न्यायसूत्राणि/अध्यायः ४

विकिस्रोतः तः
चतुर्थोऽध्यायः प्रथम आह्निकः

प्रवृत्तिर्यथोक्ता १

तथा दोषाः २

तत्त्रैराश्यं रागद्वेषमोहार्थान्तरभावात् ३

नैकप्रत्यनीकभावात् ४

व्यभिचारादहेतुः ५

तेषां मोहः पापीयान्नामूढस्ये-तरोत्पत्तेः ६

निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्यः ७

न दोषलक्षणा-वरोधान्मोहस्य ८

निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः ९

आत्मनित्यत्वे प्रेत्यभावसिद्धिः १०

व्यक्ताद्व्यक्तानां प्रत्यक्षप्रामाण्यात् ११

न घटाद्घटानिष्पत्तेः १२

व्यक्ताद्घटनिष्पत्तेरप्रतिषेधः १३

अभावाद्भावोत्पत्ति-र्नानुपमृद्य प्रादुर्भावात् १४

व्याघातादप्रयोगः १५

नातीतानागतयोः कार-कशब्दप्रयोगात् १६

न विनष्टेभ्योऽनिष्पत्तेः १७

क्रमनिर्देशादप्रतिषेधः १८

ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् १९

न पुरुषकर्माभावे फलानिष्पत्तेः २०

तत्कारितत्वादहेतुः २१

अनिमित्ततो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिदर्शनात् २२

अनिमित्तनिमित्तत्वान्नानिमित्ततः २३

निमित्तानिमित्तयोरर्थान्तरभावा-दप्रतिषेधः २४

सर्वमनित्यमुत्पत्तिविनाशधर्मकत्वात् २५

नानित्यतानि-त्यत्वात् २६

तदनित्यत्वमग्नेर्दाह्यं विनाश्यानुविनाशवत् २७

नित्यस्या-प्रत्याख्यानं यथोपलब्धिव्यवस्थानात् २८

सर्वं नित्यम्पञ्चभूतनित्यत्वात् २९

नोत्पत्तिविनाशकारणोपलब्धेः ३०

तल्लक्षणावरोधादप्रतिषेधः ३१

नोत्प-त्तितत्कारणोपलब्धेः ३२

न व्यवस्थानुपपत्तेः ३३

सर्वं पृथग्भावलक्षण-पृथक्त्वात् ३४

नानेकलक्षणैरेकभावनिष्पत्तेः ३५

लक्षणव्यवस्थानादेवा-प्रतिषेधः ३६

सर्वमभावो भावेष्वितरेतराभावसिद्धेः ३७

न स्वभावसि-द्धेर्भावानाम् ३८

न स्वभावसिद्धिरापेक्षिकत्वात् ३९

व्याहतत्वादयुक्तम् ४०

संख्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्तिभ्याम् ४१

न कारणावयव-भावात् ४२

निरवयवत्वादहेतुः ४३

सद्यः कालान्तरे च फलनिष्पत्तेः संशयः ४४

न सद्यः कालान्तरोपभोग्यत्वात् ४५

कालान्तरेणानिष्पत्तिर्हेतुविनाशात् ४६

प्राङ्निष्पत्तेर्वृक्षफलवत्तत्स्यात् ४७

नासन्न सन्न सदसत्सदसतोर्वैधर्म्यात् ४८

उत्पादव्ययदर्शनात् ४९

बुद्धिसिद्धं तु तदसत् ५०

आश्रयव्यतिरे-काद्वृक्षफलोत्पत्तिवदित्यहेतुः ५१

प्रीतेरात्माश्रयत्वादप्रतिषेधः ५२

पुत्रपशुस्त्रीपरिच्छदहिरण्यान्नादिफलनिर्देशात् ५३

तत्सम्बन्धात्फलनिष्प-त्तेस्तेषु फलवदुपचारः ५४

विविधबाधनायोगाद्दुःखमेव जन्मोत्पत्तिः ५५

न सुखस्याप्यान्तरालनिष्पत्तेः ५६

बाधनानिर्वृत्तेर्वेदयतः पर्येषणदोषाद-प्रतिषेधः ५७

दुःखविकल्पे सुखाभिमानाच्च ५८

ऋणक्लेशप्रवृत्त्यनुबन्धा-दपवर्गाभावः ५९

प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः ६०

समारोपणादात्मन्यप्रतिषेधः ६१

पात्रचयान्तानुपपत्तेश्च फलाभावः ६२

सुषुप्तस्य स्वप्नादर्शने क्लेशाभाववदपवर्गः ६३

न प्रवृत्तिः प्रतिसंधानाय हीन-क्लेशस्य ६४

न क्लेशसंततेः स्वाभाविकत्वात् ६५

प्रागुत्पत्तेरभावानित्य-त्ववत्स्वाभाविकेऽप्यनित्यत्वम् ६६

अणुश्यामतानित्यत्ववद्वा ६७

न संक-

ल्पनिमित्तत्वाच्च रागादीनाम् ६८

इति प्रथम आह्निकः


चतुर्थोऽध्यायः द्वितीय आह्निकः

दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः १

दोषनिमित्तं रूपादयो विषयाः संकल्पकृताः २

तन्निमित्तं त्ववयव्यभिमानः ३

विद्याविद्याद्वैविध्यात्संशयः ४

तदसंशयः पूर्वहेतुप्रसिद्धत्वात् ५

वृत्त्यनुपपत्तेरपि तर्हि न संशयः ६

कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः ७

तेषु चावृत्तेरवयव्यभावः ८

पृथक्चावयवेभ्योऽवृत्तेः ९

न चावयव्यवयवाः १०

एकस्मिन्भेदाभावा-द्भेदशब्दप्रयोगानुपपत्तेरप्रश्नः ११

अवयवान्तराभावेऽप्यवृत्तेरहेतुः १२

केश-समूहे तैमिरिकोपलब्धिवत्तदुपलब्धिः १३

स्वविषयानतिक्रमेणेन्द्रियस्य पटु-मन्दभावाद्विषयग्रहणस्य तथाभावो नाविषये प्रवृत्तिः १४

अवयवावयवि-प्रसङ्गश्चैवमाप्रलयात् १५

न प्रलयोऽणुसद्भावात् १६

परं वा त्रुटेः १७

आकाशव्यतिभेदात्तदनुपपत्तिः १८

आकाशासर्वगतत्वं वा १९

अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः २०

शब्दसंयोगविभवाच्च सर्वगतम् २१

अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः २२

मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः २३

संयोगोपपत्तेश्च २४

अनवस्थाकारित्वा-दनवस्थानुपपत्तेश्चाप्रतिषेधः २५

बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुप-लब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत्तदनुपलब्धिः २६

व्याहतत्वा-दहेतुः २७

तदाश्रयत्वादपृथग्ग्रहणम् २८

प्रमाणतश्चार्थप्रतिपत्तेः २९

प्रमा-णानुपपत्त्युपपत्तिभ्याम् ३०

स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः ३१

मायागन्धर्वनगरमृगतृष्णिकावद्वा ३२

हेत्वभावादसिद्धिः ३३

स्मृति-संकल्पवच्च स्वप्नविषयाभिमानः ३४

मिथ्योपलब्धेर्विनाशस्तत्त्वज्ञानात्स्व-प्नविषयाभिमानप्रणाशवत् प्रतिबोधे ३५

बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् ३६

तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपत्तिः ३७

समाधिविशेषाभ्यासात् ३८

नार्थविशेषप्राबल्यात् ३९

क्षुदादिभिः प्रवर्तनाच्च ४०

पूर्वकृतफला-नुबन्धात्तदुत्पत्तिः ४१

अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः ४२

अपव-र्गेऽप्येवं प्रसङ्गः ४३

न निष्पन्नावश्यम्भावित्वात् ४४

तदभावश्चापवर्गे ४५

तदर्थं यमनियमाभ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः ४६

ज्ञानग्रह-णाभ्यासस्तद्विद्यैश्च सह संवादः ४६

तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थि-भिरनसूयुभिरभ्युपेयात् ४७

प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे ४८

त-त्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे वीजप्ररोहसंरक्षणार्थं कण्टकशाखा-

वरणवत् ४९

ताभ्यां विगृह्य कथनम् ५०

इति द्वितीय आह्निकः इति चतुर्थोऽध्यायः

स्रोतः[सम्पाद्यताम्]