पञ्चपादिकाविवरणम्/चतुर्थवर्णकम् - विषय-प्रयोजनाक्षेपपरिहारनिरूपणम्
← ३ प्रथमसूत्रार्थवर्णनम् | पञ्चपादिकाविवरणम् श्रीप्रकाशात्मयतिः |
५ जन्माद्यधिकरणम् → |
अथ तुरीयं वर्णकम्
"तत्पुनर्ब्रह्म प्रसिद्धमि"त्यादिभाष्यस्य तात्पर्यमाह--प्रयोजन-विषय-संबन्धानाक्षिपतीति।। ननु
विधिसामर्थ्यादेव प्रयोजनादिष्ववगतेषु कथमाक्षेपः इति चोदयति--कथमिति।। परिहरति--प्रसिद्धशब्देनेत्यादिना।। ननु प्रतिपन्नं शब्देनानूद्य प्रतिपादयितुं शक्यत्वात् कथमविषयः इत्याह--कस्मादिति।।
अनधिगतार्थताभावादिति परिहरति--प्रतिपाद्यत्वेनेति।। विषयावगमद्वारा प्रयोजनस्य पूर्वावगमेनैव सिद्धत्वाद् नास्य प्रयोजनमपीत्याह--ततश्चानेनानवगमादिति।। "अथे"त्यप्रसिद्धपक्षे संबन्धं प्रयोजनं चाक्षिपति। ननु अनधिगतार्थ एव प्रमाणेन प्रतिपाद्यते, प्रयोजनं च तत्रैवेति चोदयति--कथमिति।। परिहरति--यन्न कदाचिदपीति।। प्रत्यक्षादिप्रमाणैर्विचारानपेक्षैरत्यन्तानधिगत एव प्रतिपाद्यते। यत्र विचारापेक्षया प्रमाणेन वस्तु प्रतिपाद्यते, तत्राप्रतिपन्नमुद्दिश्य विचारानुपपत्तेः, प्रतिपन्ने विमर्शादर्शनान्न विचारापेक्षप्रमाणेनानधिगतावगम इत्यर्थः। ननु अप्रसिद्धपक्षे संबन्धः कथमाक्षिप्तः न प्रसिद्धपक्ष इति तत्राह--प्रसिद्धं पुनर्यदि नामेति।।
"अविज्ञाते तत्त्वे कारणोपपत्तितस्तत्वज्ञानार्थमूहस्तर्कः" इत्यक्षपादसूत्रवचनात् सामान्यप्रतिपन्नस्य वा विशेषरूपेण विशेषतोऽप्यापातदर्शनगोचरस्य वा विशेषनिर्णयाय प्रमाणानुग्राहकस्तर्कः, इति ब्रह्मणोऽप्यनिश्चितविशेषप्रतिभासगोचरतया विचारयोग्यत्वप्रदर्शनेन त्रितयमपि समाधत्त इति भाष्यस्य तात्पर्यमाह--अस्ति तावद् ब्रह्मेत्यादिनेति।। ननु समन्वयाध्यायनिरूपणेन ब्रह्मैव विषयः प्रतिपाद्ये चेति सिध्यति, फलाध्यायेन तु फलविशेषः, इति न त्रितयमत्र प्रतिपादनीयमिति, तत्राह--श्रोतृप्रवृत्त्यर्थमिति।। "ननु प्रेक्षावते"त्यादिचोद्य-परिहारौ स्पष्टौ।।
ननु प्रयोजनविशेष एव प्रवृत्त्यङ्गं भवति, न विषय संबन्धाविति चोदयति--एवमपि प्रयोजनविशेष एवेति।। ननु साधनमपि प्रवृत्तिविषयं शक्यसाध्यं चानवगम्य फलज्ञानात् कुत्र प्रवर्तत इति तत्राह--नच विषयभावमनापन्नमिति।।
ननु फलसाधनं प्रवृत्तिविषयः, न फलमिति, तत्राह--छिदिक्रियाविषय एवेति।। प्रयोजनसमवायि वस्तु कर्मकारकतया विषयो भवति। ततश्च प्रयोजनप्रतिपत्तौ विषयोऽप्यन्तर्भवतीत्यर्थः। ननु कुलाल-दण्डादिव्यापारो मृद्विषयः, घटश्च प्रयोजनम्, इति विषय-प्रयोजनयोर्भेद इति, तत्राह--दण्डादेरपीति।। सत्यं प्रयोजनसमवायी विषयप्रयोजनबुद्धावन्तर्भवति, किंतु प्रयोजनं प्रति करणलक्षणस्य पुरुषव्यापारविषयस्यानन्यसाधारणतया शक्यप्रतिपाद्यतया च विषयभावे दर्शिते प्रयोजनसाधने नियमेन प्रवृत्तिर्भवति, नेतरथेति परिहरति--सत्यमेवं तथापीत्यादिना।। तत्र प्रवृत्तिनियमायानन्यसाधारणतया विचार-तज्जन्यज्ञानयोरनुभूयमानतया प्रयोजनमपि ब्रह्म स्वरूपेण विषयतया पृथग् वक्तव्यमिति दर्शयितुं विपक्षे दृष्टान्ताह--यथा चिकित्साज्ञानस्येति।। विषयस्य संबन्धिरूपतयाऽन्तर्गर्भितसंबन्धत्वाद् न पृथक्संबन्धो वक्तव्य इति, तत्राह--संबन्धोऽपि वक्तव्य इत्यादिना।। तत्रानन्यप्रतिपाद्यत्वात् साधनान्तरनिवृत्तिरूपादन्यत्वात् संबन्धस्य, सोऽपि पृथग्वक्तव्य इति दर्शयितुं विपक्षे दृष्टान्तमाह--यथा साधुशब्दपरिज्ञानमित्यादिना।। अयमर्थः--व्याकरणारम्भात् प्राक् चिकित्साव्यापाराद् व्यापारान्तरैरसाध्यमपि साधुशब्दज्ञानं न चिकित्साव्यापारस्य विषयः; संबन्धाभावात्, किंतु व्याकरणेन संबन्धात्तस्य विषयो भवति। अतस्तदर्थी न क्वचिदिति।। चिकित्साव्यापार इत्यर्थः। ननु एवमप्यन्यतमाभिधानेनान्यतमस्यार्थसिद्धत्वान्न पृथगभिधानेन कृत्यमिति, नेत्याह--तेन पुरुषार्थरूपतेत्यादिना।। भिद्यन्त इति।। पृथग्वक्तव्यानीत्यर्थः। नचान्यतमेनान्यतमस्य सिद्धिः; सत्यप्येकस्मिन्नितराभावस्य दर्शितत्वादिति। ननु स्वरूपभेदे पृथगभिधानापेक्षायामपि कथं त्रितयं सम्भूय न प्रवृत्त्यङ्गमिति तत्र व्यतिरेकमुखेन प्रवृत्तिहेतुत्वं दर्शयति--तानि च त्रीण्यपि प्रवृत्त्यङ्गम्; नापुरुषार्थ इत्यादिना।। ननु वक्तव्यमपि त्रितयं प्रसिद्धाप्रसिद्धपक्षयोरनुपपन्नमित्युक्तमिति, तत्परिहारायोत्तरभाष्यस्याऽऽधिकरणपरिसमाप्तेस्तात्पर्यमाह--तत्र विप्रतिपत्त्यैकान्ततः प्रसिद्धतामित्यादिना।। तत्र प्रसिद्धिमात्रेण विचारविधानोपपत्तिः, उद्देशनसम्भवात्, एकान्तप्रसिध्यभावाद्विचारजन्यज्ञानस्यानन्यसाधारणतेति। विप्रतिपत्तिशब्दो ब्रह्मशब्दव्युत्पत्तेरप्युपलक्षणार्थः। ननु एवमपि विचारशास्त्रस्य विषय-संबन्धौ न समर्थिताविति चोदयति ननु ब्रह्म वेदान्तानामिति।। ननु "ब्रह्मजिज्ञासे"ति शास्त्रस्यापि स एव विषयो निर्दिष्टः,
नेत्याह--शास्त्रं च तेषामिति।। सूत्रवाक्यानि न्याया विषयाणि, न्यायाश्च प्रमाण-प्रमेय-सम्भावनादिविषयाः। ननु सम्भावनावगम एव तर्हि प्रयोजनमिति, नेत्याह--प्रयोजनं त्विति।। प्रणाड्येति परम्परयापीत्यर्थः। धर्मार्थाभ्यां सुखमेव प्राप्यत इति तयोस्तत्परता।
ननु करणेतिकर्तव्यतयोरेकमेव प्रयोजनमिति निर्णीतं प्रथमे तन्त्रे, तथाहि "आग्नेयोऽष्टाकपालः" "उपांशुयाजमन्तरा यजति" "अग्नीषोमीयमेकादशकपालमि"ति पौर्णमास्यां कर्मत्रयम्, तथा "आग्नेयोऽदृष्टाकपालः" "ऐन्द्रं दधि" "ऐन्दं पयः" इति दर्शे त्रयमित्याग्नेयादयः षड्यागाः। तेषां करणभूतानां द्विविधान्यङ्गानि निरूपितानि--अर्थकर्माणि संस्कारकर्माणि चेति। फलोपकार्यङ्गानि प्रयाजादीन्यारादुपकारकाण्यर्थकर्माणि, प्रोक्षाणादीनि तु द्रव्यद्वारेण यागस्वरूपोपकारितया सन्निपत्योपकारकाणि संस्कारकर्माणि। तत्रोभयविधानामप्यङ्गानां प्रधानापूर्वद्वारेण स्वर्गसिद्धिरेव प्रयोजनमिति। एवं शब्दशक्तितात्पर्यविचारस्य संस्कारकर्मवच्छब्दप्रमाणस्वरूपोपकारितया, अर्थस्वरूपब्रह्मविचारस्य च ब्रह्मावगमफलोपकारितया, अवगम्यमानब्रह्मविषयत्वमुभयविधविचारस्य युज्यत इत्यपसिद्धान्ती चोदयति--ननु आग्नेयादीनामित्यादिना।।ननु वेदान्ता एव ब्रह्मावगतिसमर्थाः, तत्र कथमितिकर्तव्यस्यावगमफलतया ब्रह्मविषयतेति तत्राह--तेन यद्यपि वेदान्ता एवेति।। ननु कथं संभावनाबुद्धिहेतुतया तद्विषयस्य विचारस्य ब्रह्मावगमजनकतया तद्विषयता नह्यन्यविषयो व्यापारोऽन्यविषय इति, तत्राह--नहि छेत्तुरिति।। द्विविधं हि कर्मकारकम्--किंचिदव्यवधानतया व्यापारजन्यातिशयवत्, यथोद्यमन-निपातनव्यापारस्योर्ध्वाधोदेश-संयोगविभागातिशयविशिष्टः कुठारः कर्तृव्यापारस्याव्यवधानेन कर्मकारकं भवति, किञ्चिदुद्देश्यफलतया करणव्यापारव्यवधानेन कर्म भवति: यथा द्वैधीभूतो वृक्ष इति। तत्र कर्तृव्यापारः करणव्यापारव्यवहितोऽपि वृक्षाद्वैधीभावफल उच्यते; "वृक्षं छिनत्ती"ति कर्तृव्यापारस्य तत्कर्मतावगमात्, स एव वृक्षः कुठारव्यापारस्य साक्षात्कर्म भवति; अव्यवधानात्। ननु करणस्य कुठारस्य कथं कर्तृतेति उच्यते--सर्वाणि खलु स्वव्यापारापेक्षया कर्तृणि। सर्वकारकव्यापाराणां च फलं कर्मतया साध्यम्। तत्र कर्तृ-करण-कर्मभेदोऽवान्तरभेदापेक्षया भवति। तत्र कर्ता साधननियोगेन वा धातुना विशेष्यव्यापारतया वा स्वतन्त्रव्यापारः। करणं फलं प्रति सन्निपत्योपकारकम्। फलसमवायि कर्मकारकमिति। "काष्ठानि पचन्ती"त्यादिव्यपदेशः स्वव्यापारकर्तृत्वापेक्षया, नावान्तरभेदापेक्षयेति। तस्मात् कर्तृव्यापारस्य करणव्यापारव्यवधानेन वृक्षकर्मता; एवं विचारव्यापारस्यापि प्रमाण-प्रमेयसम्भावनावगमद्वारेण ब्रह्मावगमोद्देश्यत्वाद् अवगमहेतोरवगम्यविषयत्वाद् ब्रह्मकर्मता न विरुध्यते। अथाव्यवहितमेव कर्म, नोद्देश्यमिति, तत्राह--अन्यथाऽन्यत्र कर्तृव्यापार इति।। अत्रेतिकर्तव्येषु द्विविधं प्रमाणम्--आगमोऽन्वय-व्यतिरेकौ च। प्रयाजादीनामागमात्, मृत्कुलालादीनां कर्तृव्यापारस्य चाङ्कुरकुम्भद्वैधीभावाङ्गताऽन्वय-व्यतिरेकाभ्याम्, अत्र तु शब्दोपलब्धिसंबन्धज्ञानसंस्कारसहकृताच्छब्दादर्थावगमे सति विचारस्याङ्गता नान्यतरप्रमाणेनाप्यवगता; शब्दादेव विचारानपेक्षादवगमजननादीत्यपसिद्धान्तिनं परिहरति पूर्ववादी--विषम उपन्यास इति।। ननु यथा चक्षुरादयः सम्यग्ज्ञानहेतवोऽपि दोषसंयोगात्संशय-विपर्यासौ जनयन्ति, पुनः सम्यग्ज्ञानजन्मनि च दोषापकर्षमपेक्षन्ते; एवं शब्दः शक्तितात्पर्याज्ञानतद्विपर्ययज्ञानदोषात् संशयादिज्ञानमुत्पादयति, तत्र दोषापनयनेन विपर्यासादिनिवृत्तये शक्तितात्पर्यविचारोऽङ्कभावमश्नुत इति चोदयति--ननु संशय-विपर्यासनिरासद्वारेणेति।।
तत्र किं शब्द एव दोषवशादन्यथाज्ञानं जनयति, विचारश्च तदपनयनेन तथा प्रमितिहेतुतां प्रतिपद्यते किं वा शब्दः सम्यग्ज्ञानस्यैव हेतुः, कारणान्तरादन्यथाज्ञानम्, विचारश्च प्रतिबन्धमात्रं निराचष्टे, निवृत्ते च प्रतिबन्धे शब्दादेवार्थनिर्णय इति तत्र न तावद् विपर्यासादिनिरासेनार्थनिर्णयहेतुता विचारस्येत्याह--नैतत्सारम्; यत्र ह्यनेकमिति।। अयमाशयः--न शब्दसमवायी कश्चिद्दोषोऽस्ति, पुरुषेन्द्रियसमवायित्वाद् दोषाणाम्। अतः शब्दो न विपर्यासादिज्ञानहेतुः, किन्तु शब्दानां प्रयोगान्तरेष्वन्यथान्यथाशक्तितात्पर्योन्नयनदर्शनादिहापि तथा तथा विदित्वा सामान्यतो दर्शनेनार्थविरोधिबुध्या च पुरुषदोषेणान्यथाज्ञानान्युत्पद्यन्ते। शब्दाच्च तत्त्वज्ञानमेवोत्पद्यते। ततश्च शब्दात् पुरुषदोषाच्च बहुषु परस्परविरोधिषु ज्ञानेषु जातेषु शब्दशक्तितात्पर्यावधारणं पुरुषदोषापनयनेन प्रतिपक्षज्ञानान्तरमात्रं निवर्तयति, निवृत्ते च प्रतिबन्धे शब्दादेव तत्त्वज्ञानं जायते, जातं वा
निश्चलमवतिष्ठते। तस्मान्न विचारः करणेतिकर्तव्यतया ब्रह्मविषय इति।।
एवमपसिद्धान्ते निरस्ते पूर्ववादिना, सिद्धान्तयति--अत्रोच्यते यद्यपि वाक्यार्थज्ञानमित्यादिना।। तत्र सामान्यतोदृष्टनिबन्धनेनेति।। प्रयोगान्तरेष्वन्यथान्यथाशक्तितात्पर्यदर्शनादिहापि तथाभावबुध्या तथाविधार्थस्य च लोकेऽन्यथाभावदर्शनादिहाप्यन्यथाभावबुध्येत्यर्थः। अयमाशयः--प्रतिबन्धनिवृत्तौ सत्यामेवार्थनिर्णयात् प्रतिबन्धनिरासिनोऽप्युपचारेण ब्रह्मनिर्णयहेतुत्वाद्विचारस्य ब्रह्मविषयतेति। अत्रेदं विचार्यम्--किं तात्पर्यमर्थप्रमिति हेतुः किं वा प्रतिबन्धनिरासहेतुरिति केचित्प्रमितिहेतुतामाहुः। तत्र किं विज्ञातं तात्पर्यं प्रमितिहेतुः अविज्ञातं वा न तावदविज्ञातं प्रमितिहेतुः ; तात्पर्यावगमफलविचारानपेक्षत्वप्रसङ्गात्, तात्पर्यविषयादन्यत्र बुध्यनुत्पादप्रसङ्गाच्च। तथाच कश्चित् स्थानजिघृक्षया कञ्चिदुत्थापयन्नाह "पित्रा त्वमाहूतः" इति। स च पितुराह्वानं प्रतिपद्य समुत्तिष्ठति, इतरस्तु तत्र निविशते, समुत्थितश्च सन्नितरो जानाति स्थानजिघृक्षयेदमुक्तमिति। ननु--न पितुराह्वाने तात्पर्यहीने संसर्गबुद्धिरिति--चेत्; न; उत्थानादिप्रवृत्तिदर्शनात्, प्रवृत्तेश्च संसर्गज्ञानपुरःसरत्वाभावे प्रवृत्त्या संसर्गे शब्दशक्तितात्पर्यकल्पनायोगात्। ननु शब्दो न मिथ्याज्ञानमुत्पादयति, नैष दोषः; सत्यपि पितुराह्वाने तथाभूतज्ञाने च तात्पर्यं वक्तुरन्यत्रेत्येतावद्दर्शितम्। तस्मान्नाज्ञाततया तात्पर्यं प्रमितिहेतुः। अथ ज्ञाततया तर्हि कुत्र तात्पर्यमवगम्यते शब्दस्यात्र तात्पर्यमित्याश्रयःविषयसापेक्षत्वात्तात्पर्यस्य। न तावत्पदार्थेषु तात्पर्यम्; वाक्यार्थज्ञानेऽनुपयोगात्। संसर्गश्चानवगतो न तात्पर्यविशेषणतयाऽवगन्तुं शक्यते।।
स्यादेतत्--पदावगतेषु पदार्थेषु परस्परान्वययोग्यतानिमित्तः संसर्ग उत्प्रेक्षयाऽवगम्यते। तद्विषया च तात्पर्यावगतिरिति। न तावत् स्मृति-संशय-विपर्यासानामन्यतमः संसर्गावबोधः। तत्र परिशेषाच्छब्दजन्यतया संसर्गबोधः प्रमाणमेव स्यात्। नच शक्तिरिव सामान्योपाधौ तात्पर्यम्; प्रतिवाक्यं विशेषतात्पर्यभेदात्। किंच पदार्थवत्संसर्गेऽपि शक्तिमात्रनिबन्धनावगमः, न तात्पर्यनिबन्धन इत्यनुमातुं शक्यते। शब्दानां च पदार्थप्रदर्शनमुखेन तात्पर्योपाध्युपयोगितयाऽन्यथासिद्धत्वात् तात्पर्यमात्रावगमाधीनः संसर्गबोधो न शब्दनिबन्धनश्च स्यात्। तस्मात् पदानामेव संसर्गप्रतिपादनसामर्थ्यान्मुख्यलक्षणाद्वारेण प्रमाणान्तराविरुद्धे संसर्गे प्रतिपन्ने दोषान्तरनिमित्तसंशय विपर्यासादिज्ञाननिराकरणाय तात्पर्यावगम इति सिद्धम्। तच्चेदं त्रयमप्यवश्यमि"त्यारभ्य--अलमतिविस्तरेणेत्यतः प्राक्तनेन ग्रन्थेनोक्तमर्थं निगमयति समर्थनं प्रदर्शयितुम्। अस्ति तावदिति स्पष्टार्थः।। ननु--न ब्रह्म सामान्येनापि लोके प्रतिपत्तुं शक्यम्, प्रमाणान्तरागोचरत्वात्; नाप्यागमसामर्थ्यात्, तत्र प्रयुज्यमानस्य ब्रह्मशब्दस्यानवधृतार्थत्वात्, नच पदमात्रोदेवार्थान्तरसिद्धिः; जात्याद्यर्थान्तरेषु प्रसिद्धत्वात्, तस्मान्न प्रसिद्धमुद्दिश्य विचारविधानोपपत्तिरिति चोदयति--कथमिति।। तत्र श्रुति-सूत्रयोर्ब्रह्मशब्दप्रयोगसामर्थ्यादेव जात्यादिव्यतिरिक्तं किंचिद् वस्तु प्रतिपत्तुं शक्यत इत्यत आह--ब्रह्मशब्दस्तावदित्यादिना।। ननु अर्थान्तरसद्भावे किं प्रमाणमिति प्रयोगार्थापत्तिः, इत्याह--अतो नूनमन्यदेवेति।। ननु श्रौतप्रयोगानुपपत्तिर्नापूर्वमर्थं गमयति; लौकिकप्रयोगाधीनत्वाच्छ्रौतप्रयोगस्येति, तत्राह--तेन स्वर्गापूर्वदेवतेति।। "अपूर्वमि"ति "तानि धर्माणि प्रथमान्यासन्नि"त्यादौ वेदे धर्मशब्दप्रयोगोऽभिप्रेयते। ननु वाक्ये प्रयुक्तं पदं प्रमाणान्तरानधिगतमर्थं न प्रतिपादयति, पदार्थोऽशेऽनुवादमात्रत्वादित्याह--नैतत्सारमिति।। न प्रत्यक्षवत्, संबन्धग्रहणाभावान्नानुमानादिवच्चेत्यर्थः। ननु दर्शितं स्वर्गादिवदिति, नेत्याह--स्वर्गाद्यर्थोऽपीति।। सन्निहितानेकवाक्यार्थसामर्थ्यलभ्यः स्वर्गादिपदार्थ इत्यर्थः। तत्र वाक्यार्थप्रमितिविवक्षया प्रसिद्धार्थैः पदान्तरैः सहाप्रसिद्धार्थपदप्रयोगानुपपत्तिरेव प्रतिपाद्येन संबन्धग्रहणानपेक्षया पूर्वपदार्थं पदवाच्यत्वेन प्रतिपादयतीति परिहरति--यस्मिन् वाक्य एकं पदमिति।। विप्रलम्भ-भ्रान्त्यादिदोषरहितवेद-सूत्रवाक्यार्थनिर्णयस्यावश्यलभ्यत्वादिति भावः। ननु सहप्रयोगानुपपत्तिर्नियामकाभावाद् यं कञ्चिदर्थमुपस्थापयतीति, तत्राह--तत्र निगमनिरुक्तेति।। निगमो नाम प्रसिद्धार्थ तदवयवौ परित्यज्य शब्दस्य शब्दैकदेशानुगमेनार्थान्तरे वृत्तिः, यथा देहात्मादिशब्दानामुपचितवस्तु-सन्ततगमनवत्पदार्थादावेकदेशानुगमेन वृत्तिः; प्रसिद्धार्थतदवयवोपादानेनार्थान्तरवृत्तौ
लक्षणा-गुणवृत्तिप्रसङ्गात्। निरुक्तं नाम शब्दस्य सर्वावयवार्थानुगमेन प्रसिद्धादर्थादर्थान्तरे वृत्तिः, यथा सोमशब्दस्य पार्वतीसहितमहेश्वरे वृत्तिः। व्याकरणम्-प्रत्ययविधानसामर्थ्यदर्थनिश्चयः, यथा वादीति ताच्छील्यै णिनिप्रत्ययविधानसामर्थायद्वदनशीलो गम्यते। ननु प्रसिद्धिबलेनाप्रसिद्धमुपादीयते, नचाप्रसिद्धेन प्रसिद्धं त्यज्यत इत्यत्र को विशेष इति तत्राह--नहि प्रसिद्धिरप्रसिध्यति।। अप्रसिद्धिर्नैसर्गिकप्रागभावः। प्रसिद्धपदार्थैः सह वाक्यार्थनिर्णयाय प्रयोगानुपपत्तिरेवागन्तुकी तस्य प्राघभावस्य निवृत्तिहेतुरिति भावः। ननु अवयवार्थसामान्यानुगमानां सर्वतो विप्रसृतिसम्भवादुपादेयार्थनियमायोगाद् वाक्यार्थप्रतिपत्तिनियमो न स्यादिति चोदयति--ननु निगमादिवशेनेति।। अत्र निगूढाभिसन्धिरुत्तरमाह--न तर्हि निगमादीनामिति।। रूढिसामर्थ्यादेव सर्वत्र वाक्यार्थनियमे लोकप्रसिद्धं वृत्त्यन्तरमनर्थकं स्यादिति भावः। पूर्ववादी निगमादीनामर्थवत्तामाह--भवत्यर्थवत्तेति।। स्वार्थादन्यत्रेति=अर्थान्तरविवक्षयेत्यर्थः। विनियोगादिति।। वाक्यार्थसंसर्गं निमित्तीकृत्येत्यर्थः। अयं भावः--वाक्यार्थनिर्णयं निमित्तीकृत्य पदान्तरैः सह प्रयोगानुपपत्तिरेव निगमादिवशेनार्थमाददाना सन्निहितपदार्थसंसर्गयोग्यतया प्रयोजनपर्यन्तमेव पदार्थमादते, इति वाक्यार्थनियमसिद्धिरिति। सिद्धान्ती निगूढाभिसन्धिं विवृणोति--एवं तर्ह्येकार्थनियमायेति।। प्रथमप्रयोगानुपपत्तिर्निगमाद्यनुगृहीता फलपर्यन्तवाक्यार्थान्वयिपदार्थाकाङ्क्षानुगृहीता च नियतपदार्थोपादानहेतुभावे रूढेर्न विशिष्यत इत्यर्थः। ननु एवमपि कथं ब्रह्मशब्दस्य जात्यादिविलक्षणे निरतिशयपुरुषार्थे मुमुक्षोर्जिज्ञासायोग्ये वस्तुनि निगमवशाद् वृत्तिरिति तदाह--तदत्र ब्रह्मशब्दे व्युत्पाद्यमान इति।। ननु एवमपि यत्किंचिदापेक्षिकमंशत्वसंपन्नं वस्त्वनुगम्यतामिति, नेत्याह--प्रयोगानुगमे चासतीति।। तत्र हेतुः--वाक्यार्थान्वयीति।। तत्राल्पत्वं नाम वस्तुनो देश-काल-वस्तुपरिच्छेदः, तद्व्यावृत्तिर्न्निरतिशयमहत्त्वम्, तत्रोपपदादिसङ्कोचकाभावे जिज्ञास्यस्य पुरुषार्थतया वाक्यार्थान्वयसम्भवे च तदपि ब्रह्मपदेनानुगम्यत इत्याह--ततश्च कालकृतावच्छेदनिमित्तस्येत्यादिना बुद्धत्वं चेत्यतः प्राक्तनेन ग्रन्थेन।। भाष्ये नित्यशब्देन त्रिविधमपि महत्त्वं दर्शितमित्यर्थः। ननु बुद्धत्वादयो गुणा न ब्रह्मत्वोपयोगिनः, तत् कथं ब्रह्मपदादनुगम्यन्ते इति चोदयति--कथमिति।। नैष दोषः गुणतोऽप्रकृष्टेऽप्यल्पबुद्धिदर्शनात्। तथाहि--गुणहीनं दोषभूयिष्ठं च वस्त्वल्पमविद्यमानसमं मन्यन्ते, गुणभूयिष्ठं दोषहीनं च महान्तं कथयन्ति। अतो गुणोऽल्पत्वनिराकरणेन महत्त्वं दर्शयितुं बोधगुणहीनस्य गुणतोऽपकृष्टतयाऽल्पत्वाद् बुद्धत्वमनुगम्यत इत्याह--अबोधात्मकं वस्त्वित्यादिना।। तथा चेतनस्यापि संसारित्वे दोषभूयिष्ठत्वाद् गुणतोऽपकर्षान्निरतिशयमहत्त्वादिसिद्धेः सर्वदोषरहिततया मुक्तत्वोत्कर्षोऽप्यनुगम्यत इत्याह--मुक्तमिति चाविद्याकामकर्मपरतन्त्रं इति।। चेतनस्यापि मुक्तस्य सर्वकार्यनियमनादिशक्त्यभावे च परिशिष्टज्ञेयकार्यविषयज्ञाननियमनशक्त्यभावात् ततोऽपकर्षादल्पता स्यात्, तद्व्यावृत्त्यर्थमाह--सर्वज्ञं सर्वशक्तिसमन्वितं च तदित्यादिना।। ननु ब्रह्मशब्दप्रयोगेऽपि जाति-जीव-कमलासन-शब्दराशिषु नैतावानर्थः प्रतीयते, तत्र कथमनुगमादप्येतादृशस्यार्थस्य प्रतिपत्तिरिति तदाह--सिद्धे हि वस्तुनि प्रयोग इति।। प्रमाणान्तरगृहीतेऽर्थे प्रयोगसामर्थ्यादेवार्थप्रतिपत्तावल्पं वा महद्वा यथा प्रमाणान्तरेण प्रतिपद्यते, तथैव शब्दार्थः प्रतिपत्तव्यः। यदा पुनः प्रयोगसामर्थ्यमनपेक्ष्य शब्दावयवसामर्थ्यादेवार्थोऽनुगम्यते, तदा प्रमाणान्तरोपपद-प्रकरणानां सङ्कोचहेतूनामभावाद् यथासामर्थ्यं मुख्य एवार्थः प्रतिपत्तव्य इति भावः। उक्तेऽर्थे भाष्यमवतारयति--तदेतदाहेति।।
ननु--सौत्रस्य शब्दस्यार्थोऽनुगम्यते किं वा श्रौतस्य न तावत् सौत्रस्य; पौरुषेयप्रयोगस्य प्रमाणान्तरापेक्षत्वात्तदभावात्, नापि श्रौतस्य; "सत्यं ज्ञानम्" "यतो वा इमानी"त्यादिशास्त्रे निर्णीयमानार्थत्वादनुगमानपेक्षणात्--इति, नैष दोषः; श्रुतिप्रमाणावगतविषयतया तन्मूलस्यैव सौत्रस्य ब्रह्मशब्दप्रयोगस्योत्तरसूत्रप्रतिपाद्यश्रुतिप्रमाणगम्यब्रह्मस्वरूपमनपेक्ष्यैवार्थानुगममुखेनार्थोपादानात्, उत्तरसूत्रसाध्यसिद्धवत्कारेणार्थोपादानानुपपत्तेश्च। श्रौतस्य वाऽयं ब्रह्मशब्दस्यार्थानुगमो वर्ण्यते, वाक्यार्थान्वयितया प्रयुक्तस्य ब्रह्मशब्दस्य वाक्यप्रमाणमनपेक्ष्यैवान्यतः सिद्धेर्वक्तव्यत्वादनुगमापेक्षणात्। ननु तर्हि पदानुगमस्य वर्णितविशिष्टार्थविषये सम्भावनामात्रबुद्धिहेतुत्वात्प्रमाणान्तरानधिगतस्य पदार्थस्य कथं वाक्यान्वयितया तत्र
निर्णयहेतुत्वम् इति चोदयति--ननु एवमपि।। व्युत्पत्त्यनुसरणेनेति।। तत्र जिज्ञासापदस्य सन्निहितस्यानिर्णीतजिज्ञास्यवस्तुसापेक्षत्वात्तदपेक्षितार्थसमर्पणस्य ब्रह्मशब्दस्यानिर्णीतप्रतिपन्नवस्तुमात्रसमर्पणेन वाक्यार्थनिर्णयहेतुत्वं न विरुध्यत इति परिहरति--सत्यमेवम्, अत एवेति।। सर्वस्यात्मत्वाच्चेति भाष्यतात्पर्यार्थमाह--इदमपरं ब्रह्मशब्दार्थस्येति।। ननु आत्मन्यपि न प्रमाणम्, प्रत्यक्षाद्यविषयत्वात्, प्रामाणिकस्य च द्विचन्द्रादिवदवस्तुत्वादिति, तत्राह--सर्वो ह्यात्मास्तित्वमिति।। ननु शून्य एवायमात्मा प्रतिभासते, कथमात्मास्तित्वसिद्धिः इति शून्यवादमाशङ्क्याह--यदि नात्मास्तित्वप्रसिद्धिः स्यादिति।। ननु आत्मपदार्थे प्रत्यक्षावगते कथं ब्रह्मपदार्थस्य प्रसिद्धिरिति अत आह--आत्मा च ब्रह्मेति।। ननु अनादिवृद्धव्यवहारे ब्रह्मशब्दस्यात्मनि प्रयोगादर्शनात् कथं ब्रह्मशब्देनात्मा जिज्ञास्यत्वेनोपादीयते इति चोदयति--कथं पुनरात्मा ब्रह्मेति।। लौकिकप्रयोगाभावेऽपि वैदिकप्रयोगसामर्थ्यात् "स वा अयमात्मा ब्रह्मे"त्यादौ ब्रह्मशब्देनात्मा जिज्ञास्यत्वेनोपादीयत इति परिहरति--वेदान्तेष्विति।। ननु ब्रह्मशब्दाभिधेयोऽयमात्मा नाहंप्रत्ययवेद्यः, किंत्वागमैकसमधिगम्य इति, नेत्याह--आत्मानमेवेति।। ततश्च प्रतिपन्नमुद्दिश्य विचारसम्भवाच्छक्यप्रतिपाद्यता सिद्धेत्याह--तदेवमहंप्रत्यय एवेति।। ननु--वेदान्तेषु सञ्ज्ञापरतया नात्मनि ब्रह्मशब्दः प्रयुज्यते, किंत्वात्मनो ब्रह्मशब्दार्थतादात्म्याभिप्रायेण; ततश्चातिरिक्तार्थत्वाद् ब्रह्मशब्देनात्मोपादीयत इत्युक्तम्--इति, नैष दोषः; अतिरिक्तब्रह्मस्वरूपनिर्णयविविक्षया प्रसिद्धाशस्य ब्रह्मशब्देनोपादानात्, एकस्मिन्नप्यर्थे बिम्बप्रतिबिम्बादिवत् प्रतिभासाप्रतिभासोपपत्तेः।।
एवं तर्हि प्रत्यक्षगोचरतयाऽनन्यसाधारणत्वाभावाद् विषयत्वं न सिध्यतीत्याक्षिपति--यदि तर्हि लोके ब्रह्मात्मत्वेनेति।। समाधत्ते--न ; तद्विशेषं प्रति विप्रतिपत्तेरिति।। भाष्यार्थे विवृणोति--सत्यम्; अहमित्यात्मनि प्रत्यय इत्यादिना।। ननु अन्यस्मिन् विप्रतिपन्ने कथमन्यन्निर्णीयत इति तदाह--ताश्च वस्तुत इति।।
ननु प्रसिद्धे पदार्थे कथं विप्रतिपत्तिरिति तदाह--ततः सामान्यत प्रसिद्धमपीति।। ननु अप्रतिपन्नविशेषं वस्तु स्वयमप्रतिपन्नमेवेति कथमुद्दिश्यविधानाभावे शक्यप्रतिपाद्यतेति तत्राह--सामान्यतः सिद्धत्वाच्च शक्यत इति।। ननु नास्ति ब्रह्मणि सामान्य-विशेषभावः, सत्यम्; शरीरेन्द्रिय-मनो-बुद्धि-शून्य-कर्तृ-भोक्तृ-सर्वज्ञ-ब्रह्मात्मनां पराग्व्यावृत्तप्रत्यग्धर्मानुगमेन सिद्धिः सामान्यम्, तत्र प्रत्यग्धर्मानुगमेन सिद्धिः सामान्यम्, तत्र प्रत्यग्धर्मानुगमेन सिध्यन् विशुद्धस्वरूपोऽपि सामान्यतः सिद्ध इत्युच्यते। ततः प्रत्यक्त्वानुरक्तविशेषान्तरैर्विप्रतिपद्यते। तत्र विशेषान्तरानुरागविरोधिनाऽसाधारणस्वरूपेण निर्णीयत इति। कथं विप्रतिपत्तिः तां दर्शयति--देहमात्रमित्यादिना।। कथं पुनः प्रत्यक्षसिद्धपदार्थे जायमानस्य प्रयुज्यमानस्याहंप्रत्ययस्य तच्छब्दस्य चानेकार्थसाधारण्याशङ्कया विप्रतिपत्तिरिति तत्र दृष्टान्तमाह--तद्यथा गोशब्दस्येति।। जातिर्वैदकैः प्रतिपन्ना, व्यक्तिः संख्यादिभिः, उभयं वैयाकरणैः आकृतेरवयवसंस्थानमार्हतादिभिः, त्रितयमपि नैयायिकैः, क्रिया-गुण-संस्थानादयोऽपि यथादर्शनम्, इति यथा गोशब्दप्रयोगे जात्यादीनामन्वयव्यतिरेकनियमादेकस्यापि व्यभिचाराभावाच्छब्दार्थत्वाशङ्का, तथा शरीरादीनामन्वय-व्यतिरेकनियमादात्मत्वाशङ्केति भावः।।
स्पष्टमूर्ताकारतया स्थूलमूर्ततारम्तयान्निरासक्रमसिद्धेश्च शरीरमारभ्य विप्रतिपत्ति दर्शयति--तदाह देहमात्रं चैतन्यविशिष्टमिति।। शरीरस्यात्मत्वाशङ्कायां प्रत्यक्षं प्रमाणमाह--तथाहि मनुष्योऽहमिति।। देहशब्दार्थमाह--देहमात्रमितीति।। त्वगिन्द्रियस्य निरपेक्षाधारः शरीरं नाम। तत्रावयवान्तरेषु छिद्यमानेष्वपि प्रायेण त्वगिन्द्रियं तिष्ठति, न शिरश्छेद इत्यभिप्रायेण सशिरस्केत्युच्यते। ननु भूतचतुष्टयतत्ववादिनां पञ्चमं चैतन्यं तत्त्वमवशिष्यत इति, तन्निवृत्त्यर्थमाह--मात्रशब्देन देहातिरिक्तमित्यादिना।।
पक्षान्तरमाह--इन्द्रियाण्येवेति।। ननु यस्मिन् विज्ञानमुत्पद्यते, स चेतनः। नहीन्द्रियाश्रयं विज्ञानमुत्पद्यते; "मनुष्योऽहं जानामी"त्यवगमात्। तत्र कथं तेषां चेतनत्वमिति तत्राह--इन्द्रियाणां चक्षुरादिमनःपर्यन्तानामिति।। अयमाशयः--सत्यपि शरीरे विषयज्ञानानामिन्द्रियैरन्वय-व्यतिरेकवत्त्वात् करणतयाऽन्वय-व्यतिरेकवत्वकल्पनादाश्रयताऽन्वयव्यतिरेककल्पनस्याभ्यर्हितत्वादिन्द्रियाण्येव विज्ञानाश्रयाणीति।
ननु एकस्मिन् शरीरे बहूनामिन्द्रियाणां चेतनत्वे "रूपमद्राक्षम्" "इदानीं श्रृणोमी"ति प्रत्यभिज्ञा न स्यात्, भोक्तृत्वं च रूप-रसादिषु युगपत् स्यात्, न क्रमेणेति, तदाह--क्रमेण वरगोष्ठीवदिति।। एकशरीराश्रयत्वमेव प्रत्यभिज्ञा-क्रम-भोगयोर्निमित्तम्, नैकत्वमित्यर्थः। ननु--चेतनत्वेऽप्यहंप्रत्ययालम्बनस्यैवात्मत्वम्, तदभावान्नेन्द्रियाणामात्मत्वमिति, तत्राह--तथाचेन्द्रियधर्मसामानाधिकरण्यमहंप्रत्ययस्येति।। शरीरस्याप्यहंप्रत्ययालम्बनत्वविज्ञानान्वय-व्यतिरेकयोरिन्द्रियात्मनामाश्रयत्वेनाप्युपपत्तेरिति भावः।।
पक्षान्तरमाह--मत एव चेतनमिति।। किमत्र प्रापकं प्रमाणमिति तदाह--दृश्यते हि स्वप्न इति।। अयमर्थः--स्वप्ने चक्षुराद्यभावेऽपि केवले मनसि विज्ञानालम्बनत्वाहंप्रत्ययविषयत्वयोरविकलयोर्दर्शनात्, रूपादिविज्ञानानां चक्षुराद्याश्रयत्वे तदभावे केवले मनसि रूपादिस्मृत्यनुपपत्तेः, आश्रयान्तरे चासिद्धे चक्षुरादीनां ज्ञानान्वय-व्यतिरेकयोः करणविषयतयाऽप्यनुपपत्तेः, अहंप्रत्ययस्य च देह इव करणे कर्तृत्वोपचारात् सिद्धेः, प्रत्यभिज्ञायाः शरीरादाविवैकत्वनिबन्धनत्वात्, एकाश्रयत्वात्प्रत्यभिज्ञायामेकप्रासादसमाश्रितानामपि तत्प्रसङ्गात्। तस्माच्चक्षुरादिकरणशरीराधारं मन एवात्मेति।।
पक्षान्तरमाह--विज्ञानमात्रं क्षणिकमित्येक इति।। वर्णत्रयशब्देन वर्णत्रयाभिधेयं विज्ञानमात्रमुच्यते। तेन च विज्ञानाश्रयस्यात्मनोऽभाव उच्यत इति। कथम् शरीरेन्द्रियाणां तावद्विज्ञेयत्वादविज्ञानस्यानात्मत्वाद् मनसश्च समनन्तरप्रत्ययव्यतिरेकिणोऽभावादाश्रयान्तरादर्शनादिति। कस्तर्ह्यात्मेति तदाह-तेन विज्ञानमेवेति।। तर्हि सांख्यादीनामिव विज्ञानमेवानादिनिधनमात्मेति, तदाह--स्वरसभङ्गुरमिति।। कथं तर्हि प्रत्यभिज्ञानेनैकत्वावगम इति तदाह--अविरतोदयमिति।। ज्वालानामिव संततविज्ञानोदयसादृश्यात् प्रत्यभिज्ञेत्यर्थः। कथं तर्हि कर्म-ज्ञान-बन्ध-मोक्षाश्रयत्वं क्षणिकस्येति तदाह--अखिललोकयात्रानिलयमिति।। विज्ञानानां हेतु-फलसन्तानमात्रादेव कर्मफलसम्बन्ध इत्यर्थः। ननु स्थायिन्यात्मन्येकस्मिन् सर्वमेतन्मुख्यमुपपन्नमिति, तत्राह--अनुभवभग्नपक्षान्तरमिति।।
पक्षान्तरमाह--शून्यमिति।। विज्ञानव्यतिरिक्तानां तावदात्मत्वं विज्ञेयत्वात् प्रत्याख्यातम्। न च विज्ञानस्यात्मत्वमस्ति; सुषुप्ते शून्यताऽवगमात्। विद्यत एव तत्रापि विज्ञानप्रवाह इति चेत्, न; विषयावभासाभावात्, निरालम्बनज्ञानायोगाच्च। साकारज्ञानानामेव सालम्बनत्वं न सौषुप्तिकानामिति चेत्, न; विशेषाभावात्, अविशेषानुमानाच्च। उत्थितेनास्मर्यमाणविज्ञानत्वाच्च सुषुप्ते विज्ञानाभावः। किंच सविकल्पकस्य स्वविषयविपरीतनिर्विकल्पकालम्बनत्ववन्निर्विकल्पकस्यापि सत्प्रत्ययत्वात् स्वविषयविपरीतशून्यालम्बनत्वानुमानादुत्थानप्रत्ययः शून्यालम्बन इति गम्यते। तदेतदाह--सुषुप्ते विज्ञानलेशस्याप्यभावादिति।। मा भूद्विज्ञानलेशः, ततः किमिति तदाह--अकस्मादेवेति।। उत्थानप्रत्ययस्य पूर्वसमनन्तरप्रत्ययशून्यतया कारणशून्यता स्यादिति भावः। मा भूत् कारणमिति चेत्, तदाह--अकारणस्य कादाचित्कस्येति।। तस्माच्छून्यालम्बनोऽसदवभासोऽयमिति।।
विप्रतिपत्त्यन्तरमाह--अस्ति देहादिव्यतिरिक्त इति।। कथं पुनर्विज्ञानशून्यव्यतिरिक्तस्यात्मनः सिद्धिरिति तदाह--अहमुल्लेखशून्यस्य भोक्तृत्वस्येति।। अयमाशयः--अहमित्यवभासमानो विषयसंविदाश्रयत्वेन भोक्ता न कदाचिदपि ममप्रत्ययालम्बनो भोक्तृत्वमनुभवति। स चाबाधितप्रत्यभिज्ञागोचरो न सुषुप्तेऽभावमनुभवितुमर्हति। ततः शून्यः क्षणिकविज्ञानव्यतिरिक्तो भोक्ता; प्रत्यभिज्ञया सुषुप्तेऽपि सत्तावगमात्, ज्ञानेच्छा-द्वेष-प्रयत्न-सुख-दुःखेषु चाश्रयैकत्वावगमात्। तथाहि--प्रवृत्तिनिमित्तभूतमभिलषितसाधनज्ञानमुत्पद्यमानमित्थमुत्पद्यते--प्रथमे वस्तुनि दृष्टे, तदुपभोगानन्तरं सुखसंवेदने च द्वितीये सञ्जाते, पुनर्वस्त्वन्तरदर्शने तृतीये समुत्पन्ने, चतुर्थे च दृष्टस्य वस्तुनः पूर्वसुखसाधनसामान्यासंधाने, पञ्चन्यामवस्थायाम्--इदं सुखसाधनमिति ज्ञानमुत्पद्यते। ततः पञ्चस्ववस्थास्वेकमात्मानमन्तरेणेदं ज्ञानमनुपपन्नम्; अन्यदृष्टेऽन्यस्य सुखानुभवाभावात्, अन्यानुभूतेऽन्यस्य व्याप्त्यनुसंधानाभावात्, अन्यानुसंहितेऽन्यस्य सुखहेतुज्ञानाभावात्, संतानभेदेष्वदर्शनात्। तथा दुःखहेतुताज्ञानमपि पञ्चावस्थमात्मानं कल्पयति। तथा हिताहितज्ञानपूर्वकौ राग-द्वेषौ षष्ठावस्थौ षडवस्थमात्मानं कल्पयतः। रागद्वेषाभ्यां च हानोपादानप्रयत्नो जायमानः सप्तावस्थमात्मानं कल्पयति। तथा प्रयत्नानन्तरमष्टम्यामवस्थायां
सुखदुःखे जायमाने अष्टावस्थमात्मानं कल्पयतः। नच क्षणिकेष्वात्मसु संतानभेदेष्विवायं व्यवहारः सम्भवति। तथा नाहं ज्ञानमित्यहमुल्लेखो विज्ञानेषु, किं तु मम ज्ञानमिति। नच ममात्मेतिवदुपचारः; बाधाभावात्, इतरत्र संबन्धप्रत्ययस्यात्मशब्देन बाधात्। तस्मादहमुल्लेख-प्रत्यभिज्ञाभ्यां शून्यविज्ञानव्यतिरिक्त आत्मा। तथा ताभ्यामेव हेतुभ्यां मनोऽपि नात्मा; सुषुप्ते मनसोऽभावेप्यात्मनि प्रत्यभिज्ञानात्, "अहं मनः" इत्यनवगमात्, "मम मनः" इति च प्रतिभासात्, ज्ञानायौगपद्येन करणतयैव तस्य कल्पनात्। तथा ताभ्यामेव हेतुभ्यां नेन्द्रियाण्यप्यात्मानः; रूप-रसादिविज्ञानपञ्चके द्रष्टुःप्रत्यभिज्ञानात्, स्वप्ने चक्षुरादिव्यवहाराभावेऽप्यहमित्यात्मनि परिपूर्णप्रत्ययात्, "ममेन्द्रियाणी"ति चावगमात्, इन्द्रियाणामहमुल्लेखव्यतिरेकात्। तथा शरीरमपि नात्मा; स्वप्ने शरीराकारावभासाभावेऽप्यहमित्यात्मनि परिपूर्णप्रत्ययात्, अहमुल्लेखव्यतिरेकात्, शरीराकारसंसर्गशुन्येऽप्य"हमि"ति द्रष्टरि प्रत्ययः शरीरादात्मनो भेदे प्रत्यक्षप्रत्ययो भवति; "मम शरीरमि"ति च व्यतिरेकप्रत्ययात्। ननु "अहं काणोऽहं मनुष्यः" इति च शरीरेन्द्रियेष्वहमुल्लेखादुपचारो भेदप्रत्ययः, अहमुल्लेख एवोपचारः किं न स्यात् कस्तर्हि निर्णयः अहमुल्लेखस्यैवोपचारो युक्तः; व्यतिरिक्तेऽप्यात्मन्यध्यासनिबन्धनत्वोपपत्तेः। नचाध्यासाद् द्विचन्द्रादिवद् भेदप्रत्ययः द्वितीयेऽपि चन्द्रे चन्द्राकारवत् स्वप्नेऽपि "पशुरहमि"ति प्रतिभासे मनुष्यशरीराद्याकारप्रत्ययप्रसङ्गात्। तथा जातमात्रस्य जन्तोर्भय-हर्ष-शोकादिरुत्पाद्यमानो दृष्टनिमित्ताभावेऽस्मदादिवत्पूर्वानुभूतनिमित्तानुस्मृतिं कल्पयति। ततश्चास्यैवात्मनो भयादिनिमित्तदर्शनवत्तया पूर्वजन्मसंबन्धसिद्धिः; प्रत्यभिज्ञानात्। तदेवमहमुल्लेख-प्रत्यभिज्ञाभ्यां शरीरेन्द्रिय-मनो-बुद्धि- शून्यव्यतिरिक्त आत्मा सिद्धः।।
ननु स्थायित्वेऽपि कदाचिदभावः स्यात्, न तावत्परतो विनाशः; निरवयवस्य हेतुपरागाभावात्, स्वसंसर्गिणश्च स्वकर्मफलसाधनतयोपात्तस्य फलहेतुतयाऽऽत्मनः स्थितिहेतुत्वादविनाशकत्वात्, नापि स्वत इत्याह--स्थिरस्य चावधिहेतुत्वानुपलब्धेरिति।। स्वसत्ताप्रयुक्तविनाशहेतुत्वानुपपत्तेः, क्षणिकस्यैव तद्भावादित्यर्थः। कथं पुनस्तस्य कर्तृत्व-भोक्तृत्वे इति तत्प्रतिपादयति--निर्विकारस्य भोगासंभवादित्यादिना।। "कथं पुनस्तद्व्यतिरिक्तत्वमि"ति स्पष्टार्थः।।
तत्र नैयायिका मन्यन्ते--पार्थिवाऽऽप्य-तैजस-वायव्यानि भूम्यन्तरिक्ष-स्वर्ग-ब्रह्मलोकेषु व्यवस्थया शरीराणि, नानेकैर्भूतैरेकं शरीरमारब्धमिति। तत्रास्मदादिशरीरं पार्थिवमेव; "पार्थिवगुणान्तरोपलब्धेरि"त्यक्षपादसूत्रात्, शरीरे गन्धविशेषोपलब्धेरित्यर्थः। नच रूप-रस-स्पर्शा भूतान्तरसमवायं गमयन्ति; पार्थिवस्यापि तेषां गुणत्वात्। ननु क्लेदन-पाचन-व्यूहनावकाशानां शरीरे दर्शनाद् भूतपञ्चकारब्धत्वं शरीरस्येति, न; दृतिवस्त्रोदकादिवद् भूतान्तसंयोगादपि व्यूहनाद्युपपत्तेः। श्रुतिश्च "पार्थिवीं शरीरमि"ति पार्थिवत्वमेव शरीरस्य दर्शयति। वैशेषिकास्तु--प्रत्यक्षाप्रत्यक्षवृत्तेरप्रत्यक्षत्वात् पञ्चात्मकं न विद्यत इति, वाय्वाकाशयोरप्रत्यक्षत्वात् पञ्चात्मकं शरीरमप्रत्यक्षं स्यात्, तस्मात्पार्थिवमेव शरीरमिति--कल्पयन्ति।। तान् प्रत्याह--भूतसंघातस्तावच्छरीरमिति।। वस्त्रे क्लेदनस्य, जले पाकस्य, हतौ व्यहनस्य जलाग्निपवनविगमादपायेऽपि वस्त्रादीनामपचयादर्शनाच्छरीरस्य च जलादिविगमे तन्त्वपचयात्पटापचयवदपचयदर्शनात् सर्वतन्त्वारब्धपटवत्सर्वभूतारब्धं शरीरमिति गम्यते। "अन्नमशितं त्रेधा विधीयते" इत्यादिश्रुति-स्मृतिवादाश्च भूतपञ्चकं शरीरं कथयन्ति; प्रत्यक्षाप्रत्यक्षयोरप्रत्यक्षत्वे सर्वावयविनां प्रत्यक्षाप्रत्यक्षावयववृत्तीनामप्रत्यक्षत्वापातः। तस्माद् भूतसंघातः शरीरमिति।।
अत्रावयवव्यापारम्भमनपेक्ष्य संघातमात्रस्य भोक्तृत्वाभावं दर्शयितुं विभजते--तत्र व्यस्तानामिति।। व्यवस्तानां भोगेऽपि युगपत् क्रमेण वा भोगः न तावद् युगपदित्याह--यदि तावद् व्यस्तानामिति।। तत्र दूषणमाह--ततः स्वार्थप्रयुक्तत्वादिति।। मा भूदङ्गाङ्गिभाव इत्यत आह--न चाङ्गाङ्गिभावमन्तरेणेति।। एकैकस्य भोक्तृत्वे संघातादन्यत्रापि भोगः स्यादित्याह--तस्मान्न व्यस्तेषु भोग इति।। अस्तु तर्हि क्रमः। ननु क्रमपक्षेऽपि भोक्तृणां न संघातापत्तिरिति, तत्राह--विरोधाद्वरगोष्ठीवदिति।। परिहर्तुं दृष्टान्ताद् वैषम्यमाह--नैतदेवमिति।। दार्ष्टान्तिकं विभजते--इह पुनरिति अयमत्राशयः--यदि तावद् रूप-रस-गन्ध-स्पर्शानामन्यतमोऽपि चतुर्णां भोक्तृणां
विषयः, तदा साधारणे विषये क्रमभोगे कारणं नास्ति, यदि रूपादिषु प्रत्येकं भूतानां भोक्तृत्वविषयव्यवस्था, तदाऽपि युगपत् सर्वविषयसन्निधाने क्रमानुपपत्तिः। यथैकस्मिन् मुहूर्ते प्रत्येकं भोग्यकन्यावस्तुनि सन्निहिते वराणां गुणप्रधानतया संघाताभावः, तद्वद् भोक्तृषु च प्रत्यभिज्ञानुपपत्तिरिति। अस्तु तर्हि समूहस्य भोक्तृत्वम्। ननु एकस्मिन् भूतेऽविद्यमानं चैतन्यं कथं संघाते जन्यत इति तदाह--तिलज्वालावदिति।। तत्र वक्तव्यम्--किं संहतानां भोक्तृत्वम् आहोस्विद् भोक्तृणां संहतिरिति संघातस्यावस्तुत्वाद् भोक्तृत्वानुपपत्तेः, वस्तुत्वेऽपि भूतेभ्यो भेदे पञ्चमतत्त्वाभ्युपगमप्रसङ्गात्, अभेदे भूतान्येव संघात इति तेषामेव भोक्तृत्वात्। तत्र संहतानां भोक्तृत्वे संहतिहेतुर्वक्तव्यः। आगामी भोग इति चेत्, तं प्रति भूतानां समानत्वाद् गुणप्रधानभावेन संघातानुपपत्तिरित्याह--नैतदेवं भोगेषु समूहासम्भवादिति।। ननु भोगान्वयात् प्राग् भूतानां कर्तृत्वात् कर्तृणां भोगे गुणभावेन संघातोपपत्तिरिति चोदयति--कथमसंभव इति।। अन्योन्यं गुण-प्रधानत्वाभावाद् भोगं प्रत्यपि प्राधान्याद् भोक्तृणां न संघात इति परिहरति--भोक्तुर्भोगं प्रति प्राधान्यादिति।। ननु भोगे शेषिणि तादर्थ्येन समूहो दृश्यत इति चोदयति--ननु भोगेऽपीति।। तत्र शरीरव्यतिरिक्तयोरेवात्मनोर्भोक्त्रोस्तादर्थ्येन शरीरयोर्गुण-प्रधानभावेनान्वयः, न भोक्त्रोरेवेत्यभिप्रेत्य परिहरति--नैतत्सारमिति।। ननु ज्वालायां तिलानां गुणाभाववद् भोगे संघात इति, नेत्याह--तिलज्वालायां तु विपरीतमिति।। अत एव भोक्तृणामेव संहतिपक्षोऽनुपपन्नः।
ननु कोऽयं संघातो नाम नच वनवदेकदेशतामात्रम् ; तद्व्यापीनां भूतानां सर्वत्र विद्यते, इति सर्वत्र चैतन्य-भोगयोः प्रसङ्गात्। नचावयव्यारम्भः; तस्य भूतेभ्यो भेदे तत्त्वसंख्यातिरेकात्, अभेदे च भूतमात्रतया संघाताभावात्, भेदाभेदानङ्गीकरणात्। ननु स्वतन्त्रं भूतचतुष्टयमेव; अवयव्यादीनां पारतन्त्र्यात् संख्यातिरेकाभावात्, तर्हि न भूतानां भोक्तृत्वम्, किंत्वयवविन एव। तत्र भूतव्यापारानपेक्षया स्वयमेव भोक्तुरवयविनः परतन्त्रताऽभावात् संख्यातिरेकः स्यात्, जलादेश्च पृथिव्यादितन्त्रत्वान्न्यूना च संख्या स्यात्। नचैकद्रव्यबुध्यालम्बनयोग्यतापत्तिः संघातः; अर्थस्वभावेनैकत्वापत्त्ययोगात्, अनेकेष्वेकत्वबुद्धेर्भ्रमत्वात्। नचैकार्थक्रियायां युगपदन्वयः संघातः; काष्ठाश्रयेण वह्निना वायुसमुद्भूतेन जले दह्यमानेऽपि संघाताद् भोगप्रसङ्गात्। नचाग्न्ययः पिण्डवत्संश्लेषः संघातः; शरीरे वायोस्तथा संश्लेषाभावात्, वह्निव्याप्ते चायःपिण्डे समापीतजले वायुसंयुक्ते च भोगप्रसङ्गात्। तस्मान्नास्ति भोगनिमित्तः संघात इति।।
एवं तर्ह्येकस्यैव भूतस्य भोग इत्याह--अस्त्वेकस्य तर्हि नियत इति।। रूप-रस-गन्ध-स्पर्शेषु भोग्येषु कठिनमृदुपाकचलनगुणवति भूतसंघाते च भोगान्वयिनि परिदृश्यमाने कस्यैकस्य भोग इत्यनवधारितो भोगः स्यादिति दूषयति--न तत्रापीति।। ननु यस्य कस्यचिद् भोगः स्यात्, तावतैव शरीरव्यतिरिक्तभोक्तृरभावो विवक्षितः सिद्ध इत्याह--किमवधारणेनेति।।
परिहरति--यद्येवमिति।। चतुर्णां भोगान्वयदर्शनाद् विशेषनिर्धारणाभावाच्चतुर्षु भोक्तृषु संघातानुपपन्नेरयुक्तं शरीरात्मकेषु भूतेषु भोक्तृष्वन्निति। इन्द्रियाण्येव भूतात्मकान्यात्मेति लोकायतभेदः, तत्रोक्तं दूषणजातमतिदिशति--एवं कारणात्मकेष्वपीति।। यद्येकैकभूतारब्धान्येकैकेन्द्रियाणि, तत्र प्रत्यभिज्ञानाभावादयो दोषाः। यदि भूतचतुष्ट्यारब्धकैकेन्द्रियम्, तदा संघातानुपपत्त्यादयो दोषाः, इति कार्य-कारणात्मकः संघातो भोक्तेत्यन्ये लोकायतिकाः, तत्राह--तयोभयात्मक इति।। प्रत्यभिज्ञासंघातानुपपत्तेरिति।।
ननु कानीन्द्रियाणि नाम गोलकमात्राणीति सुगताः; तच्छक्तय इति मीमांसकाः; तद्व्यतिरिक्तानि द्रव्यान्तराणीत्यन्ये सर्वे। न तावद्गोलकमात्रम्; सर्पादीनां तद्विरहिंणामपि शब्दार्थापलब्धेः, "शरीरजैः कर्मदोषैर्याति स्थावरतां नरः"। "तस्मात्पश्यन्ति पादपाः" इत्यादिशास्त्राद् वृक्षादीनां गोलकविरहिणां कर्मफलभोगस्थानावगमेन शब्दार्थोपलब्ध्यभ्युपगमात्, वृक्षादिहिंसाप्रतिषेधाच्च प्राणित्वावगमात्। अत एव न तच्छक्तयः; शक्तिमद्द्रव्यान्तरकल्पनाल्लघीयः प्रतिपन्नस्थानेषु शक्तिकल्पनमिति चेत्, तर्ह्यात्मन एव सर्वज्ञानसामर्थ्यं क्रमकारि कल्प्यताम्; सर्वगतस्याप्यात्मनः शरीरप्रदेशे ज्ञानपरिणामवद्गोलकप्रदेशेषु ज्ञानपरिणामात्, गोलकप्रदेशेषु ज्ञानपरिणामाद् गोलकानां ज्ञानान्वयव्यतिरेकोपपत्तेः, अनिन्द्रियत्वेऽपि शरीरवत्। सन्तु तर्हीन्द्रियाणि
गोलकव्यतिरिक्तानि शक्तिमन्ति द्रव्याणि स्थानविशेषसम्बन्धाच्चक्षुरादिशब्दवाच्यानि, न; तेषु प्रमाणाभावात्। रूपाद्युपलब्धय एव कर्तृव्यापाराः करणानुमाने लिङ्गमिति चेत्, न; स्वव्यापाराकर्तृषु करणेषु करणान्तराभावादनैकान्तिकत्वात्, करणविषये च तत्प्रेरणालक्षणे कर्तृव्यापारे करणान्तराभावात्। "सर्वे प्राणा अनूत्क्रामन्ती"त्यागमगम्यानीन्द्रियाणीति चेत्, न; आगमसंस्कारविरहिणामपीन्द्रियाप्रतिपत्तेः। नच मनोवत्साक्षिवेद्यानीन्द्रियाणि; कार्यभावाभावव्यतिरेकेणेन्द्रियभावाभावानवगमात्। तस्मान्न सतीन्द्रियाणि।
उच्यते--आगमावगमात्प्राक् स्थानविशेषु चक्षुरादीन्द्रियव्यवहारः प्रवर्तते, मण्डलादिष्वादित्यादिव्यवहारवत्, आगमावगतौ तु स्थानविशेषाधिष्ठातृणि चक्षुरादीन्द्रियाण्यादित्यादि देवतात्मवदित्यवगम्यते। तानि पुनर्व्यतिरिक्तान्यप्याहङ्कारिकाणीति सांख्याः, तदयुक्तम्; प्रमाणाभावात्। न तदावदध्यात्माहङ्कारजन्यादीन्द्रियाणीत्यन्वयव्यतिरेकावगमो वा दृश्यते। नच कृत्स्नकार्यव्यापी भूतेन्द्रियाणां प्रकृतिः कश्चिदहङ्कारो विद्यते; मानाभावात्। आप्तवचनं मानमिति चेत्, न; अतीन्द्रियत्वात्। ननु पुराणवाक्यान्येव सन्ति, सत्यम् "अन्नमयं हि सौम्य मनः" इत्यादिभूतविकारार्थे मयट्श्रुतिविरोधादहङ्काराधीनतामात्रमिन्द्रियाणां तत्र कल्प्यत इति न विरोधः।।
भौतिकानीन्द्रियाणीति वैशेषिकादयः, तदप्ययुक्तम्; मानाभावात्। भौतिकानि, इन्द्रियाणि, मध्यमपरिमाणत्वेन सावयवत्वात्; घटादिवत्, इति चेत्, न; हेतोरसिद्धत्वात्, अणुपरिमाणत्वोपपत्तेरिन्द्रियाणाम्। तर्ह्यणुपरिमाण एव विषयावभासः स्यात् न; अणुपरिमाणेव मनसा विस्तृतात्मादिवस्तुदर्शनात्। ननु भौतिकानि, इन्द्रियाणि, रूप-रस-गन्ध-स्पर्शानां नियमेनाभिव्यञ्जकत्वात्; प्रदीपास्योदक-दिङ्ग्वादिद्रव्य-व्यजन-वायुवत्, इत्यनुमानान्तरेण प्रत्येकभूतारब्धानि प्रत्येकेन्द्रियाण्यनुमीयन्त इति, न; शब्दादिव्यञ्जके श्रोत्रे शब्दगुणवदाकाशानारब्धेऽनैकान्तिकत्वात्, कर्णशष्कुल्यवच्छिन्नाकाशमात्रस्य श्रोत्रत्वाभ्युपगमादनारब्धत्वात्। मनसश्च भूतचतुष्टयारब्धत्वप्रसङ्गः; तदभिव्यञ्जकत्वात्। आत्माकाशादीनामपि साधारणत्वान्मनसो न भूतारभ्यत्वमिति चेत्, संख्या-परिमाण-संयोग-विभाग-जाति-विशेष-समवायादीनामपि साधारणत्वादिन्द्रियाणां न भूतारभ्यत्वसिद्धिः। असाधारणविषयारभ्याणीन्द्रियाणीति चेत्, तर्ह्यात्मारभ्यं मनः स्यात्; असाधारणविषयत्वात्। एकद्रव्यारब्धं न द्रव्यमिति चेत्, न; सावयवमनेकद्रव्यारभ्यमित्येतावत्, निरवयवं तु मनो निरवयवात्माऽऽमारभ्यं किं न स्यात् तस्मादागमादेव भौतिकत्वसिद्धिः।।
तानि सर्वगतानीति योगाः प्रतिपेदिरे, तदपि मानहीनम्। आत्मेन्द्रिय-मनांसि, सर्वगतानि, सर्वत्र दृष्टकार्यत्वादाकाशवदिति चेत्, न; हेतोरसिद्धत्वात्। यत्र शरीरम्, तत्र सर्वत्र दृष्टकार्यत्वादिति चेत्, शरीरेऽनेकान्तः। परोपाधिगमनत्वादाकाशवदिति चेत्, न; शरीरावयवानामपि परोपाधिगमनात्, सर्वगतत्वे च युगपत् सर्वविषयोपलब्धिश्च स्यात्। शरीर एव वृत्तिलाभान्नेति चेत्, तर्हि बहिरिन्द्रियसद्भावकल्पना न प्रमाणाप्रयोजनमती।।
तान्यप्राप्यकारीणिति सुगताः, तदयुक्तम्; दूरत एव स्पर्श-रस-गन्धोपलब्धिप्रसङ्गात्। योग्यदेशावस्थानमपेक्षितमिति चेत्, न; इन्द्रियदेशप्राप्तिव्यतिरेकेण योग्यदेशानिरूपणात्। स्पर्शन-रसन-घ्राणेन्द्रियवत् चक्षुःश्रोत्रयोरपि प्राप्यकारित्वमनुमीयते, तेजसश्चातिदूरशीघ्रगमनदर्शनाच्चक्षुषो ध्रुवादिप्राप्तिरविरुद्धा। शब्दस्य च दूरदेशोपलब्धेर्न वीचीसन्तानवत् परम्परया श्रोत्रसमवायः। तस्माद् भौतिकानि परिच्छिन्नानि प्राप्यकारीणीन्द्रियाणीति सिद्धम्। किं तर्हि मनो नाम नित्यं निरयवयवमणुपरिमाणमिति वैशेषिकादयः संगिरन्ते। न तावन्नित्यम्; परिच्छिन्नत्वात्। निरवयवद्रव्यत्वादात्मवन्नित्यमिति चेत्, न; करणत्वेनेन्द्रियवत् सावयवत्वानुमानात्, अन्नमयत्वश्रुतेश्च। मूर्तद्रव्यानभिघातान्निरवयवमिति चेत्, न; मनसो बहिर्निर्गमनाभावात्। उत्क्रान्तिरिन्द्रियाणामपि समाना। संयोगविभागवत्वान्न घटादिवदणुपरिमाणता। सर्वगतत्वे च युगपत् सर्वेन्द्रिय संयोगात् सर्वज्ञानप्रसङ्गः। मध्यमपरिमाणत्वेन सावयवत्वेऽवयवोपचयापचयसम्भवान्न स्थूल-सूक्ष्मदेहप्रतिपत्तिविरोधः। समनन्तरप्रत्यय एवोत्तरज्ञानकारणतया मन इति शाक्याः प्रतिपेदिरे, तन्न; ज्ञानस्य ज्ञानान्तरहेतुत्वे व्याप्तिसापेक्षत्वात्। शाब्दज्ञानमपि व्याप्तिजन्यमिति ते मतम्। विशिष्टज्ञानमपि संयोगजन्यं न विशेषणज्ञानजन्यम्। समनन्तरप्रत्ययादुत्तरस्य ज्ञानाकारलाभ इति चेत्, न; वस्तुस्वभावस्यानन्याधीनत्वात्।
तस्मात्सावयवमन्यदेव मन इति।।
कश्चायमात्मा सर्वगतो जड केचित्। न तावत्सर्वत्र दृष्टकार्यत्वं सर्वगतत्वे हेतुरित्युक्तम्। व्यवहितदेशेऽदृष्टनिमित्तनृत्त्यादिक्रियारम्भात् तस्य चादृष्टवदात्मसंयोगापेक्षत्वात्सर्वगत इति चेत्, न; अत्र समवेतादृष्टस्य स्वर्गे भोगोदयाददृष्टवत्प्रदेशासंयोगात्, केवलात्मप्रदेशसंयोगस्य फलाहेतुत्वात्। तस्मादागमादेव सर्वगतत्वसिद्धिः। नच जाड्यम्; स्वयंप्रकाशतावगमात्। प्रत्यक्षस्तावत्सुषुप्तेऽवभासः। अनुमानमपि--स्वयंप्रकाशः, अयमात्मा, स्वसत्तायां प्रकाशव्यतिरेकाभावात्, प्रदीपसंवेदनवत्। आत्मा, स्वयंप्रकाशः, विषयप्रकाशकर्तुत्वात्; प्रदीपवत्। तथा आत्मा, स्वयंप्रकाशः, विषयप्रकाशाश्रयत्वात्; आलोकवत्। अजन्यप्रकाशगुणश्चात्मा, प्रकाशगुणत्वात्; आदित्यादिवत्। आत्मा, स्वयंप्रकाशः, अनिन्द्रियगोचरत्वे सत्यपरोक्षत्वात्; संवेदनवत्। आगमश्चात्र दर्शितः।
स चैकः; सर्वशरीरेषु सर्वत्राहमित्येकाकारप्रत्यक्षवेदनीयत्वात्; गोत्ववत्। शरीरभेदादेवातीतशरीरादाविव न भोगानुसन्धानप्रसङ्गः। नचैकस्मिन्नपि परिमाणभेदात्प्रतिक्षणं शरीरभेदो युक्तः; प्रत्यभिज्ञाविरोधात्; अननुसन्धानप्रसङ्गाच्च, ज्वालायां सूक्ष्मदर्शने प्रत्यक्षत एव भेदादर्शनात्। तस्मादेकः स्वयंप्रकाश आत्मेति सिद्धम्। तस्मादित्युपसंहारः।
पक्षान्तरमाह--भोक्तैव केवलमिति।। कर्तृत्वं हि क्रियावेशः। नच सर्वगतस्य निरवयवस्यात्मनः परिस्पन्द-परिणामलक्षणक्रियान्वयः सम्भवति। नच बुद्धेः कर्तृत्वमात्मनो भवति; तादात्म्याध्यासाभावात्, अख्यातिवादित्वात्। हेत्वन्तरमाह--करोमि जानामि भुञ्जे चेति।। न चैतन्यवत् क्रियावेशोऽप्यात्मनः स्वभावधर्मश्चेत्, आत्मप्रतिभासं न व्यभिचरेत्, नचागन्तुको निरवयवद्रव्यस्य हेतूपरागेण कश्चिद्धर्म उत्पादयितुं शक्यत इति।।
ननु आत्मप्रतिभासव्यभिचारात्कर्तृत्ववद् भोक्तृत्वमपि न स्यादिति चोदयति--ननु भोक्तापीति।। परिहरति--नैतदेवमिति।। दृश्यावभासमात्रं भोक्तृत्वम्, न सुख-दुःखान्वयः। ततश्चावस्थात्रयेऽपि दृश्यावभासव्यभिचाराभावाद् भोक्तैव केवलमिति।।
पक्षान्तरमाह--अस्ति तद्व्यतिरिक्तः इति।। भाष्यं व्याचष्टे--तस्मादपि देहादिव्यतिरिक्तादन्यः सिद्ध ईश्वर इत्युत्तरेण संबन्धः।। अत्रेश्वरे वैशेषिकानुमानं दर्शयति--शरीरिणां मनसाऽपीत्यादिना।। विवादगोचरापन्नं भूत भौतिकलक्षणं तनुभुवनविरचनकार्यम्, स्वरूपोपादान-संप्रदान-प्रयोजनोपकरणादिविषयविज्ञानवत्कर्तृपूर्वकम्, विविधविन्यासरूपकार्यत्वात्; प्रासादादिवत्, इति कल्पनालाघवादेककर्तृकत्वोपादानात् सर्वज्ञत्वादिसिद्धिरिति। सांख्य-योगानुमानं दर्शयति--सातिशयानां काष्ठाप्राप्तिरिति। विवादगोचरापन्ना ज्ञानैश्वर्यशक्तयः, क्वचित्सर्वविषयज्ञानैश्वर्यशक्त्यविनाभूताः, तरतमभावेनोत्कृष्यमाणविषयव्यापिधर्मत्वात्; स्वविषयदेशव्यापिपरिमाणधर्मवदिति। काष्ठाप्राप्तिरसर्वविषयत्वेऽपि सम्भवतीति सर्वविषयमिति वेत्युक्तम्; अनुमाने तथैव दर्शितत्वात् सदा सिद्ध ईश्वर इति। नैयायिकाद्यनुमाने दर्शयति--विवादगोचरापन्नानि धर्माधर्मफलानि, कर्म-तत्फल-संप्रदानोपकरणादिविज्ञानवता प्रदीयमानानि, व्यवहितकर्मफलत्वात्; सेवादिफलवदिति। तस्मात्सिद्ध ईश्वरः।।
ननु प्रत्यगात्मनो विप्रतिपत्त्यालम्बनस्य सम्बन्धितया स्कन्धभेददर्शनं विप्रतिपत्तिः; नच व्यतिरिक्त ईश्वरः प्रत्यगात्मनो विशेषस्कन्धः; अतोऽसौ न शरीरादिवत् स्कन्धविशेषतया प्रतिपादनीय इति चोदयति--नन्वहमिति सर्वो लोक इत्यादिना।। उच्यत इत्यादिपरिहारस्यायमर्थः--ब्रह्म हि विप्रतिपत्त्यालम्बनम्। तच्च प्रत्यगात्मव्यतिरिक्तमव्यतिरिक्तं वेति विप्रतिपत्तिं दर्शयितुं व्यतिरिक्तेश्वरपक्षोऽपि दर्शनीयः। किमिति तर्ह्यात्मनि विप्रतिपत्तिः प्रदर्श्यत इति तदाह--अहंप्रत्ययविषयविप्रतिपत्त्याऽपीति।। किमिदमुक्तं भवति प्रत्यगात्मा तावत् प्रमाणान्तरेणोद्दिश्य शरीरेन्द्रिय मनो बुद्धि-शून्य-कर्तृत्व-भोक्तृत्वादिविशेषपर्युदासेनाद्वितीयज्ञानानन्दस्वभावेन प्रतिपद्यते; एवं प्रतिपादने संसारनिवृत्तेः पुरुषार्थलाभाच्च। अतः प्रत्यगात्मा सर्वज्ञत्वादिगुणकाद् ब्रह्मणोऽन्योऽनन्यो वेति विप्रतिपत्तिः दर्शयितुं तद्व्यतिरिक्त ईश्वरः साधितः; विप्रतिपत्तिस्कन्धत्वात्।।
अत्र कश्चिदाह--नेह प्रत्यागात्माऽसाधारणस्वभावविवक्षया ब्रह्मशब्देन जिज्ञास्यत्वेनोद्दिश्यते, किंत्वीश्वर एव ब्रह्मशब्देनोद्दिश्य विचार्यते; जन्मादिसूत्रे जगत्कारणत्वलक्षणाभिधानात्। न हि प्रत्यगात्मन्येतल्लक्षणमुपपद्यते। तस्मादात्मविप्रतिपत्तिप्रदर्शनमसञ्जसमिति, उच्यते; यदि ब्रह्मशब्देनेश्वरोऽभिधीयते, किमिति तर्हि जगत्कारणे विप्रतिपत्ति दर्शयति--प्रधानमेके, परमाणूनपर इत्यादिना। नहीश्वरेऽर्थान्तरे जिज्ञासाकर्मणि ब्रह्मशब्दोपादानेऽर्थान्तरे जगत्कारणे विप्रतिपत्तिर्युक्ता दर्शयितुम्। जगत्कारणादीश्वरस्याभिन्नत्वात् तद्विप्रतिपत्तिरीश्वरविप्रतिपत्तिरिति चेत्, तर्हीश्वरः प्रधानं परमाणुर्वेति विप्रतिपत्तिर्दर्शिता स्यात्। न तथा संशेरते तु प्रत्यगात्मनो ब्रह्मशब्दाभिधेयविशेषस्वरूपस्य शरीरेन्द्रियादिषु संशयः; तेषामात्मनि तादात्म्यावभासात्। किञ्च प्रत्यगात्मानमुद्दिश्य तस्य विशेषस्वरूपे ब्रह्मणि जिज्ञास्यमाने यद् जगज्जन्माकारणम्, तद् ब्रह्मेत्युक्ते विधूतशरीरादिभेदः प्रत्यगात्मा जगत्कारणतया सर्वात्मभूतः प्रतिपादितो भवति। जगत्कारणे तु विप्रतिपद्यमाने किं तज्जगत्कारणमिति वीक्षायाम्--यद् ब्रह्म तज्जगत्कारणमिति ब्रह्मोद्देशेन जगत्कारणत्वं विधेयं स्यात्, न जगत्कारणमुद्दिश्य ब्रह्मविधानमिति वैपरीत्यमापद्यते। ब्रह्मशब्देन जगत्कारणमभिधीयत इति चेत्, न ; ईश्वरोऽभिधीयत इति स्ववचनेन विरोधात्। किञ्च--ईश्वरे जगत्कारणे प्रतिपादिते पुरुषस्य किमायातम् उपासनमिति चेत्, न ; आरोपितरूपेणापि सम्भवात्प्रतिपादनवैयर्थ्यात्। तस्मात् प्रत्यगात्मानमुद्दिश्य तस्य वेदान्तविहितब्रह्मशब्दाभिधेयबुभुत्सायां यज्जगज्जन्मादिकारणं सत्यज्ञानानन्दादिलक्षणं तत्प्रत्यगात्मभूतं ब्रह्मेति प्रतिपादयितुमात्मनि विप्रतिपत्तिप्रदर्शनं युक्तम्, इति जगत्कारणे विप्रतिपत्तिः संप्रदायपरिचयशून्यतया शास्त्रार्थप्रद्वेषात् सर्वसङ्करवादिना दर्शितेति।
पक्षान्तरमाह--आत्मा स भोक्तुरित्यपर इति।। यथा सत्यज्ञानानन्दं निरवयवं ब्रह्म, प्रत्यगात्माऽपि तथा। तत्र विवादगोचरापन्नो जीवः, ब्रह्मैव सन्नुपाधिपरिच्छिन्नविभागः, ब्रह्मणा समानस्वभावतया निरवयवद्रव्यत्वे सत्युपाधिपरामर्शाधीनपरिच्छेदप्रतिभासत्वात्; यद् येन समानस्वभावतया निरवयवद्रव्यत्वे सत्युपाधिपरामर्शाधीनपरिच्छिन्नप्रतिभासम्, तत्तदात्मकत्वे सत्युपाधिपरिच्छिन्नभेदं दृष्टम्, यथा घटाकाशमिति। भाष्यं व्याचष्टे--योऽयमिति।। ननु संसारिणः कथमसंसारिणैकत्वमिति तत्राह--तस्याहंप्रत्ययसिद्ध इति।। ननु एवमहमिति सामान्यतः प्रतिपन्नस्य शरीरादिविशेषमिथ्यात्वे परमार्थभूतो विशेषो वक्तव्योऽहमित्थंभूत इति, तदाह--परमार्थतस्त्विति।। "अहं ब्रह्मैवे"ति विशेषोपसंहारः। न शरीरादीत्यत्र किं प्रमाणमिति तदाह--एवमसौ बृंहत्यर्थान्वयादिति।। ननु जीवेभ्यो भेदेऽपि बृंहत्यर्थलाभः; देशकालव्यापित्वादिति, तदाह--इतरथा तद्रूपविकल्पस्येति।। उपसंहरति--एवं बहव इति।। किञ्चित्=शरीरादि।। ब्रह्मेति=प्रत्यगात्मेति, विप्रतिपन्ना इत्यर्थः। ननु--न विप्रतिपत्तिमात्राद् जिज्ञास्यं भवति, किन्तु प्रमाणमूला हि तत्त्वज्ञानादिति।। ब्रह्मतत्त्वज्ञानं च ब्रह्ममीमांसाविचारजन्यमिति ब्रह्ममीमांसाऽऽवश्यकीत्यर्थः।। विप्रतिपत्तिर्निराकर्तव्येति, तत्रोत्तरम्--"युक्ति-वाक्ये"त्यादि भाष्यम्, तद् व्याचष्टे--युक्ति प्रमाणानामित्यादिना।। कस्मिन् पक्षे युक्ति-वाक्ये, क्व वा तदाभासाः इति विभजते युक्तिवाक्याभ्यामन्त्यं पक्षं निश्चितवन्त इति।।
ननु यथा बंहत्यर्थान्वयाद् युक्ति-वाक्याभ्यां च ब्रह्मैव भोक्ता, तथा सुख-दुःखतत्साधनप्रपञ्चेऽपि ब्रह्मैवेत्यपुरुषार्थतया न जिज्ञास्यं ब्रह्म स्यात्। नहि कतिपयसुख-दुःखतत्साधनसंसर्गमप्यसहमानो निखिलदुःखादिमत्तामङ्गीकुर्यात्। ननु--वक्ष्यमाणज्ञानानन्दादिलक्षणेन पुरुषार्थतया जिज्ञास्यमेव किं न स्यात् न; क्षुन्निवृत्तिसाधनतया पुरुषार्थेऽपि विषमिश्रितेऽन्नेऽनर्थहेतुतया प्रेक्षापूर्वकारिणामुपेक्षादर्शनात्। "न लिप्यते लोकदुःखेन बाह्यः" इत्यादिशास्त्रान्नापुरुषार्थतेति चेत्, न; "आत्मैवेदम्" इत्यादिसर्वतादात्म्यश्रुतेरुपादानकारणत्वाच्च। सर्वज्ञतयाऽज्ञानमिथ्याज्ञानाभावाद् नानर्थसम्बन्ध इति चेत्, न; तत्त्वत एव प्रपञ्चतादात्म्यादज्ञानाद्यनपेक्षणात्। कर्मनिमित्तस्सुखदुःखादिसंबन्धः, तदभावाद् न ब्रह्मण्यनर्थसंबन्ध इति चेत्, न; कर्मव्यतिरेकेणापि स्वभावादेवाखिलसुखदुःखादितत्साधनानां स्वान्वयितया ब्रह्मणोऽपरोक्षत्वात्, कर्मादीनामपि तावन्मात्रहेतुत्वात्। नहि दुःखाद्यापरोक्ष्यव्यतिरेकेण संसारोऽन्यो दृश्यते; कर्माविद्यादीनामपि बृंहत्यार्थान्वयादेव ब्रह्मणि तादात्म्यात् तन्निमित्तोऽपि संसारः सुतरामुपपन्न इति। ब्रह्मणि तत्त्वज्ञानेन
बाधितत्वान्नानर्थसंबन्ध इति चेत्, न: प्रपञ्चात्मभावस्यापि तात्विकत्वात्। नच कारणाकारणब्रह्मभेदेन कार्यकारणब्रह्मभेदेन वा संसारविमुक्त्यवस्था; बृंहत्यर्थान्वयाभावप्रसङ्गात्। तस्माद् बृंहत्यर्थान्वयेनाद्वितीयसर्वज्ञत्व-जीवत्वाद्यपगमेनाजिज्ञास्यं ब्रह्म प्राप्तम्, उच्यते; सत्यपि सर्वस्यापरोक्षतया ब्रह्मसंबन्धे मायानिमित्ततया प्रतिबिम्बश्यामत्वादिवद् मायाविगतव्याघ्रत्वादिवच्च तत्त्वज्ञानेन बाधितत्वात्, बिम्बस्थानीयब्रह्मणो नित्यसर्वज्ञतया तत्त्वज्ञाननियमान्न तत्रात्मानुबन्ध इति। विशुद्धिवाक्यानामेव च बलवत्तरत्वं वक्ष्यामः। युक्ति-वाक्याभासमूलता कस्येति तदाह--इतरे तु युक्तय इवेत्यादिना।।
कथं पुनर्युक्त्याभासता शरीरात्मभावस्येति तदाह--युक्त्याभासत्वमिति।। ननु नैतावता युक्त्याभासत्वसिद्धिर्देहादिष्विति, तत्राह--इतरेषां युक्त्याभाससिद्धत्वमिति।। किञ्च दर्शिता एव युक्त्याभासाः, न तत्रान्यापेक्षेत्याह--दर्शितञ्च लेशत इति।। ननु "स वा एव पुरषोऽन्नरसमयः" "स वा अयमात्मा ब्रह्म" "पृथिवीमय आपोमयस्तेजोमयो वायुमयः" इत्यादीनि शरीरात्मवादे वाक्यानि। "ते ह वाचमूचुः, तेभ्यो वागुदगायदि"त्यदीनीन्द्रियात्मवादे। "मन उदगायदि"ति मनोवादे। "कतम आत्मेति योऽयं विज्ञानमयः" इत्यादि विज्ञानवादे। "असद्वा इदमत्र आसीत्" "असदेवेदमि"ति शून्यवादे। "अनुमन्ता बोद्धा कर्ता विज्ञानात्मे"ति कर्त्रात्मवादे; "तयोरन्यः पिप्पलं स्वाद्वत्तीति" बुद्धिविषयत्वात्। "अनश्नन्नन्यः" इति भोक्त्रात्मवादे। "य आत्मनि तिष्ठन्नात्मानमन्तरो यमयती"ति व्यतिरिक्तेश्वरवादे वाक्यानि विद्यन्ते। कथं निर्मूलता पक्षान्तराणामिति तत्राह--वाक्याभासतां त्विति।।
ननु--एवमपि यस्य यस्मिन् रुचिरुत्पद्यते स तं पक्षमाश्रित्य पुरुषार्थं साधयेत्, किं विचारेणेति तत्राह--तत्राविचार्य यत्किञ्चिदिति।। भाष्यं व्याचष्टे--तत्रैवं स्थित इत्यादिना।। ननु मा भूदन्त्यात्पक्षादर्वाचीनेषु पक्षेषु तत्त्वज्ञानाभावाद् निःश्रेयसलाभः, अनर्थः किमिति प्राप्यत इति तत्राह--अन्धं नमः प्रविशन्तीति।। ननु आत्महननं तत्रानर्थहेतुरुक्तो न तत्त्वाप्रतिपत्तिरिति, तत्राह--अनात्मदर्शनेनात्मनोऽसत्कल्पत्वापादनरूपस्येति।। सूत्रवाक्यार्थमुपसंहरति--तस्माद् ब्रह्मजिज्ञासोपन्यासमुखेनेति।।
भाष्यं व्याचष्टे--ब्रह्मजिज्ञासोपन्यासव्याजेनेति।। जिज्ञासापदेनान्तर्णीतं विचारमुपलक्ष्य तत्कर्तव्यतापरं सूत्रमित्युक्तं भवति। योजनान्तरमाह--अथवेति।। जिज्ञासा कर्तव्येत्युक्ते ज्ञानमिष्यमाणं साध्यतया कर्तव्यमिति सूत्रार्थः संपद्यते। तत्र ज्ञाने कर्तव्येऽप्यर्थात् तत्साधनकर्तव्यताप्यवगम्यते। अतोऽर्थसिद्धविचारकर्तव्यतापरसूत्रमिति। किंप्रयोजनेत्यादिः स्पष्टार्थः।।
कथं पुनर्विचारस्य निःश्रेयसं प्रयोजनम्, विचारजन्यब्रह्मावबोधसाध्यत्वादिति चेत्, किं तन्निःश्रेयसम् कर्तृत्व-भोक्तृत्व-दोषसंयोगाध्यासप्रवाहोपादानस्याज्ञानस्य निवृत्तिरिति चेत्, न: निवृत्तेऽप्यज्ञाने द्वैतदर्शनस्यानपायात्। न हि पृथिव्यादिप्रपञ्चः कर्तृत्वाद्यध्यासनिवृत्तिमात्रान्निवर्तते, उच्यते--सत्स्वपि पृथिव्यादिष्वन्तःकरणाध्यासनिवृत्तौ प्रमातृत्वाभावादात्मचैतन्यस्य स्वतो विषयोपरागाभावाद् द्वैतदर्शनं न प्राप्नोति; अनिन्द्रियस्येव रूपादिदर्शनमित्येकः पक्षः। इतरस्तु सर्वद्वैतनिवृत्तिपक्षः समन्वयसूत्रे वक्ष्यते। तस्मान्निरस्तसकलकर्तृत्वाद्यध्यासम्, अपाकृतद्वैतदर्शनम्, अनतिशयानन्दप्रकाशमानब्रह्मत्वरूपावस्थानं निःश्रेयसं वेदान्तविचारस्य प्रयोजनमिति रमणीयम्।।
इति श्रीमत्परमहंसपरिव्राजकानन्यानुभवपूज्यपादशिष्यस्वप्रकाशानुभवभगवतः कृतौ
पञ्चपादिकाविवरणे विषय-प्रयोजनाक्षेपपरिहारनिरूपणं नाम
तुरीयवर्णकं समाप्तम्।।