump to navigation Jump to search
गवामयनसत्रस्य षष्ट्यधिकत्रिशतविषुवस्तुत्याहानि प्रोक्तानि

4.1
गावो वा एतत् सत्त्रमासत तासां दशसु मास्सु शृङ्गण्यजायन्त ता अब्रुवन्नराः स्मोत्तिष्ठामोपशा नोऽज्ञतेति ता उदतिष्ठन्
तासां त्वेवाब्रुवन्नासामहा एवेमौ द्वादशौ मासौ संसंव्वत्सरमापयामेति तासां द्वादशसु माःसु शृङ्गाणि प्रावर्तन्त ताः सर्वमन्नाद्यमाप्नुवंस्ता एतास्तूपरास्तस्मात् ताः सर्वान् द्वादशमासः प्रेरते सर्वं हि ता अन्नाद्यमाप्नुवन्
सर्वमन्नाद्यमाप्नोति य एवंव्वेद
प्रजापतिर्वा इदमेक आसीत् सोऽकामयत बहु स्यां प्रजायेयेति स एतमतिरात्रमपश्यत् तमाहरत् तेनाहोरात्रे प्राजनयत्
यदेषोऽतिरात्रो भवत्यहोरात्रे एव प्रजनयन्त्यहोरात्रयोः प्रतितिष्ठन्त्येतावान् वाव संव्वत्सरो यदहस्च रात्रिश्चाहोरात्राभ्यामेव तत् संव्वत्सरमाप्नुवन्ति
यज्ज्योतिष्टोमो भवति यज्ञमुखं तदृध्नुवन्ति यदुक्थो यज्ञक्रतोरनन्तरयाय यद्रात्रिः सर्वस्याप्त्यै
स एतान् स्तोमानपश्यत् ज्योतिर्गौरायुरितीमे वै लोका एते स्तोमा अयमेव ज्योतिरयं मध्यमो गौरसावुत्तम आयुः
यदेते स्तोमा भवन्तीमानेव लोकान् प्रजनयन्त्येषु लोकेषु प्रतितिष्ठन्ति
स एतं त्र्यहं पुनः प्रायौङ्क्त तेन षडहेन षट्क्रतून् प्राजनयत्
यदेष षडहो भवति ऋतूनेव प्रजनयन्ति ऋतुषु प्रतितिष्ठन्ति
स एतं षडहं पुनः प्रायुङ्क्त ताभ्यां द्वाभ्यां षडहाभ्यां द्वादशमसः प्राजनयत्
यदेतौ षडहौ भवतो मासानेव प्रजनयन्ति मासेषु प्रतितिष्ठन्ति
स एतौ द्वौ षडहौ पुनः प्रयुङ्क्त तैश्चतुर्भिः षडहैश्चतुर्विंशतिमर्धमासान् प्राजनयत्
यदेते चत्वारः षडहा भवन्त्यर्धमासानेव प्रजनयन्त्यर्धमासेषु प्रतितिष्ठन्ति
स इदं भुवनं प्रजनयित्व पृष्ठ्येन षडहेन वीर्यमात्मन्यधत्त
यदेषः पृष्ठ्यः षडहो भवति वीर्य एवान्ततः प्रतितिष्ठन्ति
तेन मासान् संव्वत्सरं प्राजनयद्यदेष मासो भवति संव्वत्सरमेव प्रजनयन्ति संव्वत्सरे प्रतितिष्ठन्ति
4.2
प्रायणीयमेतदहर्भवति
प्रायणीयेन वा अह्ना देवाः स्वर्गं लोकं प्रायन् यत् प्रायंस्तत् प्रायणीयस्य प्रायणीयत्वम्
तस्मात् प्रायणीयस्याह्न ऋत्विजा भवितव्यमेतद्धि स्वर्गस्य लोकस्य नेदिष्ठं य एतस्यर्त्विङ्न भवति हीयते स्वर्गाल्लोकात्
चतुर्विंशं भवति
चतुर्विंशत्यक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसमारभ्य प्रयन्ति
चतुर्विंशं भवति चतुर्विंशो वै संव्वत्सरः साक्षादेव संव्वत्सरमारभन्ते
यावत्यश्चतुर्विंशस्योक्थस्य स्तोत्रीयास्तावत्यः संव्वत्सरस्य रात्रयः स्तोत्रीयाभिरेव तत् संव्वत्सरमाप्नुवन्ति
पञ्चदशस्तोत्राणि भवन्ति पञ्चदशार्धमासस्य रात्रयोऽर्धमासश एव तत् संव्वत्सरमाप्नुवन्ति
पञ्चदश स्तोत्राणि पञ्चदशशस्त्राणि समासो मासश एव तत् संव्वत्सरमाप्नुवन्ति
तदाहुरीर्म इव वा एषा होत्रा यदच्छावाक्या यदच्छावाकमनुसंतिष्ठत ईश्वरेर्मा भवितोरिति यद्युक्थं स्मात्रैककुभञ्चोद्वंशीयञ्चान्ततः प्रतिष्ठाप्ये वीर्यं वा एते समनी वीर्य एवान्ततः प्रतितिष्ठन्ति
अथो खल्वाहुरग्निष्टोममेव कार्यमेष वै यज्ञः स्वर्ग्यो यदग्निष्टोम ऊर्ध्वो हि होतारमनुसंतिष्ठते
द्वादशस्तोत्राण्यग्निष्टोमो द्वादश मासाः संव्वत्सरस्तेन संव्वत्सरसंमितो द्वादश स्तोत्रणि द्वादश शस्त्राणि तच्चतुर्विंशतिश्चतुर्विंशतिरर्धमासाः संव्वत्सरस्तेन संव्वत्सरसंमितः
अथो खल्वाहुरुक्थमेव कार्यमह्नः समृद्ध्यै
सर्वाणि रूपाणि क्रियन्ते सर्वं ह्येताह्नाप्यते
पवन्ते वाजसातये सोमाः सहस्रपाजस इति सहस्रवती प्रतिपत् कार्या
संव्वत्सरस्य रूपं सर्वनेवैनानेतया पुनाति सर्वानभिवदति
अथो खल्वाहुः पवस्व वाचो अग्रिय इत्येव कार्या मुखं वा एतत् संव्वत्सरस्य यद्वाचोऽग्रं मुखत एव तत् संव्वत्सरमारभन्ते
मिथुनमिव वा एषा व्याहृतिः पवस्वेति पुंसो रूपं वाच इति स्त्रियाः सोमेति पुंसो रूपं चित्राभिरिति स्त्रिया मिथुनमेवैभ्यो यज्ञमुखे दधाति प्रजननाय
अग्ने युङ्क्ष्वा हि ये तवेति जराबोधीयमग्निष्टोम साम कार्यं युक्तेनैव संव्वत्सरेण प्रयन्ति चतुर्विंशत्यक्षरासु भवति चतुर्विंशस्य रूपम्
अथो खल्वाहुर्यज्ञायज्ञीयमेव कार्यम्
पन्था वै यज्ञायज्ञीयं पथ एव तन्न यन्ति
4.3
अभीवर्तो ब्रह्मसाम भवति
अभीवर्तेन वै देवाः स्वर्गं लोकमभ्यवर्तन्त यदभीवर्तो ब्रह्मसाम भवति स्वर्गस्य लोकस्याभिवृत्त्यै
एकाक्षरणिधनो भवत्येकाक्षरा वै वाग्वाचैव तदारभ्य स्वर्गं लोकं यन्ति
साम्नेतो यन्त्यृचा पुनरायन्ति
साम वै असौ लोक ऋगयं यदितः साम्ना यन्ति स्वर्गं लोकमारभ्य यन्ति यदृचा पुनरायन्त्यस्मिन् लोके प्रतितिष्ठन्ति
यत् सामावसृजेयुरव स्वर्गाल्लोकात् पद्येरन् यदृचमनुसृजेयुर्नश्येयुरस्माल्लोकात्
समानं साम भवत्यन्योऽन्यः प्रगाथोऽन्यदन्यद्धि चित्रमध्वानमवगच्छन्नेति
वृषा वा एष रेतोधा यदभीवर्तः प्रगाथेषु रेतो दधदेति यदितः समानं साम भवत्यन्योऽन्यः प्रगाथो रेत एव तद्दधति यत् परस्तात् समानः प्रगाथो भवत्यन्यदन्यत् साम रेत एव तद्धितं प्रजनयन्ति
साम्नेतः प्रगाथां दुग्धे प्रगाथेन परस्तात् सामानि दुग्धे सलोमत्वाय
यो वा अध्वानं पुनर्निवर्तयन्ति नैनं ते गच्छन्ति येऽपुनर्निवर्तं यन्ति ते गच्छति
य आस्तुतं कुर्वते यथा दुग्धामुपसीदेदेवं तत्
ये नास्तुतं यं कामं कामयन्ते तमभ्यश्नुवते
ब्रह्मवादिनो वदन्ति यातयामाः संव्वत्सरा३ अयातयामा३ इति ते नायातयामेति वक्तव्यं पुनरन्यानि स्तोत्राणि निवर्तन्त ऊर्ध्वमेव ब्रह्मसामैति
4.4
पञ्चसु माःसु बार्हताः प्रगाथा आप्यन्ते
तेष्वाप्तेषु छन्दसी संयुज्यैतव्यम्
तिस्र उष्णिहः स्युरेका गायत्री तास्तिस्रो बृहत्यो भवन्ति
तदाहुः संशर इव वा एष च्छन्दसां यद्द्वे छन्दसी संयुञ्जन्तीति
चतुरुत्तरैरेव च्छन्दोभिरेतव्यम्
पशवो वै चतुरुत्तराणि च्छन्दसांसि पशुभिरेव तत् स्वर्गं लोकमाक्रममानयन्ति
एकं गायत्रीमेकाहमुपेयुरेकामुष्णिहमेकाहमेकामनुष्टुभमेकाहं बृहत्या पञ्चमास इयुः पङ्क्तिम् एकाहमुपेयुस्त्रिष्टुभा षष्ठं मासमीयुः श्वो विषुवान् भवितेति जगतीमुपेयुः
तदाहुरनवकॢप्तानि वा एतानि च्छन्दांसि मध्यन्दिने बृहत्या चैव त्रिष्टुभा चैतव्यम्
एते वै छन्दसी वीर्यवती एते प्रत्यक्षं मध्यन्दिनस्य रूपम्
रथन्तरेऽहनि बृहती कार्यैतद्वै रथन्तरस्य स्वमायतनं यद्बृहती स्व एव तदायतने रथन्तरं प्रतितिष्ठति बार्हतेऽहनि त्रिष्टुप्कार्यैतद्वै बृहतः स्वमायतनं यत् त्रिष्टुप्स्व एव तदायतने बृहद्रथन्तरे प्रतितिष्ठन्ती इतः
त्रयस्त्रिंशता प्रगाथैरेतव्यं त्रयस्त्रिंशद्देवता देवतास्वेव प्रतितिष्ठन्तो यन्ति चतुर्विंशत्यैतव्यं चतुर्विंशतिरर्धमासाः संव्वत्सरः संव्वत्सर एव प्रतितिष्ठन्तो यन्ति द्वादशभिरेतव्यं द्वादश मासाः संव्वत्सरः संव्वत्सर एव प्रतितिष्ठन्तो यन्ति षड्भिरेतव्यं षडृतव ऋतुष्वेव प्रतितिष्ठन्तो यन्ति चतुर्भिरेतव्यं चतुष्पादाः पशवः पशुष्वेव प्रतितिष्ठन्तो यन्ति त्रिभिरेतव्यं त्रय इमे लोका एष्वेव लोकेषु प्रतितिष्ठन्तो यन्ति द्वाभ्यामेतव्यं द्विपाद्यजमानः स्वर्गस्य लोकस्याक्रान्त्या अन्येनान्येन हि पदा पुरुषः प्रतितिष्ठन्नेति
4.5
स्वरसामान एते भवन्ते
स्वर्भानुर्वा आसुरादित्यं तमसाविध्यत् तं देवाः स्वरैरस्पृण्वन् यत् स्वरसामानो भवन्त्यादित्यस्य स्पृत्यै
परैर्वै देवा आदित्यं स्वर्गं लोकमपारयन् यदपरयंस्तत् पराणां परत्वं
पारयन्त्येनं पराणि य एवंव्वेद
सप्तदशा भवन्ति
प्रजापतिर्वै सप्तदशः प्रजापतिमेवोपयन्ति
अनुष्टुप्छन्दसो भवन्त्यानुष्टुभो वै प्रजापतिः साक्षादेव प्रजापतिमारभन्ते
त्रयः पुरस्तात् त्रयः परस्ताद्भवन्ति
देवा वा आदित्यस्य स्वर्गाल्लोकादवपादादबिभयुस्तमेतैः स्तोमैः सप्तदशैरदृंहन् यदेते स्तोमाभवन्त्यादित्यस्य धृत्यै
चतुस्त्रिंशा भवन्ति वर्ष्म वै चतुस्त्रिंशो वर्ष्मणैवैनं संमिमते
तस्य पराचीनातिपादादबिभयुस्तं सर्वैः स्तोमैः +पर्यार्षन् विश्वजिदभिजिद्भ्यां वीर्यं वा एतौ स्तोमौ वीर्येणैव तदादित्यं पर्युषन्ति धृत्यै
अनवपादायानतिपादाय
तदाहुः कर्तप्रस्कन्द इव वा एष यत् त्रयस्त्रिंशत+ः सप्तदशमुपयन्तीति पृष्ठ्योऽन्तरः कार्यः
तस्य यत् सप्तदशमहस्तदुत्तमं कार्यं सलोमत्वाय
तदाहुरुदरं वा एष स्तोमानां यत् सप्तदशो यत् सप्तदशं मध्यतो निर्हरेयुरशनायवः प्रजाः स्युरशनायवः सत्त्रिणः
त्रयस्त्रिंशादेव सप्तदश उपेत्यो वर्ष्म वै त्रयस्त्रिंशो वर्ष्म सप्तदशो वर्ष्मण एव तद्वर्ष्माभिसंक्रामन्ति
नानाहुरुक्थाः कार्या३ इति यद्युक्थाः स्युः
पशवो वा उक्थानि शान्तिः पशवः शान्तेनैव तद्विषुवन्तमुपयन्ति
तदाहुर्विवीवधमिव वा एतद्यदग्निष्टोमो विषुवानग्निष्टोमौ विश्वजिदभिजितावथेतर उक्थाः स्युरिति
अग्निष्टोमा एव सर्वे कार्याः
वीर्यं वा अग्निष्टोमो वीर्य एव मध्यतः प्रतितिष्ठन्ति नव संस्तुता भवन्ति नव प्राणाः प्रणेष्वेव प्रतितिष्ठन्ति
4.6
विषुवानेष भवति
देवलोको वा एष यद्विषुवान् देवओकमेव तदभ्यारोहन्ति
एकविंशो भवत्येकविंशो वा अस्य भुवनस्यादित्य आदित्यलोकमेव तदभ्यारोहन्ति
द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः
मध्यत एव यज्ञस्य प्रतितिष्ठन्ति
वायो शुक्रो अयामि त इति शुक्रवती प्रतिपद्भवत्यादित्यस्य रूपम्
वायुर्वा एतं देवतानामानशेऽनुष्टुप्छन्दसं यदतोऽन्या प्रतिपत् स्यात् प्रदहेत्
यन्ति वा एते प्राणादित्याहुर्ये गायत्र्याः प्रतिपदो यन्तीति यद्वयव्या भवन्ति तेन प्राणान्न यन्ति प्राणो हि वायुः
अथो शमयन्त्येवैनमेतया शन्तिर्हि वायुः
आ याहि सोमपीतय इति सौमी पावमानी
नियुत्वती भवति पशवो वै नियुतः शान्तिः पशवः शान्तेनैव तदादित्यमुपयन्ति
दिवाकीर्त्यसामा भवति
स्वर्भानुर्वा आसुरादित्यं तमसाविध्यत् तस्य देवा दिवाकीर्त्यैस्तमोऽपाघ्नन् यद्दिवाकीर्त्यानि भवन्ति तम एवास्मादपघ्नन्ति रश्मयो वा एत आदित्यस्य यद्दिवाकीर्त्यानि रश्मिभिरेव तदादित्यं साक्षादारभन्ते
भ्राजाभ्राजे पवमानमुखे भवतो मुखत एवास्य ताभ्यां तमोऽपघ्नन्ति
महादिवाकीर्त्यं च विकर्णं च मध्यतो भवतो मध्यत एवास्य ताभ्यां तमोऽपघ्नन्ति भासमन्ततो भवति पत्त एवास्य तेन तमोऽपघ्नन्ति
दशस्तोभं भव्ति दशाक्षरा विराड्विराज्येव प्रतितिष्ठन्ति
यत् त्वित्याहुः षड्भिरितो मासैरध्वानं यन्ति षड्भिः पुनरायन्ति क्व तर्हि स्वर्गो लोको यस्य कामाय सत्त्रमासत इति
मूर्धानं दिव इति स्वर्गं लोकमारभन्ते
अरतिं पृथिव्या इत्यस्मिं लोके प्रतितिष्ठन्ति
वैश्वानरमृत आजातमग्निमिति विषुवत एव तद्रूपं क्रियते
कविं सम्राजमतितिहिं जनानामित्यन्नाद्यमेवोपयन्ति
आसन्नापात्रं जनयन्त देवा इति जायन्त एव
तत् त्रिष्टुब्जगतीषु भवति त्रैष्टुभ्जागतो वा आदित्यो यदतोऽन्यासु स्यादव स्वर्गाल्लोकात् पद्येरन्
सम्राड्वतीषु भवति साम्राज्यं वै स्वर्गो लोकः स्वर्ग एव लोके प्रतितिष्ठन्ति
4.7
आत्मा वा एष संव्वत्सरस्य यद्विषुवान् पक्षावेतावभितो भवतो येन चेतोऽभीवर्तेन यन्ति यश्च परस्मात् प्रगाथो भवति तावुभौ विषुवति कार्यौ पक्षावेव तद्यज्ञस्यात्मन् प्रतिदधति स्वर्गस्य लोकस्य समष्ट्यै
इन्द्र क्रतुं न आभरेति प्रगाथो भवति
वसिष्ठो वा एतं पुत्रहतोऽपश्यत् स प्रजया पशुभिः प्राजायत यदेष प्रगाथो भवति प्रजात्यै
जीवा ज्योतिरशीमहीति ये वै स्वस्ति संव्वत्सरं संतरन्ति ते जीवा ज्योतिरश्नुवते
मानो अज्ञाता वृजना दुराध्यो माशिवासोऽवक्रमुरिति ये वै स्तेना रिपवस्ते दुराध्यस्तानेव तदतिक्रामति
त्वया व्ययं प्रवतः शश्वतीरपोऽति शूर तराम सोऽतिसंव्वत्सरो वै प्रवतः शश्वतीरपस्तमेव तत् तरन्ति
अद्याद्याश्वः श्वस्त्वामिदा ह्यो नरो वयमेनमिदा ह्य इति संतनयः प्रगाथा भवन्ति तेषामेकः कार्यः सलोमत्वाय श्वस्तनमेवाभिसंतन्वन्ति
अथो खल्वाहुरिन्द्र क्रतुं न आभरेत्येव कार्यं समृद्ध्यै
प्रत्यवरोहिणो मासा भवन्ति
यथा वा इतो वृक्षं रोहन्त्येवमेनं प्रत्यवरोहन्ति स्वर्गमेव लोकं रूढ्वास्मिंल्लोके प्रतितिष्ठन्ति
4.8
गौश्चायुश्च स्तोमौ भवतः
द्विपाद्यजमानः प्रतिष्ठित्यै
ऊनातिरिक्तौ भवत ऊनातिरिक्तं वा अनु प्रजाः प्रजायन्ते प्रजात्यै
वैराजौ भवतोऽन्नं विराडन्नाद्य एव प्रतितिष्ठन्ति
द्वादशाहस्य दशाहानि भवन्ति
विराड्वा एषा समृद्धा यद्दशाहानि विराज्येव समृद्धायां प्रतितिष्ठन्ति
पृष्ठानि भवन्ति वीर्यं वै पृष्ठानि वीर्य एव प्रतितिष्ठन्ति च्छन्दोमा भवन्ति पशवो वै च्छन्दोमाः पशुष्वेव प्रतितिष्ठन्त्यथैतद्दशममहराप्तस्तोममाप्तच्छन्द आप्तविभक्तिकमनिरुक्तं प्राजापत्यम्
यदध्याहुरति तद्रेचयन्ति तस्मान्न व्युच्यम्
परोक्षमनुष्टुभमुपयन्ति प्रजापतिर्वा अनुष्टुब्यत् प्रत्यक्षमुपेयुः प्रजापतिमृच्छेयुः
यो वै सत्त्रस्य सद्वेद सद्भवति वामदेव्यं वै साम्नां सदग्निर्देवतानां विराट्छन्दसां त्रयस्त्रिंशः स्तोमानां तान्येव तदेकधा संभृत्योत्तिष्ठन्ति
ब्रह्मवादिनो वदन्ति यतः सत्त्रादुदस्थाता३ थिता३ इति
ये रथन्तरेण स्तुत्वोत्तिष्ठन्ति ते यत उत्तिष्ठन्ति तान् ब्रूयादप्रतिष्ठाना भविष्यन्तीति ये बृहता स्तुत्योत्तिष्ठन्ति ते स्थितादुत्तिष्ठन्ति तान् ब्रूयात् स्थायुकैषां श्रीर्भविष्यति न वसीयांसो भविष्यन्तीति
ये वामदेव्येन स्तुत्वोत्तिष्ठन्ति ते सतः सदभ्युत्तिष्ठन्ति पूर्णात् पूर्णमायतनादायतनमन्तरिक्षायतना हि प्रजा
त्रयस्त्रिंशदक्षरासु भवति त्रयस्त्रिंशद्देवतास्वेव प्रतिष्ठायोत्तिष्ठन्ति
प्राजापत्यं वै वामदेव्यं प्रजापतावेव प्रतिष्ठायोत्तिष्ठन्ति पशवो वै वामदेव्यं पशुष्वेव प्रतिष्ठायोत्तिष्ठन्ति
4.9
पत्नीः संयाज्य प्राञ्च उदेत्यायं सहस्रमानव इत्यतिच्छन्दसाहवनीयमुपतिष्ठन्ते
इमे वै लोका अतिच्छन्दा एष्वेव लोकेषु प्रतितिष्ठन्ति
गोरिति निधनं भवति विराजो वा एतद्रूपं यद्गौर्विराज्येव प्रतितिष्ठन्ति
प्रत्यञ्चः प्रपद्य सार्पराज्ञ्या ऋग्भिः स्तुवन्ति
अर्बुदः सर्प एताभिर्मृतां त्वचमपाहत मृतामेवैताभिस्त्वचमपघ्नते
इयं वै सार्पराज्ञ्यस्यामेव प्रतितिष्ठन्ति
तिसृभिः स्तुवन्ति त्रय इमे लोका एष्वेव प्रतितिष्ठन्ति
मनसोपावर्तयति
मनसा हिङ्करोति मनसा प्रस्तौति मनसोद्गायति मनसा प्रतिहरति मनसा निधनमुपयन्त्यसमाप्तस्य समाप्त्यै
यद्वै वाचा न समाप्नुवन्ति मनसा तत् समाप्नुवन्ति
परिश्रिते स्तुवन्ति ब्रह्मणः परिगृहीत्यै
ब्रह्मोद्यं वदन्ति ब्रह्मवर्चस एव प्रतितिष्ठन्ति
चतुर्होतारं होता व्याचष्टे स्तुतमेव तदनुशंसति नहि तत् स्तुतं यदननुशस्तम्
प्रजापतिं परिवदन्त्याप्त्वेवैनं तद्व्याचक्षते तावदापामैनमिति
गृहपतिरौदुम्बरीं धारयति गृहपतिर्वा ऊर्जो यन्तोर्जमेवैभ्यो यच्छति
वाचं यच्छन्ति
दुग्धानीव वै तर्हि छन्दसांसि यातयामान्यन्तर्गतानि तान्येव तद्रसेनाप्याययन्ति
अथो श्वस्तनमेवाभिसंतन्वन्ति
आत्मदक्षिणं वा एतद्यत् सत्त्रम्
यदा वै पुरुष आत्मनोऽवद्यति यं कामं कामयते तमभ्यश्नुते
द्वाभ्यां लोमावद्यति द्वाभ्यां त्वचं द्वाभ्यां मांसं द्वाभ्यामस्थि द्वाभ्यां मज्जानं द्वाभ्यां पीवश्च लोहितं च
शिखा अनुप्रवपन्ते पाप्मानमेव तदपघ्नते लघीयांसः स्वर्गं लोकमयामेति
अथो गवामेवानुरूपा भवन्ति सर्वस्यान्नाद्यस्यावरुद्ध्यै
4.10
प्रजापतिः प्रजा असृजत सोऽरिच्यत सोऽपद्यत तं देवा अभिसमगच्छन्त तेऽब्रुवन्महदस्मै व्रतं संभराम यदिमं धिनवदिति तस्मै यत् संव्वत्सरमन्नं पच्यते तत् समभरंस्तदस्मै प्रायच्छंस्तदव्रजयत् तदेनमधिनोन्महन्मर्या व्रतं यदिममधिन्वीदिति तन्महाव्रतस्य महाव्रतत्वम्
प्रजापतिर्वाव महांस्तस्यैतद्व्रतमन्नमेव
तदाहुर्मध्यः संव्वत्सरस्योपेत्यं मध्यतो वा अन्नं जग्धं धिनोति
तद्वाहुर्यन्मध्यत उपयन्त्यर्धमन्नाद्यस्याप्नुवन्त्यर्धं सम्बट्कुर्वन्तीत्युपरिष्टादेव संव्वत्सरस्योपेत्यं संव्वत्सरे वा अन्नं सर्वं पच्यते
चतुर्विंशं भवति चतुर्विंशो वै संव्वत्सरोऽन्नं पञ्चविंशम्
यद्वा अदश्चतुर्विंशंप्रायणीयं तदेतदुदयनीयम्
यत् संव्वत्सरमन्नं संभरन्ति सैषा पञ्चविंश्युपजायते


४.१.१ गवामयननामनिर्व्वचनं

गावो वा एतत्सत्त्रं आसत तासां दशसु मास्सु शृङ्गण्यजायन्त ता अब्रुवन्नराः स्मोत्तिष्ठामोपशा नोऽज्ञतेति ता उदतिष्ठन्

४.१.२ द्वादशमासनिर्वर्त्त्यगवामयनं

तासां त्वेवाब्रुवन्नासामहा एवेमौ द्वादशौ मासौ संसंव्वत्सरं आपयामेति तासां द्वादशसु माःसु शृङ्गाणि प्रावर्तन्त ताः सर्वं अन्नाद्यं आप्नुवंस्ता एतास्तूपरास्तस्मात्ताः सर्वान्द्वादशमासः प्रेरते सर्वं हि ता अन्नाद्यं आप्नुवन्

४.१.३ उक्तार्थं जानतः फलं

सर्वं अन्नाद्यं आप्नोति य एवंव्वेद

४.१.४ तस्य प्रथमाहर्विधानं

प्रजापतिर्वा इदं एक आसीत्सोऽकामयत बहु स्यां प्रजायेयेति स एतं अतिरात्रं अपश्यत्तं आहरत्तेनाहोरात्रे प्राजनयत्

४.१.५ अतिरात्रविधानं

यदेषोऽतिरात्रो भवत्यहोरात्रे एव प्रजनयन्त्यहोरात्रयोः प्रतितिष्ठन्त्येतावान्वाव संव्वत्सरो यदहस्च रात्रिश्चाहोरात्राभ्यां एव तत्संव्वत्सरं आप्नुवन्ति

४.१.६ तस्य प्रशंसा

यज्ज्योतिष्टोमो भवति यज्ञमुखं तदृध्नुवन्ति यदुक्थो यज्ञक्रतोरनन्तरयाय यद्रात्रिः सर्वस्याप्त्यै

४.१.७ अभिप्लविकत्र्यहविधानं

स एतान्स्तोमानपश्यत्ज्योतिर्गौरायुरितीमे वै लोका एते स्तोमा अयं एव ज्योतिरयं मध्यमो गौरसावुत्तम आयुः

४.१.८ त्र्यहविवरणं

यदेते स्तोमा भवन्तीमानेव लोकान्प्रजनयन्त्येषु लोकेषु प्रतितिष्ठन्ति

४.१.९ उत्तरत्र्यहविधानं

स एतं त्र्यहं पुनः प्रायुङ्क्त तेन षडहेन षट्क्रतून्प्राजनयत्

४.१.१० पूर्वत्र्यहेन उत्तरत्र्यहयोजनं

यदेष षडहो भवति ऋतूनेव प्रजनयन्ति ऋतुषु प्रतितिष्ठन्ति

४.१.११ द्वितीयषडहविधानं

स एतं षडहं पुनः प्रायुङ्क्त ताभ्यां द्वाभ्यां षडहाभ्यां द्वादशमासः प्राजनयत्

४.१.१२ प्रथमषडहेन द्वितीयषडहसमुच्चयः

यदेतौ षडहौ भवतो मासानेव प्रजनयन्ति मासेषु प्रतितिष्ठन्ति

४.१.१३ तृतीयचतुर्थ षडहविधानं

स एतौ द्वौ षडहौ पुनः प्रयुङ्क्त तैश्चतुर्भिः षडहैश्चतुर्विंशतिं अर्धमासान्प्राजनयत्

४.१.१४ तृतीयचतुर्थषडहद्वयविधानं

यदेते चत्वारः षडहा भवन्त्यर्धमासानेव प्रजनयन्त्यर्धमासेषु प्रतितिष्ठन्ति

४.१.१५ पञ्चषष्ठषडहविधानं

स इदं भुवनं प्रजनयित्व पृष्ठ्येन षडहेन वीर्यं आत्मन्यधत्त

४.१.१६ पृष्ठ्यषडहविधानं

यदेषः पृष्ठ्यः षडहो भवति वीर्य एवान्ततः प्रतितिष्ठन्ति

४.१.१७ तस्य स्तुतिः

तेन मासान्संव्वत्सरं प्राजनयद्यदेष मासो भवति संव्वत्सरं एव प्रजनयन्ति संव्वत्सरे प्रतितिष्ठन्ति

४.२.१ चतु्र्व्विंशद्वितीयाहर्व्विधानं

प्रायणीयं एतदहर्भवति

४.२.२ उक्तमहर्नामनिर्व्वचनद्वारा प्रशंसनं

प्रायणीयेन वा अह्ना देवाः स्वर्गं लोकं प्रायन्यत्प्रायंस्तत्प्रायणीयस्य प्रायणीयत्वम्

४.२.३ अस्याह्नः सत्रिणः ऋत्विगभावः

तस्मात्प्रायणीयस्याह्न ऋत्विजा भवितव्यं एतद्धि स्वर्गस्य लोकस्य नेदिष्ठं य एतस्यर्त्विङ्न भवति हीयते स्वर्गाल्लोकात्

४.२.४ अस्मिन् स्तोमविधानं

चतुर्विंशं भवति

४.२.५ तस्य प्रशंसा

चतुर्विंशत्यक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसं आरभ्य प्रयन्ति

४.२.६ स्तोममनूद्य प्रशंसति

चतुर्विंशं भवति चतुर्विंशो वै संव्वत्सरः साक्षादेव संव्वत्सरं आरभन्ते

४.२.७ स्त्रोत्रीयागतसंख्याद्वारास्य प्रशंसा

यावत्यश्चतुर्विंशस्योक्थस्य स्तोत्रीयास्तावत्यः संव्वत्सरस्य रात्रयः स्तोत्रीयाभिरेव तत्संव्वत्सरं आप्नुवन्ति

४.२.८ स्तोत्रसंख्यया तत्प्रशंसा

पञ्चदशस्तोत्राणि भवन्ति पञ्चदशार्धमासस्य रात्रयोऽर्धमासश एव तत्संव्वत्सरं आप्नुवन्ति

४.२.९ स्तोत्रशस्त्रसमुच्चयेन तत्प्रशंसा

पञ्चदश स्तोत्राणि पञ्चदशशस्त्राणि समासो मासश एव तत्संव्वत्सरं आप्नुवन्ति

४.२.१० दोषपरिहाराय सामद्वयविधानं

तदाहुरीर्म इव वा एषा होत्रा यदच्छावाक्या यदच्छावाकं अनुसंतिष्ठत ईश्वरेर्मा भवितोरिति यद्युक्थं स्मात्रैककुभञ्चोद्वंशीयञ्चान्ततः प्रतिष्ठाप्ये वीर्यं वा एते समनी वीर्य एवान्ततः प्रतितिष्ठन्ति

४.२.११ अग्निष्टोमसंस्था

अथो खल्वाहुरग्निष्टोमं एव कार्यं एष वै यज्ञः स्वर्ग्यो यदग्निष्टोम ऊर्ध्वो हि होतारं अनुसंतिष्ठते

४.२.१२ संवत्सरावाप्तिफलमाह

द्वादशस्तोत्राण्यग्निष्टोमो द्वादश मासाः संव्वत्सरस्तेन संव्वत्सरसंमितो द्वादश स्तोत्रणि द्वादश शस्त्राणि तच्चतुर्विंशतिश्चतुर्विंशतिरर्धमासाः संव्वत्सरस्तेन संव्वत्सरसंमितः

४.२.१३ उक्थसंस्थासिद्धान्तमाह

अथो खल्वाहुरुक्थं एव कार्यं अह्नः समृद्ध्यै

४.२.१४ उक्थसंस्थाङ्गीकारे युक्त्यन्तरमाह

सर्वाणि रूपाणि क्रियन्ते सर्वं ह्येताह्नाप्यते

४.२.१५ आद्यस्तोत्रीयाविधानं

पवन्ते वाजसातये सोमाः सहस्रपाजस इति सहस्रवती प्रतिपत्कार्या

४.२.१६ तस्याः प्रशंसा

संव्वत्सरस्य रूपं सर्वनेवैनानेतया पुनाति सर्वानभिवदति

४.२.१७ स्वाभिमतं पक्षमाह

अथो खल्वाहुः पवस्व वाचो अग्रिय इत्येव कार्या मुखं वा एतत्संव्वत्सरस्य यद्वाचोऽग्रं मुखत एव तत्संव्वत्सरं आरभन्ते

४.२.१८ एषा प्रजननहेतुत्वात् प्रशस्ता

मिथुनं इव वा एषा व्याहृतिः पवस्वेति पुंसो रूपं वाच इति स्त्रियाः सोमेति पुंसो रूपं चित्राभिरिति स्त्रिया मिथुनं एवैभ्यो यज्ञमुखे दधाति प्रजननाय

४.२.१९ ब्राह्मणान्तरसिद्धसामकथनं

अग्ने युङ्क्ष्वा हि ये तवेति जराबोधीयं अग्निष्टोम साम कार्यं युक्तेनैव संव्वत्सरेण प्रयन्ति चतुर्विंशत्यक्षरासु भवति चतुर्विंशस्य रूपम्

४.२.२० स्वाभिमते सिद्धान्तमाह

अथो खल्वाहुर्यज्ञायज्ञीयं एव कार्यम्

४.२.२१ अस्य पक्षस्य प्रशंसा

पन्था वै यज्ञायज्ञीयं पथ एव तन्न यन्ति

४.३.१ पृष्ठस्तोत्रनिवर्त्तकं साम

अभीवर्तो ब्रह्मसाम भवति

४.३.२ तस्य नामनिर्व्वचनेन प्रशंसा

अभीवर्तेन वै देवाः स्वर्गं लोकं अभ्यवर्तन्त यदभीवर्तो ब्रह्मसाम भवति स्वर्गस्य लोकस्याभिवृत्त्यै

४.३.३ विकृतनिधनानुवादेनास्य प्रशंसा

एकाक्षरणिधनो भवत्येकाक्षरा वै वाग्वाचैव तदारभ्य स्वर्गं लोकं यन्ति

४.३.४ तदुभयविधानं

साम्नेतो यन्त्यृचा पुनरायन्ति

४.३.५ तयोरुपपादनं

साम वै असौ लोक ऋगयं यदितः साम्ना यन्ति स्वर्गं लोकं आरभ्य यन्ति यदृचा पुनरायन्त्यस्मिन्लोके प्रतितिष्ठन्ति

४.३.६ उभयप्रशंसनं

यत्सामावसृजेयुरव स्वर्गाल्लोकात्पद्येरन्यदृचं अनुसृजेयुर्नश्येयुरस्माल्लोकात्

४.३.७ उभयमनूद्य प्रशंसति

समानं साम भवत्यन्यो-ऽन्यः प्रगाथोऽन्यद्-अन्यद्धि चित्रं अध्वानं अवगच्छन्नेति

४.३.८ प्रजननहेतुत्वेनास्य प्रशंसा

वृषा वा एष रेतोधा यदभीवर्तः प्रगाथेषु रेतो दधदेति यदितः समानं साम भवत्यन्यो-ऽन्यः प्रगाथो रेत एव तद्दधति यत्परस्तात्समानः प्रगाथो भवत्यन्यद्-अन्यत्साम रेत एव तद्धितं प्रजनयन्ति

४.३.९ प्रकारान्तरेणास्य प्रशंसा

साम्नेतः प्रगाथां दुग्धे प्रगाथेन परस्तात्सामानि दुग्धे सलोमत्वाय

४.३.१० तृचसाम्नामनावृत्तिप्रशंसा

यो वा अध्वानं पुनर्निवर्तयन्ति नैनं ते गच्छन्ति येऽपुनर्निवर्तं यन्ति ते गच्छति

४.३.११ प्रयुक्तस्य पुनः प्रयोगे दोषमाह

य आस्तुतं कुर्वते यथा दुग्धां उपसीदेदेवं तत्

४.३.१२ व्यतिरेकमुखेनास्य दृढीकरणं

ये नास्तुतं यं कामं कामयन्ते तं अभ्यश्नुवते

४.३.१३ उक्तार्थनियमनं

ब्रह्मवादिनो वदन्ति यातयामाः संव्वत्सरा३ अयातयामा३ इति ते नायातयामेति वक्तव्यं पुनरन्यानि स्तोत्राणि निवर्तन्त ऊर्ध्वं एव ब्रह्मसामैति

४.४.१ के ते प्रगाथास्तोत्रीया इत्याह

पञ्चसु माःसु बार्हताः प्रगाथा आप्यन्ते

४.४.२ त्रयोदशसु अहःसु कथं प्रगाथलाभः

तेष्वाप्तेषु छन्दसी संयुज्यैतव्यम्

४.४.३ के ते छन्दसी इत्यत आह

तिस्र उष्णिहः स्युरेका गायत्री तास्तिस्रो बृहत्यो भवन्ति

४.४.४ छन्दःसंयोगे पूर्व्वोक्तदोषकथनं

तदाहुः संशर इव वा एष च्छन्दसां यद्द्वे छन्दसी संयुञ्जन्तीति

४.४.५ न्यूनाहःपूरणं

चतुरुत्तरैरेव च्छन्दोभिरेतव्यम्

४.४.६ चतुरत्तरप्रायपक्षप्रशंसा

पशवो वै चतुरुत्तराणि च्छन्दसांसि पशुभिरेव तत्स्वर्गं लोकं आक्रमं आनयन्ति

४.४.७ चतुरुत्तरस्य स्थानान्याह

एकं गायत्रीं एकाहं उपेयुरेकामुष्णिहं एकाहं एकां अनुष्टुभं एकाहं बृहत्या पञ्चमास इयुः पङ्क्तिं एकाहं उपेयुस्त्रिष्टुभा षष्ठं मासं ईयुः श्वो विषुवान्भवितेति जगतीं उपेयुः

४.४.८ अस्य पक्षस्य निन्दापूर्व्वकं पक्षान्तरमाह

तदाहुरनवक्ळ्प्तानि वा एतानि च्छन्दांसि मध्यन्दिने बृहत्या चैव त्रिष्टुभा चैतव्यम्

४.४.९ गायत्रीपरित्यागेनेतरयोर्ग्रहणे कारणमाह

एते वै छन्दसी वीर्यवती एते प्रत्यक्षं मध्यन्दिनस्य रूपम्

४.४.१० अनयोर्नियमानियमयोर्निरूपणं

रथन्तरेऽहनि बृहती कार्यैतद्वै रथन्तरस्य स्वं आयतनं यद्बृहती स्व एव तदायतने रथन्तरं प्रतितिष्ठति बार्हतेऽहनि त्रिष्टुप्कार्यैतद्वै बृहतः स्वं आयतनं यत्त्रिष्टुप्स्व एव तदायतने बृहद्रथन्तरे प्रतितिष्ठन्ती इतः

४.४.११ अन्यसप्तपक्षप्रदर्शनं

त्रयस्त्रिंशता प्रगाथैरेतव्यं त्रयस्त्रिंशद्देवता देवतास्वेव प्रतितिष्ठन्तो यन्ति चतुर्विंशत्यैतव्यं चतुर्विंशतिरर्धमासाः संव्वत्सरः संव्वत्सर एव प्रतितिष्ठन्तो यन्ति द्वादशभिरेतव्यं द्वादश मासाः संव्वत्सरः संव्वत्सर एव प्रतितिष्ठन्तो यन्ति षड्भिरेतव्यं षडृतव ऋतुष्वेव प्रतितिष्ठन्तो यन्ति चतुर्भिरेतव्यं चतुष्पादाः पशवः पशुष्वेव प्रतितिष्ठन्तो यन्ति त्रिभिरेतव्यं त्रय इमे लोका एष्वेव लोकेषु प्रतितिष्ठन्तो यन्ति द्वाभ्यां एतव्यं द्विपाद्यजमानः स्वर्गस्य लोकस्याक्रान्त्या अन्येनान्येन हि पदा पुरुषः प्रतितिष्ठन्नेति

४.५.१ अभिजिद्विषुवन्मध्यगतस्वरसामविधानं

स्वरसामान एते भवन्ते

४.५.२ स्वरसंख्यापूर्व्वकस्तुतिः

स्वर्भानुर्वा आसुरादित्यं तमसाविध्यत्तं देवाः स्वरैरस्पृण्वन्यत्स्वरसामानो भवन्त्यादित्यस्य स्पृत्यै

४.५.३ एतेषां परसंज्ञाप्रशंसनं

परैर्वै देवा आदित्यं स्वर्गं लोकं अपारयन्यदपरयंस्तत्पराणां परत्वं

४.५.४ एतज्ज्ञानप्रशंसा

पारयन्त्येनं पराणि य एवंव्वेद

४.५.५ स्वरसामस्तोमविधानं

सप्तदशा भवन्ति

४.५.६ तस्य प्रशंसा

प्रजापतिर्वै सप्तदशः प्रजापतिं एवोपयन्ति

४.५.७ प्रशंसान्तरं

अनुष्टुप्छन्दसो भवन्त्यानुष्टुभो वै प्रजापतिः साक्षादेव प्रजापतिं आरभन्ते

४.५.८ स्वरसाम्नामनुष्ठानस्थानं

त्रयः पुरस्तात्त्रयः परस्ताद्भवन्ति

४.५.९ अनुष्ठानस्थानप्रशंसा

देवा वा आदित्यस्य स्वर्गाल्लोकादवपादादबिभयुस्तं एतैः स्तोमैः सप्तदशैरदृंहन्यदेते स्तोमाभवन्त्यादित्यस्य धृत्यै

४.५.१० प्रकारान्तरप्रशंसा

चतुस्त्रिंशा भवन्ति वर्ष्म वै चतुस्त्रिंशो वर्ष्मणैवैनं संमिमते

४.५.११ प्रशंसान्तरं

तस्य पराचीनातिपादादबिभयुस्तं सर्वैः स्तोमैः +पर्यार्षन्विश्वजिदभिजिद्भ्यां वीर्यं वा एतौ स्तोमौ वीर्येणैव तदादित्यं पर्युषन्ति धृत्यै

४.५.१२ उक्तोपसंहारः

अनवपादायानतिपादाय

४.५.१३ तस्य दोषदृष्ट्या पक्षान्तरोपन्यासः

तदाहुः कर्तप्रस्कन्द इव वा एष यत्त्रयस्त्रिंशत+ः सप्तदशं उपयन्तीति पृष्ठ्योऽन्तरः कार्यः

४.५.१४ उक्तदोषापरिहारे पक्षान्तरोपन्यासः

तस्य यत्सप्तदशं अहस्तदुत्तमं कार्यं सलोमत्वाय

४.५.१५ पूर्व्वपक्षनिरसनं

तदाहुरुदरं वा एष स्तोमानां यत्सप्तदशो यत्सप्तदशं मध्यतो निर्हरेयुरशनायवः प्रजाः स्युरशनायवः सत्त्रिणः

४.५.१६ तत्र कर्त्तव्यताकथनं

त्रयस्त्रिंशादेव सप्तदश उपेत्यो वर्ष्म वै त्रयस्त्रिंशो वर्ष्म सप्तदशो वर्ष्मण एव तद्वर्ष्माभिसंक्रामन्ति

४.५.१७ सामसंख्यानिर्णयाय ब्रह्मवादिविचारः

नानाहुरुक्थाः कार्या३ इति यद्युक्थाः स्युः

४.५.१८ उक्थगुणनिर्णयः

पशवो वा उक्थानि शान्तिः पशवः शान्तेनैव तद्विषुवन्तं उपयन्ति

४.५.१९ उक्तपक्षस्य दोषप्रदर्शनं

तदाहुर्विवीवधं इव वा एतद्यदग्निष्टोमो विषुवानग्निष्टोमौ विश्वजिदभिजितावथेतर उक्थाः स्युरिति

४.५.२० दोषप्रदर्शनान्तरं

अग्निष्टोमा एव सर्वे कार्याः

४.५.२१ उक्तस्य प्रशंसा

वीर्यं वा अग्निष्टोमो वीर्य एव मध्यतः प्रतितिष्ठन्ति नव संस्तुता भवन्ति नव प्राणाः प्रणेष्वेव प्रतितिष्ठन्ति

४.६.१ गवामयनस्य विषुवदहःप्रदर्शनं।

विषुवानेष भवति

४.६.२ तस्य स्तुतिः ।

देवलोको वा एष यद्विषुवान्देवओकं एव तदभ्यारोहन्ति

४.६.३ तस्मिन्नहनि स्तोमविधानं

एकविंशो भवत्येकविंशो वा अस्य भुवनस्यादित्य आदित्यलोकं एव तदभ्यारोहन्ति

४.६.४ आदित्यस्यैतल्लोकापेक्षयैकविंशत्वं

द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः

४.६.५ एकविंशस्तोमफलं

मध्यत एव यज्ञस्य प्रतितिष्ठन्ति

४.६.६ अस्मिन्नहनि बहिष्पवमानस्य प्रतिपदः

वायो शुक्रो अयामि त इति शुक्रवती प्रतिपद्भवत्यादित्यस्य रूपम्

४.६.७ सर्व्वेष्वहःसु अनुष्टुप् विधानं

वायुर्वा एतं देवतानां आनशेऽनुष्टुप्छन्दसं यदतोऽन्या प्रतिपत्स्यात्प्रदहेत्

४.६.८ तस्याः प्रशंसनं

यन्ति वा एते प्राणादित्याहुर्ये गायत्र्याः प्रतिपदो यन्तीति यद्वयव्या भवन्ति तेन प्राणान्न यन्ति प्राणो हि वायुः

४.६.९ तस्या अपरगुणविधानं

अथो शमयन्त्येवैनं एतया शन्तिर्हि वायुः

४.६.१० पवमानस्य वायव्योपपत्तिः

आ याहि सोमपीतय इति स्ॐई पावमानी

४.६.११ तस्य शान्तिहेतुत्वेन प्रशंसा

नियुत्वती भवति पशवो वै नियुतः शान्तिः पशवः शान्तेनैव तदादित्यं उपयन्ति

४.६.१२ अस्मिन्नहनि सामविधानं

दिवाकीर्त्यसामा भवति

४.६.१३ दिवाकीर्त्त्यं सामत्वेनास्य प्रशंसनं

स्वर्भानुर्वा आसुरादित्यं तमसाविध्यत्तस्य देवा दिवाकीर्त्यैस्तमोऽपाघ्नन्यद्दिवाकीर्त्यानि भवन्ति तम एवास्मादपघ्नन्ति रश्मयो वा एत आदित्यस्य यद्दिवाकीर्त्यानि रश्मिभिरेव तदादित्यं साक्षादारभन्ते

४.६.१४ दिवाकीर्त्त्यंसामभिस्तमोऽपहननं

भ्राजाभ्राजे पवमानमुखे भवतो मुखत एवास्य ताभ्यां तमोऽपघ्नन्ति

४.६.१५ अन्येषामपि त्रयाणां साम्नां तमोऽपहननत्वं

महादिवाकीर्त्यं च विकर्णं च मध्यतो भवतो मध्यत एवास्य ताभ्यां तमोऽपघ्नन्ति भासं अन्ततो भवति पत्त एवास्य तेन तमोऽपघ्नन्ति

४.६.१६ अग्निष्टोमत्वेन भासप्रशंसनं

दशस्तोभं भव्ति दशाक्षरा विराड्विराज्येव प्रतितिष्ठन्ति

४.६.१७ भासस्य स्तुतिमन्त्रः

यत्त्वित्याहुः षड्भिरितो मासैरध्वानं यन्ति षड्भिः पुनरायन्ति क्व तर्हि स्वर्गो लोको यस्य कामाय सत्त्रं आसत इति

४.६.१८ तस्योत्तरमाह

मूर्धानं दिव इति स्वर्गं लोकं आरभन्ते

४.६.१९ सत्रावसाने मृतानां प्रतिष्ठानं

अरतिं पृथिव्या इत्यस्मिं लोके प्रतितिष्ठन्ति

४.६.२० स्तोत्रीयस्य तृचो विषुवरूपत्वं

वैश्वानरं ऋत आजातं अग्निं इति विषुवत एव तद्रूपं क्रियते

४.६.२१ अतिथिशब्देनान्नाद्यप्राप्तिः

कविं सम्राजं अतितिहिं जनानां इत्यन्नाद्यं एवोपयन्ति

४.६.२२ पदप्रयोगफलं

आसन्नापात्रं जनयन्त देवा इति जायन्त एव

४.६.२३ विहिताहःप्रशंसनं

तत्त्रिष्टुब्जगतीषु भवति त्रैष्टुभ्जागतो वा आदित्यो यदतोऽन्यासु स्यादव स्वर्गाल्लोकात्पद्येरन्

४.६.२४ प्रकारान्तरेण तत्प्रशंसा

सम्राड्वतीषु भवति साम्राज्यं वै स्वर्गो लोकः स्वर्ग एव लोके प्रतितिष्ठन्ति

४.७.१ प्रगाथकथनपूर्व्वकं अभीवर्त्ताख्यसामविधानं

आत्मा वा एष संव्वत्सरस्य यद्विषुवान्पक्षावेतावभितो भवतो येन चेतोऽभीवर्तेन यन्ति यश्च परस्मात्प्रगाथो भवति तावुभौ विषुवति कार्यौ पक्षावेव तद्यज्ञस्यात्मन्प्रतिदधति स्वर्गस्य लोकस्य समष्ट्यै

४.७.२ उक्तप्रगाथस्वरूपकथनं

इन्द्र क्रतुं न आभरेति प्रगाथो भवति

४.७.३ अस्य प्रगाथस्य प्रयोगः प्रजातिहेतोः

वसिष्ठो वा एतं पुत्रहतोऽपश्यत्स प्रजया पशुभिः प्राजायत यदेष प्रगाथो भवति प्रजात्यै

४.७.४ अस्मिन् प्रगाथे प्रार्थ्यमाह

जीवा ज्योतिरशीमहीति ये वै स्वस्ति संव्वत्सरं संतरन्ति ते जीवा ज्योतिरश्नुवते

४.७.५ तत्प्रगाथगतदुराध्यप्रदव्याख्यानं

मानो अज्ञाता वृजना दुराध्यो माशिवासोऽवक्रमुरिति ये वै स्तेना रिपवस्ते दुराध्यस्तानेव तदतिक्रामति

४.७.६ प्रगाथशेषमुदाहृत्य प्रशंसा

त्वया व्ययं प्रवतः शश्वतीरपोऽति शूर तराम सोऽतिसंव्वत्सरो वै प्रवतः शश्वतीरपस्तं एव तत्तरन्ति

४.७.७ उत्तरपक्षे प्रगाथत्रयोपन्यासः

अद्याद्याश्वः श्वस्त्वां इदा ह्यो नरो वयं एनं इदा ह्य इति संतनयः प्रगाथा भवन्ति तेषां एकः कार्यः सलोमत्वाय श्वस्तनं एवाभिसंतन्वन्ति

४.७.८ एतत्पक्षं निरस्य पूर्व्वोक्तप्रगाथविधानं

अथो खल्वाहुरिन्द्र क्रतुं न आभरेत्येव कार्यं समृद्ध्यै

४.७.९ उत्तरपक्षे अहःक्लृप्तिविधानं

प्रत्यवरोहिणो मासा भवन्ति

४.७.१० एतत्प्रत्यवरोहस्तुतिः

यथा वा इतो वृक्षं रोहन्त्येवं एनं प्रत्यवरोहन्ति स्वर्गं एव लोकं रूढ्वास्मिंल्लोके प्रतितिष्ठन्ति

४.८.१ गो आयुषी द्वे अहनी कर्त्तव्ये

गौश्चायुश्च स्तोमौ भवतः

४.८.२ अनयोर्द्वित्वसंख्यां प्रशंसति

द्विपाद्यजमानः प्रतिष्ठित्यै

४.८.३ स्तोत्रीयासंख्याद्वारेणानयोः स्तुतिः

ऊनातिरिक्तौ भवत ऊनातिरिक्तं वा अनु प्रजाः प्रजायन्ते प्रजात्यै

४.८.४ एतौ संयुज्य स्तौति

वैराजौ भवतोऽन्नं विराडन्नाद्य एव प्रतितिष्ठन्ति

४.८.५ द्वादशाहमध्ये दशरात्रकर्त्तव्यताविधानं ।

द्वादशाहस्य दशाहानि भवन्ति

४.८.६ तेषां स्तुतिः

विराड्वा एषा समृद्धा यद्दशाहानि विराज्येव समृद्धायां प्रतितिष्ठन्ति

४.८.७ विहितदशाहानामवयोगेन स्तुतिः

पृष्ठानि भवन्ति वीर्यं वै पृष्ठानि वीर्य एव प्रतितिष्ठन्ति च्छन्दोमा भवन्ति पशवो वै च्छन्दोमाः पशुष्वेव प्रतितिष्ठन्त्यथैतद्दशमं अहराप्तस्तोमं आप्तच्छन्द आप्तविभक्तिकं अनिरुक्तं प्राजापत्यम्

४.८.८ दशमेऽहनि धर्म्मविधानं

यदध्याहुरति तद्रेचयन्ति तस्मान्न व्युच्यम्

४.८.९ अनुष्टुप्छन्दःप्रयोगविधानं

परोक्षं अनुष्टुभं उपयन्ति प्रजापतिर्वा अनुष्टुब्यत्प्रत्यक्षं उपेयुः प्रजापतिं ऋच्छेयुः

४.८.१० वामदेव्यस्यार्थवादविधानं

यो वै सत्त्रस्य सद्वेद सद्भवति वामदेव्यं वै साम्नां सदग्निर्देवतानां विराट्छन्दसां त्रयस्त्रिंशः स्तोमानां तान्येव तदेकधा संभृत्योत्तिष्ठन्ति

४.८.११ वामदेव्यस्तुत्यर्थं ब्रह्मवादिनां विचारः

ब्रह्मवादिनो वदन्ति यतः सत्त्रादुदस्थाता३स्थिता३दिति

४.८.१२ सत्रादुत्थितानां फलप्रदर्शनं

ये रथन्तरेण स्तुत्वोत्तिष्ठन्ति ते यत उत्तिष्ठन्ति तान्ब्रूयादप्रतिष्ठाना भविष्यन्तीति ये बृहता स्तुत्योत्तिष्ठन्ति ते स्थितादुत्तिष्ठन्ति तान्ब्रूयात्स्थायुकैषां श्रीर्भविष्यति न वसीयांसो भविष्यन्तीति

४.८.१३ उक्तपक्षनिगमनं

ये वामदेव्येन स्तुत्वोत्तिष्ठन्ति ते सतः सदभ्युत्तिष्ठन्ति पूर्णात्पूर्णं आयतनादायतनं अन्तरिक्षायतना हि प्रजा

४.८.१४ स्तोत्रीयाक्षरसंख्ययास्य प्रशंसा

त्रयस्त्रिंशदक्षरासु भवति त्रयस्त्रिंशद्देवतास्वेव प्रतिष्ठायोत्तिष्ठन्ति

४.८.१५ वामदेव्यस्य बहुधाप्रशंसनं

प्राजापत्यं वै वामदेव्यं प्रजापतावेव प्रतिष्ठायोत्तिष्ठन्ति पशवो वै वामदेव्यं पशुष्वेव प्रतिष्ठायोत्तिष्ठन्ति

४.९.१ आहवनीयोपस्थानविधानं

पत्नीः संयाज्य प्राञ्च उदेत्यायं सहस्रमानव इत्यतिच्छन्दसाहवनीयं उपतिष्ठन्ते

४.९.२ अतिच्छन्दसोपस्थानस्तुतिः

इमे वै लोका अतिच्छन्दा एष्वेव लोकेषु प्रतितिष्ठन्ति

४.९.३ तदीयनिधनप्रशंसनं

गोरिति निधनं भवति विराजो वा एतद्रूपं यद्गौर्विराज्येव प्रतितिष्ठन्ति

४.९.४ मानसस्तोत्रविधानं

प्रत्यञ्चः प्रपद्य सार्पराज्ञ्या ऋग्भिः स्तुवन्ति

४.९.५ तत्प्रशंसनं

अर्बुदः सर्प एताभिर्मृतां त्वचं अपाहत मृतां एवैताभिर्स्त्वचं अपघ्नते

४.९.६ प्रतिष्ठाहेतुत्वेन तत्प्रशंसा

इयं वै सार्पराज्ञ्यस्यां एव प्रतितिष्ठन्ति

४.९.७ त्रिकस्तोमसंख्ययास्य प्रशंसा

तिसृभिः स्तुवन्ति त्रय इमे लोका एष्वेव प्रतितिष्ठन्ति

४.९.८ स्तोत्रोपाकरणमध्वर्य्युना मनसा कर्तव्यं

मनसोपावर्तयति

४.९.९ हिङ्कारादिकमुद्गातृणा मनसैव कर्त्तव्यं

मनसा हिङ्करोति मनसा प्रस्तौति मनसोद्गायति मनसा प्रतिहरति मनसा निधनं उपयन्त्यसमाप्तस्य समाप्त्यै

४.९.१० असमाप्तसमापनं

यद्वै वाचा न समाप्नुवन्ति मनसा तत्समाप्नुवन्ति

४.९.११ स्तोत्रस्थानपरिश्रयणं

परिश्रिते स्तुवन्ति ब्रह्मणः परिगृहीत्यै

४.९.१२ ब्रह्मोद्यविधानं

ब्रह्मोद्यं वदन्ति ब्रह्मवर्चस एव प्रतितिष्ठन्ति

४.९.१३ होतुश्चतुर्होतृमन्त्रविधानं

चतुर्होतारं होता व्याचष्टे स्तुतं एव तदनुशंसति नहि तत्स्तुतं यदननुशस्तम्

४.९.१४ प्रजापतिपरिवादस्य कर्त्तव्यताविधानं

प्रजापतिं परिवदन्त्याप्त्वेवैनं तद्व्याचक्षते तावदापामैनं इति

४.९.१५ गृहपतिकर्त्तृकमौदुम्बरीधारणं

गृहपतिरौदुम्बरीं धारयति गृहपतिर्वा ऊर्जो यन्तोर्जं एवैभ्यो यच्छति

४.९.१६ सर्व्वेषां वाग्यमनविधानं

वाचं यच्छन्ति

४.९.१७ तस्य स्तुतिः

दुग्धानीव वै तर्हि छन्दसांसि यातयामान्यन्तर्गतानि तान्येव तद्रसेनाप्याययन्ति

४.९.१८ प्रकारान्तरेणास्य स्तुतिः

अथो श्वस्तनं एवाभिसंतन्वन्ति

४.९.१९ गवामयनस्य स्तुतशस्त्रादेः समृद्धिसम्पादनं

आत्मदक्षिणं वा एतद्यत्सत्त्रम्

४.९.२० एतत् स्तौति

यदा वै पुरुष आत्मनोऽवद्यति यं कामं कामयते तं अभ्यश्नुते

४.९.२१ आत्मनो ऽवदानप्रकारं दर्शयति

द्वाभ्यां लोमावद्यति द्वाभ्यां त्वचं द्वाभ्यां मांसं द्वाभ्यां अस्थि द्वाभ्यां मज्जानं द्वाभ्यां पीवश्च लोहितं च

४.९.२२ सत्रिणां सशिखवपनविधानं

शिखा अनुप्रवपन्ते पाप्मानं एव तदपघ्नते लघीयांसः स्वर्गं लोकं अयामेति

४.९.२३ वपनप्रशंसनं

अथो गवां एवानुरूपा भवन्ति सर्वस्यान्नाद्यस्यावरुद्ध्यै

४.१०.१ गवामयनस्य महाव्रताख्याहर्विधानं

प्रजापतिः प्रजा असृजत सोऽरिच्यत सोऽपद्यत तं देवा अभिसमगच्छन्त तेऽब्रुवन्महदस्मै व्रतं संभराम यदिमं धिनवदिति तस्मै यत्संव्वत्सरं अन्नं पच्यते तत्समभरंस्तदस्मै प्रायच्छंस्तदव्रजयत्तदेनं अधिनोन्महन्मर्या व्रतं यदिमं अधिन्वीदिति तन्महाव्रतस्य महाव्रतत्वम्

४.१०.२ तन्नामनिर्व्वचनान्तरं

प्रजापतिर्वाव महांस्तस्यैतद्व्रतं अन्नं एव

४.१०.३ विषुवतः स्थाने इदमहः कर्त्तव्यमिति पक्षोपन्यासः ।

तदाहुर्मध्यः संव्वत्सरस्योपेत्यं मध्यतो वा अन्नं जग्धं धिनोति

४.१०.४ सिद्धान्तपक्षमाह

तद्वाहुर्यन्मध्यत उपयन्त्यर्धं अन्नाद्यस्याप्नुवन्त्यर्धं सम्बट्कुर्वन्तीत्युपरिष्टादेव संव्वत्सरस्योपेत्यं संव्वत्सरे वा अन्नं सर्वं पच्यते

४.१०.५ अस्याह्नः पञ्चविंशस्तोमत्वं

चतुर्विंशं भवति चतुर्विंशो वै संव्वत्सरोऽन्नं पञ्चविंशम्

४.१०.६ तस्य प्रशंसा

यद्वा अदश्चतुर्विंशंप्रायणीयं तदेतदुदयनीयम्

४.१०.७ पञ्चविंशस्तोमस्य चतुर्विंशेन साम्यकथनं

यत्संव्वत्सरं अन्नं संभरन्ति सैषा पञ्चविंश्युपजायते