पञ्चपादिकाविवरणम्/प्रथमवर्णकम् - अध्यासभाष्यम्

विकिस्रोतः तः
Jump to navigation Jump to search
पञ्चपादिकाविवरणम्
श्रीप्रकाशात्मयतिः
२ द्वितीयवर्णकम्  →

 

पालने विमलसत्त्ववृत्तये जन्मकर्मणि रजोजुषे, लये।।

तामसाय जगतः पराकृतद्वैतजालवपुषे नमः सते।।1।।

यस्याः प्रसादमवलम्ब्य जगद्गुरूणा-

मप्यस्खलद्बहुगुणाः प्रसरन्ति वाचः।।

सा वेदशास्त्रपरिनिर्मितवन्द्यदेहा

भूयात् समग्रवरदैव सरस्वती नः।।2।।

विघ्नाभितापमहत्य मदीयकृत्य-

बीजं प्रवृद्धमदनुग्रहवर्षपातैः।

सम्प्रार्थितः सिततरोऽपि गणेशमेघः

सिञ्चन्नभीष्टफलमङ्कुरयत्वमोघम्।।3।।

श्यामोऽपि श्रुतिकमलावबोधरागः

शान्तः सन्नयति तमोविनाशमन्तः।।

नीरूपं प्रथयति योऽपि गोसहस्रैः

तं व्यासं नमत जगत्यपूर्वभानुम्।।4।।

उद्धृत्य वेदपयसः कमलामिवाब्धे

रालिङ्गिताखिलजगत्प्रभवैकमूर्तिम्।।

विद्यामशेषजगतां सुखदामदाद्यः

तं शङ्करं विमलभाष्यकृतं नमामि।।5।।

वन्दे तमात्मसम्बुद्धस्फुरद्ब्रह्मावबोधतः।

अर्थतोऽपि न नाम्नैव योऽनन्यानुभवो गुरुः।।6।।

प्रकाशात्मा यतिः सम्यक्प्राप्तविद्याशुशुत्सया।

यथाश्रुतं यथाशक्ति व्याख्यास्ये पञ्चपादिकाम्।।7।।

विदितसकलवेद्यैर्न प्रशंसन्ति लोके

ग्रथितमपि महद्भिः किं पुनर्मादृशेन।।

इति विफलसमेऽस्मिन् वाग्व्ययेऽहं प्रवृत्तः

स्वमतिविमलतायै क्षन्तुमर्हन्ति सन्तः।।8।।

                प्रारिप्सितस्य ग्रन्थस्यअविघ्नेन परिसमाप्तिप्रचयगमनाभ्यां शिष्टाचारपरिपालनाय च  अभिलषितदेवतापूजानमस्कारः कर्तव्यः, शास्त्रार्थश्च तत्त्वम्पदार्थविवेकोपायलभ्यः प्रत्यग्ब्रह्मणोरेकत्वलक्षणः सङ्क्षेपतो दर्शनीयः कृत्स्नस्य भाष्यस्य तत्र तात्पर्यकथनाय, इति तदुभयं श्रुत्यर्थाभ्यां सङ्क्षेपतो दर्शयति--2अनाद्यानन्दकूटस्थज्ञानानान्तसदात्माने अभूतद्वैतजालाय साक्षिणे ब्रह्मणे नमः इति।2 कृत्स्नस्य भाष्यस्य ब्रह्मात्मैकत्वे तात्पर्यं अत्र दर्शितम्। उत्तरत्र विभज्य तात्पर्यदर्शनात्।।

                अत्र देवतागुरुविषया पूजानमस्काराद्युपबृंहिता भक्तिः वक्तुः उक्तप्रयोजनसम्पादिन्यपि श्रोतृणामपि विद्याङ्गभावं प्रतिपद्यते इति वाङ्मनःकायप्रणिधानैः गुरूनभिपूजयति-2नमः श्रुतिशिरःपद्मषण्डमार्तण्डमूर्तये-इत्यादिभिः श्लोकैः।2 यत्कार्यमुद्दिश्य मङ्गलाचरणं सम्पादितं, तत् निर्दशति--पदादिवृन्तभारेण इति।।

                ननु--नेदं भाष्यं व्याख्यानपदवीमुपारोढुमर्हति, भाष्यलक्षणाभावात्, "सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुकारिभिः। स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः" इति हि भाष्यलक्षणं वदन्ति। तत्र "अथातो ब्रह्मजिज्ञासा" इति सूत्रे अनुवादपरिहाराय शास्त्रे पुरुषप्रवृत्तिसिद्धये च कर्तव्या इति पदमध्याहर्तव्यम्। तत्र जिज्ञासापदेन अन्तर्णीतं विचारमुपलक्ष्य अनुष्ठानयोग्यतया साधनचतुष्टयसम्पन्नस्य ब्रह्मज्ञानाय विचारः कर्तव्यः इति सूत्रवाक्यस्य श्रौतोऽर्थः सम्पद्यते, अर्थात् अधिकारिविशेषणमोक्षसाधनं ब्रह्मज्ञानमिति सिध्यति, सन्निधानाच्च वेदान्तवाक्यविचारः इति श्रुत्यर्थाभ्यां साधनचतुष्टयसम्पन्नस्य मोक्षसाधनब्रह्मज्ञानाय वेदान्तवाक्यविचारः कर्तव्य इति सूत्रवाक्यस्य तात्पर्येण प्रतिपाद्योऽर्थोऽवगतः। तत्र इदं भाष्यं न सूत्रार्थकलामपि प्रतिपादयति, अतो न व्याख्यानार्हं--इत्येतं, शङ्कितं दोषं परिहरन् भाष्यखण्डस्य सूत्रेण अर्थादुपात्तविषयप्रयोजनप्रतिपादने तात्पर्यं दर्शयति--2"युष्मदस्मत्प्रत्ययगोचरयोः" इत्यादि अह"मिदं ममेदमिति नैसर्गिकोऽयं लोकव्यवहारः" इत्यन्तं भाष्यं-"अस्यानर्थहेतोः प्रहाणाय आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते" इत्यनेन भाष्येण पर्यवस्यत्, शास्त्रस्य विषयः प्रयोजनं च अर्थात् प्रथमसूत्रेण सूत्रिते इति प्रतिपादयति इति।2 तत्र "नैसर्गिकोऽयं लोकव्यवहारः" इत्यन्तं भाष्यम् इति ग्रन्थः "शास्त्रस्य विषयं प्रयोजनं च प्रतिपादयति" इत्युत्तरेण सम्बध्यते।।

                ननु-कथं भाष्यद्वयमेव विषयप्रयोजने प्रतिपादयति शास्त्रारम्भनिमित्तविषयप्रयोजनसिद्धिहेतोः अध्यासस्य उपस्थापकत्वात् इति ब्रूमः; हेतुवचनं हि प्रतिज्ञातार्थमेव साधयति।।

                तथा हि--एतत् शास्त्रं, आरम्भणीयम्, सम्भावितविषयप्रयोजनवत्वात्, कृष्याद्यारम्भवत् ; शास्त्रं च, सम्भावितविषयप्रयोजनम्, अविद्यात्मकबन्धप्रत्यनीकत्वात्, जाग्रद्बोधवत् इति।।

                तदेवं शास्त्रस्यारम्भनिमित्तविषयप्रयोजनवत्त्वप्रत्यनीकस्य बन्धस्य अविद्यात्मकत्वं निर्दिशत् भाष्यद्वयं विषययोजने प्रतिपादयति इति।। ननु बन्धस्याविद्यात्मकत्वलक्षणो हेतुरसिद्धः, कथमसिद्धं असिद्धेन साध्यते इति  अत आह--2सर्वे वेदान्ता आरभ्यन्ते इत्यनेन भाष्येण पर्यवस्यत् इति।2 विषयादिसिद्धिहेतोः अध्यासस्य सिद्धिहेतुभूतानि लक्षण-सम्भावना-सद्भाव-प्रमाणानि प्रतिपादयता भाष्येण सह लक्षणादिभिः स्वार्थं अध्यासं साधयित्वा विषयप्रयोजने साधयति इत्यर्थः। अत एव व्यवधानाव्यवधानाभ्यां विषयादेः साधकत्वात् एतदन्तम् अनेन पर्यवस्यत् इति भाष्यस्य विभागेन उपादानं कृतम्।।

                ननु तर्हि "सर्वलोकप्रत्यक्षः" इत्यनेन पर्यवस्यत् इति वक्तव्यम्। सत्यम्;"अस्यानर्थहेतोः" इति भाष्यस्य विषयप्रयोजनयोः वेदान्तवाक्यसम्बन्धकथनद्वारेण विचारशास्त्रसम्बन्धप्रतिपादनपरत्वात् विचारशास्त्रीयविषयप्रयोजनसाधने सव्यवधानत्वसाम्येन पूर्वभाष्येण सह उपादानं कृतम्।।

                ननु--एवमपि असूत्रसम्बन्धिनी विषयप्रयोजने किमिति प्रतिपाद्येते इति  अत आह--2विषयः प्रयोजनं च अर्थात् प्रथमसूत्रेण सूत्रिते इतीति।2 इतिशब्दो हेतौ। यस्मात् प्रथमसूत्रेण अर्थात् सूत्रिते तस्मात् प्रतिपादयति इति।।

                कः पुनरस्यसूत्रस्य प्रसङ्गः          उच्यते;  नित्येनव अध्ययनविधिना अधीतस्वाध्यायः वेदान्तवाक्येषु आपातदर्शनेन इदमवगच्छति--"अत्मनस्तु कामाय सर्वं प्रियम्" इत्युपक्रमात् सर्वतो विरक्तस्य आत्मप्रेप्सोः "आत्मनि विज्ञाते सर्वमिदं विज्ञातम्" "एतावदरे खल्वमृतत्वम्" इत्युपसंहारात् अमृतत्वसाधनं

आत्मदर्शनं "द्रष्टव्यः" इत्यनूद्य तादर्थ्येन मनननिदिध्यासनाभ्यां फलोपकार्याङ्गाभ्यां सह श्रवणं नाम अङ्गि विधीयते इति। स च-- तत्र कियद्विशेषणपर्यन्तः अधिकारी को वा असौ वेदान्तवाक्यविचारः  अन्यतः प्राप्तः अप्राप्तो वा कथं च आत्मज्ञानं मोक्षसाधनम्  किम्प्रमाणकं च तत्  किं वा तत् आत्मतत्त्वम् किम्प्रमाणकं च इति जिज्ञासते। तं च जिज्ञासुं पुरुषार्थकामं उपलभमानो भगवान् बादरायणः साधनचतुष्टयसम्पन्नस्य मोक्षसाधनब्रह्मज्ञानाय वेदान्तवाक्यविचारं विदधतो विधेः अपेक्षिताधिकारिविषयफलानुबन्धत्रयं आगमिकमपि न्यायेन निर्णेतुं सूत्रयामास--"अथातो ब्रह्मजिज्ञासा" इति; श्रुतिसूत्रयोः ऐकरूप्यावगमात्। मनननिदिध्यासनयोश्च श्रवणाङ्गत्वं उत्तरत्र वक्ष्यामः।। ननु "श्रोतव्य" इति विधिः मोक्षसाधनब्रह्मात्मज्ञानाय वेदान्तवाक्यविचारं साधनचतुष्टयसम्पन्नस्य विधातुं न शक्नोति; श्रवणादीनां विषयावगमं प्रति अन्वयव्यतिरेकसिद्धसाधनत्वात्, न च अवघातादिवत् उभयार्थता सम्भवति; दृष्टादृष्टप्रकारद्वयसाध्यापूर्ववत् इह अदृष्टसाध्यस्याभावात्, आत्मावगमस्य दृष्टोपायमात्रसाध्यत्वात्--इति, नैतत् सारम्; आत्मतत्त्वापरोक्ष्यस्य सर्वादृष्टसाध्यत्वस्य वक्ष्यमाणत्वात् अवघातादिवत् उभयर्थतया विधानोपपत्तेः।

                ननु विधिपरत्वे वेदान्तानां तन्निष्ठतया ब्रह्मस्वरूपस्य असिद्ध्यादिदोषप्रसङ्गात् नास्ति श्रवणादिविधानं इति भाष्यकारैरेव दर्शितम्, सत्यम् ज्ञानविधिः तत्र निराकृतः, न श्रवणादिविधिः; तत्र उक्तदोषप्रसङ्गाभावात्। कथम्  दर्शनविधाने हि ब्रह्म कर्मतया गुणभूतं प्रसज्यते, ब्रह्मदर्शनमुद्दिश्य विचारविधाने तु स्वप्रधानफलभूतदर्शनविशेषणतया ब्रह्मापि स्वप्रधानं भवति, न तु गुणभूतं इति, वेदान्तैः ब्रह्मणि स्वप्रधाने प्रतिपाद्यमाने तद्दर्शनाय श्रवणादिविधानं नैव विरुध्यते।।

                ननु एवमपि उपक्रमोपसंहाराभ्यां एकस्मिन् आत्मप्रतिपादनपरे वाक्ये कथं अवान्तरवाक्यैः श्रवणादिविधानं कल्प्यते इति अवान्तरवाक्यभेदेन '"विविदिषन्ति"  इति यज्ञादीनां ज्ञानसंयोगविधानवत्, "उपरि हि देवेभ्यः" इति उपरिधारणविधानवत्, मलवद्वाससो व्रतकलापविधानवच्चेति ब्रूमः। अथवा--"तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य" इत्यादिवाक्यं श्रवणादिविधायकमस्तु; तस्य तत्परत्वात्, सूत्रकारेण च वक्ष्यमाणत्वात्। सर्वथा तावत् मनननिदिध्यासनाभ्यां अङ्गभूताभ्यां सह श्रवणविधानं अस्त्येव। अतः तदपेक्षितानुबन्धत्रयनिर्णयाय सूत्रमारब्धम्। कर्तव्ये च अधिकारिणा मोक्षसाधनब्रह्मज्ञानाय वेदान्तवाक्यविचारे प्रथमसूत्रेण प्रतिपादिते, स च कर्तव्यो विचारः जन्मादिसूत्रमारभ्य प्रवर्तिष्यत इति। तत्र विध्यपेक्षितेषु अधिकारिविषयफलानुबन्धेषु विषयफलयोः उपपादनाय  बन्धस्य मिथ्यात्वं अत्र वर्ण्यते इति सूत्रसङ्गतमेवेदं भाष्यं व्याख्येयं इति।।

                ननु यदि अर्थात् विषयप्रयोजने सूत्रिते, तर्हि भाष्यकारेण सूत्रस्य तत्र व्यापारं दर्शयित्वा आक्षेपसमाधानपूर्वकं साक्षादेव प्रतिपादनीये विषयप्रयोजने; अन्यथा सूत्रकारभाष्यकारयोः तत्र तात्पर्याभावप्रसङ्गात् इति,  तत्राह--एतच्च तस्माद् ब्रह्म जिज्ञासितव्यमित्यादिभाष्ये स्पष्टतरं इति।। भाष्यकारेणोक्तम् इति प्रजर्शयिष्यामः इत्यध्याहारः।

                प्रथमगन्थोक्तमेवार्थं आक्षेपसमाधानपूर्वकं अतितरां स्पष्टीकर्तुं चोदयति--अत्राह यद्येवम् इति।। ननु "अस्यानर्थहेतोः" इति भाष्यवत् पूर्वभाष्यमपि विषयादिकमेव प्रतिपादयति, कुतः तत्र पर्यनुयोगः इति नेत्याह--अहं मनुष्य इति देहेन्द्रियादिषु इत्यादिना इति।। अत्र विचारकर्तव्याताविषयप्रयोजनाध्यासानां उत्तरोत्तरेण पूर्वपूर्वस्य साध्यत्वस्य सूत्रेणैव सूचितत्वात् अध्याससाधनद्वारेण विषयप्रयोजने साधयित्वा विचारकर्तव्यता साधनीया इति क्रमनियमं  विवक्षन् आह--"उच्यत" इत्यारभ्य "वक्ष्यति चैतत्" इत्यतः प्राक्तनेन ग्रन्थेन।।

                ननु ब्रह्मज्ञानप्रयोजनां विचारकर्तव्यतां सूचयता सूत्रेण कथं बन्धनिवृत्तिः विचारविज्ञानयोः प्रयोजनत्वेन सूत्रिता इति तत्राह--ब्रह्मज्ञानं हि सूत्रितं अनर्थहेतुनिबर्हणम् इति।। विचारसाध्यज्ञानस्य प्रयोजनं आकाङ्क्षन् विचारविधिः अधिकारिविशेषणं मोक्षं प्रयोजनत्वेन प्रमिमीते इत्यर्थः। ननु अनर्थः नरकपातादिलक्षणः अन्ये एव, शरीरादिप्रतिभासस्य च मिथ्यात्वं साध्यते, इति किं केन सङ्गतमिति नेत्याह अनर्थश्च प्रमातृताप्रमुखं कर्तृत्वभोक्तृत्वम् इति।। निवर्त्यतां तर्हि ज्ञानेन वस्तुभूतमेव प्रमातृत्वकर्तृत्वभोक्तृत्वमिति  नेत्याह--तद्यदि वस्तुकृतम् इति।। तथा हि--चित्रावयविनि

नीलविशिष्टद्रव्यज्ञानं स्वविषयं वा स्वविषयसमवेतं वा रसादिकं विरोधिनं वा पीतिमादिगुणं न निवर्तयति, स्वविषयानवबोध एव केवलः तेन निवर्त्यते। स्वाश्रयगतं वस्तु ज्ञानेन निवर्तत इति चेत्, न: घटादिज्ञानेन आत्मगतधर्माधर्मादिगुणानिवृत्तेः। न च आश्रयविषयोभयसम्बन्धि वस्तु ज्ञानेन निवर्तते; आत्मनः शरीरविषयज्ञानेन देहात्मसम्बन्धाद्यनिवृत्तेः इति। ननु न दृष्टसामर्थ्यात् ज्ञानात् बन्धनिवृत्तिः, येन अविद्यात्मत्वं वर्ण्येत, किं तु आगम एव ज्ञानात् बन्धनिवृत्तिं श्रावयति। ननु श्रुतोपपत्त्यर्थमेव बन्धस्य अविद्यात्मत्वं वर्णनीयमेव; यथा आग्नेयादीनां षण्णां यागानां अधिकारापूर्वविषयतया अपूर्वकरणभावे श्रुतेऽपि कालान्तरभाविप्रधानापूर्वसाधनत्वोपपत्त्यर्थं क्रमभावियागकर्वजन्यानि मध्यवर्तीनि अवान्तरापूर्वाणि कल्प्यन्ते, यथा वा श्रुतस्यैव स्वर्गसाधनत्वस्योपपत्तयेऽपूर्वं कल्प्यते, तद्वत्। ननु तत्र क्षणिकानां कर्मणां कालान्तरवर्तिफलसाधनत्वाभावव्याप्तिनियमात् लोके, वेदेऽपि स्वर्गापूर्वसिद्ध्यै मध्ये अपूर्वाणि कल्प्यन्ते श्रुतोपपत्तये इति। तर्हि इहापि व्याप्तिनियतिः अस्ति इत्याह--यतो ज्ञानं अज्ञानस्यैव निवर्तकम् इति।। अतः सूत्रस्यैव बन्धस्य अविद्यात्मकत्वे व्यापारात् सूत्रार्थविचारकर्तव्यतोपपत्यर्थप्रयोजनसाधनाय अध्यासो वर्णनीयः इत्याह--तत् यदि इत्यादिना सूत्रार्थोपपत्युपयोगिता इत्यन्तेन ग्रन्थेन।। ननु सूत्रेण प्रथमप्रतिपन्नं प्रतिपाद्यं अर्थं उल्लङ्घ्य किमिति चरमप्रतिपन्नं आर्थिकार्थमेव भाष्यकारः प्रथमं वर्णयति इति तत्राह--सकलतन्त्रोपोद्घातः इति।। प्रतिपाद्यमर्थं बुद्धौ संगृह्य प्रागेव तदर्थमर्थान्तरवर्णनं 2उपोद्घातः।2 प्रतिपाद्यं बहिरेव प्रतिज्ञाय पश्चात् तत्सिद्धिहेतूपवर्णनं 2प्रतिपादनं इति विभागः।2 तन्त्रं इति तन्त्रार्थो ब्रह्मात्मैकत्वमुच्यते। ननु भवतु  प्रयोजनसिद्धिहेतुरध्यासः, कथं तन्त्रार्थसिद्धिहेतुः इत्याशङ्क्य तत्कथनाय तन्त्रार्थं प्रथमं कथयति--तथाचास्य शास्त्रस्य इति।।ऐदम्पर्यं प्रतिपादितं इत्युत्तरेण सम्बन्धः। तदेव ऐदम्पर्यं दर्शयति--सुखैकतानेत्यादिना।। अयमर्थः--ब्रह्मात्मैकत्वे वेदान्ताः पर्यवस्यन्ति इति यदिदं वेदान्तशास्त्रस्य ऐदम्पर्यं, तत् सूत्रभाष्याभ्यां प्रतिपादितं इति। तन्त्रार्थं प्रदर्श्य तस्य अध्याससिद्ध्यधीनतया अध्यासस्य प्रथमवर्णनीयतां दर्शयति--तच्चाहं कर्ता सुखी दुःखी इति।। ननु शास्त्रमेव प्रत्यक्षाभिमतमपि बन्धं आभासीकृत्य ब्रह्मात्मैकत्वं प्रतिपादयिष्यति, किं पृथक् अध्यासवर्णनेन इति तत्राह--  तावत् जरद्गवादिवाक्यवत् इति।। ननु शास्त्रार्थसिद्धिः अध्यासपराधीना चेत्, स एव तर्हि अध्यासः सूत्रकारेण मुखतो वर्णनीयः; तस्य प्राधान्यात्, अन्यथा तत्र अतात्पर्यप्रसङ्गात्, इति तत्राह--वक्ष्यति च एतत् इति।। तर्हि उपोद्घातत्वात् प्रथममेवाध्यासविषयं सूत्रं प्रणेतव्यमिति चोदयति--यद्येवं इति।। अर्थनिर्णयप्रधानत्वात् वादकथालक्षणायां प्रतिपादनप्रक्रियायां प्रवृत्तः सूत्रकारः न उपोद्घातप्रक्रियायां इति परिहरति--मैवं अर्थविशेषोपपत्तेः इति।। तर्हि भाष्यकारेणापि यथासूत्रक्रममेव प्रवर्तितव्यं न तु सूत्रक्रममतिलङ्घ्य इति तत्राह--भाष्यकारस्तु इति।। सुखप्रतिपत्त्यर्थम्=प्रवृत्त्यङ्गभावाय इत्यर्थः।।

                 एवमपि न व्याख्येयमिदं भाष्यम्; शास्त्रादौ मङ्गलाचरणाभावात्, विघ्नोपसंसृष्टतया शास्त्रार्थेऽप्रतिपत्त्यन्यथाप्रतिपत्ति-विप्रतिपत्तिसंभवात्, शिष्टाचारपरिपालनहीनतया च अनाप्तप्रणीतत्वप्रसङ्गात् इति चोदयति--ननु च ग्रन्थकरणादिकार्यारम्भे इति।। ननु शिष्टानां निष्ठीवनादिप्रवृत्तिः किमन्येन अनुसरणीया इति नेत्याह--शिष्टाचारश्च नः प्रमाणं इति।। आचारः=धर्मः इत्येवानुष्ठीयमानं कर्म। प्रमाणं=कर्तव्यं इत्यर्थः। ननु प्रयोजनाभावात् किं मङ्गलाचरणेन इति नेत्याह--प्रसिद्धं च मङ्गलाचरणस्य इति।। ननु अत्र विघ्न एव नास्ति अल्पारम्भत्वात् इति नेत्याह--महति च इति।। ननु सम्भावनामात्रात् न प्रवृत्तिः विघ्नशान्तये, किन्तु निश्चयात् इति अत्राह--प्रसिद्धं च इति।। ननु लोकप्रसिद्धिः निर्मूला न विघ्ननिश्चयहेतुः, इति अत आह--विज्ञायते च इति।। उपसंहरति--तत् कथं इति।।

                "सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम्।

                येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः।।"

इति स्मृतेः शिष्टाचारप्रतिपालनाय विघ्नोपशान्तये च विशिष्टदेवतातत्त्वानुस्मरणलक्षणं मङ्गलाचरणं कृतं इत्याह--अत्रोच्यते इति।। किं तत्र प्रमाणं इति अत आह--युष्मदस्मदित्यादि इति।। इत्यन्तमेव भाष्यं

प्रमाणं इत्यर्थः, मङ्गलाचरणं इति वा। कथमिदं विशिष्टदेवतानुस्मरणं गमयति इति तत्राह--अस्य च अयमर्थः इति।। ननु नेह विशुद्धात्मतत्वदेवता अनुस्मर्यते, किंतु अध्यासाभावो वर्ण्यते इति; सत्यम् तादर्थ्येन तत्त्वमप्यनुस्मर्यते इत्याह--तत् कथंचन इति।। ननु अन्यपरत्वात् देवतानुस्मृतिः अविवक्षिता न कार्यकरी इति, नेत्याह--तदन्यपरादेव इति।। अन्यार्थमपि देवतानुस्मरणं स्वभावादेव विघ्नोपप्लवं धक्ष्यति, धूमार्थ इव वह्निः तृणादिकं इत्यभिप्रायः। व्याख्येयत्वं प्रतिपादितमुपसंहरति--तस्मात् इति।। अन्यार्थप्रवृत्तेन "युष्मदस्मदि"त्यादिपदद्वयमर्थाद्व्याख्यातम्।। उत्तरपदं व्याख्यातुं भाष्यमाददाति--2विषयविषयिणोः इत्यादिना।।2 तत्र द्विविधो विरोधः, द्विविधा च इतरेतरभावानुपपत्तिः;  कथम् द्वयोः पदार्थयोरेकदेशकालावस्थानसामर्थ्याभावः पदार्थधर्मो विरोधः; तन्निमित्तो  अवस्थानलक्षणकार्याभाव  इतरेतरभावानुपपत्तिरित्येकः स्कन्धः। अपरस्तु पदार्थयोरितरेतरात्मतासामर्थ्याभावः पदार्थधर्मो विरोधः ; तन्निमित्त  इतरेतरात्मतालक्षणकार्यानुपपत्तिरित्यतो द्वैविध्यात् पृच्छति--कोऽयं विरोधः इत्यादिना।। तत्र प्रथमं पक्षं दूषयति--यदि तावत् इत्यादिना।। तत्र प्रथमं पक्षं दूषयति--यदि तावदित्यादिना सहावस्थानमुक्तं इत्यन्तेन ग्रन्थेन।। तत्र तमःप्रकाशशब्दाभ्यां छायातपशीतोष्णग्रहणमङ्गीकृत्य तत्रापि सहावस्थानमुक्तं वेदितव्यम्। इदानीं द्वितीयं पक्षमवलम्बते--2उच्यते परस्परानात्मतालक्षणो विरोधः इत्यादिना।।2

                ननु तमो नाम आलोकाभावमात्रं इति केचित्, रूपदर्शनाभावमात्रं इत्यन्ये, तत् कथं दृग्दृश्ययोः भावरूपयोः इदं दृष्टान्तेन आद्रियते इति उच्यते--उपचयापचयाद्यवस्थाभेदविशेषविशिष्टं रूपवत्तया च उपलभ्यमानं तमः कथं द्वयीमभावविधां आसीदेत् बहुलालोकविततेऽपि देशे निमीलितनयनस्य गोलकान्तरवर्तितमोदर्शनं अन्धकारोपलब्धिः पिहितकर्णपुटस्य आन्तरशब्दोपलब्धिवत् न विरुध्यते। आलोकविनाशितस्य च तमसः पुनः मूलकारणादेव झटिति महाविद्युदादिजन्मवत् जन्म सिद्ध्यति।।

                ननु रूपवतो द्रव्यस्य स्पर्शवत्त्वनियमात् तद्रहितं तमः कथं रूपवत् द्रव्यं अवगम्येत नैष दोषः;--वायोरन्यत्र स्पर्शवद्द्रव्यस्य रूपवत्त्वनियमेऽपि रूपरहितस्यस्पर्शवतो वायोरभ्युपगमात्, तद्वत् दर्शननियमादेव स्पर्शहीनस्य रूपवत्तमसः सिद्धेः। धूमस्य च रूपवतः चक्षुःप्रदेशादन्यत्र स्पर्शानुपलब्धिः, तद्वत् सर्वस्पर्शहीनं तमः किं न स्यात् सवितृकिरणविततेऽपि देशे प्रदीपालोकजन्मविनाशयोः प्रागभाव-प्रध्वंसाभावेतरेतराभावेषु तमोबुद्ध्यदर्शनात् नालोकभावमात्रं तमः। सर्वालोकाभावश्चेत् सर्वालोकासन्निधाने तर्हि न निवर्तेत। बहुलान्धकारसंवृतापवरकान्तरवस्थितस्यापि बहिः रूपदर्शनेन सह अपवरकान्तः तमोदर्शनात् न रूपदर्शनाभावमात्रं तमः इति अलमतिप्रसङ्गेन।।

                ननु दृग्दृश्ययोः इतरेतरभावानुपपत्तिः तयोः विभ्रमनिमित्तं तादात्म्यावभासं न निरुणद्धि, शुक्तिका-रजतयोरपि हि तादात्म्यहीनयोरेव विभ्रमनिमित्तं ऐकाधिकरण्यमवभासते, तद्वत् इहापि स्यात् इति चोदयति--कथं इति।। सत्यं; इदमंशमात्रस्य अधिष्ठानस्य रजतस्य च अध्यस्यमानस्य क्वचित् तादात्म्यमस्त्येव, ततश्च अधिष्ठानसामान्यांशस्य अध्यस्यमानविशेषांशस्य च क्वचित् सामान्यविशेषभावेन वा गुणगुणिभावेन वा समानाधिकृतस्य अन्यत्र अन्यतरांशवतः पदार्थस्य दर्शनात् अन्यतरांशाध्यासो विभ्रमो दृष्टः,तद्वत् इह अधिष्ठानस्य चितः अध्यस्यमानस्य च अनात्मनो नास्ति इत्याह--स्वतः तावत् विषयिणः चिदेकरसत्वान्न युष्मदंशसम्भवः इत्यादिना।।

                अयमाशयः--द्रष्टुः अचिदंशः स्वाभाविको वा स्यात् आगान्तुको वेति। न स्वाभाविक इत्याह--स्वत इति।। चेत्यं हि जडं चैतन्यस्य कर्मकारकतया अवभासते। तत् कथमेकस्यां क्रियायां कर्तुः विपरीतस्थानगतं कर्मकारकं आत्मा स्यात् इत्यभिप्रायः। आगन्तुकश्चेत्, सहेतुरहेतुर्वा। निर्हेतुश्चेत्, तत्राह--अपरिणामित्वात् इति।। न हि निरवयवं वस्तु स्वतः सावयवाकारेण परिणममानं दृष्टं इत्यभिप्रायः। न सहेतुः इत्याह--निरञ्जनत्वात् इति।। न हि निरवयवमाकाशं हेतूपरागान् परिणममानं दृष्टं इत्यर्थः। तर्ह्यनात्मैव अधिष्ठानं आत्मांशात्मकं क्वचित् दृष्टं इति , नेत्याह--विषयस्यापि इति।।

                समत्वात् इति।। अयमर्थः--यथा द्रष्टुः द्रष्ट्रन्तरं न प्रत्यक्षगोचरः, अनुमेयमेव तत्, एवं विषयोऽपि स्यात् इति। परतोऽपि न अनात्मनः चिदाकारपरिणामः; जडोपादानस्यापि कार्यस्य जडत्वात्, तर्हि आत्मचैतन्यमेव

अनात्मा स्वांशत्वेन स्वीकरोति इति चेत्, तत्राह--चितेः अप्रतिसंक्रमत्वाति इति।

                तस्मात् क्वचिदपि तादात्म्यादर्शनात् अन्यत्र अन्यतरांशदर्शनेन अन्यतरांशाध्यासो नोपपद्यते इति। 2तद्धर्माणामपि सुतरां इत्यारभ्य आभाव2 एवाध्यांसस्य युक्तः इत्यतः प्राक्तनो ग्रन्थः स्पष्टार्थः।

                ननु अहङ्कारादिषु शरीरान्तेषु अहमित्येव प्रत्ययः, न तु इदमिति कथमेषां युष्मत्प्रत्ययगोचरत्वं इति तत्राह--तद्बलनिर्भासिततया इति।। तस्य--अस्मत्प्रत्ययगोचरस्य चैतन्यस्य बलेन निर्भास्यत्वात् अहङ्कारादेः प्रतिभासतो युष्मदर्थत्वाभावेपि अपरोक्षतया अवभासस्यत्वेन लक्षणेन युष्मदर्थभावो युज्यते इत्यर्थः। अपृथक्त्वेऽपि चैतन्यात् पृथगिव अवभासन्ते इति।। अन्तःकरणवृत्त्युपाधौ नानेव अवभासन्ते इत्यर्थः।।

                भूयोऽवयवसामान्यसादृश्याभावात् आत्मनि कर्तृत्वादेः अहङ्काराद्युपाधिनिमित्तभ्रमत्वेऽपि, शरीराद्यध्यासस्य सोपाधिकभ्रमत्वाभावात्। द्रष्टरि अहङ्कारादिशरीरान्तपदार्थाध्यासस्य सम्भवं प्राप्तं अङ्गीकरोति--यद्यप्येवं इति।। निरुपाधिकभ्रमकार्यदर्शनमेव गुणावयवसामान्याभावेऽपि केतकीगन्धसदृशः सर्पगन्धः इतिवत् सादृश्यान्तरं वा शङ्खपीतिमादाविव कारणान्तरं वा कल्पयति इत्याह--"तथापि" इत्यादिना "एवमध्यासस्यापि" इत्यभिप्रायः इत्यन्तेन ग्रन्थेन।। नैसर्गिकशब्दार्थमाह--प्रत्यक्चैत्यन्यसत्तामात्रानुबन्धी इति।। कथम् आत्मनि कर्तृत्व-भोक्तृत्वदोषसंयोग एव अध्यासः। तत्र भोक्तृत्वाध्यासः कर्तृत्वाध्यासमपेक्षते; अकर्तुर्भोगाभावात्, कर्तृत्वं च रागद्वेषसंयोगाध्यासमपेक्षते; तद्रहितस्य कर्तृत्वाभावात्स, दोषसंयोगश्च भोक्तृत्वमपेक्षते; अनुपभुत्ते अतञ्जातीये वा रागाद्यनुपपत्तेः, एवं बीजाङ्कुरवत् हेतुपरम्परया अनादित्वात् अध्यासस्य नैसर्गिकत्वं इति। लोकव्यवहारशब्दः अध्यासाभिधायीति दर्शयति--लोकः इति मनुष्योऽहं इत्यादिना।। व्यवहारः--अभिज्ञा अभिवदनं उपादानं अर्थक्रिया इति चतुर्विधः। अतो मनुष्योऽहं इति ज्ञानाभिधाने व्ययवहारशब्दं अर्हतः इति भावः।

                अन्यस्य अन्यात्मतावभासः अविद्या इत्युक्ते "शुक्लः पटः" इत्यादिप्रत्ययानां अविद्यात्वप्रसङ्गो मा भूत् इति सत्यस्य वस्तुनो मिथ्यावस्तुसम्भेदावभासो अविद्या इति स्वसिद्धान्तमङ्गीकृत्य "सत्यानृते मिथुनीकृत्य" इत्युक्तम्, तत् व्याचष्टे--सत्यं अनिदं चैतन्यं इत्यादिना।। ननु क्त्वाप्रत्ययोपादानात् अर्थतः क्रियाभेदः पूर्वापरभावश्च अङ्गीकर्तव्यः, तत् कथं अध्यासमिथुनीकरणलोकव्यवहाराणां एकार्थत्वं इति नेत्याह--अध्यस्य मिथुनीकृत्य इत्यादिना।। ननु किमिति स्वरूपमात्रपर्यवसानम् क्रियाभेद एव क्त्वाप्रत्ययसामर्थ्यादुपादीयतां इति, नेत्याह--उपसंहारे च इति।। न हि पदमात्रवैयर्थ्यभयावाक्यार्थो  नैसर्गिकत्वगुणविशिष्टः विशेष्यपदार्थः अध्यासः उपक्रमोपसंहारयोः भेत्तुं युक्तः इत्यभिप्रायः। किं तर्हि क्त्वाप्रत्ययावलम्बनं इति प्रतिपत्तितः क्रियाभेदपूर्वापरीभावो इत्याह--अतः चैतन्यं पुरुषस्य स्वरूपं इतिवद्व्यपदेशमात्रं इति।। उपचारमात्रं इत्यर्थः। कथम् एकोऽप्यध्यासः अन्योन्यात्मता सत्यानृते अहमिदं ममेदं इति च विशेषणभेदात् विशिष्टः परोपाधौ भिद्यते; विशिष्टार्थ प्रत्ययाश्च क्रमेण वक्तुः भवन्ति इति, प्रतिपत्तितः पूर्वापरीभावं विशेषणभेदाच्च विशिष्टक्रियाभेदं च अङ्गीकृत्य क्त्वाप्रत्ययः इति। तत्र अज्ञानं इत्युक्ते भ्रान्तिज्ञानं इति स्यात्, तदुभयव्यावृत्त्यर्थं निरुच्य पदार्थौ दर्शयति--मिथ्या च तत् अज्ञानं च इत्यादिना।।

                ननु कथं मिथ्याज्ञानं अध्यासस्य उपादानम् तस्मिन् सति अध्यासस्य उदयात् असति च अनुदयात् इति ब्रूमः।। ननु अध्यासस्य प्रतिबन्धकं तत्त्वज्ञानं तदभावश्च अज्ञानं इति प्रतिबन्धकाभावविषयतया अज्ञानस्य अध्यासेन अन्वयव्यतिरेकौ अन्यथासिद्धौ, नैतत् सारम्;पुष्कलकारणे हि सति कार्योत्पादविरोधि प्रतिबन्धकम्। न च अध्यासपुष्कलकारणे सति तत्त्वज्ञानोदयः। तस्मान्नाज्ञानादय-व्यतिरेकौ  प्रतिबन्धकाभावविषयौ। तथापि विरोधिसंसर्गाभाव इति चेत्, न;कार्यस्य कारणापेक्षा हि प्रथममुत्पद्यते, न विरोधिसंसर्गाभावापेक्षा। तस्मात् प्रथमापेक्षितकारणक्लृत्पिमेव अन्वयव्यतिरेकौ न्यायसहितौ कुर्वाते।

                ननु क्लृप्तं विषयेन्द्रियादिदोषः कारणं इति। सत्यम्; निमित्तं तु तत्, उपादानापेक्षायां अज्ञानमनुप्रविशति; सर्वं च कार्यं सोपादानम्, भावकार्यत्वात्, घटादिवत्, इत्यनुमानात्, क्रियागुणादेरपि साश्रयस्यैव उत्पत्तेः उत्पद्यमानाश्रयस्यैव उपादानत्वात्। ननु आत्मा अन्तःकरणं वा भ्रान्तिज्ञानोपादानं भविष्यति न; आत्मनः अपरिणामित्वात्; अन्तःकरणस्य च इन्द्रियसंयोगादिसापेक्षत्वात् न; मिथ्यार्थे च प्रत्ययमात्रविपरिवर्तिनि तदयोगात्, अधिष्ठानज्ञानेन अन्यथासिद्धत्वाच्च तदन्वयव्यतिरेकयोः। अन्तःकरणस्य 

जडत्वात् अज्ञातृत्वात्, आत्मनः अभ्रान्तत्वप्रसङ्गाच्च। तस्मात् मिथ्यर्थतज्ज्ञानात्मकं मिथ्याभूतं अध्यासं उपादानकारणसापेक्षं अनाश्रयस्थानतया काचिदिनिमित्तकारणेषु भिद्यमानेषु मिथ्याभूतस्यैव सर्वकार्यस्वभावानुकूलस्य सर्वत्र अनुगमात् अज्ञानस्य आत्माश्रयतया भ्रान्तिज्ञानाश्रयकोटिनिक्षिप्तत्वाच्च मिथ्याज्ञानमेव अध्यासोपादानम्, न आत्मान्तःकरणकाचादिदोषाः इति सूक्तम्। अत्माश्रयाध्यासस्य शुक्तिकासंसर्गोविभ्रम इति वक्ष्यते। एकस्यैव अध्यासस्य नैसर्गिकत्वं नैमित्तिकत्वं च विरुद्धं इति चोदयति--कथं पुनः इति।।

                तत्र प्रथमं तावत् अध्यासप्रवाहजन्मना उपादानकारणरूपेण नैसर्गिकत्वं कार्यव्यक्तिरूपेण नैमित्तिकत्वं इति अविरोधं दर्शयितुं आत्मनि भावरूपमज्ञानं साधयति--अवश्यमेषा अविद्याशक्तिः इति।। 'अवश्यं' इति "एषा इति" च प्रमाणद्वयवत्तामाह। प्रत्यक्षं तावत्; "अहमज्ञः" "मामन्यं च न जानामि" इत्यपरोक्षावभासदर्शनात्। ननु ज्ञानाभावविषयः अयमवभासः, न;अपरोक्षावभासत्वात् अहं सुखी इतिवत्, अभावस्य च षष्ठप्रमाणगोचरत्वात्, प्रत्यक्षाभाववादिनोऽपि न आत्मनि विज्ञानाभावावगमः सम्भवति; "मयि ज्ञानं नास्ति" इति प्रतिपत्तौ अत्मनि धर्मिणि प्रतियोगिनि वा अर्थे अवगते तत्र ज्ञानसद्भावात् ज्ञानाभावप्रतिपत्त्ययोगात्, अनवगतेऽपि धर्म्यादौ सुतरां अभावानवगमात्, षष्ठप्रमाणगोचरे फललिङ्गाभावानुमेयेऽपि ज्ञानाभावे, आत्मादौ अवगते अनवगतेऽपि आत्मनि ज्ञानाभावप्रतिपत्त्ययोगात्।  इह च "त्वदुक्तमर्थं संख्यां वा शास्त्रार्थं वा न जानामि" इति विषयव्यावृत्तमज्ञानमनुभूय तच्छ्रवणादौ प्रवर्तते।

                भावरूपाज्ञानप्रत्यक्षवादे तु सत्यपि आश्रयप्रतियोगिज्ञाने ज्ञानाभावस्येव भावान्तरस्यापि न अनुपपत्तिः नियन्तुं शक्यते। न च आश्रयप्रतियोगिज्ञानभूतमपि साक्षिचैतन्यं भावान्तरस्य अज्ञानस्य निवर्तकम्; तस्य अज्ञानविषयप्रतिभासत्वात्। न हि स्वज्ञानेनैव स्वयं निवर्तते।        ननु अज्ञानस्य व्यावर्तको विषयः कथं साक्षिचैतन्येन अवभास्यते प्रमाणायत्तत्वात् विषयसिद्धेः इति, उच्यते;सर्वं वस्तु ज्ञाततया वा अज्ञाततया वा साक्षिचैतन्यस्य विषय एव। तत्र ज्ञाततया विषयः प्रमाणव्यवधानमपेक्षते, अन्यस्तु सामान्याकारेण विशेषाकारेण वा अज्ञानव्यावर्तकतया सदा भासते इति उपपत्तिसहितं अज्ञानप्रत्यक्षं भावरूपमेव आत्मनि अज्ञानं गमयति इति सिद्धम्।।

                अनुमानमपि--विवादगोचरापन्नं प्रमाणज्ञानं, स्वप्रागभावव्यतिरिक्तविषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरंपूर्वकं भवितुमर्हति, अप्रकाशितार्थप्रकाशकत्वात्, अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावत् इति। ततश्च ज्ञानेन समानाश्रयविषयं भावरूपमज्ञानं सिद्धम्। शक्तिरिति आत्मपरतन्त्रतया आत्मनः सर्वकार्योपादानत्वस्य निर्वोढृत्वमाह। तत्स्वरूपम्--आत्मतत्त्वम्, तत्सत्तामात्रानुबन्धिनी इत्यर्थः। किंच अर्थापत्तिरपि भावरूपाज्ञानसद्भावे प्रमाणं इत्याह--अन्यथा मिथ्यार्थावभासानुपपत्तेः इति।। विशुद्धब्रह्मात्मनि शुक्तिकायां च अहङ्काररजताध्यासस्य अर्थज्ञानात्मकस्य मिथ्याभूतस्य मिथ्याभूतमेव किंचित् उपादानमन्वेषणीयम्; सत्योपादानत्वे कार्यस्य कारणस्वभावतया अध्यासस्यापि सत्यत्वप्रसङ्गात्, तस्यापि मिथ्योपादानस्य सादित्वे तथाविधोपादानान्तरकल्पनाप्रसङ्गात् अनाद्येव तत् मिथ्योपादानं इति कल्पनीयम्। यच्च अनादि स्वयं मिथ्या मिथ्योपादानं आत्मसन्बन्धि च तत् अज्ञानं इति मिथ्याध्यास एव तथाविधाज्ञानोपादानं कारणं अन्तरेण अनुपपद्यमानः तत् कल्पयति इत्युक्तम्।।

                ननु येन यस्य अतिशयः उत्पद्यते, स तस्य विषयः, न च अज्ञानेन अनात्मनि आवरणातिशयजन्म; प्रमाणाभावात्, अर्थानुपपत्तेश्च। न तावत् अगवते नीलार्थे तत्र आवरणकृत्यमवगन्तुं शक्यते, अनवगते तु न तराम्। ननु अवगते सति पूर्वं आवृतं इत्यवगम्यताम्, न;धारावाहिकविज्ञानगम्येऽर्थे पूर्वमवगतस्यापि पश्चादवगमदर्शनात्।  ननु इदानीमेव अवगतत्वं पूर्वमनवगतिं साधयति, न;पूर्वानवगतिमविज्ञाय इदानीमेव अवगतं इत्यवधारणायोगात्। ननु पूर्वापरप्रत्यभिज्ञायां मध्ये अनवगतिरवगम्यते इति, *न प्रत्यभिज्ञानुपपत्तिः मध्ये अनवगतिं साधयति; धारावाहिकेऽप्यात्मनि सदावगते तद्दर्शनात्, मध्ये ज्ञानस्मृत्यभावात् अनवगतिरवगम्यते इति चेत्, न;अवगतेऽपि स्मृतिनियमाभावात्। तथापि विषयानवगतिः प्रतीयते इति चेत्, सत्यम् विषयैः सह साक्षिचैतन्ये अज्ञानाध्यासात् प्रतिभासः, न च अध्यस्तस्य आवरणमस्ति; द्विचन्द्रादिवत्

प्रमाणगम्यत्वाभावात्। तस्मात् नास्ति अनात्मनि आवरणे प्रमाणम्। न च स्वयमेव प्रकाशहीनस्य जडस्य आवरणार्थोऽपि सम्भवति। तस्मात् अतिशयाभावात् न अज्ञानविषयः अनात्मा इति, तत्राह--2सा च न जडेषु वस्तुषु तत्स्वरूपावभासं प्रतिबध्नाति इति।।2 किं तु अन्यदेव अनात्मनि अतिशयकार्यं कृत्वा तद्विषयमज्ञानं इति वक्ष्यत इत्यभिप्रायः। तत्र हेतुः--प्रमाण वैकल्यादेव इति।। अथवा चैतन्यप्रकाशेन जडानां नित्यवदन्वयात् नित्यवत् प्रकाशे प्राप्ते, सम्भवत्येव अनात्मसु आवरणकृत्यं इत्याशङ्क्य आह--प्रमाणवैकल्यादेव इति।। अनात्मप्रमाणस्य-चैतन्यस्य-वैकल्यात्--आवरणादेव विषयानवगतिसिद्धेः न विषये पृथगावरणं कल्पनीयं इत्यर्थः। इतश्च न अनात्मनि आवरणं इत्याह--रजतप्रतिभासात् इति।।

                यदि आत्माश्रयं अज्ञानं अनात्मावरणं स्यात्, तदा, आवरणविनाशमन्तरेण विषयावभासायोगात् विषयज्ञानेन आत्माज्ञानं निवर्तेत। अतः सत्यामेव आत्मनि अविद्यायां त्रिष्वपि कालेषु विषयस्वरूपप्रतिभासदर्शनात्, न अनात्मावरणं अज्ञानं इति भावः।

                ननु शुक्तिकाविषयं अज्ञानं अन्यदेव, तज्ज्ञानात् तत् निवर्तते, अन्यच्च आत्मविषयं अज्ञानं आत्मनि दृश्यमानं इति, तन्न; आत्माश्रयं आत्मविषयं च अज्ञानं अन्तरेण अनात्मसु प्रतिविषयं भावरूपाज्ञानसद्भावे प्रमाणाभावात्, विषयाग्रहणस्य प्रमाणवैकल्यादपि उपपत्तेः। Bकिं च तर्हि अतिशयं अज्ञानजन्यं आश्रित्य बाह्याध्यात्मिकेषु वस्तु इति अनात्मविषयमज्ञानं दर्शितं इति  तदाह--अतः तत्र रूपान्तरावभासहेतुरेव केवलम् इति।।

                ननु अत्रापि अनुपपत्तिः समाना, कथम् शुक्तिकाज्ञानं हि रूपान्तरावभासं निवर्तयन् तदुपादानं अज्ञानमपि निवर्तयति इति ते मतम्, तत्र कथं शुक्तिकाज्ञानात् सहाज्ञानेन अध्यासे निवर्त्यमाने पुनः आत्मनि अज्ञानं दृश्यते अतः प्रतिविषयमज्ञानभेदः, अध्यासस्य अज्ञानानुपादानत्वं वा, उपादाननिवृत्तिमन्तरेण अध्यासनिवृत्तिर्वा समाश्रयणीया इति, उच्यते;अस्मिन् पक्षे शुक्तिकादिज्ञानेन रजताद्यध्यासानां स्वकारणे प्रविलयमात्रं क्रियते मुसलप्रहारेणेव घटस्य। अथवा--मूलाज्ञानस्यैव अवस्थाभेदा रजताद्युपादानानि शुक्तिकादिज्ञानैः सहाध्यासेन निवर्तन्ते इति कल्प्यताम्। कथं पुनः लोके सहाज्ञानेनाध्यासस्य तत्त्वज्ञानात् निवृत्तेः अप्रतिपत्तौ ब्रह्मज्ञानात् सहाज्ञानेन अध्यासस्य निवृत्तिः दृष्टद्वारेण कल्प्यते इति नैष दोषः; तत्त्वावभासविरोधिनः अग्रहणमिथ्याज्ञानादेः तत्त्वज्ञानेन निवृत्तिदर्शनात् इहापि तत्त्वावभासविरोधितयैव भावरूपाज्ञानादेः कल्प्यमानत्वात् तस्य ब्रह्मज्ञानात् निवृत्तेः उपपत्तेः। न च आवरणपक्षोक्तदोषप्रसङ्गः ; विषयव्यावृत्तरूपान्तरस्य भ्रान्तिज्ञानेन अवगमात्। नन्वेवं आत्मन्यपि अज्ञाननिमित्तं आवरणकृत्यं नास्ति, कथम् न तावत् आवरणं प्रकाशविलोपः ; स्वरूपस्य अनपायात्, नापि सत एव प्रकाशस्य कार्यप्रतिबन्धः ; ज्ञानस्य विषयावभासात्मना उदितस्य स्वकार्ये प्रतिबन्धप्रतीक्षयोरभावात्, तस्मात् नैव आत्मन्यपि भावरूपमज्ञानं; अनुपयोगात् इति तत्राह--"प्रत्यगात्मनि तु चितिस्वभावत्वात् स्वयंप्रकाशमाने"इत्यादिना "तस्य अनवभासः"इत्यन्तेन ग्रन्थेन।।

                अयमर्थः--"अस्ति, प्रकाशते" इत्याद्यभिज्ञादिव्यवहारं प्रति पुष्कलकारणे सति--"नास्ति न प्रकाशते च" इति योऽयं आत्मतत्त्वालम्बनो व्यवहारः, सः भावरूपेण केनचित् आत्मनि आवरणमन्तरेण नोपपद्यते; सति पुष्कलकारणे असति च आवरणे, सन्निहिते धटे "प्रकाशते" इत्यादिव्यवहारदर्शनात्, अतो "नास्ति ब्रह्म, न प्रकाशते च" इति व्यवहारः अन्यथानुपपत्त्या भावरूपमज्ञानं गमयति इति अर्थापत्तिः अनुमानं वा समुदायार्थः।

                तत्सिद्ध्यर्थमात्मनि "प्रकाशते" इत्यादिव्यवहारं प्रति पुष्कलकारणतां दर्शयति--चितिस्वभावत्वात् इति।। किं तर्हि आवरणमिति  तत्राह--ब्रह्मस्वरूपानवभासस्य इति।। "नास्ति न प्रकाशते" इति व्यावहारालम्बनयोग्यत्वस्य व्यवहारकार्यदर्शनादेव कल्प्यमानस्य इत्यर्थः। न च अधिष्ठानप्रतिबन्धमन्तरेण तत्र विपर्ययकार्यमुपपद्यते। अविद्यासम्बन्धत्वादेव आवरणस्य अनिरूपतिताकारता च युक्ता इति भावः। ननु प्रमाणवैकल्यादेव अत्राप्यग्रहणमिति, नेत्याह--अनन्यमनिमित्तत्वात् इति।। अतः अनवभासात् पुष्कलकारणे सति परिशेषात् इदमायातं इत्याह--तद्गतनिसर्गसिद्धाविद्याशक्तिप्रतिबन्धादेव तस्यानवभासः इति।। मूर्तद्रव्यान्तरस्य असम्भवात् इति भावः। अतः कार्यदर्शनोन्नेयं आवरणकृत्यं विपर्ययं च आत्मनि कुर्वाणं अज्ञानं भावरूपमेव उभयकारणत्वान्यथानुपपत्त्या कल्प्यते इत्याह--अतः सा प्रत्यक्चिति इति।।

                ननु अग्रहण-मिथ्याज्ञान-तत्संस्कारेभ्यः अन्यत् अज्ञानं नाम न पश्यामः, त एव च जीवस्य स्वयंप्रकाशमानमपि ब्रह्मस्वरूपावभासं प्रतिबध्नन्ति इति, नेत्याह--सुषुप्तादौ च इति।। तत्रापि अविद्याशक्तिः संस्कारशेषं तिष्ठतीति, न संस्कारादय एव अज्ञानं इत्यर्थः। कथम् न तावत् सुषुप्तादौ स्वयम्प्रकाशब्रह्मस्वरूपानवभासः पुरुषान्तरसंवेदनवत् द्रष्टुर्भिन्नत्वात् इति शक्यं वक्तुम्; एकत्वश्रुतेः, नापि मिथ्याज्ञानप्रतिबन्धात्; तत्र तस्य अभावात्, नापि तत्संस्कारप्रतिबन्धात्; भ्रान्तिसंस्काराणां तत्त्वावभासप्रतिबन्धकत्वाभावात्, सत्स्वपि रजतभ्रमसंस्कारेषु शुक्तिकावबोधदर्शनात्, नापि अग्रहणप्रतिबन्धात्; स्वरूपग्रहणस्य नित्यत्वात् स्वयंप्रकाशमाने संवेदने तद्विषयकादाचित्काग्रहणस्य अप्रतिबन्धकत्वात्, नापि कर्मणां स्वरूपावभासविरोधिता; सर्वदा अणुमात्रस्यापि चैतन्यस्य अनवभासप्रसङ्गात्, अज्ञानेऽपि तुल्यं इति चेत्, न; तस्य स्वविषयचैतन्यावभासं प्रति अप्रतिबन्धकत्वात्, न च अज्ञानस्येव कर्मणां नित्यवत् साक्षिचैतन्येन अवभास्यता, येन तदवभासकतया साक्षिचैतन्यमप्रतिबद्धं प्रकाशेत। न च कर्माणि स्वाश्रयावभासविरोधीनि इति प्रमाणमस्ति। संस्कारत्वाच्च कर्मणां भ्रान्तिसंस्कारवत् अप्रतिबन्धकता। तस्मात् सुषुप्तादौ स्वरूपानवभासव्यवहारः अग्रहणमिथ्याज्ञानतत्संस्कारकर्मभ्यः अन्यदेव किंचित् प्रतिबन्धकं अज्ञानं कल्पयतीत्यर्थः। ननु द्रव्यान्तरमेव प्रतिबन्धकं कल्प्यतां, किमज्ञानकल्पनया इति, नैतत्;ब्रह्मज्ञानात् प्रतिबन्धनिवृत्तिमन्तरेण स्वविषयावभासायोगात्, ज्ञाननिवर्त्यस्य च अज्ञानत्वात्।।

                2अत्र कश्चित्-2भेदाभेदाभ्यां सर्वसंकरवादी वेदान्तार्थगहनसम्प्रदायहीनः दुर्जरमणीयां वाचं जल्पति--न किल अग्रहणमिथ्याज्ञानतत्संस्कारेभ्यः अन्यत् सकलसंसारबीजभूतं अवस्थात्रयेऽपि अनपायि आसंसारविमोक्षात् दण्डायमानमज्ञानं नाम अस्ति, किं तु भ्रान्तिज्ञानं अग्रहणं वा अज्ञानं इति।।

                2अयं प्रष्टव्यः2--केयं भ्रान्तिः इति। अहंकारादिशरीरपर्यन्ते अनात्मनि आत्मबुद्धिः इति चेत् , अहो विस्मरणशीलता सर्वत्र सङ्गीर्णचेतसः। "खण्डो गौः" इत्यादिभेदाभेदप्रत्ययं प्रमाणमुपपादयन् "अहं मनुष्यः" इति प्रत्ययं भेदाभेदविषयं किमिति उपेक्षसे "नाहं मनुष्यः ब्रह्मास्मि" इति प्रत्ययसामर्थ्यात् इति चेत्, तन्न;"नायं खण्डो गौः, किं तु मुण्डो गौः" इति प्रत्ययेऽपि खण्डमुण्डाभ्यां गोत्वस्य अभेदवत् शरीरब्रह्मभ्यां जीवस्य अभेदप्रत्ययस्यापि प्रामाण्योपपत्तेः। इदंरजतवत् भ्रान्तिः इति चेत्, न;खण्डो गौः इत्यत्रापि तथात्वप्रसङ्गात्, "नायं खण्डो गौः, किं तु मुण्डः" इति व्यक्त्यन्तरे खण्डस्य गोत्वोपाधौ निषेधप्रत्ययसामर्थ्यात् तत्र व्यवहारानुच्छेदात् प्रामाण्यं इति चेत्, तत्--"अहं मनुष्यः" इत्यत्रापि तुल्यम्; मोक्षावस्थायामपि सर्वात्मत्वात् तव सर्वशरीरेन्द्रियाद्यभिमानव्यवहारानुच्छेदात्। जातिव्यक्ति गुणगुणि कार्यकारण विशिष्टस्वरूप अंशांशि सबन्धाः यत्र विद्यन्ते, तत्र भेदाभेदौ, न शरीरात्मनोः; तेषामभावात् इति चेत्, तर्हि शरीरशरीरिसम्बन्धोऽपि गुणगुण्यादिवत् भेदनिमित्तं किं न स्यात् अन्यथा सर्वसङ्करवादितया क्षपणकशिष्यता चिरकालसमुपार्जिता बाध्येत। अस्ति च चेतनस्वरूपशरीरयोः कार्यकारणभावः, चेतनस्वरूपांशस्य ब्रह्मत्वात्, अतः न ते भ्रान्तिरस्ति।।

                किं च, भ्रान्तिज्ञानं अन्तःकरणपरिणामश्चेत्, तदा आत्माश्रया अविद्या न स्यात्, अन्तःकरणपरिणाम एव आत्मनि अध्यस्त इति चेत्, तथापि अन्यथाख्यातिवादिनः संसर्गस्य शून्यत्वात् आत्माविद्यासम्बन्धो न स्यात्। न च आत्मपरिणामो भ्रान्तिः; अपरिणामित्वात्। न च ज्ञानगुणस्य द्रव्यस्य पुनः ज्ञानगुणान्तराकारेण परिणामः सम्भवति; अवान्तरजातीयस्य एकस्मिन् द्रव्ये गुणद्वयस्य युगपत् समवायायोगात्, न हि पटे शौक्ल्यं युगपत् समवैति। तस्मात् अनादिसिद्धमिथ्याज्ञानानभ्युपगमे न काचित्सर्वसङ्करवादिनोऽविद्या सम्भवति। अनादिमिथ्याज्ञानसम्बन्धोऽपि आत्मनि अज्ञानवत् काल्पनिकत्वात् आकाशकार्ष्ण्यवत् आत्मनः कूटस्थतां न विहन्ति इत्यलमतिप्रसङ्गेन। अत्र च प्रत्यक्षानुमानार्थापत्तयः अनादिभावरूपाज्ञाने प्रमाणत्वेन उपन्यस्ताः। तत्र एवंभूतेन कारणरूपेण कार्यरूपेण च नैमित्तिकत्वनैसर्गिकत्वे न विरुद्धे इत्युपसंहरति--अतो नैसर्गिकोऽप्यहङ्कार इति।।"अन्योऽन्यधर्मांश्च" इत्यादिः अध्यासस्वरूपं दर्शयति इत्यन्तो ग्रन्थः स्पष्टार्थः।।

                निष्कलङ्कचैतन्यैकताने निरंशानन्दैकरसे अज्ञानादिसाक्षिणि अनादिसिद्धेऽपि अज्ञानाध्यासे, कादाचित्कमध्यासमाश्रित्य आह--अहमिति तावत् प्रथमोऽध्यासः इति।। ननु "इदं रजतं" इतिवत्

अध्यासे "द्वैरूप्यं अहं" इत्यत्रापि वक्तव्यम्। "अहं" इति च एकरूपेणावभासते, अतो नाध्यासः इति चोदयति--नन्वहमिति निरंशचैतन्यमात्रं इति।। यथा द्वैरूप्येणाध्याससम्भवः, तथा वक्ष्यत इत्याह--यथाध्यास्तांशान्तर्भावः इति।। ननु अन्तःकरणेन्द्रियाणामात्मानः पृथक्सत्त्वोपलब्ध्यभावात् अध्यस्ततयैव सिद्धेः आत्मतत्त्वावबोधेन न स्वरूपतो विलयश्रवणात् स्वरूपेण संसृष्टरूपेण च आत्मन्यध्यस्ततया सिद्धिस्तु, शरीरं पुनरिन्द्रियैरिदंबुद्धिगृहीतत्वात् केवलसाक्षिवेद्यत्वाभावात् उत्क्रान्तेऽप्यात्मनि पृथगुपलब्धेः भूतेषु लयश्रवणाच्च न अध्यस्ततया सिद्धं इति चोदयति--नन्विदमित्यहंकर्तुः इति।। शरीरव्यतिरिक्तं ममबुद्धिगृहीतं सुतरामनध्यस्तमित्याह--ममेदमिति च इति।। शरीरादिपदार्थस्वरूपस्य मिथ्याकल्पितकर्तृभोक्तृप्रमातृदोषसंयुक्तात्मार्थतयैव कार्यतया भोग्यतया प्रमेयतया द्वेष्यतया च तादर्थ्येनैव सृष्टत्वात् स्वरूपेणापि मिथ्यात्वं स्वप्नदृष्टान्तेन अनुमातुं शक्यते इत्याह--उच्यते यदैवाहंकर्ता इत्यादिना।। दार्ष्टान्तिकं दर्शयति--एवमहंकर्तृत्वप्रमुखः इति।।

                द्रष्टरि दृष्यावभासस्याविद्याध्यासत्त्वे शास्त्रीयविषय-प्रयोजनसिद्धिः फलिष्यति इत्याह--अतस्तादृग्ब्रह्मात्मानुभवपर्यन्तात् इति।। तादृग्ब्रह्मात्मानुभवो बन्धनिवृत्तिश्च उपपद्यते इत्यर्थः। विषयप्रयोजनसिद्धौ किमायातम् इति। शास्त्रारम्भकर्तव्यता सिद्धा इत्याह--तदर्थविषयवेदान्तमीमांसारम्भः इति।। ते एव=ब्रह्मात्मानुभवबन्धनिवृत्ती, अर्थः=प्रयोजनं विषयश्च यस्य वेदान्तमीमांसारम्भस्य इति विग्रहः। "सर्वलोकप्रत्यक्ष" इत्यन्तस्य उत्तरभाष्यस्य तात्पर्यमाह--आह कोऽयं इति।। इदनीं विभज्य अवान्तरतात्पर्यं कथयति--तत्रापि इति।।

                लक्षणसम्भावनापरभाष्यमाक्षिपति--यद्येवं इति।। किमिति लक्षणसम्भावने नापेक्ष्येते इति तत्राह--न ह्यनिर्ज्ञातरूपं इति।। प्रमाणमेव हि प्रमेयं अन्यस्य अन्यात्मना अवभासमध्यासं व्यवस्थापयत् स्वदेशकालोपाधौ सम्भावितरूपं सर्वतोव्यावृत्तासाधारणरूपं च व्यवस्थापयति, किं पृथक् लक्षणसम्भावनोपन्यासेन इत्यर्थः। ननु अनुमानादिप्रमाणनिर्ज्ञातेषु वस्तुमात्रेषु विशेषलक्षणसम्भावने पृथगपेक्ष्येते, इति अत आह--दुःसंपादं इति।। विशेषत इति।। असाधारणाकारव्यावृत्ततया इत्यर्थः। तत्र द्रष्टुरन्यस्य दृश्येन अन्यात्मना अवभासो विद्यत इत्येतावति प्रमाणं वक्ष्यते, न तस्य अविद्याभ्रान्त्यध्यासमिथ्यात्वे, अतः तत्प्रमाणेन न सिध्यति इति परिहरति--उच्यते--न देहेन्द्रियादिषु इत्यादिना।।

                ननु अन्यस्य अन्यात्मनावभासप्रमाणेनैव तन्मिथ्यात्वमपि सिध्यति, प्रमेयैक्यात् इति चोदयति--तत् कस्य हेतोः इति।। नानुभवादेव इति परिहरति--लोके इति।। ननु प्रमाणे सति किमिति अनुभवाभावः प्रमाणभेदात् इत्याह--बाधे हि सति इति।। बाधानुपपत्तिर्मिथ्यात्वे प्रमाणं; प्रत्यक्षानुमानव्यवहारानुपपत्त्यागमा आत्मन्यनात्मावभासे प्रमाणं इति भावः। ननु इहापि बाधनिमित्तमितरेतरविवेकमन्तरेण अन्यस्यान्यात्मनाऽवभासोऽयं इत्यवगन्तुं न शक्यते; अन्यथा स्वस्यैव स्वेनात्मना अवभासः किं न स्यात् इति नेत्याह--नेह स विद्यते इति।। यौक्तिकज्ञानादिना परोक्षविवेकमाश्रित्य परस्परात्मनाऽवभासनिश्चयः। अपरोक्षबाधस्य भ्रान्तिप्रतिभासोच्छेदिनोऽभावात् न स्पष्टो मिथ्यात्वाध्यवसायः इति भावः। अतः अविद्यात्वस्पष्टीकरणाय लक्षणमेव वक्तव्यं इत्याह--तस्मादध्यासस्य इति।। तर्हि लक्षणप्रमाणाभ्यामेव वस्तुनिर्णयसिद्धेः प्रमाणेनैव असम्भावनानिराकरणात् सम्भावना पृथक् न वक्तव्या इति चोदयति--ननु एवमपि इति।। सत्यपि प्रमाणसामर्थ्ये प्रत्यक्षावभासनमपि असम्भाव्यमानतया निराकृतमनुभूयते इति अनुभवमेवावलम्ब्य परिहरति--सत्यमेवं इति।। औत्पातिकः इति।। अदृष्टव्यतिरिक्तकारणशून्यः इत्यर्थः।।

                ननु प्रमाणेनैव क्वचिदसम्भावना तिरस्क्रियते, यथा आकाशगमने पक्षिणाम्; क्वचिदसम्भावनया प्रतिभासः अपरोक्षोऽपि निरस्यते, यथा सवितृसुष्यादौ; तत्र आत्मनि अनात्मावभासः कं पक्षमवलम्बताम् इति असम्भावनापक्षमेव इति विशेषं दर्शयति--एवमविषयेऽङ्गे इति।। अधिष्ठानस्याध्यस्यमानेन सह एकज्ञानविषयत्वं वक्तव्यम्, तदभावात् न अध्याससम्भवः इत्याह--अविषये इति।। द्रष्टुर्व्यतिरिक्तस्य कृत्स्नस्य कार्यकारणसंघातस्य अध्यासात्मकत्वेन द्रष्टर्येव काचादिवत् दोषानुषङ्गो वक्तव्यः, तदभावात् न अध्याससम्भवः

इत्याह--असङ्गे इति।। अधिष्ठानस्य अध्यस्यमानेन गुणावयवसादृश्यं वक्तव्यम्, तदभावात् न अध्याससम्भवः इत्याह--केनचिदपि गुणादिना इति।। अधिष्ठानयाथात्म्यावभासः अध्यासविरोधी, तद्भावाच्च न अध्याससम्भवः इत्याह-निष्कलङ्कचैतन्यतया इति।।

                ननु आत्मन्यविषयादिरूपे अनवगते नासम्भवानाबुद्धिः, अवगते तु नाध्यास एव तिष्ठति, कुतोऽसम्भावनाबुद्धिः इति। नैतत् सारम्;आत्मन्यविषयादिरूपे परोक्षावभासोऽसम्भावनाबुद्धिहेतुः अपरोक्षावभासोऽध्यासस्य निवर्तकः इत्युक्तत्वात्। उपसंहरति--तत् माशङ्कि इति।। तदुच्यते।।तत्= त्रितयं लक्षणं सम्भावना प्रमाणं क्रमेणोच्यत इत्यर्थः। अनन्तरभाष्यस्य तातापर्यमाह--आह कोऽयं इति।। तन्त्रेण इति। युगपदर्थद्वयविवक्षया इत्यर्थः। उभयस्य चेह सम्भवात् इति।। लक्षणप्रश्नस्य सम्भावनाक्षेपस्या च सम्भवात् इत्यर्थः। उभयमत्रैव विवक्षितं चेत् सम्भावनैव प्रथमं किं न प्रदर्श्यत इति अत्राह--तत्रापि इति।। स्वरूपमाख्याय इति प्राथम्ये हेतुः।।

                ननु आह इति परोक्तिकथनं किमर्थम् इति अर्थनिर्णयप्रधानत्वात् वादकथा शास्त्रम्, तत्र "प्रमाणतर्कसाधनोपालम्भः सिद्धान्तविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः" इति वादिप्रतिवादिभ्यां  गुरुशिष्याभ्या वा पक्षप्रतिपक्षपरिग्रहेण क्रियमाणा अर्थनिर्णयावसाना वादकथा अत्र प्रवृत्ता इति दर्शयितुं परोक्तिकथनं इत्याह--तत्रैवम्भूते विषये इत्यादिना।। तेनाक्षिप्तम् आक्षेफरूपं अपि अभिप्रायं अनेन पृष्टं एव इति मत्वा प्रत्युक्तं पुनरसौ आक्षेपरूपेण विवृणोति इति आक्षेपमवतार्य इति व्याख्येयम्। ननु शास्त्रेषु जल्पवितण्डाभिप्रायेणापि परोक्तिरस्ति इति , नेत्याह--सर्वत्रैवंविधे इति।।

                ननु लक्षणवाक्ये लक्ष्याभिधायिनः पदस्याभावात् साकाङ्क्षं वचनमनर्थकं इत्याशङ्क्य वाक्यं पूरयति-प्रश्नवाक्यस्थितं इति।। ननु परस्य परात्मना अवभासोऽध्यासः इति वक्ष्यति, तत्र कथमेकेनैव परशब्देन लक्षणं पूर्यते इति अत्राह--तत्र परत्रेत्युक्ते इति।। उत्तरो ग्रन्थः स्पष्टार्थः। ननु घञादीनां भावे विधानात् कथं कर्मपरतया स्मृतिशब्दो व्युत्पाद्यते इति तत्राह--असंज्ञायामपि इति।। कर्तृव्यतिरिक्तकारकेषु संज्ञायामिव असंज्ञायामपि प्रयोगो भवति--"अकर्तरि च कारके संज्ञायाम्" इति सूत्रात् इत्यर्थः।।

                ननु स्मर्यते चेत् रूपशब्दः किमर्थ इति अस्मर्यमाणे वस्तुनि उपमासमासार्थः इत्याह--स्मर्यमाणरूपमिव इति।। ननु किमुपमासमासेन स्मर्यते एव "इदं रजतम्" इति, नेत्याह--न पुनः स्मर्यत एव इति।। ननु चक्षुरादिप्रमाणाभावात् परिशेषात् स्मृतिरिति, नेत्याह--स्पष्टं पुरोऽवस्थितत्वावभासनात् इति।। यथा अन्यत्र "इदं रजतम् अयं घटः" इत्यादावितरेतरसंसृष्टौ सामान्यविशेषावपरोक्षाववभासेते, तथेहापि प्रतिभासः। न हि परमार्थेदंरजतसंवेदनाकारावभासन्यूनतामन्तरेण संसर्गसंविदंशाभावः शक्यते वक्तुम्।।

                अर्थाभावे कथमपरोक्षा संविदिति चेत्, न; यथासंविदवभासाधीनत्वादर्थसत्तानिश्चयस्य। न हि अर्थसत्तानिश्चयाधीनः संवित्सत्तानिश्चयः। अर्थसत्तानिश्चयस्यापि निश्चयान्तराधीनत्वप्रसङ्गात्। ननु "नेदं रजतम्" इत्युत्तरसंवेदनादर्थाभावोऽपि निश्चितः। न--तत्रापि पूर्वसंवेदनेन सद्भावविषयेण विरोधात्। इदंरजताभावसंवेदनानामविवेककल्पनया उत्तरज्ञानेऽपि संसर्गसंविदभावः किं न स्यात्  व्यवहारसंवादज्ञानादुत्तरज्ञाने संसर्गसंवित्सद्भावश्चेत्, न--अर्थक्रियासंवादज्ञानादर्थसंवित्सद्भावनिश्चयः इति वदतः संवित्प्रत्यक्षत्ववादहानात्; अर्थक्रियासंविदोऽपि संविदन्तराधीनसद्भावनिश्चयप्रसङ्गात्।।

                ननु सम्प्रतिपन्नः अर्थाभावः। न; यथाप्रतिभासमेव मिथ्यारजतस्य उत्तरज्ञानेन निरसनयोग्यस्य उपगमात्, लौकिकपरमार्थदृष्टरजतप्रतियोगिकाभावविषयत्वात् रजते त्रैकाल्याभावज्ञानस्य इति संविद्द्वयानुरोधेन व्यवस्थासिद्धेः अन्यतरसंविदपह्नवायोगात्। तथा च उभयसंविद्विषयानुभवः "नास्त्यत्र रजतं" "मिथ्यैव रजतमभात्" इति। ननु अपरोक्षशुक्तिकाज्ञानाविवेकात् रजतमपरोक्षतया प्रतिभासते इति; नेत्याह--स्पष्टं इति।। केयं स्पष्टता नाम विवेकज्ञानसमयेऽपि--"एतावन्तं कालमिदं रजतमिति अभात्" इति संसृष्टावभासत्वेन प्रत्यभिज्ञायोग्यता; अन्यथा "तत् रजतमेतावन्तं कालमितोऽविविक्तं" इति प्रतियात्, अथवा--तज्ज्ञानात् तत्र प्रवृत्तिः इति पदार्थांशज्ञानतत्प्रवृत्त्योः नियमात् इहापि संसर्गप्रवृत्तिनिमित्तता संसर्गज्ञानस्य स्पष्टता इति।

"पूर्वदृष्टावभासः" इति स्पष्टार्थः।।

                यदा ज्ञानविशिष्टोऽर्थ एवाध्यासः, तदा स्मर्यमाणसदृशः अन्यात्मनावभासमानोऽन्योऽर्थोऽध्यासः इत्येवंलक्षणपरतया वाक्यं योजितम्। यदा पुनः अर्थविशिष्टं ज्ञानमेवाध्यासः, तदा स्मृतिसमानः अन्यस्यान्यात्मनावभासोऽध्यासः इत्येवंलक्षणपरतयापि तदेव वाक्यं योजयितुं शक्यते इत्याह--यतोऽर्थात् इति। अर्थात्=वाक्यसामर्थ्यात् इत्यर्थः। कथं इत्यादिः स्पष्टार्थः। ननु न स्मृतिश्चेत् भ्रान्तिः, प्रत्यक्षज्ञानवत् न पूर्वानुभवजन्यत्वं इत्याशङ्क्य, संप्रयोगमात्रजन्यज्ञानादन्येषां सर्वेषामविशिष्टं पूर्वप्रमाणजन्यत्वं अन्वयव्यतिरेकसामर्थ्यात् इत्याह--न ह्यसंप्रयुक्तावभासिनः इति।।

                ननु संस्कारजन्यत्वमुपगतं चेत्, अन्यसम्प्रयुक्ते चक्षुषि यदनन्तरमन्यविषयं ज्ञानमुत्पद्यते, सा स्मृतिरेव, तद्व्यवधानेन तु यज्ज्ञानमुत्पद्यते, तदनुमानादि प्रमाणं इति, प्रमाणस्मृतिद्वैराश्यमेव विज्ञानस्य, न तृतीयं मिथ्याज्ञानं नाम अस्ति इति अख्यातिवादी प्रत्यवतिष्ठते इत्याह--अपर आह इत्यादिना।। ननु स्मृतिश्चेत् गवादिस्मृतिवत् स्वार्थं गृह्यमाणाद्विविच्य स्मरामि इति दर्शयेत् इति ; अत आह--प्रमोषस्तु इति।। ननु शुक्तिकासम्प्रयोगे रजतं किमिति स्मर्यते सादृश्यादिति चेत् अतिसादृश्यात् शुक्तिकान्तरमेव स्मर्यतामिति, नेत्याह--इन्द्रियादीनां इति।। ननु मा भूत् स्मृतेः प्रमोषात् स्वार्थविवेचकता, ग्रहणं तु स्वार्थं स्मर्यमाणात् विवेचयेदिति,  नेत्याह--संप्रयुक्तस्य च इति।। ननु स्मृतिग्रहणयोः यौगपद्याभावात् क्रमवर्तित्वे पूर्वज्ञानं व्यवधानात् न प्रवृत्तिहेतुः, न च सामान्यमात्रज्ञानात् विशेषमात्रज्ञानाद्वा प्रवृत्तिः इति अत आह--तेन दर्शनस्मरणयोः निरन्तरोत्पन्नयोः इति।। निरन्तरोत्पत्तिरेव प्रवृत्तिहेतुरित्यर्थः। ननु इदं रजतमित्यभाति इति संसर्गप्रत्ययः प्रत्यभिज्ञायते इति, नेत्याह--अनुत्पन्ने एवैकत्वावभासे इति।।

                "जन्मान्तरानुभूतं न स्मर्यते" इति भाष्यवचनादस्मर्यमाणत्वाच्च बालस्य तिक्तस्मृतिः कथं इति चोदयति--नन्वानास्वादिततिक्तरसस्य इति।। जन्मान्तरानुभूततिक्तस्मृतिः कल्प्यते इत्याह--उच्यते इति।। जन्मान्तरानुभवस्योपकारितामाह--अन्यथा अननुभूतत्वेति।। किमिति तर्हि जन्मान्तरानुभूतं किञ्चिदेव स्मर्यते न सर्वं इति दोषबलादित्याह--तस्मात् पित्तमेव इति।। किमिति तर्हि दोष एव जन्मान्तरानुभूतं सर्वं न स्मारयति इति  अत आह--कार्यगम्यत्वात् इति।। ननु अतत्त्वे तत्त्वज्ञानमिति शास्त्रकारेणैव दर्शितः संसर्गभ्रमः इति, नेत्याह--एतेनान्यसम्प्रयोगे इति।। वक्तव्यं च पूर्ववादिनाऽप्यविवेके संसर्गज्ञानकल्पनागौरवादख्यातिरेव युक्तेति भावः।।

                उच्यते--केयमख्यातिः इति न तावत् ख्यात्यभावमात्रम्; अनभ्युपगमादतिप्रसङ्गाच्च। अन्यार्थिनोऽन्यत्र प्रवृत्तिहेतुः ज्ञानमिति चेत्--यत्र तर्हि न प्रवृत्तिः झटिति, बाधश्च, तत्र कथं भ्रान्तिः अथ अविविक्तानेकपदार्थज्ञानम्, तर्हि "इदं" इति "रजतं" इति चापुनरुक्तशब्दद्वयस्मृतिहेतुतया विविक्तावभासनात् न तस्य सामान्यविशेषयोः अविवेकभ्रमः सम्भवति। न च भेदावमर्शेन एकत्वज्ञानमनभ्युपगच्छतः सामान्यविशेषयोरविवेकः सम्भवति; विविक्ताकारद्वयावभासनात्। इतरेतराभावभेदद्वित्वादिसङ्ख्याविशिष्टज्ञानं विवेकः इति चेत्, "गामानय दण्डेन" इति गोदण्डयोः तत्कारकत्वयोश्चाविवेको भ्रमः स्यात्। तत्राप्यानुषङ्गिकभेदादिज्ञानमस्तीति चेत्, "इदमि"ति "रजतमि"ति च इहाप्यपुनरुक्तशब्दानुषक्ताकारद्वयावभासे द्वित्वाद्यवभासो विद्यत एव; अन्यथा सामान्याकारात् विशेषाकारस्य विवेकानवभासा"दिदमि"त्येव स्यात्, "रजतमि"त्येव वा स्यात्, "इदं रजत"मिति। किञ्च, प्रतीयमानकारयोः न अविवेकः; अपुनरुक्तप्रतिभासात्। अप्रतीयमानाकाराविवेको न भ्रमः; अतिप्रसङ्गात्। तस्मात् न अविवेको भ्रमः।।

                किञ्च "खण्डो गौः" इत्यादिप्रत्ययाश्च अविविकातानेकपदार्थविषया विभ्रमाः प्रसज्येरन्। न च ग्रहणस्मरणाविवेक एव भ्रमः; "अहं मनुष्यः" इति गृह्यमाणाविवेकस्य भ्रमत्वात्। सामान्यविशेषादौ संसर्गज्ञानमेवास्तीति चेत् , तथापि अविविक्तानेकपदार्थज्ञानात् भ्रमत्वमपि स्यात्। न च तत्र संसर्गप्रत्ययोऽपि; ऐक्यस्य तदालम्बनस्याभावात्। गुणगुण्यादिसम्बन्ध एवालम्बनमिति चेत्, न; प्रत्यभिज्ञाया ऐक्यालम्बनत्वात्। इहापि सादृश्यसम्बन्ध एव इदं रजतं इति संसर्गप्रत्ययालम्बनं स्यात्। अस्ति च सामान्यविशेषादीनामिदंरजतयोरिव विवेकप्रत्ययः; "घटस्य शैक्ल्यं" इति विवेकाभ्युपगमात्। किञ्च ग्रहणमेव

स्मर्यमाणात् स्वार्थं किं न विविञ्च्यात् विशेषदर्शनाभावादिति चेत्; यदि गृहीतमात्रस्य रजतात् भेदोऽस्ति, तत् भेदापेक्षितो विशेषो धर्म्याकारः प्रतियोग्याकारो वा नान्यः इति गृहीत एव भेदाकारो विविक्तः प्रतीयेत। अथ धर्मिप्रतियोग्याकारे गृहीतेऽपि इतरेतरापेक्षया तृतीयमेव ज्ञानं भेदं ग्राहयतीति, तर्हि सर्वपदार्थज्ञानानां भेदग्रहणात् प्रागविविक्तत्वात् भ्रमत्वप्रसङ्गः। अथ न गृहीतमात्रस्य रजतात् भेदः, तर्हि ऐक्यमेवेति संसर्गज्ञानस्य सालम्बनतासिद्धिः।।

                किञ्च स्मृतिर्वा गवादिस्मृतिवत् गृह्यमाणात् स्वार्थं किमिति न विविञ्च्यात् स्मरणाभिमानप्रमोषादिति चेत्, तत्राह--कोऽयं स्मरणाभिमानः इति।। न तावत् स्मृतिरेव, तस्याः प्रमोषे ज्ञानस्यैवाभावप्रसङ्गात्, स्मृतेरन्यश्चेत्, कथमन्यस्य प्रमोषे परिपूर्णमुत्पन्नं ज्ञानं स्वकार्यमर्थविवेकं न कुर्यात् न चान्यः स्मरणाभिमानो दृश्यते इति भावः। ननु पूर्वानुभवतद्देशकालानामन्यतमेन "सः" इत्याकारेण वा स्मर्यमाणस्य सम्भेदः स्मरणाभिमानः इति, नेत्याह--न तावत् ज्ञानानुविद्धतया ग्रहणं इति।। "सोऽयं" इति प्रत्यभिज्ञाभ्रमे हि सर्वेषामेवैषां "सः" इत्याकारस्य पूर्वानुभवदेशकालानां च स्मरामीतिपर्यन्तानां सम्भेदावगमेऽपि गृह्यमाणेनाविवेकदर्शनादिति भावः। न च पूर्वानुभवसम्भेदः स्मर्यमाणे सम्भवति इत्याह--न ह्यतिवृत्तस्य इति।। अर्थस्मृतिसंस्कारस्य जनकं यत् पूर्वविज्ञानं, तत् स्वयं ग्राह्यविशेषणतया स्वेनैव न विषयीक्रियते; अर्थमात्रविषयत्वात् पूर्वज्ञानस्य। न च पूर्वज्ञानेनाविषयीकृते विषये तत्संस्कारजन्या स्मृतिः समुत्पद्यते। तस्मादर्थमात्रविषयज्ञानजन्या स्मृतिरर्थमात्रमेव विषयीकरोति, न पूर्वज्ञानेनाविषयीकृतं ज्ञानमपि; अन्यथा नीलज्ञानात् पीतेऽपि स्मृतिः स्यात्।।

                ननु स्मर्यमाणे पूर्वानुभवसम्भेदः स्वानुभवसिद्धः, सत्यम्; यत् पूर्वानुभवसमये अर्थावभासलिङ्गजन्यमर्थज्ञानसद्भावविषयमनुमानज्ञानमुत्पन्नं तदनुमानज्ञानसंस्कारजनिता स्मृतिः अनुभवसम्भिन्नमर्थं गमयति, मूलज्ञानेनापि अर्थज्ञानविषयेण विशिष्टार्थविषयीकरणात्, यस्मादर्थस्मृतिसमनन्तरमनुभवविशिष्टार्थस्मृत्यन्तरजननादर्थस्मृतिरेवानुभवसम्भिन्नेति विभ्रमः, तस्मात् शुद्धमेवार्थं इत्युपसंहरति--शुद्धमिति।। पूर्वज्ञानेन यावन्मात्रं वस्तुमात्रं वा ज्ञानसम्भिन्नं वा वस्तु विषयीकृतं तावन्मात्रमेवावभासयति, न स्वमूलज्ञानसम्भिन्नं इत्यर्थः।।

                ननु अर्थस्मृतिर्वा ज्ञानसम्भिन्नविषयं स्मृत्यन्तरं वा इत्यत्र को विवेकः इति तत्रोदाहरणमाह--तथाच पदात् पदार्थस्मृतौ इति।। वाक्यार्थप्रत्ययविवक्षया यावदन्त्यपदोच्चारणपरिसमाप्तिः तावत् क्रमेणोच्चार्यमाणेषु पदेषु एकैकस्मात् पदादेकैकार्थविषयाणि ज्ञानान्युत्पद्यन्ते; ताश्च सम्बन्धिशब्ददर्शनात् सम्बन्ध्यन्तरार्थविषयाः स्मृतयः इत्यभिहितान्वयवादिनामन्विताभिधानवादिनां च संमतम्।।

                ननु कोऽसौ शब्दस्यार्थेन सम्बन्धः यतः शब्दस्य दर्शनादर्थे स्मृतिरुत्पद्येत, अर्थबुद्धिजननसामर्थ्यलक्षण इति चेत्, किं स्मृतिजननसामर्थ्यलक्षणः अन्यो वा नचान्यः, पदानां पदार्थाशेषु स्मृतिव्यतिरिक्तकार्यान्तराभावात्, नच स्मृतिजननसामर्थ्यसम्बन्धादेव स्मृतिजन्म; अन्यत्र सादृश्यादिसम्बन्धान्तरे सति अन्यतरदर्शने अन्यतरस्मिन् स्मृतिदर्शनात्। तस्मात् न शब्दादर्थे स्मृतिरिति, उच्यते;--सम्बन्धज्ञानसंस्कारः शब्ददर्शनं च अत्र स्मृतिहेतुः, नार्थेन सम्बन्धविशिष्टशब्दज्ञानम्; येन विशिष्टे स्मृतिसामर्थ्यव्यवस्थापनात् विशेषणीभूतं सम्बन्धान्तरमिष्येत, सम्बन्धविशिष्टान्यतरदर्शनाच्च अन्यतरस्मृतौ सम्बन्धविशेषणत्वेनान्यतरस्यापि स्मृतिविषयस्य प्रागेव बुद्धता स्यात्, सादृश्यादिमूलसम्बन्धानां बुद्धिसामर्थ्यलक्षणत्वाभावात् सामर्थ्यसम्बन्धादर्थान्तरत्वं न विरुध्यते। बुद्धिसामर्थ्यसम्बन्धात् बुद्धिः नोत्पद्यते इति च स्ववचनविरोधः। तस्मात् पदेभ्यः पदार्थमात्रेषु बुद्धिसामर्थ्यसम्बन्धात् स्मृतयः इति सिद्धम्। कुतः पुनः तत्र ज्ञानसम्भेदाभावः इति तत्राह--ज्ञानस्यापि इति।। शब्दसामर्थ्यविषयतया सम्बन्धित्वेन स्मृतिविषयत्वे ज्ञानस्यापि शब्दार्थत्वप्रसङ्गादिति। 2तथेष्टभूभागविषया इत्यादिः स्पष्टार्थः।।2 ननु स्मृतिज्ञानस्य त्रिकोणत्वादिवत् स्वगतः कश्चिद्विशेषो दृश्यते, स स्मरणाभिमानः इति ; नेत्याह--नापि स्वगतो ज्ञानस्य इति।। ननु नित्यानुमेयेऽपि लिङ्गविशेषात् हेतुविशेषानुमानं युक्तमिति, कोऽसौ लिङ्गविशेषः न तावत् ग्राह्यविशेषः इत्याह--नापि ग्राह्यविशेषनिमित्तः इति।। अस्तु  तर्हि फलविशेषो लिङ्गविशेषः इति,;

नेत्याह--नापि फलविशेषनिमित्तः इति।। ननु स्मरामि इत्यनुभवः स्मरणाभिमानः इति ; अत आह--यः पुनः क्वचित् कदाचित् इति।। यदि स्मृतिस्मार्यस्मर्तृविषयशब्दत्रयानुषक्तोऽनुभवविशेषः, तत् स्मरामि इति, यदि वा त्रितयविषयमनुमानज्ञानान्तरमेतत्, उभयथापि ग्रहणादित्रितयात् स्मरणादित्रितयस्य प्रागेव भेदावगममन्तरेण ग्रहणादित्रितयशब्दव्यतिरिक्तस्मरणादिशब्दानुस्मरणं ग्रहणानुमानव्यतिरेकेण स्मरणानुमानं च न सम्भवति; विशिष्टाभिधेयावगमनिमित्तत्वात् विशिष्टशब्दानुस्मरणस्य, विशिष्टावगमानुमानस्य च, इति प्रागेव स्मरामीत्यनुभवात् ग्रहणस्मरणयोः भेदो वक्तव्य इति भावः। ननु स्मृत्यनुभवयोरर्थमात्रविषयत्वे को भेदः इति; अत आह--तस्मात् इति।। कारणविशेषादेवेत्यर्थः।।

                कथं वा तव स्मृतेः ज्ञानानुमानस्य च अर्थविशिष्टज्ञानविषयत्वे समाने विभागावगमः कारणभेदादिति चेत् इहापि तत् समानम्। "सः इत्याकारेण स्मृतिः ज्ञानानुमानात् भिद्याते इति चेत्, कोऽयं "सः" इत्याकारः परोक्षदेशकालविशिष्टता इति चेत्, अनुमानादिष्वपि प्रसङ्गः। पूर्वानुभवसंभिन्नतेति चेत्, ज्ञानानुमाने पौरुषेयवाक्यजन्यज्ञाने च प्रसङ्गः। तस्मात् संस्कारजन्यत्वं सः इत्याकारः इति। अस्तु तर्हीहापि तथाविधैव स्मृतिरिति, नेत्याह--नचेह इति।। न च स्वप्ने अहं नीलमिति गृह्यमाणाविवेकः, स्मर्यमाणानामन्योन्याविवेके परोक्षमेव सर्वमसभासते; अतो न प्रमाणस्मृतिद्वैराश्यमेव ज्ञानस्य, किन्तु तृतीयं भ्रान्तिज्ञानमपीत्युपसंहरति--अतो नान्यसंप्रयोगे इति।।

                न चेत् स्मृतिः किं तर्हि "इदं रजतमि"ति ननु--अन्यथाख्यातिरेषा। तथाहि--शुक्तिकासंप्रयोगे दोषोपहतमिन्द्रियं देशान्तरादिगतं रजतमभिगृह्णाति। तच्च स्वदेशाद्यवस्थितं दोषोपहतेन्द्रियेण गृह्यमाणं शुक्तिकात्मना गृह्यते। ननु अननुभूतमपि यत् किञ्चिदपि दोषोपहितमिन्द्रियं किमिति न गृह्णाति सादृश्यादिदोषसामर्थ्यात् इति वदामः। तस्मात् ग्रहणात्मकमन्यथाज्ञानमिति।।

                उच्यते;--केयमन्यथाख्यातिः  अन्याकारं ज्ञानमन्यालम्बनं वा वस्तुनो वस्त्वन्तरात्मनावभासो वा अन्यथा परिणते वस्तुनि ज्ञानं वा न तावत् प्रथमः कल्पः इत्याह--ननु एवं सति वैपरीत्यं इति।। कुतो वैपरीत्यमिति अत आह--नैतत् सविदनुसारिणां इति।। सर्वत्र यदाकारं संवेदनं तदेवालम्बनमिति नियमे रजताकारसंवेदनविरुद्धं शुक्तिकालम्बनत्वमित्यर्थः। ननु न संविदाकारता आलम्बनता सर्वत्र, किन्तु संवित्प्रयुक्तव्यवहारविषयता इति चोदयति--ननु शुक्तेः स्वरूपेणापि इति।।

                इदं तावदयुक्तम्; न हि व्याघ्रसर्पादिज्ञानात् दण्डादिषु आदीयमानेषु व्याघ्रादिज्ञानस्य दण्डादि आलम्बनम्, न च द्रव्यगुणादिषु आदीयमानेषु द्रव्यादीनामन्योन्यज्ञानालम्बनत्वं प्रसिद्धम्; तस्मात् तदाकार एवालम्बनमिति नान्याकारं ज्ञानमन्यालम्बनमन्यथाख्यातिरिति बहिरेवोपसंहर्तव्यम्। अस्तु तर्हि वस्तुनो वस्त्वन्तरात्मनावभासः इति;  तत्राह--अथ तथारूपावभासनं इति।। न तावदत्यन्तभेदवादिनां संसर्गः परमार्थः, ततश्च अनिर्वचनीयानभ्युपगमात् शून्य एव संसर्गः प्रकाशेत। एवं "खण्डो गौः" इत्यादिसंसर्गप्रत्ययाः सर्वे एव विभ्रमाः प्रसज्येरन्निति, बहिरेव एकः पक्षः प्रतिवक्तव्यः।।

                अथ भेदाभेदवादी संसर्गसत्यतां ब्रूयात्, तत्राह--यदि पारमार्थिकं इति।। "खण्डो गौ"रित्यादिवत् सर्वस्य भेदाभेदात् न क्वचिदपि भ्रान्तिबाधौ, सर्वत्र वा तौ स्यातां इत्यर्थः। अस्तु तर्हि अन्यथापरिणते वस्तुनि ख्यातिः अन्यथाख्यातिः, इति तत्राह--अथ शुक्तेरेव इति।। 2शुक्तेः परिणामनिराकरणग्रन्थः स्पष्टार्थः।।2

                "अथ पुनर्दुष्टकारणजन्यायाः प्रतीतेः" इत्यादिना अन्यथाख्यातावेव परिणामप्रकारभेदो निराक्रियते, ख्यात्यन्तरनिराकरणं वा; कथम् अत्राह आत्मख्यातिवादी--बुद्धेरेव रजताकारः न बहिरिति, कुतः  संप्रयोगव्यतिरेकेणापरोक्षत्वात् बुद्धिवत्, कथं विज्ञानस्य रजताकारः प्राप्तः संस्कारसामर्थ्यादिति वदामः। तथाहि--यस्यां ज्ञानसन्ततौ यदा कदाचित् पूर्वं रजतज्ञानमुत्पन्नं तदेव संस्कार उच्यते। न च विज्ञानजन्यः अन्येषामिव स्थायी क्षणिको वा अन्यः कश्चित् अस्य संस्कारो विद्यते; विज्ञानमात्रवादात्। स च अनेकज्ञानव्यवहितोऽपि कदाचित् सज्जातीयं रजतज्ञानान्तरमुत्पादयति, शालिबीजमिव अनेकाङ्कुरादिकार्यव्यवधानेन पुनः सजातीयबीजान्तरनिमित्तं इति। अथव--तज्जन्यज्ञानसन्तान एव संस्कारः, स च तथाविधज्ञानान्तरात् इति अनादिवासनाप्रापितं रजतं बुद्ध्याकारो बहिर्वदवभासते इति।।

                स वक्तव्यः--किं तद्रजतं जायते न वा इति। न चेत्, जायमानस्वरूपं न स्यात् आकाशवत्। जायते चेत्, ना;र्थात् अर्थान्तराभावात्, अथ ज्ञानादेव दुष्टकारणजन्यात् रजतोत्पादः इति, तदाह--अथ पुनर्दुष्टकारणजन्यायाः प्रतीतेरेव रजतोत्पाद इति इति।। जनकप्रतीतेः रजतात् पूर्वकालत्वात् अतद्विषयत्वात् प्रतीत्यन्तरस्यादुष्टकारणस्य तद्विषयत्वे सर्वप्रतीतिविषयत्वप्रसङ्गात्, दुष्टकारणप्रतीतेश्च रजतजन्यतया तदालम्बनत्वे रजतस्यार्थक्रियावत्तया सत्त्वप्रसङ्गात् अतञ्जन्यत्वे तद्विषयत्वाभावादप्रतीतमेव रजतं स्यादिति भावः। अन्यथाख्यातिं निराकृत्य अख्यातिवादी स्वपक्षमुपसंहरति--तदेवं पारिशेष्यात् इति।। अख्यातिदूषणमप्युक्तमनुस्मारयति--ननु स्मृतेः इति।।

                ननु न स्मृतिः नापि ग्रहणं चेत्, अलौकिकमिदं ज्ञानं कथं इति चोदयति--का तर्हि गतिरिति। किं सामग्र्यम् तत्राह--नेन्द्रियजज्ञानात् इत्यादिना।। ननु  इन्द्रियसंस्कारौ चेत्सामग्री, सम्यग्ज्ञानमेवेदं स्यात्, स्मृतिग्रहणवदिति चोदयति--कथमेतत् इति।। दोषसहकृतत्वात् तृतीयमिदं सामग्र्यमित्याह--उच्यते कारणदोषः इति।। ननु दोषः प्राप्तकार्यस्य प्रतिबन्धकः नाधिक्ये हेतुरिति, तत्राह--कार्यगम्यत्वात् इति।। न च अनादेः कार्यानुदयस्य हेतुर्दोषः; कृत्याभावात्, किन्तु व्याध्यादिवत् विपर्ययकार्यहेतुर्दोषः इति। ननु दोषः संस्कारोद्बोधकृच्चेत् न सामग्र्यामन्तर्भवति इति न तृतीयमिदं सामग्र्यमिति, तत्राह--अतः संस्कारदुष्टकारणसंवलिता इति।। अथ ज्ञानस्यैक्यं चोद्यते, तत्राह--सा चैकमेव ज्ञानं इति।।

                ननु इदमा संप्रयोगादन्तःकरणपरिणामज्ञानमेकमुत्पद्यते, न तत् रजतं तत्संसर्गं वा विषयीकर्तुमीष्टे, मिथ्यावस्तुनि देशान्तरादिगते वा संप्रयोगानुपपत्तेः, चक्षुरुन्मीलनान्वयव्यतिरेकयोरधिष्ठानज्ञानोपक्षयादन्यथासिद्धेः, नापि संस्कारात् रजतांशावगमः; स्मृत्यनभ्युपगमात्, नापि दोषः स्वयमेव कस्य चिज्‌ज्ञानस्य हेतुर्दृष्टः; ज्ञानकारणानामेव कार्यविशेषनिमित्तत्वात्। अतो न रजततत्सम्भिन्नशुक्तिविषयमेकं ज्ञानं समास्ति, किं तु अविद्यैव बाह्यदोषनिमित्तकारणापेक्षया रजताकारेण साक्षिचैतन्यस्य रजतावच्छेदज्ञानाभासाकारेण च परिणममाना स्वकार्येण सह साक्षिचैतन्यस्य विषयभावं प्रतिपद्यते इति ते मतम्, तत्र कथमेकज्ञानत्वं इति तत्राह--एकफलं इति।। विषयावच्छिन्नं हि फलमवभासते, न ज्ञानावच्छिन्नम्। विषयश्च सत्यमिथ्यावस्तुनोरन्योन्यात्मतया एकतामापन्नः, तेन एकविषयावच्छिन्नफलैकत्वोपाधौ सत्यमिथ्याज्ञानद्वयमपि एकमित्युपचर्यते इति भावः। अथ विषयः कथमिति तदाह--तस्य च इति।। कुतो रजतस्य मिथ्यात्वं इति ; अत आह--तेन मिथ्यालम्बनं इति।। भावाभावज्ञानयोः मिथ्यात्वप्रसिद्ध्यभावात् इदं ज्ञानसमवायि मिथ्यात्वं अनिर्वचनीयार्थतामेव गमयतीत्यर्थः।।

                संप्रयुक्तेऽर्थे संप्रयोगो निरपेक्षो ज्ञानकारणम्, संस्कारश्च पूर्वानुभूतस्मृतौ निरपेक्षः; ततश्च निरपेक्षकारणद्वयजन्यत्वात् ज्ञानद्वयमेव निरन्तरोत्पन्नं इति अख्यातिवादी चोदयती--भिन्नजातीयज्ञानेति। ज्ञानभेदे हि निरन्तरोत्पत्तावपि न प्रवृत्तिकार्योदयः सम्भवति; तत्र यथा वर्णज्ञानेषु क्रमवर्तिषु ज्ञानकार्योदयान्यथानुपपत्त्या पूर्वपूर्ववर्णसंस्कारसहितमन्त्यवर्णज्ञानमेव हेतुत्वेन कल्प्यते कारणयोगपद्याय, तथा प्रवृत्तिकार्यानुपपत्तिरेव ज्ञानैक्यं कल्पयति किं कारणभेदेन इति परिहरति--नैष दोषः इति।। ननु कारणभेदात् कार्यभेदोऽप्यनुमीयते इति, नेत्युदाहरणमाह--दृश्यते हि इति।। ननु तत्रापि कारणभेदात् ज्ञानभेदः इति नेत्याह--उभयत्रापि इति।। ननु लिङ्गदर्शनं व्याप्तिस्मृतिश्च लिङ्गज्ञानकारणं, न संस्कारः इति नेत्याह--संस्कारानुद्बोधे इति।। ज्ञानद्वययौगपद्याभावादित्यर्थः। तस्मात् इत्युपसंहरति। ननु प्रत्यभिज्ञायां संप्रयोगः पूर्वानुभूतस्मृतिश्च कारणं, ज्ञानद्वययौगपद्यप्रसङ्गाभावात् न संस्कारः इति तत्राह--अयमेव न्यायः इति।। ज्ञानाज्ज्ञानान्तरोत्पत्तौ व्याप्त्याद्यभावात् संस्कार एव कारणमित्यर्थः। ननु प्रमाणान्तरेष्वयं निरपेक्षकारणसमाहारः., नाभिज्ञाप्रत्यक्षे, अभिज्ञाप्रत्यक्षं च रजतज्ञानं इति, तत्राह--तथा भिन्नजातीयज्ञानहेतुभ्य इति।। ननु यत्र संस्कारः प्रमाणकारणेन संबध्यते, तत्र स्मृतिगर्भप्रमाणज्ञानमेव दृष्टम्, न तथेदं रजतज्ञानमिति, तत्राह--तत्र लैङ्गिकज्ञानेत्यादिना।।

                किञ्च--ज्ञानद्वयपक्षे अख्यातौ अपरोक्षावभासिनः स्मर्यमाणत्वे, सर्वत्र प्रतिपन्नोपाधौ विषयसत्त्वाभावे अन्यथाख्यातौ प्रतिपन्नस्य संसर्गस्य शून्यत्वे पुरोदेशप्रतिपन्नस्य रजतस्य देशान्तरसत्त्वे च, आत्मख्यातौ बहिरवभासस्यान्तरत्वे च अनुभवविरोधः स्यात्, न तथा अस्मत्पक्षे इत्याह--एवं च सति नानुभवविरोधः

इति।।

                ननु तवापि "अस्ति" इति प्रतिपन्नस्यानिर्वचनीयत्वे अनुभवविरोधः समानः, तन्न-इदन्तासंसर्गवत् रजतस्य शुक्तिकासत्तासंसर्गोऽयमवभासते, न रजतस्यापरसत्त्वम्।।

                अथवा--त्रिविधं सत्त्वं-परमार्थसत्त्वं ब्रह्मणः, अर्थक्रियासामर्थ्यसत्त्वं मायोपाधिकमाकाशादेः, अविद्योपाधिकसत्त्वं रजतादेः सति परमार्थसत्त्‌वापेक्षया अनिर्वचनीयमिति, नानुभवविरोधः यथानुभवमर्थसत्त्‌वाभ्युपगमात्।।

                यस्मात् भ्रान्तित्वव्यवहारः सदसज्ज्ञानयोरनुपपन्नः, यतश्च पक्षान्तरेष्वनुभवविरोधः, यतश्च ज्ञानद्वयपारोक्ष्यस्मृतित्व-स्मरणाभिमान प्रमोषतद्धेत्वविवेकतन्निमित्तप्रवृत्तयो जन्मान्तरानुभूतस्मृतिश्च इति अप्रतिपन्नमपूर्वं बहु कल्पनीयमख्यातौ, अन्यथाख्यातौ च अन्यत्र प्रतिपन्नस्यान्यत्र सत्त्वं इन्द्रियस्य च जन्मान्तरानुभूतदेशकालव्यवहितार्थग्राहित्त्वं, दोषस्य च तथाविधादृष्टसामर्थ्यं संसर्गस्य च शून्यस्य प्रत्यक्षता इति प्रमाणविरुद्धं बहु कल्पनीयं, अतः सर्वदोषपरिहाराय यथाप्रतिपन्नस्य मिथ्यात्वं नाम एकः स्वभावः "नास्ति रजतं, मिथ्यैव रजतमभात्" इत्यनुभवसिद्धः समाश्रयणीयः, अविद्योपादानकल्पनायाश्च अन्वयव्यतिरेकसिद्धत्वादित्याह--अतो मायामयं इति। सत्यस्य वस्तुनो मिथ्यावस्तुसंभेदोऽवभासमानः माया मिथ्या अनिर्वचनीयख्यातिः; अध्यास एवायं इत्यर्थः।।

                अत्र केचिदाहुः--अतोऽविद्यामयमिति वक्तव्यं, न मायामयमिति। विभ्रमाणां तत्त्वज्ञाननिराकार्यतया अविद्यात्मकत्वात्, मायाऽविद्ययोर्भेदात्। तथा हि--माया स्वाश्रयमव्यामोहयन्ती कर्तुरिच्छामनुवर्तते, न तथा अविद्या। प्रसिद्धश्च मायाऽविद्ययोर्भेदो लौकिकानाम्। न हि मायाविनिर्मितहस्त्यश्वरथादावविद्याशब्दं प्रयुञ्जते इति।।

                उच्यते;--लक्षणभेदात्, लोकव्यवहारसामर्थ्याद्वा तयोर्भेदः कथ्यते। न तावत् लक्षणभेदात्; अनिर्वचनीयतया तत्त्वावभासप्रतिबन्धविपर्ययावभासलक्षणस्याविशेषात्। ननु मन्त्रौषधादिसत्यवस्त्वेव माया नानिर्वचनीया, न;परिदृश्यमानमिथ्यावस्तुन्येव मायाशब्दप्रयोगात्, पार्श्वस्थस्य मन्त्रौषधाद्यपरिज्ञानात्, तत्र मायाशब्दप्रयोगाभावाच्च, मन्त्रादेश्च काचादिवत् निमित्तकारणत्वात् अध्यासोपादानाविद्याक्लृप्तिवत् कादाचित्कमायोपादाननिर्वचनीयानादिवस्तुकल्पनात्। तत्र च "मायां तु प्रकृतिं" इति श्रुतौ प्रकृतौ मायाशब्दप्रयोगात् प्रकृतिभूतयोर्मायाविद्ययोः तद्विकारयोश्च अध्यासमाययोः लक्षणाभेदादेकत्वमवगम्यते।।

                ननु स्वाश्रयव्यामोहाव्यमोहहेतुत्वाभ्यां लक्षणभेदो दर्शितः, यद्याश्रयो द्रष्टा व्यामुह्यत्येव पार्श्वस्थो मायां पश्यन्; अथ कर्ता, न तस्य मायावित्वात् व्यामोहाभावः, किन्तु बाधनिश्चयप्रतीकारज्ञानाभ्याम्; अन्यथा पार्श्वस्थवत् कर्तापि व्यामुह्येदेव। अथेच्छया कर्तुं शक्यते माया न तथा अविद्येति, न तदपि--मन्त्रौषधादौ निमित्तकारणे कर्तुः स्वातन्त्र्यात्, न मायायाम्, अविद्यायामपि अङ्गुल्यवष्टम्भादिना द्विचन्द्रकेशोण्ड्रकादिभ्रमाः मन्त्रौषधादिनिषेवणात् स्वप्नभ्रमाः तत्त्वज्ञानेऽप्यनुवृत्तप्रतिभासाश्च कर्तुरिच्छया निष्पाद्यन्ते।।

                न च शास्त्रव्यवहारात् मायाविद्याभेदः; "तस्याभिध्यानाद्योजनात्तत्त्वभावात् भूयश्चान्ते विश्वमायानिवृत्तिः" इत्यादिश्रुतौ सम्यग्ज्ञाननिवर्त्याविद्यायां मायाशब्दप्रयोगात्, "तरत्यविद्यां विततां हृदि यस्मिन् निवेशिते। योगी मायाममेयाय तस्मै विद्यात्मने नमः।।" इत्यादिस्मृतौ मायाविद्ययोः सामानाधिकरण्येन तत्त्वज्ञानेन तर्तव्यत्वाभिधानात्, "मायामात्रं तु कात्र्स्न्येनानभिव्यक्तस्वरूपत्वात्" इति सूत्रे सूत्रकारेण स्वप्ने मायाशब्दप्रयोगात्, भाष्यकारेण च अविद्या माया अविद्यात्मिका मायाशक्तिः इति तत्र तत्र निर्देशात्, टीकाकारेण च "अविद्या मायाऽक्षरम्" इत्युक्तत्वात्। ब्रह्मसिद्धिकारेण च--"एवमेवेयमविद्या माया मिथ्याप्रत्ययः" इत्युक्तत्वात्। तस्मात् लक्षणैक्यात् वृद्धव्यवहारे च एकत्वावगमादेकस्मिन्नपि वस्तुनि विक्षेपप्राधान्येन माया, आच्छादनप्राधान्येन अविद्येति व्यवहारभेदः। इच्छाधीनत्वतद्वैपरीत्येन वा व्यवहारभेदः इति युक्तं 2मायामयमिति।।2

                अस्तु तर्हि प्रतिपन्नोपाधावेव यथाप्रतिपत्ति परमार्थसत्त्वं; कल्पनागौरवादिदोषपरिहारादिति, नेत्याह--अथ पुनः इति।। ननु कारणदोषवतामेव तत् दृश्यमिति, नेत्याह--यतो न हि इति।। तदभावे न तत्र इति।। सर्वत्र परमार्थरजते इत्यर्थः। आत्माश्रयाविद्यात्मकत्वेऽपि सर्वैरेव गृह्येतेति ; नेत्याह--मायामात्रत्वे

इति।। प्रसिद्धमायावदिति भावः। इदमाकारावच्छिन्नसाक्षिचैतन्यसमाश्रितस्य रजतस्य शुक्तिकासंभेदोऽप्यविद्यात्मक इति, सुखादिवदनन्यवेद्यत्वमिति भावः। ज्ञानस्यैव भ्रान्तित्वप्रसिद्ध्यनुपपत्तिः कल्पनालाघवानुभवाभ्यामनुगृहीता मिथ्यार्थज्ञानतां गमयतीत्युक्तम्, इदानीं बाधकप्रत्यक्षं स्वयमेव रजतस्य मिथ्यात्वं प्रतिपादयतीत्याह--किञ्च नेदं रजतं इति।।

                ननु प्रतिपन्नोपाधौ रजतादेरभावं बाधो बोधयति न तस्य मिथ्यात्वमिति चोदयति--कथं इति। प्रतिपन्नोपाधावभावप्रतियोगितया अवभासते इति प्रत्यक्षं इत्याह--तेन हि तस्य इति। बाधकज्ञानसिद्धस्य प्रतिपन्नोपाधावभावप्रतियोगित्वलक्षणस्य मिथ्यात्वस्य पुनः स्वशब्देन परामर्शाच्च बाधविषयो मिथ्यात्वमित्याह--नेदं रजतं मिथ्यैव इति। ननु देशकालान्तरबुद्धिषु सत्त्वादपि रजतस्यैवं बाधः संपत्स्यते इति; नेत्याह--नच तत् केनचित् रूपेण इति। नेदं रजतं किन्तु तद्रजतं बुद्धिर्वा इति स्यात् परामर्शः, न मिथ्यैव  इति; स्मृतिग्रहणाविवेकत्वाद्रोगवयादाविव इत्यभिप्रायः।।

                ननु--कोयं बाधो नाम अन्यार्थिनोऽन्यत्र प्रवृत्तिनिरोधः ! तर्हि यत्र रजतादौ परिव्राजकादेः प्रवृत्तेरेवानुदयः, तत्र बाधप्रसिद्धिः न स्यात्; प्रसिद्धश्च तत्रापि बाधः। न प्रवृत्तिविच्छेदो बाधः; किन्तु प्रवृत्तियोग्यताविच्छेदश्चेत्, न; पुनरपि तत्रैव रजताविवेकादन्यदा प्रवृत्तिदर्शनात् योग्यताऽविच्छेदात्, उदकज्ञानाच्च प्रवर्तमानस्य सर्पचोरादिदर्शनेन प्रवृत्तिनिरोधे सर्पादिज्ञानादुदकज्ञानस्य बाधप्रसिद्धिः स्यात्। अविविक्ततया प्रतिपन्नस्य विवेको बाधः इति चेत्, न; सर्वपदार्थेषु प्रथममविविक्ततया प्रतिपन्नेषु पञ्चादितरेतरापेक्षया भेदज्ञानं सर्वत्र बाधः स्यात्। न च पदार्थज्ञानमेव भेदज्ञानम्; गृहीतमात्रस्य सति भेदे अविवेकाभावप्रसङ्गादित्युक्तम्। अन्यात्मना प्रतिपन्नस्य इतरेतराभावप्रतिपत्तिर्बाधः इति चेत्, शुक्लो घट इति प्रतिपद्य घटस्य शौक्ल्यं न द्रव्यं गुणः इति ज्ञानं सर्वत्र बाधः स्यात् न तथा प्रसिद्धिरस्ति; समानौ च सर्वत्र भेदाभेदौ इति ऐक्यं प्रतिपद्य भेदप्रतिपत्तिः सर्वत्र बाधः स्यात्। न च ज्ञानस्य प्रध्वंसो बाधः; स्वयं क्षणिकत्वात्। अर्थस्य च संविद्विषयस्यान्यस्य वा ज्ञानेन प्रध्वंसायोगात्, बाधस्य च लोकप्रसिद्धत्वात्। तस्मात् न बाधं पश्यामः।।

                उच्यते;--अज्ञानस्य स्वकार्येण वर्तमानेन प्रविलीनेन वा सह ज्ञानेन निवृत्तिर्बाधः, तथाविधानवबोधनिवृत्तौ बाधप्रसिद्धेरिति।। स्मृतिरूपशब्देन कारणत्रितयजन्यत्वमुक्तम्। तत्र कारणत्रितयजन्योऽन्यस्यान्यात्मनावभासो लक्षणम्, तदिदं लक्ष्यं न व्याप्नोतीति चोदयति--ननु न व्यापकं इति।। कथं लक्षणांशस्याभावः इति तत्राह--न हि स्वप्नशोकादौ इति।। संप्रयोगस्य कारणांशस्याधिष्ठानांशस्य चाभावादित्यर्थः। कस्तर्हि स्वप्नः इति  तदाह, अत एव इति।। तत्र वासनाजन्यस्मृतिमात्रत्वे भ्रान्तिप्रसिद्धिः गवयादिस्मृतिवत् न स्यात् इति परिहरति--न तावत् स्मृतित्वं इति।। ननुB कारणत्रितयाभावात् न ज्ञानान्तरमपीत्याह--ननु स्मृतिरूपत्वमपि न इति।।

                कारणत्रितयजन्यत्वमन्यस्यान्यात्मनावभासं च सम्पादयामीत्याह--अत्रोच्यते इति।। सम्प्रयोगाभावादपरोक्षावभासित्वात् ग्रहणस्मृतिमात्रत्वे प्रत्युक्ते तृतीयमिदं विज्ञानं स्वयमेवोक्ताध्यासलक्षणं गमयितुं समर्थमिति वदितुं प्रकारान्तरं पर्युदास्यति--उक्तमेतत् इति।। स्वप्नप्रपञ्चविपरीतप्रमात्रादिविज्ञानसाधनस्यान्तःकरणस्य निद्रादिदोषपूर्वानुभवसंस्कारसहितस्य संप्रतिपन्नकारणत्रितयत्वात् युक्तं स्मृतिरूपं भ्रान्तिज्ञानमित्याह--तदिह निद्रादिदोषोपप्लुतं इति।।

                कथं परत्र परावभासः इति तदाह--तस्य च इति।। निद्रादिदोषसंस्कारोपप्लुतेनान्तःकरणेन मिथ्याध्यासनिमित्तकारणेनावच्छिन्नचैतन्यस्था अविद्याशक्तिः पुष्कलनिमित्तकारणसंसर्गादध्यासं प्रति पुष्कलकारणतामापद्यमाना मिथ्यार्थालम्बनाकारेण विवर्तते इति, चैतन्यमेव स्वाविद्याया विवर्तते। अतः सत्यस्य वस्तुनो मिथ्यावस्तुसंभेदावभास लक्षणः परत्र परावभासो विद्यते इति भावः। तथा जागरणेऽपि बाह्याधिष्ठानांशसंसृष्टान्तःकरणावच्छिन्नतया बाह्याधिष्ठानसंसृष्टचैतन्यस्याविद्याशक्तिः बाह्याधिष्ठानसंसृष्टरजताद्याकारेण विवर्तत इति, शुक्तिकाद्यवच्छिन्नं चैतन्यं रजताद्यालम्बनमिति बाह्यालम्बनं रजतादि कथ्यते। सर्वत्र तु चैतन्यमेव साक्षाद्वा अन्यावच्छिन्नतया वा विभ्रमालम्बनमिति, युक्तः "परत्र परावभासः" इत्यर्थः।।

                आकाशवत् सर्वविषयोपरक्ततया सर्वत्रावभासमानमात्मानमनादृत्य अहमित्येवावच्छिन्नमात्मानमुपादाय चोदयति--नन्वेवं सत्यन्तरमेव इति।। आत्मैवाधिष्ठानं चेत्, इदं रजतं इतिवत् अहं नीलं इत्येव स्वप्नप्रपञ्चो भायादित्यर्थः। निष्कृष्टाहङ्कारं चैतन्यमात्रमात्मानमादाय चेत्यस्य च चित्सामानाधिकरण्यावभासं सर्वत्राङ्गीकृत्य परिहरति--को वा ब्रूते इति।। पुनरपि अहङ्कारावच्छिन्नमात्मानमादाय चोदयति--ननु विच्छिन्नदेशः इति।। इदमिति पृथक्त्वावभासोऽप्यन्तरेवेत्याह--ननु देशोऽपि इति।। अनवच्छिन्नचैतन्यसंसृष्टतयैव भेदावभासोऽपीति भावः। अहङ्कारावच्छिन्नमादाय अहं भेदः इत्यपि प्रतीयादित्याह--अयमपि इति।। निगूढाभिसन्धिरेव पूर्वमुत्तरमुक्त्वा, इदानीं सर्वतो विप्रसृतं चैतन्यं सर्वात्मना प्रकाशमानमात्मानं स्पष्टीकुर्वन्नाह-नैष दोषः जागरणेऽपि इति।। प्रातिभासिकभेदमन्तरेण प्रमाणतो न भिद्यते इत्यर्थः। ननु अहमवच्छिन्नचैतन्यादन्यान्येव विषयगतचैतन्यानि किं न स्युः इति अत आह--अन्यथा जडस्य इति।। स्वयं चैतन्यहीना विषया आत्मावगतिप्रकाशेनापि न संसृज्यन्ते चेत् मयावगताः इति सम्बन्धावभासो न स्यादित्यर्थः।।

                सर्वत्र चैतन्यावगुण्ढनेऽपि--"अहं इदं" इति च आत्मानात्मानो विभक्ताविति प्रतिभासः कथम् इति तत्राह--यः पुनः इति।। ननु चैतन्यमेव सर्वत्र अन्तर्बहिर्भेदादिरूपेणावभासते चेत्, कथं तस्याखण्डाद्वितीयता इति चेत्यभेदोपरागनिमित्तभेदमन्तरेण स्वरूपभेदानवगमात् इत्याह--तस्य च निरंशस्य इति।। निरंशद्रव्यस्याणुत्वमनन्तत्वं वा स्यात्, मध्यमपरिमाणं चेदं चैतन्यं सर्वत्रावभासते; न च निरंशं मध्यमपरिमाणं इति। परोपाधिपरिमाणं चैतन्यमित्यर्थः। जागरणेप्येवम्। किमु वक्तव्यं स्वप्नस्य चैतन्याधिष्ठानत्वमित्यर्थः।।

                केवलस्य मनसो बहिःप्रत्यक्षसाधनत्वाभावात् अथ वा इति अङ्गीकरणवादः। अव्याप्तिः परिहृता, इदानीं मिथ्याध्यासभ्रान्त्यविद्याप्रसिद्ध्यभावेऽपि अन्यस्यान्यावभासो विद्यते इति लक्षणस्यातिव्याप्तिमाह--कथं तर्हि नामादिषु इति।। अन्यस्यान्यात्मताज्ञानं अध्यासलक्षणम्, इयं तु अन्यस्यान्यत्र मानसी क्रिया इति अतिव्याप्तिं परिहरति--सत्यमत एव चोदनावशात् इति।। ननु ज्ञानमेव तत्र विधीयते इति, नेत्याह--न हि ज्ञानम् इति।। विधिजन्यपुरुषेच्छाप्रयत्ननिरपेक्षमेव सर्वत्र ज्ञानस्य पुष्कलकारणम्; अनिच्छतोऽप्यनिष्टज्ञानदर्शनात्, अतो विधानात् मानसी क्रियेति भावः।।

                "ननु स्मृतिज्ञानं" इत्यारभ्य "तं केचित्" इत्यतः प्राक्तनो ग्रन्थः स्पष्टार्थः।। नन्वध्यासे वादिविप्रतिपत्तिदर्शनात् न एकरूपेण लक्षणं व्यवस्थापयितुं शक्यते इत्याशङ्क्य अधिष्ठानाध्यस्यमानयोः स्वरूपतत्त्वदेशकालविशेषेष्वेव वादिनां विप्रतिपत्तिः, अन्यस्यान्यात्मतावभासमात्रे लक्षणे न विप्रतिपत्तिः। तच्च लक्षणं लौकिकसामान्यविशेषादिसंसर्गप्रत्ययानां भ्रमत्वप्राप्तिपरिहाराय सत्यस्य मिथ्यावस्तुसम्भेदावभासः इति बलादापतति इत्यङ्गीकृत्य मतान्तराण्युपन्यस्यति--तं केचिदित्यादिना।। प्रथमस्तु आत्मख्यात्यन्यथाख्यातिविशेषयोः, द्वितीयस्तु अख्यातेः, तृतीयस्तु शुक्तेः स्वाभावरजतात्मना ख्यातिरिति शून्यख्यात्यन्यथाख्यातिविशेषयोरुपन्यासः। कल्पनां इत्यस्य व्याख्या अविद्यमानस्यैवावभासमानतां इति। यल्लक्षणमवादिष्म इति पूर्वलक्षणशब्देन यच्छब्दस्य सम्बन्धः। अख्यातिवादिनापि मानसं संसर्गज्ञानं संसर्गाभिमानो वा वक्तव्यः इत्यभिप्रायः। ननु स्मृतिरूपतया कारणत्रितयजन्यत्वमुपेक्षितमिति , नेत्याह--पूर्वदृष्टत्वेति।।

                ननु अविद्यादिदोषपूर्वभ्रमसंस्काराभ्यामेव पदार्थमात्रज्ञानानि जायमानानि विभ्रमाः, न सत्यं वस्तु तत्संप्रयोगादि प्रमाणकारणं चापेक्षते विभ्रमः इति, परत्रेतिपदमविवक्षितमिति शून्यवादी मन्यते, तत्राह--स्मृतिरूपः पूर्वदृष्टावभासः इति।। न पदार्थमात्रज्ञानं विभ्रमः; शून्यज्ञानस्यापि तथात्वप्रसङ्गात्, किन्त्वन्यत्रान्यज्ञानम्; ततश्च अविभ्रमेऽपि पदार्थज्ञाने लक्षणव्याप्तेः निरुपपत्तिकत्वमिति। कथं निरुपपत्तिकोऽयं इत्यादिग्रन्थः स्पष्टार्थः।। ननु संविद्रजतयोरितरेतराधिष्ठानत्वेन साधिष्ठाने भ्रमे सम्भवति न तृतीयस्य सत्यवस्तुनोऽधिष्ठानत्वकल्पना युक्तेति चोदयति--ननु रजते संविदिति।। ननु अध्यस्यमानव्यतिरेकेण अधिष्ठानस्य सिद्धिर्वक्तव्या, तत्र इतरेतराधिष्ठानत्वे सतीतरेतरापेक्षसिद्धित्वादसमञ्जसं स्यादिति, तत्राह--बीजाङ्कुरादिवदिति।। न बूजाङ्कुरादिष्वितरेतराश्रयता, किन्तु कारणपरम्परया अनवस्थेति परिहरति--नैतत् सारमिति।। नन्विहापि कारणपरम्परेति,  नेत्याह--इह पुनर्यस्यामिति।। नन्विहापि तर्हि

रजते संवित्, रजतं पूर्वस्यां संविदि सा च  स्वविषये, तत् च पूर्वसंविदि इति परम्परामेवं कल्पयामीति--चेत्, यदि तावत् पूर्वपूर्वमुत्तरोत्तरस्यान्वितत्वेनाधिष्ठानं स्यात्, ततः पूर्वस्य पूर्वस्योत्तरस्मिन्नुत्तरस्मिन्नध्यासे युगपदवस्थानात् क्षणिकत्वहानिः। ननु बीजाङ्कुरादावन्योन्योपादानत्वेऽपि न युगपदवस्थानं दृश्यते इति,  तत्राह--बीजाङ्कुरादिष्वपीति।। अभिमतवस्तुसिद्धिः=अन्वयिकारणत्वसिद्धिरित्यर्थः; अनन्वितेषु बीजादिष्वन्वयिकारणाकाङ्क्षाया अनिवृत्तत्वादित्यर्थः। अतः अन्वयिद्रव्यमेव तत्राप्युपादानम्; बीजादेरन्योऽन्यनिमित्तनैमित्तिकतेति भावः। इहापि तर्हि पूर्वस्योत्तरं प्रत्यनन्वितत्वेनैवाध्यासनिमित्तता बीजादिवदिति,  नेत्याह--कुत इदमेवमिति पर्यनुयोगे दृष्टत्वादेवमिति।। अयं भावः--बीजाङ्कुरयोः कार्यकारणभावस्य दृष्टत्वाददृष्टेऽपि तयोरेव कार्यकारणपरम्परा दृष्टपरम्परात्वात् न अनवस्थादोषमावहति, संविद्रजतयोरधिष्ठानाधिष्ठेयतया निमित्तनैमित्तिकभावस्य प्रथममेव कल्प्यत्वात् तयोरेव पूर्वपूर्वनिमित्तनैमित्तिकभावकल्पना तु अन्धपरम्परैव स्यादिति। दृष्टपरम्परामेव दर्शयति--दृष्टत्वादेवमिति।। तत्रैवदूरं वेति।। नानवस्थादोषमतिवर्तेत इति।। अन्धपरम्परामेवेत्यर्थः।।

                द्‌व्याकारावभासत्त्वात् सर्वभ्रमाणां परत्र परावभास एव भ्रमः इत्युक्तम्। भ्रान्तिज्ञानप्रतिपन्नविषयेऽर्थे भ्रान्त्यंशान्तराभावविशिष्टांशान्तरज्ञानस्य बाधकत्वाच्च साधिष्ठानो भ्रमः इत्याह--अपि च न क्वचिदिति।। ननु अनुमानाप्तवचनाभ्यां सर्पाभावमात्रमपि कदाचिद्गम्यते, न तदभावविशिष्टमंशान्तरमिति, तत्राह--यत्राप्यनुमानादिति।। तत्राप्यभावविशिष्टं वस्तुमात्रं गृह्यते; विशेषाकाङ्क्षादर्शनादिति भावः। ननु प्रधानं नास्तीत्यादौ न तदभावविशिष्टं वस्त्वन्तरं गृह्यते, तेषामन्यत्रानध्यस्तत्वादिति, तत्राह--प्रधानदिष्वपीति।। अथवा--सर्वभ्रमावभासेषु च साक्षिचैतन्यस्यालम्बनस्य विद्यमानत्वात् शङ्क्यमाननिरधिष्ठाननिरवधिकभ्रमबाधेऽपि साक्ष्येवाधिष्ठानमवधिश्च विद्यते इत्याह--अथ वा सर्वलोकसाक्षिकमिति।।

                ननु अर्थबाधया ज्ञानस्यापि बाधात् भ्रमबाधे तदवभासिसाक्षिचैतन्यमपि बाध्येतेति, तत्राह--तद्बाधे तदनुषङ्ग एवेति।। अधिष्ठानत्वेनापि परिशेषादति भावः। अतः इत्युपसंहारः। तदेव प्रपञ्चयति--तेन तन्मात्रस्येति।। साधिष्ठानभ्रमसाधनप्रसङ्गेनाध्यस्तस्यापि शून्यतां निराचष्टे--नाप्यध्यस्तमप्यसदिति।। प्रत्यक्षतः "रजतं" इति विशेषप्रतिभासाप्रयोगप्रसङ्गादिति भावः; प्रतिभासमात्रनिराकरणे शून्यं न भासते इति वाक्यस्याबोधकत्वप्रसङ्गात्।।

                ननु अध्यस्तं सर्वं शून्यमेवेति तेऽपि मतमिति चोदयति--ननु इति।। शून्यात् व्यावृत्तिरपि भ्रमस्य कथितैवेत्याह--क एवमाहेति।। सद्व्यावृत्तिमात्रं भ्रमस्यासत्त्वं नाम, न शून्यत्वम्; निषेधप्रतियोगित्वादिति भावः। ननु--भ्रमस्य स्वकाले अनिर्वचनीयत्वेऽपि बाधादूर्ध्वं शून्यत्वमविशिष्टमिति शङ्कते--अथ पुनरिति।। सर्ववादिनां सर्वं वस्तु स्वकाले वर्तमानमपि विनाशादूर्ध्वं शून्यमेवेति सम्मतम्, अतो न दोषः इत्याह--काममिति।।

                ननु भवतु नाम सर्वस्य वस्तुनो विनाशादूर्ध्वं शून्यता, न विभ्रमगृहीतं वस्तु बाधादूर्ध्वं शून्यं भवति, किन्तु देशान्तरादिगतं इति चेत्, तत्र किं बाधकज्ञानमेव रजतादेर्देशान्तरे सत्त्वं गमयति किं वा इह बाधानुपपत्तिः इति  न तावत् बाधकज्ञानमित्याह--2तथा च बाधकाज्ञानमिति।।2 नेदं रजतं किन्तु देशकालान्तरे बुद्धौ वा इत्यनवगमादिति भावः। यावदभिधानसामर्थ्यं हि वाक्यमर्थं प्रतिपादयति, देशान्तरवर्तित्वं तु अनभिहितं न वाक्यार्थः इत्यर्थः।।

                एवं सति प्रतिपन्नस्य वस्तुनः अत्राभावः अन्यत्र सत्त्वमन्तरेणानुपपन्नः, इत्यर्थापत्त्या वाक्यं गमयिष्यतीति,  नेत्याह--नार्थापत्त्येति।। अन्यथाख्यातौ निषिद्धस्य संसर्गस्य आत्मख्यातौ बहिष्टृस्य वा अन्यत्र सत्त्वमन्तरेण निषेधदर्शनात्। अख्यातावपि ऋत्विग्विच्छेदे सर्वस्वदानकर्तव्यताबुद्धौ ऋत्विग्विच्छेदान्तरनिमित्तादक्षिणयागसमाप्तिविज्ञानबाधितायां न सर्वस्वदानकर्तव्यता तत्र प्रतिपन्ना अन्यत्र सतीति कल्प्यते। प्रवृत्तिरेव तत्र निरुध्यते इति चेत्, न--प्रवृत्तिनिरोधो न बाधः इत्युक्तत्वात्, यागादिषु च प्रवर्तमानस्य राजचोरादिप्रतिबन्धनिश्चयात् प्रवृत्तिनिरोधेऽपि यागादिबुद्धौ बाधप्रसिद्ध्यभावात्, सत्यां चाबाधितकर्तव्यताबुद्धौ

यदा कदाचित् प्रवृत्तिसिद्धेः।।

                किञ्च लोकेऽपि प्रतिपन्नोपाधावेव यस्य निषेधः, तस्य निषेधोपाधिसजातीयोपाध्यन्तरे सत्त्वं न कल्प्यते इत्याह--इह भग्नघटाभाववदिति।। यथा प्रतिपन्नदेशे निषिद्धस्य घटस्य न देशान्तरे सत्त्वम्, एवं प्रतिपन्नदेशकालवस्तुसर्वोपाधौ निषिद्धस्य न प्रतियोगित्त्वेनाप्रतिपन्नसर्वोपाधौ सत्त्वसिद्धिरित्यर्थः। ननु कथं सर्वत्र शून्यस्य प्रतिपत्तिः इति तत्राह--तन्मात्रेणापि तत्सिद्धेरिति।। अत्रैव अनिर्वचनीयमिथ्यावस्तुसद्भावमात्रेणापि तस्याः प्रतीतेः सिद्धेरित्यर्थः।।

                ननु तर्हि "पूर्वं रजतमभूदिदानीं न" इति घटवत् कालभेदेन निषेधः स्यात्,न--लौकिकपरमार्थरजतस्यात्र कालत्रयेऽपि शून्यत्वात् तदपेक्षया निरुपाधिकनिषेधसिद्धेः। निरुपाधिक निषेध सामर्थ्याच्च प्रतिपन्नं मिथ्या रजतमिति बाधानन्तरं परामृश्यते--"मिथ्यैव रजतमभात्" इति; अन्यथा कालभेदे सत्यरजतमेव स्यात् "नायं सर्पः" इत्यभावमात्रविषया हि प्रत्यक्षप्रतिपत्तिः न देशान्तरे सर्पसत्त्वं गमयति, किमु वक्तव्यं--"रज्जुरियं" इत्यधिष्ठाने पर्यवसिता प्रतीतिः न कल्पयतीति दर्शयति--यत्रापि सर्पबाधपूर्वकः इति।। तदेवं इत्याद्युपसंहारः। 2यद्येवं परत्र इत्यादिः स्पष्टार्थः।।

                सत्यं विस्पष्टार्थं।। इत्यस्य अयमर्थः--स्मृतिरूपशब्देन किं संस्कारजन्यत्वं, पूर्वानुभवसम्भेदो वा, स्मृत्या सादृश्यं भ्रान्तेरभिधीयते इति विशये संस्कारजन्यत्वमेवेति स्पष्टीकरणार्थं पूर्वदृष्टस्यावभासः न दर्शनस्येत्युक्तमिति। पूर्वदृष्टसजातीयेत्यर्थः; अनिर्वचनीयरजताभ्युपगमात्। भ्रान्तिश्चेत् सत्यस्य वस्तुनो; मिथ्यावस्तुसम्भेदावभासः अन्यथा अतिप्रसङ्गात् इत्याद्या या युक्तिरभिहिता; लोकानुभवसिद्धत्वादध्यासस्य। तथापि युक्त्या न प्रयोजनमित्याह--2तथा च लोके अनुभवः इत्यादिना।।2

                ननु "शुक्तिका" "रजतवत् इति" च वचनं न भ्रान्त्यपेक्षया उपपद्यते; इदं रजतं इत्येवावभासनात्। न च बाधापेक्षया, तत्र वत्करणाभावात् इति चोदयति--ननु न शुक्तिकेति।। बाधकज्ञानापेक्षया शुक्तिका रजतवभासते इति लक्षणप्रदर्शनं बाधकज्ञानविषयतया वा तत्सामर्थ्येन वा सिद्धस्याध्यासमिथ्यात्वस्य लक्ष्यस्य वच्छब्देन अभिधानं इति लक्ष्यलक्षणसङ्गतिरनेन वाक्येन तत्र प्रदर्श्यते इत्याह--उच्यते शुक्तिकाग्रहणमिति।। ननु मिथ्या रजतमिति विशेषणादन्यत्र सत्यरजतं वक्तव्यमिति, नेत्याह--मिथ्यात्वमपि रजतस्येति।। स्वरूपपरं विशेषणम् नान्यव्यावृत्तिपरमित्यर्थः। ननु रजतस्य मिथ्यात्वे तद्धर्मत्वादिदन्ताया अपि मिथ्यात्वात् सर्वमिथ्यात्वेन निरधिष्ठानताप्रसङ्गः इति, नेत्याह--तत्रासंप्रयुक्तत्वादिति। कथं तस्यासम्प्रयुक्तस्य रजतस्यापरोक्षतेते, अत आह--अपरोक्षावभासस्त्विति।।

                उदाहरणद्वयस्य तात्पर्यमाह--तत्र शुक्तिकोदाहरणेनेत्यादिना।। अस्मदर्थे=अहमिति प्रतिभासे इत्यर्थः। प्रतिभासतो युष्मदर्थत्वाभावेपि चिदवभास्यत्वं नाम युष्मदर्थलक्षणमस्तीत्याह--तदभावस्यत्वेनेति।। अद्वितीयचैतन्यप्रकाशात्मनि द्रष्टरि अहङ्कारादिसङ्घातस्याध्यस्तत्वात् अध्यस्यमानव्यतिरिक्तमधिष्ठानमध्यासाधिष्ठानयाथात्म्यविषयप्रमाणज्ञानं दृष्टा चेति त्रितयमात्मेति वक्तव्यम्; ततश्च अधिष्ठानगतो दोषः, द्रष्टुर्दोषः, प्रमाकरणदोषो वा सर्वं दोषजातमात्मन्येवेति वक्तव्यम्; तदभावात् चैतन्यस्याध्यासविषयज्ञानस्याजन्यत्वात् कारणत्रितयजन्यविज्ञानस्यात्मन्यनात्माध्यासेऽसम्भवात् अगृहीतविशेषस्य सामान्यग्रहणस्याधिष्ठानत्वनिमित्तस्यात्मन्यसम्भवात् "परत्रे"त्ययोगात् च न अध्यासलक्षणं बहिरुक्तमप्यात्मनि सम्भवतीति चोदयति--ननु बहिरर्थे इत्यादिना उच्यते इत्यतः प्रक्तनेन ग्रन्थेन।। ननु इहापि बहिरर्थवदगृहीतविशेषत्वमर्थत्वसामान्यादनुमीयतामिति, नेत्याह--न त्विह कारणान्तरायत्तेति।। ननु स्वभाववभासेऽपि संवेदनवदगृहीतविशेषांशोऽपि स्यादिति; नेत्याह--निरंशस्येति। मध्यमपरिमाणनिराकरणादणुरनन्तो वा आत्मा निरंशः इति।।

                ननु निरंशोऽप्याकाशादिवन्न कात्र्स्न्येनावभासते इति, तत्राह--स्वयंज्योतिष इति।। यावत्सत्त्वमवभासभावादित्यर्थः। कुतः "अत्रायं पुरुषः स्वयंज्योतिः" "आत्मैवास्य ज्योतिः" इत्यादिश्रुतेः। ननु ज्योतिरिति प्रकाशगुणमात्रं नाभिधीयते; आत्मनो गुणत्वप्रसङ्गात्, अतः प्रकाशगुणवत् द्रव्यं ज्योतिरिति, जन्यज्ञानेनापि प्रकाशेन आत्मा प्रकाशगुण इति "ज्योतिरात्मे"ति न विरुध्यते, नैतत्सारम्;

सर्वभावानामन्यनिमित्तप्रकाशसंसर्गित्वादात्मन्यपि तत्प्रसङ्गनिराकरणाय स्वयंज्योतिरिति विशेषणोपपत्तेः, "आत्मैवास्य ज्योति"रिति चैवकारात्। ननु कारकान्तरानपेक्षतया स्वयमेव स्वात्मनि ज्ञानं जनयतीति स्वयमिति विशेषणं किं न स्यात्  न; ज्योतिष्ट्वस्यैव विशेष्यत्वात् तत्र कारकत्वस्य विशेष्यतया अप्रतिभासात्।।

                किञ्च ज्ञानजन्मप्रयुक्तत्वात् कारकापेक्षायाः तदभावे अपेक्षैव नास्तीति। ननु ज्ञानप्रयुक्तं जन्मापि विद्यते, न प्रकाशगुणत्वप्रयुक्तमेव; द्रव्यजन्मव्यतिरेके स्वद्रव्योपाधौ जन्माभावस्य प्रदीपादौ दृष्टत्वात्, अत्रापि ज्योतिःशब्दादात्मनि प्रकाशगुणस्य जन्माभावनिश्चयात्। न चान्तःकरणेऽपि प्रकाशगुणोदयो ज्ञानपरिणामः; स्वभावत एव प्रकाशगुणवद्द्रव्यस्यान्तःकरणस्यैव विशेषपरिणामस्य ज्ञानत्वाभ्युपगमात्। न च ज्ञानमपि क्वचिज्जन्मवत् दृष्टम्। दृष्टमन्तःकरणे इति चेत्, न; ज्ञातुरर्थप्रकाशस्य ज्ञानत्वात्, तस्य चात्माश्रयत्वात्, अन्तःकरणपरिणामे ज्ञानत्वोपचारात्। न च--ज्ञानमात्माश्रयं द्रव्यमिति--युक्तम्; तस्यैव प्रकाशगुणत्त्वेनात्मनो ज्योतिष्ट्वहानात् जडप्रकाशगुणो न जन्यः, चित्प्रकाशगुणो जन्य इति चेत्, न; प्रकाशत्वप्रयुक्तत्वात् स्वद्रव्योपाधौ जन्माभावस्य। दर्पणादौ विद्यमानप्रकाशस्यैव तिरोधाननिराकरणं क्रियते, प्रदीपादिषु तु द्रव्यमेव जायते, न प्रकाशगुणः। प्रज्ञानघनशब्दाच्च चैतन्यज्योतिरात्मा न जडज्योतिरिति गम्यते; "विज्ञानमानन्दं" "प्रज्ञानं ब्रह्म" इत्यादिवचनाच्च। ज्ञानमिति ज्ञातृत्वमुच्यते, न भावार्थः इति चेत्, न--भावार्थे प्रसिद्धिविरोधात् शब्दस्य। किञ्च प्रतिक्षणं प्रकाशगुणकल्पनात् वरमेकस्यैव गुणस्य स्थायित्वकल्पनम्। आत्मनि प्रकाशगुणव्यतिरेकाभावाच्च नागन्तुकत्वे प्रमाणमिति।।

                ननु आत्मन्यगृह्यमाणविशेषत्वमनुभवसिद्धं इति चोदयति--ननु ब्रह्मस्वरूपमिति।। तर्हि शुक्तिकायामिव ब्रह्मण्येवानवभासविपर्ययौ स्याताम्, न जीवे इत्याह--न तदनवभासनादिति।। ननु कार्यकारणभावहीनयोः द्रव्ययोः सामानाधिकरण्यमेकद्रव्यनिष्ठम्; "सोयं देवदत्त" इतिवत्, अतो द्रव्यैकत्वात् जीवगतावेवानवभासविपर्ययाविति चोदयति--ननु न ब्रह्मणोऽन्यः इति।। तर्हि ज्ञानप्रकाशविरोधादाश्रयविषयभेदाभावाच्च नाज्ञातता ब्रह्मण इत्याह--एवं तर्हीति।। तत्र अद्वितीयाधिष्ठानब्रह्मात्मनि प्रमाणस्य चैतन्यस्याविद्याकारणदोषसंसर्गं प्रथमं दर्शयति--उच्यते विद्यते एवेति।। प्रत्यक्षानुमानार्थपत्तिप्रदर्शिताज्ञानस्य श्रुतितदर्थापत्तिभ्यां प्रदर्शनं क्रियते--श्रुतिस्तावदिति।। सुषुप्ते मिथ्याज्ञानाभावात् तत्संस्कारस्य चाप्रतिबन्धकत्वात् कादाचित्कग्रहणाभावस्य च स्वतस्सिद्धग्रहणविरोधित्वाभावात् स्वरूपचैतन्येनैव ब्रह्मस्वरूपावभासे प्राप्ते तदवभासप्रतिबन्धनिमित्तमनृतं दर्शयति--"अनृतेन हि प्रत्यूढाः" "त इमे सत्याः कामा अनृतापिधानाः" इति। ततश्च मिथ्याज्ञानतत्संस्काराग्रहणकर्मभ्यो व्यतिरिक्तमनवभासनिमित्तमनृतं मिथ्यावस्तु सिद्धम्। "अनीशया शोचति मुह्यमानः" इति स्वभावसिद्धेश्वरस्यानीश्वरत्वं तद्भावाप्रतिपत्तिरेव; वस्तुनोऽनपायात्, ततश्चेश्वरभावाप्रतिपत्तेः शोकस्य च निमित्तं मोहं दर्शयति। आदिशब्दात् "न तं विदाथ य इमा जजानान्यत् युष्माकमन्तरं बभूव। नीहारेण प्रावृता जल्प्याचासुतृप उक्थशासश्चरन्ति" इति। नीहारं तमोऽज्ञानमित्यनर्थान्तरम्। तेन प्रावृतत्वमेव जीवानां ब्रह्मापरिज्ञाने जप्ल्यत्वाद्यध्यासे च निमित्तं दर्शयति। तथा "अविद्यायामन्तरे वर्तमाना नान्यच्छ्रेयो वेदयन्ते" इति श्रेयोरूपब्रह्मापरिज्ञाने क्रियाकारकाद्यध्यासे च निमित्तभूतामविद्यां दर्शयन्तीत्याद्याः, "अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ती"त्याद्याः स्मृतयोऽपि द्रष्टव्याः।।

                अर्थापत्तिरपि--ब्रह्मज्ञानात् बन्धनिवृत्तिः श्रूयमाणा ब्रह्मणि प्रागनवबोधोऽध्याससम्बन्धहेतुरस्तीति कल्पयतीति फलश्रुत्यनुपपत्तिः, अथवा "द्रष्टव्यः" इत्यादिदर्शनविधानानुपपत्तिर्वा प्रागनवगममन्तरेणेति, जीवस्य ब्रह्मस्वरूपानवभासनिमित्तं जीवाश्रयाध्याससम्बन्धहेतुरज्ञानदोषो विद्यते इत्युक्तम्। अत्र च साक्षिवेद्यस्याज्ञानस्य प्रमाणैरभावव्यावृत्तिः प्रदर्श्यते इति न तस्य प्रमाणवेद्यत्वप्रसङ्गः इति। तत्र चोदयति--ननु न जीवो ब्रह्मणोऽन्य इति। किमत्र जीवब्रह्मणोरेकत्वात् पर्यनुयुज्यते किमेकत्वादाश्रयविषयभेदानुपपत्तिः किं वा चित्स्वभावस्याविद्याश्रयत्वविरोधः ब्रह्मणो वा सर्वज्ञत्वादिहानिः इति। न तावदज्ञानमाश्रयविषयभेदापेक्षम्, किन्तु एकस्मिन्नेव वस्तुन्याश्रयत्वमावरणञ्चेति कृत्यद्वयं सम्पादयति; स्वाश्रयापवरकप्रदेशे कृत्यद्वयसम्पादितमोवत्; अक्रियात्मकत्वादावरणत्वाच्च। न हि तमो वस्तुद्वयापेक्षमवभासते। अज्ञानमिति च द्वयापेक्षज्ञानपर्युदासेनाभिधानात्

द्वयसापेक्षवदवभासते। यथा स्थितिरगमनशब्देनाभिधीयमाना कस्य किंविषयमगमनमिति कर्मसापेक्षवद्भाति; तद्वत्। तमोवच्च स्वाश्रयावरणमज्ञानं स्वाश्रयैकत्वेन न विरुध्यते। नापि स्वाश्रयचित्प्रकाशेन विरुध्यते अज्ञानम्; स्वावभासकेन संवेदनेन चित्प्रकाशेनाज्ञानस्याविरुद्धत्वात्, साक्षिचैतन्यस्य चाज्ञानावभासकत्वात्। अतो न चिदाश्रयत्वविरोधः।।

                किञ्च जन्यज्ञानेनात्मन्यवस्थात्रये अवभासमाने एव स्वपरविषयाज्ञानाश्रयत्वं सर्वैरेवोपगन्तव्यमिति, नावभासमाने अज्ञानाश्रयत्वविरोधः। न च प्रकाशमात्रमज्ञानविरोधि। स्वज्ञाने अभावात्। नच स्वयंप्रकाशमाने अज्ञानसंसर्गविरोधः क्वचित् दृष्टः; विषयाणां परप्रकाश्यानामेव तत्संसर्गविरोधात्। संवेदनस्यात्मस्वरूपत्वादेव तदाश्रयाज्ञानोपगमात् न तदुदाहरणम्। अथ ब्रह्मणः सर्वज्ञत्वविरोधादैक्ये सति नाज्ञानमुपपद्यते इति, न;जीवाश्रयत्वोपगमात्। ननु ऐक्यमुक्तम्, सत्यम्; सत्यप्यैक्ये प्रतिबिम्बात्मन्यध्यस्तश्यामत्वादेः बिम्बे अदर्शनात् अवदाततायाश्चाविरोधदर्शनात्, एवं सर्वज्ञत्वाविद्याश्रयत्वयोः सत्यप्यैक्ये अविरोधात्। तस्मात् न ऐक्यमविद्याश्रयत्वेन विरुध्यते, किंत्वविद्यामेवोपपादयतीत्याह--बाढमत एवार्थादिति।। ऐक्ये स्वयंप्रकाशत्वे सर्वज्ञत्वे च सत्येवानवभासदर्शनादाच्छादिका अविद्या कल्प्यते; अन्यथा भेदजाड्यकिंचिज्ज्ञत्वे ग्रहणाभावमात्रमेव स्यात्; ततश्च तमोऽनृतनीहाराज्ञानावृतत्वादिशब्दा अनवभासाध्यासनिमित्तभावरूपाज्ञानप्रतिपादका बाध्येरन्निति।।

                नन्वेकद्रव्यत्वे सति जीवब्रह्मविभागः किंनिबन्धनः यतः सर्वज्ञत्वाविद्याश्रयत्वे व्यवस्थाप्येते इति, अन्तःकरणावच्छेदात् कश्चिद्भेद वक्ति, अन्यस्त्वतिरेकात्, अपरस्तु स्वभावादेवांशांशिभावात्, तत् सर्वं व्यावर्तयति--अतोऽनादिसिद्धाविद्यावच्छिन्नेति।। आत्मावरणमात्माज्ञानमेव जीव-ब्रह्मविभागाद्यध्यासोपादानं यतः अतो जीवावच्छेदनिमित्तमज्ञानमिति; अवच्छेदस्यापि प्रातिभासिकाध्यासस्य तदुपादानत्वात्। सत्यतो निरवयवस्य द्वैधीभावायोगात्, कर्तृत्वभोक्तृत्वदोषसंयोगानां बीजाङ्कुरवदनादिप्रवाहस्य दर्शितत्वात्। तदुपादानमप्यज्ञानमनादीत्याह--अनादिसिद्धेति।। अनादिजीवविभागाध्यासप्रवाहस्यानाद्यविद्यैव कारणं नान्तःकरणादीत्याह--अविद्यावच्छिन्नेति।।

                नचान्तःकरणमवच्छेदकम्; अर्थतो विदारणाभावात्, अवच्छेदस्य विभ्रममात्रत्वात्, अज्ञानस्यैव तदुपादानत्वात्, अन्तःकरणस्य च सम्यग्ज्ञाननिरस्यता अविद्याध्यासत्वात्, स्वकारणावच्छिन्नस्यैवावच्छेदकत्वसंभवात्, सत्यत्वेऽपि सादेरनाद्यविद्योपादित्वाभावात्, सुषुप्तादौ चान्तःकरणाभावादनवच्छेदप्रसङ्गात्। तदापि सूक्ष्मावस्थमन्तःकरणमवच्छेदकमिति चेत्, किं  तावन्निरवयवत्वापत्तिः सूक्ष्मता। सावयवस्यावयवाभावे स्वरूपनाशात्, अथावयवापचयमात्रं सूक्ष्मता न; अवस्थितावयविनः अकार्यत्वप्रसङ्गात्, कारणात्मना स्थितिरिति चेत्, किं कारणमेव स्थितमित्यर्थः कार्यमपीति वा पूर्वस्मिन्नन्तःकरणाभावात्, उत्तरस्मिन् स्थित्यवस्थातो न विशेषः। तस्मात् कार्यसंस्कारविशिष्टशक्तिमत्कारणावस्थानमेव सूक्ष्मतापत्तिः। अतो नान्तःकरणमववच्छेदकमस्ति। तस्मात् क्लृप्ताविद्यासामर्थ्यादेव जीवब्रह्मविभागसिद्धौ नातिरेककल्पनावकाशः। "जीवस्य ब्रह्मण्यविद्या" इत्यविद्या पूर्वमेव विभागमपेक्षते इति चेत्, न; कस्य कस्मादतिरेक इत्यतिरेकस्यापि विभागपुरस्सरत्वप्रतीतेः; यथा भेदाधीनोपि धर्मिप्रतियोगिभावो भेदेनोपरज्यते, कस्य कस्माद्भेदः इति एवं अतिरेकाधीनोऽपि जीवब्रह्मभावस्तस्मिन्नुपरज्यते जीवात् ब्रह्मणोऽतिरेकः इति चेदविद्यायामपि तुल्यमेतत्।। निरंशत्वात् न अंशांशिभावेन भेदः संभवति। तस्मादविद्यैव भेदाध्यासनिमित्तमिति।।

                ननु अविद्या किंसंबन्धिनी भेदनिमित्तम् ननु दर्पणादिद्रव्यं वा किंसंबन्धि बिम्बभेदनिमित्तम् मुखमात्रसंबन्धीति चेत्, इहापि चित्स्वरूपमात्रसंबन्ध्यज्ञानं तत्र जीवब्रह्मव्यवहारभेदं प्रवर्तयति। कथं पुनः स्वरूपमात्रसंबन्धिनोऽज्ञानस्य  ब्रह्मस्वरूपं परिहृत्य जीवविभागैकपक्षपातिता  Bदर्पणघटादेर्मुखाकाशभेदे हेतुतया मुखादिसंसर्गिणोपि बिम्बाकाशौ परिहृत्य प्रतिबिम्बघटाकाशादिपक्षपातित्ववदिति वदामः।।

                 ननु किमाश्रयेयमविद्या न तावदन्तःकरणविशिष्टस्वरूपाश्रया प्रमाणाभावात्, ननु "अहमज्ञः" इति प्रतिभास एव विशिष्टाश्रयत्वे प्रमाणम्, न; ठअहमनुभवामी"त्यनुभवस्यापि चैतन्यप्रकाशस्य विशिष्टाश्रयत्वप्रसङ्गात्। ननु यथा "अयो दहती"ति दग्धृत्वायसोरेकाग्निसंबन्धात् परस्परसंबन्धावभासः,

तथा अनुभवान्तःकरणयोरेकात्मसंबन्धात् तथावभासः नान्तःकरणस्यानुभवाश्रयत्वादिति--चेत्, एवमज्ञानान्तःकरणयोरेकात्मसंबन्धा"दहमज्ञ" इत्यवभासः, नान्तःकरणस्याज्ञानसंबन्धादिति तुल्यम्; प्रतीतेरन्यथासिद्धौ परस्परसंबन्धकल्पनायोगात्, आत्मनि अविद्यासंबन्धस्य सुषुप्तेऽपि संप्रतिपन्नत्वाच्च। "अथ" स्वरूपमात्राश्रयत्वानुपपत्तेः विशिष्टाश्रयत्वं कल्प्यते इति--चेत्, न; विशिष्टेऽपि स्वरूपसंबन्धस्य विद्यमानत्वात्, जडस्य चाज्ञानाश्रयत्वे भ्रान्तिसम्यग्ज्ञानयोरपि तदाश्रयत्वप्रसङ्गात्। ननु स्वरूपेऽपि ब्रह्मण्यनुपपत्तिस्तुल्या, सत्यम्; अनुपपन्नद्वयाश्रयत्वकल्पनात् वरं संप्रतिपन्नस्वरूपाश्रयत्वोपादानम्; मोक्षवस्थासंबन्धिन एव संबन्धाश्रयत्वात्।।

                अत्र कश्चित्--अन्तःकरणस्यैवाज्ञानमिति-जल्पति। स वक्तव्यः--किं आत्मा सर्वज्ञः किंचित्ज्ञो वेति किंचिज्ज्ञत्वे कदाचित् किंचिन्न जानातीति विषयानवबोधः त्वयैवात्मनो दर्शितः। अथ अग्रहणमिथ्याज्ञानयोरात्माश्रयत्वेऽपि भावरूपाज्ञानमन्तःकरणाश्रयमिति, किं तत् ज्ञानादन्यच्चेत् अज्ञानं, काचकामलादीनामप्यज्ञानत्वान्न विवादः, अथ ज्ञाननिरोधीति, न; भिन्नाश्रययोः ज्ञानाज्ञानयोरेकविषययोरपि विरोधित्वादर्शनात्, करणाश्रयमज्ञानं कर्त्राश्रयज्ञानेन विरुध्यते इति चेत्, न; प्रमाणाभावात्। पुरुषान्तरसुषुप्तौ च तदीयेनान्तःकरणेन लीयमानेन करणभूतेन तन्निमित्तकर्मानुमानेऽपि तदीयान्तःकरणाज्ञाननिवृत्यदर्शनात्। भ्रान्तिनिमित्तदोषत्वात् काचादिवत् करणाश्रयमज्ञानमिति चेत्, न; चक्षुरादावपि प्रसङ्गात्। सादित्वात् तेषामनाद्यज्ञानाश्रयत्वानुपपत्तिरिति चेत्, अन्तःकरणेऽपि तुल्यम्। सत्कार्यवादाश्रयणात् न साद्यन्तःकरणमिति चेत्, चक्षुरादावपि तुल्यम्। अतो न तदनाद्यज्ञानाश्रयमिति। अनृतनीहारादिशब्दैश्च प्राप्तज्ञानानामग्रहणवतां चेतनानामेवावृतत्वाभिधानात् न अन्तःकरणाश्रयमज्ञानम्, किंतु चैतन्याश्रयमित्यलमतिविस्तरेण। तदेतदाह--अविद्यावच्छिन्नानन्तजीवेति।।

                न्यायः प्रदर्शितः। श्रुतिस्तु--"अन्यत् युष्माकमन्तरं बभूव। नीहारेण प्रावृताः" इति व्यवधायकमज्ञानं दर्शयति। "विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते। आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति।। इति स्मृतिः। ननु ब्रह्मव्यतिरिक्तमनादिवस्तु नास्तीति, तत्राह--तथाच स्मृतिरिति।। अतः इत्युपसंहारः स्पष्टार्थः।।

                स्वयंप्रकाशस्याविद्याश्रयत्वमुपपन्नमित्युक्तम्, इदानीं प्रकाशमानस्याविद्याविषयभावो नोपपद्यते इत्याक्षिपति--ननु प्रमाणाविरोध इति।। ननु "त्वदुक्तमर्थं न जानामी"ति प्रतिभासमानमेवाज्ञानस्य व्यावर्तकमवभासते, ननु तत्र विशेषाकारस्यानवगतस्य व्यावर्तकता, न; अनवभासमानस्य व्यावर्तकतया प्रतिभासानुपपत्तेः। ननु अभासमानस्यापि तद्व्यावर्तकत्वमनुपपन्नमेव, न; अज्ञानसंबन्धस्य प्रतिभासमात्रशरीरत्वात् अनुपपत्तेरलङ्कारत्वात्, प्रतिभासस्तु विद्यत एव; तत्र कथं प्रतीयमानस्याविद्याविषयत्वानुपपत्तिः इत्याक्षिपति--किं तत् प्रमाणमिति।। निरंशस्येति परिहारः। संविदभेदः अपरोक्षप्रकाशमानता नाम। शरीराद्भेदश्च स्वयंज्योतिषा आत्मप्रकाशेनाभिन्नः ततन्त्रो वा अपरोक्ष एव; तथापि न प्रकाशत इति सिद्धान्ती परिहरति--ननु भोक्तुरिति।। ननु न भोक्ता इत्यादिः स्पष्टार्थः।।

                पदार्थज्ञानमेव भेदज्ञानं, अतः अहमित्यात्मपदार्थज्ञानमेव भेदेऽपि प्रत्यक्षमिति मीमांसकंमन्यश्चोदयति--कथं पुनर्भोक्तेति।। संसर्गाध्यासो हि भेदानवगमनिमित्तमिति सर्वत्र व्याप्तमिति परिहरति--मनुष्योहमितीति।। पदार्थप्रत्यक्षेणैव भेदेऽपि प्रत्यक्षे सामानाधिकरण्यं गौणावभासः इति चोदयित्वा परिहरति--ननु गौणः इत्यादिना।। आह गौणवादी--नन्वहमिति यदीति।। ननु प्रत्यक्षावभासं बाधित्वा अगमानुमानाभ्यामेव व्यतिरेको गृह्यतामिति, नेत्याह--आगमानुमानयोरपीति।। ननु मिथ्यात्वात् प्रत्यक्षावभासस्य द्विचन्द्रावभासस्येव ताभ्यामेव बाधः इति चोदयति--मिथ्यात्वात्तस्येति।। यत्राविचारपुरस्सरमेव प्रत्यक्षावभासमप्यनुमानादिना झटिति बाधितमुच्छिन्नव्यवहारं भवति तत्र तथा भवतु; यत्र पुनः विचारपदवीमुपारूढयोः ज्ञानयोः बलाबलचिन्तया न बाधनिश्चयः, तत्र नानुमानादिना प्रत्यक्षस्य मिथ्यात्वसिद्धिरिति मत्वा आह--कुतस्तर्हीत्यादिना उच्यते इत्यतः प्राक्तनेन ग्रन्थेन।। स्पष्टार्थो ग्रन्थः।।

                किमर्थतो व्यतिरिक्तात्मविषयोऽहङ्कारः उच्यते किं वा प्रतिभासतः अर्थतश्चेत्, तत्राह--यद्यपि देहादिव्यतिरिक्तेति।। व्यतिरेकप्रतिभास एव अध्यासविरोधितया सामानाधिकरण्यस्य गौणत्वमावहति

नत्वर्थमात्रमिति भावः। ननु सामान्येन गृहीतस्य विशेषाग्रहणादन्यसंसर्गावभासो भवति, आत्मा तु विशेषरूपेणं गृहीतः, कथं तत्राध्यासः तत्राह--दृश्यते हीति।। अथ प्रतिभासत एवाहंप्रत्ययो विविक्तात्मविषय इति शङ्कते--अथ पुनरेकान्ततः इति।। परिहरति--ततस्तत्सद्भावे इति।। योक्तिकज्ञानसहकृतेनाहंप्रत्ययेनात्मनि विविक्ते प्रतिपन्ने पुनः सामानाधिकरण्यं गौणमेव, तत्सामान्यापूर्वमपि गौणमेवेत्यभिप्रेत्याह--जिज्ञासोत्तरकालं तर्हीति।। विचारेणापि नाहंप्रत्ययस्य व्यतिरिक्तात्मविषयत्वमापादितम्, किं तु सर्वदा स्वरूपमात्रविषयोऽहंप्रत्ययः, यौक्तिकज्ञानलब्धस्तु व्यतिरेकः, अतस्तस्याननुसंधाने पूर्ववदध्यास एवेति परिहरति--न युक्तः इति।। तत्रापि नाध्यासः इति चोद्यम्। अनुभवविरोधः इति परिहारः। अकारस्य व्यतिरेकेऽपि हृस्वादेरव्यतिरेकादध्यास इति चोदयति--नन्वनुभव इति।। अन्यतरव्यतिरेके द्वयोरेकत्वाद्भेदस्येतरेतरव्यतिरेकः सिद्ध्यतीत्याह--तन्नेति।। 2ननु महदेतत् इत्यादिचोद्यपरिहारौ स्पष्टौ।।2

                किं च विवेकानन्तरमध्यासोऽहंप्रत्ययमात्रेण विरुध्यते इत्युच्यते किंवा यौक्तिकाज्ञानेन न तावदहंप्रत्ययमात्रेणेत्याह--तथाह्यहंप्रत्ययस्येत्यादिना।। ननु पूर्वमात्मविषयोऽपि युक्तिज्ञानसन्निधानात् व्यतिरिक्तविषयोऽहंप्रत्यय इति, नेत्याह--अतो युक्त्या विषयविवेचनेऽपीति।। नहि प्रत्यक्षज्ञानं ज्ञानान्तरसन्निधानात् स्वविषयादधिकविषयं भवतीति भावः। विचारजन्यज्ञानस्याननुसंधानात्, अनुसंधानेऽपि परोक्षत्वात् न अपरोक्षाध्यासः प्रागवस्थातो भिद्यते इत्युपसंहरति--अतो न्यायतः इति।।

                ननु प्रत्यक्षे दोहात्मैक्याध्यासे किं ऐक्यप्रत्ययमपबाध्य व्यतिरेके प्रमाणमुक्तमिति उच्यते;--युक्तिसहितागमानुमानाहंप्रत्ययैः द्विचन्द्रबाधया एकत्ववत् व्यतिरेकः सिध्यतीत्युक्तं भवति--तदेवं स्वयंज्योतिषः इति।। दृष्टान्तानुवादेन दार्ष्टान्तिककथनपरौ ग्रन्थः स्पष्टार्थः।। स्वयंप्रकाशत्वेऽपि अविद्यया अगृह्यमाणविशेषत्वात् आत्मनोऽधिष्ठानयोग्यत्वकथनेन "परत्र परावभासः" इति लक्षणांशो दर्शितः। कारणत्रितयेऽपि अद्वितीयात्मावभासिचैतन्यप्रमाणतद्गताविद्याकारणदोषौ लब्धौ, संस्कारमिदानीं लम्भयति--अनादित्वाच्चेति।। ननु अध्यस्यमानाधिष्ठानविषयं कारणत्रितयजन्यमेकमेव ज्ञानं वक्तव्यं, तदभावान्नाध्यासः इत्याशङ्क्याह--पृथग्भोक्तृविषयानुभवफलाभावादिति।। आत्मचैतन्यमेवात्मानात्मसंभेदावभासि स्वरूपेणाजन्यत्वेपि विशिष्टविषयोपरक्ताकारेण जन्यते; भ्रान्तित्वाच्च विषयविषयिणोरेकस्मिन् प्रत्यये संभेदावभासः संभवति इति कारणत्रितयजन्यमात्मन्यनात्मावभासिज्ञानमध्यासः सिद्धः इति।।

                "कथं पुनरि"त्यादिभाष्यस्य तात्पर्यमाह--कोयमध्यासो नामेति किंवृत्तस्येति।। पृष्टमेवानेन, आक्षिप्तमपि मया इत्युभयत्रैवकारापिशब्दौ प्रयोक्तव्यौ। अध्यस्यमानेन समानेन्द्रियविज्ञानविषयत्वमेवाधिष्ठानस्य दृष्टम्, इह तदभावात् न अध्याससंभवः इत्याक्षेपग्रन्थार्थः। तत्र एकस्मिन् विज्ञाने द्वयोः संभिन्नताय अवभास एवापेक्ष्यते; विषयतया अवभासः इति विशेषणायोगात्, इति मन्वानः परिहरति--न तावदयमेकान्तेनाविषयः इति।। अस्मत्प्रत्ययशब्देनात्मविषयं ज्ञानमुक्तमिति मन्वानश्चोदयति--ननु विषयिणः इति।। एकस्यां प्रत्यक्षदर्शनक्रियायामेकस्यैव कर्तृस्थाने तदैव तद्विपरीतकर्मकारकस्थाने चावस्थानमनुपपन्नमिति भावः। अस्तु तर्ह्यंशाभ्यां तद्भाव इति, नेत्याह--तत् कथमेकस्येति।। तत्र सर्वतो विप्रसृतस्य सवितृप्रकाशस्याकाशे विशेषाभिव्यक्तिनिमित्तदर्पणादिवत् आत्मचैतन्यस्य सविकल्पकतया स्फुटीकरणव्यवहारनिमित्तं भास्वरद्रव्यमात्मन्यध्यस्तमन्तःकरणमस्मत्प्रत्यय इत्याह--अस्मत्प्रत्यया[यत्वा]भिमितोऽहङ्कारः इति।। ननु इदं रजतमितिवदध्यस्तत्वे---"अहमि"ति द्वैरूप्यावभासो वक्तव्यः इत्यत आह--स चेदमनिदमिति।" "अयो दहती"ति दग्धृत्वविशिष्टस्याग्नेरयसश्च द्वैरूप्यावभासवत्--- "अहमुपलभे" इत्युपलब्धृत्वविशिष्टस्यात्मनोऽन्तःकरणस्य चास्त्येव द्वैरूप्यावभासः, असाधारणक्रियोपरक्तमात्मादिद्रव्यमेव वस्त्वन्तरविशिष्टमवभासत इति भावः। दुःखिप्रेमास्पदरूपेण परिणामितदागमापायद्रष्टृरूपेण अहङ्कारविषयादिष्वनुस्यूतचैतन्यरूपेण "अहमि"ति च व्यावृत्तरूपेण च सर्वलोकसाक्षिकं द्वैरूप्यमित्याह--सर्वलोकसाक्षिकः इति।।

                ननु विषयसंविदः आश्रयः आत्मा, तत्र अहं जानामीति संविदाश्रयत्वेनावभासमानोऽहङ्कारः कथमिदमंशः स्यादिति चोदयति--ननु किमत्र वदितव्यं इति।। ननु "अयो दहती"त्यादावयःपिण्डादिवदकर्तृत्वेपि दर्शनक्रियाश्रयकोटिनिक्षिप्ततया अहङ्कारस्यावभासः सम्भवतीति, पूर्ववादिनं सिद्धान्ती चोदयति--कथमिति।। अयःपिण्डव्यतिरेकेण वह्नेः दहनक्रियाश्रयत्वदर्शनवत् अहङ्कारव्यतिरेकेणात्मनो ज्ञानक्रियाऽदर्शनादहम् एवात्मत्वमित्युत्तरेण ग्रन्थेन प्रतिपादयति।।

                तत्र साङ्ख्यास्तु--अचिदात्मन्यन्तःकरणे चिदाकारप्रतिबिम्बावभासः तथाविधबिम्बान्तरपुरस्सरः, प्रतिबिम्बत्वात्, मुखप्रतिबिम्बवदिति बिम्बभूतमात्मानम्--अनुमिमते; नैयायिकवैशेषिकाश्च--इच्छादयो गुणाः, पृथिव्यादिमहाभूतद्रव्यव्यतिरिक्तस्यैव विशेषगुणाः तेष्वदृष्टत्वे सति एकेन्द्रियग्राह्यतया विशेषगुणत्वात्; भूतचतुष्टयेऽदृष्टगन्धवत्, दिक्कालमनसां विशेषगुणहीनत्वात् परिशेषादिच्छादिगुणवद्द्रव्यमन्यदेवात्मेति अनुमिमते; तथा संवेदनेषु विषयाकारप्रतिबिम्बावभासः, तथाविधबिम्बसन्निधानपुरस्सरः, अतस्मिन् तदवभासत्वात्, दर्पणस्फटिकादिगतमुखरक्तत्वादिवदिति नित्यानुमेया विषयाः इति सौत्रान्तिकाः कल्पयन्ति। तान् प्रत्याह--प्रमातृप्रमेयप्रमितयस्तावदपरोक्षाः इति।।

                यदि साङ्ख्यादयः प्रत्यक्षसिद्धस्यैवात्मनोऽनुमानानि स्पष्टीकरणर्थानि मन्येरन्, तदा न कश्चिद्विरोधः। यदि नित्यानुमेयमात्मानमिच्छेयुः, तदा विषयवदगमित्यपरोक्षावभासविरोधः। सौत्रान्तिकस्यापि यदि विषयानुमानज्ञाने साक्षाद्विषया एवावभासेरन् प्रत्यक्षेऽप्यवभासन्तां, कस्तत्रापराधः इत्यनुमानज्ञाने विषयस्यैवावभासनादनैकान्तो हेतुः। न चेदनुमानज्ञानेऽपि बिम्बभूतविषयावभासः, प्रतिज्ञातार्थस्य बिन्बपुरस्सरत्वस्याप्रतिभासनात् अनुमानानुदय एव स्यात्। अपरोक्षव्यवहारयोग्यविषयावभासविरुद्धं चानुमानमिति।।

                अत्र विज्ञानवादिनस्तु---विज्ञानाभेदनिमित्त एव विषयस्यापरोक्षावभासः इत्याहुः, तान् निराकरोति--प्रमेयं कर्मत्वेनापरोक्षमिति।। इदं पश्यामीत्यनुभवात्। न च विज्ञानाभेदादेवापरोक्ष्यमवभासते; बहिष्ट्वस्यापि रजतादेरापरोक्ष्यात्, तदपि विज्ञानमिति चेत्, न; रजतवद्बाधाभावप्रसङ्गात्। तस्मादव्यवधानेन संविदुपाधिता अपरोक्षता विषयस्येति।।

                तत्र---"आत्मा आत्ममनस्संयोगजन्यप्रत्यक्षेणापरोक्षः" इति वार्तिककारन्यायवैशेषिकानुसारिणः कल्पयन्ति। प्रमितिस्तु आत्मनि संयुक्तसमवायनिमित्तज्ञानान्तरादपरोक्षेति न्यायवैशेषिकौ। प्रमेयगता प्रमितिः संयुक्ततादात्म्यात् ज्ञानान्तरेणापरोक्षेति वार्तिककारीयाः, तान् प्रत्याह--प्रमातृप्रमिति पुनरपरोक्षे एव केवलमिति।।

                न तावदात्मविषयं प्रत्यक्षं ज्ञानान्तरं मनोजन्यमिति प्रमाणमस्ति; सति मनसि आत्मदर्शनादसति सुषुप्ते चादर्शनादन्वयव्यतिरेकौ प्रमाणमिति चेत्, न; विषयानुभवेनैवान्यथासिद्धत्वात्, विषयानुभवसम्बन्धादेव विषयवदात्मसिद्धावात्मनि ज्ञानान्तरं परिकल्प्य मनसोऽन्वयव्यतिरेककल्पनायोगात्। तस्मात् विषयत्वमन्तरेण आत्मा अपरोक्ष एव।।

                न च संयुक्तसमवायादात्मनि विषये वा  अनुभवस्य ज्ञानान्तरविषयतया अपरोक्षता; प्रत्यक्षस्य वर्तमानविषयापेक्षत्वेन युगपत् फलद्वयावस्थानप्रसङ्गात्, संयुक्तसम्बन्धादनुभवावभासे तद्गतपरिमाणरसादीनां तेनैव ज्ञानेनापरोक्षताप्रसङ्गात्। अनुभवस्य च स्वसत्तायां प्रकाशव्यतिरेकादर्शनाच्च ज्ञानान्तरागम्यतासिद्धिः। न च आत्मव्यापारात् विषयानुभवजन्म संभवति; सर्वगतस्य कुठारादिवत् परिस्पन्दाभावात्, परिणामफलस्य च घटादिवत् क्रियैकाश्रयत्वात्, संविदाश्रयत्वे च विषयस्यैव चेतनत्वप्रसङ्गात्। न च तज्जननव्यापारावत्त्वादात्मनश्चेतना; मनादीनामपि प्रसङ्गात्, विषयाश्रयत्वे चानुभवस्य "मयेदं विदितमि"ति सम्बन्धावभासः स्वात्मनि ज्ञानक्रियानुमानं च न स्यात्; अनुभवस्यात्मसम्बन्धाभावात्। तस्मात् द्वयोर्न कर्मतया अपरोक्षता।।

                ननु उभयोः स्वयम्प्रकाशत्वकल्पना न युक्ता; अन्यतरस्य स्वयम्प्रकाशत्वे आत्मैव स्वयंप्रकाश इति चेत्,  न इत्याह--प्रमितिरनुभवः इति।। अथवा--हानोपादानोपेक्षाः प्रमाणफलमिति केचित्, तत्राह--प्रमितिरनुभवः इति।। न हि हानादीनां इतरेतरव्यभिचारिणां मानफलता युक्ता अव्यभिचारिण्यनुभवे

सतीत्यर्थः।।

                ननु संवेदनमेवार्थसारूप्येण प्रमाणम्, प्रमीयते अनेनेति व्युत्पत्तेः, अर्थोपलब्ध्यात्मना तदेव प्रमाणफलमिति सुगतमतानुसारिणः, तद्व्यावर्तयति--प्रमाणं तु इति।। प्रमाणं तु प्रमातृव्यापारः चतुष्टयसन्निकर्ष एवेति प्राभाकराः। ननु "अहमिदं जानामी"त्यात्मानात्मविषयावनुभवौ भेदेन प्रत्यक्षसिद्धाविति  नेत्याह--तत्राहमिदं जानामीति।।

                ननु यदवभासते तत् ज्ञानकर्मतयैवावभासते, इति विषयेषु नियमात् आत्माप्यवभासते चेत् कर्मतयैव नाश्रयमात्रतया इति चोदयति--ननु नायं विषयानुभवनिमित्तः इति।। ननु प्रत्यक्षज्ञानस्य विषयजन्यत्वात् कारकतापि विषयस्य वक्तव्यता, तत्र कथमेकस्यां क्रियायामेकस्यैव कर्तृत्वेन कर्मत्वेन च विरुद्धरूपद्वयान्वयः  कर्तुश्च गुणभावात् कर्मणश्च प्राधान्यात् एकस्य रूपद्वये वैरूप्यप्रसङ्गश्चेति, तत्राह--तस्मिंश्च द्रव्यरूपत्वेनेति।। तत्र सामान्यांशस्यात्मनात्मसाधारण्यादात्मत्वायोगात् विशेषांशस्य निरंशत्वात् न कर्तृकर्मव्यवस्थेति परिहरति--न चैतद्युक्तमिति।। निरवयवस्य युगपत् कार्यद्वयपरिणामायोगाच्च इत्याह--अपरिणामित्वादिति।।

                किञ्च--ग्राहकरूपस्यापि विषयतया सिद्धिरस्ति वा न वा  न चेत्, स्वयंप्रकाशत्वसंविदाश्रयत्वसिद्धयोरनभ्युपगमात् असिद्धिप्रसङ्गः, कर्मतया सिद्धिश्चेत्, तत्राह--प्रमेयस्य चेति।। तस्मात् संविद्बलादेव त्रितयसिद्धौ संविदाश्रयपक्षपातितया अहमः सिद्धेः न इदमंशोऽहङ्कारः इत्युपसंहरति-- तस्मान्नीलादिज्ञानफलमिति।।

                अहंङ्कारस्यात्मव्यतिरिक्तत्वं साधयितुमात्मनः स्वयंप्रकाशत्वसाधनाय विकल्पयति--तत्रेदं भवानिति।। उत सोऽपि अनुभवोऽपीत्यर्थः। तत्र आत्मा चित्स्वभावः, अनुभवो जडप्रकाशः इति पक्षो नोपपद्यते इत्याह--तत्र न तावत् इति।। ननु अप्रकाशमानमेव प्रमाणफलं चक्षुरादिवद्विषयमवभासयेदिति कुतो विश्वस्यानवभासः न; विषयप्रकाशजननेन चक्षुषः प्रकाशकत्वात् संविद्वैलक्षण्यात्, संवेदनं तु स्वयंप्रकाश एव, न प्रकाशान्तरहेतुः; अतः चक्षुरादिवैलक्षण्यात् प्रदीपवदवभासमान एवानुभवोऽर्थ प्रकाशयति। न च प्रदीपालोकस्यार्थानुभवजननेनैव चक्षुरादिवदर्थस्य प्रकाशकता, किन्तु पृथगेव। तथाहि--ज्ञानप्रकाश्यत्वादज्ञानविरोधिनोऽन्यदेवालोकप्रकाश्यत्वं तमोविरोधितया प्रसिद्धम् तत् अव्यवधानेन आलोकेन क्रियते, न तदुभयं करोति चक्षुः; अज्ञानत्वादनालोकत्वाच्च। तस्मादनुभवः सजातीयप्रकाशान्तरनिरपेक्षः प्रकाशमान एव विषये प्रकाशादिव्यवहारनिमित्तं भवितुमर्हति; अव्यवधानेन विषये प्रकाशादिव्यवहारनिमित्तत्वात् प्रदीपलोकवत्। न च चक्षुषा सजातीयप्रकाशेन प्रदीपस्यालोकेनेव घटस्य प्रकाश्यता; स्वयमेव प्रकाशगुणत्वात्। तद्विषयज्ञानप्रकाशं जनयति चक्षुरिति चेत्, तथापि विजातीयज्ञानेनैव प्रदीपस्य प्रकाश्यतेति न सजातीयालोकापेक्षा। तस्मात् व्यवहितप्रदीपस्येव अनुभवस्याप्यप्रकाशमानत्वे प्रदीपप्रकाशस्येव विश्वस्यानवभासप्रसङ्ग इति।।

                ननु प्रमातृचैतन्यमेव जडानुभवबलादात्मानं विषयं चावभासयतीति चोदयति,--मैवम्,प्रमाता चेतनः इति।। तत्र यदि चैतन्यस्य विषयोपरागहेतुरनुभवः पराभ्युपगतबुद्धिपरिणामवदिष्यते, तत् युज्यते; चिदात्मप्रकाशस्य तु जडानुभवाधीनता अनुपपन्नेत्याह--तन्न स्वयंप्रकाशचैतन्यस्वभावोऽपि सन्निति।। चेतयतिक्रियापि पूर्वानुभवफलवज्जडरूपानुभवफलं, चेतनस्यापि प्रदीपस्थानीयत्वात् चेतयतिक्रियानवस्थेति दूषयति--किञ्च प्रमाणफलेनेति।। उभयचैतन्यस्वभावपक्षे पुरुषद्वयवत् नान्योन्याधीनसिद्धिता, नापि संविदात्मसम्बन्धावगमः इत्याह--द्वितीयेऽपि कल्पे इति।।

                ननु चिद्गुणमपि पुरुषान्तरसंवेदनं न पुरषान्तरस्य स्वयंप्रकाशम्, तथा आत्मा चैतन्यगुणोऽपि न स्वयं प्रकाशते इति शङ्कते--अथ चैतन्यस्वभावत्वेऽपीति।। परिहरति--विशेषे हेतुर्वाच्यः इति।। अनुभवोऽपि तर्हि न स्वयंप्रकाशः स्यात्। पुरुषान्तरसंवेदनवत्, अव्यवधानात् न इति चेदात्मन्यपि तत् समानमिति भावः। किञ्चेति स्पष्टार्थः। अस्तु तर्हि जडात्मनः स्वयंप्रकाशानुभवाश्रयतया सिद्धिरिति,; नेत्याह--तृतीयेऽपीति।। अयमर्थः--संवेदनं नाम गुणो द्रव्यं कर्म वा भवति कर्मत्वे प्रकाशत्वफलत्वयोरनुपपत्तिः, द्रव्यत्वेऽप्यणुमध्यमानन्तरपरिमाणानां अणुपरिमाणत्वे विषयेऽपि तावन्मात्रावभासः

स्यात्; न हि खद्योतप्रकाशमात्रसंसृष्टस्य घटस्य सर्वात्मना अवभासः, महापरिमाणत्वे तदाश्रयतया आत्मनोऽपि सर्वत्रावभासप्रसङ्गः; मध्यमपरिमाणत्वे सावयवत्वेन अवयवपरतन्त्रता स्यात्। गुणत्वे सति आत्मैव प्रकाशगुणः इति प्रदीपवदात्मा स्वयंप्रकाशः स्यात्। स च गुणः स्वाश्रयोपाधौ न जायते; प्रकाशगुणत्वात्, आत्मन्यव्यभिचारात्, आदित्यादिप्रकाशगुणवत्, इति आत्मैव स्वयंप्रकाश इति, तदेतदाह--अनिच्छतोऽप्यात्मैव चितिप्रकाशः इति।।

                ननु मध्यमपरिमाणमेव स्वावयवाश्रयं फलमस्तु, आत्मपरतन्त्रता तु घटस्येव भूतलतन्त्रता इति, नेत्याह--न तदतिरिक्ततथाविधफलसद्भावे इति।। "प्रदीपेन प्रकाशितमि"तिवत् "मया अवगतमि"त्यनुभवादात्मैव चित्प्रकाशः; अन्यथा काष्ठेन प्रकाशितमितिवदुपचारप्रसङ्गादिति भावः। प्रमाणान्तरापेक्षया पृच्छति--कथमिति संवेदनस्य भेदावभासशून्यत्वादनुभवाधीनसिद्धिकस्य च विषयवदनात्मत्वादेकः स्थाय्यात्मैवानुभवः इत्याह--प्रमाणजन्यश्चेदनुभवः इति।। सामान्यविशेषभेदकल्पनागौरवादात्मा एक एवानभुवः इत्याह--सर्वानुभवानुगतं चेति।। स्वगतभेदप्रतिभासशून्यतामेव प्रपञ्चयति--न च नीलानुभवः इति।। ननु नीलसंवित्स्थितिकाले पीतसंविदोऽभावात् स्थितिविनाशौ दृष्टौ धर्मिभेदं कल्पयतः इति चोद्यमुद्भाव्य परिहरति--ननु विनष्टाविनष्टेत्यादिना।। ननु साधनसन्निधानादुत्तरसंवेदनस्य जातत्वात् संविद्द्वययौगपद्यायोगात् विनष्टा पूर्वसंविदिति चेत्, न; इतरेतराश्रयादित्याह--सा च जन्यत्वे इति।। सिद्धस्यैव संवेदनस्य विषयोपरागनिमित्तं साधनमिति कल्पनं लघीयः विषयोपरक्तसंविज्जन्मसाधनत्वकल्पनादिति भावः।।

                सत्यपि संविदां स्वगतभेदे अतिसादृश्यात् ज्वालायामिव परोपाधिमन्तरेण भेदो न विभाव्यते इति सुगताः कल्पयन्ति, तान्निराकरोति--एतेनातिसादृश्यादिति।। किञ्च--ज्ञानान्तरगम्यत्वे भेदस्य अतिसादृश्याद्भिन्नेष्वभेदभ्रमजन्म स्यात्, स्वयंप्रकाशस्य तु भेदः प्रकाशाभिन्नः इति प्रकाशमानतैव युक्तेत्याह--न हि चित्प्रकाशस्येति।। न च यथा जीवस्येति स्पष्टार्थः।। एकत्वेन पुष्कलप्रकाशस्याप्यविद्याप्रतिबन्धे प्रमाणमुक्तम्, इह तु अप्रतिबद्धपुष्कलकारणत्वात् भेदप्रकाशेन भवितव्यमित्याह--अभिहितं तत्रेति।। ननु संविदः, सादृश्यप्रतिबद्धभेदावभासाः, स्थायिप्रकाशबुद्धिवेद्यत्वात्, ज्वालावत् इत्यनुमातुं शक्यते, तत्राह--न हि सामान्यतोदृष्टमिति।। पूर्वापरैकरूपानुभवः, भेदस्य च प्रकाशेन भवितव्यम्, इत्यनुभवयुक्ती। कथं पुनरात्मचैतन्यस्य नित्यस्य विषयानुभवत्वमिति तदाह--तस्माच्चित्स्वभाव एवेति।।

                ननु स्वयंप्रकाशमानात्मचैतन्यस्य विषयानुभवत्वेऽपि विषयानुभवमेव निमित्तीकृत्य--"अहमि"ति द्रष्टृपरामर्शादात्मैवाहङ्कारः संवृत्तः इति चोदयति--बाढं अत एवेति।। द्रष्टृरूपेण परामर्शस्य विषयानुभवो निमित्तम्; अन्यथा द्रष्ट्रादिविभागशून्यः चिन्मात्रावभासः स्यादिति भावः।। मैवम्--सुषुप्तावात्मन्यवभासमानेऽप्यहङ्कारस्यानवभासमानत्वात् इति व्यतिरेकप्रदर्शनेन परिहरति--सत्यमेवमिति।। ननु विषयानुभवनिमित्तो द्रष्टृरूपावभासोऽहमुल्लेखः, तद्रहिते सुषुप्ते कथमस्य प्रसङ्गः इति चोदयति--कथमिति।। विषयानुभवनिमित्तो विषयावभासः स्यात्; जडत्वात्, न तन्निमित्तः चिदात्मपरामर्शः इति परिहरति--नीलानुषङ्गो यश्चैतन्यस्येति।। ननु सुषुप्ते द्रष्टृरूपाभावे कथं अहमिति तत्पपरामर्शः। नेत्याह--तत्र यदि नामेति।। द्रष्टृत्वं सप्रतियोगिरूपम्, स चेदहमर्थः, अनात्मैवाहङ्कारः स्यादिति भावः।।

                ननु पराग्व्यावृत्तं द्रष्टृरूपं भोक्तृत्वमेव, तत् सुषुप्तावनुभूयते इति चोदयति--नन्वहमिति। न; अहङ्कारस्य त्वया निष्प्रतियोगिकात्ममात्रत्वाभ्युपगमात् इति परिहरति--नैतत् सारमिति।। ननु स्वरूपमपि विषयानुभवादेव अहमिति व्यज्यताम् ; नेत्याह--नैतच्छक्यमिति।। ततश्च विषयोपरक्तसप्रतियोगिकस्वभावस्याहङ्कारस्यात्मत्वं सुषुप्तावनुभवविरुद्धमिदमापत्स्यते इत्याह--ततश्च विषयोपरागेति।। आत्मनस्तु सर्वात्मकत्वात् न पराग्व्यावृत्तता, अहमुपरागादेव व्यावृत्त्यवभासः इत्यर्थः। भवत्येव इत्यादिः स्पष्टार्थः।। यथा पूर्वस्मिन् दिने अहमित्यभिमन्यमान एवासम्, एवमनुभूते स्मृतिनियमाभावेऽपि स्मर्यमाणात्ममात्रत्वादहङ्कारस्य सुषुप्तेऽपि स्मृतिः स्यादित्यर्थः। अहङ्कारादिप्रतिभासस्य

नित्यचैतन्यरूपस्याविनाशात् तज्जन्यसंस्कारप्रसूता स्मृतिरनुपपन्नेति चोदयति--अविनाशिनः संस्काराभावादिति।। परिहारः--ह्यस्तनोऽपीति।।

                ननु सिद्धान्ते कथमहङ्‌कारस्मृतिः तदवभासिसाक्षिचैतन्यस्य नित्यत्वात्, उच्यते--अहंवृत्त्यवच्छिन्नमेवान्तःकरणं चैतन्यस्य विषयभावमापद्यते, तद्वृत्तिसंस्कारजन्यस्मरणावच्छिन्नमन्तःकरणं पुनः स्मृत्यनुभवावच्छेदकमिति स्मरणोपपत्तिः। ननु सुषुप्तावनुभूतसुखस्याप्याश्रयपक्षपातितया अहमुल्लेखादस्त्येव सुषुप्तेऽहमनुभवः इत्याह--नन्वस्त्येव सुषुप्ते अहमनुभव इति।। ननु सुखमनुभूतं चेत् तस्य विषयत्वात् विषयानुभवनिमित्त एव तत्राप्यहमुल्लेखः स्यात् इति, नेत्याह--नात्मनोऽन्यस्येति।। सत्यमस्ति इत्यादिः स्पष्टार्थः।। ननु सुखावमर्शस्य मुख्यसुखालम्बनत्वं परित्यज्य कथं विरोधिदुःखाभावविषयतयोपचारः कल्प्यते शाब्दे हि ज्ञाने लक्षणा स्यात्, प्रत्यक्षस्तु सुखावमर्शो न लक्षणामर्हतीति चोदयति--कथमिति।। मुख्यसुखाभावात् दुःखाभावस्य लक्ष्यस्य संप्रतिपन्नत्वात् इति परिहरति--स्वप्ने तावदित्यादिना।।

                ननु परामर्शसामर्थ्यादेव मुख्यमेव सुखं कल्प्यतामिति, नेत्याह--यदि पुनः सुप्तः सुखमिति।। विशेषतः इति।। विषयविशेषोपरक्ततयैवेत्यर्थः। दुःखाभाव एव परामर्शविषयः इत्यत्र लिङ्गमाह--व्यपदेशोऽपीति।। ननु सुखानुभवस्यापि लिङ्गमस्ति प्रसन्नेन्द्रियत्वादीति,  तत्राह--यत् पुनः सुप्तोत्थितस्येति।। तदसदिति स्पष्टार्थः। उत्तरौ च चोद्यपरिहारग्रन्थौ स्पष्टार्थौ। तस्मात् न सुषुप्तौ भोक्तृतयाऽप्यहमुल्लेखोऽनुस्मर्यते इति। नन्वनुभूतेऽपि न स्मृतिनियमः, सत्यम्; आत्मन्यनुस्मर्यमाणे तावन्मात्रस्याहङ्कारस्य "अहमि"त्येव स्मृतिनियमः स्यादित्युक्तम्।।

                ननु दुःखाभावो विद्यमानोऽपि नानुभवितुं शक्यते; प्रतियोगिस्मरणाभावात्, सम्भवति च मुख्य एव स्वरूपानन्दानुभवः। ननु तदपि सुखमविद्यावृतं न प्रकाशमर्हति, न; अनावृतसाक्षिचैतन्यसुखांशस्य प्रकाशोपपत्तेः। जागरणे तर्हि किमिति नावभासते भासते एव परमप्रेमास्पदत्वलक्षणं सुखम्, तीव्रवायुविक्षिप्तप्रदीपप्रभावत् मिथ्याज्ञानविक्षिप्ततया न स्पष्टमवभासते, सुषुप्तौ तु तदभावादधिकं व्यज्यते इति।।

                ननु उत्थितस्या दुःखाभावपरामर्शो विद्यते, स कथं प्रतियोगिज्ञानाभावादननुभूतः परामृश्यते उच्यते--अनुभूतमेव सुखमुत्थितस्यानुस्मर्यमाणं तत्र विरोधिदुःखाभावमर्थापत्त्या गमयति--अनुभूतं चेत् सुखम्, नास्ति दुःखमिति; अतो दुःखाभावो नानुस्मर्यते, किं तु प्रमीयते इति। एवमुत्थितस्य ज्ञानाभावपरामर्शोऽपि। ज्ञानविरोधिनोऽज्ञानस्यानुभूततया स्मर्यमाणस्यानुपपत्त्यैव प्रमीयते नानुस्मर्यते।।

                ननु जागरणेऽप्यनुभूयमानमज्ञानं कथं ज्ञानविरोधि स्यात् न;अवस्थाविशेषविशिष्टस्याज्ञानस्य सुषुप्तेऽनुभवात्, तस्य च जागरणेऽपि घटादिज्ञानविरोधितादर्शनात् पटावगमसमये। ननु अस्मर्यमाणत्वादेव ज्ञानानां सुषुप्तौ ज्ञानाभावोऽनुमीयते, न; अतिवृत्तज्ञानानामपि सतामस्मर्यमाणत्वात्। प्रातर्गजाभावोऽपीदानीमनुस्मर्यमाणात्        गजविरोधिपदार्थात् अर्थापत्त्या प्रमीयते, न गजविषयस्मृत्यनुदयमात्रात्, व्यभिचारित्वात्। तस्मात् विशिष्टाज्ञानसुखानुभवानुपपत्तिगम्यौ ज्ञानाभावदुःखाभावाविति मन्तव्यम्।।

                ननु अज्ञानसुखानुभवयोः साक्षिचैतन्यस्य चाविनाशिनः संस्काराभावे कथमुत्थितस्य त्रयाणामनुस्मरणं स्यात् उच्यते--अज्ञानगतचैतन्याभासजन्मोपाधित्वादज्ञानसुखसाक्षिविकल्पानुभवस्य, अज्ञानावस्थाभेदेन चैतन्याभासानां भिन्नत्वात् तद्विनाशसंस्कारजं स्मरणमज्ञानसुखसाक्षिचैतन्याकारमज्ञानविशिष्टात्माश्रयमेव सम्भाव्यते नान्तःकरणाश्रयमिति।।

                सर्वथापि सुषुप्ते अज्ञानसुखानुभवसम्भवात् असम्बद्धमिदं टीकाकारेणोक्तमिति,        सत्यम्; परमतमाश्रित्येदमुक्तं, न स्वमतमिति न दोषः।।            स्वयंप्रकाशत्वाहङ्कारभेदावुक्तावुपसंहरति--तदेवं नायं नीलादिप्रत्ययादिति।। अहङ्कारभेदस्याप्युपलक्षणार्थम् यस्मादात्मनोऽहङ्कारो, भिद्यते तस्मादागममूलं भाष्यवचनमुपपन्नमित्याह--तस्मात् ब्रह्मविदामिति।।

                कश्चासावागमः "स एवाधस्तात् स एवोपरिष्टादि"ति भूमाख्यब्रह्मणः सर्वात्मकत्वमभिधाय "अथातोऽहङ्कारादेशः" इति तस्यापि सर्वात्मकत्वमुक्त्वा "अथात आत्मादेशः" इत्यात्मानं अहङ्कारात् भेदेन

निर्दिशति। ननु जीवब्रह्मणोः सार्वात्म्यव्यपदेशो यथा एकत्वसिद्ध्यर्थः, एवमहङ्कारस्यात्मैकत्वसिद्ध्यर्थो व्यपदेशः स्यात्, तन्न;--द्वयोः सार्वात्म्यायोगात्। तत्र युक्तं भेदेन प्रतिपन्नयोः जीवब्रह्मणोरेकत्वसिद्ध्यर्थः तदुपदेशः, अहङ्कारस्य तु पूर्वमेवात्मैकत्वप्रतिपत्तेः पृथगुपदेशो भेदसिद्ध्यर्थः इति गम्यते। ब्रह्मणः परोक्षस्य प्रत्यक्षत्वसिद्धये अहमात्मत्वमुपदिश्य पुनः तद्व्युदासेन मुख्यात्मत्वमुपदिशतीत्यर्थः। "महाभूतान्यहङ्कारः" इति च स्मृतिः।।

                तर्हि अयमहङ्कारः किमुपादानः किंनिमित्तः किंस्वरूपः किंप्रमाणकः किङ्कार्यः किमिति सुषुप्ते न भाति इति चोदिते सति--तदुच्यते इत्यादिपरिहारः।। येयं इत्याद्युपादानसङ्कीर्तनम्। अविद्याकर्मपूर्वप्रज्ञेति।। भ्रान्तिकर्मपूर्वानुभवसंस्काराः इत्यर्थः। तस्या इति निमित्तकारणनिर्देशः। विज्ञानक्रियाशक्तिद्वयाश्रयः इति स्वरूपं दर्शयति। कर्तृत्वभोक्तृत्वेति कार्यप्रदर्शनम्। कूटस्थचैतन्येति प्रमाणोपन्यासः। "यत्सम्भेदादि"ति आत्मनि सर्वातदारोपनिमित्तत्वं कार्यान्तरमाह। किमिति तर्हि सुषुप्ते न स्यादित्यत आह--स च सुषुप्ते इति।। अज्ञानकार्यलिङ्गशरीरप्रविलयो हि सुषुप्तिरित्यर्थः। ननु सति प्राणे क्रियात्मनि कथमहङ्कारस्य क्रियाशक्तेः प्रविलयः उच्यते--नाहङ्कारमात्रत्वं प्राणस्य उच्यते, किन्तु प्राणस्य पृथक्सतः पञ्चधा व्यापारहेतोः अहङ्कारस्य क्रियाशक्तिरस्तीत्येतावदुच्यते; मनोऽधीनतादर्शनात् प्राणवृत्तेरिति। प्राणलक्षणक्रियाशक्त्यंशं वा विहाय विज्ञानशक्त्यंशस्य लयः कल्प्यताम्; सांशत्वादन्तःकरणस्य। स्वप्नादिवत् दृष्टिसृष्टिमाश्रित्य वा सुषुप्तपुरुषदृष्ट्यभिप्रायेण सर्वस्य तत्र लयो दर्शितः; सुषुप्तप्राणशरीरादिदर्शनस्य पुरुषान्तरस्य विभ्रमत्वादिति।।

                अत्र साङ्ख्या मन्यन्ते--यद्यचेतनं मायाशब्दादिवाच्यं अन्तःकरणाद्युपादानमिष्टं स्यात्, तर्हि तत् अहङ्कारनिर्भासे साक्षिणि तच्छक्तित्वेन वा तदाश्रयत्वेन वा तदधिष्ठानत्वेन वा अनन्तर्भूतमेव प्रधानं स्वतन्त्रमेव धर्मलक्षणावस्थाभेदैः त्रिधा परिणमते इति। तत्र धर्मपरिणामो नाम महदादिकृत्स्नकार्यरूपेणावस्थानम्। तस्यैव च धर्मस्यातीतानागतवर्तमानलक्षणरूपापत्तिः लक्षणपरिणामः। तथा हि--कार्यमनागतलक्षणापन्नं तत् परित्यज्य वर्तमानलक्षणमापद्यते, पुनः तत् परित्यज्य अतीतलक्षणापन्नं भवति, पुनः तदेव आगामिलक्षणापन्नं भवति। अवस्थापरिणामस्तु अतीतमतीततरमतीततममनागतमनागततरमनागततममिति तत्रैव नूतनचिरन्तनाद्यवस्थापत्तिः; अतो न चेतनोपादानेन कृत्यमिति, नेत्याह--न चैवं मन्तव्यमिति।। कुत इति तदाह--तथा सत्यपाकृताहङ्कृतसंसर्गः इति।। अहमिति कृतिः=करणं यस्मिन्, स साक्षी अहंकृतिः। अयमाशयः--चेतनस्यानात्मनसम्भेदावभासो नाख्यातिः, नाप्यन्यथाख्यातिः, नापि चात्मख्यातिरित्युक्तम्, इदानीं चेतनस्यैव स्वाविद्याविवर्तमानमिथ्यावस्तुसम्भेदावभासलक्षणानिर्वचनीयख्यात्यनभ्युपगमे चेतनाचेतनयोरत्यन्तविविक्तावभास एव स्यात्, न सम्भेदावभासः इति।।

                अत्र नैयायिका मन्यन्ते--आत्मेन्द्रियविषयेषु समवहितेषु कदाचित् विज्ञानोदयसामर्थ्यादात्माश्रयज्ञानादिवृत्तीनां क्रमजनने करणभूतं किञ्चित् मनःकल्पितम्। तत्र तदतिरेकेणान्तःकरणं नाम ज्ञानसुखदुःखेच्छाद्वेषप्रयत्‌नादिविज्ञानक्रियावृत्त्याश्रयं अयःपिण्डवदग्नेः आदर्शवत् मुखस्य अप्पात्रवच्चन्द्रस्य आत्मावच्छेदकतया तस्मिन्नतदारोपोपाधिभूतं किञ्चित् न पश्यामः। बुद्धिरिति चेत्, न--"बुद्धिरुपलब्धिः ज्ञानमित्यनर्थान्तर"मित्यक्षपादसूत्रवचनात्। जानाति बुद्धिरात्मोपलभते इति चेत्, न;प्रतिधात्वर्थं धर्मिभेदप्रसङ्गात्, तस्मात् वर्णितमन्तःकरणं नास्तीति, तत्राह--स च परिणामविशेषः इति।।

                अयमाशयः--"बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यवरोपि दृष्टः" इति श्रुतौ परिणामगुणवत्तया द्रव्यमित्यवग्रता बुद्धिः; तथा

                "यदा पञ्चैव लीयन्ते ज्ञानानि मनसा सह।

                बुद्धिश्च नेङ्गते तत्र परमात्मानमश्नुते।।"

इति श्रुतौ चेष्टाश्रयत्वेन द्रव्यमित्यवगता बुद्धिः; तथा "विज्ञानं यज्ञं तनुते" इत्यानन्दमयस्यात्मनः पृथगभिधानात् विज्ञानं बुद्धिरित्यनर्थान्तरत्वाद् बुद्धिः क्रियाश्रयत्वेन द्रव्यमित्यवगता; तथा "विज्ञानेन वा ऋग्वेदं विजानाति" "मनसा ह्येव पश्यति" इति च करणान्तपातिनोः विज्ञानमनसोरेकत्वात् मनसश्च कामसङ्कल्पादिवृत्तिमत्त्वश्रवणात्

एकमन्तःकरणं विज्ञानक्रियाशक्तिमत् मनआदिशब्दवाच्यं श्रुतिलिङ्गेभ्यः प्रसिद्धम्; तथा "बुद्धेर्गुणेनात्मगुणेन चैव" "सधीः स्वप्नो भूत्वा इमं लोकं सञ्चरति" "विज्ञानमयो मनोमयः" इत्यादिश्रुतावात्मावच्छेदकतया स्वगुणारोपगमनागमनादिनिमित्तत्वं चावगतम्; तथा "कस्मिन्न्वहमुत्क्रान्ते उत्क्रन्तो भविष्यामि" इति श्रुतावुत्क्रान्त्याद्युपाधेः प्राणस्याप्यन्तःकरणांशत्वमवगतम्; युगपदुपाधिद्वयायोगात्। ततश्च वर्णितमन्तःकरणं श्रुतिलिङ्गसिद्धमिति। ननु अर्थवादलिङ्गानां न्यायापेक्षा विद्यते, सत्यम्; निरंशसर्वगतासङ्गस्याकाशस्येव निरुपाधेः गमनपरिच्छेदाद्यनुपपत्तिरेव न्यायः इत्यलमतिप्रसङ्गेन।।

                ननु आत्मन एव विज्ञानक्रियापरिणामशक्ती किं न स्याताम् इति निरवयवसर्वगतासङ्गस्य परिणामानुपपत्तेः, परिणाम्यन्तःकरणसन्निधानाच्च प्रतिभासस्यान्यथासिद्धेरिति सदृष्टान्तमाह--तेनान्तःकरणोपरागनिमित्तमिति।। मिथ्यात्वं स्फटिकलौहित्यस्य; क्लृप्तप्रतीतिसत्तयोः कारणाभावादिति भावः। तदुभयाभावमुत्तरग्रन्थेन साधयति।। तत्राख्यातिवादी--न स्फटिकगतं मिथ्यालौहित्यमवभासते, किन्तु जपाकुसुमगतमेव गृह्यमाणं स्फटिकादविविक्तमेवावभासते इति चोदयति--कथं पुनः स्फटिके इति।। नैतदित्याह--यदि स्फटिकप्रतिस्फालिताः इति।।

                ननु दोषबलादिन्द्रियस्य कुसुमसंयोगाभावात् न सन्निवेशग्रहणमिति, नेत्याह--न हि रूपमात्रनिष्ठः इति।। संयुक्तसमवायात् संयोगाद्वागुणग्रहणे द्रव्यमपि संयुक्तमिति भावः। अन्यथाख्यातिवादी=रूपमात्रं प्रतिबिम्बितं स्फटिकात्मना प्रतिभातीति वक्ति, तन्नेत्याह--नापि स्वाश्रयमिति।। तर्हि स्फटिकदेशे लौहित्यं सद्रव्यमेवाविविक्तं स्फटिकात्मना वा गृह्यते इति चोदयति--नन्वभिजातस्येवेति।। तथाप्यन्यथाख्यातौ संसर्गमिथ्यात्वमित्याह--तथापि स्वयमलोहितः इति।।

                अख्यातिवादिनो मतमाददाति--अथ प्रभैव लोहितेति।। तर्हि स्फटिकग्रहणे संयुक्तसमवायकारणपौष्कल्यादप्रतिबद्धसंयोगाद्वा रूपग्रहणमपि स्यादित्याह--शौक्ल्यमपि तर्हीति।। विरोधिगुणया प्रभया विरोधिगुणस्यापसारणं प्रतिबन्धौ वा कृतः इति शङ्कते--प्रभयाऽपसारितं तदिति।। अपसारणे दोषमाह--स तर्हि नीरूपः इति।। प्रतिबन्धश्च द्रव्यस्यापि समानः। गुणद्वारा विरोधिसाम्यादित्यर्थः। रूपहीनमपि द्रव्यं रूपिप्रभासंयोगाच्चाक्षुषं स्यात् इत्याशङ्क्याह--न च रूपिसंयोगादिति।। तर्हि शौक्ल्यमपसार्य लौहित्यस्योत्पन्नत्वात् रूपवत्तया चाक्षुषः स्फटिकः इति , नेत्याह--न प्रभानिमित्तमिति।। अभ्युपगम्य प्रभां इत्यादिः स्पष्टार्थः।। ततश्चोपरक्ताहङ्कारनिमित्तमात्मनि कर्तृत्वाद्योरोपणमित्याह--तदेवमिति।।

                ननु अहङ्‌कारधर्मस्यात्मन्यारोपमात्रं क्रियते किं वा मिथ्यैव धर्मान्तरमुत्पद्यते इति। पूर्वस्मिन् नायं दृष्टान्तः, अन्यथाख्यातिश्च स्यात्, उत्तरस्मिन् सत्यमिथ्याकर्तृद्वयावभासः स्यात्, उच्यते--अहङ्कारस्य स्वधर्मसहितस्यैवात्मन्यध्यस्ततया मिथ्यात्वात् न अन्यथाख्यातिप्रसङ्गः, अन्यसन्निधानादन्यस्मिन् मिथ्याधर्मावभासः इत्येतावति दृष्टान्तः। अथ वा--कर्तृत्वद्वयेऽपि धर्मिणोरेकत्वापत्त्या धर्मभेदावभासः इत्यविरोधः।

                ननु "भिद्यते हृदयग्रन्थिः" इत्यादौ हृदयग्रन्थिरात्मनि अनर्थहेतुरिति गम्यते, तत् कथमहङ्कारस्योच्यत इति तत्राह--ततः संभिन्नोभयरूपत्वादिति।। ननु आत्मा स्वात्मन्युपरक्ताहङ्कारतद्धर्मादीन् नावभासयेत्, उपरक्तत्वसाम्यात् स्फटिकादिवदिति, तत्राह--तत्र जडरूपत्वादिति।। जाड्यचैतन्ये अवभासकत्वानवभासकत्वयोर्निमित्ते, नोपरक्तत्वानुपरक्तत्वे इत्यर्थः। ननु चेतनस्याप्युरक्तविषयज्ञानव्यापारशून्यत्वात् जाड्यादविशेष इति तत्राह-चिद्रपस्य पुनरिति।। अव्यवधानेन चित्संसर्ग एव प्रतिभासहेतुः, न ज्ञानव्यापारः इति भावः। ननु साक्षिस्वरूपवत् विज्ञानक्रियाव्यवधानमन्तरेण अहङ्कारस्य सिद्धौ कथमिदमंशता इति तत्राह--तेन लक्षणतः इति।। अर्थस्वभावत इत्यर्थः। अर्थतः चित्स्वरूपता अनिदमंशता, चैतन्यकर्मता चेदमंशता, न ज्ञानक्रियाव्यवधानतेत्यर्थः। व्यवहारतः पुनः कथंभूतस्य इदमंशता इति तदाह--व्यवहारतः पुनरिति।। यदुपरागात्=यस्याहङ्कारस्योपरागादित्यर्थः। तदात्मन इति।। तदात्मतां अहङ्कारात्मतां आपन्नस्येत्यर्थः। तद्व्यापारेण=अहङ्कारव्यापारेणेति। वृत्तिव्यवधानसिद्धिरेव शरीरेन्द्रियविषयाणां इदमिति प्रतिभासिता तदव्यवधानसिद्धिरेवानिदंप्रतिभासितेति भावः।

ननु अज्ञानव्यवहितोऽहङ्कारः, कथमव्यवधानादिदंतावभासाभावः स्यादिति अत्राह--अत एव अहं इति।। अनिदन्ताप्रतिभासादेव=अज्ञानमात्रव्यवधानादेवेत्यर्थः। ननु अर्थतो युष्मदर्थत्वे तथाप्रतिभासाभावो न युक्तः इति; अत्राह--दृष्टश्च लक्षणतः इति।। ननु तत्र विमर्शेऽपिमृन्मयव्यवहारो न जायते, इह तु विमर्शे युष्मदर्थता व्यवह्रियते, अतो नायं दृष्टान्तः इत्यत आह--व्युत्पन्नमतयस्त्विति।। अत एव निपुणतरमभिवीक्ष्य इत्यादिः स्पष्टार्थः।।

                यदि स्फटिकोदाहरणेनैवात्मन्यनात्माध्यासः सिद्धो न तर्हि दर्पणजलाद्युदाहरणेन वेदान्तविहितेन कृत्यमिति ; तत्राह--यत् पुनः दर्पणजलादिष्विति।। ननु प्रत्यङ्मुखताभेदावभासाभ्यां वस्त्वन्तरे बिम्बात् प्रतिबिम्बे प्रत्यक्षे कथमेकत्वप्रमाणमन्तरेण तदेव तत् इति चोदयति--कथं पुनस्तदेव तदिति। व्यक्तिप्रत्यभिज्ञानादिति परिहरति--एकस्वलक्षणत्वावगमादिति।। ननु अभिज्ञायां भेदप्रतिभासः कथं प्रत्यभिज्ञया बाध्यते इति ; तत्राह--न तद्वस्त्वन्तरत्वे इति।। ननु व्यक्तिगतयोरैक्यभेदावभासयोः केन किं बाध्यमिति विशये व्यक्तिभेदः तत्रोपपत्तिशून्यत्वाद्बाध्यते इत्याह--अपि च अर्थाद्वस्त्वन्तरत्वे इति।। दर्पणावयवा एव व्यक्त्यन्तराकारेण परिणताः इति वाच्यम्, अन्यथा व्यक्त्युत्‌पत्त्युपायाभावादिति भावः। ननु मुखलाञ्छितप्रतिमुद्रेयं, न परिणाम इति, नेत्याह--विरुद्धपरिमाणत्वादिति।। अस्तु तर्हि परिणाम इति; नेत्याह--तथा सतीति।। ननु दृश्यते एव सर्वदा, नैवम्; दर्पणस्य तिर्यङ्निरीक्षणे पूर्वोत्पन्नमुखदर्शनाभावात्।।

                ननु निमित्तकारणापायेऽपि कार्यमपैति, यथा वैशेषिकाणामपेक्षाबुद्धिविनाशे द्वित्वादिविनाशः हस्तसंयोगापाये च कटविवरणापायः इति; नेत्याह--न खलु संवेष्टितः इति।। सर्वत्राग्निसंयुक्तद्रुतताम्रादाविव पुष्कलकारणेन विरुद्धकार्योदयादेव पूर्वकार्यविनाशः, वैशेषिकाणां च प्रक्रियामात्रं; तद्द्वित्वादेर्वस्तुसहभावित्वादिति भावः। ननु संस्कारजन्यकार्यान्तरोदयात् पूर्वकार्यविनाशः, न निमित्तकारणापायादिति  इति, तत्राह--तथा च यावदिति।। निमित्तापायमात्राच्चेद्विवरणापायः संस्काराभावे संवेष्टेतेति भावः। इहापि तर्हि पूर्वसंस्थानस्य चिरकालं संस्स्थानसंस्कारबलाद्विरुद्धकार्योदये प्रतिबिम्बापायः इति चेत्, न; उत्पन्नदर्पणमात्रे चिरकालावस्थितमुखपरिणामसंस्कारेऽपि बिम्बापायमात्रात् प्रतिबिम्बापगमदर्शनादित्याह--एवं चिरकालेति।।

                ननु चिरकालावस्थितविकासपरिणामसंस्कारप्रचयेऽपि सवितृकिरणापाये विकासापायदर्शनवच्चिरकालावस्थितप्रतिबिम्बापायोऽपि बिम्बापाये स्यादिति ; नेत्याह--यः पुनः कमलमुकुलस्येति।। ननु निमित्तकारणापाय एव तत्रापि निमित्तं, न पार्थिवाद्यवयवजन्या मुकुलतेति ; तत्राह--तदुपरमे इति।। आदर्शेऽपि तर्हि मुखविपरीतकार्यपरिणामहेतुः कल्प्यतामिति ; नेत्याह-नादर्शे पुनरिति।। कारुकर्मापेक्षं चादर्शतलजन्मेति भावः। किं च, सत्यपि बिम्बसन्निधाने दर्पणद्रव्य मुखाकारं कर्तुं दाहच्छेदादिबहुप्रयत्नदर्शनात्, स्पर्शगोचरत्वाभावाच्च। अवयवव्यवधाने चाक्षुषत्वमपि न स्यात् इत्यभ्युच्चयः। तत्रायं प्रयोगः--न दर्पणादौ मुखव्यक्त्यन्तरमस्ति, तज्जन्मकारणशून्यत्वात्; शशमस्तके विषाणवदिति।।

                तर्हि शुक्तिकारजतवत् मिथ्यात्वोपपत्तेः न मुखैकत्वमिति चोदयति-अत्राहेति।। ननु प्रत्यभिज्ञया एकत्वमवगतमिति; नेत्याह--शुक्तिकारजतस्येति।। मिथ्यारजतेऽपि प्रत्यभिज्ञा दृश्यते---"मदीयमिदं रजतमिती"त्यर्थः। उत्तरमाह--मैवं; तत्र हीति।। तत्र "नेदं रजतमि"ति रजतस्वरूपमेव बाध्यते, "नात्र रजतं किं तु तदिदं रजतमि"ति देशमात्रबाधया सत्यरजतेनैकतया न प्रत्यभिज्ञायते; अतो रजतेऽभिज्ञाबाधात् प्रत्यभिज्ञा विभ्रम इत्यर्थः। इह तु "नेदं मुखमि"ति न स्वरूपेण बाध्यते, किं तु "नात्र मुखं, मदीयमेवे"ति प्रत्यभिज्ञायते; न च सा बाध्यते, व्यक्त्यन्तरत्वे च "नात्र मुखमस्ती"ति न बाधः स्यादित्यर्थः। यः पुनरिति स्पष्टार्थः।। ननु स्वमुखावयवानामचाक्षुषत्वात् कथं प्रत्यक्षप्रत्यभिज्ञा न; कतिपयावयवदर्शनादपि लोकवदवयविनश्चाक्षुषत्वोपपत्तेः। तत्त्वमसिवाक्यं त्वंपदार्थबाधनिमित्तम्, संसारिणो विनाशमन्तरेण मोक्षानुपपत्तेः, अतो नायं दृष्टान्तः इति चोदयति--ननु तत्त्वमसिवाक्यादिति।। "सोऽयं देवदत्तः इतिवत् तादात्म्यपरं, न परार्थबाधपरमिति परिहरति--मैवमिति।। किं च शास्त्रीयोऽपीति स्पष्टार्थः।। "न वारिस्थम्" इत्यादित्यस्य वारिस्थतोपजीव्यते।।

                अख्यातिवादी---न बिम्बादन्यत्वेन प्रतिबिम्बं नाम दर्पणगतमवभासते, किं तु बिम्बमेव दर्पणादविविक्तं प्रकाशते इति--वदति, तदनुवदति--यस्तु मन्यते इति।। स्पष्टप्रत्यङ्मुखावभासं दर्पणान्तरनुप्रविष्टमिव स्वमात्मानं पुरुषान्तरवन्निरीक्षमाणमिवेदं यादृग्दृश्यमानं मुखं, तथा नावभासते इति वदन् कथमाप्तः स्यादित्याह--तमनुभव एवेति।।

                ननु मूर्तद्रव्यस्य युगपत् कात्र्स्न्येन देशद्वयवर्तित्वं लोके न क्वचिदपि दृष्टमिति चोदयति--कथं पुनः परिच्छिन्नमिति।। एकमेकदेशस्थमेव मुखं संभ्रमाद्भिन्नं भिन्नदेशस्थं च अवभासते इत्याह--न वयमिति।। किं पुनरिदमेकस्मिन्नेकदेशवस्तुनि भेदभिन्नदेशत्वलक्षणं वस्तु  इति; तदाह--विच्छेदस्त्विति।। ननु माययापि प्रमाणविरुद्धं कथमवभासते इत्यत आह--न हि मायायामिति।।

                ननु विच्छेदावभासः कथमविद्याविजृम्भितः यावता ऊर्ध्वाग्रोऽपि स्पष्टमवभासमानो वृक्षः अधोऽग्रो जले प्रतीयते, न च तत्राज्ञानमस्तीति। उच्यते--न च विषयावरणमज्ञानमध्यासहेतुरित्युक्तम्। तत्र औपाधिकभ्रमेषु उपाधिरेव आत्माविद्यापरिणामे पुष्कलकारणम्। न चाधिष्ठानयाथार्थ्यस्य ज्ञानं सोपाधिकभ्रमेष्वध्यासविरोधि, किं तु निरुपाधिकभ्रमेष्विति द्रष्टव्यम्।।

                ननु सोपाधिकभ्रमत्वे भेदकर्तृत्वाद्यध्यासस्य, न तत्त्वज्ञानादध्यासनिवृत्तिः, किं तु उपाधिमात्रनिवृत्त्येति चोदयति--ननु सत्येव बिम्बैकतावगमे इति।। चोदितदोषं परिहर्तुमाशङ्कान्तरं प्रथमं निवर्तयति-- कथम् जीवः प्रतिबिम्बश्चेत्, न बिम्बात्मतामवगन्तुमलम्, प्रतिबिम्बत्वात्, अक्षिपात्रगतदेवदत्तप्रतिबिम्बवत्, इत्येतन्निराचष्टे--देवदत्तस्याचेतनांशस्येति।। अचेतनत्वप्रयुक्ता तत्रानवगतिः, न प्रतिबिम्बत्वप्रयुक्ता; घटादिषु तथा दर्शनादिति भावः। ननु शरीरमेव चेतनमिति लोकायतः, तत्राह--सचेतनांशस्यैवेति।। दर्पणजाड्येन प्रतिबन्धात् स्वभावजाड्याद्‌वेत्यर्थः। देवदत्तप्रतिबिम्बस्याचेतनत्वे हेत्वन्तरमाह--तथा चानुभवः इति।। कदाचित् तस्यापि चेतनत्वे स्वातन्त्र्यात् तच्चेष्टया विनापीदं चेष्टतामिति भावः। ननु देवदत्तस्यैव बिम्बस्य भ्रमनिवर्तकतत्त्वज्ञानाश्रयत्वं दृष्टम्, एवं बिम्बत्वाद् ब्रह्मण एव भ्रमनिरासितत्त्वज्ञानाश्रयत्वं स्यादिति ; नेत्याह--यस्य हि भ्रान्तिरिति।। न बिम्बत्वकृतं तत्त्वज्ञानाश्रयत्वात्, किं तु भ्रान्तत्वकृतम्, तदप्यज्ञत्वकृतम्, तदपि जीवत्वनिमित्तमिति भावः।।

                ननु जीवलक्षणप्रतिबिम्बात्मतामात्मनो ब्रह्म जानीयाद्वा न वा। न चेत् सर्वज्ञताहानिः, जानाति चेत् ब्रह्म स्वात्मन्येव संसारं पश्येदिति; नेत्याह--यस्तु जानीते देवदत्तः इति।। देवदत्तो हि स्वात्मानमक्षिपात्रेऽल्पत्वादिगुणमवगच्छन्नपि तत्त्वज्ञानप्रतिहतत्वात् नानुशोचति, एवं ब्रह्मापि स्वात्मनि जीवे प्रतिबिम्बे संसारं पश्यदपि तत्त्वज्ञानित्वात् नानुशोचति। तत्त्वज्ञानसंसरणे चावदातश्यामत्वादिवत् न इतरेतरत्र व्यवतिष्ठेते इति भावः।।

                ननु  एकतावगमेऽपि न तत्र विच्छेदविभ्रमो निवर्तते, सत्यम् न प्रतिबिम्बभावकृतं तत्, किं तु उपाधेरज्ञानाजन्यत्वाज्ज्ञानानिवर्त्यत्वकृतमित्याह--नापि ज्ञानमात्रादिति।। ननु जीवस्यापि तर्ह्युपाधिजाड्येनास्कन्दनसम्भवात् न भ्रान्तिसम्यग्ज्ञानाश्रयत्वं, अप्रतिबिम्बता च तदाश्रयत्वे स्यादिति, नेत्याह--जीवः पुनरिति।। "रूपं रूपं प्रतिरूपो बभूव" "एकधा बहुधा चैव दृश्यते जलचन्द्रवत्" "अत एव चोपमासूर्यकादिवत्" इति च श्रुतिस्मृतिसूत्रैः जीवस्य प्रतिबिम्बभावस्य दर्शितत्वात्, अमूर्तस्य चाकाशस्य साभ्रनक्षत्रस्य जले प्रतिबिम्बवदमूर्तस्य ब्रह्मणोऽपि प्रतिबिम्बसम्भवात्, जानुमात्रप्रमाणेऽपि जले दूरविशालाकाशदर्शनात्, जलान्तराकाश एवाभ्रादिप्रतिबिम्बयुक्तो दृश्यत इति वक्तुमशक्यत्वात्। तत्प्रतिबिम्बत्वं चिद्रूपत्वं च शास्त्रप्रतिपन्नं प्रत्यक्षप्रतिपन्नं च न निराकर्तुं शक्यते इति भावः।।

                ननु घटाकाशवदुपाध्यवच्छिन्नो जीवः किं न स्यात् न--सामान्यविशेषाभ्यामुपाधिभिरण्डान्तर्वर्तिब्रह्मणः सर्वात्मना जीवभावेनावच्छिन्नत्वादनवच्छिन्नस्य ब्रह्मणोऽण्डाद्बहिरेव सद्भावप्रसङ्गात्, तत्र सर्वगतत्वसर्वनियन्तृत्वादि ब्रह्मणो न स्यात्; अवच्छिन्नप्रदेशेष्वनवच्छिन्नस्य द्विगुणीकृत्य वृत्त्ययोगात्। स्वरूपापेक्षया तत् सर्वं, न बहिस्थितब्रह्मापेक्षयेति चेत्--न--"यो विज्ञाने तिष्ठन्" इत्यादौ जीवव्यतिरिक्तस्यैव ब्रह्मणो जीवसंनिधानेन विकारान्तरवस्थानश्रवणात्,

प्रतिबिम्बपक्षे तु जलगतस्वभाविकाकाशे सत्येव प्रतिबिम्बाकाशदर्शनादेकत्रैव द्विगुणीकृत्य वृत्त्युपपत्तेः जीवावच्छेदेषु ब्रह्मणोऽपि नियन्तृत्वादिरूपेणावस्थानमुपपद्यते इति प्रतिबिम्बपक्ष एव श्रेयानिति मिथ्यातत्त्वज्ञानाश्रयत्वं च तत्र प्रत्यक्षमित्याह--स चाहंकर्तृत्वमिति।। उपाधिस्वरूपमपि भ्रान्त्यैवावभासते इत्यर्थः। अतः तत्त्वज्ञानेनोपाधिनिवृत्तेः विच्छेदापायः इतायह--अतो युक्त इति।।

                ननु अज्ञानं जीवावच्छेदोपाधिरिति पुरस्तादुक्तम्, तत् कथमहंकारोपाधिता जीवस्याभिधीयते  इति। नैष दोषः;चैतन्यस्यावच्छेदकविकल्पतारतम्येन व्यवहारविकल्पतारतम्यात्। तथा हि--निर्विकल्पकचैतन्यमात्रैकरसं अविद्यासम्बन्धादीषद्विकल्पव्यवहारालम्बनं भवति सुषुप्तेः; ततः तदुपादानान्तःकरणावच्छेदात् तदेव स्थूलतरव्यवहारालम्बनं भवति स्वप्ने; पुनरन्तःकरणसंसृष्टस्थूलशरीरोपरागात् स्थूलतमं भवति जागरणे। न चोपाधिभेदात् जीवभेदप्रसङ्गः; पूर्वपूर्वोपाध्यवच्छिन्नस्यैवोत्तरोत्तरेणावच्छेदात्। निरपेक्षोपाधिभेदे हि जीवभेदः।।

                ननु स्थूलशरीरोपादानभूतसूक्ष्मरूपसहितेन लिङ्गशरीरसंस्कारेणोपरक्तमज्ञानं सुषुप्ते न जीवमवच्छेत्तुमर्हति; तत्र भ्रान्त्यभावात्, तल्लक्षणत्वाच्च विभागस्य। अथ भ्रान्तिज्ञानमनपेक्ष्यैवार्थगत एव विभागः कल्प्यते, तत्र विभागस्य कार्यत्वे सुषुप्तिप्रलयादावभावात् ब्रह्मण्येव अविद्यादिसाङ्कर्यं स्यात्, अकार्यत्वे विभागस्यानादित्वादविद्यानिमित्तत्वं न स्यात्, उच्यते;--ब्रह्मण्यविद्यादिसाङ्कर्यपरिहाराय सुषुप्त्यादावपि अस्त्येव जीवब्रह्मविभागः इति कल्प्यते। ननु अर्थगत एव तर्हि विभागो न विभ्रमगतः, सत्यम्; सुषुप्त्यादिगतविभागादन्यत्र जीवब्रह्मविभागो विभ्रममात्रतया अविद्योपादान उच्यते। ननु अर्थगतो विभागस्तर्हि नाविद्योपादानः; अनादित्वात्, अविभ्रमत्वाच्च, सत्यम्; तथाप्यविद्यातन्त्रो विभागोऽनादित्वेपीऽपि ब्रूमः। यथा  हि स्वात्माविद्यासम्बन्धोऽविद्यातन्त्रः, नाविद्योपादानः; सम्बन्धजननात् प्राक् स्वातन्त्र्येणावस्थानानुपपत्तेः, अज्ञानस्यानादित्वाच्चात्माविद्यासम्बन्धस्य नाविद्योपादानता।।

                ननु जीवब्रह्माश्रयो विभागः कथमविद्यातन्त्रः स्यात् उच्यते;--अनाद्यविद्याविशिष्टं चैतन्यमनादिजीवभावेन काल्पनिकानादिभेदस्य आश्रयः, न स्वरूपेण; तस्यैकत्वात्, अतो विशिष्टाश्रयो विभागः स्वरूपेऽपि उपरज्यमानो विशेषणाविद्यातन्त्रौ विशिष्ट इत्यविद्याकृतो विभाग उच्यते। अविद्यातन्त्राणां चानिर्वचनीयत्वमनादित्वं चाविद्यासम्बन्धवन्न विरुध्यते। लोके च दर्पणघटादिविशिष्टयोरेव मुखाकाशयोः मिथ्याभेदावभासो न स्वरूपेण इत्युपाधितन्त्रता भेदस्योच्यते; तस्मादनाद्यविद्याप्रतिबिम्बकृतविभागस्यैव जीवस्य तदुत्पन्नाहंकारादिविशेषेषु स्थूलप्रतिबिम्बापेक्षया सर्वेषामुपाधित्वं न विरुध्यते।।

                अत्र सर्वसङ्करवादी--प्रतिबिम्बस्यावस्तुत्वाभ्युपगमात् न जीवः प्रतिबिम्बमिति--जल्पति।। तत्र मुखचित्स्वरूपयोः प्रतिबिम्बेषु नावस्तुत्वमिष्यते। भेदविपर्यासादीनामवस्तुत्वाभ्युपगमेऽपि न मुखचैतन्ययोः काचित् क्षतिः। मुखचित्स्वरूपयोश्च बिम्बात्मतां प्रमिमीमहे मिथ्यांशपर्युदासेन। न च मिथ्यांशस्य बन्धमोक्षौ, किं तु स्वरूपस्यैव; स्वरूपगतस्यापि साङ्कर्यपरिहारायोपाधिभेदो दर्शितः। तस्मात् परसिद्धान्तापरिज्ञानविलसितोऽयं सर्वसङ्करवादिनो विभ्रमः; "अवस्तुत्वाभ्युपगमात्" इति।।

                अहंकारोपाधिनिमित्तो जीवब्रह्मविभागोऽनात्माध्यासश्च दृष्टान्तद्वयेन सिद्धः, तत्र किं रज्जुसर्पोदाहरणेन वेदान्तविहितेनेति चोदिते, तस्य प्रयोजनमाशङ्कान्तरनिवृत्तिरित्याह--ननु तत्र विभ्राम्यतः इति।। निरुपाधिकाध्यासपरिनिष्पन्नाहंकारोपाधिकः कर्तृत्वाद्यध्यास इति कथयितुमित्यर्थः।। ननु सर्वत्राधिष्ठानाध्यस्यमानव्यतिरिक्तोपाधिनिमित्त एवाध्यासो न निरुपाधिक इति चोदयति--ननु तत्रापि यदि नामेति।। पूर्वानुभवसंस्कारमात्रोपाधिमात्रमिहापि विद्यते, स्वतन्त्रोपाधिरेव निराक्रियते इति परिहरति--बाढमिहापीति।। न पूर्वानुभवसंस्कार एव भ्रमहेतुः, न पूर्वभ्रान्तिसंस्कारः इति नियमोऽस्तीति भावः।।

                ननु आत्मनि सोपाधिकस्य निरुपाधिकस्य चाध्यासस्योदाहरणत्रयेणैव सिद्धत्वात् न घटाकाशोदाहरणेन वेदान्तविहितेन कृत्यमस्तीति आशङ्क्य, चोद्यान्तरनिराकरणेनासङ्गत्वसिद्धिः प्रयोजनमित्याह--तत्र यद्यप्यनिर्वचनीयतयैवेति।। अरुणादिना स्फटिकादेः गुणुगुणित्वेन सम्भेदे

योग्यस्याप्यनिर्वचनीयतया अरुणादेरसम्भेदावभासः सिद्ध इत्यन्वयः। कथं पुनर्घटाकाशोदाहरणेनासङ्गत्वसिद्धिरिति तत्राह--तत्र हीति।। ननु उदाहरणैरेवावात्मनोऽविकारित्वैकत्वासङ्गत्वानां सिद्धत्वात् न आगमेन कृत्यमिति; नेत्याह--एतच्च सर्वमुदाहरणजातमिति।। प्रमाणमन्तरेणोदाहरणमात्रादर्थसिद्ध्ययोगात्, प्रत्युदाहरणसम्भवादिति भावः।।

                "अस्मत्प्रत्ययविषयत्वादि"ति भाष्यमात्मन्यध्यासोपपत्त्यर्थम्। तत्रास्मत्प्रत्ययः तन्निमित्ताध्यासश्च दर्शितः, विषयशब्दार्थमिदानीमाह--तदेवं यद्यपीति।। गौण्या वृत्त्या विषयशब्दप्रयोगे किं गुणसाम्यम् इति; तदाह--प्रमेयस्य चेति।। ननु सविकल्पकाध्यासस्य सविकल्पकमेवाधिष्ठानं वक्तव्यम्; तथा दर्शनात्, न निर्विकल्पकचिन्मात्रम्; तत्र कथमहंकाराद्यध्यासेन सविकल्पकेऽहंकाराध्यासः इति चोदयति--ननु व्यवहारयोग्यत्यत्व इति।। निर्विकल्पेऽपि सविकल्पाध्यासदर्शनात् अज्ञानाध्यासेन सविकल्पे पूर्वाहंकाराध्यासेन वा सविकल्पके चिदवभासे सम्भवत्येवोत्तराहंकाराध्यासः इत्याह--नानादित्वेनेति।।

                ननु अविकारिचैतन्यैकतानस्य निष्कलङ्कस्वभावानन्दस्यासङ्गस्य आत्मनो न प्रमातृत्वमुपपद्यते; प्रमाणक्रियापरिणामाभावात्, न च प्रमातृत्वहीनस्य कर्तृत्वभोक्तृत्वे सम्भवतः, इति प्रमातृप्रमाणप्रमेयकर्तृकर्मकार्यभोक्तृभोगभोक्तव्यसंसर्गलक्षणस्य व्यवहारस्यात्मन्यसम्भवात्, अहंकारस्य चाचेतनतया तदाश्रयत्वायोगादुच्छिन्नव्यवहारमिदं जगदापद्येतेति प्राप्तम्; अथ स्वभावसिद्धैचैतन्यप्रकाशेनैव विषयं प्रकाशयेत्, तर्ह्यविशेषात् सर्वगतत्वाच्च सर्वं प्रकाशयेदित्यव्यवस्थैव। तस्मात् विकारसमर्थ एवात्मेति,     अत्र अपर आह--न तावत् सर्वगतात्मवादिनामिदं चोद्यं सम्भवति; कथम् यदि तावदात्मविषयेन्द्रियमनश्चतुष्टयसंनिकर्षादिनोत्पद्यमानं विज्ञानं क्रिया वा गुणो वा यावदात्मसमवाय्येवोत्पद्येत; निरवयवे प्रदेशाश्रयत्वानुपपत्तेः, तदा युगपत् सर्वमूर्तद्रव्यसंयोगलक्षणत्वात् सर्वगतत्वस्य, स्वाश्रयात्मसंयुक्तवस्तुनः सर्वस्यावभासि विज्ञानं स्यात्; प्रदीपादिषु क्रियाप्रकाशगुणयोः स्वाश्रयसंयुक्ते वस्तुन्यनुरूपप्रकाशाद्यतिशयहेतुत्वात्, अदृष्टेन क्वचिदेव विषये ज्ञानं नियम्यते इति चेत्, न; प्रदीपादिषु यावत्संयुक्तवस्त्ववभासिष्वदृष्टेन वस्तुसामर्थ्यमतिक्रम्य नियमादर्शनात्, सुखदुःखाद्यनिमित्ततृणाद्युपेक्षणीयसर्वविषयावभासेन चादृष्टनियमानुपपत्तेः। जनकमेव ज्ञानं प्रकाशयति, न सर्वमिति चेत्, न; चक्षुरादिषु प्रकाशप्रसङ्गात्, विषयस्य निरूप्यमाणत्वात् विषयतया जनकमिति विशेषणायोगात्, प्रदीपादिषु च प्रकाशगुणस्य स्वाश्रयसंयुक्ताजनकविषयस्यापि प्रकाशकत्वदर्शनात्। क्रियारूपेऽपि विज्ञाने समानमेतत्। इष्वादिव्यापाराणामनुद्दिष्टेऽपि विषये स्वाश्रयसंयोगे सत्यतिशयहेतुत्वदर्शनात्। निरवयवत्वादात्मनो न सर्वसयंगः इति चेत्, न किंचिदपि; प्रकाशेत; क्रियागुणयोः स्वाश्रयमतिलङ्घ्य अन्यत्र संसर्गायोगादसंसर्गात्, असंसृष्टे चातिशयायोगात्।।

                अथ शरीरावच्छिन्नात्मप्रदेशसमवाय्येव ज्ञानं, न यावदात्मसमवायीति मतम्, तर्हि सावयवत्वमात्मनः, न व्यवहितविषयावभासश्च स्यात्; आत्माश्रयप्रकाशस्य विषयेणासंसर्गात्, न चाश्रयातिलङ्घनं क्रियादेरित्युक्तम्। न च अनाश्रयात्मप्रदेशसंबन्धादवभासः; सर्वस्य अवभासप्रसङ्गात्। ननु अभिचारकर्म स्वाश्रयात्मप्रदेशासंयुक्ते पुरुषान्तरे अनर्थं जनयति, तद्वदिहापि स्यात्, नैतत् सारम्; दृष्टक्रियासामर्ध्यादेवादृष्टेऽप्युभयात्मप्रदेशसंयुक्तस्य देवतात्मनो वा ईश्वरस्य वा हेत्वन्तरस्य वा अनुमीयमानत्वात्। न च आत्मसंयुक्तमनस्संसृष्टेन्दियसंयुक्तविषये अतिशयः पुरुषाश्रयज्ञानादुपपद्यते; विषयसंयुक्तेऽपि वस्त्वन्तरे "प्रकाशते" इति व्यवहारातिशयप्रसङ्गात्, पूर्वभावित्वाच्च संयोगप्रवाहस्य ज्ञानवता विषयस्य वर्तमानसंयोगप्रवाहाभावात्। एवमणुदेहपरिमाणात्मवादेऽपि तुल्यो दोषः। तस्मात् न सर्ववादिनां प्रमाणादिव्यवहारसम्भवः इति।।

                सत्यम्; अस्मत्पक्षे तु कथंचित् संभवं प्रदर्शयिष्यामीत्याह--तत्रैवंभूतस्याहंकर्तुरिति।। इदमंशस्य=अन्तःकरणस्येत्यर्थः। व्यापार इति परिणामोऽभिधीयते। प्रकाशस्वभावं सावयवमन्तःकरणमदृष्टेन्द्रियादिसहकृतं ध्रुवादिविषयपर्यन्तं दीर्घप्रभाकारेण परिणमते; तेजसः शीघ्रातिदूरगमनदर्शनात्, परिणामद्वारेण चकर्तृकर्मसम्बन्धोऽवस्थाविशेषः इत्याह--स च प्राप्‌नोतिक्रियाहितेति।।

                स्यादन्तःकरणस्य स्वपरिणामद्वारेण विषयसंबन्धः, आत्मनस्तु विषयविशेषावभासः कथम् इति तदाह--तेन विषयविशेषसंबद्धमिति।। सर्वत्राविद्यावृततया अनभिव्यक्तस्वभावमपि चैतन्यं, अन्तःकरणं येन येनावस्थाविशेषेण विवर्तते, तेन तेनाकारेण व्यज्यते; अयःपिण्डेनेव चतुष्कोणत्वाद्यवस्थाविशेषमापद्यमानेन कृशानुः, इति विषयसंसृष्टान्तःकरणावच्छिन्नं चैतन्यं तदाकारमवभासते इति भावः। ननु प्रमातृरूपावच्छिन्नं चैतन्यं  तद्रूपेण भासताम्, कथं चैतन्यस्य विषयावच्छेदः इति; तदाह--कर्मकारकमपीति।। स्वव्यापाराविष्टं इति।। परिणामसंसर्गादापन्नजाड्याभिभवलक्षणयोग्यत्वमुच्यते। अन्तःकरणं हि स्वस्मिन्नेव स्वसंसर्गिण्यापि चैतन्याभिव्यक्तियोग्यतामापादयतीति भावः।।

                ननु अवच्छेदकभेदे चित्प्रकाशभेदात् कथं विषयावच्छिन्नानुभवस्य प्रमातृरूपावभाससंसर्गः असंसर्गे वा कथं "मयेदमवगतमि"ति प्रमातृ प्रमेयसंसर्गावभासि संवेदनं स्यात् अनुभवभेदात्, एकस्मिन् संबन्धावगमे पदार्थयोरवभासायोगादिति, तत्राह--प्रधानक्रियाहितप्रमात्रवस्थाविशेषावच्छिन्नापरोक्षतैकरूपां इति।। एकामित्यर्थः। परिणामस्योभयसंसर्गात् व्यञ्जकाभेदेन व्यङ्ग्याविच्छेदः इति भावः। ननु उभयत्र चैतन्याभिव्यक्त्यविशेषे घटावच्छिन्नानुभवः प्रमाता किं वा अन्तःकरणावच्छिन्नः इति न विशेषः स्यात् इति, नेत्याह--ततश्चात्मनोऽन्तःकरणावस्थाविशेषोपाधिजनितो विशेष इति।। प्रमातेति वाक्यशेषः। कर्तुर्हि प्रमातृता, न कर्मणः। तत्रान्तःकरणस्य कर्तृत्वात् तदवच्छिन्नः प्रमातेत्यर्थः। ननु चैतन्यस्यैकत्वे प्रमातैव फलमिति विरुद्धमापन्नमिति, तत्राह--विषयानुभवसंशब्दितो विषयस्थापरोक्षैकरसः फलं इति।। अन्तःकरणावच्छिन्नतया प्रमाता, विषयावच्छिन्नतया फलमिति भावः।।

                ननु क्रियाफलयोरन्तःकरणात्मसमवायिनोः भिन्नाश्रयत्वम्, घटान्तःकरणविषयतया च भिन्नविषयत्वमिति क्रियाफलयोरेकाश्रयत्वैकविषयत्वनियमविरोधः इति, नेत्याह--इति क्रियैकविषयता फलस्येति।। "विषये"त्याश्रयस्याप्युपलक्षणम्। अन्तःकरणात्मनोरैक्याध्यासेनैकाश्रयत्वं, चैतन्यस्यापि घटावच्छेदादेकविषयत्वमिति। ननु "बुद्धिस्थमर्थं पुरुषश्चेतयते" इति साङ्ख्याः, तद्विरुद्धं आत्मा स्वचैतन्योपरक्तं चेतयते इति तत्राह--एवं चाहंकर्तेति। प्रथमं बुद्धिस्थमर्थं तदात्मतामापन्नः पश्चाच्चेतयते इत्यर्थः। उक्तं तावत् सर्वगतस्याप्यात्मनोऽविद्यावृतप्रकाशस्य परिच्छिन्नान्तःकरणपरिणामोपाध्यभिव्यक्त्यपेक्षया विषयविशेषं प्रति प्रमातृत्वम्।।

                ननु केयमभिव्यक्तिः आवरणाभिभव एव, न स्वरूपातिशयः। ननु उक्तोपाधिः किंप्रमाणकः। उक्तं--"ह्वीर्घीर्भीरित्येतत्सर्वं मन एव" इति। धीशब्दवाच्यज्ञानपरिणामवत् मनो विज्ञानं बुद्धिरिति। तदेवमुपाधिवशात् नियमेऽपि तदज्ञानात् यच्चोदितं--चैतन्यस्य सर्वविषयाविशेषित्वात् सर्वमस्य युगपदवभासेतेति, तत् परिहरति--तत्र च प्रमातुः स्वयंज्योतिषः इति।। परिणामसंसृष्टकर्मोपाधिनियमात् न असंसृष्टेषु चैतन्याभिव्यक्तिरिति नैकस्य प्रमातुः सर्वविषयावभासः इति भावः। ननु कर्मकारकेऽपि चैतन्यमभिव्यक्तं चेत्, सर्वप्रमातृसाधारणतया सर्वेषामवभासतामिति, नेत्याह--कर्मकारकमपीति।। एतत्प्रमातृचैतन्याभिन्नतयैवाभिव्यक्तं तद्विषयचैतन्यं न प्रमात्रन्तरचैतन्याभेदेन अभिव्यक्तम्, अतो न सर्वेषामवभास्यत्वमित्यर्थः।।

                ननु स्वयंप्रकाशमानस्य प्रदीपादिवत् स्वसंसर्ग्यशेषवस्तुप्रकाशित्वे प्राप्ते, कथमहंकारोपाधिनियमः कल्प्यते न चान्तःकरणपरिणामसंसृष्टविषयादन्यत्र चैतन्यमुपरक्तमपि न प्रकाशयतीति--युक्तम्; प्रकाशसंसर्गस्यैव प्रकाशमानताभिधानात्। विषयान्तरेषु चैतन्यस्यासङ्गितया नोपरागः इति चेत्, अन्तःकरणेऽपि तर्ह्यसङ्गितया नोपरागः, इति तदुपाधिनापि न किंचिदपि प्रकाशेत। स्यादेतत्--अन्तःकरणावच्छिन्नो हि जीवः प्रतिबिम्बस्थानीयः परिच्छिन्नः तत्संसृष्टमेव विषयं प्रकाशयेत्, ब्रह्म तु बिम्बस्थानीयं सर्वगतत्वात् सर्वमवभासयिष्यति। न च ब्रह्मणि सर्वदर्शित्वं मुखावदातत्ववत् जीवमनुगच्छति, जीवगतं वा किञ्चिज्ज्ञत्वं मुखश्यामत्वात् न ब्रह्मानुगच्छतीति सर्वमुपपन्नमिति, नैतत् सारम्; तथा सति विषयावच्छिन्नचैतन्यस्य ब्रह्मचैतन्यतया अहङ्कारावच्छिन्नजीवानुषङ्गाभावात् सर्वज्ञत्वमिव विषयावभासोऽपि जीवस्य न स्यात्। ननु-- जीवोपाधेरन्तःकरणस्य विषयस्य च परस्परान्वयादुभयावच्छिन्नमपि चैतन्यमन्योन्यसंसृष्टमिति युक्तो जीवस्य विषयावभासः इति, नैतद्युक्तम्; तथा सति सर्वगतेन ब्रह्मणा नित्यसंसृष्टमन्तःकरणमिति तदुपाधौ

जीवब्रह्मचैतन्याभेदाभिव्यक्तेः ब्रह्मसार्वज्ञ्यं जीवस्य नित्यवत् प्रकाशेत।।

                अथ मतम्--सर्वगतमपि चैतन्यमविद्यावृतत्वात् स्वयमपि तावत् न प्रकाशते, न च स्वयमप्रकाशमानः चैतन्यप्रकाशः प्रदीपवत् प्रकाश्यमवभासयितुं क्षमः; अङ्गुलिमात्रेणादित्यवत् परिच्छिन्नेनापि अज्ञानेन सर्वगतमपि चैतन्यं तिरोधीयते। तत्रान्तःकरणोपरागेणावरणाभिभवात् तत्रैवाभिव्यक्तं चैतन्यं किंचिदेव प्रकाशयतीति। तदपि न युक्तम्; कार्यभूतेनान्तःकरणेन स्वोपादनाज्ञानाभिभवायोगात्। तस्मात् न युक्तं किञ्चिज्ज्ञत्वे अहंकारोपाधिवर्णनमिति, अत्रोच्यते;--युक्त एवायमुपाधिः सर्वगतस्यापि जीवस्यासङ्गितया सर्वेणासंयोगात्। प्रकाशस्य च संयुक्तवस्त्ववभासित्वात्, ब्रह्म तु सर्वोपादानतया स्वात्माभिन्नं  जगदात्मानमिवावभासयति, न तु जीवः; अनुपादानत्वात्। कथं पुनः सर्ववस्तुदेशाव्यवहिततया सर्वगतस्य विषयान्तरेष्वसङ्गितया असंसृष्टस्यान्तःकरणसंसर्गिता संभवेत्

                उच्यते-यथा गोत्वादयो जातिविशेषाः केसरादिमद्व्यक्तयन्तरप्रदेशसंनिहिता अपि स्वभावविशेषादश्वादिव्यक्त्यन्तरप्रदेशसंनिहिता अपि स्वभावविशेषादश्वादिव्यक्त्यसङ्गितया तैरनभिव्यक्ता अपि सास्नादिमत्पिण्डसङ्गितया अभिव्यज्यन्ते; यथा वा प्रदीपप्रभा वाय्वाकाशरसगन्धादिप्रदेशव्यापिन्यपि स्वभावविशेषात् तानि न प्रकाशयन्ती रूपसंसर्गितया तदेव प्रकाशयति, एवं चैतन्यमपि स्वभावविशेषादन्तःकरणे संसृज्यते, नान्यत्रेति युक्तम्। यथा च केवलेन वह्निना न दाह्यमपि तृणादि, अयःपिण्डसमारूढेन दह्यते; तथा अहंकारसमारूढेनात्मना, केवलेनाप्रकाश्या अपि विषयाः प्रकाश्यन्ते इति युक्तमहंकारोपाधिवर्णनम्।।

                अथवा--सोपाधिकत्वात् जीवः परिच्छिन्नो न सर्वमवभासयति; जीवावच्छेदनिमित्तान्तःकरणपरिणामसंसर्गकृताभिव्यक्तित्वात् विषयावच्छिन्नचैतन्यस्य, जीवचैतन्यता च न विरुध्यते। ब्रह्माकारपरिणतान्तःकरणसंसर्गाभावाच्च न नित्यवत् ब्रह्मणः प्रकाशप्रसङ्गः। न च अन्तःकरणस्वरूपमात्रसंसर्गिणोऽभिव्यक्तिरङ्गीकृता; तद्गतधर्मादीनामपि प्रसङ्गात् जीवाकाराहंवृत्तिपरिणतान्तःकरणेन च जीवोऽभिव्यज्यते; अन्यथा जीवस्य सुषुप्तेः। अतः परिच्छिन्नत्वात् न सर्वविषयावभासिता। अथ वा--अज्ञानावृतः स्वयमप्रकाशमानतया विविधविषयानवभासयन् अन्तःकरणोपरागादावरणतिरोधाने तत्रैवाभिव्यक्तः तत्संसृष्ट्यैव विषयमवभासयति। दृष्टं च वृश्चिकवृक्षादिकार्यस्य गोमयमृदादिविकारस्वभावतिरोधायकत्वं, इति सिद्धैवात्मनि प्रमातृत्वादिव्यवस्थेति।।

                विषयस्य चैतन्यविवर्तत्वात् तदभिन्नमपि चैतन्यमहमवभासैकरूपमुक्तम्, तत्र अपसिद्धान्तप्रसङ्गं चोदयति--ननु नीलादिविषयोऽपि चेदिति।। यत्किञ्चित्साम्यादपसिद्धान्तसंकरः स्यात्, अस्ति चात्र महान् सिद्धान्तभेदः। क्षणिकाद्विज्ञानात् भेदेनार्थक्रियासामर्थ्यसत्त्वशून्यं विषयमाहुर्विज्ञानवादिनः, तत्त्वदर्शिनस्तु, अद्वितीयात् संवेदनादभेदेऽपि विषयस्य भेदेनाप्यर्थक्रियासामर्थ्यसत्त्वं स्थायित्वं चाबाधितमस्तीति वदन्ति। तत्र कथं सिद्धान्तसङ्करः इति वदितुं संवेदनैक्यं दर्शयति--मैवम्; परस्परव्यावृत्ताविति।। अस्त्वेकरूपता प्रत्यभिज्ञानात्, भेदोऽपि "घटसंवित्" "पटसंविदि"त्यवभासते इति, तत्राह--विच्छेदवभासेऽपीति।। स्वरूपप्रत्यभिज्ञा परोपाधिविच्छेदेन न बाध्यते इति भावः। ननु  एकत्वेऽपि संविदां विषयाभेदः किं न स्यात् इति तत्राह--यदि स्यादिति।। अनुवृत्तस्य व्यावृत्तात् नाभेदः; अनुवृत्तत्वात्, आकाशघटादिवत् इत्यनुमानमुक्तम्। इदानीं प्रत्यक्षोऽपि विषयसंविद्भेदः इत्याह--किं च तैरपीति।। नीलात्मकसंविदिति नीलमेवोच्यते; युगपद्विषयविषयिसंविद्द्वयानभ्युपगमात्। प्रत्यगवभास इति अहंसंवेदनमात्रम्। "अहं नीलं पश्यामी"ति कर्तृकर्मतया भेदः प्रत्यक्षः इत्यर्थः।।

                अत्र विज्ञानवादी चोदयति--नैतत् द्वयोरपीति।। अयं भावः--संविदोऽन्यच्चेन्नीलं, न तत् संवेदनेऽवभासेत।  भासते चेत्, सर्वं किमिति नावभासते विशेषसंबन्धाभावात् नीलस्य। संविदो जनकता विशेषसंबन्धः इति चेत्, न--इन्द्रियस्यापि विषयताप्रसङ्गात्। तस्मात् स्वाभाविकासाधारणाभेदसंबन्धादेव विज्ञाने नीलमवभासते-इति।। सिद्धान्ती तु भेदावभासोऽपि प्रत्यक्षो युक्त्या कथमबह्नूयते इत्याह--कथं पुनरिदमहं जानामीति।।       विज्ञानवादी तु नैतत् त्रयमेकसंवित्प्रतिभासि, किं तु संवित्त्रयमेतत् क्रमवर्तीति परिहरति--नायं तदवभासः इति।।

                क्रमवर्तित्वे अन्यसंवित्काले अन्यते नावभासेत, इदं तु त्रितयं युगपत् प्रत्यक्षमेवावभासते, ततः प्रत्यक्षविरुद्धः क्रमः इत्याह सिद्धान्ती--कथं पुनस्तेष्विति।।   आह विज्ञानवादी--तद्वासनासमेतसमनन्तरप्रत्ययसमुत्थमिति।। अहमित्यहंकल्पनोपारूढं कदाचिद्विज्ञानं भवति, अनन्तरं "चेदमि"ति विषयविकल्पितं विज्ञानं भवति। ते एव विज्ञाने वासना; सजातीयज्ञानस्य पूर्ववृत्तसजातीयज्ञानमेव वासना, नान्यः संस्कारः इत्युक्तम्।। तत्र वासनाद्वयसमेतात् "जानामी"ति क्रियाविकल्पप्रत्ययात् कारणत्रितयानुरूपेण--"अहमिदं जानामी"ति विषयक्रियाहंकल्पनाविकल्पितं त्र्याकारमेकं विज्ञानमुत्पद्यते इति आह सिद्धान्ती--किं पुनरेवमिति।। न हि केवल"महमि"ति च "इदमि"ति वा "जानामी"ति वा प्रत्यया दृष्टाः, किं तु प्रथमत एव प्रत्ययः "अहमिदं जानामी"ति कर्तृकर्मानुभवात्मको दृष्टः। तस्मात् यथांप्रतिभासमेवा"हमि"ति विज्ञानात् भिन्नमर्थक्रियासमर्थं नीलवस्त्वनुमन्तव्यमिति भावः। सत्यं नानुभवमाश्रित्य संवेदनादभिन्नं नीलं ब्रूमः, किं तु विज्ञानेन नीलस्य प्रतिभासान्यथानुपपत्त्या। कथम् स्थायित्वे हि विज्ञानविषययोः क्रियानिमित्तसाधारणपरस्परसंबन्धादसाधारणो विषयावभासः स्यात्, क्षणिकस्य तु आगन्तुकसम्बन्धाभावे यदि स्वाभाविकाभेदसंबन्धोऽपि न स्यात्, तत्र चैतन्येनासंसृष्टस्य प्रतिभास एव न स्यात्। अतः प्रतिभासानुपपत्तिरभेदं साधयतीति विज्ञानवादी वर्णयति--क्षणविध्वंसिनः क्रियानुपपत्तेरिति।। तत्र प्रत्यक्षेण विज्ञानानां क्षणिकत्वमुच्यते किं वा अनुमानेन ननु--प्रत्यक्षेण; तथाहि--वर्तमानावभासिज्ञानं स्वात्मनोऽवर्तमानात् व्यावृत्तिमपि गमयति, नीलज्ञानमिवानीलव्यावृत्तं नीलम्; अतो वर्तमानक्षणमात्रं विज्ञानं प्रत्यक्षमिति। न तावत् प्रत्यक्षेण विज्ञानभेदावभासः इत्याह--यद्येवमहमिति संविदः इति।।

                ननु सत्यपि भेदावभासे अतिसादृश्यात् न स्पष्टमवभासते इति शङ्कते--अथात्यन्तसादृश्यादिति।। कोऽयमभिप्रायः यदि तावत् संविदोऽन्यो भेदो ज्ञानान्तरगम्यश्च सादृश्यदोषात् स्पष्टं नावभासते इत्यभिप्रायः, तदा धर्मिप्रतियोगिसंविदोः संविदन्तराविषयत्वात् न तयोः भेदग्रहणं स्यात्, विषयत्वे वा धर्मिप्रतियोगिभेदाख्यत्रितयमपि भेदसंवेदने कल्पितं तदभिन्नं वा स्यात्, अथ संवित्स्वरूपमेव, भेदः संवेदनमेव तज्ज्ञानमिति, तत्राह--संविदोऽपि चेदिति।। अपि च ऐक्यप्रतिभासे सादृश्यकल्पनं प्रमाणविरुद्धम्, भिन्नयोरैक्यभ्रमश्च सादृश्यकल्पनायां प्रमाणम्, तदभावाच्च न सादृश्यसिद्धिरित्याह--अपि च तद्रूपप्रतिभासे इति।। ननु ऐक्यावभासस्य व्यामोहत्वात् न सादृश्यकल्पना प्रमाणविरुद्धा, ऐक्यभ्रमश्च भिन्नेषु सादृश्यमन्तरेण अनुपपन्न इत्यर्थापत्तिमूला च सादृश्यकल्पना; अतः सिद्धं सादृश्यमित्याह पूर्ववादी--तद्रूपप्रतीतेर्व्यामोहत्वादिति।। मैवम्; ऐक्यभ्रमसादृश्यसिद्धयोरितरेतराश्रयत्वादिति परिहरति--न इतरेतराश्रयत्वादिति।। ननु ऐक्यावभासस्य प्रामाण्यं न स्वतः सिद्ध्यति, किं तु सादृश्यस्य निर्मूलत्वप्रमाणविरुद्धत्वापेक्षया; सादृश्यस्य च निर्मूलत्वप्रमाणविरुद्धत्वमैक्यप्रतिभासस्य इति तुल्यं तवापि इतरेतराश्रयत्वमिति चोदयति--स्यादेतत्; अव्यामोहेऽपीति।। ऐक्यावभासो न सादृश्याभावापेक्षः, किं तु स्वत एव प्रमाणमिति परिहरति--नैतत् स्वारसिकमिति।। ननु सादृश्यमपि स्वत एव सिद्धमित्याशङ्क्याह--न तु सादृश्यकल्पना स्वत इति।। कुतस्तर्हि सादृश्यसिद्धिः इत्यत आह--अप्रामाण्यपूर्विकेति।। ऐक्यभ्रमो हि भिन्नेषु सादृश्यं कल्पयतीति भावः।।

                ननु केयं प्रत्यभिज्ञा नाम यत्सामर्थ्यबलात् संविदैक्यं प्रतीयते, पूर्वानुभवसंस्कारसहितादिदानींतनवस्तुप्रमितिकारणात् जातमेकस्य कालद्वयसम्बन्धविषयकं प्रत्यक्षज्ञानं प्रत्यभिज्ञेति चेत्, न तर्ह्यात्मनि सा संभवति। कथम् विज्ञानस्वभावस्य ह्यात्मनः स्थायित्वे, स्वयंप्रकाशस्य ज्ञानान्तरागम्यत्वात् तद्विनाशसंस्काराभावात्, स्वरूपस्य चाविनाशादविनाशिनः संस्काराभावात् स्वयंप्रकाशस्य चेदानीन्तनस्वरूपव्यतिरिक्तप्रमाणकारणाभावाच्च न प्रत्यभिज्ञाकारणं तावदात्मनि सम्भवति। न च स्वरूपज्ञानमेव प्रत्यभिज्ञा; तस्य प्रदीपप्रभावत् वर्तमानप्रकाशिनः पूर्वापरपरामर्शात्मकतायोगात्; "सोऽहमि"ति च विषयाकाराभ्युपगमे "सः" इति "अहमि"ति च आकारभेदेन विषयभेदात् ज्ञानभेदसिद्धेः। तस्मात् न आत्मनि प्रत्यभिज्ञेति युक्त्या व्यामोहत्व सिद्धिरिति।।

                अत्रोच्यते--अन्तःकरणविविशिष्टे तावदात्मनि प्रत्यभिज्ञानं ब्रूमः, न निष्कलङ्कात्मस्वरूपमात्रे; तस्य

मोक्षावस्थायिनः शास्त्रैकगम्यत्वात्। संसारावस्थायामन्तःकरणविशिष्टस्वरूपानपायात् तस्यैव प्रत्यभिज्ञया स्थायित्वाभिधानात्। तत्र चान्तःकरणजन्याहंप्रत्ययाधीनत्वात् विशिष्टात्माभिव्यक्तेः पूर्वकालविशिष्टात्मानुभवनिमित्ताहंवृत्तिसंस्कारसहितमन्तःकरणमेव इदनीन्तनात्माव्यक्तिनिमित्तं सत् पूर्वापरकालविशिष्टात्मविषयं प्रत्यभिज्ञानमुत्पादयति।।

                ननु पूर्वापराभिज्ञयोरविषयतया अभिव्यक्तस्यात्मनः कथं प्रत्यभिज्ञाविषयत्वं इति। नैष दोषः; यथा संवेदनस्य स्वसंविदितरूपस्यापि कालान्तरे स्वसंस्कारजनितस्मृतिविषयत्वं, तद्वदिहाप्यभिज्ञायामविषयस्यापि प्रत्यभिज्ञाविषयत्वं न विरुध्यते।।

                ननु स्वयंप्रकाशस्य विषयतैवानुपपन्ना, नैवम्; देशकालान्तःकरणविशिष्टतया विषयोपपत्तेः। यथा धर्मस्यागमैकसमधिगम्यस्यापि इदानीं फलदानायोन्मुखीभावादिलक्षणधर्मविशिष्टतया वर्तमान फलोदयलिङ्गादिगम्यत्वं, तद्वत्। ननु एकस्यैवात्मनः प्रत्यभिज्ञायां कथं कर्तृकर्मतया युगपत् विरुद्धरूपद्वयान्वयः ननु सर्ववादिनां देहव्यतिरिक्ताद्यनुमानविषयतया कर्तृकर्मभावः संप्रतिपन्नः., तन्न; अनुमानादौ विषयस्य कारकताभावात् आकारमात्रतया विषयत्वात् तत्र कर्तृतैवात्मनः, न कर्मता, प्रत्यक्षे तु पुनः विषयस्यापि स्वविषयज्ञानजनकतया कर्मकारकत्वात् प्राप्तैवात्मनो युगपदेकस्यां क्रियायां विरुद्धरूपद्वयापत्तिरिति।।

                उच्यते--अन्तःकरणविशिष्टतया आत्मनो ज्ञातृत्वं, पूर्वापरकालविशिष्टतया च ज्ञेयत्वमित्युपाधिभेदादविरोधः इति। "सोऽहमि"ति च प्रत्यभिज्ञायाः स्वानुभवसिद्धत्वात् यथाकथंचिन्निमित्तं कल्पयितव्यम्; व्यवहाराविसंवादात् भ्रान्तित्वायोगात्। न च "सोऽहमि"त्याकारभेदादर्थभेदेन ज्ञानभेदो युक्तः; विज्ञानं क्षणिकमित्याकारभेदेनार्थभेदात् विज्ञानस्य क्षणिकताभावप्रसङ्गात्, सत्यम्; विज्ञाने क्षणिकत्वादिधर्नोपरागो विकल्पव्यवहारमात्रम्, न सत्यतोऽस्तीति चेत्, तथा स्थायित्वादिव्यवहाराश्च कालादिधर्मोपाधित्वाद्विज्ञाने विकल्पव्यवहारा इत्यविशेषः। इयांस्तु विशेषः--सति काले स्थायित्वादिविकल्पप्रत्ययाः "सोऽहम्" इत्याद्यनुभवसिद्धा व्यवहाराविसंवादिनोऽर्थक्रियासमर्थाश्च दृश्यन्ते, न तथा क्षणिकत्वादिव्यवहाराः इति।।

                अत्र प्राभाकरा मन्यन्ते--नैवं प्रत्यभिज्ञायां विषयत्वेनायमात्मा सिध्यति, किं तु आश्रयत्वेनेति, तदयुक्तम्; पूर्वापरकालविशिष्टस्य आत्मनः क्षणमात्रवृत्तिप्रत्यभिज्ञानाश्रयत्वायोगात् तदाश्रयतया स्थायित्वसिद्ध्यभावात्। ननु पूर्वकालसंवेदनमिदानीमनुस्मर्यमाणं स्वाश्रयं तदानीन्तनमात्मानं साधयति, स्मृतिश्च स्वाश्रयतया इदानीन्तनं आत्मानं साधयति, इति कालद्वयविशिष्टात्मसिद्धिरिति, नैतत् सारम्; स्मृतिपूर्वानुभवौ हि तत्तत्कालमात्मानं साधयतः, अमिज्ञाप्रत्यक्षद्वयवत्, एकस्य कालद्वयसंबन्धः केन सिध्यतीति वक्तव्यम्---पूर्वापरसंविद्द्वयमेव साधयतीति चेत्, मैवम्; घटादिष्वभिज्ञाद्वयव्यतिरेकेण प्रत्यभिज्ञोपादानात्। किं च न तावत् स्वयमेव संविद्द्वयं साधयति; एकैकस्य कालद्वयवदात्माश्रयत्वाभावात्, न च संभूय पूर्वापरसंविद्द्वयं तद्वन्तमात्मानं साधयति ; अन्योन्यस्य अन्योन्यसंविद्विशिष्टात्मश्रयत्वाभावात्। अथ संविद्द्वयमेव पूर्वापरसंविद्द्वयाश्रयात्मैकत्वविषयसंविदन्तरमुत्पादयति, सिद्धं तर्हि प्रत्यभिज्ञानमात्मविषयम्। किं च "अनुभूतं मये"त्याश्रयविशिष्टपूर्वसंविदनुस्मृतेः स्वानुभवसिद्धत्वात् स्मर्यमाणतयैव इदानीं पूर्वानुभूतात्मसिद्धिः, न पूर्वसंवेदनाश्रयतया; तस्याविद्यमानस्येदानीमसाधकत्वात्। स्वयंप्रकाशमाने हि संवेदनमात्माश्रयं साधयति, न स्मृतिविषयतया परप्रकाश्यम्; अन्यथा धर्मादीनामपि परतस्सिद्धानां स्वाश्रयात्मसाधकत्वप्रसङ्गात्। तस्मात् सिद्धमात्मनि प्रत्यभिज्ञानमिति।।

                स्यात् तर्हि अनुमानात् क्षणिकत्वमिति घटादौ साधयति--अथान्ते क्षयदर्शनादिति।। घटस्य विनाशानन्तरपूर्वक्षणविशिष्टसत्त्वमन्त इत्युच्यते। तस्य स्वसत्ताक्षणादुत्तरक्षणे विनाशो दृष्टः। तत्रान्त्यक्षणावच्छिन्नघटसत्त्वात् पूर्व-पूर्वक्षणावत्थिन्नघटसत्त्वान्यादिरित्युच्यन्ते। तान्यपि, स्वसत्ताक्षणादुत्तरक्षणे विनाशव्याप्तानि, घटसत्त्वात्; अन्त्यक्षणावच्छिन्नघटसत्त्ववदित्यनुमानम्। ततश्च सतोऽनन्तरं विनाशात् क्षणिकत्वसिद्धिरिति क्षणिकेष्वैक्यं सादृश्यनिबन्धनमिति।।

                तत्र प्रत्यनुमानमाह---आदौ सत्तादर्शनादिति।। आदिरिति घटसत्तावच्छेदकाः क्षणाः उच्यन्ते। अन्त

इति विनाशावच्छेकत्वेन अभिमताः क्षणाः। तत्र अन्त्यक्षणाः सर्वे घटसत्तया व्याप्ता इति साध्यते। कालत्वात् सत्तावच्छेदककालवदिति प्रत्यनुमानम्। अभावानुभवविरुद्धमन्ते सत्तानुमानमिति चोदयति--क्षयानुभवेति। तर्हि अन्त्यक्षणात् पूर्वक्षणावच्छिन्नघटसत्त्वानामनन्तरक्षयानुमानमपि प्रत्यभिज्ञाविरुद्धमिति परिहरति--इहापि इति। क्षयानुभवोऽभिज्ञा अनुमानं बाधते, न प्रत्यभिज्ञा अनुमानात् दुर्बलेति; नेत्याह--न ह्युभयोरिति।।

                सर्वे भावाः, क्षणिकाः, अर्थक्रियाकारित्वात्, यदक्षणिकं न तदर्थक्रियाकारि; यथा शशविषाणमित्यनुमानान्तरं दर्शयितुं स्थायिनोऽर्थक्रियानुपपत्तिमाह--अथ मन्येत योऽसौ स्थिरत्वेनाभिमत इत्यादिना।। ननु स्थिरस्यैव निमित्तसंयोगादन्यथाभूतस्य क्रियापूर्वकं कार्यमुत्पादयितुं सामर्थ्यं, न क्षणिकस्येति सिद्धान्ती चोदयति--कथमयोग इति।। इत्थमयोग इत्यादिः परिहारः। क्रमेणेति। अनेकानि सातत्येन कुर्यादित्यर्थः। एकं वा अनेकं वा कार्यं सकृत् कृत्वोपरमते इत्याह--योगपद्येनेति। क्रमपक्षं दूषयति--न तावदिति। अनेकानि कार्याणि कर्तुं समर्थश्चेत्, पुष्कलकारणस्य भावादेकस्य अनेककार्यदर्शनाच्च सकृदेव कुर्यादिति भावः। द्वितीयं पक्षं दूषयति--नापि यौगपद्येनेति।। अर्थक्रियाकारित्वलक्षणत्वात् सत्त्वस्येति भावः। अतः सकृत्कर्तुः कालान्तरे पुनः कर्तृत्वे निमित्ताभावात् अकर्तृत्वे वा असत्त्वात् सकृदेव सत्त्वमित्युपसंहरति--अतोऽर्थक्रियाकारित्वादेवेति।।

                सिद्धान्ती तु--स्थायिनः सकृदेव कार्यं कृत्वा तूष्णींभूतस्यापि न असत्त्वप्राप्तिः; सत्त्वस्य अर्थक्रियाकारित्वलक्षणत्वाभावादित्युपपादयति--अथ केयमित्यादिना।। तत्राह--स्वविषयज्ञानजननमिति।। युक्तं बाह्यार्थानामेतादृशं सत्त्वम्, विज्ञानानां तु स्वविषयविज्ञानाजनकत्वात् न सत्त्वलक्षणमिति दूषयति--प्राप्तं तर्हि सर्वासामिति।। ननु एकसन्तानज्ञानानामन्योन्यविषयविषयिताऽभावेऽपि पुरुषान्तरज्ञानस्य विषयतया पुरुषान्तरज्ञानं जनकमित्यर्थक्रियालाभः संविदामिति, नेत्याह--न सन्तानान्तरेऽपीति। पुरुषान्तरज्ञानं प्रतिपुरुषान्तरज्ञानस्य अप्रत्यक्षत्वादनुमेयत्वादिति भावः। अनुमानज्ञानविषयत्वात् तर्हि सन्तानान्तरज्ञानस्य सन्तानान्तरज्ञानं जनकमिति, नेत्याह--अनुमानेऽपीति।। प्रत्यक्षमेवार्थजन्यं, नानुमानादीति ते मतमित्यर्थः। ननु सर्वं संवेदनजातं सर्वज्ञानस्य विषयतया जनकं भवति, तस्य सर्वविषयप्रत्यक्षत्वात् इत्यत आह--न सार्वज्ञेऽपीति।।  साक्षादिति।। सह विज्ञानोपप्लवैः अव्यवधानेन सर्वज्ञज्ञानोपरक्ततया; तदभेदेनेत्यर्थः। तत्र हेतुः--संसारसंविदेकरूपत्वप्रसङ्गादिति।। संविद्विषययोरभेदोपगमात् संसारिकज्ञानैः सोपप्लवैः सर्वज्ञज्ञानं दूषितं स्यादिति भावः। ननु सर्वोपप्लवोपरक्तमपि तत्वज्ञानेन बाधितत्त्वात् न दोषमावहति, न तावत् तदेव ज्ञानं स्वोपप्लवं बाधते; प्राप्तिबाधयोरेकस्मिन् क्षणे अनुपपत्तेः, ज्ञानान्तरस्य तु न पूर्वज्ञानोपप्लवो विषयः, येन तदनुवादेन बाधः स्यात्, विषयत्वे च बाधकज्ञानेऽप्युपप्लवानामभेदः स्यात्। तर्हि विनैवोपप्लवैः सार्वज्ञे ज्ञाने विज्ञानान्युपरज्यन्ते इति,  नेत्याह--अतद्रूपत्वे इति।। सर्वज्ञस्य लौकिकोपप्लवानवभासनादुपदेशायोगः इति भावः।।

                अथ न स्वविषयज्ञानजननमर्थक्रिया, किं तु सजातीयक्षणान्तरोत्पादः इति चोदयति--अथेति।। उत्तरमाह--चरमक्षणस्यासल्लक्षणत्वप्रसङ्गः इति।। अयमर्थः--अहमिति संतानपतितानि विज्ञानानि स्थायित्वानुसन्धानकल्पनाभ्यां रागादिदोषैः विषयैश्च उपप्लुतानि पूर्वपूर्वसजातीयविषयविज्ञानलक्षणसंस्कारेभ्यः उत्तरोत्तराण्युत्पद्यन्ते। तत्र सर्वमिदं क्षणिकमिति भावनया स्थायित्वकल्पना निवर्तते; स्वलक्षणभावनया द्रव्यगुणशब्दकर्मविशेषण विशेषकल्पन विनश्यति; दुःखमिति भावनया रागादिदोषप्रवृत्तिसुखदुःखोपप्लवाः क्षीयन्ते; शून्यमिति भावनया विषयोपप्लवविगमः; ततश्च भावनाभेदैः चतुर्भिः चतुर्विधोपप्लवे क्रमेण मन्दीकृते, भावनाप्रकर्षपर्यन्तात् समनन्तरप्रत्ययात् सर्वोपप्लवविरहि विज्ञानमुत्पद्यते, तत् संसारसन्तानस्य अन्त्यत्वात् चरममिति तस्य कार्यान्तराभावात् असत्त्वप्रसङ्गात् क्रमेण सर्वमसदेव पूर्वं स्यादिति। ननु चरमक्षणोऽपि स्वसन्तानज्ञानान्तराभावेऽपि सर्वज्ञज्ञानं विषयतया जनयतीति, नेत्याह--न च सर्वज्ञज्ञानजननेनेति।। तुल्यस्वभावयोः कार्यकारणभाव एव एकसन्तानता नाम, चरमक्षणसार्वज्ञज्ञानयोः विशुद्धतया तुल्यस्वभावयोः कार्यकारणभावादविच्छिन्नः सन्तानः इति भावः। मा भूत् संतानविच्छेदः इति,

नेत्याह--मुक्त्यभावप्रसङ्गादिति।। सन्तानविच्छेदो हि मुक्तिरभिप्रेतेति भावः। अथ सर्वज्ञसन्तानस्य तुल्यसन्तानस्य तुल्यस्वभावतया जनकत्वात् तत्सन्तानैक्यमेव मुक्तिरिति, तर्हि विषयतया जनकत्वमेव नास्तीत्याह--न च संवित् संविदो विषयः इति।। प्रत्यक्षत्वं विषयशब्देनोच्यते; पुरुषान्तरसंवेदनस्यानुमेयत्वात्। अथवा प्रत्यक्षस्यैव संवेदनस्य देहान्तरसम्बन्ध एवानुमीयते इति सर्वप्रमाणाविषयः संविदिति, अथवा--संविदात्मना भेदाभावादिति अयमर्थः--संवित् संविदन्तरात् न संविदाकारेण भिद्यते; प्रतियोगिनोऽसंवित्त्वप्रसङ्गादेका संवित् स्यात्। असंविदाकारेण भेदेऽपि संविदेकैव स्यादिति न संविदां विषयविषयिभावः इति।।

                किं चेति।। अर्थक्रिया नाम कारणसत्त्वे हेतुः प्रतीतिनिमित्तं वा इति विकल्प्य, हेतुत्वे दूषणमाह--स्वकारणनिष्पन्नस्येति।। कार्यात् प्रागेव कारणस्य निष्पन्नत्वादित्यर्थः। न च निष्पन्नमप्यर्थक्रियातः पूर्वमसदिति शक्यं वक्तुम्; शशविषाणतुल्यत्वेनाकारणत्वप्रसङ्गात्। प्रतीतिपक्षे अनवस्थादूषणमाह--तत्र तस्या अन्यतः इति।। ननु कार्यमर्थक्रिया नाम, ज्ञानानि च पूर्वेषामुत्तरोत्तराणि कार्याणि स्वयंसिद्धानीति न प्रतीत्यनवस्थेति चोदयति--ननु स्वज्ञानार्थक्रियायाः इति।। तर्हि कार्यकारणभूतानां ज्ञानानां स्वयंसिद्धत्वात् न अर्थक्रिया सत्तावगतिनिमित्तमित्याह--न तर्ह्यर्थक्रियातः इति।। मा भूत् कारणभूतं ज्ञानं कार्यभूतज्ञानाधीनप्रकाशं स्वयंप्रभत्वात्, तथापि स्वयं स्वेनैवावभासते इति स्वयमेव स्वस्यार्थक्रियेति नेत्याह--न हि स्वरूपमेवेति।। तस्मात् न अर्थक्रियाकारित्वलक्षणं सत्वम्, किं तु स्वाभाविकमिति सकृत् कार्यं कृत्वा तूष्णीं भूतस्यापि स्थायिनः सत्त्वं न विरुध्यते इति।।

                इदानीं क्रमेणापि कार्यं कृत्वा सत्त्वं न विरुध्यते इत्याह--यत् पुनः क्रमेणेति।। शक्तस्यापि सहकारिसन्निधानविशेषक्रमापेक्षया कार्यक्रमो युज्यते इत्याह--स्थायिनोऽपीति।। शक्तस्य सहकारिकारणापेक्षामपलपति--अथ कारणस्येति।। गूढाभिसन्धिरुत्तरमाह--अकारणस्यापि न तरामिति।। मा भूत् तर्हि शक्तस्याशक्तस्य च सहकार्यपेक्षेति, तत्राह--असहकारि विश्वं स्यादिति।। शक्तस्यैव सहकार्यपेक्षया कार्यकरत्वानुभवविरोधः इति भावः। अशक्ता एव पदार्थाः सामग्रीलक्षणकारणोत्पत्तौ परस्परमपेक्षन्ते, इति नानुभवविरोध इत्याशङ्कते--अथाकारणं कारणोत्पत्त्य इति।। कार्यं प्रत्यशक्ता अपि पदार्थाः सामग्रीकारणं प्रति शक्ता वा न वेति विकल्पयति--अत तत् कारणस्येति।। उभयत्र दूषणं--कारणं चेदिति।। अथ नापेक्षा इत्युक्तार्थम्।। ननु शक्ताशक्तयोः अपेक्षाऽभावे कथं सहकार्यनुभवः कथ्यते ननुन कार्यस्याप्यसत्त्वाविशेषात् सर्वस्माज्जन्म किं न स्यात् कारणस्य वा विशेषसम्बन्धहीनस्य सर्वस्य जनकता किं न स्यात् इत्यव्यवस्थायां कथं कार्यकारणभावमात्रं त्वया व्यवस्थाप्यते अथ अन्वयव्यतिरेकसामर्थ्यात् कार्यकारणनियमः इति, सहकारिणोऽपि तथेत्याह--तस्माद्यथैव हेतोरिति।। क्व तर्हि सहकार्युपयोगः इति तत्र मतान्तरमुपन्यस्य पूर्ववादिनं दूषयति--यस्तु मन्यते सहकारिजनितविशेष इति।। यः सहकारिणमपेक्षते, स स्वात्मनि विशेषोत्पत्तौ शक्तो वा न वेति विकल्प्याहेतुत्वे दूषणमाह--विशेषोत्पत्ताविति।। न ह्यशक्तं सहकारिसहस्रसन्निधानेऽपि किंचित् कुर्वत् दृष्टमित्यर्थः। हेतुत्वे दूषणमाह--अथ हेतुरिति।। तत्र प्रथमविशेषस्य विशेषान्तरापेक्षया अनवस्थाप्रसङ्गदोषपरिहाराय किंचिदेव सहकारिभिः कारणे विशेषो जन्यते कार्यजननाय, क्वचित्तु कारणे विशेषजन्मानपेक्षमेव सहकारिभिः कार्यं जन्यत इत्यव्यवस्था स्वयमेव दर्शयति--अथ मतं न सर्वं कार्यमिति।। तावत्येवाभवत्=उच्छूनताविशेषे सत्येवेत्यर्थः। तर्हि शक्तिमता कारणेन स्वात्मन्यनुपकुर्वन्नपि सहकार्यपेक्ष्यते इति त्वयैव स्वपक्षो निरस्तः इति परिहरति--अनुपकुर्वन्नपि तर्हीति।। आह साक्षाद् क्षणिकवादी--नानुकुर्वन्निति।। सर्वस्य सहकारित्वप3सङ्गादित्यर्थः। क्व तर्ह्युपकरोति तदाह--स्वरूपे तु नोपकरोतीति।। कार्यं हि सहकारिणा जायमानमुपक्रियत इत्यर्थः। तर्हि क्षणिकस्येव कार्यस्योपकाराय न विरुध्यत इति परिहरति--नित्योऽपि तर्ह्यनाधेयातिशय इति।। तदेव प्रपञ्चयति--यथैव क्षणिको भाव इति।। सामग्रीसाध्यत्वादिति।। बहुकारकव्यापारसाध्यत्वादित्यर्थः। पुनश्चोपकार्यमेवोपकारकं सहकारिणमपेक्षते, नानुपकार्यं भवति तदपेक्षत इति सम्बन्धः। नित्येऽपि तर्हि कारणे कार्यमेवोपकारकं सहकारिणमपेक्षिते नानुपकार्यं कारणं इत्याशङ्कते--अथ

मतं क्षणिकोऽपि नैवापेक्षत इति।। यदन्यसंनिधौ भवति, तदपेक्षत इति सम्बन्धः। नित्येऽपि तर्हि कारणे कार्यमेव सहकारिणमपेक्ष्य क्रमेण भविष्यतीति; नेत्याह--नित्यस्य तु जनकस्येति।। सहकारिणां कारणस्य च सर्वदा भावात् सर्वदा कार्यजननादित्यर्थः। ननु सहकारिणामपि संनिधानमपेक्षत इति; नेत्याह--को हेतुरिति।। कारणसहकारिणोरपि सम्बन्धः कार्यं चेत्, सोऽपि कारणसहकारिभ्यां सदा भवतीति कार्यजन्म सदा भवेदित्यर्थः। ननु क्षणिकादपि सहकारिसव्यपेक्षात् किमिति सदा कार्यं न जायते विशेषवति सत्ताक्षणे कार्यजन्माभावात्, पूर्वोत्तरकालयोः विशेषाभावादिति , तत्राह--क्षणिकस्तु यो जनक इति।।

                इदमयुक्तं वर्तत इति।। अयमर्थः--न तावदग्निस्वलक्षणस्यैव धूमस्वलक्षणं प्रति कारणत्वमवगन्तुं शक्यम्; क्षणमात्रापवर्गिणोरन्वयव्यतिरेकबुद्धिद्वयकालावस्थानायोगात्, किं तु अग्निधूमसन्तानयोरन्वयव्यतिरेकाभ्यामग्निस्वलक्षणानि धूमस्वलक्षणानां कारणानीति सामान्योपाधौ प्रमातव्यम्। तत्र अग्निस्वलक्षणानां विशेषाभावादङ्गारगतादप्यग्निस्वलक्षणात् धूमजन्म किं न स्यात् काष्ठस्वलक्षणाभावादिति चेत्, न; तस्यापि स्वसंताने विद्यमानत्वात्। अग्निकाष्ठस्वलक्षणसंसर्गापेक्षा विद्यत इति चेत्, न; सन्तानद्वयनित्यत्वे तन्निमित्तसंनिधानस्यापि सदा प्रसङ्गात्, तत्राप्यन्यापेक्षेति चेत्, इहापि। नित्येऽपिसहकारिसंनिधानस्य कदाचिद्भावान्नित्यवत्कार्यजननप्रसङ्गो न युक्तो वर्तत इति। ननु सहकारिसन्निधानादेव कार्योदयनियमेऽपि धूमकाष्ठसन्तानयोः न उपकार्योपकारकसम्बन्धः इत्याह--किमत्रायुक्तमिति। परिहरति--सति नियम इति।। सहकारिणां कार्येणान्वयव्यतिरेकनियमेऽपि नोपकार्योपकारकसम्बन्ध इत्युक्तिर्विरुद्धेत्यर्थः। ननु अन्वयव्यतिरेकनियमस्य उपकार्योपकारकसम्बन्धव्याप्तिः क्व दृष्टा  इति ; दृष्टा कार्यकारणयोः इत्याह--तथा हि यः कश्चिदिति।। उपकार्योपकारकसम्बन्धाभावे जलधूमयोरिव अन्वयव्यतिरेकनियमानुपपत्तेरिति भावः।।

                ननु ययोरेव अग्निधूमस्वलक्षणयोः कार्यकारणभावो दृष्टः, तत्रैव अन्वयव्यतिरेकनियमः, न अग्निधूमसन्तानयोः; येन अविशेषात् सर्ववह्निस्वलक्षणेषु धूमवस्वलक्षणकारणेषु काष्ठसंयोगासंयोगाभ्यां धूमभावाभावदर्शनेन सहकारिकारणेषु अन्वयव्यतिरेकनियमोऽपेक्षालक्षणोपकार्योपकारकलसम्बन्धश्च स्यात्। तस्मात् न कार्यकारणस्वलक्षणादन्यत्र सामान्योपाधौ कार्यकारणयोग्यताप्राप्तिरिति, तत्राह--एवं हि कार्यकारणभावसिद्धिरित्यादिना।। सामान्योपाधौ हि व्यवहारो दृश्यत इति भावः। अस्तु सामान्योपाधौ जन्यजनकयोग्यतानियमः, ततः किम् इति; तत्राह--तत्र यदि न क्षणिकं कारणमिति।। तदेव साधयति--तथा हि हेतुपरम्पराप्रतिबन्धादिति।। कारणस्य स्वयं शक्तत्वादित्यर्थः। नापि कार्यं सहकारिणमपेक्षते इति।। कारणादेव जननादित्यर्थः। ननु वह्निस्वलक्षणात् धूमजन्मनि काष्ठसंसर्गस्यापि संनिधानात् तदपि सहकारि कल्प्यत इति, तन्न; प्रागपि हि कृशानुस्वलक्षणस्य धूमजननयोग्यस्य काष्ठसंसर्गाभावात् तदहेतुत्वलक्षणस्य व्यतिरेकस्य दर्शनमन्तरेणान्वयमात्रात् न सहकारित्वसिद्धिरित्याह--काकतालीयमुच्यत इति।। तर्हि मा भूत् सहकार्यपेक्षेति ; कारणमपि मा भूदित्याह--तथा च कार्यकारणव्यवहारा इति।। तस्मात् क्षणिकनित्ययोः सहकारिसन्निधानक्रमस्याविशेषात् कारणत्वमविशिष्टमित्युपसंहरति--तस्मात् क्षणिकस्यापीति।। अयमर्थः--यथैकस्मादग्निस्वलक्षणात् समानदेशे वह्निः, उपरिष्टात् धूमः, अधस्ताद्भस्म पुरुषे विज्ञानमिति सहकारिभेद एकस्मादनेकानि कार्याण्युत्पद्यन्ते तथैकस्मात् कारणात् कालभेदेन सहकारिभेदात् कार्यभेदा इति।।

                तस्मात् सत्यपि विषयाभेदे अहंसंवेदनस्य यथाप्रतिभासमद्वितीयात् संवेदनाद्भेदेनाप्यर्थक्रियासमर्थतया स्थायित्वमस्तीति महदेतत् सिद्धान्तवैलक्षण्यमस्तीत्युपसंहरति--तदेवमहङ्कर्तुः सदैकरूपावगमादिति।। यत्किञ्चित्साम्येन च सिद्धान्तसाङ्कर्ये मन्त्रार्थवादेतिहासपुराणप्रामाण्यानभ्युपगमात् देवतास्वर्गेश्वरमोक्षानभ्युपगमात् क्षणिकप्रमाणसम्बन्धस्य क्षणिकस्यैव सत्त्वाभ्युपगमात् लोकायतबौद्धांशद्वयपरिणतः प्राभाकरः, भेदाभेदाभ्युपगमात् मन्त्राद्यप्रामाण्याच्च लोकायतक्षपणकांशद्वयपरिणतो वार्तिककारः। यस्तु कश्चित् क्षपणकपादावनतशिरोबिम्बः तत्त्वदर्शनतन्निष्ठपरमहंसप्रद्वेषतीव्रवायुविक्षिप्तविवेकविज्ञानलवः स्वपरपक्षगुणदोषविभागदूरीकृतविज्ञानो भेदाभेदाभ्यां बन्धमोक्षादिसङ्करमिव कुर्वन् दुर्जनरमणीयां वाचं जल्पति--सुगतविज्ञानवादसमानोऽयं वेदान्तवादः इति, स सम्प्रदायश्रवणपरिचयशून्यतया

दर्शनविवेकमनवबुद्ध्यमानो नापवाद्यः, किन्तु शोचनीयः इत्युपेक्षणीयो विद्वद्भिः।।

                ननु विज्ञाने प्रपञ्चस्य कल्पितत्वं तव तस्य च तुल्यम्, सत्यम्; विज्ञाने प्रतिभास्यमानत्वं च तव तस्य च तुल्यं, इति  विज्ञानवादस्त्वदीयं दर्शनं किं न स्यात्  सत्यपि प्रतिभास्यत्वे सत्यमिथ्याविभागः अस्तीति चेत्, इहापि सत्यपि मिथ्यात्वे अर्थक्रियासामर्थ्यसत्त्वासत्त्वविभागोऽस्त्येव। कल्पितत्वे नेयं विभागसिद्धिरिति चेत्, प्रतिभास्यत्वेऽपि न सत्यमिथ्याविभागसिद्धिः। दृश्यतेऽयं विभागः इति चेत्, तदेव विभागदर्शनं मम किं न स्यात्  घटादेर्मिथ्यात्वमप्रसिद्धमिति चेत्, न;  प्रतिभास्यसत्यत्वस्याप्यसिद्धत्वात्। शुक्तिरजतघटयोरर्थक्रियाभावाभावसत्त्वासत्त्वविभागदर्शनाच्च। दृश्यते च माया प्रीतिद्वेषादिकारणम्, श्रूयते च देवासुरसंग्रामादिषु मायाविनिर्मितशस्त्रभेदानां दाहच्छेदभेदादिहेतुत्वं इत्यलमतिप्रसङ्गेन।।

                ननु विषयस्यापि चैतन्यव्यञ्जकतया अपरोक्षत्वे अनुमानादिष्वपि तथा स्यात्, न तथा दृश्यते इति चोदयति--ननु नानुमेयादिष्विति।। अन्तःकरणपरिणामसंसर्गकृतयोग्यत्वापत्त्या विषयस्य चैतन्यं प्रति व्यञ्जकत्वम्, तदनुमेयादिष्ववर्तमानत्वसम्भवात् तेषु वर्तमानधर्मद्वयोत्पत्त्ययोगात् नापरोक्षतेति परिहरति--नानुमेयादिष्वपरोक्षत्वमिति।। अव्यावृपतत्वादिति।। कारकत्वव्यञ्जकत्वधर्मद्वयानुपपत्तेरित्यर्थः। न हि विनष्टे घटे अग्निसंयोगात् लौहित्यमुत्पाद्यते। ननु अतीतानागताकारेण वृष्ट्यादेः वर्तमानत्वमपि दृश्यते, न; वृष्टेः युगपदतीतत्ववर्तमानत्ववायोगात्। अतीतताधर्मस्यापि वर्तमानकालो घटादेरिव नान्वयितया अवच्छेदकः, किन्तु प्रतियोगितयेपि घटादिवत् न वर्तमानतासिद्धिः। किं च अतीताकारेण वर्तमानस्य नेदानीन्तनक्रियागुणाश्रयत्वम्च अतीताकारतया वर्तमानस्य घटस्य वर्तमानलौहित्यगमनाश्रयत्वदर्शनात्, अतो नानुमेयादिषु कारकत्वव्यञ्जकत्वे युक्ते। प्रत्यक्षे पुनरिन्द्रियसंयोगस्य गुणस्य गुणिव्यापारमन्तरेणाव्यापारात् युक्तो विषयस्य सामग्र्यन्तर्भावः इति। कथं तर्हि विषयव्यापाराभावे अनुमेयादिषु विषयाकारता विज्ञानस्य इति; तदाह--लिङ्गादीनामेवेति।। ननु अतीते वर्तमानविषयत्वजन्मवत् कारकत्वमपि स्यादिति, नेत्याह--प्रमेयस्य चेति।। विषयत्वं नाम अनुमेयेषु सुषुप्तिव्यावृत्तिः। सा चाभावः तद्धर्मो न भवति। विज्ञानाकारतापि न विषयव्यापारः, किं तु विज्ञानस्यैव इति नातीते अर्थक्रियाकारित्वम्। जानातेश्च अनुमेयादिषु फलापेक्षया सकर्मकत्वं, न कर्मकारकापेक्षेयेति; सकर्मकत्वे च प्रत्यक्षवदपरोक्षतापि स्यादिति।।

                अर्थमुपववर्ण्येदानी"मस्मत्प्रत्ययविषयत्वा"दिति भाष्यं योजयति--तदेवमहंकारग्रन्थिरिति।। ननु "शारीरः" "क्षेत्रज्ञः" इत्यादिबहुविधोपाधिसंसृष्टमात्मानं वर्णयति श्रुतिः। तत्र कथमहंकारस्यैवोपाधितेति चोदिते, अहंकारतत्संस्कारोपरक्ताज्ञानोपाधिकस्यैव आत्मनोऽवस्थात्रयेऽपि बाह्यबहुविधोपाध्यन्तरनिमित्तोऽयं व्यपदेशः इत्याह--स पुनरेवंभूतं जाग्रत्स्वप्नयोरिति।। गतागतमाचरन् इति अनेकोपाध्युपरागः उच्यते। सविकल्पके अधिष्ठाने सविकल्पाध्यास इति वदतः--"अस्मत्प्रत्ययविषयत्वादि"ति परिहार उक्तः, इदानीं निर्विकल्पकेऽपि सविकल्पाध्यासः सम्भवतीत्याह--किं च न केवलमिति।। ननु नित्यानुमेय आत्मा कथमपरोक्षतया सिद्धः इति  नेत्याह-- न ह्यात्मन्यप्रसिद्ध इति।। स्वपरयोः "मयेदं विदितमि"ति कर्तृकर्मसम्बन्धावगमशून्यत्वाविशेषात्। अनुभवनिमित्तज्ञानाश्रयत्वमन्यतरस्य विशेष इति चेत्, न--आत्मपदार्थानुभवाभावे सम्बन्धावगमायोगात्, अनुभवसम्बन्धाभावाविशेषे अन्यतराश्रयज्ञानानुमानायोगादिति भावः। अस्तु तर्हि विषयानुभवाश्रयतया सिद्धिः इति ; नेत्याह--न च संवेद्यज्ञानेनेति।।

                ननु संवित् स्वोपाधिं साधयति, न कर्मकारकमिति, न तावदाश्रय उपाधिः; विषयेऽभावात्। आश्रयविषय उपाधिरिति चेत्, किं विषयत्वं नाम संवित्प्रयुक्तव्यवहारयोग्यत्वमिति चेत्, न; आत्मापि तर्हि विषयः स्यात्। आश्रयव्यतिरिक्तत्वे सति संविद्व्यावर्तकत्वमिति चेत्, चक्षुषोऽपि प्रसङ्गः। नचाश्रयव्यतिरिक्तत्वे सति तत्प्रयुक्तव्यवहारयोग्यो विषयः; संवित्तदाश्रयसम्बन्धस्यापि विषयत्वप्रसङ्गात्। न च सम्बन्धो नास्ति इति तव वक्तुम्।  तस्मात् संप्रयुक्तादिवस्त्वेव अवभास्यते इति। अस्तु तर्ह्यात्मविषयज्ञानान्तरादिति, नेत्याह--न च ज्ञानान्तरेणेति।। कुतः तच्च ज्ञानान्तरं विषयानुभवसमकालं वा भिन्नकालं वा  विभिन्नकालत्वे दूषणमाह--भिन्नकालत्वे इति।। एककालत्वमिति चेत्, तत्राह--न ह्येककालमिति।। निरवयवस्य

युगपदेकदेशे वा भिन्नदेशे वा परिणामद्वयायोगादित्यर्थः। एकस्य युगपत् सामस्त्येन परिस्पन्दद्वयमनुपपन्नम्, परिणामस्तु सम्भवतीत्याह--मा भूदिति।। परिणामद्वयमपि कात्र्स्न्येन युगपन्न सम्भवतीत्याह--मैवमिति।।  यौवनस्थाविरयोः कृत्स्नशरीरवर्तत्वादिति। न च भागेन परिणामः, निरवयवत्वादिति भावः। तस्मादिति परिशेषात् स्वयंप्रकाशतया अपरोक्षत्वोपसंहारः।

                अध्यस्यमानेनैकेन्द्रियग्राह्यत्वमधिष्ठानस्य वक्तव्यं, नापरोक्षतामात्रेण कृत्यमित्याशङ्ख्य आकाशदृष्टान्तः इति भाष्यतात्पर्यमाह--ननु न क्वचिदिति।। अत्र शब्दस्य बाह्यैकेन्द्रियग्राह्यत्वात् गन्धवत् द्रव्यव्यतिरेकेण उपलब्धेः संभवात् विशेषगुणत्वे वक्तव्ये स्पर्शादिगुणचतुष्टयसहवृत्तित्वाभावात् बाह्येन्द्रियग्राह्यत्वात् दिक्कालमनसां विशेषगुणशून्यत्वात् भूतचतुष्टयात्मदिगादिव्यतिरिक्तद्रव्यस्यैव विशेषगुणः शब्दः। तद्गुणश्चाकाश इति वैशेषिकादयोऽनुमिमते। बौद्धलौकायताश्च अनुपलब्धिलिङ्गकं मूर्तद्रव्याभावमात्रमाकाशमनुमिमते। प्राभाकराणां तु अस्त्येवाकाशोऽनुपलब्धिलिङ्गः, मूर्तद्रव्याभावमात्रत्वात्, भावान्तरस्यैव चाभावत्वात्। क्षपणकवार्तिककारीयास्तु चाक्षुषमाकाशमिच्छन्ति। तथा सति स्पर्शित्वमपि स्यात्। अस्त्विति चेत्, न; रूपस्पर्शवत्येव द्रव्ये चक्षुरादिप्रवृत्तिनियमात्, चक्षुःप्रसारणस्य च आकाशानुमानलिङ्गदर्शने अन्यथासिद्धत्वात्। तस्मात् 2अप्रत्यक्षेऽपि ह्याकाश इत्युक्तम्।।2 अथवेति। साक्षिवेद्यतया मनोमात्रगम्यतया वा अपरोक्ष इत्यर्थः। इन्द्रनीलमिव नीलमित्यर्थः। 2एवमविरुद्धः2 इत्यादिः स्पष्टार्थः। प्रतिपन्नोपाधौ निरस्यमानमर्थमविद्यान्वयव्यतिरेकाभ्यामविद्यां मन्यन्ते इत्यर्थः।।

                न केवलमविद्यान्वयव्यतिरेकसामर्थ्यादविद्योपादानतया अविद्यात्वं, किंतु विद्याविपरीतत्वाच्च इत्याह--तद्विवेकेनेति।। नन्वविद्यामुपवर्ण्य तस्या ज्ञाननिवर्त्यत्वप्रदर्शनेनाध्यासनिवृत्तिसिद्धेः किमध्यासोपवर्णनेनेति चोदयति--यद्येवमध्यास इति।। प्रक्रम्येति।। पुरुषाकाङ्क्षाया अनर्थनिवृत्तिविषयत्वादनर्थस्यैवाविद्यात्वेन ज्ञाननिवर्त्यत्वं वक्तव्यमिति परिहरति--नैतत् सारमिति।। अनर्थस्यैवाविद्यात्मकत्वे तदाश्रये विषये वा वस्तुतः तन्निमित्तगुणदोषाभावात् ज्ञानेन सर्वानर्थनिवृत्तिः फलिष्यति ; तत्फलवचनमुत्तरभाष्यमित्याह--तदेतदाह यत्र यदध्यास इति।। अविद्याध्यासविषयत्वप्रयुक्तस्तावत् गुणदोषाभावः सिद्धः।। अत्राध्यासपरिणामितया आश्रयत्वप्रयुक्तदोषगुणाभावः कथ्यते। कथम् अनाद्यविद्याध्यासस्य नित्यचैतन्यावभासत्वात् न तत्राध्यासपरिणामः। कादाचित्काध्यासपरिणामस्याविद्योपादानत्वादविद्यासंभेदादात्माश्रयत्वादिसिद्धिरिति। प्रतिज्ञेति सूत्रकारस्य-- ज्ञानेन बन्धनिवृत्तेरर्थात् सूत्रणमुच्यते।।

                वृत्तसंकीर्तनपूर्वकमुत्तरभाष्यस्य तात्पर्यमाह--एवं तावद्युष्मदस्मदित्यादिनेति।। अत्र च प्रमातृप्रमाणप्रमेयकर्तृकर्मकार्यभोक्तृभोगभोग्यत्वलक्षणस्य व्यवहारत्रयस्य शरीरेन्द्रियादिष्वहंममाध्यासपुरस्सरत्वं प्रत्यक्षमिति प्रत्यक्षोपन्यासः कृतः। ननु "विधिप्रतिषेधपराणि शास्त्राणी"त्येव वक्तव्यं, तन्निष्ठत्वात् सकलशास्त्रस्य; किमिदं मोक्षपराणीति तत्राह--मोक्षपरत्वं चेति।। "कथं पुनरि"त्यादिभाष्यस्याध्यासोपादानं व्यवहारत्रितयमित्यत्र प्रमाणान्तरप्रश्नविषयत्वं दर्शयति--बाढमुक्तलक्षणा अविद्येत्यादिना।। "कथं पुनरि"त्याक्षेपार्थं दर्शयति--प्रमातारमाश्रयन्तीति।। अविद्याध्यासपरिनिष्पन्नाहंकारात्मसंपिण्डितोपादानत्वे प्रमाणानां प्रामाण्यमेव न सिद्ध्यतीत्यस्मिन्नर्थे भाष्यं योजयति--अथवा कथमविद्यावद्विषयाणीति।। अविद्यावदुपादानत्वे का प्रामाण्यानुपपत्तिरिति तदाह--अविद्यावद्विषयत्वे इति।। "उच्यते--देहेन्द्रियादि"ष्वित्यादिपरिहारभाष्यं अवतारयति--वस्तुसंग्रहवाक्यम्, अस्यैव प्रपञ्च इति।। व्यवहारत्रितयमध्यासोपादानमित्यत्रार्थापत्तिव्यतिरेक्यनुमानप्रदर्शनाय। यत्र यत्राध्यासाभावः संपतिपन्नस्तत्र व्यवहाराभावो दृष्टः इति व्यतिरेकव्याप्तिभाष्यार्थं दर्शयति--न हि देहेन्द्रियादिष्विति।। देहादिशब्दार्थं विभागेनाध्यासं च कथयति--यतो देहेऽहमभिमान इत्यादिना।। प्रमणान्तरप्रदर्शनाय व्यवहारत्रयमूलाध्यासे प्रत्यक्षमुक्तमनुवदति--सर्वो हि मनुष्योऽहमिति।। अत्रायं प्रयोगः--देवदत्तस्य जाग्रत्स्वप्नकालौ, तस्यैव कर्तुः करणभूतदेहेन्द्रियादिष्वहंममाध्यासपुरस्सरप्रमातृत्वादिव्वयहारवन्तौ, तस्यैव सुषुप्तिकालादन्यकालत्वात्, यः कालस्तथाविधव्यवहारवान् न भवति, न स तस्यैव सुषुप्तिकालादन्यकालः, यथा तस्यैव सुषुप्तिकालः इति।

व्यवहारत्रितयं वा दर्शिताध्यासोपादानमन्तरेणानुपपन्नं; अध्यासाभावे व्यवहारादर्शनात् सुषुप्ते, इत्यर्थापत्तिः।।

                ननु कर्तृकरणयोः संबन्धमात्रं व्यवहारे अपेक्ष्यते, न तादात्म्यसंबन्धः, इति तत्र परिशेषानुमानार्थापत्तिद्वये संबन्धान्तराणि व्यावर्तयन् न तावत्स्वस्वामिसंबन्धः इत्याह--न स्वत्वेन संबन्धिनेति।। सुषुप्तेऽपि तस्य भावात् इत्यभ्युच्चयः। इच्छानुविधायित्वमेव व्यवहारनिमित्तं; तदभावात् सुषुप्ते व्यवहारविपर्ययः, इति चोदयति--अपर-आह-आत्मेच्छानुविधायित्वमिति।। अस्त्विच्छामात्रेण विनियोज्यविनियोजकसंबन्धः, ततः किमिति तत्राह--तत आत्मन इति।। नन्वेतत्संबन्धमूलो व्यवहार इति किमत्र प्रमाणमिति  अत आह--तथाचोत्तिष्ठामीति।। ननु भृत्यादयोऽपि तदिच्छानुविधायिनः, तच्छरीरेणापि व्यवहारः स्यादिति ; नेत्याह--न च भृत्यादिषु तदस्तीति।। उच्यते--यदीच्छानुविधानयोग्यतामात्रं संबन्धः, सुषुप्तेऽपि तदस्तीति तत्रापि व्यवहारः स्यात्। अथेच्छया अनुविधीयमानत्वं संबन्धः, अत्यातुरे तदभावात् प्रमातृत्वादिव्यवहारो न स्यात्। अथ दृश्यते अयं संबन्धो व्यवहारमूलमिति, नेत्याह--नैतत् संविदि बहुमानवतो युक्तमिति।। न च गौणत्वम्, मुख्यानुभवविरोधादित्याह--गौणीत्यादिना।। इच्छाप्यध्यासमूलैवेत्याह--अपि चेच्छाऽपि परिणामविशेष इति।। अन्तःकरणाध्यासमूलैवेच्छेत्याह--अपि चेच्छाऽपि परिणामविशेष इति।। अन्तःकरणाध्यासमूलैवेत्यत्र प्रत्यक्षमाह--तथा चानुभव इति।। नचात्मानात्मनोः संयोगसमवायौ व्यवहारनिमित्तम्; सुषुप्तेऽपि भावात्; भोक्तृभोग्यान्वयस्वकर्मारभ्यत्वस्वेन्द्रियाधिष्ठेयत्वादीनां भोगाद्यध्यासापेक्षत्वात्, भृत्यादिशरीरे च भावात्। अव्यवधानेन भोग्यत्वं मूलसंबन्ध इति चेत् यदि भोगयोग्यता संबन्धः, सुषुप्तेऽप्यस्ति; यद्यव्यवधानेन भुज्यमानत्वं संबन्धः, तन्न; आत्मनः सर्वशरीरदेशकालाव्यवधाने सत्यत्रैव भोगान्वयस्य मूलसंबन्धान्वेषणात्। तस्मात् यत्किंचिदेतत् संबन्धान्तरम्। अतः परिशेषादर्थापत्त्यनुमानाभ्यामध्यास एव व्यवहारमूलं सिद्ध इत्युपसंहरति--अतः स्वयमसङ्गस्यापीति।।

                ननु सर्वशरीरसंनिधानाविशेषे सति आत्मनः कथमस्मिन्नेव शरीरे अध्यासनियम इति  अनादिस्तावदविद्याध्यासः। तत्परिणामत्वाल्लिङ्गशरीरे, तत्कार्यभूतसूक्ष्मशरीरारब्धत्वात् तत्संश्लेषाद्वा स्थूलशरीरे अध्यासनियमो न विरुध्यते। ननु प्रमातैव व्यवहाराश्रयो नाध्यासः इति, न; प्रमातृत्वमेवाध्यासपरिनिष्पन्नमित्याह--तेन यद्यपीति।। यत्तु अध्यासपरिनिष्पन्नाहंकारात्मसंपिण्डितोपादानत्वे कारणदोषादप्रामाण्यं प्रमाणानामिति, तत्र यदि प्रतिपन्नोपाधौ केनापि प्रमाणेनाबाध्यत्वलक्षणतत्त्वावेदनप्रामाण्यहानिरुच्यते, तदङ्गीकृतमेव। अथागमेन परमार्थसत्यत्वांशे बाध्यमाने व्यवहारसमर्थवस्त्वङ्गताप्रामाण्यहानिरुच्यते, न--तत्र बाधाभावादित्याह--तथा निरपेक्षाणामिति।। विधिमुखोपदर्शितमिति। व्यवहाराङ्गतायां प्रत्यक्षेण अध्यासमूलतायां प्रत्यक्षानुमानार्थापत्तिभिः प्रदर्शितमुभयमित्यर्थः। अर्थक्रियासमर्थत्वाच्च। शब्दादिप्रत्यक्षामविद्यानिवृत्तिब्रह्मावगतिलक्षणार्थक्रियाहेतुत्वं मिथ्यात्वेऽपि शब्दादीनां न विरुध्यते।।

                नन्वर्थक्रियासंवादात् प्रामाण्यप्रसङ्गः, न--ज्ञानादेवार्थतथात्ववदर्थावगमादेवार्थक्रियासामर्थ्यनिश्चयात्, अन्यथा तवापि तथात्वज्ञानात् प्रामाण्यप्रसङ्गः। ननु ब्रह्मज्ञानस्याप्यध्यासोपादानत्वात् मिथ्यात्वमापन्नम् यदि तावत् स्वरूपमिथ्यात्वमुच्यते, अङ्गीकृतमेव तत्; अथ विषयमिथ्यात्वं, न ब्रह्मणि; बाधाभावात्। प्रपञ्चस्यापि बाधादेव मिथ्यात्वं; नाध्यासोपादानज्ञानगम्यत्वात्। ननु दुष्टकारणजन्यस्य विषयतोऽपि मिथ्यात्वं दृष्टमिति,  नेत्याह--दोषस्त्वागन्तुक इति। प्रमाणकारणेषु सत्सु पश्चाद्भवन् दोषो दोष इत्युच्यते, स आगन्तुक इत्युक्तः। प्रमाणकारणत्वेनैव यो दोषो व्यवतिष्ठते, स न दोषः; कारणत्वात्; अविद्याध्यासस्तु चैतन्यस्याद्वितीयावभासं प्रत्येव दोषः, न द्वैतावभासं प्रति, तस्य कारणत्वात्, यथा काचादिः चक्षुरादिदोषः तथाविधपापदृष्टोदयमनुमापयन् तत्र प्रमाणत्वात् न दोषः, तद्वदित्यर्थः। चैतन्यदोषत्वादेव तत्प्रकाश्याव्यवहार्यब्रह्मविपरीतं व्यवहारयोग्यं वस्तु प्रदर्शयति। दोषत्वं चाविद्यायाः चैतन्यस्य तथाऽवभासविरोधितया अन्यथाप्रतिभासनिमित्तत्वात्। कथमागन्तुके दोषबुद्धिः न नैसर्गिके इत्येतावन्मात्रे दृष्टान्तमाह--न च सर्वसाधारणे इति।। ननु भाष्यकारेण दोषमात्रमेव विषयतोऽपि ज्ञानमिथ्यात्वे

हेतुरुक्त इति; नेत्याह--अनैसर्गिकं च दोषमिति।।

                ननु अविवेकिव्यवहारोऽध्यासमूलो भविष्यति, न विवेकिव्यवहार इति; नेत्याह--इतश्चैतदेवं पश्वादिभिश्चेति। पश्वादिदृष्टान्तेऽध्यासमूलतां व्यवहारस्य दर्शयति--तथा च पश्वादय इति।। अध्यासानुमाने हेतुभूतव्यवहारस्य विवेकिष्वपि पक्षधर्मतामाह--तदेकरूपयोगक्षेमा इति।। तत्र हेतुदर्शनात् हेतुमन्तमध्यासमनुमिमीते--अतस्तदेकरूपकार्यदर्शनादिति।। पश्वादिदृष्टान्तेऽप्यध्याससद्भावे प्रमाणं चोदयति--ननु पश्वादीनामिति।। पदार्थद्वयदर्शने सति प्रत्यक्षानुमानागमैः भेदाप्रतिपत्तौ अध्यासः परिशिष्यते इत्याह--प्रौढमतिभ्य इति।। स्वाभाविकप्रत्यक्षेण विवेकदर्शने दोषमाह--एवमेवेति।। नन्वनुमानागमविचारहीनानामप्यदृष्टार्थं व्यवहारदर्शनात् प्रत्यक्षेणैव विवेको गृह्यते इति चोदयति--ननु गोपालाङ्गनादय इति।। न प्रत्यक्षेण विवेकग्रहः, किन्त्वाप्तवचनादित्याह--न तदभिज्ञव्यवहारेति।। प्रत्यक्षश्चेद्विवेको विशेषतः प्रत्यगात्मानं प्रतिपद्येरन्नित्याह--तथा च ते पृष्टा इति।। अतो निगमनवाक्यमुपपन्नमित्याह--तस्माद्युक्तमुक्तमिति।। तस्य व्यवहारस्य काल एव कालो यस्याध्यासस्य सोऽध्यासस्तत्कालः, स च पश्वादिभिर्विवेकिनामपि समान इति।।

                एवं तावत् प्रत्यक्षादीनि त्युक्तानुवादः। "न तेनानध्यस्तात्मभावेने"ति भाष्यं पूर्वं न व्याख्यातं, तदनुवादग्रन्थे व्याचष्टे।। तत्रेयमाशङ्का--भवत्वध्यासस्य व्यवहारनिमित्तता, तथापि रजता दिवन्निमित्तकारणमेवाध्यासो व्यवहारस्य, आत्मैव केवलस्तु उपादानमिति, तत्राह--न तेनानध्यस्तात्मभावेनासङ्गस्येति।। अयमर्थः--रजताद्यध्यासानां व्यवहाराश्रयकोटिनिक्षिप्तत्वाभावात् तदन्तरेण चात्मनि प्रमातृत्वादिव्यवहारदर्शनात् निमित्तकारणतैव युक्ता, इह तु पुनराश्रयकोटिनिक्षिप्तत्वात् केवलात्मनि सुषुप्ते व्यवहारादर्शनात् उपादानकारणस्याभ्यर्हितत्वात् अन्वयव्यतिरेकवतोऽध्यासस्योपादानकारणत्वमेव व्यवहारं प्रति कल्पयितुं युक्तमिति। "शास्त्रं पुनः" इत्युत्तरभाष्यस्याशङ्का। तस्यापीति तात्पर्याभिधानम्। शास्त्रीये त्विति अदृष्टार्थप्रवृत्तौ व्यतिरेकज्ञानमभ्यनुजानाति। अभ्यनुज्ञामाक्षिपति--ननु फलनैयमिकेति।। फलचोदनाय तावत् पश्वादीनामस्मिन्नेव जन्मनि लब्धुं शक्यत्वात्, तज्जन्यसुखस्य च स्वर्गस्य पश्वादिचोदनाफलत्वाभावात् ज्योतिष्टोमादि  फलत्वोपपत्तेः निरतिशयप्रीतेरप्यत्रैव सम्भवात् न देहान्तरसम्बन्धिनमात्मानमापादयति, नैयमिकनैमित्तिकचोदना तु सुतराम्; फलशून्यत्वात्। फलवत्त्वे वा दृष्टेनैवोपभोक्तुं शक्यत्वात्। प्रायश्चित्तस्य तु दोषनिबर्हणफलत्वात्, दोषफलस्यास्मिञ्जन्मनि भोक्तुं शक्यत्वात्, जन्मान्तरस्य चैतादृशत्वात्, फलादर्शने च कारीर्यादिवदङ्गवैकल्यप्रतिबद्ध सहकार्याभावकल्पनोपपत्तेः, मन्त्रौषधादिसिद्धेनानेनापि शरीरेण स्वर्गादिभोगसम्भवात् न देहव्यतिरेकज्ञानोपयोग इति। तत्र देवताधिकरणनयेन मन्त्रादिप्रामाण्याद्विशिष्टदेशकालशरीरादिभोग्यं स्वर्गादिफलमङ्गीकृत्येदमुक्तमिति परिहरति--सत्यमेवं तथापीति।।

                ननु मन्त्रादिसमन्वयप्रामाण्यमनपेक्ष्यैव चोदनाभिरेव व्यतिरिक्तात्मा अपेक्ष्यते, कर्ममात्रनिर्णयप्रवृत्तेन भाष्यकारेणात्मनो निरूपितत्वादिति, तत्राह--तथा च विधिवृत्तेति।। विधिभिरेवापेक्षितश्चेत्, सूत्रेणापि भवितव्यमित्यर्थः। ननु अनपेक्षितस्यासूत्रितस्य च भाष्यकारेण प्रतिपादनमयुक्तमित्याक्षिपति--तत् कस्य हेतोरिति।। "तत् प्रमाणं बादरायणस्यानपेक्षत्वात्" इति सूत्रावयवेन मन्त्रादिप्रामाण्यद्वारेण परम्परया सूत्रित एवत्मेति परिहरति--धर्मजिज्ञासेति कार्यार्थविचारं प्रतिज्ञायेति।। एवं सूत्रार्थं परम्परया भूतेऽप्यर्थे प्रामाण्यमाश्रित्य भाष्यकारेणात्मविचारः कृतः, न चोदनासामर्थ्यमाश्रित्येति कथमवगम्यते इति तत्राह--तथा चोदना हि भूतमिति।। तर्हि चोदनापेक्षितत्वात् समन्वयोऽप्यत्रैव वर्णनीय इति,  नेत्याह--स च स्वरूपावगम इति।। ननु धर्मे प्रयतमाने नाप्यपेक्षितत्वात् कर्तव्य एवात्मविचार इति, नेत्याह--उपयोगाभावादिति।। न हि धर्ममात्रं व्यतिरिक्तात्मानमपेक्षते, किन्तु फलमपेक्षते, फले च न प्रयतते जैमिनिरित्यर्थः। ननु फलमप्यपेक्षते चेत्, तत्रापि प्रयत्नो युक्त इति, न;--अन्यथासिद्धत्वादित्याह--भगवांस्तु पुनरिति।। ननु ब्रह्मैव तत्र विचारितम्, न चोदनाफलमिति, तत्राह--तत्र च देहान्तरोपभोग्य इति।। तच्च सर्वमिति

स्पष्टार्थः।।

                ननु समन्वयसामर्थ्यादेव व्यतिरिक्तात्मसिद्धेरात्मविचारः पिष्टपेषणमिति, नेत्याह--तत्सिद्धिश्चेति।। ननु प्रमाणान्तरयोग्यस्य तदभावविरोधयोः शब्दस्याप्रामाण्यात् न आत्मसिद्धिरिति, तत्राह--अतः तत्सिद्धौ पराक्रान्तवांस्तेनेति।। विरोधपरिहारफलेन विचारेणेत्यर्थः। "सत्यम् विनापि तेन सिध्येदि"त्यादिनोक्तमर्थं संक्षेपतो दर्शयति--अस्ति तु तदिति।। भूतेऽर्थे प्रामाण्यम्; स्वर्गादावित्यर्थः। न तेन विनेति। व्यतिरिक्तात्मना विनेत्यर्थः। ननु सूत्रकारभाष्यकाराभ्यां देवताधिकरणे मुखत एव देवतादिषु मन्त्रादिप्रामाण्यं नास्तीत्युक्तम्, तत् कथं सूत्रावयवसामर्थ्यात् प्रामाण्यमनुमतमिति मन्यन्ते, नैष दोषः; तत्र देवताया विग्रहवत्त्वे सन्निपत्योपकारकत्वप्रसङ्गात् योग्यानुपलब्धिविरोधात्, कर्मणि विरोधप्रसङ्गाभिप्रायेणोक्तत्वात्, नाप्रामाण्याभिप्रायेण, अर्थवादलिङ्गानामपि तत्र तत्र द्वादशलक्षण्यां प्रमाणत्वेनोदाह्रियमाणत्वादिति। 2तथापि न वेदान्तवेद्यम् इत्यादि2भाष्यव्याख्यानं स्पष्टार्थम्।तत्र "2अशनायाद्यतीतं2" इत्यादिना कर्त्रन्वयाधिकारान्वयभोक्त्रन्वयाः क्रमेण निरस्यन्ते। प्राक् चेत्यादिभाष्यव्याख्यानं--"तत्त्वमसी"तिवाक्यार्थावगमात् इत्यादि।।

                कथं पुनर्व्यतिरेकज्ञानेनाध्यासस्य सहवृत्तिः परोक्षापरोक्षविभागात् चन्द्रद्वित्वज्ञानवदविरोध इति केचित्। सूक्ष्मशरीरस्य आत्माविद्याकार्यत्वात् कार्यकारणयोः भेदाभेदभावात् स्थूलशरीरस्य अग्न्ययःपिण्डवत् सूक्ष्मशरीरेण संश्लेषात् भेदज्ञानेऽप्यध्यासः इत्यपरे। सर्वथापि यावदपरोक्षज्ञानमध्यासो न निवर्तते इति भावः। तस्मात् इत्यध्यासप्रमाणोपसंहारः। न च केवलं प्रत्यक्षानुमानार्थापत्तिभिरेव अध्याससिद्धिः, किं तु आगमोऽपि विधेः बोद्धारमधिकारिणं ब्राह्मणादिशब्दैरनुवदन् चेतनाचेतनयोरैक्यावभासं दर्शयतीत्याह--तदेव दर्शयति तथा हीति।। यो ज्योगामयावी=उज्ज्वलामयवानित्यर्थः।। वृत्तसङ्कीर्तनपूर्वकमध्यासो नामेति लक्षणभाष्यमवतारयति--एवमध्याससद्भावं प्रसाध्येत्यादिना।। किमिति पुनरत्रोक्तलक्षणानुवादः इति तदाह--कस्य युष्मदर्थस्येति।। भाष्यं योजयति--कस्मिन्नयुष्मदर्थ इत्यादिना।। "आत्मानात्मनोरितरेतराध्यासं पुरस्कृत्ये" इत्यादिना प्रत्यक्षतो दर्शितस्याध्यासस्य विभज्य प्रदर्शनायोत्तरं भाष्यमित्याह--तदाह तद्यथा पुत्रभार्यादिष्वित्यादि।। तथा अन्तःकरणधर्मा नित्यतः प्राक्तनो ग्रन्थः स्पष्टार्थः। अत्रोत्तरोत्तराध्यासविशिष्टे पूर्वपूर्वाध्यासः इति कथयितुमात्मन्यध्यस्यतीत्यात्मशब्दार्थमाह--अस्मदर्थश्च अहम्प्रत्ययिसम्भिन्न इति।। ननु शरीरमप्यध्यस्यते, न धर्मा एवेत्यत आह--धर्मिणोऽपीति।। ग्रहणमित्यध्याहारः। धर्मशूब्दस्तर्हि किमिति गृहीतः इत्यत आह--धर्मशब्दस्त्विति।। शास्त्रीयव्यवहारमूलत्वेन प्राधान्याच्च धर्माध्यासस्य प्राधान्येन ग्रहणमित्याह--तन्निमित्तश्चेति।।

                ननु अन्तःकरणधर्माः कामादयो दण्ड्यादिवत् सम्बन्धितया अवगमात् नाध्यासमर्हन्तीति नेत्याह--तथा अन्तःकरणधर्मान् कामादीनिति।। तथा हि--सत्यन्तःकरणे भावादसति च सुषुप्ते तेषाभावात् अन्तःकरणधर्माः कामादयः सम्बन्धितया अध्यस्यन्ते, न तादात्म्येन इति भावः। ननु आत्मसमवायिनामेव कामादीनामन्तःकरणस्य च अन्वयव्यतिरेकौ करणविषयतया अन्यथासिद्धौ, न; कार्यस्य कारणपरतन्त्रतानियमात्, करणनियमाभावात् करणकल्पनात् उपादानकल्पनस्य अभ्यर्हितत्वात्, चक्षुरादिकरणान्तरभावाच्च।।

                ननु "अहं कामी"त्यादिप्रत्यक्षप्रत्ययादात्माप्युपादानान्तरमस्तीति चेत्, न; दण्ड्यादिवत् सम्बन्धिप्रत्ययात्, उपादानत्वे तादात्म्या:"दहं काम" इति स्यात्। तस्मात् न्यायसहकृतान्वयव्यतिरेकौ अन्तःकरणस्यैव कामाद्युपादानत्वं कल्पयत इति भावः। अन्तःकरणमित्यहम्प्रत्ययिनः इत्यादिः स्पष्टार्थः।। "अशेषस्वप्रचारसाक्षिणि" "प्रत्यगात्मनि" इति पदद्वयं व्याचष्टे--स्वशब्देनाहङ्कारग्रन्थिरित्यादिना।। साक्षिशब्दार्थमाह--असङ्गितया अविकारित्वेनेत्यादिना।। कथं पुनः सर्वान्तरस्य आत्मनः प्रत्यगञ्चनम् इति; देहादिषु विप्रसृतचैतन्यस्य चित्तसमाधानविषये अन्तरनुप्रवेशभ्रमापेक्षयेत्याह--स एव देहादिष्विदन्तयेति।।

                ननु न साक्षिवेद्यमन्तःकरणम्, किंतु आत्मेन्द्रियाविषयेषु समवहितेषु ज्ञानोत्पादक्रमसामर्थ्यगम्यमिति, न; अन्यथासिद्धत्वात्; आत्मन एव क्रमज्ञानजननसामर्थ्यकल्पनया अन्यथासिद्धः क्रमज्ञानोत्पादः। द्रव्यान्तरतत्क्रमसामर्थ्यकल्पनागौरवाच्च वरं प्रसिद्धस्यैव आत्मनः क्रमसामर्थ्यकल्पनालाघवम्। ननु नार्थापत्त्या मनः कल्पयामि, येन अन्यथासिद्धिः स्यात्, किं त्वनुमानेन। तथा हि--आत्मनः सर्वविषयसन्निधाने क्रमकार्योत्पादः, कर्तुः क्रमकारिसाधारणकरणापेक्षः, सन्निहितबहुविषयस्य कर्तुः क्रमकार्योत्पादत्वात्, सन्निहितबहुच्छेद्यस्य देवदत्तस्य कुठारसापेक्षक्रमच्छेदनवदिति--इति नैतत् सारम्--मनसः प्रतीन्द्रियसंयोगव्यापारे क्रमवर्तिनि साधारणकारणान्तरशून्ये अनैकान्तिकत्वात्, फलस्य च वृक्षात् पततः क्रमवर्तिनि आकाशसंयोगे कुठारादिव्यापारे चानैकान्तिकत्वात् इन्द्रियाणां प्रतिविषयसंयोगव्यापारे चानैकान्तिकत्वाच्च।

                अथ मतम्--विशेषगुणजन्म, स्वाश्रये द्रव्यान्तरसंयोगलक्षणासमवायिकारणापेक्षम्, नित्यद्रव्यविशेषगुणजन्मत्वात् अग्निसंयोगजन्यपरमाणुगतपाकजलौहित्यवदित्यनुमानम्, यत्तत् द्रव्यान्तरं, तत् मन इति, नैतत्; शरीरेन्द्रियसंयोगस्य सिद्धत्वात् द्रव्यान्तरसंयोगे अनुमानायोगात् स्वप्नस्मृत्यादिज्ञानेष्वपि शरीरादिसंयोगानपायात् द्रव्यान्तरसंयोगकल्पनानुपपत्तेः। तस्मात् नानुमानार्थापत्ती मनसि प्रमाणम्। आगमाच्च प्रागेव मनः सिद्धम्। न च ऐन्द्रियकत्वम्; अणुपरिमाणे परमाणुवदयोग्यत्वात्, अनन्तपरिमाणे मनसि युगपत् संयोगाद्युगपज्ज्ञानजन्मप्रसङ्गात्, मध्यमपरिमाणे च मनसि स्वप्नावस्थायामिन्द्रियाभावेऽपि मनोदर्शनात् "मम मनोऽन्यत्र गतम्" इत्यनुभवाच्च साक्षिवेद्यमेव मन इति।।

                तं च प्रत्यगात्मानमित्यात्मनः अन्तःकरणादिष्वध्यासो दर्शितः, तदयुक्तम्; इतरेतराध्यासे द्वयोरध्यस्यमानत्वात् मिथ्यात्वापातात्, द्वयोरप्यधिष्ठानत्वे द्वयोर्विशेषावभासो न स्यादिति, तत्राह--यदि युष्मदर्थस्यैवेति।। अयमर्थः--एकतराध्यासे अन्यतरस्य सामान्यावभासः अन्यतरस्यैव विशेषावभासश्च स्यात्। अत्र चिज्जडरूपेण द्वयोः विशेषावभासो द्वयोरितरेतराध्यासं गमयति; अध्यासो विशेषावभासस्याध्यस्यमानताप्रयुक्तत्वात्। न च द्वयोरपि मिथ्यात्वापातः; चेतनस्याचेतने स्वरूपाध्यासाभावात् संसृष्टतयैवाध्यासात्। न च विशेषावभासादधिष्ठानत्वविरोधः; अधिष्ठानधर्मतया विशेषस्य अप्रतीतेः, अधिष्ठानान्तरधर्मतया प्रतीतेरिति। ग्रन्थस्तु स्पष्टार्थः। ननु द्वयोः सामान्यविशेषात्मना अवभासमानयोः नाध्यासः सम्भवति, सामानाधिकरण्यमस्ति चेत्, गौणमिति, नेत्याह--नात्र विवदितव्यमिति।। ननु विशेषावभासे अध्यासविरोधः उक्तः, नेत्याह--न हि दृष्टे अनुपपन्नमिति।। तद्विपर्ययेण अन्तःकरणादिष्वित्यादिशब्दो विरुद्ध इत्याह--नन्वन्तःकरण एव प्रत्यगात्मन इति।। अन्तःकरणविशिष्टस्यैव बहिरध्यास इति कुतः इति तत्राह--अत एव तद्विपर्ययेणेति।। ननु तस्मिन् भाष्ये विशिष्टस्यैवाध्यासः कथमुक्तः इति। धर्मग्रहणसामर्थ्यादित्याह--अन्यथा चैतन्यमात्रैकरसस्येति।। यद्यपि चैतन्यस्य विषये अध्यासे अन्तःकरणमुपाधिः, तथापि चैतन्यमेव विषयावच्छिन्नं प्रकाशः, तेनान्तःकरणमिति प्रतिभासाभिप्रायेणोक्तमित्याह--सत्यमाह भवानिति।। तस्यैव विषयस्य आत्मानं प्रति कार्यकरत्वमापद्येत्यर्थः। ननु बहिरप्यहङ्कारस्य चैतन्यवत् सम्बन्धोऽवभासते "अहं मनुष्यः" इत्यादौ इत्यत आह--अत एव बुद्ध्यादिष्विति।। चिन्मात्रस्यावगमादेव सर्वपदार्थेष्वात्मत्वविभ्रम इत्यर्थः; अन्यथा अहङ्कारस्य चैतन्याव्यतिरेकात् स एव आत्मेति प्रतिपत्तिः स्यादिति। ननु उपन्यासकाले "नैसर्गिकोऽयं लोकव्यवहारः" इत्यारभ्य "कर्तृत्वभोक्तृत्वप्रवर्तनः" इत्यतः प्राक्तनो ग्रन्थः स्पष्टार्थः। अत्र साङ्ख्यव्यतिरिक्ताः सर्वे वादिनः स्वत एव कर्तृत्वभोक्तृत्वशक्तिमतः प्रवृत्तिमात्रनिमित्तमध्यास इति वदन्ति, तान्निराकरोति--तेन कर्तृभोक्तृश्चेति।। सर्वलोकप्रत्यक्षः इत्यादिः स्पष्टार्थः। अस्यानर्थहेतोरिति भाष्यस्य वृत्तसङ्कीर्तनपूर्वकं तात्पर्यमाह--एवं तावत् सूत्रेणार्थादुपात्तयोरिति।।

                ननु अनर्थस्य ग्रहाणायेति वक्तव्यं, न हेतोः प्रहाणायेति, अत आह--हेतोः प्रहाण्या हीति।। प्रयोजनभाष्यमाक्षिपति--ननु अनर्थहेतुरध्यासोऽनादिरिति।। ननु शास्त्रप्रामाण्यान्निवर्ततामिति, न; प्रत्यक्षविरोधादित्याह--तथा हि मनुष्यत्वादीति।। न हि सादित्वमनादित्वं वा विनाशाविनाशयोः निमित्तम्, किन्तु विरोधिसन्निपाता सन्निपाता इति परिहरति--नायं दोष इति।। लोके तावदनादिः प्रागभावो निवर्तते;

सुगतानां तत्त्वपरिभावनाप्रकर्षेण अनादिवासनासन्तानानां निवृत्तिरिष्टा; नैयायिकादीनामप्यनादिः मिथ्याज्ञानप्रवाहः परमाणुश्यामता च निवर्तते; साङ्ख्यानामप्यविवेकोऽनादिः निवर्तते विवेकेन; मीमांसकादीनामिदानींतनधर्मतत्त्वज्ञानाप्रागभावोऽनादिनिवर्तते। अनादिभावरूपं आत्मवत् न निवर्तते इति चेत्, न; अनिर्वचनीयत्वादज्ञानस्य। अनादिर्न निवर्तत इति सामान्यव्याप्तिः, ज्ञानेनाज्ञाननिवृत्तिरिति तु विशेषव्याप्तिः; अतः सैव बलवती।। ननु स्वोपादानगतोत्तरावस्था विनाशः, तत्र कथमनादेः निरुपादानस्य विनाशः  न; स्वाश्रयगतोत्तरावस्थेत्येतावत्त्वात्; अन्यथा अणुश्यामत्वादीनामनिवृत्तिप्रसङ्गात्। अभाववैलक्षण्यादात्मवदज्ञानस्य अनिवृत्तिः इति चेत्, न; सद्वैलक्षण्यात् प्रागभाववन्निवृत्तिः किं न स्यात् कस्तर्हि निर्णयः ज्ञानाज्ञानकृतो विशेषान्वय इत्युक्तम्।।

                यत्तु व्यतिरेकज्ञानेऽप्यध्यासो न निवर्तते इति; तत्राह--तत्त्वमसीत्यादिवाक्यादिति। ननु व्यतिरेकब्रह्मात्मज्ञानयोरध्यासनिवृत्तौ को विशेषः इति तत्राह--तद्धि ब्रह्मणोऽवच्छिद्येति।। न च व्यतिरेकानवबोधनिमित्तः संसारः, किं तु ब्रह्मानवबोधनिमित्तः इति श्रुतितदर्थापत्तिभ्यां दर्शितम्। अतः तत्त्वज्ञानान्निवर्तते इति भावः। ननु ज्ञानमज्ञानस्यैव निवर्तकम्, कथमध्यासस्य निवृत्तिः इति; तत्राह--ततः कारणनिवृत्ताविति।। ननु अहम्प्रत्ययोऽप्यर्थतस्तथाभूतब्रह्मविषय एव, स किमित्यज्ञानं न निवर्तयति इति। ब्रह्मात्मतानवभासकत्वादित्याह--अहंप्रत्ययः पुनरिति।। ननु विचारात् विवेकज्ञानान्तरमुत्पन्नं नियर्तयेदिति न; अप्रमाणज्ञानत्वादित्याह--नापि ज्ञानान्तरमिति।।

                ननु नानर्थनिवृत्तिः शास्त्रस्य प्रयोजनम्, किं तु निरतिशयब्रह्मानन्दावाप्तिरिति पुनः प्रयोजनभाष्यमाक्षिपति--ननु निरतिशयानन्दं ब्रह्म श्रूयत इति।। यथा शास्त्रजन्यब्रह्मविद्याफलमानन्दावाप्तिः तथा अनर्थनिवृत्तिरपि श्रुता, तत्र कथं प्रयोजनाक्षेपः इत्याह--ननु चानर्थस्यापीति।। तर्हि कृत्स्नस्य फलस्य संकीर्तनं कर्तव्यं, न फलांशस्येति चोदयति--उभयं तर्हीति।। न; प्रयोजनत्वेन वक्तव्या आनन्दावाप्तिः, विषयत्वनिर्देशसामर्थ्यादेव पुरुषाकाङ्क्षया प्रयोजनत्वसिद्धेः श्रुत्यर्थाभ्यां प्रयोजनसम्पूर्णतासिद्धिर्विषयनिर्देश लाभश्चेति युक्तोऽयं व्यपदेशः इत्याह--न वक्तव्यमित्यादिना।। ननु ब्रह्मात्मतैव विषयो भवतु आनन्दावाप्तिस्तु पृथक् प्रयोजनत्वेन निर्दिश्यतामिति; नेत्याह--न च सा विषयाद्बहिरिति।। ब्रह्मात्मतैव आनन्दप्राप्तिरित्यर्थः। ननु अनर्थनिवृत्तेरपि फलवचनविषयत्वात् साऽपि शास्त्रविषय इति, नेत्याह--समूलानर्थहानिरिति।। ब्रह्मात्मैकत्वमेव शास्त्रविषयः, फलं त्वर्थसिद्धमिति भावः। तर्हि ब्रह्मात्मैकत्वशास्त्रविषय एव अनर्थनिवृत्तिः न फलवचनविषय इत्याह--अनर्थहेतुग्रहाणमपि तर्हीति।। ननु तत्त्वमस्यादिवाक्येऽपि अनर्थनिवृत्तिः विषयतया नावगम्यत इति; तत्राह--यतः सर्वेषु वेदान्तेष्विति।। वाक्यार्थस्य भावरूपत्वेऽपि ब्रह्मपदार्थस्य अनर्थाभावविशिष्टतयैव प्रतिपादनात् सोऽपि विषय इत्यर्थः।।

                ननु न पदार्थप्रतिपादकं वाक्यमस्ति, किन्तु ऐक्यप्रतिपादकमेव इत्याशङ्क्याह--तद्यथा सदेव सोम्येदमित्यादि। समर्पयदेकं वाक्यमिति।। अयमर्थः--अलौकिकत्वात् ब्रह्मपदार्थं प्रतिपाद्य तादात्म्यवाक्येनैकं वाक्यमिति। ननु ब्रह्मणि निष्प्रपञ्चे शास्त्रविषये जीवगतानर्थनिवृत्तिः कथं शास्त्रविषयः इत्याशङ्क्याह--तथा सति तादृशेन तत्पदार्थेनेति।। एवमपि स्वाभाविकनिष्प्रपञ्चता शास्त्रविषयः, अविद्यातत्कार्यनिरासस्तु निष्प्रपञ्चब्रह्मात्मतावगतिसामर्थ्यलभ्यः, न शास्त्रविषयः, अविद्यातत्कार्यप्रतिभासाभावस्य तत्प्रतिभासविरोधादेव शास्त्रेण प्रतिपादयितुमशक्यत्वादिति परिहरति--यद्येवं ब्रह्मात्मावगतिनान्तरीयकमिति।।

ननु--यथा प्रातिभासिकाविद्यातत्कार्यविरोधात् न तदभावविशिष्टो वाक्यार्थः प्रतिपत्तुं शक्यते, तथा ब्रह्मणि प्रपञ्चावभासविरोधात् निष्प्रपञ्चं ब्रह्म आत्मत्वेन नावेदयितुं शक्यं अस्थूलादिवाक्यैरिति--इति उच्यते; न तावत् प्रत्यक्षादिसिद्धो ब्रह्मणि प्रपञ्चः; तस्य तदगोचरत्वात्, न च प्रपञ्चसिद्धिमात्रेण ब्रह्मसम्बन्धावगमः; कारणमात्रकल्पकत्वात् तस्य।। ननु "इदं सर्वं यदयमात्मा" इत्यादिसप्रपञ्चवाक्यैः ब्रह्मणि प्रतिभासते प्रपञ्चः, सत्यम्; तेषां ब्रह्मणः सर्वोपादानकारणत्वसामर्थ्यसिद्धसार्वात्म्यानुवादेन निषेध्यसमर्पकतया निषेधकवाक्यैरेकवाक्यतया अन्वयात् निष्प्रपञ्चविरोधित्वाभावात्। न च सर्वोपादानतया सर्वात्मभावे सिद्धे सप्रपञ्चवाक्यैः सर्वात्मता प्रतिपादयितुं शक्यते।  न च निषेधवाक्यैः निषेध्याकाङ्क्षितसमर्पणेनैकवाक्यतासम्भवे

वाक्यभेदं कृत्वा स्वातन्त्र्येण प्रयोजनवन्निष्प्रपञ्चविरुद्धं सप्रपञ्चं प्रयोजनशून्यं च प्रमातुं शक्यम्। दृष्टश्च सुषुप्ते चेतनस्य निष्प्रपञ्चता पुरुषार्थ इति। श्रुतं च--"अशब्दमस्पर्शमरूपमव्ययं निचाय्य तन्मृत्युमुखात् प्रमुच्यते" इति। दृष्टा च चेतनस्य सप्रपञ्चता अनर्थकरीति। न च तत्र श्रूयते फलम्। अतो निषेधैरेकवाक्यता त्यक्ता। न च निषेध्यप्रपञ्चानुवादप्रतिभासो निष्प्रपञ्चप्रमितिं बाधते; तादर्थ्यादनुवादस्य।

                ननु--अप्राप्तं प्रपञ्चं ब्रह्मणि सप्रपञ्चवाक्यैः प्रापय्य पुनः तन्निषेधोऽनर्थक एव; "प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्" इति न्यायात् उच्यते; अद्वितीयब्रह्मप्रतिपत्त्यर्थं सर्वजगदुपादानत्वप्रतिपादनसामर्थ्यादेव प्राप्तस्य ब्रह्मणि प्रपञ्चस्य अद्वितीयपुरुषार्थसिद्ध्यर्थमनूद्य निषेधो युज्यते।। ननु--तर्हि सर्वोपादानत्वसामर्थ्यादेव सप्रपञ्चताप्रमितिः प्राप्ता, न; श्रुतिसामर्थ्यप्राप्तस्य सप्रपञ्चत्वस्य साक्षात् निषेधश्रुतिविरोधे दौर्बल्यात्। न तर्हि सर्वोपादानतया सप्रपञ्चताप्राप्तिः, न; यावद्बाधं श्रुतोपादानत्वसामर्थ्यादेव शुक्तिकारजतादिवत् सप्रपञ्चताप्रतिभासात्। प्रतिपन्नमेव तु बलवत्प्रमाणेन बाध्यते, नाप्रतिपन्नम्, नापि प्रमितम्। न च उपासनाप्रकरणपठितसप्रपञ्चवाक्यैः ब्रह्म तथा प्रमीयते; अन्यपराणां तत्परवाक्यविरोधात्, आरोपितरूपेणापि उपासनासम्भवात्, सृष्टिवाक्यैरद्वितीयब्रह्मप्रतिपत्तये निषेध्यप्राप्तिपरैः प्राप्तत्वाच्च। तस्मात् निष्प्रपञ्चब्रह्मात्मप्रमितौ शाब्दी वा लौकिकी वा प्रमितिः न निरुध्यते।।

                ननु जीवोऽपि वाक्यार्थप्रमितिविषयः, तस्मिन् प्रपञ्चे प्रत्यक्षावगते कथं निष्प्रपञ्चवाक्यार्थप्रमिति इति। उच्यते;--न तावदनुमानादिगम्यः कर्तृत्वादिप्रपञ्चः, अपरोक्षत्वात्; नापि चक्षुरादिगम्यः; प्रत्यगात्मनो बाह्येन्द्रियाविषयत्वात्, मानसप्रत्यक्षगम्य इति चेत्, किं तत्र प्रमाणम् सत्येव मनसि आत्मनि बन्धोपलब्धेः, असति च सुषुप्ते अनुपलब्धेः अन्वयव्यतिरेकौ प्रमाणमिति चेत्, न; अन्यथासिद्धत्वात्, आत्मनि कर्तृत्वादिप्रपञ्चसत्ताकारणतयापि अन्वयव्यतिरेकोपपत्तेः, सुषुप्ते कर्तृत्वाद्यानवभासः किं मनसोऽभावात् किं वा स्वयमभावात् इति संदिग्धव्यतिरेकत्वात्। प्रतीतिः करणमप्यपेक्षते इति चेत्, न; आत्मचैतन्येनैव अव्यवधानात् प्रतिभासोपपत्तेः।

                ननु कर्तृत्वभोक्तृत्वरागद्वेषसुखदुःखादयोऽप्यात्मनि स्वयंप्रकाशा इति बौद्धप्राभाकराः कल्पयन्ति, नैतद्युक्तम्; तेषां द्रव्यत्वे बहुप्रकाशगुणकल्पनया तद्विशिष्टात्मप्रकाशकल्पनादात्मन एवैकं प्रकाशगुणं परिकल्प्य तदन्वयादितरेषां प्रकाशकल्पनाया लघीयस्त्वात्। तेषां गुणत्वे सति गुणस्य गुणान्तराभावात् न स्वयंप्रकाशता। त एव प्रकाशगुणा इति चेत्, न; प्रकाशगुणस्य स्वाश्रयोपाधावादित्यादाविवानुत्पत्तेः। बन्धस्य स्वसत्तायां प्रतीतिव्यतिरेकाभावोऽपि न स्वयंप्रकाशमानतां कल्पयति; नित्यात्मप्रकाशसंसर्गादपि तदुपपत्तेः। न च क्लृप्तकारणाभावेऽपि बन्धापरोक्ष्ये प्रमाणकारणान्तरं कल्पयितुं युक्तम् ; निष्प्रपञ्चागमविरोधात्, "इन्द्रो मायाभिरि"ति मिथ्याकारणान्तरक्लृप्तेश्च। तस्मादज्ञानादिसत्यमिथ्यावस्तुसाधारणेन साक्षिमात्रेण वेद्यत्वात् प्रपञ्चस्य सत्यतो निष्प्रपञ्चब्रह्मात्मप्रमितिः सप्रपञ्चप्रमित्या न बाध्यते। तस्मात् अविद्यातत्कार्यप्रपञ्चप्रतिभासाभावस्य तद्विरोधादेव ब्रह्मात्मविशेषणत्वेन प्रमातुमशक्यत्वात् ब्रह्मात्मावगतिनान्तरीयकतया प्रातिभासिकबन्धनिवृत्तिरिति सूक्तम्।।

                ननु अनर्थनिवृत्तिः न शास्त्रविषयश्चेत्, कथं विषयावगतिसामर्थ्यलभ्येति तत्र किमनर्थनिरासः पर्यनुयुज्यते तन्निरासप्रतिभासो वा यदि निरासः, तत्राह--युक्तं चैतदिति।। तत्त्वावभासविरोधित्वात् अविद्यातत्कार्यत्वाच्चेति भावः। ननु "नेदं रजतमि"ति यत्र विज्ञानं, तत्र "रजतमि"ति विपर्यासं निवर्तयति, इह तु "अहं ब्रह्मास्मी"ति विज्ञानं वस्तुस्वरूपनिष्ठं न प्रपञ्चनिषेधविषयम्, तत्र कथं विपर्यासनिरासः इति चोदयति--ननु च नञादेर्निरासकृत इति।। तत्र द्वे ज्ञाने विपर्यासविरोधिनी-विरोधिशुक्तिकादिभावान्तरात्मज्ञानं अध्यस्तवस्तुतत्त्वाभावज्ञानं च;  तत्र अध्यस्ततत्त्वाभावज्ञानेन अध्यासनिरासे नञाद्यपेक्षे न, विरोधिभावान्तरज्ञाने इति परिहरति--नेदं रजतमिति यत्रेति।। ब्रह्मणि तु विरोधिभावान्तरज्ञानादध्यासनिवृत्तिरित्याह--इह पुनर्विज्ञानमेव तादृशमिति।। ननु सर्वो हि व्यापारः स्वविषयमेव साधयति, न नान्तरीयकमर्थान्तरम्; अतो विपर्यासनिरासविषयो ज्ञानव्यापारो वक्तव्यः, न भावान्तरविषयः इति नेति, दृष्टान्तमाह--तुलोन्नमनव्यापार इवेति।। अन्यविषयव्यापारादन्यविषयस्य नान्तरीयकतासिद्धिं साधयति--तथा ह्युन्नमनव्यापार इति।।

ननु व्यापार एवोभयविषय इत्युभयं विषयतयैव सिध्यति, नान्यतरत् नान्तरीयकमिति, नेत्याह--न चोन्नमनकारकस्येति।।

भवतु शुक्तिब्रह्मात्मज्ञानाभ्यां रजतबन्धयोः नान्तरीयको निरासः निराशप्रतिपत्तिस्तु कथम् इति; सापि नान्तरीयकेत्याह--तदेवं विपर्यासगृहीते वस्तुनीति।। एवमिति।। यथा निरासः तथा तत्प्रतिपत्तिरपीत्यर्थः। अभिनयेन दर्शयति--नाहं कर्ता ब्रह्माहमिति।। व्युत्क्रमेण सम्बन्धः। ब्रह्माहमिति वाक्यार्थबोधे अहं ब्रह्मैव चेत्, नाहं कर्ता इति नान्तरीयकबोधः। "नेदं रजतमि"त्यत्राप्येषैव योजना। ननु वाक्यमेव ह्यर्थं किं न स्यात्  इति: नेत्याह--तस्माच्छुक्तिकेयमित्येव निराकाङ्क्षमिति।। अनुवाद इति।। वाक्यार्थज्ञानान्तरीयकसिद्धस्य अनुवाद इत्यर्थः। अर्थान्तरज्ञानेन अर्थान्तरज्ञानस्य नान्तरीयकप्रतिभासे दृष्टान्तमाह--अत एव आख्यातपदस्येति।। वाक्यार्थभूतक्रियावाचकत्वादाख्यातस्य वाक्यत्वम्। क्रियाज्ञानसामर्थ्यादेव सर्वसाधनानां विकल्पेन क्रियान्वयप्रतिपत्तौ पदान्तराण्यन्यतमनियमार्थानि, नित्यवदन्वयप्रतिपत्तौ अनुवादमुखेन अन्यनिवृत्त्यर्थानीत्यर्थः। सम्भवति च नित्यवदन्वयप्रतिपत्तिः, एकस्य बहुसाधनतोपपत्तेः। "तथा चाहुः यजतिचोदने"त्यादि उदाहरणान्तरं श्रुतार्थापत्त्यैव अर्थन्तरप्रतिपत्तौ। कथं द्रव्यदेवतयोः यागश्रुत्यन्यथानुपपत्तिगम्यतया यजत्यर्थता इत्याशङ्क्याह--कथं क्रियामात्रवाचिन इति।।

                ननु यत्र विपर्यासगृहीतस्य वस्तुनो विरोधिभावान्तरात्मविषयं वाक्यं विपर्यासं निवर्तयति, तत्र विपर्यासनिरासप्रतिपादने वाक्यस्य सामर्थ्याभावात् नान्तरीयकं निरासज्ञानमस्तु; यत्र पुनः प्रत्यक्षबाधकं तत्र विपर्यासनिरासविशिष्टभावान्तरज्ञानमेव बाधकम्; न तत्र विपर्यासनिरासस्य नान्तरीयकज्ञानम्। इहाप्यपरोक्षज्ञानात् बन्धनिवृत्तेः उभयविषयमेव ज्ञानम्, नान्यतरस्य नान्तरीयकता, इत्याशङ्क्याह--प्रत्यक्षबाधस्यापीति।। न तावदनुपलब्धिगम्यो रजताभावः; पुरोदेशे दृश्यमानत्वात्; अथ संप्रयोगजन्य इति; नेत्याह--असंप्रयुक्तविषयत्वादिति।। रजततदभावौ न संप्रयोगयोग्यावित्यर्थः। तदेवशाब्दं इत्युपसंहारः स्पष्टार्थः।।

                ननु ब्रह्मविद्याफलमनर्थहेतुनिरासः, न वेदान्तारम्भफलम्; तत्र कथं प्रहाणाय वेदान्ताः इत्याशङ्क्याह--चतुर्थीप्रयोगोऽपीति।। उपादानं--वेदान्तारम्भ इत्यर्थः। तर्हि ब्रह्मविद्याफलत्वात् शास्त्रस्य न अनर्थनिरासः प्रयोजनम्, न; परम्परयापि पुरुषाकाङ्क्षितप्रयोजनत्वोपपत्तेरित्याह--प्रयोजनत्वं चेति।। विद्याप्रतिपत्तये इति प्रतिपत्तिशब्दमाक्षिपति--न हि विद्या गवादिवदिति।। ज्ञानं हि वस्तुतःप्रतीतितश्च ज्ञातुरुत्पत्त्यैव आप्तमेवेत्यर्थः। तत्र प्रत्यक्षान्तरेषु स्वविषयेण सह अपरोक्षावभासा विद्या भवति, आप्तिशब्देन च विषयेण सहापरोक्ष्यनिश्चयो विवक्ष्यते, तदिह न संभवतीत्याह--सत्यमेवमन्यत्रेति।। अत्र "विद्ये"ति शक्तितात्पर्यविचारसहकृताच्छब्दात् यत् प्रमाणज्ञानमुत्पद्यते, तदभिधीयते। तस्य प्रतिष्ठा स्वविषयेण सह आपरोक्ष्यमिति। तत्र असम्भावनेति।। चित्तस्य ब्रह्मात्मपरिभावनाप्रचयनिमित्तदेकाग्रवृत्त्ययोग्यतोच्यते। विपरीतभावनेति शरीराद्यध्याससंस्कारप्रचयः।।

                ननु अपरोक्षावभासनिमित्तप्रमाणगृहीते वस्तुनि नोभयविधचित्तदोषात् अपरोक्षनिश्चयाभावदर्शनमस्तीति तत्राह--तथा च लोकेऽस्मिन् देशे काले इति।। यथा दूरदेशवर्तिनि आर्द्रमरीचफलादौ तथाविधवस्तुदर्शनसंस्कारशून्यतया विपरीतसंस्कारवत्तया च प्रत्यक्षदृष्टेऽपि न निश्चिनोति। असम्भावितविशेषांशापरोक्षनिश्चयो नोत्पद्यते इत्यर्थः। ननु प्रमाणादनिश्चीयमानः कथं तर्कप्रत्ययान्निश्चीयते  इति; तत्राह--अत एव प्रमाणानामिति।। प्रसिद्धैव सहकारिसंपत्तौ फलसिद्धिरित्यर्थः। ननु तर्कस्यापि प्रमाणत्वे कथं प्रमाणद्वयादर्थनिश्चयो भवति अप्रमाणत्वे न तरां इति मन्वान आह--अथ कोऽयमिति।। अप्रमाणमपि तर्कः सहकार्येव, प्रत्ययविशेषवादित्याह--प्रमाणशक्तिविषयतदिति।। तेषां तत्त्वं तदित्युच्यते। प्रमाणादितत्त्वे सम्भवासम्भवप्रत्ययः, तर्कः, न निश्चयरूप इत्यर्थः।।

तत्रेदं निरूपितं प्रथमे तन्त्रे--ज्ञानानां प्रामाण्यमप्रामाण्यं च स्वत इति केचित्। उभयमपि परत इत्यन्ये। प्रामाण्यं परतः, अप्रामाण्यं स्वत इत्यपरे। अप्रामाण्यं परतः, स्वतः प्रामाण्यमिति वेदवादिनः। तत्र न तावत् ज्ञानानां प्रामाण्यमप्रामाण्यं च स्वत इति युज्यते, विरोधात्। ननु--व्यक्तिभेदेन व्यवस्था, सत्यमर्थतस्तथैव;

प्रतीतितस्तु प्रमाणाप्रमाणप्रतिभासाविशेषात् कस्य किमित्यनवगमात् व्यवहाराभावप्रसङ्गात्। न च मूर्तामूर्तविभागवत् प्रमाणाप्रमाणविभागः प्रत्यक्षतोऽवभासते। अर्थतस्तु व्यक्तिभेदे न व्यवस्थीयते। नाप्युभयं परतः; प्रमाणाप्रमाणविभागहीनस्य ज्ञानस्य स्वरूपानवगमात्। नापि प्रामाण्यमर्थपरिच्छेदसामर्थ्यं कारणगुणज्ञानात् परतोऽवगम्यते अनवस्थापातात्। नापि ज्ञानकारणव्यतिरिक्तात् कारणात् प्रामाण्यं जन्यते । क्षणमात्रापवर्गिणि ज्ञाने तदयोगात्, प्रतिभासतो भ्रान्तिसम्यग्ज्ञानयोः विशेषाभावे चक्षुरादिगुणजन्यत्वावगमात् प्राक् प्रामाण्यनिश्चयाभावात् व्वयहाराभावप्रसङ्गात्, प्रामाण्यनिमित्तचक्षुरादिगुणज्ञानस्यापि गुणान्तरजन्यत्वावगममन्तरेण प्रामाण्यनिश्चयनिमित्तत्वायोगात्। प्रतिभासतो भ्रान्तेरविशेषात् स्वतो गुणजन्यत्वानिश्चयात्। ज्ञानस्य गुणान्वयव्यतिरेकयोश्च प्रामाण्यप्रतिबन्धकदोषाभावविषयतया अन्यथासिद्धत्वात्। दोषनिवृत्तिव्यतिरेकेणेन्द्रियादिषु गुणादर्शनाच्च अन्यतोऽपि प्रामाण्यस्य ज्ञानेन सह जन्माभावः। अर्थक्रियासंवादज्ञानात्; प्रामाण्यनिश्चयेऽपि तुल्योऽनवस्थादिदोषः। साधनज्ञानानामेव अर्थक्रियासंवादात् प्रामाण्यं, न फलज्ञानानाम्, अर्थक्रियान्तराभावात्, अतो नानवस्थेति चेत्, तद्वदेव साधनज्ञानानामपि तत् स्वत एव स्यात्; अन्यथा प्रवृत्तस्य अर्थक्रियातःप्रामाण्यम्, प्रामाण्याच्च प्रवृत्तिः इति इतरेतराश्रयत्वं स्यात्। न च प्रामाण्यनिश्चयाय प्रवृत्तिः; असन्दिग्धार्थत्वात् ज्ञानानाम्। रूपकपरीक्षादौ प्रत्ययचतुष्टयात् दृश्यते अर्थनिश्चय इति चेत्, न; प्रथमज्ञानस्यैव संशयादिप्रतिबन्धनिरासित्वादुत्तरज्ञानानाम्। तस्मात् ज्ञानोत्पत्तिमात्रप्रयुक्तार्थव्यवहारदर्शनात् प्रतीतितोऽर्थतश्च स्वत एव अर्थनिश्चयः प्रामाण्यम्। अप्रामाण्यजन्म दोषसहितात् कारणात् तत्प्रतीतिः बाधादिति परत एव अप्रामाण्यं युक्तम्। न च अप्रामाण्यस्य परतो जन्म संभवति, प्रामाण्यप्रागमावत्वादिति चेत्, न; अज्ञानसंशयमिथ्या ज्ञानानामप्रामाण्यानां भावरूपत्वात्। ननु स्वतः प्रमाणस्य कथं परतोऽप्रामाण्यम् स्वभाव विरोधात् इति चेत्, दोषप्रतिबन्धबलात् अग्नेरिव शैत्यस्पर्शो न विरुध्यते। स्वतःप्रामाण्यादेव च यावद्दोषावगमं ज्ञानादेव व्यवहारदर्शनम्। तस्मात् प्रामाण्यतत्प्रतीत्योः गुणतत्ज्ज्ञानान्तराद्यनपेक्षमेव ज्ञानं स्वतः सत्तयैव निश्चयव्यवहारनिमित्तमिति स्थापितम्। तदेतद्विरुध्यते तर्कप्रत्ययापेक्षया ज्ञानस्य स्वविषयं प्रति निश्चायकत्वे इति चोदयति--नन्वेवं तर्कसापेक्षं स्वमर्थमिति।। परहरति--न स्यात् स्वमहिम्नैवेत्यादिना।। प्रमाणादेव अर्थापरोक्ष्यनिश्चये तत्प्रतिबन्धविगमे तर्कस्य उपयोगात् नार्थनिर्णयहेतुतेत्युक्तम्।।

                ननु एवं बहिरर्थे प्रमाणप्रतिबन्धसम्भवात् तद्विगमाय भवतु तर्कोपकारः, न तथा आत्मनि; स्वयंप्रकाशे, प्रतिबन्धाभावादिति, तत्राह--तथा च तत्त्वमसिवाक्ये त्वम्पदार्थः इति।। "असम्भावय"न्निति, आपरोक्ष्याभाव उच्यते, "विपरीतमि"ति च पारोक्ष्यमुच्यते।

                अत्रायमाशयः--लोके तावद्विषयस्यापरोक्षता संविदभेदाद्वा विषयस्याव्यवधानतया स्वसंविज्जनकत्वाद्वा प्रमाणकारणेन्द्रियसम्प्रयुक्तत्वाद्वा भवति; उक्तकारणत्रयहीने अनुमेयादौ परोक्षतादर्शनात्। तत्र ब्रह्मण एव सर्वसंविदुपादानत्वात् ब्रह्माकारशब्दप्रमाणजन्यसंवेदनेऽपि तदभिन्नतया वा तज्जनकतया वा ब्रह्मापि प्रथममेवापरोक्षतया अवभासते। तच्च चित्तस्यातिसूक्ष्मे अनेकाग्रतादोषाद्विपर्ययसंस्कारदोषाच्च प्रतिबद्धं भ्रान्त्या परोक्षवदवभासते। तत्रापरोक्षज्ञानमुद्दिश्य यज्ञादीनां निदिध्यासनादीनां च विधानसामर्थ्यात् यज्ञादिनिबर्हितकल्मषप्रतिबन्धं शमादिनिरुद्धविपरीतप्रवृत्तिदोषं, मननसंदर्शितप्रमेयादिसंभावनागुणप्रदीपोज्ज्वलितं अतिसूक्ष्मतरब्रह्मात्मविषयनिदिध्यासनप्रचयपरिनिर्मिततदेकाग्रवृत्तिगुणं चेन्द्रियं पारोक्ष्यविभ्रमनिमित्तप्रतिबन्धनिरासेन शब्दादेवापरोक्षनिश्चयनिमित्तं भवतीति गम्यते; लोके च अतिसूक्ष्मवस्तुनिर्धारणे चित्तैकाग्र्यविशेषापेक्षाया दर्शनात्। तर्कशब्देन चात्र एतादृशं सर्वप्रतिबन्धनिरासि चित्तदर्पणमुच्यते; योक्तिकासम्भावनाविपरीतभावनानिरासितर्काणां प्रथमज्ञाने अन्तर्भूतत्वात्। एवं च "तं त्वौपनिषदम्" इति तद्धितप्रत्ययेन ब्रह्मावगतिहेतुत्वं शब्दस्य दर्शितमुपपन्नं भवति; अपरोक्षावगतेरेव सम्यगवतित्वादिति।।

अन्यन्मतम्--न प्रथमोत्पन्नं शाब्दज्ञानमेव प्रतिबन्धविगमापेक्षया अपरोक्षावभासं भवति; किं तु शब्द एव प्रथमं ब्रह्मणि परोक्षज्ञानमुत्पाद्य पुनः वर्णितचित्तदर्पणसहकारणापेक्षया द्वितीयमपरोक्षज्ञानमुत्पादयति; शब्दादीनां तद्धितप्रत्ययादिना अपरोक्षज्ञाने विनियोगसामर्थ्यात्, यथा संप्रयोगोऽभिज्ञामुत्पाद्य पुनः पूर्वानुभवसंस्कारापेक्षया प्रत्यभिज्ञामुत्पादयति तद्वत्। न च स्वयम्प्रकाशे ब्रह्मणि परोक्षज्ञानं विभ्रमः; स्वयम्प्रकाशेऽपि पुरुषान्तरसंवेदने

परोक्षानुमानदर्शनादिति। सर्वथापि आपरोक्ष्यस्य प्रयत्नान्तरलभ्यत्वात् युक्तं पृथक् प्रतिपत्तिशब्दग्रहणमित्याह--ततः प्राग्विद्योदितापीति।। कैः पुनः सहकारिभिः शब्दप्रमाणादापरोक्ष्यं लभ्यते इति ; तत्राह--अवाप्तिप्रकारश्च वेदान्तेष्वेव निर्दिष्ट इति।।

                ननु--मनननिदिध्यासनयोः कथं श्रवणं प्रत्यङ्गतावगम् यावता ब्रह्मण्येव शक्तितात्पर्यविशिष्टवेदान्तशब्दावधारणाच्छ्रवणशब्दाभिधेयादात्मन्यवबुद्धे पश्चान्मननमर्थसंभावनोपपत्तिपर्यालोचनाद्वारा जनिता ब्रह्मणि प्रत्ययावृत्तिरुत्पद्यते। ततश्च प्रमाणयुक्तिसम्भावनाभ्यां परिनिश्चितेऽपि विषये तदेकाकारं चित्तसमाधानं निदिध्यासनमुत्पद्यते; तदेवं निदिध्यासनस्वरूपोपकारितया श्रवणमननयोस्तदङ्गभावेऽवगते न युज्यते श्रवणाङ्गता मनननिदिध्यासनयोरिति। अत्रोच्यते--यस्मिन् पक्षे शक्तितात्पर्यविशिष्टशब्दावधारणं प्रथमं ब्रह्मणि परोक्षज्ञानमुत्पाद्य मनननिदिध्यासनसंस्कारविशिष्टान्तःकरणापेक्षया अपरोक्षज्ञानमुत्पादयति, तत्र ब्रह्मणि परोक्षज्ञानस्य निदिध्यासनोपकारितया तदङ्गत्वेऽपि तात्पर्यविशिष्टशब्दावधारणादपरोक्षज्ञानोत्पत्तौ मनननिदिध्यासने श्रवणस्य फलोपकार्यङ्गतामश्नुवाते। ननु अपरोक्षफलोदयेऽपि निदिध्यासनाङ्गतैव श्रवणमननयोः किं न स्यात् त्रयाणामपि सन्निपत्योपकाराविशेषात्, दर्शपौर्णमासवत् समप्रधानता वा किं न स्यात् इति ; उच्यते--विशिष्टशब्दावधारणं प्रमेयावगमं प्रत्यव्यवधानेन कारणं भवति; प्रमाणस्य प्रमेयावगमं प्रत्यव्यवधानात्। मनननिदिध्यासने तु चित्तस्य प्रत्यगात्मप्रवणतासंस्कारपरिनिष्पन्नतदेकाग्रवृत्तिकार्यद्वारेण ब्रह्मानुभवहेतुतां प्रतिपद्येते, इति फलं प्रत्यव्यवहितस्य करणस्य विशिष्टशब्दावधारणस्य व्वयहिते मनननिदिध्यासने तदङ्गे अङ्गीक्रियेते। यदा तु पुनः शब्दादेव प्रथममपरोक्षानुभवफलं विज्ञानमुत्पन्नं, भ्रान्तिविक्षेपसंस्कारस्वचितान्तःकरणदोषात् अर्थेऽपि परोक्षानुभवफलतया विभ्रान्त्या अवतिष्ठते, तदा मनननिदिध्यासने चित्तगतविक्षेपादिदोषप्रतिबन्धनिरासेन अपरोक्षफलप्रतिष्ठाहेतुतया प्रमाणस्य फलोपकार्यङ्गमिति न विरुध्यते। न च शब्दकरणमन्तरेण निदिध्यासनादेव अपरोक्षानुभवफलजन्म संभवति; तस्य प्रामाण्यासिद्धेः। शब्दावगतब्रह्मात्मविषयत्वादपरोक्षस्य तद्द्वारेण प्रामाण्यनिश्चय इति चेत्, नैवम्; उत्पन्नस्य हि विज्ञानस्य प्रमाणान्तराधीनविषयसद्भावनिश्चयाधीनप्रामाण्यकल्पनात् वरं स्वस्यैव क्लृप्तप्रमाणजन्यत्वकल्पनम्; अन्यथा परतःप्रामाण्यात् इतरत्र स्वतःप्रामाण्यात्। तस्मात् युक्तं श्रवणस्य फलोपकार्यङ्गता मनननिदिध्यासनयोरिति।।

                ननु ब्रह्मापरोक्षज्ञानमपि नानर्थनिवृत्तिनिमित्तम् ; सत्यपि तस्मिन् संसारानुवृत्तिदर्शनात्, अन्यथा सद्य एव शरीरपातः स्यात् इति चोदयति--नन्वात्मैकत्वविद्याप्रतिपत्तिरिति।। ननु व्यतिरेकज्ञानात् तत्त्वज्ञानस्य विशेषो दर्शितः, सत्यम्;  फलतो न विशेष इत्याह--तथा हि जीवस्येति।। नैतद्युक्तम्; तत्त्वापरोक्षात् समूलाध्यासनिवृत्तेः अन्वयव्यतिरेकशास्त्रसिद्धत्वादित्याह--भवतु तत्राविद्याया इति। ननु अध्यासविरोधिव्यतिरेकावगमवत् तत्त्वावबोधोऽध्यासविरुद्धोऽपि तन्नापनयतीत्यनुमीयतामिति ; नेत्याह--न हि जीवस्येति। अनवबोधविरुद्धं तत्त्वज्ञानं न व्यतिरेकज्ञानमित्यर्थः। सशरीरेन्द्रियस्यैवापरोक्षावगमात् तर्हि सद्य एव शरीरपातः स्यादिति चोदयति--ननु ब्रह्मज्ञानादिति।। तत्त्वज्ञानादविद्यानिरोधेऽपि पुनर्वृत्तिः युज्यते इत्याह--न संस्कारादिति।। तदेव प्रपञ्चयति--तथा हीति।।

                ननु क्रियाज्ञानयोरेव संस्कारः सम्भवति, न अज्ञानतत्कार्ययोः, न; गन्धादिसंस्कारदर्शनात्, प्रलयावस्थायां सर्वकार्यसंस्कारोपगमात्। सर्वत्र च विनाशमात्रप्रयुक्तसंस्कारजन्मानुमानात्, अविद्यातत्कार्यस्य भ्रान्तिज्ञानात्मकत्वात्, अज्ञानादौ च साक्षिचैतन्यावच्छेदकज्ञानाभासोपगमात् संस्कारसिद्धेः। ननु संस्कारात् स्मृतिमात्रहेतोः कथमपरोक्षद्वैतावभासः स्यात् अविद्यावत् संस्कारस्यापि चैतन्यदोषत्वादिति वदामः। अपरोक्षावभासकारणगतो दोषोऽपरोक्षभ्रमहेतुरिति सिद्धत्वात् आत्ममात्रस्यैव अविद्याश्रयत्वात् संस्काराश्रयत्वोपपत्तेश्च, अविद्यासंस्कारव्यतिरिक्तकार्याणामेव अविद्योपादानत्वात्। आत्मनो  मिथ्याभूतसंस्कारोपादानत्वाभावेऽपि आश्रयोपाधित्वस्य अविद्योपाधित्ववदविरोधात्। तत्त्वज्ञानानुसन्धानादेव च क्रमेण संस्कारनिवृत्तेः कंचित् कालमवस्थायैव विदेहमुक्तिः न विरुध्यते, अविद्यालेशो वा तमोलेशवत् संस्कारशब्देनाभिधीयते इति निरवद्यम्।।

                ननु न सर्वे वेदान्ता इति स्पष्टार्थः। तत्र निर्विशेषब्रह्मप्रतिपत्त्यर्थेषु वेदन्तेषु सगुणब्रह्मोपासनानां तावत् प्रासङ्गिकत्वं दर्शयति--सत्यम् उपासनाकर्म त्विति।। ननु निर्विशेषं चेत् ब्रह्म प्रतिपाद्यम्, तस्य कथं सगुणोपासनालम्बनं सप्रपञ्चं ब्रह्म अङ्गभूतं स्यात् येनाश्रित्य विधानमुच्यते इति; अध्यारोपापवादन्यायमभिप्रेत्येत्याह--तच्चापाकृताशेषप्रपञ्चमिति।। निराक्रियमाणे प्रपञ्चे कथमुपासनाविधानम् निराकरणप्रत्ययविरोधात् इति  तत्राह--अस्यां चावस्थायामिति।। ननु आश्रित्य विधाने गोदोहनवदधिकृताधिकारतापि स्यादिति मुमुक्षोरेवोपासनास्वप्यधिकारः स्यादिति--उच्यते;--अपां प्रणयनस्य प्रकृततया उद्देश्यत्वात् न गोदोहनविधिना अनुष्ठेयतया सिद्धिः; अतः प्राप्तोद्देशनत्वात् प्रणयनस्य, स्वतन्त्रपशुकामिनोऽप्राप्तत्वात्, प्राप्तप्रणयनस्य दर्शपूर्णमासाधिकारिण एव पशुकामस्य गोदोहनेऽप्यधिकारो दर्शितः। सप्रपञ्चब्रह्मप्रतिपत्तिश्च आश्रीयमाणा मुमुक्षोरमुमुक्षोश्च शब्दादविशेषेण प्राप्तेति तदाश्रित्य विधानं अमुमुक्षूणामप्युपपद्यते इति न मुमुक्ष्वधिकारकल्पना, किं तु आश्रित्य विधानमात्रमिति निरवद्यम्। अतो महातात्पर्यप्रक्रमो ब्रह्मपर इत्युपसंहरति--तस्मात्तदर्थोपजीवित्वादिति।।

                नन्वब्रह्मोपासनान्यपि इत्यादेरयमर्थः--साक्षाद्वा परम्परया वा अन्तःकरणशुद्धिद्वारेण ब्रह्मात्मैकत्वावगतिपराः सर्वे वेदान्ता इति। वेदान्तविषयप्रयोजनयोरेव विचारशास्त्रस्यापि विषयप्रयोजनत्वमिति कथयितुमाह--यथा चायमर्थ इति।। भाष्यस्य तात्पर्यमाह--प्रतिज्ञातेऽर्थ इति।। शरीरमेवेत्यादिः स्पष्टार्थः।। वेदान्तानां शारीरकपरत्वेऽपि विचारस्य कथं शारीरकपरत्वमिति तदाह--तदिह वेदान्तानामिति।। ननु विचारकर्तव्यतामात्रं सूत्रार्थः, तत्र विषयप्रयोजनयोरसूत्रितयोरुपादानं वेदान्ततद्विचारसम्बन्धितया नोपपद्यते, इत्याशङ्कामपनुद्य, वृत्तसङ्कीर्तनपूर्वकमुत्तरभाष्यस्य तात्पर्यमाह--मुमुक्षुत्वे सत्यनन्तरमित्यादिना।। कथं ब्रह्मज्ञानस्य मोक्षः प्रयोजनमर्थसिद्धम् इति ; तदाह--पुरुषार्थवस्तुकामनेति।। प्रवृत्तिरिति प्रवृत्तिविषयेष्टसाधनता अभिधीयते। सैव हि विधिरिति वक्ष्यामः।। यस्मिन् धात्वर्थे प्रवृत्तेः हितसाधनता लिङ्गादिपदैरुपदिश्यते, स धात्वर्थः सामान्येन हितसाधनोऽधिकारिविशेषणेन फलविशेषेण सामर्थ्यात् सम्बध्यते; सामान्यप्रतीतेः विशेषपर्यवसानमन्तरेण अनुपपत्तेः। ततश्च विचारो हि सामान्येन हितसाधनतया अवगम्यमानः स्वसामर्थ्यसिद्धज्ञानद्वारेण अधिकारिविशेषणमोक्षविशेषफले पर्यवस्यति इत्यर्थः।।

                ननु--पुरुषार्थकामिनो यत्र नियोग उपदिश्यते, तत्र नियोगो धात्वर्थस्य पुरुषार्थसाधनत्वं कल्पयति; ततश्च विधीयमानो विचारो नियोगसामर्थ्यात् मोक्षसाधनमिति कल्प्यतांच किमिष्टसाधनत्वविधिसामर्थ्यकल्पनया इति।। नैतत् सारम्; अनुपपत्त्यभावात्। तथाहि--नियोगस्वरूपं तावत् न फलधात्वर्थसम्बन्धमन्तरेण अनुपपन्नम्; अनाप्तनियोगे नैयमिके  च अदर्शनात्। प्रवर्तकत्वमनुपपन्नमिति चेत्, यदि फलकामनापि नियोगेन प्रवृत्तावपेक्ष्यते, सैव तर्हि प्रवृत्तिहेतुः, न नियोगः; प्रत्यक्षादिषु तस्याः प्रवर्तने स्वातन्त्र्यदर्शनात्। अथ नापेक्ष्यते कामः, तर्हि फलकामनामनपेक्ष्य बलवदनिलसलिलौघनुद्यमान इव पुरुषे नियोगेन प्रवर्त्यमाने न फलसम्बन्धकल्पनावकाशः, सलिलादिनोदनेऽपि प्रसङ्गात्।

       ननु फलकामिनो नियोगः प्रमीयमाणोऽनुपपन्नः फलसम्बन्धमन्तरेण, अन्यथा फलकामिनियोगो न स्यात्, कोऽयमभिप्रायः यदि तावत् फलकामना नियोगाधिकारिविशेषणं न स्यात् फलधात्वर्थसम्बन्धमन्तरेणेति, तन्न; जीवनादीनामसाध्यानामप्यधिकारिविशेषणत्वदर्शनात्। साध्यस्य विशेषणत्वमनुपपन्नमिति चेत्, न तावदनेन साध्यत्वं सिद्धवत्कर्तुं शक्यते। स्वरूपेण साध्यत्वं चेत् न--अविवक्षितत्वात्। तथा हि--अधिकारिविशेषव्यावृत्तिमात्रप्रयोजनतया विशेषणपरेण शब्देन साध्यता न विवक्ष्यते। नार्थादपि साध्यत्वविवक्षा ; तत्र प्रमाणस्य अद्याप्यदर्शनात्। कामनैव च सिद्धस्वरूपा अधिकारिविशेषणम्। स्वर्गस्य तद्व्यावर्तकत्वात्।।

                किञ्च, अन्यसाध्यस्यापि व्यापारान्तरे अधिकारिविशेषणत्वं दृश्यते--"अध्येतुकामो भैक्ष्यं चरेत्" "परस्त्रीकामः प्रायश्चित्तं कुर्यात्" "ग्रामकामोभुङ्क्ष्व" इत्यादौ। न चाधिकारिविशेषणत्वमपि स्वर्गकामनायाः सम्भवति ; अयोगान्ययोगव्यवच्छेदासम्भवात्। तथा हि--स्वर्गकामपदं दर्शपूर्णमासनियोगस्य पुरुषेण असंयोगं

न व्यवच्छिनत्ति ; नित्यविधिनैव पुरुषान्वयस्य सिद्धत्वात्। नापि नियोगस्य अस्वर्गकामसम्बन्धव्यवच्छेदार्थं विशेषणम्; अत्रापि दर्शपूर्णमासनित्यविधिसम्बन्धविरोधात्। न च नित्यकाम्यनियोगभेदः ; साङ्गदर्शपौर्णमासनियोगस्य अविशिष्टत्वात् अधिकारिमात्रभेदात्। तस्मात् "दण्डी प्रैषानन्वाहेति"वत् विशेषणस्वर्गपरमिदं वचनं न विशिष्टपुरुषपरमिति फलवचनमेतत् स्वर्गकामपदम्। अर्थात् स्वर्गकामोऽधिकारी भवति। फलवचनं च साधनवचनेन अन्विताभिधानमर्हतीति न नियोगाभिधानावकाशः। ततश्चेष्टसाधनमेव लिङ्गादिशब्दार्थो विधिरिति।।

अन्ये मन्यन्ते--विषयनियोज्यव्यावृत्ते नियोगे अभिधीयमाने विषयनियोज्ययोरन्वयः सामर्थ्यादवगम्यते; अन्यथा अधिकारिणो विषयेण कर्तृकर्मानन्वयेन अननुष्ठीयमाने विषये नियोगस्य निर्वृत्त्ययोगात्। ततश्च अधिकारिणा धात्वर्थोऽन्वयीमानः तद्विशेषणेन स्वर्गेणापि अन्वेति; विशिष्टान्वयस्य विशेषणेनापि अन्वयात्। तत्र अन्वयो गुणप्रधानभावादृते नोपपद्यते इति स्वर्गः प्राधान्येन कर्म गुणभावेनेति सम्पत्स्यते साध्यसाधनसम्बन्ध-- इति।।

                नैतत् सारम्--जीवनगृहदाहादिविशेषणेनापि यागस्य अन्वयप्रसङ्गात्। को दोषः इति चेत्, जीवनादेः धात्वर्थं प्रति अङ्गत्वेन अन्वये विकृतावतिदेशः प्राप्नुयात्। तत्र "यावज्जीवं सौर्यं चरुं निर्वपेत्" इति स्यात्। प्राधान्येनान्वये जीवनादेरपि कर्मसाध्यत्वं स्यात्। तस्मात् स्वर्गकामपदं फलविशेषपरतया सामान्येन श्रेयसाधनविध्यभिधायिनालिङादिपदेन अन्विताभिधानं करोति।। ननु शाब्दे फलविशेषान्वये सामान्येन श्रेयस्साधनत्वापर्यवसानसामर्थ्यात् विशेषान्वय इत्युक्तमयुक्तम्, नैष दोषः; विशेषसाकाङ्क्षश्रेयस्सामान्यसाधनत्वविधिसामर्थ्यात् स्वर्गकामपदं फलविशेषपरं कल्प्यते। विध्याकाङ्क्षानिबन्धनत्वात् पदान्तरतात्पर्यस्य। ततश्च विधिसामर्थ्यात् फलसम्बन्ध इत्युक्तम्। ननु तिङ्-कृत्-तद्धित-समासैरनभिहित इति विशेषणात् लिङा यागस्य करणताभिधाने "ज्योतिष्टोमेने"ति तृतीया नोपपद्यते इति, न; यागज्योतिष्टोमसामान्यविशेषप्रकृत्यर्थभेदोपरक्तकरणत्वभेदाददोषः इत्यलमतिप्रसङ्गेन।।

                विषयसिद्धिः कथम्  इति; तदाह--तथा सति कुत इति।। तदेवं इत्याद्युक्तानुकीर्तनम्। "प्रथमं तावदि"ति भाष्यस्य तात्पर्यकथनम्। ननु विषयः समन्वयलक्षणेनैव गम्यते, प्रयोजनं च चतुर्थाध्यायेनैव प्रमीयते; तत्र किमिति विषयप्रयोजने प्रथमसूत्रेण सूचिते इति; तत्राह--शास्त्रस्यादिरयमिति।। ननु एकस्य सूत्रवाक्यस्य अनेकार्थत्वमयुक्तमिति; तत्राह--सूत्रं चैतदिति।। तत्र अथशब्दः  इत्यादिपदव्याख्यानभाष्यस्य वृत्तसङ्कीर्तनपूर्वकं तात्पर्यमाह--एवं सूत्रस्यादित्वेनेति।।

                        इति श्रीमत्परमहंसपरिव्राजकानन्युभवपूज्यपादशिष्यस्वप्रकाशानुभवभगवतः कृतौ

                   पञ्चपादिकाविवरणेऽध्यासभाष्यं  नाम प्रथमवर्णकं समाप्तम्।।