न्यायसूत्राणि/अध्यायः १/प्रथमभागः

विकिस्रोतः तः
Jump to navigation Jump to search
न्यायसूत्राणि
प्रथमभागः
[[लेखकः :|]]
अध्यायः १, द्वितीयभागः →

प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानाम् तत्त्वज्ञानात् निःश्रेयसाधिगमः ।। १ ।। {पदार्थोद्देशसूत्रम्}

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तरापायादपवर्गः ।। २ ।। {पदार्थोद्देशसूत्रम्}

प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ।। ३ ।। {प्रमाणौद्देशसूत्रम्}

इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानम् अव्यपदेश्यम् अव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ।। ४ ।। {प्रत्यक्षलक्षणम्}

अथ तत्पूर्वकं त्रिविधम् अनुमानं पूर्ववत् शेषवत् सामान्यतोदृष्टं च ।। ५ ।। {अनुमानलक्षणम्}

प्रसिद्धसाधर्म्यात्साध्यसाधनम् उपमानम् ।। ६ ।। {उपमानलक्षणम्}

आप्तोपदेशः शब्दः ।। ७ ।। {शब्दलक्षणम्}

स द्विविधो दृष्टादृष्टार्थत्वात् ।। ८ ।। {शब्दभेदः}

आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः तु प्रमेयम् ।। ९ ।। {प्रमेयौद्देशसूत्रम्}

इच्छाद्वेषप्रयत्नसुखदुःखज्ञानानि आत्मनः लिङ्गम् इति ।। १० ।। {आत्मलक्षणम्}

चेष्टेन्द्रियार्थाश्रयः शरीरम् ।। ११ ।। {शरीरलक्षणम्}

घ्राणरसनचक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्यः ।। १२ ।। {इन्द्रियलक्षणम्}

पृथिवी आपः तेजः वायुः आकाशं इति भूतानि ।। १३ ।। {भूतलक्षणम्}

गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः तदर्थाः ।। १४ ।।

बुद्धिः उपलब्धिः ज्ञानं इति अनर्थान्तरम् ।। १५ ।। {बुद्धिलक्षणम्}

युगपत्ज्ञानानुत्पत्तिः मनसः लिङ्गम् ।। १६ ।। {मनोलक्षणम्}

प्रवृत्तिः वाग्बुद्धिशरीरारम्भः ।। १७ ।। {प्रवृत्तिलक्षणम्}

प्रवर्त्तनालक्षणाः दोषाः ।। १८ ।। {दोषलक्षणम्}

पुनरुत्पत्तिः प्रेत्यभावः ।। १९ ।। {प्रेत्यभावलक्षणम्}

प्रवृत्तिदोषजनितः अर्थः फलम् ।। २० ।। {फललक्षणम्}

बाधनालक्षणं दुःखम् ।। २१ ।। {दुःखलक्षणम्}

तदत्यन्तविमोक्षः अपवर्गः ।। २२ ।। {अपवर्गलक्षणम्}

समानानेकधर्मोपपत्तेः विप्रतिपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातः च विशेषापेक्षः विमर्शः संशयः ।। २३ ।। {संशयलक्षणम्}

यं अर्थं अधिकृत्य प्रवर्तते तत्प्रयोजनम् ।। २४ ।। {प्रयोजनलक्षणम्}

लौकिकपरीक्षकाणां यस्मिनर्थे बुद्धिसाम्यं सः दृष्टान्तः ।। २५ ।। {दृष्टान्तलक्षणम्}

तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ।। २६ ।। {अभ्युपगमसिद्धान्तलक्षणम्}

सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् ।। २७ ।। {तन्त्रभेदौद्देशसूत्रम्}

सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः ।। २८ ।। {सर्वतन्त्रसिद्धान्तलक्षणम्}

समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ।। २९ ।। {प्रतितन्त्रसिद्धान्तलक्षणम्}

यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः ।। ३० ।। {अधिकरणसिद्धान्तलक्षणम्}

अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणं अभ्युपगमसिद्धान्तः ।। ३१ ।। {अभ्युपगमसिद्धान्तलक्षणम्}

प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः ।। ३२ ।। {अवयवौद्देशसूत्रम्}

साध्यनिर्देशः प्रतिज्ञा ।। ३३ ।। {प्रतिज्ञालक्षणम्}

उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ।। ३४ ।। {हेतुलक्षणम्}

तथा वैधर्म्यात् ।। ३५ ।। {हेतुलक्षणम्}

साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः उदाहरणम् ।। ३६ ।। {उदाहरणलक्षणम्}

तद्विपर्ययात्वा विपरीतम् ।। ३७ ।। {उदाहरणलक्षणम्}

उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः ।। ३८ ।। {उपनयलक्षणम्}

हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ।। ३९ ।। {निगमनलक्षणम्}

अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः ।। ४० ।। {तर्कलक्षणम्}

विमृश्य पक्षप्रतिपक्षाभ्यां अर्थावधारणं निर्णयः ।। ४१ ।। {निर्णयलक्षणम्}