सामग्री पर जाएँ

न्यायसूत्राणि/अध्यायः ५

विकिस्रोतः तः


पञ्चमोऽध्यायः प्रथम आह्निकः

साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः १

साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्य-वैधर्म्यसमौ २

गोत्वाद्गोसिद्धिवत्तत्सिद्धिः ३

साध्यदृष्टान्तयोर्धर्मविकल्पा-दुभयसाध्यत्वाच्चोत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यसमाः ४

किंचित्सा-धर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः ५

साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ६

प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वादप्राप्त्यासाधकत्वाच्च प्रा-प्त्यप्राप्तिसमौ ७

घटादिनिष्पत्तिदर्शनात्पीडने चाव्यभिचारादप्रतिषेधः ८

दृष्टान्तस्य कारणानपदेशात्प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ प्रदीपोपादानप्रसङ्गविनिवृत्तिवत्तद्विनिवृत्तिः ९

प्रतिदृष्टान्तहेतुत्वे च नाहेतु-र्दृष्टान्तः १०

प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ११

तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः १२

सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नि-त्यानित्यसाधर्म्यात् संशयसमः १३

साधर्म्यात्संशये न संशयो वैधर्म्या-दुभयथा वा संशयेऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाच्च सामान्यस्या-प्रतिषेधः १४

उभयसाधर्म्यात्प्रक्रियासिद्धेः प्रकरणसमः १५

प्रतिपक्षात्प्र-करणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः १६

त्रैकाल्यानुपपत्तेर्हेतो-रहेतुसमः १७

न हेतुतः साध्यसिद्धेस्त्रैकाल्यासिद्धिः १८

प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः १९

अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः २०

अनुक्त-स्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाच्चार्थापत्तेः २१

एक-धर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात्सद्भावोपपत्तेरविशेषसमः २२

क्वचि-त्तद्धर्मोपपत्तेः क्वचिच्चानुपपत्तेः प्रतिषेधाभावः २३

उभयकारणोपपत्ते-रुपपत्तिसमः २४

उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः २५

निर्दिष्टकारणा-भावेऽप्युपलम्भादुपलब्धिसमः २६

कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः २७

तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः २८

अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः २९

ज्ञानविकल्पानां च भावाभावसंवेद-नादध्यात्मम् ३०

साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः ३१

साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसामर्थ्यात् ३२

दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथाभावान्नाविशेषः ३३

नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः ३४

प्रतिषेध्ये नित्यम-नित्यभावादनित्येऽनित्यत्वोपपत्तेः प्रतिषेधाभावः ३५

प्रयत्नकार्यानेकत्वा-त्कार्यसमः ३६

कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः ३७

प्रति-षेधेऽपि समानो दोषः ३८

सर्वत्रैवम् ३९

प्रतिषेधविप्रतिषेधे प्रति-षेधदोषवद्दोषः ४०

प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोष-प्रसङ्गो मतानुज्ञा स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषा-

भ्युपगमात्समानो दोषः ४१

इति प्रथम आह्निकः

पञ्चमोऽध्यायः द्वितीय आह्निकः

प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकमप्राप्तकालं न्यूनमधिकं पुनरुक्तमननुभाषणम-ज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोऽप-सिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि १

प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः २

प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरम् ३

प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ४

पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यासः ५

अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ६

प्रकृतादर्थादप्रतिसम्बद्धार्थमर्थान्तरम् ७

वर्णक्रमनिर्देशवन्निरर्थकम् ८

परि-षत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् ९

पौर्वापर्यायोगाद-प्रतिसम्बद्धार्थमपार्थकम् १०

अवयवविपर्यासवचनमप्राप्तकालम् ११

हीन-मन्यतमेनाप्यवयवेन न्यूनम् १२

हेतूदाहरणाधिकमधिकम् १३

शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् १४

अर्थादापन्नस्य स्वशब्देन पुनर्वचनं पुनरुक्तम् १५

विज्ञातस्य परिषदा त्रिरभिहितस्याप्यप्रत्युच्चारणमननुभाषणम् १६

अविज्ञातं चाज्ञानम् १७

उत्तरस्याप्रतिपत्तिरप्रतिभा १८

कार्य-व्यासङ्गात्कथाविच्छेदो विक्षेपः १९

स्वपक्षे दोषाभ्युपगमात्परपक्षे दोषप्रसङ्गो मतानुज्ञा २०

निग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् २१

अनि-ग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः २२

सिद्धान्तम-भ्युपेत्यानियमात्कथाप्रसङ्गोऽपसिद्धान्तः २३

हेत्वाभासाश्च यथोक्ताः २४

इति द्वितीय आह्निकः

इति पञ्चमोऽध्यायः
इति न्यायदर्शनम्