पञ्चपादिकाविवरणम्/षष्ठवर्णकम् - ब्रह्मणः सर्वज्ञत्वनिरूपणम्

विकिस्रोतः तः
← ५ जन्माद्यधिकरणम् पञ्चपादिकाविवरणम्
श्रीप्रकाशात्मयतिः
७ सप्तमवर्णकम् →

 


                                                                   अथ षष्ठं वर्णकम्।।

                शब्दोपादानभावाद् ध्वनिगतविषयद्योतनाः शक्तयोऽमू-

                र्ब्रह्मण्येवासुरग्नेर्विषयविषयिणी दीपशक्तिः खलूच्चैः।

                द्रष्टुश्च ज्ञानशक्तिर्न्ननु न करणता, किन्तु दीपप्रभावत्

                संयुक्तद्योतनैवेत्यपरमिह पुनः साध्यते सर्ववित्त्वम्।।

                ब्रह्मणो लक्षणद्वयाभिधानपरेऽपि सूत्रे सर्वज्ञत्वं प्रधानादिकारणवैलक्षण्यस्य सिद्धये जगद्विरचनोपपत्तये च श्रुति-युक्तिभ्यां प्राधान्येन प्रदर्शितम्। तदेव हेत्वन्तरेण साधयति; प्राधान्यात्, अथवा--सर्वजगत्कारणत्वेन सर्वज्ञत्वं

न सम्भवति; वेदानामकर्तृकत्वादित्याशङ्क्य, सम्बन्धमाह--अयमपर इति।। वेदस्य तावत् सर्वविषयसामर्थ्यं दर्शयति तदुपादानतया ब्रह्मणाऽपि तद् दर्शयितुम्---अनेकनानाविधविषयविद्यास्थानेति। ननुनास्ति वेदस्य सर्वज्ञता; अर्थज्ञानकरणतयोपयोगादिति, सत्यम्; अत एव कल्पप्रत्ययप्रयोग इति। ननु वेदस्य सर्वविषयज्ञानसामर्थ्योऽपि ब्रह्मणः कथं सर्वज्ञतेति अत आह--ततश्च तस्य कारणमिति दृश्यत इत्यादि दृष्टान्तः। अयं प्रयोगः--वेदः, स्वविषयादधिकतरविज्ञानवत्प्रणीतो भवति, वाक्यप्रमाणत्वात्; पाणिन्यादिशास्त्रवदिति। ननु किमत्रानुमानेन प्रसाध्यते यदि तावदुपाध्यायस्याध्यापनोच्चारणवच्छास्त्रशब्दोपलक्षितानां सर्वेषां शब्दानां ब्रह्मण्यप्युच्चारणं साध्यते तदा नोपाध्यायवत् सर्वज्ञं ब्रह्म भविष्यति। अथ सकलवाक्यार्थं प्रमाणान्तरेणोपलभ्य तत्प्रतिपत्त्यर्थं परस्मै वाक्यं विरचयति प्राप्तं तर्हि पौरुषेयत्वम्; तल्लक्षणत्वात्पुरुषवचसाम्, इति चोदयति--नन्वेवं सतीति।।

                अत्र केचित्परिहारमाचक्षते---प्रमाणान्तरेणार्थमुपलभ्य विवक्षित्वा परस्मै विरचितः शब्दः पौरुषेय इत्युच्यते। तत्रेदमनेन कर्तव्यमिति वक्तुरभिप्रायभेदो रागः पुरुषवचसामर्थः। द्विविधश्च रागः--नित्योऽनित्यश्च। तत्रानीश्वराणामभिलषितसाधनज्ञानस्यानित्यतया तज्जन्यरागस्याप्यनित्यत्वात् तद्विषयाणां पुरुषवचसां प्रमाणान्तरसापेक्षतया पौरुषेयत्वमङ्गीक्रियते, ईश्वरस्य पुनर्निखिलेष्टसाधनविषयज्ञानानां नित्यतया तन्मूलरागस्यापि नित्यत्वादीश्वरप्रणीतानामपि वैदिकवचसां नित्यरागविषयतया पौरुषेयता न जेगीयते--इति, नैतत्सारम्; ईश्वरे सकलाभिलषितसाधनज्ञाननित्यत्वे प्रमाणाभावात्, अनुमानानां चातद्गोचरत्वस्य दर्शितत्वात्। शब्द इति चेत्, न; इतरेतराश्रयापातात्--नित्यज्ञानमुलनित्यरागजन्यत्वे शब्दस्यानपेक्षं प्रामाण्यम्, अनपेक्षे च शब्दे नित्यज्ञानसिद्धिरिति। "रागश्च नित्यः", "नित्याभिलषितसाधनज्ञानमूलः"  इति च व्याहन्यते। कुतश्चैतद् लब्धम्--नित्यानित्याभिप्रायभेदेन पुरुषवचसामपि सतां सापेक्षत्वानपेक्षत्वविभागो विद्यत इति नच पुरुषाभिप्रायः शब्दार्थ इति च वक्ष्यते। तस्मादसमञ्जसमेतत्।।

                अन्ये तु सङ्गिरन्ते--व्यासाद्यभिप्रायभेदतात्पर्यवतामपि भारतवचसामिदानीन्तनवाचकवदध्ययनविधितात्पर्यतामेव वेदानां सृष्टिकाले समुच्चारणमीश्वरस्य वेदप्रणयनं नाम। ततश्च रागतात्पर्याभावाद् वेदप्रामाण्यमीश्वरस्य सर्वज्ञता चेत्, अत्र वयं पृच्छामः--सृष्टिसमये किं प्रमाणान्तरेणार्थमुपलभ्य वेदवाक्यं व्यनक्ति यथा पाणिन्यादिः, आहोस्विदुपाध्यायवत् पूर्वसिद्धवाक्यमुच्चारयति तत्र पूर्वस्मिन् कल्पे पौरुषेयताऽऽपत्तिः, उत्तरस्मिन्नुपाध्यायवदेवासर्वज्ञतापत्तिः। अभिप्रायतात्पर्याभावादपौरुषेयतेति चेत्, उपलभ्य रचनायां कुतो रागतात्पर्याभावः पूर्वमेव विधितात्पर्यादिति चेत्, तथापीतरन्न विहन्यते। न चोभयतात्पर्यमुपपद्यते; सत्यपि विधितात्पर्येऽवगम्यार्थं रचनैव सापेक्षत्वे निमित्तं समधिगतम्। नचोपलभ्य रचनायां विधितात्पर्यमुपपद्यत इति यत्किञ्चिदेतत्।।

                अपरे तु मन्यन्ते--निर्विकल्पज्ञानपूर्वकाणि किल वेदवाक्यानि न सापेक्षत्वदोषमश्नुवते; ब्रह्मस्वरूपज्ञानस्य निर्विकल्पकत्वात्, लौकिकवचसां तु सविकल्पज्ञानपूर्वत्वात्सापेक्षता--इति, नायमपि विभागः सिध्यति; उपलभ्य रचनाया एव सापेक्षत्वनिमित्तत्वात्, स्वरूपज्ञानस्याप्यभिलषितसाधनोपरागे सविकल्पकत्वात्। तस्मान्नैव परिहाराः।।

                स्यात्तर्हि वेदानां पौरुषेयता ननु अपौरुषेयो वेदः; अविच्छिन्नव्यवहारे सत्यस्मर्यमाणकर्तृकत्वात्; आत्मवदित्यपौरुषेयतानुमीयत इति, न; चिरवृत्तेष्वपीदानीमनुमानप्रमीयमाणकर्तृकेष्वनैकान्तिकत्वात्, वेदानां च कर्तृरनुमानागमाभ्यां प्रमीयमाणत्वात्। तथाहि विशिष्टबहुज्ञपुरुषप्रणीतः, वेदः, बह्वर्थविषयवाक्यप्रमाणत्वात्; भारतवत्, "इदं सर्वमसृजत" "ऋचो यजूंषि सामानी"त्यागमः। तस्मात्पौरुषेयो वेद इति। अत्र पृच्छामः--कथं पौरुषेये वेदे प्रामाण्यं लभ्यत इति कपिल-कणादाक्षपादानामिति सर्वज्ञप्रणीततयेति चेत्, न तावदनुमेयः सर्वज्ञ इत्युक्तम्। आगमाच्चेत्सिद्धिः, न; इतरेतराश्रयात्--सर्वज्ञे सिद्धे तत्प्रणीततया वेदप्रामाण्यम्, ततश्च सर्वज्ञसिद्धिरिति। स्यादेतत्--महाजनपरिग्रहाद् वेदप्रामाण्यमिति, न; सुगताद्यागमानुसारिणामेव देशविशेषेष्वानन्त्यश्रवणात्। नच देहात्मभाव-चन्द्रप्रादेशत्वादीनां महाजनपरिगृहीतानां प्रामाण्यं दृश्यते। नच महाजनपरिग्रहः प्रमाणपक्षपाती। तस्मान्न प्रामाण्यलाभः।।

                किञ्च पुरुषो वा केन प्रमाणेनोपलभ्य धर्माधर्मौ, वेदवाक्यं विरचयेत् न तावदिन्द्रियपञ्चकेन; रूप-रस-गन्ध-स्पर्श-शब्द-तत्तत्समवेत-विशेषग्राहित्वात्, वर्तमानग्रहणनियमाच्च, धर्मस्य च साध्यत्वात्। ननु आत्मसमवायी धर्मस्तद्ग्रहणेनैव ज्ञानेन तद्गुणतया मनसैव चक्षुरादिना वा गृह्यत इति, किमिति तर्हि न गृह्णीमः नच विशिष्टः पुरुषो गृह्णाति; तदिन्द्रियाणामप्येतादृशत्वात्, योगजधर्मसामर्थ्याद्विशिष्टानि तदिन्द्रियाणीति चेत्, तथाऽपि मार्जारादिदृष्टिवत्स्वविषयेऽतिशयमात्रं गृह्णीयुः, नाविषयं धर्मम्। "दिव्यं चक्षुर्ददाम्यहम्" "प्रादात्तेषां स भगवन् दिव्यं चक्षुर्जनार्दनः" इति स्मरणादस्ति योगिनां दिव्यं चक्षुरिति चेत्, न; तस्यापि विश्वरूपादिस्वविषयातिशयदर्शित्वात्। न चात्मसमवेततयाऽपि धर्मो वर्तमानो भवति, येन प्रत्यक्षः स्यात्। कल्पान्तरीयोऽनुष्ठितो धर्मोऽस्मिन् कल्पादौ वर्तत इति चेत्, न; कल्पान्तरीयधर्मोपदेशायोगात्। ततोऽपि कल्पान्तरानुष्ठितधर्मं प्रत्यक्षेणोपलभ्योपदिशतीति चेत्, अन्धपरम्परा स्यात्। तस्मान्न प्रत्यक्षमूलो वेदः। नापि शब्दमूलः; अनवस्थानात्। तस्मात्प्रामाण्यहानान्न पौरुषेयो वेद इति।।

                मा भूत् प्रमाण्यमिति सुगतार्हताः। तैरिदं वक्तव्यम्--प्रत्यक्षानुमानदृष्टव्यतिरिक्तः कर्मफलसंबन्धो विद्यते नवेति विद्यते चेत् कथमपौरुषेयागममन्तरेण तस्य सिद्धिः सर्वज्ञसुगतप्रणीतागमादिति चेत्, किं कपिलादयः सर्वज्ञा न भवन्ति सर्वे तीर्थकराः सर्वज्ञा इति चेत्, धर्माधर्मयोर्विवादः कथं स्यात् नचैकः सर्वज्ञो नेतर इति प्रमाणमस्ति। नच सर्वे सर्वज्ञप्रणीता धर्मा एवेति युक्तम्; अन्योन्यधर्मनिराकरणात्। नचापौरुषेया एव सुगताद्यागमा इति युक्तम्; अनुस्मर्यमाणकर्तृकत्वात्। अपौरुषेयत्वे च न विवदामः--उदितानुदितहोमवद् व्यवस्थोपपत्तेः।।

                आह लोकायतः--मा भूत् प्रत्यक्षदृष्टातिरिक्तः कर्मफलसंबन्धः, पौरुषेयता तु वेदस्यानुमानसिद्धा न निवार्यत इति। स वक्तव्यः--किं लौकिकवचांसि प्रमाणानि न वेति न चेत्, न मया ते वादो युक्तः, शब्दैरेव परस्परविरुद्धार्थप्रतिपादनरूपत्वाद्वादस्य। अथ लौकिकवचांसि प्रमाणानि, वेदवचोभिस्तर्हि किमपराद्धम् ननु पौरुषेयत्वं वेदस्यानुमानात् तस्य च मूलप्रमाणाभावादप्रामाण्यमुक्तम्, न; स्वाभाविकत्वाच्छब्दानामर्थावबोधसामर्थ्यस्य पुरुषप्रत्ययानुसारित्वाभावात्, अन्यथा सागरं विवक्षन्मेरुशब्दं ब्रूयात्। स्वभावसिद्धशब्दसामर्थ्यानुसारेण हि लौकिकाः शब्दं प्रयुञ्जते, सत्यम्; कदाचित्सर्वाभिधानसङ्केतसामर्थ्यात्। इदानीं व्यवस्थयाऽभिधानामिति चेत्, तन्न; विवादगोचरापन्नः पूर्वतनशब्दार्थसंबन्धव्यवहारः, तथाविधपूर्वपूर्वव्यवहारपरम्परानिबन्धनः; अभिधानाभिधेयव्यवहारत्वात्; इदानीन्तनतद्व्यवहारवत्, इत्यनादितानुमानात्। साङ्केतिकशब्देष्वनैकान्तिक इति चेत्, न; अभिधानाभिधेयविषयत्वादनुमानस्य। जातिमात्राभिधायिनो वा सर्वदेशेष्वभिधानतया संप्रतिपन्ना वा यस्मिन्नुत्पद्यमाने क्वचिद् गृहीतसंबन्धा एवोपरज्यन्ते शब्दाः, तानि चाभिधानानि, नैवं साङ्केतिकाः शब्दा इति। मा भूत् तर्ह्यभिधानसङ्केतः, वेदवाक्यरचना तु पुरुषनिबन्धनैवेत्यत आह--न स्याद् ब्रह्मवदनादित्वादिति।। विवादगोचरापन्नं सृष्टिकालीनं वेदाध्ययनम्, पूर्वपूर्वतथाविधवेदाध्ययनानुस्मृतिनिबन्धनं भवितुमर्हति, वेदाध्ययनत्वात्, इदानीन्तनवेदाध्ययनवदिति विशेषतोदृष्टानुमानेन वाक्यत्वाद्भारतवदिति सामान्यतोदर्शनाद् बलीयसा वेदस्यानादित्वसिद्धेः कुतः पौरुषेयता ननु सर्वेष्वपि ग्रन्थेष्विदमनादित्वानुमानमनुविशति, न; तैरेव ग्रन्थैस्तत्तत्कर्तृणां प्रतिपादनात्तदागमविरोधात्, इहापि श्रुत्यैव वेदस्य कर्ता प्रतिपाद्यत इति चेत्; न तावत् "स तया वाचेदं सर्वमसृजत ऋचो यजूंषि सामानी"ति श्रुतिः प्रजापतिविषया सती तस्य प्रमाणान्तरेणार्थमुपलभ्य शब्दरचनां ब्रवीति; "यो ब्रह्माणां विदधाति पूर्वं यो वेदाश्च प्रहिणोति तस्मै" इति श्रुतौ प्रागेव वेदसद्भावावगमात्। "अस्य महतो भूतस्ये"ति श्रुतिरीश्वरविषयाऽपि सती प्रकरणसामर्थ्याद्वेदोपादानत्वमेव ब्रवीति।।

                किं चेदं पौरषेयत्वं साध्यते यदि तावत् पुरुषनिर्वर्त्यतामात्रम्, संप्रतिपन्नमेव; तत्तत्क्रमविशिष्टानामेव वर्णानां वेदशब्दाभिधेयत्वात् क्रमस्य तूच्चारणोपलब्ध्योरन्यतरस्य प्रतिक्षणनिर्वत्यतया तद्विशिष्टवर्णानामपि प्रत्युच्चारणं जन्यत्वात्, पूर्वपूर्वक्रमानुस्मरणेन तत्सदृशोत्तरोत्तरक्रमनिवर्तनात्, क्रमसादृश्यपरम्परायाश्चानिदंप्रथमतया तद्विशिष्टवर्णनित्यत्वाभिधानात्। अथ वेदः स्वार्थप्रवृत्तप्रमाणान्तरजन्यो भवति, असर्वज्ञवचनत्वाभावे सति धर्माधर्मब्रह्मप्रमाणत्वात्; परपरिकल्पितेश्वरबुद्धिवदिति। अध्ययनस्येदंप्रथमता वेदस्य पौरुषेयतेति, न; अध्ययनस्यानादित्वानुमानस्य दर्शितत्वात्। तस्मान्नास्ति वेदस्य पौरुषेयत्वमिति।।

                ननु आप्तेन प्रमाणान्तरेणार्थमुपलभ्य परप्रतिपत्तये तत्र प्रयुज्यमानः शब्दः प्रमाणं भवति, तदभावादनाप्तवाक्यवदप्रमाणं वेदः प्रसज्यते, ननु अनाप्तेन भ्रान्त्योत्प्रेक्षया वाऽर्थाभासमुपगम्य परप्रवृत्तये तत्र प्रयुज्यमानः शब्दः प्रामाण्यात्परिहीयते, तदभावादाप्तवाक्यवद्वेदः प्रमाणं किं न स्यात् ननु आप्तवाक्यमनाप्तप्रणीतत्वाभावात्प्रमाणम् किं वाऽप्तप्रणीतत्वात् इति विवेक्तव्यम्, नोभयथाऽपीति ब्रूमः। कथम् शब्दानां तावत्संसृष्टार्थावबोधनसामर्थ्यं स्वारसिकमेव मध्यमवृद्धप्रयोग-प्रत्ययाभ्यामाप्तानाप्तप्रत्ययव्यतिरेकेणावगतम्। तत्रानाप्तस्य भ्रान्त्युत्प्रेक्षाज्ञाने तन्मूलविरचितशब्दकारणदोषतया शब्देऽपि दोषं प्रसञ्जयतः। ततश्च दुष्टकारणजन्यविज्ञानमयथार्थमप्रमाणम्, इति स्वतःसिद्धशब्दसामर्थ्यप्रयुक्तप्रामाण्यस्य प्रतिबन्धकतयाऽनाप्तज्ञानमवतिष्ठते। आप्तप्रमाणं च प्रतिबन्धभ्रान्त्युत्प्रेक्षादिदोषनिरासितया संपद्यते। ततश्चाप्तत्वज्ञानं च शब्दप्रामाणअयहेतुः, वेदे तु पुरुषसंबन्धाभावान्न प्रतिबन्ध-तन्निरासापेक्षा, इति नाप्तप्रणीतत्वमत्रोपयुज्यते। ननु आप्तप्रयोगानपेक्षत्वेऽग्नि-पर्वत-तत्संबन्ध-शब्देषु स्मर्यमाणेषु तेभ्य एवाग्निमान्पर्वत इति प्रमितिरुत्पद्येत, सत्यम्; पर्वतस्याग्निमत्तामात्रं प्रमीयत एव, पुरोवर्तिनि तु प्रमाणान्तरविरोधान्न प्रमीयत इति। अथवा--द्विविधः प्रयोगः प्रामाण्यहेतुः,--अर्थोपलब्धिनिबन्धनः पौरुषेये, पूर्वप्रयोगानुस्मृतिनिमित्तो वेदे, तदुभयाभावात्सुप्तादिवाक्येष्विवाप्रामाण्यमिति, अथवा--तात्पर्याभावात् केवलेभ्यः शब्देभ्यो नार्थप्रमितिः, वेदे पुनरध्ययनविधितात्पर्यादाप्तप्रयोगाभावेऽपि प्रमितिरुत्पद्यते; अध्ययनविधिवाक्यस्यापि स्वेनैव तात्पर्यसिद्धेः। अतोऽनादिर्वेद इति। अनादित्वेऽपि पुराणवाक्यवदन्यथासन्निवेशप्रणयनमाशङ्क्याह--कूटस्थनित्यत्वादिति।।

                अनादिवेदस्य कथं ब्रह्मकारणता इति शङ्कते--कथं पुनरिति।। अत्र शास्त्रशब्दोपलक्षितसर्वशब्दानां वर्णानामेकपदार्थबुद्ध्यवच्छेदकवर्णनियामकक्रमविशिष्टपदानां वाक्यार्थबुध्यवच्छेदकवाक्यनियामकक्रमविशिष्टवाक्यानां महावाक्यार्थबुध्यवच्छेदकवाक्यनियामकक्रमविशिष्टप्रकरणानां परिपूर्णपुरुषार्थसाधनबुद्ध्यवच्छेदकानेकप्रकरणनियामकक्रमविशिष्टशास्त्राणां च प्रवाहरूपेण ब्रह्मोपादानतया कार्यत्वमस्तीत्याह--तत्परतन्त्रत्वादित्यादिना।।

                ननु "रज्जुसर्पवदि"ति वेदस्य मिथ्यात्वं कथं निदर्श्यते ननु कोऽयं वेदो नाम न तावद् वर्णमात्रम्। क्रमविशेषवन्तो वर्णा इति चेत्, नास्ति देश-काल-निबन्धनो वर्णक्रमः; नित्यतया सर्वगतत्वात्, नापि वस्तुनिबन्धनक्रमः, विरोधात्, न ह्येकदैव राजा जरेति जकारस्य रेफात्पूर्वापरीभावो युक्तः। उच्चारणसमवेत एव क्रमो वर्णेषूपरज्यत इति चेत्, न; अप्रत्यक्षत्वादुच्चारण-तत्क्रमयोः, प्रत्यक्षस्तु क्रमविशिष्टवर्णात्मा वेदः। अथोपलब्धिक्रमवन्तो वर्णा वेदशब्दभाज इति, न; अन्यक्रमस्यान्यधर्मत्वानुपपत्तेः। अथोपलब्धिधर्म एव क्रमो वर्णेषु समारोप्यत इति चेत्, तर्ह्यख्यातिवादिनः क्रममात्रस्य वर्णमात्रस्य वेदशब्दानर्हत्वाद् विशिष्टप्रत्ययाभावादविवेकमात्रमेव वेद इत्यर्थावबोधो न स्यात्, अन्यथाख्यातौ पुनर्विशिष्टप्रत्ययमात्रत्वाद् विशिष्टार्थाभावाद्विज्ञानातिरिक्तो वेदो न स्यात्। नच--उपलब्धिक्रमोपलक्षिता वर्णा वेदः, न विशिष्टा इति--युक्तम्; क्रमविशिष्टवर्णप्रत्ययस्य प्रत्यक्षत्वात्। अनिर्वचनीये तु पुनर्विशिष्टार्थतत्प्रत्यययोर्भावाद् विज्ञानव्यतिरेकेणार्थस्यानिर्वचनीयत्वेऽप्यर्थक्रियासमर्थतया तुच्छव्यावृत्त्यभ्युपगमादस्त्येवार्थावबोधसमर्थो वेद इति निरवद्यम्।।

                ननु पाणिन्यादिदृष्टान्तेन यदि सर्वशब्दोपादानतैव ब्रह्मणो वेदस्य पौरुषेयत्वपरिहाराय गीयते, तदा कथं तावता सर्वज्ञत्वम् इति चोदयति--नन्वेवं सति कथं सर्वज्ञतेति।। परिहरति--तस्यैव ज्ञानशक्तिविवर्तात्मकत्वान्नामप्रपञ्चस्येति।। अस्ति तावद् वर्णानां क्रम-संख्यादिभेदभाजां मुख्यलक्षणादिद्वारेण सर्वार्थप्रकाशनसामर्थ्यम्; अव्यपदेश्यस्य वस्तुनोऽभावात्। तत्र कार्यगतमर्थप्रकाशनसामर्थ्यमुपादानकारणधर्म एव भवति; प्रदीपगतप्रकाशनसामर्थ्यस्य वह्निधर्मत्वदर्शनात्, कार्योपादानयोः शक्तिद्वयकल्पनाऽयोगात्। एवं सर्वार्थप्रकाशनसमर्थत्वात् सर्वज्ञं ब्रह्म। ननु समर्थस्यापि नित्यवज्ज्ञानसंयोगो न भवति, नैष दोषः; यथा प्रकाशद्रव्यस्य प्रदीपस्य स्वसन्निहिताशेषवस्तुप्रकाशिता,एवं प्रकाशस्वरूपस्य ब्रह्मणःसर्वोपादनतया

सर्वसंसर्गिणःस्वसन्निहिताशेषवस्तुप्रकाशिता, नित्यवद् भवतीति युक्तं सामर्थ्यानुसारेण सर्वज्ञत्वम्। कथं करणसामर्थ्यानि कर्तृसामर्थ्यानि भवन्तीति चेत्, न; ब्रह्मणो विषयावगमं प्रति शब्दस्य करणताऽभावात्। ननु स्वयंप्रकाशतया सर्वसंसर्गित्वादेव सर्वज्ञता सिध्यति, न; वाय्वाकाश-रस-गन्धादिव्यापिनोऽपि सावतृकिरणस्य तत्प्रकाशनायोग्यत्वदर्शनात्। तस्मात् सर्वार्थप्रकाशनसमर्थसर्वशब्दोपादानतया सर्वज्ञं ब्रह्म। तदेतदाह--नासतः प्रादुर्भावादिति।।

                                इति श्रीमत्परमहंसपरिव्राजकान्यानुभवपूज्यपादशिष्य-स्वप्रकाशानुभवभगवतः कृतौ                                                        पञ्चपादिकाविवरणे ब्रह्मणः सर्वज्ञत्वनिरूपणं नाम

                                     षष्ठं वर्णकं समाप्तम्।।