न्यायसुधा (जयतीर्थकृता)/द्वितीयाध्यायस्य प्रथमः पादः

विकिस्रोतः तः


ॐ तत् सत्
॥ प्रथमाध्यायार्थे भगवतः सर्ववैशिष्ट्येऽविरोधव्युत्पादनार्थं द्वितीयाध्यायारम्भः॥
न्यायसुधा
यत्पदं वेदसंवेद्यं कटाक्षेणापि वीक्षितुम्।
न क्षमन्ते विमतयस्तुमपासे श्रियः पतिम्॥
एकवाक्यतादिसिद्धये प्रथमाध्यायार्थसङ्गतत्वेन द्वितीयाध्यायार्थं विवक्षुरबुद्धिस्थेन सङ्गतेर्दर्शयितुमशक्यत्वात् प्रथमाध्यायार्थं तावदनुवदति उक्त इति।
अनुव्याख्यानम्
उक्तः समन्वयः साक्षादविरोधोऽत्र साध्यते।
सकलजगज्जन्मादिनिमित्तकारणे सार्वज्ञ्यसर्वैश्वर्याद्यनन्तगुणपरिपूर्णेऽविद्याद्यवद्यगन्धविधुरे परे ब्रह्मणि नारायणे स्वरवर्णपदवाक्यमहावाक्यरूपस्य समस्तस्य शास्त्रस्य, साक्षात् परममुख्यया वृत्त्या नतु लक्षणया, तथा महातात्पर्येण नतु पारार्थ्येन समान्वयः प्रथमेऽध्याये समर्थित इत्यर्थः।
यद्यपि समन्वयशब्देनैव साक्षादित्यर्थो लभ्यते, तथाऽपि परकीयसंशब्दव्याख्याननिरसनेऽवहितैर्भवितव्यमिति सूचनाय तद्व्याख्यानमिदं कृतमित्यदोषः। अथवा समन्वयशब्देन मुख्यया वृत्त्याऽन्वयः प्रतीयते। परममुख्यया तु वृत्त्याऽन्वयं दर्शयितुं साक्षादित्युक्तम्। यद्वा न प्रधानपरमाण्वादिनिरसनेन उपादानत्वादिप्रतिपादनेन च परम्परया, किन्तु साक्षादेवेत्यनेनाऽचष्टे।
एवं प्रथमाध्यायार्थमभिधाय तत्सङ्गतत्वेन द्वितीयाध्यायार्थमाह अविरोध इति। अत्रोक्तेऽर्थे अविरोधो विरोधाभावोऽत्र व्याचिख्यासिततया बुद्धिसन्निहिते द्वितीयेऽध्याये साध्यते।
॥ प्रथामाध्यायेन द्वितीयाध्यायस्य कार्यकारणभावलक्षणा सङ्गतिः॥
अनेनास्य अध्यायस्यातीताध्यायेन कार्यकारणभावलक्षणा सङ्गतिः सूचिता भवति। सकलशास्त्रस्य समन्वयेन जगज्जन्मादिकारणत्वे समस्तगुणपूर्णत्वेऽशेषदोषविधुरत्वे च परस्य ब्रह्मणोऽभिहित एव हि तत्र विरोधः स्फुरति, नान्यथा, निराश्रयत्वात्। विरोधस्फूतावेव तदभावसाधनस्यावसरो नेतरथा। अप्राप्तप्रतिषेधायोगात्। अतोऽतीताध्यायार्थस्य कारणत्वम्, एतध्यायार्थस्य कार्यत्वं निश्चीयते।
अथवा श्रुतिसमन्वयेनोपपादितोऽप्यर्थो न तावच्छ्रोतॄणां दृढनिरूढो भवति, यावदत्र प्रतीते विरोधाभावो न साध्यते। विरोधेन श्रुतीनामेवाप्रामाण्यशङ्कनात्। तथाचानुपपादितकल्प एवाऽपद्यते। विरोधाभावसाधने तु भवत्येव दृढनिरूढः। यथोक्तम् “विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः” इति। अतो विपरीतकार्यकारणभावलक्षणा अनयोः सङ्गतिः।
ननूक्तार्थे विरोधस्तत्रतत्रैव परिहृतः। तत् किमपरमवशिष्यते यदर्थमध्यायान्तरारम्भः। सत्यम्। प्रतिवक्ष्यत्यत्राऽचार्यः। (५९४५९५)
॥ विरोधचातुर्विध्यस्य पादोपाधित्वम्, युक्तिविरोधस्य प्रबलत्वेन तत्परिहारस्य प्राथम्यम्॥
नन्वेवमध्यायस्याविरोधलक्षणैकार्थत्वैकवाक्यत्वे सति पादभेदः किन्निबन्धनः? तत्राप्यस्य पादस्य प्राथम्यं किन्निबन्धनमित्यपेक्षायामाह चतुर्विधस्येति।
चतुर्विधस्य तस्याऽदौ यौक्तः...............॥१॥
तस्याविरोधस्य। निर्धारणे षष्ठी। आदौ प्रथमपादे। अविरोधः साध्यत इत्यनुवर्तते। चतुर्विधस्य तस्येत्यनुवादात् स चतुर्विध इति लभ्यते।
तदयमर्थः यद्यप्युक्तेऽर्थे विरोधाभाव इत्येकोऽर्थः, तथाऽपि युक्तिसमयश्रुतिन्यायोपेतश्रुतिविरोधाभावरूपावान्तरभेदेन स चतुर्विधो भवति। तत्प्रतिपादनेन चतुर्णां पादानां भेदो युज्यते। तस्य चतुर्विधस्यापि विरोधाभावस्य मध्ये युक्तिविरोधाभावः प्रथमपादे साध्यते। सर्वेषामपि विरोधानां युक्त्युपजीवित्वेन तद्विरोधस्य प्रबलतया तदभावसाधनस्य प्राथम्योपपत्तेः। युक्तिपुरस्कारेण प्रवर्तनाच्च विचारशास्त्रस्येति।
ननु कथमभावस्य चातुर्विध्यम्? उच्यते चतुर्विधा हि विरोधिन्यो युक्त्यादयः। तदुपधानाद् विरोधोऽपि चतुर्विधोऽभिधीयते। ततस्तत्प्रतियोगिकोऽभावोऽपि तथोच्यते। अत एव यौक्त इत्युपपन्नम्। अभावस्यापि परम्परया युक्तिसम्बन्धित्वात्। अथवाऽविरोधपदसन्निधापितो विरोधस्तस्येति परामृश्यते। तथाच विरोधस्य युक्त्याद्युपधानेन चतुर्विधत्वात् तदभावसाधनेन पादभेदो युज्यते।
चतुर्विधस्य तस्य विरोधस्य मध्ये यौक्तो विरोध आदावुक्तप्रकारेण प्रबलो यतः, तस्मात् तदभावोऽत्राऽदौ साध्यत इति योजनीयम्। यद्वा तस्येति विरोधिपरमर्शोऽयम्। तस्याप्यविरोधपदेन बुद्धिसन्निहितत्वात्। अविरोधो हि विरोधनिरूपणाधीननिरूपणः। विरोधश्च विरोधिना विना नोपपद्यते। ततश्च विरोधिनो युक्त्यादिभेदेन चतुर्विधत्वात् तद्विरोधाभावसाधनेन पादभेदोपपत्तिः। चतुर्विधस्यापि तस्य विरोधिनो मध्ये युक्तेः प्रबलत्वादादौ यौक्तो युक्तिसम्बन्धी विरोधाभावः साध्यत इति योज्यम्।
॥ स्मृत्यधिकरणस्य पादचतुष्टयार्थसम्बन्धित्वाद् युक्तिपादे प्राथम्येन तन्निवेशः॥
प्रथमाधिकरणे विशेषमाह तत्रापीति।
........................तत्रापि च स्मृतेः॥१॥
अपिपदमादावित्यस्यानुकर्षणार्थम्। तत्र युक्तिविरोधाभावप्रतिपादकेऽपि पाद इत्यनौचित्याशङ्कासूचनार्थं वा। चशब्देनाविरोधः साध्यत इत्येतदनुकृष्यते। स्मृतेः पाशुपतादिकायाः। यद्यपि स्मृतेरित्यस्य न नञर्थेन सम्बन्धो घटते, विरोधश्च समासे गुणभूतः, तथाऽपि बुद्ध्या विविक्तेन तेन सम्बन्धः सम्भवति।
युक्तिविरोधपरिहारलक्षणेऽत्र पादे स्मृतिविरोधपरिहारो न कर्तव्यः, असङ्गतत्वात्, कर्तव्यतायां वा प्राथम्यं कुत इत्यत आह तस्या इति।
तस्याश्चतुःस्वरूपत्वात्.................।
तस्याः पाशुपतादिस्मृतेर्युक्तिसमयादिविरोधिचतुःस्वरूपत्वात्।
एतदुक्तं भवति पाशुपतादिस्मृतयो हि स्वयमाप्ताभिमतवाक्यतया समरूपा अपि स्वाभिमतार्थे युक्तीः श्रुतीश्च संवादयन्त्यो युक्तिसमयादिविरोधिचतुष्टयरूपाः। ततश्र्चोक्तेऽर्थे तद्विरोधपरिहारोऽध्याये अन्तर्भवत्येव। किन्तु पादचतुष्टयार्थसङ्गतोऽप्ययं न निष्कृष्यैकत्रैव पादेऽन्तर्भवति। ततोऽध्यायादौ तदन्ते वा वक्तव्यः। प्रथमातिक्रमे च कारणं न किञ्चिदस्तीत्याद्याधिकरणे निरूप्यत इति।
एवञ्च तत्रापि च स्मृतेरित्ययमुक्तस्यापवादो भवन्नपि न सर्वथेत्युक्तं भवति। समयादिविरोधस्यापि परिहारेण निष्कृष्टपादार्थाभावाद् युक्तिविरोधपरिहारस्यापि भावेनान्तर्भावसम्भवाच्च।
॥ अध्यायपादअधिकरणानां सर्वार्थप्रतिपादकत्वम्॥
एकस्यैवाधिकरणस्य पादचतुष्टायार्थसम्बन्धेन चतुःस्वरूपत्वकथनेन प्रसङ्गाच्छिष्याणां शास्त्रे बहुमानोत्पादनायान्यदपि चातुर्विध्यं वक्ति प्रत्येकमिति।
...................प्रत्येकं चतुरात्मकाः।
पादाः सर्वे तदंशाश्च....................॥२॥
चत्वारोऽपि पादाः प्रत्येकं चतुरात्मकाः पादचतुष्टयार्थवन्तो द्रष्टव्याः। तद्यथा युक्तिविरोधपरिहारलक्षणोऽप्ययं पादः समयादित्रयविरोधपरिहारात्मकोऽपि भवति। तथा समयविरोधपरिहारलक्षणोऽपि द्वितीयो युक्त्यादित्रयविरोधपरिहारात्मकोऽपि भवतीत्यादि।
पादा इत्येवोक्ते सन्निहितत्वादेतध्यायगता एवेति ज्ञायते। तदर्थं सर्वे इत्युक्तम्। सर्वाध्यायसम्बन्धिनोऽपीत्यर्थः। यो यदध्यायगतः पादः स तदध्यायगतपादचतुष्टयार्थवानवधेयः।
न केवलमेवं पादाः, किन्तु तदंशाश्च। ते पादा अंशा येषां ते तदंशा अध्याया इत्यर्थः। प्रथमाध्यायः समन्वयस्येव अविरोधादित्रयस्यापि प्रतिपादको भवतीत्यादि। पादानां चतुरात्मकत्वेऽधिकरणानां तथात्वं सिद्धमेव। नचैवमध्यायादिभेदानुपपत्तिः, पौनरुक्त्यदोषश्चेति वाच्यम्। विवक्षाभेदेन सामञ्जस्यात्। यदा प्रथमः समन्वयार्थो विवक्ष्यते न तदा तदर्थतेतरेषामित्यादि।
॥ शास्त्रगतसर्ववर्णानामपि वासुदेवादिचतुर्मूर्तिप्रतिपादकत्वम्॥
अन्यदपि चातुर्विध्यं शास्त्रस्य दर्शयति मूर्तीनामिति।
...................मूर्तीनां वर्णमाऽऽऽऽगमात्॥२॥
चतसॄणां वासुदेवादिमूर्तीनां प्रतिपादकत्वेनापि चतुरात्मकत्वं ज्ञातव्यमिति योजना। नन्वेतदुक्तमेव, (२९४) पुनः कस्मादुच्यत इत्यत आह वर्णमिति। अत्राऽगमादित्याद्वयस्योपश्लोषो द्रष्टव्यः। तत्राऽद्यस्याऽरभ्येत्यर्थः। द्वितीयोऽभिविधौ। आगम इति चतुरध्यायिशास्त्रमुच्यते।
ततश्चायमर्थः न केवलं प्रत्यक्षरं प्रतिपदं प्रतिसूत्रं प्रत्यधिकरणं किन्त्वेतच्छास्त्रगतमेकं वर्णमारभ्य आ सर्वशास्त्रात्, प्रत्यधिकरणं प्रतिपादं प्रत्यध्यायं समस्तेन शास्त्रेण च चतस्रो मूर्तयः प्रतिपाद्यन्त इत्यर्थः।
कुत एतदवगन्तव्यमित्यत आह आगमादिति। बृहत्तन्त्रादेरित्यर्थः।
॥ द्वितीयाध्यायप्रथमपादाधिकरणानां पूर्वपक्षसिद्धान्तयुक्तयः॥
एतत्पादाधिकरणपूर्वपक्षसिद्धान्तयुक्तीः सङ्क्षेपेणाऽह आप्ततेत्यादिना।
आप्तता समताऽदृष्टिश्रुतिसाम्यबलोद्भवाः।
सर्वानुसारो लघुता विशेषादर्शनाफले॥३॥
इष्टासिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः।
एता एव त्वतिबलाः सिद्धान्तस्य नियामिकाः॥४॥
अथ स्मृत्यधिकरणम्॥१॥
॥ सूत्रार्थकथनम्॥
उक्तार्थं स्मृतिविरोधेनाऽक्षिप्य समादधत् सूत्रम् “स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात्” इति। अस्यार्थः यदुक्तं परस्य ब्रह्मणो विष्णोः सकलजगज्जन्मादिकारणत्वम्, सार्वज्ञ्यादिसकलगुणपूर्णत्वम्, समस्तदोषदूरत्वं च, तदयुक्तम्। पाशुपतसाङ्ख्यबौद्धार्हतादिस्मृतिविरुद्धत्वात्। ता हि शिवप्रभृतीनामेव जगज्जन्मादिकारणत्वादिकं प्रतिपादयन्ति। नच तासामान्योऽवकाशोऽस्ति, येन प्रतीतेऽप्यर्थे तात्पर्याभावं प्रतीमः। अन्यथा तासां स्मृतीनामनवकाशेनाप्रामाण्यलक्षणदोषप्रसङ्ग इति। तन्न। पुरुषोत्तमस्यैव पञ्चरात्रादिस्मृतिभिरखिलजगत्कारणत्वादेरुक्तत्वात्। अन्यथा तासां पाशुपतादिस्मृतिभ्योऽन्यासां पञ्चरात्रादिस्मृतीनामवकाशान्तराभावेनाप्रामाण्यदोषप्रसङ्गादिति।
॥ पूर्वपक्षस्य निर्दलत्वमाशय तन्निरासाय पूर्वपक्ष्यभिप्रेतयुक्त्यादिनिरूपणम्॥
तत्राऽक्षेपस्तावदयमयुक्तः। श्रुतिसमन्वयेनास्यार्थस्य साधितत्वात्। श्रुतिविरुद्धानां च स्मृतिनामप्रामाण्यस्येष्टत्वात्। श्रुतिसमन्वयन्यायेन पाशुपतादिस्मृतीनामपि परब्रह्मणि समन्वयेन, शिवार्चनादिपरत्वेन वा सावकाशत्वाच्च। समाधानमपीदमयुक्तम्। सकलशास्त्रप्रमाणकत्वमुक्तार्थस्याभिधाय इदानीं स्मृतिमात्रोपादाने कारणाभावात्। पराभिधित्सितं दोषमवबुद्ध्य श्रुतिपरित्यागस्त्वयुक्तः। किन्तु स परिहर्तव्यः। अन्यथा प्रागपि श्रुतिरनादेया स्यात्।
किञ्च पञ्चरात्रादिस्मृतीनामप्रामाण्यं परस्येष्टमेव। वासुदेवार्चनादिपरतया सावकाशताऽपि तेन सम्भाव्येत। साम्यापादनमात्रेऽपि परस्यैव जयो निश्चयप्रतिबन्धकत्वादित्यतो निर्दलं पूर्वपक्षं तावदुज्जीवयति आप्तैरिति।
ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ॥१॥
आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रुतिः।
पिपीलिकालिपिनिभा वारयेत् सर्वगा हि ते॥५॥
॥ स्मृतीनामाप्तोक्तत्वात् प्रामाण्यम्, श्रुतीनां तदभावादप्रामाण्यम्॥
अयमिहाभिसन्धिः पूर्वपक्षिणः श्रुतिविरोधेन स्मृतीनामप्रामाण्यमभिलषता प्रबलदुर्बलत्वे सर्वथा समर्थनीये। अन्यथाऽतिप्रसङ्गात्। न तावत् प्रामाण्यकारणभावाभावाभ्यां प्राबल्यदौर्बल्ये। प्रामाण्यस्य स्वतस्त्वेनाङ्गीकृतत्वात्, वैपरीत्याच्च। वाक्यप्रामाण्ये हि कारणं वक्तुराप्तत्वम्। वक्तारश्च स्मृतीनामाप्ताः। न श्रुतेः। अपौरुषेयत्वेनाङ्गीकृतत्वात्। अत एव न समूलत्वनिर्मूलत्वाभ्याम्। स्मृतीनामाप्तिमूलत्वात्। श्रुतेस्तदभावात्। नापि कृत्रिमत्वाकृत्रिमत्वाभ्याम्। स्वरूपतोऽप्रयोजकत्वात्। उक्तरीत्या वैपरीत्याच्च। तदिदमुक्तम् आप्तै रुद्रकपिलकमलासनादिभिरुक्तमर्थं शिवादीनां जगत्कारणत्वादिकं, पिपीलिकालिपिनिभा बुद्धिपूर्वप्रणयहीना श्रुतिः कथं वारयेत्? न कथमपीति।
॥ पाशुपतादिस्मृतीनां प्रत्यक्षमूलत्वेन श्रुतिमूलत्वाभावात्
तद्विरुद्धार्थप्रतिपादकत्वेऽपि नाप्रामाण्यम्॥
ननु “औदुम्बरीं स्पृष्ट्वोद्गायेत्” इत्यादिश्रुतिविरुद्धानां “औदुम्बरी सर्वा वेष्टयितव्या” इत्यादिस्मृतीनामप्रामाण्यमुपलब्धम्, तथाऽत्र स्यात्। न स्यात्। वैषम्यात्। श्रुतिमूलतयाऽभिमता हि ताः स्मृतयोऽतस्तासां मूलश्रुत्यनुमापकत्वेनाप्रामाण्यमिष्टम्। नच श्रुतिविरुद्धायाः स्मृतेः मूलश्रुत्यनुमापकत्वं सम्भवतीत्यप्रामाण्यमेव युक्तम्। यथाऽह जैमिनिः “विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्” इति। नचैवं प्रकृते। पाशुपतादिस्मृतीनां शिवादिप्रत्यक्षमूलत्वेन श्रुतिमूलत्वाभावात्। तदिदमाह प्रत्यक्षतो दृष्ट्वेति।
॥ स्मृतीनां विस्पष्टतयाऽर्थप्रतिपादकत्वात् अस्पष्टश्रुतिविरोधेनाप्रामाण्यं न युक्तम्॥
ननुतर्हि स्मृतीनामुक्तरीत्या सावकाशत्वान्निरवाकाशश्रुतिविरोधेनाप्रामाण्यमस्तु। मैवम्। वैपरीत्यात्। स्मृतयो हि विस्पष्टवादिन्यो न विवक्षितार्थात् प्रच्यावनमर्हन्ति। श्रुतयस्त्वस्पष्टविक्षिप्तवादिन्योऽव्यवस्थितालौकिकशाब्दलक्षणविषया अशक्याध्ययनानन्तापरिपूर्णवाक्यरूपा नार्थविशेषनिष्ठा लक्ष्यन्ते। अत एव भवतां मीमांसायासः। एतदप्युक्तम् प्रकर्षेणोक्तमिति। विस्पष्टमुक्तमित्यर्थः। पिपीलिकालिपिनिभेति च। अस्पष्टेत्यर्थः।
॥ इतिहासपुराणादिसापेक्षाणामेव श्रुतीनामर्थबोधकत्वात्,
स्मृतीनां तदभावाच्च स्पष्टास्पष्टत्वनियमः॥
किञ्च श्रुतयस्तावदविस्पष्टार्थाः। प्रणेतृव्याख्यानसम्प्रदायविकला न स्वतन्त्राः कमप्यर्थं प्रतिपादयितुमीशते। किन्तु सहजसिद्धेन योगर्धिलब्धेन वा प्रत्यक्षेणाशेषार्थदर्शिनामाप्तानां वचनमनुसृत्य नेतव्याः। यथोक्तम् “इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्” इति। इतिहासपुराणग्रहणमुपलक्षणम्। तथाच कथं पाशुपतादिस्मृत्युक्तार्थनिवारणाय समर्थाः स्युः। तदिदमुक्तम् पिपीलिकालिपिनिभा संवादेन विना कमप्यर्थं प्रतिपादयितुमसमर्था श्रुतिर्यद्वचनसंवादापेक्षिणी तैरेवाऽप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं वारयेत्? स्वातन्त्र्यदशायामप्रतिपादकत्वात्। पारतन्त्र्ये तु विरोधाभावादेव। किन्तु तदनुसारेणैव नेतव्येति।
॥ रुद्रादीनामाप्तत्वप्रतिपादनम्॥
भेवेदेतद् यदि पाशुपतादिस्मृतिप्रणेतॄणामाप्तत्वं स्यात्। तदेव कुत इत्यत आह सर्वगा हीति। सर्वं गच्छन्त्यवगच्छन्तीति सर्वगाः। आप्तत्वोपलक्षणमेतत्। ते रुद्रादयः। हीति तत्र प्रमाणप्रसिद्धिं द्योतयति।
अथवा सर्वज्ञत्वमेवात्र प्रमाणप्रसिद्ध्या साध्यते। तत एवान्यस्य सिद्धेः। तथाहि हरिहरहिरण्यगर्भास्तावत् सर्वज्ञतया श्रुतीतिहासपुराणेषु प्रसिद्धाः। तत्र हरेरेवतारा बुद्धर्षभकपिलाः सौगतादिस्मृतिप्रणेतरः। तथाच तेषां मोहाभावेन रागद्वेषयोरप्यभावात् विप्रिलप्सा च निवर्तते।
किञ्च ज्ञानेच्छाप्रयत्नस्थानकरणपाटवानि तावदुपदेशमात्रेण तेषां निश्चीयन्ते। ज्ञानं तु यथार्थमयथार्थं वा स्यात्। इच्छाऽपि प्रतिपिपादयिषा वा विप्रिलप्सा वेति सन्देहोऽवशिष्यते। तत्राभ्यासदशापन्नोऽयमर्थोऽस्येति सामान्यतो निश्चये भवत्येव तस्य ज्ञानस्य यथार्थत्वनिश्चयः। यथाऽभ्यासदशापन्नमिदमरण्यममीषां म्लेञ्छानामतोऽस्मिन्नेते मार्गाभिज्ञा इति पान्थानामेव निश्चयः।
विप्रिलप्सा च हेतुदर्शनेन व्याप्ता हेतौ सति स्यात्। स च द्विरूपः। स्वोपकारः परापकारो वा। न तावत् पान्थेषु विमार्गेण प्रतिष्ठमानेषु म्लेञ्छानां कश्चित् स्वोपकारः। स्वस्य गृहीतत्वात्। शरीरस्य च करणीयान्ताराभावात्। भावे वा परित्यागायोगात्। नापि द्वितीयः, नह्यनुन्मत्ता अनपकारिणमपकुर्वते। नापि परापकारमात्रं पुरुषार्थः। तथासति सर्वः सर्वमपकुर्यादिति। एवं विप्रिलप्साऽपि निवार्यते। अनभ्यासदशापन्ने तु विषये प्रमाणान्तरसंवादात् प्रवृत्तिसामर्थ्याद् वा मोहविप्रिलप्सयोः निवृत्तिरित्यतो म्लेच्छा अप्याप्ता भवन्ति। किमुत महानुभावा रुद्रादय इति।
॥ पञ्चरात्रादिस्मृतिप्रणेतॄणामप्युक्तन्यायेनाऽप्तोक्तत्वादिसिद्धेः, अन्यस्मृतीनां सत्प्रतिपक्षत्वम्॥
एवं पूर्वपक्षसूत्राभिप्रायमभिधाय सिद्धान्तसूत्रतात्पर्यमाह इति चेदिति।
इति चेद् यद्यशेषज्ञा रुद्राद्या हरिपूर्वकाः।
किं नाशेषविदोमानं ह्युभयत्र समं भवेत्॥६॥
तन्नेति शेषः। कुतः? निश्चिते हि पाशुपतादिस्मृतिप्रामाण्ये तद्विरुद्धं विष्णोः सर्वजगत्कारणत्वादिकमसत् स्यात्। नचैवम्। सत्प्रतिपक्षत्वात्। आस्तां तावच्छ्रुतिः। पञ्चरात्रादिस्मृतयो हि विष्णोरेव सकलजगत्कारणत्वादिकमभिदधाना दृश्यन्ते।
ननु विरुद्धयोः प्रमाणयोः साम्ये सति सत्प्रतिपक्षता स्यात्। नचैवं प्रकृते। पाशुपतादिस्मृतीनामाप्तप्रणीतत्वात् विस्पष्टवादित्वेन निरवकाशत्वाच्च। पञ्चारात्रादिस्मृतीनां तदभावादित्यत आह यदीति। अशेषज्ञा अशेषविद इत्याप्तत्वोपलक्षणम्। हरिपूर्वका हरिमनुप्रभृतयः पञ्चरात्रादिस्मृतिप्रणेतारः। येन न्यायेन पाशुपतादिस्मृतीनामाप्तरचितत्वमुपेयते, तेनैव पञ्चरात्रादीनामपि तदुपेयम्। नच विशेषहेतुरस्तीति भावः। उपलक्षणं चैतत्। विस्पष्टवादित्वेनानवकाशत्वं च द्रष्टव्यम्।
किमतो यद्येवमित्यत आह मानमिति। हिशब्दो हेतौ। यस्मादेवं तस्मादुभयत्र पूर्वपक्षसिद्धान्तयोर्मानं स्मृतिद्वयं समं भवेत्। तथाच पाशुपतादिस्मृतीनां सत्प्रतिपक्षत्वं स्थितमिति शेषः।
॥ पञ्चरात्रादिस्मृतीनां समूलत्वात् प्रामाण्यनिश्चयः,
अन्यस्मृतीनां तदभावादप्रामाण्यम्॥
ननु ये विरुद्धे प्रमाणे न तयोः साम्यम्। शुक्तिरजतज्ञानयोस्तदभावदर्शनात्। ये च समे न तयोः विरोधः। पटः शुक्लो दीर्घश्चेत्यत्र तदभावात्। तत् कथं पाशुपतादिस्मृतेः सत्प्रतिपक्षत्वसम्भवः? सम्भवेऽपि जितं परेण। सिद्धान्तनिर्णयस्यायोगादित्यत आह मानमिति। उभयत्र द्वयोः स्मरणयोः मध्ये यत् समं सह मया मूलप्रमाणेन वर्तते तदेव मानमन्यदप्रमाणम्।
एतदुक्तं भवति विशेषानिर्धारणायामेव सत्प्रतिपक्षत्वम्। वस्तुतस्तु समूलं मानमन्यदमानमिति। ननु समूलत्वेन प्रामाण्यावधारणे प्रामाण्यस्य परतस्त्वापत्तिः। मैवम्। परस्परविरोधेनाप्रामाण्यशङ्काप्राप्तौ समूलत्वेन तदपनयनात्। तथोभयत्र स्मरणे यत् पञ्चरात्रादिस्मरणं समं समूलप्रमाणं संवादिप्रमाणान्तरोपेतं च तदेव मानं भवेत्, नतु पाशुपतादिकम्, मूलाद्यभावात्। अतो नोक्तदोष इति योज्यम्। वक्ष्येते हि श्रुतिमूलत्वतत्संवादित्वे च पञ्चरात्रादीनाम्। (४६४४७३)
॥ रुद्रादीनामाप्तत्वभङ्गः॥
ननु कथं पाशुपतादिस्मृतीनां निर्मूलत्वम्। यावता पशुपतिप्रभृतीनामाप्तिस्तत्र मूलमुदितेत्यत आह नचेति।
नचाऽप्तिनिश्चयस्तत्र शक्यते व्यभिचारतः।
तत्र शिवादिषु निश्चयोपायाभावादिति शेषः। ननूक्तमत्र “सर्वगा हि ते” इति। मैवम्। “नित्यं वृद्धिक्षयापेतम्” इत्यादिना परमपुरुषादितरेषां सार्वज्ञ्याभावस्योक्तत्वात्। श्रुत्यादीनां चोपचरितत्वात्।
नन्वस्ति तावद् विष्णोरनुपचरितसार्वज्ञ्यम्। शिवादीनामप्युपायोपेयविषयम्। किं गङ्गावालुकाकीटसङ्ख्यापरिज्ञानेन? सत्यम्। न तावत् तत्वज्ञानमेवाऽप्तिः, विप्रलम्भकेऽतिव्याप्तेरित्याह व्यभिचारत इति।
अथोच्येत सर्वज्ञानां मोहाभावात् तन्मूलयो रागद्वेषयोरभावे विप्रिलप्साऽपि निवर्तत इत्याप्तिनिश्चय इति। किं तत्र सर्वेऽपि तीर्थकरा आप्ता इत्यङ्गीकृत्यैवमनुमीयते, उत स्वस्वाभिमतमेकमेव। आद्यं दूषयति व्यभिचारत इति। पञ्चरात्रादिस्मृतिप्रणेतरि नारायणेऽस्याङ्गीकारस्य भग्न्त्वादित्यर्थः। अभग्ने वा सिद्धं नः समीहितम्। यद्वा, व्यभिचारोऽन्योन्यविरोधः। नहि परस्परविरुद्धवादिनः सर्वेऽप्याप्ता इत्यङ्गीकर्तुमुचितम्। वस्तुविकल्पप्रसङ्गात्।
द्वितीयं पराचष्टे व्यभिचारत इति। यस्य तीर्थकरस्याऽप्तत्वं नाङ्गीक्रियते, तत्रैव सार्वज्ञ्यस्य व्यभिचारादित्यर्थः। नच तत्र सार्वज्ञ्यं नाङ्गीक्रियत इति युक्तम्। समानन्यायत्वात्। अथ हेतुं विशिष्यात्, तदा सन्दिग्धासिद्ध्यादिकम्।
यदप्युक्तं ज्ञानेच्छाप्रयत्नस्थानकरणपाटवानि तावदुपदेशमात्रेण निश्चीयन्त इति। तन्न। अपटुकरणानामप्युपदेशदर्शनेन व्यभिचारादित्याह व्यभिचारत इति। उपदेशविशेषणे चोक्तो दोषः।
निश्चीयतां ज्ञानम्, तस्य यथार्थ्यं तु कुतः? अभ्यासदशापन्नोऽयमर्थोऽस्येति सामान्यनिश्चये सति तत्सिद्धिरिति नेत्याह व्यभिचारत इति। व्यभिचारो विप्रकर्षः। तेषामेव सन्निधानं दुर्लभमस्मादादीनाम्, दूरे तदीयाभ्यसावधारणमिति भावः। विनेयवचनपरम्परया तदवधारणमिति चेत्, न। तीर्थकरान्तरे व्यभिचारादित्याह व्यभिचारत इति।
तासुतासु स्मृतिष्वभिनिविष्टाः सर्वेऽपि हि तन्तमाचार्यं तत्रतत्रार्थेऽभ्यासवन्तमेवाऽचक्षते। नच तदीयं ज्ञानं यथार्थमेवाङ्गीकर्तुं शक्यम्, त्वत्सिद्धान्तविरोधित्वात्। अन्यथा त्वदीयसिद्धान्तस्य अवास्तवत्वापातादित्याह व्यभिचारत इति। व्यभिचारः विरोधः।
इच्छाऽपि विप्रिलप्सा कुतो नेति वाच्यम्। स्वोपकारपरापकाररूपहेतुदर्शनाभावादिति चेत्, तत् किं स्मृतिप्रणेतारः सर्वेऽपि न विप्रलम्भकाः। अद्धेति चेत्, अस्य नियमस्य बुद्धादिषु भग्न्त्वादित्याह व्यभिचारत इति। नियमे च स्वव्याघातः। यस्यकस्यापि विप्रलम्भकत्वे हेतुदर्शनाभावस्य तत्रैव व्यभिचारः। नहि तत्तत्पुरुषविशेषानुसंहिताः तेते प्रयोजनविशेषाः पिशितनयनैरस्मदादिभिरवधारयितुं शक्यन्त इत्याशयेनाऽह व्यभिचारत इति।
केनापि प्रमाणेन हेतूपलम्भाभावोऽविप्रलम्भहेतुरिति चेत्, न। सन्दिग्धत्वात्। प्रयोजनाभावोऽविप्रलम्भहेतुः। प्रयोजनाभावश्च परवञ्चनस्यापुरुषार्थत्वादतत्साधनत्वाच्च निश्चीयत इति चेत्, न। सम्प्रतिपन्नविप्रलम्भकेषु व्यभिचारादित्याह व्यभिचारत इति। अपुरुषार्थमपि पुरुषार्थतया विभ्रम्य वञ्चयत्यसाविति चेत्, किं तावता? प्रकृतस्तु विवेकितया नैवमिति चेत्, न। तीर्थकरान्तरे अविद्यमानस्य विवेकस्यास्मिन्नवधारणानुपपत्तेः।
अथ विश्वहितोपदेशार्थं प्रवृत्त्या विप्रलम्भाभावोऽनुमीयत इति चेत्, न। बुद्धादिषु तत्साम्येन व्यभिचारादित्याह व्यभिचारत इति। अथ ते न तथा, किन्त्वयोग्यजनव्यामोहनार्थमिति चेत्, प्रकृतोऽपि न तथेति कुतो निश्चितम्? निश्चयोपायस्येतरत्रापि तुल्यत्वात्।
यदप्युक्तं प्रमाणान्तरसंवादान्मोहविप्रिलप्सयोर्निवृत्तिरिति, तदसत्। प्रमाणान्तरं हि न तावत् प्रत्यक्षम्। अतीन्द्रियत्वाद् विप्रतिपन्नार्थस्य। अनुमानं चेद् व्यभिचारो बुद्धादिषु। आभासमेव तत्, मदीयं त्वनुमानमेवेति चेत्, न। यतो निवारयिष्यामस्तव (८२४) वचनचमत्कारं मा त्वरिष्ठा इत्याशयेनाऽह व्यभिचारत इति।
अथाऽगमः। स किं वेदादिः, उत तद्विरुद्धं स्मृत्यन्तरम्, अथवा स्वयूथ्यरचितं ग्रन्थान्तरम्? न प्रथमद्वितीयौ, विरोधित्वेन संवादासम्भवादित्याह व्यभिचारत इति। नापि तृतीयः, बुद्धादिप्रणीतस्मृतीनामपि स्वयूथ्यपुरुषान्तरवचनसंवादित्वेन व्यभिचारादित्याह व्यभिचारत इति। तेऽपि सन्दिग्धाप्तभावा इति चेत्, न। प्रकृतेष्वपि तन्निश्चयोपायाभावात्।
यच्चोक्तं प्रवृत्तिसामर्थ्याद् व्यामोहविप्रिलप्सयोर्निरास इति, तदयुक्तम्। प्रवृत्तिसामर्थ्यं हि ततोऽर्थमवबुद्ध्य प्रवृत्तस्य फलोपलम्भः। नच विप्रतिपन्नस्मृतिफलं स्वर्गापवर्गलक्षणं प्रत्यक्षेणेक्ष्यते। इन्द्रियाणां तादृगर्थाविषयत्वादित्याह व्यभिचारत इति। आभिमुख्येन चारोऽभिचारः, तदभावो व्यभिचारः।
नाप्यनुमानेन। स्मृतित्वादेर्व्यभिचारित्वात्। अन्यस्य चाभावादित्याह व्यभिचारत इति। अथाऽगमेन। सोऽपि न तावत् सम्प्रतिपन्नोऽस्ति। नच विप्रतिपन्नेन। तस्य बौद्धादिविषयेऽपि विद्यमानत्वेन व्यभिचारादित्याह व्यभिचारत इति।
॥ फलसंवादित्वेनान्यस्मृतीनां प्रामाण्यसाधने फलविसंवादित्वादप्रामाण्यमप्यङ्गीकार्यम्॥
स्यादेतत्। द्विविधा खलु शिवादिप्रणीता स्मृतिः एका तावददृष्टं फलमुदिश्य प्रवृत्ता, परा तु सम्पदादिकं दृष्टम्। तत्र दृष्टार्थायाः प्रवृत्तिसामर्थ्यं प्रत्यक्षेणोपलभ्यते। ततस्तत्प्रणेतुराप्तत्वमिति। तन्न। तथाऽपि विप्रतिपन्नस्मृतेराप्तिमूलत्वे प्रमाणाभावात्। तत एवास्या अपि तत्सिद्धिरिति चेत्, न। व्यभिचारात्। नह्येकत्राऽप्तेन सर्वत्रापि तथा भाव्यमिति नियमोऽस्ति। तथाच सति सर्वासामपि स्मृतिनामाप्तिमूलतापातात्। तत्रापि दृष्टार्थानां प्रवृत्तिसामर्थ्योपलम्भादित्यह व्यभिचारत इति। अङ्गीकृत्य चेदमुदितम्। दृष्टार्थानामपि तासां बहुलं फलव्यभिचारो दृश्यते। तथाच कथं तद्दृष्टान्तेनेतरासामाप्तिमूलतानुमानमित्याह व्यभिचारत इति।
किञ्च फलव्यभिचारतस्तदंशस्यानाप्तिमूलत्वस्थितौ पशुपतिप्रणीतत्वादेस्तत्र व्यभिचारतः कथमनुमानं स्यादित्याह व्यभिचारत इति। तदेवं पाशुपतादिस्मृतीनामाप्तिमूलत्वानिश्चयेन निर्मूलानां पञ्चरात्रादिस्मृतिविरोधेनाप्रामाण्यमेव युक्तम्। तदनेन “इतरेषां चानुपलब्धेः”, “एतेन योगः प्रत्युक्तः” इति सूत्रद्वयं व्याख्यातं भवति।
यच्चेतरेषां महदहङ्कारादितत्वानामनुपलब्धेश्च साङ्ख्यस्मृतेरप्रामाण्यमिति व्याख्यानम्, तत् प्रत्यक्षानुपलब्धेर्वेदान्तेष्वपि व्यभिचारतः सर्वथाऽनुपलब्धेरसिद्धेरुक्तत्वादयुक्तमिति।
॥ पञ्चरात्रादिस्मृतीनां प्रामाण्यस्य फलसंवादसाध्यत्वाभावात्,
श्रुतिमूलत्वेन निश्चितप्रामाण्यकत्वाच्च फलव्यभिचारेऽपि नाप्रामाण्यप्रसङ्गः॥
ननु पञ्चरात्रादिस्मृतयोऽपि फलं व्यभिचरन्ति। क्वचित् तदुक्तानुष्ठानेऽपि दृष्टफलानुपलम्भात्। अतस्तासामप्रामाण्यान्न तद्विरोधेन पाशुपतादिस्मृतीनामप्रामाण्यम्। अन्यथा फलव्यभिचारस्य अनैकान्तिकत्वमित्यत आह नचेति।
नचास्या व्यभिचारेऽपि हीयते मानता क्वचित्।
अस्याः पञ्चरात्रादिस्मृतेः क्वचिद् व्यभिचारेऽपीति सम्बन्धः। कुतो न हीयत इति चेत्, किमदृष्टार्थायाः प्रामाण्याभावोऽभिधीयते, उत दृष्टार्थाया एव? नाऽद्यः, यतः फलव्यभिचारे हेतौ क्वचिद् दृष्टार्थायां वर्तमानेऽस्या अदृष्टार्थाया मानता न हीयते। व्यधिकरणत्वादिति भावः। न द्वितीयः, यस्मात् क्वचिद् दृष्टार्थायां फलव्यभिचारे, तत एवाप्रामाण्ये सत्यप्यस्या अदृष्टार्थायास्तावन्मानता न हीयते। कारणाभावात्। तद्विरोधादेव च पाशुपतादीनामप्रमाण्यमुक्तम्। दृष्टार्थाया अप्रामाण्यवचनं तु प्रकृतानुपयुक्तमित्यभिसन्धिः।
अथ दृष्टार्थायाः फलव्यिभचारेणाप्रामाण्ये सति तत एवादृष्टार्थाऽप्यप्रामाणं भविष्यतीति चेत्, न। तत इति किं तेन हेतुना, उत तेन दृष्टान्तेन? नाऽद्यः, क्वचिद् व्यभिचारेणाप्रामाण्येऽप्यस्या मानता हीयत इति न युक्तम्, व्याप्त्यभावात्। न द्वितीयः, क्वचिद् व्यभिचारेऽप्रामाण्येऽपि अस्या मानता हीयत इत्येतन्न युक्तम्, हेत्वभावात्। नारायणवाक्यत्वादेर्व्यभिचारात्। मा हि भूत् सकलमपि नारायणवाक्यमप्रमाणम्। दृष्टार्थायां फलव्यभिचारे अप्रामाण्ये च सत्यस्या अपि मानता शङ्कास्पदत्वेन हीयत इति न वाच्यम्। अत्र हेतुमाह निर्दोषेति।
निर्देषवाक्यमूलत्वान्नच तद्युक्तिमूलता॥७॥
निर्दोषवाक्यं वेदः। तद्युक्तिः समर्थप्रवृत्तिजनकत्वं प्रामाण्यावाधारणस्य यत इति शेषः। अयमभिसन्धिः किमिदं दृष्टार्थायाः पञ्चरात्रादिस्मृतेः फलव्यभिचारेणाप्रामाण्यानुमानम्, तत एवेतरस्या अप्यप्रामाण्यशङ्कनं च स्वातन्त्र्येण क्रियते, किंवा प्रतिबन्दीग्रहणम्? आद्यं तूत्तराधिकरणे निराकरिष्यामः। (४७३) न द्वितीयः, प्रतिबन्दीग्रहणं हि प्रमेयसाध्ये भवति। नचैवं प्रकृते। परेण खलु फलसंवादादिना पाशुपतादिस्मृतेराप्तिमूलत्वप्रामाण्ययोरनुमितयोरस्माभिस्तन्न्यायेन फलविसंवादं प्रदर्श्य दोषोऽभिहितः। यदि नाम पञ्चरात्रादिस्मृतिप्रामाण्यावधारणं फलसंवादयुक्त्या आशास्येत, स्यादिदं तदा प्रतिबन्दीग्रहणम्। नचास्माभिः पञ्चरात्रादिप्रामाण्यावधारणस्य तद्युक्तिमूलतोपेयते। नचैवं तत्प्रामाण्यावधारणं निर्मूलं स्यादिति वाच्यम्। बोधकत्वेन स्वतःसिद्धत्वात्। अप्रामाण्यशङ्कानिवृत्तिः कुत इति चेदाप्तिलत्वेनेत्युक्तम्। तदवधारणं निर्मूलमिति चेत्, न। श्रुतिसंवादनिबन्धनत्वादिति।
ननु श्रुतेरेव वक्तृगुणहीनाया न प्रामाण्यमित्यतो निर्दोषवाक्येत्युक्तम्। बोधकत्वेनैव हि प्रामाण्यं व्यवस्थापितम्। (१३८) तच्च वाक्यत्वाच्छ्रुतेरुभयसम्मतम्। दोषस्तु तदपवादकः। नचापौरुषेये स सम्भवतीति निष्कम्पमेव श्रुतिप्रामाण्यमिति वक्ष्याम इत्यर्थः। (४६८)अस्यां दशायां श्रुतिविरोधेनापि पाशुपतादिस्मृतीनामप्रामाण्यं शक्यसाधनम्।
यदप्युक्तम्”इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्” इति, तत् तथा। किन्त्वविरुद्धानामेवोपायत्वम्, नतु विरुद्धानाम्। नचैवमितरेतराश्रयत्वम्। श्रुत्यर्थनिश्चयस्य स्मृतिसंवादैकनिबन्धनत्वाभावादिति।
॥ पञ्चरात्रादिस्मृतीनां प्रामाण्यस्य फलसंवादसाध्यत्वाभावप्रतिपादनम्॥
ननुच पञ्चरात्रादिस्मृतीनां प्रामाण्यमङ्गीकुर्वाणैः सर्वथा प्रवृत्तिसामर्थ्यमङ्गीकरणीयम्। व्यभिचारस्य च कर्तृकरणादिवैगुण्यनिबन्धनत्वमभ्युपेयम्। अन्यथा फलव्यभिचारि च प्रमाणं चेति व्याघातापातात्। तथाच फलसंवादेनापि प्रामाण्यादिसाधनं सुशकमेवेति किमुच्यते नच तद्युक्तिमूलतेति सुहृद्भावेन पृच्छन्तं प्रत्याह वेदोक्तस्येति।
वेदोक्तस्याधिकारस्य दुर्निरूपत्वतः सदा।
नियमो व्यभिचारो वा नैव ज्ञातुं हि शक्यते॥८॥
वैदिकग्रन्थोपदिष्टानुष्ठाने वेदोक्ता निषेकादिसंस्कारा एवाधिकारतामापद्यन्त इति वेदोक्तस्य इत्युक्तम्। यद्वा वेदशब्देन पञ्चरात्रादयोऽपि गृह्यन्ते। अधिकारस्येत्युपलक्षणम्। साधनानुष्ठानस्येत्यपि द्रष्टव्यम्। दुर्निरूपत्वमस्मादाद्यप्रत्यक्षत्वम्। सदेति स्वभावत एव, नतु देशादिव्यवधानेनेत्यर्थः। नियमो व्यभिचारो वा फलस्येति शेषः। हिशब्दो यस्मादित्यर्थे। तस्मात् फलसंवादेन प्रामाण्यादि नानुमीयत इति शेषः।
एतदुक्तं भवति प्रमितं खलु लिङ्गमनुमितेः करणम्। न सत्तामात्रेण। अतिप्रसङ्गात्। अत्रचैवं प्रयोक्तव्यम् पञ्चरात्रादिकं प्रमाणम्, समर्थप्रवृत्तिजनकत्वात्; सम्प्रतिपन्नवदिति। तस्य चायमर्थः एतद्विहितसाधनानुष्ठानवद्भिस्तत्फलस्य नियमेन प्राप्तेरिति। नचैतल्लिङ्गं शक्यावधारणम्। व्यभिचारस्य बहुलमुपलम्भेन नियमस्य प्रत्येतुमशक्यत्वात्। तदवधारणे च काकतालीयतायाः शङ्कनात्।
तत्रैतावद् वक्तव्यम् कार्यं कारणसामग्रीसम्पाद्यं नतु तदेकदेशेन, तथात्वेऽतिप्रसक्तेः। प्रकृते चोभयकुलशुद्धिवैदिकनिषेकादिसंसकाराद्यधिकारपूर्वकं विशुद्धाभिसन्ध्यादिमता सम्यगनुष्ठितं कर्म असति प्रतिबन्धके, सति चेश्वरेच्छादौ हि सहकारिणि, सम्पदादिफलजननायालम्। तथाच यत्र फलं नोपलब्धं तत्राधिकारादिवैगुण्यम्, इतरत्र तु तत्साद्गुण्यमित्यतो नियमनिश्चय इति।
नचैतद् युक्तम्। परगतयोरधिकारादिभावाभावयोरस्मदादिभिरवगन्तुमशक्यत्वात्। नहि खलु परकीयपितृपितामहादीनां मानसादिविशुद्धिर्वा, निषेकादिसमीचीनता वा, मन्त्राणामयातयामत्वादिकं वा, द्रव्यादीनां शुचित्वादिकं वा, अर्वाचीनैरवगन्तुं शक्यते। तथाचास्य फलनियम एव, व्यभिचारस्तु वैगुण्यनिमित्त इति वाऽस्तु। व्यभिचार एवास्य। क्वचित् फलोपलम्भस्तु काकतालीयः, अन्यनिमित्त एवेति वा भवत्विति सन्देहो न निवर्तते। नच सन्दिग्धेन प्रामाण्यानुमानं युज्यते। प्रामाण्यसिद्ध्युत्तरकालं तु व्यभिचारस्य वैगुण्यनिमित्तताकल्पनायामितरेतराश्रयत्वं स्यात्। वेदसंवादेन तु प्रामाण्येऽवधारिते शक्यते फलव्यभिचारस्यान्या गतिः कल्पयितुम्। अतो वेदसंवादेनैव प्रामाण्यं पञ्चरात्रादीनामवधार्यते न प्रवृत्तिसामर्थ्येनेति। एवं न्यायसाम्याभावेन प्रतिबन्दी मोचिता।
॥ अन्यस्मृत्युक्ताधिकारसाधनानामतिसुलभत्वेन तद्वैकल्यकल्पनायोगः॥
यदपि प्रतिबन्दीमाददानस्य विवक्षितम्, यथाच पञ्चरात्रादिप्रामाण्यमभिलषता फलव्यभिचारस्य अधिकारादिवैकल्यनिबन्धनता कल्प्या, तथाऽहमपि पाशुपतादिस्मृतिषु कल्पयिष्यामीति, तदयुक्तं वैषम्यादित्याह अधिकारो हीति।
अधिकारो हि सुलभः कथितोऽन्यागमेष्वलम्।
वेदोक्तो ह्यधिकारस्तु दुर्लभः सर्वमानुषैः॥९॥
अन्यागमेषु विप्रत्वमपि चण्डालजन्मनाम्।
मण्डलान्तःप्रवेशेन क्रमशः प्रतिपाद्यते॥१०॥
अधिकारग्रहणं साधनस्याप्युपलक्षणम्। अन्यागमेषु पाशुपतादिषु कथितोऽधिकारोऽलं सुलभः अनायाससाध्यः। कुतः? यस्मादन्यागमेषु तथा कथितः। तथाच तद्वैकल्यकल्पनमसम्भावनाप्रतिहतम्। वेदोक्तस्त्वधिकारो विशुद्धसन्तानजत्वादिः सर्वमानुषैर्दुर्लभ इति प्रसिद्धमेव। अतस्तद्वैकल्यकल्पनं सम्भावितमेवेति।
ननु कथमन्यागमेष्वधिकारः साधनं च सुलभमुक्तमित्यतो लेशेन दर्शयति अन्यागमेष्विति। यद् भवान्तरेण, महता तपसा विना वाऽलभ्यम्, तदपीत्यर्थः। यतित्वादिकमपीति वा। चण्डालजन्मनामपि, किमु क्षत्रियादीनामिति वा।
विप्रा एव ये कर्मणा चण्डालास्तेषां कथञ्चित् प्रत्यापत्तिर्वैदिकैरप्यङ्गीक्रियत इत्यतश्चण्डालजन्मनामित्युक्तम्। चण्डालेषु जन्म येषामिति वा। चण्डालसम्बन्धित्वाच्चण्डालं जन्म येषामिति वा तथोक्ताः। क्रमशो मण्डलान्तःप्रवेशेनेत्यनेनेदमुच्यते। यो यावज्जातिव्यवहितः, तस्य तावन्ति मण्डलानि कल्प्यानि। तत्र यद्यन्मण्डलं प्रविशति तत्तज्जातीयो भवति। चरममण्डलप्रवेशे तु विप्रः सम्पद्यत इत्यन्यागमेषु प्रतिपाद्यत इति सम्बन्धः। तथाचोक्तम्
“दीक्षाप्रवेशमात्रेण ब्राह्मणो भवति क्षणात्।
कापालं व्र्तमास्थाय यतिर्भवति मानवः” इति।
एतदधिकारसौलभ्यमुदाहृतम्। एवं साधनसौलभ्यमपि द्रष्टव्यम्। यथाऽऽहुः कापालिकाः
“मुद्रिकाषतत्वज्ञः परमुद्राविशारदः।
भगासनस्थमात्मानं ध्यात्वा निर्वाणमृच्छति।
कर्णिका रुचकं चैव कुण्डलं च शिखामणिः।
भस्म यज्ञोपवीतं च मुद्राषं प्रचक्षते।
आभिर्मुद्रितदेहस्तु न भूय इह जायते “ इत्यादि।
तथा कालामुखा अपि
“रुद्राक्षकङ्कणं हस्ते जटा चैका च मस्तके।
कपालं भस्मना स्नानं लकुटं कलशार्चनम्” इत्यादि।
॥ स्वव्याहत्यादिदोषाकुलितत्वाच्च पाशुपतादिस्मृतीनामप्रामाण्यम्॥
ननु यथाऽधिकारसाधनयोः सौलभ्यमुक्तम्, एवं तद्दौर्लभ्यमपि तत्रैवोक्तमिति चेत्, तर्हि न केवलं फलविसंवादेन पाशुपतादीनामप्रामाण्यम्। किन्नाम। परस्परविसंवादेनापीत्याह अधिकारमिति।
अधिकारं दुरापाद्यमुक्त्वाऽतिसुलभं पुनः।
अशक्यं साधनं चोक्त्वा सुशकं तत्फलाप्तये।
उच्यतेऽतस्तदुक्तं हि व्यभिचारि फलेऽपि तु॥११॥
कथं प्रमाणतां गच्छेत्....................।
यस्मात् क्वचिदधिकारं दुरापाद्यमुक्त्वा पुनरपि सुलभं ब्रवीति, यस्माच्च तत्फलाप्तये सम्पदादिफलाप्तये साधनमशक्यमुक्त्वा सुशकं चोच्यते, यस्माच्च तदुक्तं साधनं फलेऽपि विषये व्यभिचारि, अतस्तदुक्तं सा पाशुपताद्युक्तिः कथं प्रमाणतां गच्छेत्? न कथमपीत्यर्थः।
दुर्लभत्वोक्त्यनुरोधेन सौलभ्यवचनं प्ररोचनार्थं व्याख्यायताम्। तथाच फलविसंवादोऽप्यधिकारादिवैगुण्यनिमित्तो भविष्यति यथा पञ्चरात्रादाविति चेत्, न। वैषम्यात्। युक्तं हि पञ्चरात्रादिषु तथा कल्पनम्। श्रुतिमूलत्वेन प्रामाण्यस्य निश्चिततया कल्पकस्य विद्यमानत्वात्। पाशुपतादौ तु तदभावेन विसंवादस्याप्रामाण्यनिबन्धनतोपपत्तौ कल्पकाभावात्। क्वचित् संवादस्तु काकतालीयो वा गुडजिह्विकानिमितो वा भविष्यति। तदिदमुक्तं तुशब्देन। तदुक्तं त्विति सम्बन्धः। तदेवं पाशुपतादीनामपस्मृतित्वान्न तद्विरोधेनोक्तार्थासम्भवः शङ्कनीय इति स्थितम्॥*॥ इति स्मृत्यधिकरणम्॥१॥
अथ नविलक्षणत्वाधिकरणम्॥२॥
॥ पूर्वपक्षिणा वेदानामप्रमाण्यसाधनम्॥
न विलक्षणत्वादस्य तथात्वं च शब्दात्। परिहृतः स्मृतिविरोधः। सम्प्रति युक्तिविरोधः परिह्रियते। तथाहि श्रुत्यादिसमन्वयेन खलु जगज्जन्मादिकारणत्वं ब्रह्मणो निरूपितम्। तत्र श्रुतेरेव प्रामाण्यं तावद् दुर्लभम्। यद्धि फलव्यभिचारि तदप्रमाणं दृष्टम्, यथा विप्रलम्भकवाक्यम्। फलव्यभिचारिणी च श्रुतिः, पुत्रकामेष्ट्याद्यनुष्ठानेऽपि कदाचित् पुत्रजन्माद्यनुपलब्धेः। अन्यथा फलानुपलब्ध्योक्तं पाशुपताद्यप्रामाण्यमपि न स्यात्। एकदेशे चाप्रमाण्ये तन्न्यायेनैकदेशान्तरस्यापि अप्रामाण्यानुमानं सुलभमेव।
किञ्च यदबुद्धिपूर्वकं तदप्रमाणम्, यथा पिपीलिकालिपिः। अबुद्धिपूर्वकश्च वेदः, अपौरुषेयत्वाङ्गीकारात्। पौरुषेयत्वे च मूलप्रमाणशून्यत्वादप्रमाणमेव, विप्रलम्भकवाक्यवत्।
अपिचाऽप्ताप्रणीतवाक्यत्वादुन्मत्तवाक्यवदप्रामाण्यं वेदस्यानुमेयम्। यदा वेदस्यैतादृशी दशा, तदा का वार्ता स्मृतीतिहासपुराणानां फलव्यभिचारादिदोषजर्झराणां प्रामाण्यस्य। तथाच वेदादिसमन्वयेन न जगज्जन्मादिकारणत्वं ब्रह्मणः सिद्ध्यतीत्येवं प्राप्ते तत्प्रतिविधानार्थस्य “न विलक्षणत्वात्” इति सूत्रस्य तात्पर्यमाह नित्यत्वादिति।
॥ बोधकत्वात्, विपरीताबोधकत्वाच्च वेदानां प्रामाण्यम्॥
ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात्ॐ॥४॥
.................नित्यत्वात् पुरुषोद्भवैः।
उज्झितं सर्वदोषैश्च कथं नो मानतां व्र्जेत्॥१२॥
वेदवाक्यमिति शेषः। अयमर्थः बोधकत्वेन खलु करणानां प्रामाण्यम्, दोषात्तु कदाचिदपनीयते। वेदवाक्यं च बोधकत्वेन वादिप्रतिवादिसम्मतम्। अन्यथा फलव्यभिचारोऽपि तत्र न स्यात्। वाक्ये च प्रामाण्यस्य अपवादका दोषा अबोधकत्वविपरीतबोधकत्वादयः सर्वेऽपि वक्तृदोषनिबन्धना एव। अन्वयव्यतिरेकाभ्यां तदवगमात्। वेदवाक्यं च नित्यत्वादपौरुषेयत्वात् पुरुषदोषनिबन्धनैः सर्वदोषैर्वजितं स्वत एव प्रामाण्यमाप्नोति। प्रामाण्ये च निश्चिते सति फलव्यभिचारस्य सामग्रीवैकल्यं वा प्रतिबन्धकसद्भावो वा कारणं कल्पयिष्यते। अन्यथासिद्धानन्यथासिद्धयोरनन्यथासिद्धस्य बलवत्त्वादिति।
अत्रैते प्रयोगा भवन्ति वेदः प्रमाणम्, बोधकत्वे सति विपरीताबोधकत्वात्; सम्प्रतिपन्नवत्। विमतो विपरीतबोधको न भवति, अनाप्ताप्रणीतवाक्यत्वात्; सम्प्रतिपन्नवाक्यवत्। विमतो अनाप्तप्रणीतो न भवति, अपौरुषेयत्वात्; व्योमवत्। विमतः फलव्यभिचारो वैकल्यादिनिबन्धनो भवितुमर्हति, प्रमाणसिद्धफलव्यभिचारत्वात्;चरकाद्युक्तफलव्यभिचारवदिति।
॥ वेदानां नित्यत्वप्रतिपादनम्॥
स्यादेतत्। नित्यत्वमेव वेदस्य कुतः? प्रागुक्तसामान्यसिद्धिपरिशेषाभ्यामिति ब्रूमः। ये तु स्वयूथ्या वेदप्रामाण्यमङ्गीकृत्यापि तन्नित्यतां नानुमन्यन्ते, तान् प्रति सूत्रसूचिताभिः श्रुतिभिस्तामुपपादयति विरूपेति।
विरूप नित्यया वाचानित्ययाऽनित्यया सदा।
इत्यादिश्रुतिभिर्वेदो नित्य इत्येव गम्यते॥१३॥
अनेन “तस्मै नूनमभिद्यवे वाचा विरूप नित्यया। वृष्णे चोदस्व सुष्टुतिम्” इति श्रुतिमुपादत्ते। अत्र वाचो नित्यत्वमुच्यते। न वेदस्य। तदपि बहुकालीनत्वं भविष्यतीत्यतो “नित्ययाऽनित्यया स्तौमि ब्रह्म तत् परमं पदम्” इति “श्रुतिर्वाव नित्याऽनित्या वाव स्मृतयो याश्चन्या वाचः” इति श्रुतिमुपादत्ते नित्ययेति। व्याख्यानान्तरनिरसाय “नित्यया” इत्येतत् सदा विद्यमानयेति व्याख्यातम्। वाक्यशेषे हि बहुकालीना अपि स्मृतीरनित्यपक्षे निक्षिप्य श्रुतिमेव नित्यामाह। पौरुषेयतामपि श्रुतयोऽभिदधतीति चेत्, न। आप्तोक्तत्वस्य दुरवधारणतायाः प्रागुक्तत्वेन पौरुषेयत्वे प्रामाण्यावधारणानुपपत्तिप्रसङ्गेन दुर्बलत्वात्। प्रामाण्यस्य स्वतस्त्वेनापौरुषेयत्वेऽपि कारणाभावात् प्रामाण्यं न स्यादिति प्रसङ्गस्य आभासत्वात्। प्रबलश्रुत्यनुसारेण तत्तत्पुरुषप्रर्वतितत्वमेव तासामर्थोऽवगन्तव्यः। तथाच “ऋचः सामानि जज्ञिरे” “ऋग्वेद एवाग्नेरजायत” इत्याद्युपपन्नं भवति। नह्येकं वाक्यमनेककर्तृकमिति सम्भवति। सम्भवति त्वनेकप्रवर्तितमिति।
॥ पिपीलिकालिपेः वर्णस्मरणहेतुतया संस्कारोद्बोधकारणत्वेन बोधकत्वात् प्रामाण्यम्॥
यदपि पिपीलिकालिपिवदबुद्धिपूर्वकत्वादप्रामाण्यं श्रुतेरिति, तन्निराकरोति पिपीलिकेति।
पिपीलिकालिपिश्चापि प्रमाणमविरोधतः।
चो यस्मादित्यर्थे। बोधकत्वसमुच्चये वा। तस्माद् दृष्टान्तस्य साध्यविकलत्वादसदनुमानमिति शेषः। न केवलं श्रुतिः, किन्तु पिपीलिकालिपिरपीत्यपेरर्थः।
अप्रामाण्यं खलु पिपीलिकालिपेरबोधकत्वेन वा स्यात्, विपरीतबोधकत्वेन वा। नाऽद्यः, अनुभवविरुद्धत्वात्। अन्यथा पुरुषिलपेरप्यबोधकत्वं स्यात्। तथाच तद्वैयर्थ्यमापद्येत। अपिचैवंसत्याकाशादिकमेवोदाह्रियेत, तत् किं पिपीलिकालिपिगवेषणया? न द्वितीयः, तद्धि बलवत्प्रमाणविरोधतः कल्पनीयम्। अन्यथाऽतिप्रसङ्गात्। नच पिपीलिकालिपिबोधितेऽर्थे प्रमाणविरोधोऽस्ति। अतः कथमसावप्रमाणं स्यात्?
स्यादेतत्। लिपिस्तावन्न प्रमाणं पृथक्। अनुप्रमाणत्रित्वाभ्युपगमात्। नच प्रत्यक्षागमयोरन्तर्भवति। अतल्लक्षणत्वात्। अतोऽनुमानमेवेति वाच्यम्। तच्च लेखकबुद्धिस्थशब्दविषयं वा तदवबुद्धार्थविषयं वा स्यात्। नचैतत् पिपीलिकालिपौ सम्भवति, प्रमाणबाधितत्वात्। तत् कथमसौ प्रमाणमिति। मैवम्। तथासत्येडमूकिलपेरप्यप्रामाण्यप्रसङ्गात्। भवतु साऽप्रमाणमितरा त्वनुमानमिति चेत्, न। एडमूकिलपेरपि सांव्यावहारिकत्वदर्शनात्।
किञ्चेतरत्राप्यनुमाने किमेडमूकव्यावृत्त्यर्थं किमपि विशेषणमुपादेयम्, उत नेति वाच्यम्। नाऽद्यः, सन्दिग्धासिद्धिप्रसङ्गात्। निर्णीतलेखकैव लिपिरनुमानमिति चेत्, न। अनिर्णीतलेखकाया अपि सांव्यावहारिकत्वात्। न द्वितीयः, एडमूकिलपावनैकान्त्यात्। अथ मूललेखकबुद्धिस्थशब्दार्थानुमाने न कोऽपि दोष इति मतम्। तदपि न। पिपीलिकालिपावनैकान्त्यात्। तद्व्यावर्तने च सन्दिग्धासिद्धेः। नहि पिपीलिकालिपेः पुरुषिलपेरस्ति कश्चिद् विशेषः, येन नेयं पिपीलिकालिपिरिति निश्चिनुयात्। तस्मात् पुरुषिलपिरपि पदमिव पदार्थस्य वर्णानां स्मरणहेतुरेष्टव्या। तत् समं पिपीलिकालिपावपि। स्मृतेश्च प्रमितित्वं वक्ष्यामः। (५३८)
ननु प्रमात्वेऽपि स्मृतेर्न तद्धेतुमात्रस्य प्रामाण्यम्। प्रमात्रादीनामपि तत्प्रसङ्गात्। किन्तु साधकतमस्यैव। तच्च मन एवेति सिद्धान्तः। लिपिदर्शनादिकं तु संस्कारोद्बोधाभिधसहकारिसम्पादनेनैव चरितार्थमिति कथं तस्य प्रामाण्यम्? मैवम्। अर्थसन्निकर्षलक्षणावान्तरव्यापारसहितं हीन्द्रियं प्रत्यक्षम्, नेन्द्रियमात्रम्। मनसश्च स्मरणोदये संस्कारोद्बोध एवार्थसन्निकर्षः। तथाच चक्षुष इवार्थोपसर्पणतत्संयोगसहितस्य प्रामाण्यम्, एवं लिपिदर्शनतद्बुद्धसंस्कारसहितस्यैव मनस इति कथं न लिपेः प्रामाण्यम्? केवलायास्तु नास्तीति चेत्, श्रुतेरपि तन्नाङ्गीक्रियत एवेति।
नन्वत्र प्रमाणशब्दो भावसाधनो वा स्यात्, करणसाधनो वा। आद्ये पिपीलिकालिपिः प्रमाणमिति सामानाधिकरण्यं न स्यात्। द्वितीये तु प्रमाणीति भवितव्यम्। कथन्तर्हि वेदाः प्रमाणम्, स्मृतिः प्रमाणमिति। प्रमाणमिति सामान्येनोद्दिश्य वेदादित्वविधानात्। अन्यथा तत्रापि दौर्घट्यमेवेति। मैवम्। भावसाधनत्वाभ्युपगमात्। सामानाधिकरण्यं तु भाक्तमिति।
॥ अबुद्धिपूर्वकत्वाद् वेदानां सम्यगनुभवसाधनत्वाभावानुमाने हेतोरनैकान्तिकता॥
ननुच श्रुतेः सम्यगनुभवसाधनत्वेन प्रामाण्यमिष्टम्, नतु स्मारकत्वेन। तथाच न श्रुतिः सम्यगनुभवसाधनम्, अबुद्धिपूर्वकत्वात्; पिपीलिकालिपिवदित्यनुमास्यत इत्यत आह यथेति।
यथा द्रौणेरुलूकेन कृतमप्यास बोधकम्॥१४॥
अविरुद्धम्............................
यथाऽबुद्धिपूर्वकमप्येकेनोलूकेन कृतमनेककाकनाशनमश्वत्थाम्नोऽहमेक एवानेकान् वधिष्यामीत्यस्यार्थस्य बोधकं सम्यगनुभवं प्रति साधनं जातम्। तथा श्रुतिरबुद्धिपूर्वाऽपि सम्यगनुभवसाधनम्।
एतदुक्तं भवति अबुद्धिपूर्वकत्वं किमनादित्वं विवक्षितम्, सादित्वेऽपि बुद्धिजन्यत्वाभावो वा, प्रतिपाद्यार्थबुद्धिपूर्वकत्वाभावो वा, अनेनैतदेवं प्रतिपादयिष्यामीत्यभिसन्धिपूर्वकतावैधुर्यं वा? नाऽद्यः, पिपीलिकालिपावभावात्। गगनमेव दृष्टान्तो भविष्यतीति चेत्, तथाऽपि श्रुतेरनादित्वस्य परेणानङ्गीकृतत्वेनासिद्धेः। न द्वितीयः, उत्पद्यमानं बुद्धिजन्यमेवेति मयाऽङ्गीकृतत्वात्। न तृतीयचतुर्थौ, उलूककृतव्यापारे व्यभिचारादिति।
यद्यपि प्रत्यक्षे व्यभिचारोऽत्र वक्तुं शक्यते, तथाऽपि ज्ञातकरणसजातीयत्वेन शक्यपरिहारोऽसाविति नोदितः। अनुमानमात्रे सुवचोऽपि चेतनव्यापारविषयस्य तथाभूत एव शाकुने प्रदर्शयितुमुचित इति न प्रदर्शितः। ननु शाकुनमर्थविसंवाद्यपि दृश्यते। सत्यम्। यत्तु प्रमाणाविरुद्धं तद् व्यभिचारस्थलं भविष्यतीति भावेनोक्तम् अविरुद्धमिति। शाकुनमात्रे व्यभिचारस्य दर्शयितुं शक्यत्वेऽप्यागमिकत्वेन विसंवादानर्हतयेदमुदाहृतम्।
॥ “आस” इत्यस्य साधुत्वसमर्थनम्॥
नन्वासेति कथम्? अस्तेर्भूरित्यस्य नित्यत्वात्। “विभक्तिप्रतिरूपकं चाव्ययं भवति” इति वचनादव्ययमेतदिति न दोषः। विभक्तिप्रतिरूपकमित्युच्यते। नचैवं विभक्तिरस्ति। न नास्ति। आमन्तानुप्रयोगस्य विद्यमानत्वात्।
॥ शब्दत्वे सत्यबुद्धिपूर्वकत्वअबुद्धिपूर्वकत्वआप्ताप्रणीतवाक्यत्वहेतूनां सोपाधिकता॥
नन्वेवन्तर्हि प्रयुज्यते श्रुतिर्न सम्यागनुभवसाधनम्, शब्दत्वे सत्यबद्धिपूर्वकत्वादिति। यद्वा श्रुतिर्नाऽगमः, अबुद्धिपूर्वकत्वादिति। अबुद्धिपूर्वकत्वं च विवक्षितार्थतत्वज्ञानपूर्वकत्वाभावः। आद्यस्य पिपीलिकालिपावप्रवेशेऽप्युन्मत्तवाक्यं दृष्टान्तो भविष्यति। नचोन्मत्तवाक्यमपि प्रमाणम्, प्रमाणविरुद्धत्वादित्यत आह विरुद्धं त्विति।
..............विरुद्धं तु विरोधादेव बाधितम्।
प्रमाणविरुद्धं यदुन्मत्तवाक्यं तत् प्रमाणविरोधादेव बाधितमयथार्थमिति यावत्। नतूक्तहेतुभ्यामिति। सोपाधिकतामनेनाऽचष्टे। अव एवाऽप्ताप्रणीतवाक्यत्वहेुतरप्यपास्तः।
अयमभिसन्धिः न तावत् सम्यगनुभवसाधनत्वाभावो ज्ञानसाधनत्वाभावेन, ज्ञानसाधनत्वस्य उभयसिद्धत्वात्। नापि स्मृतिसाधनत्वेन, अननुभूतविषयत्वसम्मतेः। ततो विपरीतबोधकत्वेनैवेति वाच्यम्। एवं द्वितीयप्रयोगेऽपि न तावदनागमत्वमशब्दत्वेन। शब्दत्वस्योभयसम्मतत्वात्। तस्मादयथार्थत्वेनेति वक्तव्यम्। एवं तृतीयप्रयोगेऽपि साध्यनिष्कर्षः कर्तव्यः। तथाच तत्र प्रमाणबधितत्वमुपाधिः। यद्वाऽनुभवसाधनत्वावच्छिन्ने प्रथमसाध्ये, वाक्यत्वावच्छिन्ने द्वितीयसाध्ये बोधकत्वावच्छिन्ने तृतीये चायमुपाधिरिति।
॥ प्रमाणाविरुद्धत्वविशिष्टबोधकत्वहेतुना वेदप्रामाण्यसाधनम्॥
नन्वस्योपाधेर्यदयथार्थं तत् प्रमाणविरुद्धमिति साध्यव्यापकत्वेऽपि साधनाव्यापकत्वं कथमित्यत आह विरोधेति।
विरोधादर्शनात्तस्माद् वेदप्रामाण्यमिष्यते॥१५॥
पक्षीकृतायां श्रुतावुक्तसाधनसद्भावेऽपि प्रमाणविरोधस्यादर्शनात् साधनाव्यापकत्वमिति शेषः। अत्र विरोधाभावादिति वक्तव्येऽदर्शनादित्युक्तं विरोधाभावसाधनार्थमिति द्रष्टव्यम्। किमतो यद्येवं प्रमाणविरुद्धत्वमुपाधिरिति चेत्, उपाधेः प्रतिपक्षोन्नायकत्वस्य वक्ष्यमाणत्वेन (५२१) अनुमानानां सत्प्रतिपक्षत्वमित्याशयेनाऽह तस्मादिति। यस्मात् प्रमाणविरुद्धत्वमययार्थत्वस्य व्यापकम्, व्यावृत्तं च पक्षीकृताद् वेदात्, व्यापकनिवृत्तौ व्याप्यनिवृत्तिरवश्यम्भाविनी; तस्माद् वेदप्रामाण्यमेष्टव्यम्।
अयमत्र प्रयोगः वेदो नायथार्थः, प्रमाणाविरुद्धत्वात्; प्रत्यक्षवत्। यद्वा वेदो यथार्थः, बोधकत्वे सति प्रमाणाविरुद्धत्वात्; प्रत्यक्षवत्। एवम् वेदः सम्यगनुभवसाधनम्, अनुभवसाधनत्वे सति प्रमाणाविरुद्धत्वात्; प्रत्यक्षवत्। वेद आगमः, वाक्यत्वे सति प्रमाणाविरुद्धत्वात्; सम्प्रतिपन्नवदिति। एवं वाक्यत्वावच्छिन्ने साध्येऽनाप्तप्रणीतत्वमुपाधिस्तद्विपर्ययेण च प्रतिपक्षोऽभिधेय इति।
॥ पञ्चरात्रादिस्मृतीनां प्रामाण्यसाधनम्॥
अस्त्वेवं वेदप्रामाण्यम्। पञ्चरात्रादिस्मृतीनां तु कथम्? नहि ता अप्यपौरुषेयाः। येन प्रामाण्यमवधार्य फलव्यभिचारमन्यथा नेष्याम इत्यत आह तन्मूलत्वादिति।
तन्मूलत्वात् स्मृतीनां चविरोधो यत्र न क्वचित्।
प्रामाण्यमिष्यत इति सम्बन्धः। यद्यपि भगवद्रचितानां वेदार्थमुपलभ्य रचितत्वं वेदमूलत्वं नास्ति। तस्य स्वतः सर्वज्ञत्वात्। तथाऽपि तमनुसृत्य रचितत्वं तन्मूलत्वमिह विवक्षितमिति नोक्तदोषः।
अयमत्र प्रयोगः पञ्चरात्रादिस्मृतिः प्रमाणम्, प्रमाणमूलत्वात्, प्रमाणसंवादित्वात्; सम्प्रतिपन्नवदिति। यद्वा विमतं प्रमाणम्, वेदसंवादित्वात् पराभ्युपगताहिंसादिवाक्यवत्। आप्तवाक्यत्वमुपाधिरिति चेत्, न। प्रत्यक्षादौ साध्याव्यापनात्। वाक्यत्वावच्छिन्नसाध्यव्यापकत्वाददोष इति चेत्, न। तथाऽपि वेदेतरवाक्यत्वावच्छिन्नसाधनेनोपाधेः पक्षे साधनसौलभ्यात्। सतिचैवं स्मृतीनां प्रामाण्ये तद्बलेन फलव्यभिचारोऽप्यन्यथयितव्य इति।
ननुचोक्तार्थविरुद्धवादीन्यपि स्मृतीतिहासपुराणान्युपलभ्यन्ते। तेषां प्रामाण्यसाधने च बहुविप्लवः स्यादित्यत आह विरोध इति। पूर्वेणैवान्वयः। यासां स्मृतीनां सर्वथा प्रमाणविरोधो नास्ति तासामेव पक्षीकरणान्न कश्चिद् दोष इत्याशयः।
नन्वेवंसति वेदमूलत्वोपन्यासो व्यर्थः। ज्ञानजनकानामवश्याङ्गीकरणीयेन विरोधाभावेनैव प्रामाण्यसिद्धेरिति चेत्, न। फलव्यभिचारलक्षणविरोधदर्शनेनासिद्धिप्रसङ्गात्। प्रामाण्येन तदपनयने चेतरेतराश्रयत्वापातात्। वेदमूलत्वेन तु प्रामाण्ये सिद्धे न कोऽपि दोष इति।
॥ उपजीव्यप्रत्यक्षागमविरोध एवाप्रामाण्यहेतुः॥
अप्रामाण्यप्रयोजकस्य प्रमाणविरोधस्याभावान्न श्रुतिस्मृत्योरप्रामाण्यमित्युक्तम्। तदयुक्तम्। श्रुत्याद्युक्तस्येश्वरसार्वज्ञ्यादेरीश्वरो न सर्वज्ञः, पुरुषत्वात्; यज्ञदत्तवदित्याद्यनुमानविरुद्धत्वादित्यत आह विरोधोऽपीति।
विरोधोऽपि स एवोक्तः प्रत्यक्षेणाऽगमेन वा॥१६॥
प्रकृतसम्बन्धार्थोऽपिशब्दः। यच्छब्दोऽध्याहार्यः। विरोधादेव बाधितमित्यप्रामाण्यप्रयोजकतयोक्तो विरोधोऽपि स एव यः प्रत्यक्षेणाऽगमेन वा स्यात्। न पुनरनुमानेन।
अयमभिसन्धिः अप्रामाण्यप्रयोजकतया यदस्माभिरभिहितम्, तत् पक्षेऽप्युपपादयितुं खलु परस्यायं प्रयत्नः। अस्माभिश्च प्रत्यक्षागमविरोध एव तथाऽभिप्रेतो नानुमानविरोधः। तथाच पक्षे तद्व्युत्पादनं प्रकृतासङ्गतमेव। स्वतन्त्रानुमानविरोधं तूत्तरत्र निराकरिष्यति सूत्रकृदिति।
॥ अनुमानस्य वेदोक्तार्थबाधकत्वाभावः॥
ननु प्रमाणविरोध एवाप्रामाण्ये प्रयोजकोऽस्तु, किं प्रत्यक्षेणाऽगमेन वेति विशेषणेन? तथाचोक्तानुमानविरोधाद् वेदादेरप्रामाण्यमिति। मैवम्। वक्ष्यामो ह्यत्र ब्रह्मादिवस्तुषु प्रमाणं वेद एवैक इति वैदिकेऽर्थेऽनुमानस्यानवकाशम्। (५४१) यत्र च यस्याप्रवेशो न तस्य तद् बाधकम्। नहि नयनं स्पर्शापबाधनस्य ईष्टे। तथाच कथमनुमानं वेदाद्यर्थबाधनेन तदप्रामाण्ये प्रयोजकं स्यात्? प्रकृतं च वेदादिकमेवेति।
॥ आगमस्याऽगमान्तरेण विरोधे अन्यतरागमप्रामाण्याद्युपोद्बलकतयैवानुमानस्योपयोगः॥
नन्वेवंसति तर्हि वेदार्थमीमांसा नाऽरम्भणीया स्यात्, मीमांसाया युक्त्यनुसन्धानात्मकत्वादित्यत आह आगमेनेति।
आगमेनाऽगमस्यैव विरोधे युक्तिरिष्यते।
एवशब्दो विरोध इत्यतः परो द्रष्टव्यः। निर्णयार्थमिति शेषः।
एतदुक्तं भवति अनुमानं हि धर्म्यादिप्रमितिमपेक्षते। नच धर्म्यादिरूपं ब्रह्मादिकं वेदादृते सिद्ध्यतीति तदनपेक्षायामाश्रयासिद्ध्यादिकम्, अपेक्षायां तु विरोधिनो धर्म्यादिग्राहकविरोध इत्येवं वैदिकेऽर्थेऽनुमानस्यानवकाशोऽभिधित्सितः। मीमांसायां तु क्वचिदागमस्याऽगमान्तरेण विरोध एव अर्थनिर्णयार्थं युक्तिरुपादीयते। सा खल्वन्यतरागमप्रामाण्यमुपोद्बलयन्ती अन्यतरागमबाधयाऽर्थनिर्णयाय प्रभवति। अन्यतरागमसिद्धधर्म्याद्याश्रयेणाऽश्रयासिद्ध्याद्यनवकाशात्। अन्यतरागमस्य धर्म्यादिग्राहकत्वाभावेनाप्रबलस्य, आगमसचिवतयोपपत्तेस्ततो दुर्बलस्याकिञ्चित्करत्वात्। तदेवंविधोपपत्तेरागमिकेऽप्यर्थे सावकाशत्वादुपपन्ना मीमांसेति।
॥ प्रत्यक्षागमविरोधेऽपि आगमस्य प्रतीतार्थप्रच्यावनमात्रम्, नत्वप्रामाण्यम्॥
अपिच प्रत्यक्षागमविरोधोऽपि न स्वरूपेणाप्रामाण्यं प्रयोजयति। किन्तु तयोरुपजीव्यत्वादिना प्राबल्ये सत्येव। दुर्बलयोः स्वयं बाधितत्वेन समबलयोः प्रतिबन्धमात्रहेतुत्वेनाप्रामाण्यनिश्चयानुपपत्तेः। उपजीव्यादिविरोधेन चाप्रामाण्यं भवद् वेदस्य न सर्वथाऽयथार्थत्वलक्षणम्। किन्नाम। प्रतीतार्थप्रच्यावनमात्रम्। अपौरुषेयतया निर्दोषस्य सर्वथाऽप्रामाण्यानुपपत्तेः। तथाचान्यार्थकल्पनाऽवश्यं कार्येत्याशयवानाह उपजीव्येति।
उपजीव्यविरोधे तु वेदस्यान्यार्थकल्पना॥१७॥
उपलक्षणमेतत्। निरवकाशत्वादिकमपि ग्रह्यम्।
॥ प्रत्यक्षागमानुमानानां उपजीव्यत्वव्यवस्था॥
भवत्वेवम्। ततः किम्? वेदोपजीव्यत्वादिकं च प्रत्यक्षागमयोरेव प्रायेण सम्भवति। युक्तेस्तु क्वचिदेव। पुरुषत्वादियुक्तेस्तु नास्त्येव। अतश्च न तद्विरोधेन वेदस्याप्रामाण्यं मन्तव्यमित्याशयेनाऽह प्रत्यक्षमिति।
प्रत्यक्षमुपजीव्यं स्यात् प्रायो युक्तिरपि क्वचित्।
आगमैकप्रमाणेषु तस्यैव ह्युपजीव्यता॥१८॥
वेदस्येत्यनुवर्तते। स्यादित्यतः परमितिशब्दोऽध्याहार्यः। “तत् त्वमसि” इत्यादिवेदस्य प्रत्यक्षमुपजीव्यम्। युक्तिरपि क्वचिद् वेदस्योपजीव्येति सम्बन्धः। यथा “प्राणा वा अणवः” इत्यादेः। आगमैकप्रमाणकेषु विष्ण्वादिविषयेषु प्रवर्तमानं “जनितोत विष्णोः” इत्यादिवेदं प्रति “निरनिष्टो निरवद्यः” इत्यादेस्तस्य वेदस्योपजीव्यतेत्यर्थः। एवं निरवकाशत्वादिकमपि प्रत्यक्षागमयोरेव प्रायेण सम्भवति, युक्तेस्तु क्वचिदेव। तच्च न प्रकृतयुक्तेरित्यपि द्रष्टव्यम्।
॥ एकस्यैवाऽगमस्यानेकार्थप्रतीतौ अर्थावधारणायानुमानस्योपयोगः॥
आगमयोः परस्परविरोधे सत्यन्यतरागमाश्रयेण युक्तेरनुप्रवेशोपपत्तेर्युक्ता मीमांसेत्युक्तम्। तदनुपपन्नम्, असार्वत्रिकत्वात्। नहि सर्वत्राऽगमयोः परस्परविरोध एव मीमांसाऽवतार्यत इत्यत आह युक्त इति।
युक्तोऽयुक्तश्च यद्यर्थ आगमस्य प्रतीयते।
स्यात् तत्र युक्त एवार्थः................॥१९॥
तत्रतर्ह्ययमभिसन्धिः सत्यमेतत् क्वचिदेवायं न्याय इति। तथाऽपि यत्र नैवं तत्रैकस्यैवाऽगमस्य अनेकार्थप्रतीतौ युक्त्यनुसारिणमर्थमुपादाय तदननुगुणतद्विरुद्धार्थपरित्यागः क्रियत इति नोक्तनियमभङ्गः। केवलयुक्तेर्वैदिकेऽर्थेऽनुप्रवेशस्यानङ्गीकृतत्वात्। नापि मीमांसानुपपत्तिः। अन्यतरवैदिकार्थानुसारिण्या युक्तेरङ्गीकृतत्वादिति।
॥ प्रत्यक्षागमविरुद्धस्यानुमानस्यैवाप्रामाण्यम्॥
प्राक् पुरुषत्वादियुक्तिविरोधेनाऽगमस्याप्रामाण्यं न वाच्यमित्युक्तम्। इदानीं तु युक्तिरेवासौ प्रत्यक्षागमविरोधेनाप्रमाणम्। तस्यास्तदुपजीवित्वेन ततो दुर्बलत्वादित्याशयवानाह युक्तिश्चेति।
................... युक्तिश्च त्रिविधा मता॥१९॥
व्याप्तिः प्रत्यक्षगा यस्या युक्तिगाऽऽगमगा तथा।
प्रत्यक्षागममूला तु युक्तिस्तत्र बलीयसी॥२०॥
॥ अनुमानस्य प्रत्यक्षादिमूलत्वेन त्रैविध्यम्, प्राबल्यादिकं च॥
यद्वा यत् सिद्धवत्कृत्य तत्र मीमांसारम्भानुपपत्तिः परिहृता तदिदानीं दर्शयितुमाह युक्तिश्चेति। चशब्दः प्रकृतानुसन्धानार्थः। कथं त्रैविध्यमित्यत आह व्याप्तिरिति। यस्या युक्तेः साध्येन व्याप्तिः प्रत्यक्षगा प्रत्यक्षावगता सैका। युक्तिगा युक्त्यवगता यस्या व्याप्तिः सा द्वितीया। तथाऽऽगमगा आगमावगता यस्या व्याप्तिः सा तृतीयेति। एवं त्रिविधेति योज्यम्। उपलक्षणं चैतत्। धर्म्यादिग्राहकभेदेनापि त्रैविध्यं द्रष्टव्यम्। एतच्च स्पष्टयिष्यामः। (६९२)
एवन्तर्हि या युक्तिमूला युक्तिः सा नाऽगमाद्युपजीविनीति तस्या बाधिका, तदबाध्या च भवत्वित्यत आह प्रत्यक्षेति। तत्र तासु त्रिविधासु युक्तिषु। प्रत्यक्षागममूलेति। प्रत्यक्षमूलाऽऽगममूला चेत्यर्थः। युक्तिमूलाऽपि हि युक्तिरन्ततः प्रत्यक्षागममूलैव एष्टव्या। अन्यथा तन्मूलयुक्तेर्निर्मूलत्वम्, अनवस्था वाऽऽपद्येत। तथाच प्रत्यक्षाद्यपेक्षत्वेन साम्येऽपि बहुसंविधानानपेक्षयोः प्रत्यक्षागममूलयोर्युक्त्योः प्रबलत्वम्, तदपेक्षायास्तु युक्तिमूलाया दुर्बलत्वं युक्तमेव। तथाच प्रबलयोर्युक्त्योर्यदेदृशी दशा तदा का वार्ता दुर्बलाया युक्तेरागमबाधनादाविति।
॥ प्रमाणादिनिरूपणस्य प्रासङ्गिकत्वम्, मीमांसाशास्त्राविषयस्यापि अत्र निरूपणे निमित्तम्॥
तदेवमप्रामाण्ये प्रमाणविरोधस्यैव प्रयोजकत्वात्, श्रुत्यादेश्च प्रत्यक्षागमविरोधाभावात्, अनुमानविरोधस्याप्रयोजकत्वान्नाप्रामाण्यम्। किन्नाम। बोधकत्वेन स्वत एव प्रामाण्यमित्युपपादितम्। तदेतत् प्रमाणाप्रमाणविवेकमविदुषां दुरवधारमित्युद्देशलक्षणविभागपरीक्षाभिस्तन्निरूपणार्थमुत्तरो ग्रन्थसन्दर्भः। नच सांव्यावहारिकत्वात् प्रमाणादेः किं तन्निरूपणेनेति वाच्यम्। तथाऽपि स्वरूपसङ्ख्याविषयफलगोचराणां वादिविवादानां विद्यमानत्वेन निरूपणार्हत्वात्।
यद्यप्येषोऽर्थस्तकशास्त्रस्य विषयः, न मीमांसाशास्त्रस्य। तथाऽपि शिष्यहितैषिणा भाष्यकृता प्रसङ्गागतो निरूप्यते। यथा पूर्वमीमांसाभाष्यकारेणेत्यदोषः। अत एव प्रमाणलक्षणादौ निरूपितस्यार्थस्य पुनरत्र निरूपणं न दोषाय। एकीकृत्य निरूपणस्यापि शिष्यहितार्थत्वात्।
॥ प्रमाणसामान्यलक्षणकथनम्॥
तत्र निर्धारितस्वरूपस्यैव सङ्ख्यादिजिज्ञासा। लक्षणं च तन्निर्धारणोपायः। नच सामान्यलक्षणेन विना विशेषलक्षणस्यावसर इत्यतः प्रमाणसामान्यलक्षणं प्रथमं तावदाह याथार्थ्यमेवेति।
याथार्थ्यमेव मानत्वम्...................।
॥ खण्डनकारेण लक्षणस्य निष्प्रयोजनत्वप्रतिपादनम्॥
अत्र कश्चिदाह किमर्थं लक्षणमुच्यते? किं सजातीयविजातीयव्यवच्छिन्नलक्ष्यप्रतीत्यर्थम्, उत प्रमाणत्वादिप्रतीतये तच्चिह्नोपदर्शनमिदम्, अथ व्यवहारार्थम्, उत प्रमाणादिशब्दप्रवृत्तिनिमित्तावधारणार्थम्, अन्यस्मै कस्मैचित् प्रयोजनाय वा?
॥ लक्षणस्य सजातीयविजातीयव्यावृत्त्यर्थत्वनिरासः॥
नाऽद्यः, तस्या एव दुरवधारणत्वात्। तथाहि किं सजातीयेति प्रमाणत्वेन साजात्यं विवक्षितं रूपान्तरेण वा? नाऽद्यः, व्यवच्छेदावधेः सजातीयादव्यावृत्तत्वेन व्यवच्छेदकत्वानुपपत्त्या व्यावृत्तत्वस्वीकारेऽव्यापकत्वात्।
नापि द्वितीयः, विजातीयपदोपादानवैयर्थ्यात्। अस्ति हि प्रमेयत्वेन सर्वसाजात्यम्। अथ ज्ञानत्वादिना विशेषेण साजात्यं विवक्षित्वेदमुच्यते, तर्हि लक्ष्यस्यापि ज्ञानत्वादिना साजात्याद् व्यवच्छेद्यकोटिप्रविष्टतया सङ्ग्राह्याभावप्रसङ्गः। लक्ष्यस्य यज्ज्ञानत्वादिभिः सजातीयं तद् व्यवच्छेद्यम्, नच लक्ष्यस्य लक्ष्यं सजातीयम्, षष्ठ्यर्थस्य सम्बन्धस्य भेदे व्यवस्थितत्वादिति चेत्, एवन्तर्हि लक्ष्यापेक्षया भिन्नाद् व्यवच्छेद इत्येवोच्यताम्। कृतं ज्ञानत्वादिना साजात्येन प्रकृतानुपयोगिना वर्णितेन।
यदा च लक्ष्यादन्यत्वं परोषामवगतम्, तदा परेभ्योऽन्यत्वमपि लक्ष्यस्यार्थादवगम्यत इति सिद्धमग्रतो लक्षणप्रयोजनमिति वैयर्थ्यमेव स्याल्लक्षणाख्यानस्य।
॥ लक्षणज्ञानस्य दुरवधारणता॥
अपिच न तावदनेन लक्षणेनानवगतेनैव व्यवच्छिन्नप्रतीतिसम्भवः, अतिप्रसङ्गात्। नापि ज्ञातेन, दुरवधारणत्वात्। न तावल्लक्षणं प्रत्यक्षम्। निर्दोषाक्षोद्भवत्वादेरप्रत्यक्षविशेषणत्वात्। नापि कार्येण लिङ्गेन तदनुपपत्त्या वा तदवगमः। ताभ्यां सामान्यतः कारणमात्राक्षेपेण कारणगतानुगतरूपासिद्धावेकरूपलक्षणासिद्धेः। कार्यस्यैकजात्यादेकजातीयकारणसिद्धिरिति चेत्, तर्हि कार्यगतैकजात्यस्य पूर्वमवश्यं प्रत्येतव्यत्वाङ्गीकारेण तत एव सजातीयविजातीयव्यवच्छेदप्रतिपत्तिरस्तु। कृतमनया पारम्पर्यकुसृष्ट्या।
नन्वेतावताऽपि न प्रकृतलक्षणखण्डनं सम्भवति। अव्याप्तेरतिव्याप्तेर्वाऽनुद्भावनादिति चेत्, मैवम्। प्रथमभावितयाऽवश्याभ्युपेयतया लघोरुपायात् साध्यसिद्धौ सम्भवत्यां चरमभावितया अवश्यानुष्ठेयत्वाभावेन गुरावुपाये प्रवर्तमानस्य तवैवेदं दूषणोद्भावनम्। प्रदीपे प्रदीपं प्रज्वाल्य तमोनिरासाय यतमानस्येव पुंसः। नहि तत्र कश्चिद् दीपदोषः। किन्तु तथाकारी पुरुष एव पर्यनुयोज्यः। सर्वसाधनसाधारणो वाऽयं दोषः, यत् सम्भवदेवंविधलघूपायत्वं नाम स्वरूपासिद्धिरिव सर्वप्रमाणानाम्। तस्मान्मा नाम भूदतिव्याप्त्यादिदोषः। सामान्यदोषादेव दुष्टं लक्षणमिति।
॥ लक्षणस्य प्रमाणत्वादिप्रतीत्यर्थत्वनिरासः॥
एतेन द्वितीयोऽपि निरस्तः। प्रमाणत्वाद्यवगममन्तरेण तदवगमानुुपपत्तेस्तदवगमायास्य प्रतीतावन्योन्याश्रयप्रसङ्गः। अस्तु वाऽन्यदपि लक्षणे किञ्चिल्लिङ्गम्। तथाऽपि तदेव लक्ष्याविनभूततया लक्षणमुपन्यस्यताम्, सन्निहितप्रतिपत्तिकत्वात्। न तदव्यश्यं व्यापकं वक्तव्यम्। लिङ्गत्वस्य व्याप्यत्वेनैवोपपत्तेरिति चेत्, न। यत्र लिङ्गमव्यापकत्वान्नास्ति, तत्र लक्षणस्य प्रमाणाभावात् प्रत्येतुमशक्यत्वेन कथं ततः प्रामाण्याद्यवगमः? यदाच क्वचिल्लक्ष्यजातीय एव प्रमाणाभावाल्लक्षणस्यानवधारणीयतया लक्ष्यव्यापकतानवगमेऽपि लक्षणम्, तदा किमपराद्धं लिङ्गान्तरेणाव्यापकेन? अथ यत्र तल्लक्षणे लिङ्गं नास्ति तत्र लिङ्गान्तरात् प्रत्येतव्यम्, तथाऽपि तावेवाऽस्तां लक्ष्ये लिङ्गम्। किं लक्षणानुमानपूर्वकं तदनुमानकल्पनया? अथ तथाविधं लिङ्गद्वयं यत्तत् प्रत्येकमव्यापकतया न लक्षणम्, तदनुमितं तु तथात्वाल्लक्षणमिति चेत्, न। लक्ष्यानुमानस्य लक्षणप्रयोजनस्योभाभ्यामेव सिद्धेः कृतं व्यापकेन तेन।
॥ लक्षणस्य व्यवहारार्थत्वादिपक्षदूषणम्॥
नापि तृतीयः, स ह्येवंरूपः यद् यथार्थं तत् प्रमाणमिति व्यवहर्तव्यमिति। अयमनुपपन्नः। सर्वत्र लक्षणस्य ज्ञातुमशक्यत्वात्। प्रमाणत्वादिना तदवगमे तदेवास्तु व्यवहारनियमनिदानम्। अव्यवहितप्रतिपत्तिकत्वादित्यावेदितम्। अत एव न चतुर्थः, कल्पनागौरवदोषश्चाधिकः। नापि पञ्चमः, तादृशस्य दर्शयितुमशक्यत्वादिति।
॥ लक्षणस्य सजातीयविजातीयव्यावृत्तलक्ष्यावधाराणार्थत्वप्रतिपादनपूर्वकमनूदितमतनिरासः॥
अत्रोच्यते अस्तु तावत् सजातीयविजातीयव्यवच्छिन्नलक्ष्यप्रतीत्यर्थं लक्षणमिति पक्षः। सास्नादिमान् गौरिति विदितलक्ष्यलक्षणसम्बन्धो हि यं पिण्डं सास्नादिमन्तं पश्यति तं नायमश्र्वादिः, नापि घटादिरिति प्रतिपद्यते।
ननु व्यवच्छेदोऽन्योन्याभावो भेद इत्यनर्थान्तरम्। भेदश्च वस्तुस्वरूपमेव। तथाच लक्ष्यस्वरूपप्रतिपत्तिरेव तत्प्रतिपत्तिरिति कृतं लक्षणेन। अथ लक्ष्यप्रतीतिनिरपेक्षमेव लक्षणेन व्यवच्छेदो बोध्यत इति मतम्, तन्न। निराश्रयस्य तस्य बोधयितुमशक्यत्वादिति।
सत्यम्। स्वरूपप्रतीतिरेव भेदप्रतीतिरिति। तथाऽपि प्रतियोगिविशेषघटिततदवगमाय लक्षणस्य उपयोगः। असङ्कीर्णतया गोपिण्डं पश्यन्नपि हि न तावदयं नाश्र्वो न घट इति प्रत्येति यावल्लक्षणं नावगच्छति। सास्नादिमत्त्वं तदा प्रतीतमिति चेत्, न। सास्नादिमान् गौरित्येवमवगमस्य विवक्षितत्वात्। अत एव सजातीयेत्यादिविशेषणोपादानम्।
॥ साजात्यवैजात्यव्यवस्था॥
यदत्रोक्तं किं सजातीयेत्यादि, तदसत्। पौरुषेयवचसां पुरुषविवक्षाधीनत्वेन नियन्तुमशक्यत्वात्। लक्ष्यातिरिक्तं हि सजातीयविजातीयतया द्वैराश्येन विवक्ष्यते। यथा यथार्थज्ञानतत्साधनस्य प्रमाणस्य ज्ञानं तत्साधनं च सजातीयम्। यन्न ज्ञानं नापि तत्साधनम्, तद् विजातीयम्। यथाच प्रत्यक्षस्यानुमानादिकं सजातीयम्, विजातीयं तु घटादिकम्। एवमन्यत्रापि विवेक्तव्यमिति। एवन्तर्हि लक्ष्यापेक्षया भिन्नाद् व्यवच्छेद इत्युक्तं स्यादिति चेत्, को नेत्याह? नहि कोऽपि स्वस्थात्मा स्वस्मादेव व्यवच्छेदं लक्षणप्रयोजनमाचष्टे।
॥ लक्षणप्रयोजनस्य प्रागेव सिद्धत्वोक्तिनिरासः॥
यदत्रोक्तं यदा चेत्यादि, तदसङ्गतम्। वस्तुतो यल्लक्ष्याद् भिन्नम्, ततो व्यवच्छेदावगमार्थत्वाल्लक्षणस्य। प्रतिपादकस्य यद्यपि लक्ष्यान्यत्वज्ञानमलक्ष्येऽवश्यापेक्षितम्, तथाऽपि प्रतिपाद्यस्य तदनपेक्षत्वान्न दोषः। तस्यापि पदार्थज्ञानपूर्वकत्वाद् वाक्यार्थज्ञानस्य सजातीयविजातीयपदोपात्तलक्ष्यान्यत्वज्ञानं विना लक्ष्यस्यालक्ष्यान्यत्वज्ञानं लक्षणप्रयोजनं न सिद्ध्यतीति कश्चित्। तदनुपपन्नम्। नहि लक्ष्यान्यव्यावृत्तिर्लक्षणवाक्यप्रतिपाद्या। किन्नाम। तज्ज्ञानं लक्षणप्रयोजनत्वेनोच्यते। लक्षणवाक्यार्थ एव प्रतिपाद्येन बोद्धव्यः।
॥ लक्षणस्य प्रत्यक्षाद्यवगतत्वम्, प्रयोजनसद्भावाद् गौरवस्यादोषत्वं च॥
यदपि अपिचेत्यादिना पृष्टम्, तत्रावगतमेव लक्षणं व्यावृत्तलक्ष्यज्ञानमुपजनयतीति वदामः। नच तस्य दुरवधारणता। यथायथं प्रत्यक्षादिना तदवधारणात्। यत्र लिङ्गात् तदवगमः, तत्र तत एव लक्षणप्रयोजनसिद्धेर्व्यर्था परम्पराकुसृष्टिरिति चेत्, न। प्रयोजनसद्भावे गौरवस्याप्यादरणसम्भवात्। यथेन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वेनाक्षोद्भवत्वमनुमाय तेन प्रत्यक्षं लक्ष्यते। तत्रान्वर्थसञ्ज्ञापनं प्रयोजनम्। एवमन्यत्रापि द्रष्टव्यम्।
गौरवमनुरुद्ध्य प्रयोजनमवधीर्यतामिति चेत्, न। पुरुषाभिप्रायाणां नियन्तुमशक्यत्वात्। गरीयांश्च प्रतिपत्तौ गौरवात् प्रमेयाधिक्यलाभः। प्रयोजनाभावे तु परम्पराकुसृष्टिरनादरणीयैवेति तदीयदोषताव्युत्पादनं नास्माकमनिष्टम्। एतेन द्वितीयतृतीयचतुर्था अपि समाहिता वेदितव्याः। लक्षणावधारणोपायस्योक्तत्वात्। गौरवस्य च समाहितत्वात्।
ननु तथाऽपि किं तत्वम्? यथायथं चतुष्टयमपि। तथाहि क्वचिल्लक्ष्यातिरिक्तं लक्षणं भवति, यथा गन्धवती पृथिवीति। क्वचिल्लक्ष्यानतिरिक्तम्, यथा पृथिवीत्ववती पृथिवी, यथार्थं प्रमाणमित्यादि। तत्राऽद्यं लक्ष्यत्वरूपप्रतिपत्तिकारणं भवत् तस्यान्यतो व्यवच्छेदतच्छब्दव्यवहर्तव्यते च प्रतिपादयति। द्वितीयं तु प्रवृत्तिनिमित्तं भवद् व्यवहारमात्रकारणं भवति। तत्र सिद्धांशेन पक्षीकरणमसिद्धांशेन साध्यत्वं स्वयमूहनीयम्।
॥ लक्षणस्य व्यावर्तकत्वौक्तौ बाधकमाशय परिहारकथनम्॥
ननु लक्षणं व्यावृत्तं व्यावर्तयति, उताव्यावृत्तम्? आद्ये स्वव्यावृत्तिर्लक्षणान्तराधीना, नवा? न प्रथमः, तत्रापि लक्षणापेक्षायामनवस्थापातात्। न द्वितीयः, लक्ष्येऽपि तत्प्रसङ्गात्। निर्निमित्तकार्याभ्युपगमे कादाचित्कतानुपपत्तेश्च। नान्त्यः, अतिप्रसङ्गादेवेति।
उच्यते लक्षणमपि व्यावृत्तमेव व्यावर्तयति। तदपि लक्षणेनैव। नचैवमनवस्था। प्रा निर्ज्ञातेष्वर्थेषु व्यवस्थानात्। यस्तु काष्ठलोष्ठायितः कञ्चित् पदार्थं वा कस्यचित् किञ्चिच्छब्दवाच्यत्वं वा न वेत्ति नासौ लक्षणशास्त्रेऽधिक्रियते। किन्नाम। उपदेशादिना विदितपदतदर्थसङ्गत्यादिः स्वतन्त्रव्यवहाराद्यर्थं लक्षणमपेक्षत इति।
॥ अवगतस्यैव लक्षणस्य व्यावर्तकत्वे लक्षणोक्तेर्निरर्थकत्वादिप्रसङ्गः॥
अथापि स्यात्। किमवगतं लक्षणं फलहेतुः, किंवाऽनवगतम्? न तावच्चरमः, तदभिधानवैयर्थ्यप्रसङ्गात्। अभिधानस्य ज्ञानोत्पादनोपयोगित्वात्। तस्य चानवगतस्यैव फलसाधनत्वाभ्युपगमात्। आद्ये किमन्यस्मात् तदवगमः, उत त्वदीयाल्लक्षणवाक्यात्? यद्यन्यस्मात्, कृतममुना लक्षणाभिधानप्रयासेन। अभिधानस्य ज्ञानोत्पादातिरिक्तप्रयोजनाभावात्। तस्यान्यत एव सिद्धेः। अन्त्ये किमिदं त्वदभिधानमाप्तोपदेशतया लक्षणं बोधयति, उत लिङ्गादिभावेन? न तावच्चरमः, त्वद्वचनलक्षणाविनाभावादेर्दर्शयितुमशक्यत्वात्। नापि प्रथमः, परं प्रति भवत्याप्तत्वासिद्धेः। सिद्धौ हि प्रतिज्ञामात्रादेव साध्यसिद्धेर्हेत्वाद्यभिधानमनर्थकं स्यात्।
ननु प्रतिवादिनं प्रति लक्षणाभिधानं नार्थवत्, तेन वाद्याप्तभावानङ्गीकारात्। किन्तु शिष्यार्थं लक्षणमुच्यते शास्त्रे। स हि शास्त्रस्य कर्तारमाप्तमेव मन्यते, तस्माच्छिष्यं प्रत्याप्तवचनतयैव लक्षणवाक्यमर्थं प्रतिपादयिष्यतीति। मैवम्। यदि न प्रतिवादिनं प्रति शास्त्रम्, किन्तु शिष्यं प्रति, तदा प्रतिज्ञामात्रादेवाऽप्तवचनाच्छिष्यस्यार्थनिश्चयोपपत्तेर्हेत्वाद्यभिधानमनर्थकतामापन्नं शास्त्रे।
अथ भवतु प्रतिवादिनमपि प्रति तच्छास्त्रवाक्यं यत्र हेत्वाद्युपात्तम्, लक्षणवाक्यं तु शिष्यमेव प्रति प्रयोजकं प्रतिपन्नशास्त्रकाराप्तभावमिति मन्यसे, तदप्यनुपपन्नम्। शास्त्रान्तरसाध्यत्वादस्य अर्थस्य। अस्ति हि समयग्राहकं शास्त्रं मुनिभिः प्रणीतं नामलिङ्गानुशासनव्याकरणादीति।
॥ निरर्थकत्वादिशङ्कानिरासः॥
अत्र ब्रूमः उक्तं ह्येतदवगतमेव लक्षणं फलहेतुरिति। तदवगमश्च यथायथं प्रत्यक्षादिप्रमाणादित्यपि। नच “यथार्थं प्रमाणम्’ इति “सास्नादिमान् गौः’ इति वाक्यस्य लक्षणं प्रतिपाद्यमभ्युपगच्छामः। येनान्यतः सिद्धत्वात् तस्येदमनर्थकं स्यात्। किन्तु यो लक्षणमन्यतो जानाति, न जानाति च व्यवहारनिदानत्वादिना, तं प्रति तदवबोधायेदं वाक्यम्।
॥ लक्षणवाक्यस्य परार्थानुमानप्रयोगवद् व्यवहारोपयोगित्वम्॥
तथाहि अयं गौरित्याद्युपदेशादिनैकस्यां व्यक्तौ गोशब्दार्थतयाऽवगतायां किमियमेव व्यक्तिरेवम्, उतान्याऽपीति जिज्ञासमानं प्रत्यन्यत्रापि गोशब्दार्थतां विजिज्ञापयिषुरुपदेशादेरानन्त्यादिना कर्तुमशक्यत्वादिदं व्याप्तिविषयं वाक्यमाह “यः सास्नादिमान् स गोशब्दार्थः’ इति। इदं च नाऽप्तोपदेशतयैव व्याप्तिबोधकम्, अपितु प्रयोगान्तरवत् प्रतीताया व्याप्तेः स्मारकत्वेन। अप्रतीतायास्तु तदेव जिज्ञासाजननद्वारेण प्रमोत्पादकत्वेनोपयुज्यते। स्मृतव्याप्तिश्च यांयां व्यक्तिं सास्नादिमतीमवलोकयति, तान्तां गोशब्दार्थतयाऽनुमिनोतीति को दोषः?
यद्वा यः पृथिवीति पदं वा व्यक्तिविशेषस्य तदर्थतां वाऽवगच्छंस्तत्प्रवृत्तिनिमित्तं जिज्ञासते, तं प्रति पृथिवीत्ववती पृथिवीति पृथिवीत्वं पृथिवीशब्दप्रवृत्तिनिमित्तमुच्यते। तत्र यस्य वक्तर्याप्तताबुद्धिः स तावता सन्तुष्यति। अपरं प्रति त्वव्याप्त्यादिशून्यत्वादिति वाक्यशेषः प्रवर्तते।
अथवा “अस्ति गौर्नामार्थः’ इति विदितवतो यत्रतत्र गवि घटादावश्र्वादौ च गोबुद्धौ प्रसक्तायां गोः स्वरूपावधारणमुखेनेतरव्यवच्छेदं कुर्वत् “सास्नादिमानेव गौः, नतु तद्विरही घटादिरश्र्वादिर्वा’ इति वाक्यं प्रयुज्यते। इदमपि पूर्ववदाप्तत्वावधारणानवधारणायां द्वयां गतिमवलम्बत इति किमत्र अनुपपन्नम्?
॥ लक्षणवाक्यस्यानुमानतया व्यवहारोपयोगित्वे बाधकमाशय परिहारकथनम्॥
नन्वत्र तावदेवं प्रयोक्तव्यम् अयं गोत्वेन व्यवहर्तव्यः, सास्नादिमत्त्वादिति। तत्र किं गौर्व्यवहारस्य विशेषणम्, गोशब्दो वा? आद्ये यद्यसौ गोविशिष्टं व्यवहारं नाज्ञासीत्, तदा कथं पुरोवर्तिव्यक्तौ तस्य कर्तव्यतामनुमानादपि जानीयात्। नह्यविदिताग्न्रिनुमानादग्न्सिम्बन्धं बोधयितुं शक्यः। अथ अज्ञासीत्, तदा ज्ञातज्ञापकत्वेन व्यर्थमनुमानम्।
न द्वितीयः, तदाहि अयं गोशब्दाभिधेयः, सास्नादिमत्त्वादित्यनुमानं स्यात्। तत्रचातिप्रसङ्गः। तत एव जबगडदशादिशब्दाभिधेयत्वमपि साध्यं स्यात्। ते सामान्यतोऽप्यर्थवत्तया न प्रसिद्धाः, नैवं गोशब्द इत्यस्ति विशेष इति चेत्, तथाऽपि शशविषाणादिशब्दाभिधेयत्वं साध्यताम्। तेऽप्यसद्विषयतयैव प्रसिद्धाः। गौरस्तीत्यादिप्रयोगाद् गोशब्दो नैवमिति चेत्, एवमपि स्वस्तिमतीत्यादिशब्दवाच्यतानुमानं गोमात्रे स्यात्।
अथ सत्यपि गोत्वे तदन्यत्र तदप्रयोगान्नेति चेत्, एवन्तर्हि यत्र सास्नादिमत्त्वं नास्ति, तत्र गोशब्दप्रयोगोऽपि नास्ति, यत्र सास्नादिमत्त्वमस्ति तत्र सर्वत्रास्तीति यो जानीते, तं प्रति लक्षणाभिधानमिति स्यात्। स च व्यवहारान्तरवदन्वयव्यतिरेकाभ्यामेव वाच्यवाचकभावमवधारितवानिति व्यर्थमनुमानमिति।
मैवम्। उभयत्रापि दोषाभावात्। केवलव्यतिरेकित्वे हि कथञ्चिदेतदभिधातुं युक्तम्। उपदेशादिना विशेषणेन गवा विशेषितं व्यवहारमवगतवतो हि तदन्यत्र तत्कर्तव्यताऽनुमानसाध्येत्यङ्गीकारे को विरोधः स्यात्? शब्दविशेषितव्यवहारकर्तव्यतासाधनेऽतिप्रसङ्गः किं बोध्यस्य, बोधकस्य वेति वाच्यम्। नाऽद्यः, तेन तद्व्याप्तेरनवगतत्वात्, अवगतत्वाच्च गोशब्दवाच्यताव्याप्तेः। न द्वितीयः, तेनापि पूर्वं वृद्धवचनादिना तथैव व्याप्तेरवगतत्वात्। प्रयोगभावाभावाभ्यां बाधस्य निर्णीतत्वाच्च। नहि बोध्यो बाधपरिचयशून्य इत्येतावता परिचितबाधेनापि बोधकेन विपरीतं बोधनीयम्। विप्रलम्भकत्वापातात्। तत्वनिर्णयार्थत्वाच्च वादकथानुसारिणः शास्त्रस्येति। एवं पक्षान्तरेऽप्यनुमानप्रयोगप्रकारो बोद्धव्यः।
॥ शास्त्रान्तरसाध्यस्यापि विषयस्य सन्दिग्धत्वादौ सति तन्निरूपणं नासङ्गतम्॥
यदप्युक्तं शास्त्रन्तरसाध्यत्वादयमर्थो न वक्तव्य इति, तदयुक्तम्। नह्येवमस्माभिः प्रतिज्ञातं यत् सर्वथा शास्त्रान्तरसाध्यं तन्नोच्यत इति। नचैवं शास्त्रसाङ्कर्यमाशङ्कनीयम्। विषयप्रयोजनभेदात्। यदिच शास्त्रान्तरसाध्योऽप्यर्थो भवदीयशास्त्रस्य विषयः, तर्हि व्याकरणादिसाध्यमन्यदपि कस्मान्नोच्यत इति चेत्, न। सन्दिग्धत्वसप्रयोजनत्वसदसद्भावाभ्यां वैषम्यात्। सन्दिग्धतादिसद्भावेऽपि यदवचनं तदुक्तदिशा शिष्यैरेव शक्यज्ञानत्वादिति यत्किञ्चिदेतत्। अन्यथा परस्यापि कुलीरस्येव स्वापत्ययुक्तिहतत्वं स्यात्। तेनापि हि “स्मृतिररूपः परत्र पूर्वदृष्टावभासोऽध्यासः” इत्यादीनि लक्षणानि स्वशास्त्रे निबद्धानि। सूत्रकृता च “जन्माद्यस्य यतः” इति। तत्रैते दोषास्तानि लक्षणानि किं समास्कन्दति, उत नेति वक्तव्यम्। न तावद् द्वितीयः, समानन्यायत्वात्। नाऽद्यः, दुष्टोपादानस्य पराजयहेतुत्वात्। दोषास्कन्दितान्यपि तानि व्यवहारं निर्वहन्तीति चेत्, न। आपाततोऽपि दुष्टानां तथात्वे कथमुन्मत्तभाषितानामपि तद्भावो न स्यात्? नहि तेषामनिर्वाहकत्वेऽनुपपत्तेरन्यत् कारणमस्ति।
किञ्चैवं वदता प्राग् ब्रह्मसाक्षात्काराद् बाध्यमव्यावहारिकं ब्रह्मसाक्षात्कारबाध्यं व्यावहारिकमिति मतमपि परित्यक्तं स्यात्। नह्ययं ब्रह्मसाक्षात्कारो नापि बाधः।
किञ्चैवमस्मदीयमपि लक्षणं कुतो न व्यवहारं निर्वहेत्? नच व्यवहारनिर्वाहातिरिक्तं किमपि तत्साध्यमभिलषामः। भवदभिलषिता पारमार्थिकता बाध्यत इति चेत्। किं लक्षणस्य, उत लक्ष्यस्य? नाऽद्यः,। तथाहि विमतमपारमार्थिकम्, अप्रयोजनाभिधानत्वादित्याद्युक्तं स्यात्। नचास्यास्मान् प्रति व्याप्तिः शक्याभिधाना।
किञ्चास्मिन् पक्षेऽध्यासलक्षणानुपपत्तिश्च भवता न परिहरणीया। तस्या व्यवहारनिर्वाहाविरोधात्। पारमार्थिकतानिषेधौपयिकत्वेनेष्टसाधनत्वाच्च। एतेनातिव्याप्त्यादिदोषोऽपि नापरमार्थिकतासाधकः। अलक्षणतासाधकस्तु स्यात्। न द्वितीयः, अनुपपद्यमानलक्षणत्वेन लक्ष्यमिथ्यात्वसाधने ब्रह्मणि व्यभिचारात्। उक्ताया लक्षणानुपपत्तेस्तल्लक्षणेऽपि साम्यात्।
किञ्चाध्यासलक्षणमुपपन्नम्, नवा? आद्ये सपक्षाप्रवेशः साधनस्य। द्वितीये तदनुपपत्तिनिरासायासो व्यर्थः स्यादित्यास्तां विस्तरः।
॥ याथार्थ्यप्रामाण्ययोरभेदः॥
अर्थं नातिवर्तत इति यथार्थम्, तस्य भावो याथार्थ्यम्, तदेव मानत्वं मानशब्दप्रवृत्तिनिमित्तं मानलक्षणमिति यावत्। यद्यपि सास्नादिमान् गौरितिवद् यथार्थं प्रमाणमित्युक्तेऽपि भवत्येव लक्ष्यलक्षणभावप्रतीतिः। तथाऽपि तद्वदेव लक्ष्यं लक्षणातिरिक्तं शयेत। ततश्च पृथ निरूप्यमपि स्यात्। तन्मा शङ्कीति याथार्थ्यमेव मानत्वं नतु सास्नादिमत्त्वाद् गोत्वमिव ततोऽतिरिक्तमित्युक्तम्।
॥ लक्ष्यलक्षणयोर्लक्षणे॥
ननु किमिदं लक्षणं नाम? लक्ष्यस्यासाधारणो धर्मः। यावत्स्वेकः शब्दो निवेशयितुमिष्टः, यावन्ति चेतरस्माद् व्यावर्तनीयानि तान्युच्यन्ते लक्ष्याणीति।
॥ अव्याप्तेः क्वचिददोषत्वम्॥
नन्वसाधारणो धर्मश्चेल्लक्षणम्, अव्यापकस्यापि तदा लक्षणतापत्तिः। अतिव्याप्त्यसम्भवाविव अव्याप्तिरपि हि लक्षणदोषः। उच्यते लिङ्गतया हि लक्षणमुपयुज्यते। नच व्यापकता लिङ्गत्वोपयोगिनी। व्याप्यत्वेनैव तदुपपत्तेः। इतरथा धूमादीनामलिङ्गतापातात्। किन्नाम। पक्षीकृतदृष्टान्तीकृतव्यापकता त्वपेक्षितैव। उपायत्वेनोपन्यस्तस्याभावे तदुपेयप्राप्तेरसम्भवात्। उभयधर्मभूताया व्याप्तेरन्यतराभावे दर्शयितुमशक्यत्वात्। तथाच तदानीं लिलक्षयिषितमात्रव्यापित्वं लक्षणस्य अपेक्षितम्। तच्च लक्ष्यस्य धर्म इत्युक्तमेव। अव्यापकत्वस्य लक्षणदोषतावादस्तु सर्वस्यापि लिलक्षयिषितत्वे द्रष्टव्यः।
॥ न्यायसूत्रसम्मत्या अव्यापकस्यापि लक्षणत्वोक्तिसमर्थनम्॥
यद्वाऽन्यत्र लक्षणान्तराभावनिश्चयनिमित्ता तदुक्तिः। वस्तुतस्त्वेकमिवानेकमपि स्वस्वाश्रये व्यावृत्त्यादिकं कुर्वद् भवत्येव लक्षणम्। अत एव कणादः “क्रियावद्गुणवत्समवायिकारणम्” इति क्रियावत्त्वमपि द्रव्यलक्षणत्वेनाऽह। क्रियावद्ग्रहणमन्यार्थमिति चेत्, तत् किमव्यापकस्य लक्षणतानुपपत्तेरन्यथाव्याख्यानम्, उत निमित्तान्तरात्? नान्त्यः। तददर्शनात्। न प्रथमः, अनुपपत्तेरपाकृतत्वात्।
नन्वत्र पृथिव्यादीनि नवापि पक्षीकृत्यैतानि द्रव्याणि क्रियावत्त्वादिति प्रयोक्तव्यम्, क्रियावन्त्येव वा मूर्तानि? नाऽद्यः, भागासिद्धेः। न द्वितीयः, अनध्यवसितत्वात्। तत् कथं नानुपपत्तिः? मैवम्। कैश्चिदनध्यवसितस्य दोषतानङ्गीकारात्। येषां च स दोषः, तेषामप्युपदेशादिना घटादेर्द्रव्यत्वनिश्चये सति तदितरमूर्तपक्षीकारेण द्रव्यत्वसाधने कीदृशो दोषः स्यादित्यलम्।
॥ ज्ञानतत्साधनभेदेन प्रमाणस्य द्वैविध्यम्॥
केचिद् वादिनो विज्ञानस्य प्रामाण्यमास्थिषत। अपरे तु तत्करणस्य। तत् किमत्र तत्वम्? द्वयमपीति ब्रूमः। प्रमितिः प्रमाणम्, प्रमीयतेऽनेनेति प्रमाणमिति भावकरणयोः प्रमाणशब्दस्य सामर्थ्यात्।
॥ विप्राः प्रमाणमित्यस्यौपचारिकत्वात्, न प्रमाणत्रैविध्याशङ्का॥
यद्यपि ल्यु भावकरणयोरिवाधिकरणेऽपि स्मर्यते। तथाऽपि प्रमाणशब्दस्याभिधानाभावान्न तत्र वृत्तिः। कृत्तद्वितसमासानामभिधानाधीनत्वात्। नन्वस्ति “विप्राः प्रमाणम्’ इत्यधिकरणेऽपि प्रयोगः। मैवम्। विप्राणां प्रमायां स्वातन्त्र्येण कर्तॄणामधिकरणत्वाभावात्। नहि क्रियाधारोऽधिकरणम्। किन्नाम। कर्तृकर्मणोः क्रियाश्रययोः धारणक्रियां प्रति य आधारः, तत् कारकम्। तस्मात् तदीयविज्ञानस्य वाक्यस्य वा प्रामाण्याद् विप्राः प्रमाणमित्युपचर्यते।
॥ प्रामाण्यं ज्ञाने मुख्यम्, अनुप्रमाणेषु च वेदे मुख्यम्, तदन्यत्रामुख्यम्॥
यदितर्हि विज्ञानं तत्करणं च प्रमाणं द्वयमपि, तत्रोभयत्र याथार्थ्यापरपर्यायं प्रामाण्यं किमेकप्रकारं वर्तते, उतानेकप्रकारम्? आद्ये विज्ञानं केवलप्रमाणम्, प्रत्यक्षानुमानागमलक्षणं तत्करणमनुप्रमाणमिति सिद्धान्तविरोधापातः। द्वितीये लक्षणस्यानुपपत्तिः। प्रकारद्वयस्यान्योन्यस्मिन्नवर्तनेनाव्याप्तत्वादित्यत आह तदिति।
..................तन्मुख्यं ज्ञानशब्दयोः।
करणभूतयोः प्रत्यक्षानुमानयोस्त्वमुख्यमिति शेषः। एतच्च स्फुटीकरिष्यते। (४८८)
॥ यथाशब्दः पदार्थानतिक्रमवाची, अर्थशब्दः ज्ञेयवाची॥
स्यादेतत्। यदि याथार्थ्यं प्रमाणलक्षणं स्यात्। नच तत् सम्भवति, अतिव्याप्तेः। तथाहि योग्यता, वीप्सा, पदार्थानतिवृत्तिः, सादृश्यं चेति यथाशब्दार्थाः। अर्थशब्दश्चाभिधेयधनवस्तुप्रयोजननिवृत्तिषु वर्तते। तत्र सादृश्यार्थस्य यथाशब्दस्य तावदत्र न परिग्रहः। “यथाऽसादृश्ये” इत्यव्ययीभावविधाने विशेषणात्। समासान्तरस्य चासामर्थ्यादिप्रतिहतत्वात्। अत एव यथार्थानुभवः प्रमेत्यत्र किं याथार्थ्यमर्थसादृश्यमित्यादिः कस्यचित् प्रश्र्नोऽनुपपन्नः। नापि योग्यतावीप्सार्थस्य। वाक्यशेषाभावेनार्थयोग्यतायाऽर्थानां वीप्साया वा प्रामाण्यापत्तेः। तस्मात् पदार्थानतिवृत्त्यर्थस्येदं ग्रहणम्। अर्थशब्दस्याभिधेयवाचिनो ग्रहणेऽव्याप्तिप्रसङ्गात्, विषयापरपर्यायवस्तुवचनस्यैव ग्रहणम्। तथाचार्थं विषयं नातिवर्तते न व्यभिचरति यत् तत् प्रमाणमित्युक्तं स्यात्। एतच्च सकर्मकक्रियामात्रेऽस्ति। नहि गमनं गम्यमतिवर्तते, नापि छिदा छेद्यम्। यदेव हि गत्यादिना प्राप्यम्, तदेव गम्यादि। ततो नेदं लक्षणमित्यत आह अर्थत्वमिति।
अर्थत्वमर्यतैव स्यान्न क्रियार्थेषु सा मता॥२१॥
अर्यतैव ज्ञेयतैवार्थत्वमर्थशब्दप्रवृत्तिनिमित्तमस्माकं विवक्षितं स्यात्। नतु विषयत्वमित्यर्थः।
एतदुक्तं भवति यथाशब्दस्य पदार्थानतिवृत्तिवाचित्वमङ्गीकृतमेव। अर्थशब्दस्तु न विषयपर्यायो गृह्यते, किन्तु ज्ञेयवाची। यद्यपि न तत्र तस्य रूढिः, तथाऽप्यर्यत इत्यर्थ इति व्युत्पत्त्या तद्वाचिता अस्त्येव। अर्तेरौणादिकस्य थन्प्रत्ययस्य प्रसिद्धत्वात्। गत्यर्थानां च ज्ञानार्थत्वादिति।
नन्वर्यतेति कथम्। “अर्यः स्वामिवैश्ययोः” इति विशेषणात्। मैवम्। स्वामित्वोपचारात्। अर्थो हि ज्ञानाद्यपेक्षया प्रधानं विवक्ष्यते। किमतो यद्येवं ज्ञेयतैवार्थत्वमित्यत आह नेति। क्रियार्थेषु क्रियाविषयेषु। सा अर्यता। तदभावाच्च न यथार्थता क्रियास्विति नातिव्यापकं प्रमाणलक्षणमिति शेषः।
॥ ज्ञेयमनतिक्रम्य वर्तमानत्वस्य गमनादावतिव्याप्तिमाशय परिहारकथनम्॥
नन्वेतावताऽपि नातिव्याप्तिपरिहारः। गमनादीनामपि ज्ञेयानतिवृत्तित्वात्। नहि तद्विषयो ग्रामादिः सर्वथा न ज्ञेय इति शक्यते वक्तुम्। तदत्यन्ताभावप्रसङ्गादिति। मैवम्। यथा हि “पितरि साधुः’ “मातरि साधुः’ इतिवाक्यं यत्किञ्चित्पित्रादौ साधुत्वेन न पर्यवस्यति, किन्तु स्वीये पित्रादौ। तत् कस्य हेतोः? पित्रादिशब्दानां सम्बन्धिशब्दत्वात्। सम्बन्धिशब्दानां ह्येष महिमा। अन्यथा पितुर्धनमुपादद्यादित्यादौ बहुविप्लवः स्यात्। सतिचैवं शब्दमहिमानमनादृत्य प्रत्यवतिष्ठमानश्छलवादितया जीयेत। तथा प्रकृतेऽपि ज्ञेयशब्दस्य सम्बन्धिशब्दत्वात् स्वज्ञेयं नातिवर्तते यत् तत् प्रमाणमित्युक्तं स्यात्। नच गमनेनोपाधिना गमनेन वा निमित्तेन ग्रामो ज्ञेयः। येन तमनतिक्रम्य वर्तमानं गमनं यथार्थं स्यात्। किन्तु गम्य एव। तत् कथमतिव्याप्तिः? भवति च घटादिर्ज्ञानतत्करणाभ्यामुपाधिनिमित्ताभ्यां ज्ञेय इति। तदिदमुक्तम् क्रियार्थेषु सा न मता शब्दार्थतत्वविदुषामिति।
ननु तथाऽप्यन्योन्याश्रयत्वम्, आत्माश्रयत्वं वा। स्वशब्देन प्रमाणस्याभिधानादिति चेत्, न। ज्ञानतत्करणमात्रोपादानेन लक्षणस्य व्याख्यातत्वात्। स्वगुणग्राहकमिन्द्रियं श्रोत्रमित्यत्र यथेति।
॥ ज्ञेयाव्यभिचारित्वपरिष्कारः॥
ननु किमिदं प्रमाणस्य ज्ञेयाव्यभिचारित्वं नाम? किं प्रमेयव्याप्यत्वम्, किंवा यावत्प्रमेयगोचरत्वम्? आद्येऽपि व्याप्तिः किं देशतः, किंवा कालतः? न प्रथमः, प्रमाणासमानदेशार्थविषयप्रमाणेष्वव्याप्तेः। न द्वितीयः, अतीतादिविषयप्रमाणाव्याप्तेः। नान्त्यः, असर्वज्ञज्ञानानां तत्करणानां वाऽप्रामाण्यप्रसङ्गादिति।
मैवम्। अद्वैतागमादेस्तत्वावेदकत्वलक्षणं प्रामाण्यमभ्युपगच्छता परेणाप्यस्यार्थस्य निर्वक्तव्यत्वात्। परेणाङ्गीकृतमुपादायास्माभिर्व्यवह्रियते, नतु किमपि लक्षणं व्यवस्थाप्यत इति चेत्, न। स्वप्रतिपत्ताववश्याश्रयणीयत्वाद् व्यवस्थायाः। नहि स्वप्रकाशं तत्वमित्येतावता विना वेदान्ताधिगमं तदधिगमः शक्योऽङ्गीकर्तुम्।
अथाऽवेदितस्य सत्त्वं तत्वावेदकत्वमिति निर्ब्रूयात्, तदा विभ्रमेऽतिव्याप्तिः स्यात्। तत्राप्यावेदितस्येदमाकारस्य सत्त्वात्। अथ यावदावेदितस्य सत्त्वं तत्वावेदकत्वं सदेकगोचरत्वमिति यावदिति वदेत्, तदेवास्माकमपि याथार्थ्यमिति वदामः।
नन्वेवमपि भ्रमेऽतिव्याप्तिः। नहीदमंशो वा, रजतत्वादिजातिर्वा, तत्सम्बन्धः समवायो वा, तत्तादात्म्यं वा न सत्। अन्यत्र सत्त्वेऽप्यत्रासदिति चेत्, नहि देवदत्तो गृहेऽसन्नित्यसन्नेव। नचायमस्त्यस्माकं प्रसङ्गः। अधिष्ठानेतरस्य सर्वस्यानिर्वचनीयतयाऽङ्गीकारादिति। मैवम्। अस्माभिरपि तस्य अत्यन्तासत्त्वस्वीकारात्।
अथ मतम् किं विषयसत्त्वं तदानीमभिमतम्, उत पूर्वम्, अथ पश्चात्, यद्वा सर्वदा, अथवा यदाकदाचित्, यदिवा यद् यद्देशकालयोर्यथाप्रतीतं तस्य तद्देशकालयोस्तथात्वेन? नाऽद्यः, अतीतानागतविषयप्रमाणाव्यापनात्। न द्वितीयः, वर्तमानानागतविषयाव्याप्तेः। पाकरक्तेऽपि घटे नीलप्रतीतौ विभागोत्तरकालं संयुक्तप्रत्यये वाऽतिव्याप्तेश्च। न तृतीयः, अतीतादिविषयाव्याप्तेः। भाविपाकजरागे कुम्भे श्यामेऽपि रक्तपित्तिना रक्तताप्रतिभासेऽतिव्याप्तेश्च। न चतुर्थः, अनित्यविषयाव्याप्तेः। न पञ्चमः, पूर्वोक्तविभ्रमेऽतिव्याप्तेः। नापि षष्ठः, देशकालप्रमाणाव्याप्तेः। नहि देशकालयोर्देशकालान्तरमस्तीति।
मैवम्। देशकालयोरपि स्वसम्बन्धेन निरूपणस्य वक्ष्यमाणत्वात्। यद्वा यद् यथाभूतं प्रतीतम्, तस्य तथाभूतस्य सत्त्वमित्युक्त एव नातिप्रसङ्गः। देशकालयोरपि विशेषणान्तरवत् यथाभूतमित्यनेनैव गृहीतत्वात्। विशेषानुक्तेरुक्तदोषाप्रसक्तेश्च।
॥ केवलप्रमाणलक्षणस्यासम्भवशङ्कापरिहारः॥
तथाऽपि निश्चायकाभावेनासम्भवीदं लक्षणम्। तथाहि ज्ञानयाथार्थ्यं किमदुष्टकरणजन्यत्वेन अवधारणीयम्, उत दुष्टकरणाजन्यत्वेन, अथ प्रवृत्तिसामर्थ्येन, यद्वा ज्ञानान्तरसंवादेन, किंवा विसंवादाभावेन? नाऽद्यः, तस्यापि दुरवधारणत्वात्। ज्ञानयाथार्थ्येन तदनुमाने चेतरेतराश्रयत्वापत्तेः। नित्यज्ञानेषु तदभावाच्च। न द्वितीयः, अशक्यावधारणत्वात्। न तृतीयः, सर्वत्र तदभावात्। न चतुर्थः, सुखादिज्ञाने तदभावात्। ज्ञानमात्रसंवादाङ्गीकारे च धारावाहिकविभ्रमेऽपि तद्ग्रहापत्तिः। यथार्थज्ञानसंवादाभ्युपगमे तु तत्तद्याथार्थ्यावधारणेनानवस्था। न पञ्चमः, असञ्जातबाधभ्रमेष्वपि तदापातात्। पुरुषदेशकालविकल्पानुपपत्तेश्चेति। मैवम्। तथासति वेदान्तजनितविज्ञानस्यापि याथार्थ्यानवधारणप्रसङ्गात्। विषयसत्यत्वात् तदवधारणमिति चेत्, तदेव कथम्? ज्ञानसामर्थ्यादिति चेत्, किं ज्ञानमात्रस्य सामर्थ्यम्, उत यथार्थतया निश्चितस्य? आद्ये शुक्तिरजतादेरपि सत्यतापत्तिः। द्वितीयेऽपि किमेतस्यैव ज्ञानस्य, उत ज्ञानान्तरस्य? न प्रथमः, परस्पराश्रयप्रसङ्गात्। न द्वितीयः, अनवस्थाद्यापातात्।
अथ मन्येत स्वत एव विज्ञानानां प्रामाण्यग्रहः बाधेन क्वचिदपोद्यते। नच ब्रह्मज्ञानस्य बाधः सम्भवति। यथाशक्ति परीक्षायामपि तददर्शनात्। निर्मूलशङ्कायाश्च अनुदयात्। निरवधिकस्य निःसाक्षिकस्य बाधस्यादर्शनात्। अवध्यादिस्वीकारे च तस्यैव ब्रह्मत्वे बाधितुमशक्यत्वादिति। तदेतत् समानमस्मन्मतेऽपि। विवृतश्चायमर्थस्तत्रतत्रेत्युपपन्नं याथार्थ्यस्य प्रमाणलक्षणत्वमिति।
॥ ज्ञानापेक्षया वेदे प्रामण्यममुख्यम्॥
“तन्मुख्यं ज्ञानशब्दयोः” इति न युक्तम्। तथासति ज्ञानवच्छब्दस्यापि केवलत्वापत्तेरित्याशङ्कां सोपपत्तिकं परिहरति ज्ञानार्थ इति।
ज्ञानार्थे ज्ञेयता मुख्या शब्दार्थे तदनन्तरम्।
यस्माज्ज्ञानार्थे ज्ञानविषये ज्ञेयता मुख्या, शब्दार्थे शब्दविषये तदनन्तरं ज्ञेयताऽमुख्येति यावत्। तस्माज्ज्ञान एव याथार्थ्यलक्षणं प्रामाण्यं मुख्यम्, शब्दे त्वमुख्यम्। तथाच न तस्य केवलत्वापत्तिरित्यर्थः। ज्ञानार्थेष्वर्यता मुख्येति प्रकृतत्वाद् वक्तव्येऽर्यताऽपि गतिकर्मसु विद्यत इति गतावतिव्याप्तिः तदवस्थेत्याशङ्कानिरासाय ज्ञेयतेत्यर्यताव्याख्यानं कृतम्।
इदमुक्तं भवति न ज्ञानसमकक्षतया शब्दे याथार्थ्यं मुख्यम्, किन्तु करणत्रयापेक्षया। ज्ञान एव मुख्यं याथार्थ्यं करणेष्वपि निर्धारणायां शब्दे मुख्यम्। तदेते परममुख्यमुख्ये एकीकृत्य तन्मुख्यं ज्ञानशब्दयोरित्युक्तमिति।
॥ प्रमाणानां मुख्यामुख्यत्वव्यवस्थापकोक्तिः॥
यद्वा तन्मुख्यं ज्ञानशब्दयोरित्यत्रैवायमर्थो व्याख्यातव्यः। तथाहि तद् याथार्थ्यं ज्ञाने मुख्यं करणेषु त्वमुख्यम्। करणेष्वपि किमेकप्रकारमनेकप्रकारं वेति जिज्ञासायां शब्दे मुख्यं प्रत्यक्षानुमानयोरमुख्यमित्युक्तम्। अत्रच शब्दशब्देन वेदमेवाधिकुरुते भगवान् मुनिः। तन्मुख्यताकथनस्यैव मीमांसोपयोगित्वात्। अन्यथा व्यर्थाया जिज्ञासायास्तत्परिहारस्य चासङ्गतिप्रसङ्गात्। यद्यपि ज्ञानशब्दशब्दौ द्वन्द्वनिर्दिष्टौ, तथाऽपि बुद्ध्या विविच्य व्याख्यानमेतदिति। तत्र कथं ज्ञाने यथार्थत्वं मुख्यं करणेष्वमुख्यमित्यत आह ज्ञानार्थ इति। शब्द इत्युपलक्षणम्। प्रत्यक्षानुमानयोरपीति द्रष्टव्यम्। व्याख्यानं तु पूर्ववत्। शब्दस्य स्वशब्देनोपादानं तु पूर्वत्र ज्ञानसमकक्षतया प्रतीतिं वारयितुमिति।
ज्ञाने मुख्यं याथार्थ्यम्, करणेष्वमुख्यम्, तत्रापि शब्दे मुख्यमित्युक्तम्। तत्र ज्ञानकरणयोर्याथार्थ्यस्य मुख्यत्वामुख्यत्वोपपादनाय तद्विषययोर्ज्ञेयतायां मुख्यामुख्यत्वे हेतुतयोक्ते। तदुपपादनार्थमाह यथार्थेति।
यथार्थज्ञानजनका यथार्था युक्तयः स्मृताः।
सोपस्कराणि वाक्यानि भवन्ति। तेन ज्ञानं साक्षाद् यथार्थमित्यादौ पठितव्यम्। बहुवचनमाद्यर्थे। युक्त्यादय इत्यर्थः। तेन जनका इत्युपपन्नम्। अव्यायीभावस्य क्लीबाव्ययत्वं छन्दस्तुल्यत्वेनानाश्रित्य यथार्था इत्युक्तम्, कथञ्चिद् बहुव्रीहितामाश्रित्य वा। यद्वा भावप्रधानाद् यथार्थशब्दान्मत्वर्थे अर्शआदित्वादच्। याथार्थ्योपेता इत्यर्थः।
तदयमर्थः ज्ञानमेव हि विषयस्य ज्ञेयस्य ज्ञेयतायां साक्षादुपाधिर्भवति। ज्ञातताया निराकरिष्यमाणत्वात्। (४९५,९९४) अतस्तद्विषयस्यैव ज्ञेयत्वं मुख्यमिति ज्ञानस्यैव मुख्यतो याथार्थ्यम्। युक्त्यादिकरणानि तु विषयस्य ज्ञेयतायामुपाधिभूतं ज्ञानं जनयन्तीति तद्विषयस्य ज्ञेयत्वममुख्यम्। तत एव तेषां याथार्थ्यमप्यमुख्यमिति।
अत्र “यथार्थज्ञानजनका यथार्थाः’ इत्युक्तिस्तु परमसाध्यमपि सूचयितुम्। युक्तेरमुख्यतायामादित्वेन ग्रहणं त्रिष्वप्यपकर्षसूचनार्थम्। आगमयुक्त्योरुत्कर्षापकर्षौ तत्रतत्र समर्थिताविति नेहोक्तम्।
॥ अनुप्रमाणोद्देशः॥
किमतो यद्येवं ज्ञानस्य याथार्थ्यं मुख्यं प्रत्यक्षादिकरणानां चामुख्यमित्यत आह अनुप्रमाणमिति।
अनुप्रमाणमेतानि ह्यक्षयुक्तिवचांस्यतः॥२२॥
अत्रापि ज्ञानं केवलप्रमाणमिति प्रथमं पठितव्यम्। हि यस्मादेवमत इति सम्बन्धः। अनुप्रमाणमित्येकवचनं बहुवचनार्थे। “सुपां सु लुक्” इति स्मरणात्। अथवाऽक्षयुक्तिवचांसीति द्वन्द्वनिर्दिष्टानामपि बुद्ध्या विवेकेन प्रत्येकमनुप्रमाणमिति सम्बन्धः। यद्वाऽनुप्रमाणानुवादेनाक्षादित्वकथनमत्रेति न दोषः। अवान्तरव्यापारमविवक्षित्वा करणधर्मिण एव विवक्षयाऽक्षेत्युक्तम्। अन्यथा प्रत्यक्षमिति वक्तव्यम्। वच इत्यागमोपलक्षणम्।
॥ लक्षणस्याव्याप्तिपरिहारः॥
नचैवमप्यव्याप्तिर्लक्षणस्येति वाच्यम्। ज्ञानमेव यथार्थम्, करणानि तु तज्जनकतया तथोपचर्यन्त इत्यङ्गीकारे हि सा स्यात्। नचैवम्। यथावस्थितार्थविषयित्वस्योभयत्रापि साम्यात्। ज्ञानविषय एव हि करणानां विषयः। नहि कमप्यविषयीकुर्वन्त्येव तानि ज्ञानं जनयन्ति, नाप्यन्यविषयाणि, अतिप्रसङ्गात्। केवलं विषयस्य ज्ञेयतां ज्ञानमुपाधितया, करणानि तु तज्जनकतया सम्पादयन्तीत्येतावन्तं विशेषमाश्रित्य केवलानुप्रमाणभेदः समर्थितः। यदिचैतावताऽप्यव्याप्तिदोषः, तदा सर्वत्रापि यत्किञ्चिद्वैलक्षणस्य वक्तुं शक्यत्वादतिप्रसङ्गः स्यादिति।
॥ लक्ष्यसङ्ग्रहः॥
अयमत्र समुदायार्थः यथार्थं प्रमाणम्। तद् द्विविधम् केवलम्, अनुप्रमाणं च। तत्र यथार्थज्ञानं केवलम्। तत्साधनमनुप्रमाणम्। केवलमपि द्विविधम्। चैतन्यं वृत्तिरूपं चेति। चैतन्यमपि त्रिविधम्। उत्तममध्यमाधमभेदात्। तत्रोत्तमं यथार्थमेव। मध्यमं मिश्रम्। अधममयथार्थमेव। द्वितीयमपि केवलं प्रत्यक्षानुमानागमजभेदात् त्रिविधमेवेति। अनुप्रमाणमपि प्रत्यक्षानुमानागमभेदात् त्रिविधमेवेति।
॥ लक्षणस्यातिव्याप्तिपरिहारः॥
ननु तथाऽपि काकतालीयेऽतिव्याप्तिरपरिहार्या। तथाहि पाणौ पञ्च वराटकान् पिधाय कश्चित् कञ्चित् पृच्छति मम करे कति वराटका इति। स च पृष्टोऽजाकृपाणीयन्यायेनाऽह पञ्चेति। तदेतत् प्रष्टुर्वक्तुश्च ज्ञानं यथार्थमिति प्रमाणं प्रसज्यते। नच निःसाधनं तदुत्पन्नमिति तत्साधनस्यापि प्रमाणत्वापातः। यादृच्छिकसंवादिलिङ्गविभ्रमादिष्वप्येवं प्रसङ्गो दुर्वार इति।
मैवम्। वक्तुर्ज्ञानस्य संशयत्वेनाप्रसङ्गात्। तत्रच पाक्षिकव्यवहारस्तु वैयात्यनिबन्धनः। न स्वज्ञाननिबन्धनः। अन्यथा विप्रलम्भकस्यापि तादृशनिश्चयापत्तौ विपर्यस्ताविशेषप्रसङ्गात्। एतेनाऽहार्यनिश्चयकल्पनमप्यपास्तम्। प्रष्टुस्तु प्रागूर्ध्वं च ज्ञानं प्रमाणमेव। तन्मूलं च प्रत्यक्षम्। वाक्यजनितमपि पार्श्वस्थादेर्विज्ञानमेवमेव। वाक्यं तु यादृच्छिकसंवादि।
यादृच्छिकसंवादिलिङ्गविभ्रमवाक्याभासजन्यस्य केवलप्रमाणत्वेऽपि न तयोः प्रामाण्यम्। तथाहि न तावत् तत्र बाष्पस्य, बाष्पतया विज्ञातस्य वा यथार्थज्ञानसाधनत्वं वक्तुं शक्यम्। नापि धूमस्य, असतः साधनत्वायोगात्। सत्त्वेऽप्यपरामृष्टत्वात्। ततो धूमत्वेन ज्ञातस्य बाष्पस्य, बाष्पविषयस्य धूमविभ्रमस्य वेति वक्तव्यम्। नच तत् सम्भवति। तज्जातीयस्य सर्वत्र यथार्थज्ञानजनकत्वाभावात्। तथाविधस्यैव साधनत्वेनास्माभिर्विवक्षितत्वात्। तथासत्यकारणकार्योत्पत्तिरापन्नेति चेत्, न। लिङ्गविभ्रमस्य लौकिककरणत्वेऽपि पारिभाषिकसाधनत्वाभावस्योक्तत्वात्।
वाक्याभासस्यापि प्रामाण्यप्रसङ्गोऽनेन निरस्तः। तस्य प्रामाण्यप्रसङ्गेऽपि न काचिदस्माकं क्षतिः। नहि ताकिकाणामिवास्माकमाप्तोक्ततया प्रामाण्यानुमानादिकमस्ति।
यद्वा निर्दोषतया साधनं विशिष्यते। निर्दोषता च लिङ्गज्ञानादेर्यथार्थत्वादिलक्षणा व्याख्येया। तथात्वे निर्दोषं ज्ञानसाधनमनुप्रमाणमित्येवास्तु। कृतं यथार्थेति ज्ञानविशेषणेनेति चेत्, न। तत्फिलतार्थस्यैव निर्दोषग्रहणेन वर्णितत्वात्। निर्दोषकरणजं ज्ञानं याथार्थ्यं न व्यभिचरतीति स्वरूपकथनं वा तदिति।
॥ लक्षणान्तररचनस्य स्मृत्यनुवादप्रामाण्यसङ्ग्रहार्थत्वम्॥
ननु दर्शनान्तरोक्ते लक्षणे सति किमपूर्वनिर्माणेनेत्यत आह प्रामाण्यमिति।
प्रामाण्यं नानुवादस्य स्मृतेरपि विहीयते।
याथार्थ्यमेव प्रामाण्यशब्दार्थो यद् विवक्षितः॥२३॥
यद् यदा याथार्थ्यमेव प्रामाण्यशब्दार्थो विवक्षितो भवति, तदैव यथार्थयोः स्मृत्यनुवादयोः प्रामाण्यं न हीयते। दर्शनान्तरोक्तलक्षणकक्षीकारे तु, तैः स्वलक्षणस्याव्यापकतयाऽङ्गीकृतत्वात्, स्मृत्यादौ तदभावात् प्रामाण्याभाव एव प्रसज्यत इति युक्तं तदनादरेण लक्षणान्तरनिर्माणमिति।
॥ मीमांसकप्रभाकरताकिकबौद्धजैनोक्तप्रमाणलक्षणनिरासः॥
तथाहि “अनधिगतार्थगन्तृ प्रमाणम्” इति मीमांसकोक्तस्य लक्षणस्य स्मृत्यादावभावः स्फुटः। तस्याधिगतगोचरत्वात्। “अनुभूतिः प्रमाणम्” इति प्रभाकरोक्तं लक्षणमपि न तत्रास्ति। स्मृतिव्यतिरिक्तं ज्ञानमनुभूतिरिति निर्वचनात्। तथा “प्रमाव्याप्तं प्रमाणम्”, “प्रमाकरणं प्रमणम्” इति नैयायिकोक्तमपि। तैरपि “यथार्थानुभवः प्रमा” इति व्याख्यातत्वात्। अत एव “प्रमासामग्री प्रमाणम्” इति निरस्तम्। “अविसंवादिविज्ञानं प्रमाणम्” इति सौगतोक्तमपि। तदभिप्रेतस्य अर्थजत्वादेरविसंवादस्य अभावात् स्मृत्यादेरव्यापकम्। “स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम्” इति जैनोक्तमपि न स्मृत्यादौ वर्तते। तस्यापूर्वार्थविषयत्वाभावात्।
॥ स्मृतेरप्रमाण्यशङ्का॥
ननु स्मृतिरपूर्वार्थविषया, तदित्युल्लेखात्। तस्य चानुभवेनाविषयीकरणादिति चेत्, न। तथासति अपूर्वग्रहणस्य व्यवच्छेद्याभावप्रसङ्गात्। धारावाहिकं तद्व्यवच्छेद्यमिति चेत्, न। अनेकान्ततावादे पदार्थानां क्षणिकत्वस्याङ्गीकृतत्वेन धारावाहिकविभ्रमेऽप्येवमपूर्वार्थताभ्युपगमसौलभ्यात्। मा भूद् वाऽत्र स्मृतिप्रामाण्यहानिर्दोषः, धारावाहिके तु तद्धानिरवर्जनीया। तदपि स्मृत्यनुवादपदाभ्यामुपलक्ष्यत इति।
ननु भवत्पक्षेऽपि स्मृतेः प्रामाण्यं हीयत एव। तस्या याथार्थ्याभावात्। नहि यादृशोऽर्थः स्मर्यते यदा, तादृश एवासौ तदा। पूर्वावस्थाया वर्तमाने निवृत्तत्वात्। अनिवृत्तौ हि पूर्वतैव न स्यात्। नच निवृत्तपूर्वावस्थातयैव तमर्थं स्मृतिरालम्बते। पूर्वावस्थानिवृत्तावनुभवाप्रवृत्तेः।
ननु समानविषयत्वेऽपि स्मृत्यनुभवयोरनुभवो यथार्थो नतु स्मृतिरिति कुत एतत्? अनुभवकाले तस्यार्थस्य तादवस्थ्यात्। स्मृतिकाले त्वतादवस्थ्यात्।
ननु पूर्वं तावत् तदवस्थ एवासावासीदेतावतैव ज्ञानमस्तु यथार्थम्। न। पाकरक्तेऽपि श्यामताप्रत्ययस्य यथार्थत्वप्रसङ्गात्। नन्वतीतश्यामताप्रत्ययस्तत्र यथार्थ एव। सत्यम्। तद्विषयस्य तदानीमेव तदवस्थत्वात्। नतु स्मर्यमाणावस्थस्तदानीं तदवस्थः। तस्मात् स्मृतिरयथार्थैव।
॥ नैयायिकवैशेषिकैः स्मृतेः प्रामाण्यस्याङ्गीकृतत्वप्रदर्शनम्॥
मैवम्। अपसिद्धान्तापातात्। तथाहि “उपलब्धिहेतुः प्रमाणम्” इत्यत्र संशयादावतिव्याप्तिमाशय प्रकृतयाथार्थ्येनोपलब्धिर्विशेषिता। तस्यापि स्मृतिहेतावतिव्याप्तिमाशयोपलब्धिशब्दः अनुभववचनो न ज्ञानसामान्यवचन इत्युक्तं वाचस्पतिना। तेन ज्ञायते तेनाभ्युपगतं स्मृतेर्याथार्थ्यमिति। अन्यथा याथार्थ्येन स्मृतौ व्यावृत्तायां पुनर्न शङ्केत। शङ्कमानो वा तमेव परिहारमनतिदिशन्नुपलब्धिपदमनुभूतिपरतया न व्याकुर्यात्। “यथार्थानुभवः प्रमा” “सम्यगनुभवसाधनं प्रमाणम्” इत्यादीनि न्यायविदां वचनान्यपीममेवार्थमवगमयन्ति। अन्यथा द्व्यङ्गविकलत्वात् स्मृतेरनुभवपदव्यावर्त्यता न स्यात्। काणादैरपि प्रत्यक्षलैङ्गिकस्मृत्यार्षभेदेन विद्याचातुर्विध्यमङ्गीकुर्वाणैर्यथार्थत्वं स्मृतेरङ्गीकृतम्।
॥ स्मृतेः अप्रामाण्यनिरासः॥
यदपि “न हि यदा यादृशः’ इत्यादि, तदनेन किमुक्तं भवति? स्मरणकालेऽर्थस्य तदवस्थत्वाभावादयाथार्थ्यं स्मृतेरिति वा, पूर्वावस्थानिवृत्तेरविषयीकरणादिति वा, अनिवृत्तपूर्वावस्थत्वेन विषयीकरणादिति वा? आद्येऽतीतानागतविषयानुमानागमप्रामाण्यप्रच्युतिः। अतीतादिविषयस्य तदानीमसत्त्वात्। द्वितीये सर्वप्रमाणाप्रामाण्यप्रसङ्गः। कस्यापि सर्वात्मनः विषयीकरणाभावात्। तृतीये त्वसिद्धिः। नह्यनिवृत्ततदवस्थोऽसाविति स्मृतिरालम्बते, किन्तु तदाऽसौ तादृश इति। तदवस्थानिवृत्त्यनिवृत्त्योस्तूदासीनैव।
नन्वनुभवेन “तदाऽसौ तादृशः’ इत्यविषयीकृतं तथा विषयीकुर्वाणाः कथं याथार्थ्यं लभन्त इति चेत्, न। स्यादिदं यद्यनुभवानुसारित्वं याथार्थ्यमिति वदामः। अर्थानुसारित्वं तु तथेत्युक्तम्। अनुभवेऽन्याकारे कुतस्त्योऽयं स्मृतेरन्याकार इति चेत्, किमयं नास्तीत्यभिमानः, उत निर्हेतुक इति वा, यद्वा प्रश्नमात्रम्? नाऽद्यः, साक्षिसिद्धत्वात्। न द्वितीयः, व्याघातात्। तृतीयेऽनुभवस्यापि कुतस्त्यः? स्वहेतुसमासादित इति चेत्, तुल्यम्। यदिच संस्कारमात्रजन्यता स्मृतेः स्यात्, स्यात् तदा कथञ्चिद् वैसादृश्यानुपपत्तिः। मानसं तद्धि विज्ञानमिति वक्ष्यते। (५३९) तस्माद् वैयात्यमात्रनिमित्तं स्मृतियाथार्थ्यनिराकरणम्। तथाच स्मृत्यनुवादप्रामाण्यसङ्ग्रहाय लक्षणान्तररचनमिति सूक्तम्।
ननुच सङ्ग्राह्यस्य सङ्ग्रहो गुणः, नत्वसङ्ग्राह्यस्यापि। किन्नाम। अतिव्याप्त्या दोष एव। नच स्मृत्यादि लक्षणसङ्ग्राह्यम्। प्रामाण्याभवादिति चेत्, तत् किं स्मृत्यादिप्रामाण्यं साधकप्रमाणाभावान्नाङ्गीकार्यम्, उत बाधकसद्भावात्? नाऽद्यः, लोकव्यवहारस्य सत्त्वात्। यथार्थज्ञानतत्साधने हि प्रमाणतया लोको व्यवहरति। नह्यस्ति प्रत्यक्षादिप्रामाण्यसाधकमन्यल्लोकव्यवहारात्।
ननु प्रमाणाभियुक्तानां कणभक्षाक्षपादादीनां तत्र प्रामाण्यव्यवहारो नास्तीति चेत्, न। “स्मृतिः प्रत्यक्षमैतिह्यम्” इत्यादिश्रुतिस्मृतिसिद्धार्थमनङ्गीकुर्वतामाप्तत्वस्यासिद्धेः।
स्मृतिः षौरुषेयो ग्रन्थ इति चेत्, किमत्रायमखण्डवृत्तिः शब्दः, किंवा यौगिकः? नाऽद्यः, कृदन्ततायाः स्पष्टावभासत्वात्। न द्वितीयः, अव्याप्त्यतिव्याप्तिभ्यां योगानुपपत्तेः। तस्मान्मन्वादिस्मरणमूलत्वात् स्मृतिरित्युपचारो ग्राह्यः। ते हि श्रुत्यादीनाऽनुभूतमर्थं स्मृत्वा तत्प्रतिपादकं ग्रन्थमारचयन्ति। व्यासादिप्रणीतेषु तत्सादृश्यात् प्रयोगः। नच मुख्ये बाधकमन्तरेणोपचारो लभ्यते।
सन्तु वाऽक्षचरणादयोऽप्याप्ताः। तथाऽपि तत्तद्व्यवहाराभावमात्रेण स्मृत्यादिप्रामाण्यानभ्युपगमोऽयुक्तः। नहि तैः प्रतिव्यक्ति पदार्था निरूपिताः। तथाऽप्युक्तलक्षणैः सङ्गृहीता इति चेत्, तुल्यं स्मृत्यादेरपि। प्रत्यक्षाद्यन्तर्भावस्य सुवचत्वात्।
अपिच स्मृत्यादिकं प्रमाणपदवाच्यम्, यथार्थत्वात्; प्रत्यक्षवत्। नचानुभवत्वमुपाधिः। समव्याप्तिपक्षे संशयादौ व्याप्तिभङ्गात्। विषमव्याप्तिपक्षेऽपि करणरूपे प्रत्यक्षे साध्याव्यापकत्वात्।
किञ्चेदमनुभवत्वं स्मृतिव्यतिरिक्तज्ञानत्वमिति चेत्, किमर्थमिदं विशेषणम्? पक्षव्यावृत्त्यर्थमिति चेत्, तर्हि पक्षेतरत्वेनानुपाधित्वम्। अन्यथेश्वरानुमानेऽप्युपाधिरशक्यनिरासः स्यात्। एतेनानुभवतत्करणयोरन्यतरत्वमपि प्रत्युक्तम्।
॥ स्मृत्यनुवादयोरप्रामाण्यसाधकफलवत्त्वहेतोरसिद्धिः, अप्रयोजकता च॥
अस्तु तर्हि बाधकसद्भावादिति द्वितीय इत्यत आह अङ्गीकृतं चेदिति।
अङ्गीकृतं चेत् प्रामाण्यं स्मृत्यादेः का विरुद्धता।
नचाफलत्वं वक्तव्यं सर्वस्मृत्यनुवादयोः॥२४॥
फलवत्त्वं नचास्माभिः प्रामाण्यं हि विवक्षितम्।
तृणादिदर्शने किं च फलवत्त्वं निगद्यते॥२५॥
स्मृत्यादेः प्रामाण्यमिति सम्बन्धः। किमाक्षेपे। तर्हीति शेषः। स्मृतिरनुवादश्चाप्रमाणम्, निष्फलत्वात्; यद्यत् प्रमाणं तत्तत् सफलं दृष्टम्, यथा प्रत्यक्षादीति बाधकसद्भावात् कथमेतदिति चेत्, किमत्र सर्वा स्मृतिः सर्वश्चानुवादः पक्षीक्रियते, किंवा तदेकदेशः? आद्ये भागासिद्धिरित्याह नचेति। कासाञ्चित् स्मृतीनां केषाञ्चिदनुवादानां च सफलत्वोपलम्भादिति चार्थः। उपपादयिष्यते चैतत्। (३६०) अप्रयोजकश्चायं हेतुरित्याह फलवत्त्वमिति। यदि हि फलवत्त्वं प्रामाण्यं प्रामाण्यस्य व्यापकमस्माभिः परीक्षकैर्विवक्षितं स्यात्, स्यान्नाम तदा व्यापकस्य तस्य निवृत्त्या स्मृत्यादेः प्रामाण्यनिवृत्तिः। नचैवमित्यर्थः।
अयमभिसन्धिः अप्रमाणव्यवहारे याथार्थ्याभाव एव प्रयोजकः, अप्रामाण्ये तु करणदोषबाधकप्रत्ययौ, न निष्फलत्वमिति। एतेनाफलांशस्यैव पक्षीकरणमिति द्वितीयोऽपि निरस्तः।
करणदोषबाधकप्रत्ययाविव विफलत्वमप्यप्रामाण्यप्रयोजकं किं न स्यादित्यत आह तृणादीति। “धर्मस्य धर्म्यधिकरणम्” इति सप्तमी। ग्रामं गच्छतः पथि पतिततृणादिदर्शनस्य। उपलक्षणं चैतत्। स्वकारणसामर्थ्यायातानुमितेश्चेत्यपि द्रष्टव्यम्। किमाक्षेपे। विफलत्वस्याप्रामाण्यप्रयोजकत्वे तृणादिदर्शनादेस्तथात्वेनाप्रामाण्यं स्यात्। नचैवम्। लोकव्यवहारविरोधादित्याशयः। यद्वाऽनैकान्तिकश्चायं हेतुरित्यनेनाऽचष्टे। प्रमाणतया सम्मते विपक्षभूते तृणादिदर्शने किं फलवत्त्वं निगद्यते? न किमपीत्यफलत्वं तत्र गतमिति।
॥ स्मृत्यनुवादयोः सुखदुःखधर्माधर्महेतुत्वेन साफल्यम्॥
ननु कार्यजातं प्राणिनां धर्माधर्माम्यामुपजायत इति तावदविवादम्। ततश्च धर्माधर्माभ्यामुपजनिततृणादिदर्शनं स्वयमसुखदुःखात्मकं यदि सुखं दुःखं वा तत्साधनं वा न जनयेत्, तदा धर्माधर्मयोः वैयर्थ्यं श्रुत्यादेरप्रामाण्यं चाऽपद्येत। ततश्च तृणादिदर्शनेनापि सुखदुःखादिकं किञ्चिदुपजनयितव्यमेव। अतः कथं तस्य विफलत्वमित्यत आह सुखेति।
सुखदुःखादिकं किञ्चित् स्मृतावपि हि दृश्यते।
अनेन न्यायेन सर्वस्या स्मृतेः सर्वस्य चानुवादस्य सफलत्वात् स्वरूपासिद्ध एव हेतुः स्यात्। भागासिद्धता तु स्पष्टफलोपलम्भाभावाभिप्रायेणोक्तेति भावः। इयांस्तु विशेषः तृणादिदर्शनस्य फलं सर्वथाऽप्यव्यक्तम्, नैवं स्मृत्यादेरित्युक्तम् दृश्यतेऽपि हीति। अत्रानुवादोऽपि ग्राह्यः।
तथाहि इष्टार्थस्मृतौ सुखम्, तज्जातीये रागः, संस्कारपाटवं च। अनिष्टार्थस्मृतौ दुःखं, तज्जातीये द्वेषः, संस्कारपाटवं च। प्रशस्तार्थस्मरणे धर्मः, अप्रशस्तार्थस्मरणे त्वधर्मः। एवमनुवादेऽपि द्रष्टव्यम्। अन्यथा प्रणिधानादिवैयर्थ्यप्रसङ्गात्। “शब्दार्थयोः पुनर्वचनं पुनरुक्तम्, अन्यत्रानुवादात्” इति वदताऽक्षपादेनाप्यनुवादस्य साफल्यमङ्गीकृतम्। निगमनस्य च प्रयोजनानि न्यायविद्भिरुपपादितानीति।
॥ ज्ञाततानिरासः॥
अथाऽपि स्यात्। प्राकट्यापरपर्यायामर्थगतां ज्ञाततामुपजनयदेव प्रमाणम्, यथा प्रत्यक्षादि। नच स्मृत्यादिनाऽर्थे ज्ञाततोपजनिः सम्भवति। अनुभवेनैव तस्या जातत्वात्। नहि छिन्ने छिदा पुनरुत्पद्यते। तत् कथं तस्य प्रामाण्यं स्यादिति। तत्राऽह नेति।
न परिच्छेदकार्येव प्रमाणमिति च प्रमा॥२६॥
परिच्छेदो ज्ञातता। एवेति प्रतिवाद्युक्तानुवादः। परिच्छेदकार्येव प्रमाणम्। तदभावात् स्मृत्यादिकमप्रमाणमिति नेत्यर्थः। कुतो नेत्यत आह इति चेति। इतिशब्देनार्थगतां ज्ञाततां परामृशति। नेत्यस्यानुकर्षणार्थश्चकारः। ज्ञाततायां प्रमा प्रमाणं नास्तीत्यर्थः। (९९४) तथाच ज्ञातताजनकत्वं सपक्षे विभ्रमादाविव विपक्षे प्रत्यक्षादावपि वर्तत इति साधारणानैकान्तिकमिति भावः।
किञ्च धारावाहिकविज्ञानानि स्मृत्यादिकमिव न ज्ञाततामुपजनयन्तीति कुतो नानैकान्त्यम्? अपिच संशयविपर्ययावपि ज्ञाततामुपजनयत इति त्वयाऽङ्गीकरणीयम्। समानन्यायत्वात्। ततश्च विपक्षात् प्रत्यक्षादिव सपक्षादपि व्यावृत्तेस्तवासाधारणो हेतुः स्यात्।
यद्वा ज्ञाततालक्षणस्य परिच्छेदस्यैवाप्रामाणिकत्वात् परिच्छेदकार्येव प्रमाणमित्यस्यां व्याप्तौ न प्रमाणमस्तीत्येकग्रन्थतया योज्यम्। तथाच व्यापकानुपलब्धिलिङ्गकमनुमानं दूरापास्तमिति भावः।
॥ अनधिगतार्थगन्तृत्वस्य लक्षणत्वे नित्यविषयकप्रमाणअनुमानआगम
धारावाहिकविज्ञानेषु अव्याप्तिः, स्मृत्यनुवादयोरतिव्याप्तिश्च॥
ननुचाज्ञातज्ञापकमेव प्रमाणम्, अज्ञातज्ञानमेव वा। नचैतत् स्मृत्यादावस्तीति तदप्रमाणमित्यतो वाऽऽह नेति। परिच्छेदोऽज्ञातज्ञानं, तत् कर्तुं शीलमस्यास्तीति परिच्छेदकारि। यद्वा परिच्छेद एव कार आकारः परिच्छेदकारः, सोऽस्यास्तीति परिच्छेदकारि।
किं परिच्छेदकारित्वं प्रामाण्यस्य व्याप्यव्यापकभूतं लक्षणमिति तदभावात् स्मृत्यादेरप्रामाण्यमुच्यते, किंवा व्यापकमेवेति? आद्ये परिच्छेदकार्येव प्रमाणमिति लक्षणं न प्रमा नोपपन्नमिति योजना। अव्याप्तेरतिव्याप्तेश्चेति। तथाहि धर्मिणमादायानधिगतार्थगन्तृत्वमुच्यते, प्रकारं वा? आद्ये नित्यविषयाणामप्रामाण्यापातः। व्याप्यवत्तयाऽवगतं धर्मिणं व्यापकवत्तया विषयीकुर्वतोऽनुमानस्य पृथगवगतानर्थान् संसृष्टतया गोचरयतः शब्दस्य चाप्रामाण्यप्रसङ्गः। द्वितीये तु धारावाहिकविज्ञानानामप्रामाण्यं स्यात्। नहि वैनाशिकानामिव मीमांसकानामन्य एव घटः। नापि साङ्ख्यानामिव परिणामी। नापि प्रकारमप्युपजनापायवन्तमीक्षामहे।
॥ अनधिगतवर्तमानत्वविषयकत्वाद् धारावाहिकविज्ञानानां प्रामाण्येऽभ्युपगते,
स्मृत्यनुवादयोरपि तथात्वात् प्रामाण्यमङ्गीकार्यम्॥
ननु यद्यपि स्वरूपस्य प्रकारस्य वा तादवस्थ्यम्। तथाऽपि घटोऽयं घटोऽयमिति प्रत्यक्षज्ञानधारायां वर्तमान एवार्थः परिस्फुरति। नच क्रमभाविनां ज्ञानानामेक एव वर्तमानकालो विषयः, नानाप्रतिपत्तृवज्ज्ञानयौगपद्यप्रसङ्गात्। प्रत्यभिज्ञानानुपपत्तेश्च। ज्ञानानेकत्वेऽप्येककालावस्थानाकलनात्। तस्मात् पूर्वपूर्वविज्ञानैरनाकिलत एव वर्तमानोऽर्थ उत्तरोत्तरैरवसीयत इत्यनधिगतार्थत्वमेवेति।
एवन्तर्हि स्मृत्यादेरप्यनधिगतार्थत्वमेव। स्मृतिरपि वर्तमानतत्कालतयाऽनुभूतमर्थमतीतकालतया अवगाहते। अन्यथा स इति न स्यात्। अनुवादोऽपि यदि वादविषयः, तदा स्फुटमनधिगतार्थत्वम्। यदिच पूर्वविज्ञानविशिष्टार्थगोचरः, तथाऽपि धारावाहिकसमानो न्यायः। अधिकविधानेनैकवाक्यतायामपि तथेति। संशयविपर्यासयोरप्यनधिगतविषयत्वात् प्रामाण्यं स्यात्। अनधिगततथाभूतार्थगन्तृत्वं विवक्षितमिति चेत्, न। अनधिगतविशेषणवैयर्थ्यात्। स्मृत्यादिव्यावृत्त्यर्थं तदिति चेत्, न। स्मृत्यादिकमेव कुतो व्यावर्तनीयम्? लक्षणाभावादिति चेत्, तदिदमितरेतराश्रयमिति।
॥ प्रामाण्यअनधिगतार्थगन्तृत्वयोर्व्याप्त्यभावः॥
अस्तु तर्हि व्यापकनिवृत्त्या व्याप्यनिवृत्तिरिति द्वितीयः पक्षः। स्यादप्येवम्। यदि परिच्छेदकार्येव प्रमाणमिति प्रमा प्रमाणं स्यात्, नच तदस्ति। तथाहि प्रामाण्यस्यानधिगतार्थत्वेन व्याप्तिः किं साहचर्यदर्शनमात्रात् सिद्ध्यति, उत व्यभिचारादर्शनसहकृतात्, उत विपक्षे बाधकोपेतात्। नाऽद्यः, अतिप्रसङ्गात्। न द्वितीयः, धारावाहिनि व्यभिचारदर्शनात्, अतिप्रसङ्गापरिहाराच्च। न तृतीयः, तदभावात्।
॥ प्रमाणानामधिगतार्थगन्तृत्वे परोक्तबाधकोद्धारः॥
अधिगतमेवार्थमधिगमयता प्रमाणेन पिष्टं पिष्टं स्यादिति चेत्। किमिदं पिष्टपेषणं नाम? किमधिगतेऽर्थेऽधिगत्यन्तरस्यानुदयः, किंवा विफलत्वम्, उताविशिष्टफलत्वम्, अथ अनपेक्षितफलत्वम्? नाऽद्यः, स्यादप्येवं यदि ज्ञानाभावोऽपि ज्ञानसामाग्र्यैकदेशः स्यात्। ज्ञानं वा तत्प्रतिबन्धकं भवेत्। नचैवम्। तथात्वे स्मृतेरेवानुदयप्रसङ्गः। न द्वितीयः, उक्तोत्तरत्वात्। न तृतीयः, आद्येऽप्यापत्तेः। न चतुर्थः, तृणादिदर्शने हेयदर्शने च प्रसङ्गात्।
ननुच करणविशेषः प्रमाणम्। करणं च साधकतमम्। नच साध्यसिद्धौ तज्जातीयस्यापि साधकतमत्वमस्ति, छिन्ने परशोरिवेति चेत्, मैवम्। नहि करणस्य साधकतमत्वं साधकतमान्तरापेक्षया। किन्तु प्रधानक्रियाकारकान्तरापेक्षया। अन्यथा यत्र करणानां समुच्चयः, तत्र परस्परापेक्षयाऽनतिशयितत्वादकरणत्वं स्यात्। छिन्ने कुठारस्याकरणत्वं तु फलानुदयात्। नच प्रकृते तथाऽस्तीत्युक्तमिति।
नन्वनपेक्षत्वं प्रामाण्यस्य व्यापकम्, अन्योन्यनिरपेक्षास्तु धारावाहिका बुद्धयः। अतः प्रामाण्यमश्नुवते। नचैवं स्मृत्यादीत्यप्रमाणमेवेति चेत्, न। अस्या अपि व्याप्तेरप्रामाणिकत्वादित्याह नेति। परिच्छेदोऽनपेक्षं ज्ञानम्।
किञ्चानपेक्षत्वं सर्वथा चेत्, अनित्यप्रमाणेषु नास्ति। ज्ञानान्तरानपेक्षत्वं चेत्, अनुमित्यादौ तदभावः। उत्पत्तावेवानुमित्यादिकं लिङ्गाद्यपेक्षं नार्थपरिच्छेद इति चेत्, न। ज्ञानव्यतिरिक्तस्यार्थपरिच्छेदस्यैवाभावात्। स्मृत्यादावप्येवमेव सुवचत्वाच्च। समानविषयकज्ञानानपेक्षत्वं चेत्, धर्मिणमादाय अनुमित्यादावपि तदभावः। प्रकारतोऽपि स्मृत्यादावस्तीत्यसिद्धिरिति।
अननुभवत्वात् स्मृतिरप्रमाणम्, अनुभवतत्साधनयोरेव प्रामाण्यादित्येतदप्यसत्। पूर्ववद् व्याप्तेरसिद्धेरित्याह नेति। परिच्छेदोऽनुभवः।
॥ निर्दोषार्थसन्निकृष्टनिर्दोषेन्द्रियोद्भवं ज्ञानं प्रत्यक्षम्॥
एवं प्रमाणसामान्यलक्षणमभिधाय तद्विशेषान् लिलक्षयिषुरादौ प्रत्यक्षस्योद्दिष्टत्वात् तल्लक्षणमाह निर्दोषेति।
निर्दोषाक्षोद्भवं ह्यत्र प्रत्यक्षमिति गीयते।
अत्र प्रमाणेषु। लोकवेदयोरिति वा। ननु कथमिदं विज्ञायते? किं निर्दोषरैक्षैरुद्भवो यस्येति, किंवा निर्दोषं च तदक्षोद्भवं चेति। नाऽद्यः, अव्याप्तेरतिव्याप्तेश्च। तथाहि ईश्वरादिप्रत्यक्षं नाक्षोद्भवम्, नित्यत्वात्। अक्षकार्यं क्रियादिकमपि प्रत्यक्षं स्यात्। न द्वितीयः, द्वयोरपि विशेषणत्वेन समासानुपपत्तेः। उक्ताव्याप्त्यतिव्याप्त्यनिस्ताराच्चेति।
उच्यते अस्तु तावदाद्यः। अज्ञानविपरीतज्ञानहेतुभिः काचकामलादिदोषै रहितानि यान्यक्षाणि इन्द्रियाणि तैरुद्भवो यस्येति। नचाव्याप्तिः, उद्भवशब्दस्योत्पत्त्यभिव्यक्त्यन्यतरार्थत्वात्। यथोक्तम् “सर्वमक्षात्मकं मतम्” इति। नाप्यतिव्याप्तिः, ज्ञानस्य प्रकरणप्राप्तत्वात्। तथाऽप्यक्षलिङ्गकेऽनुमाने अतिव्याप्तिरिति चेत्, न। तस्याक्षज्ञानोद्भवत्वेनाक्षमात्रोद्भवत्वाभावात्। निर्दोषाक्षोद्भवमप्यर्थदोषादयथार्थमुत्पद्यते ज्ञानम्। यथोक्तम् “अतिदूरात्, अतिसामीप्यात्, इन्द्रियदोषात्, मनोनवस्थानात्, सौक्ष्म्यात्, व्यवधानात्, अभिभवात्, समानाभिघाताच्च” इति। तथाऽपि निर्दोषार्थसन्निकृष्टेति विशेषणाददोषः।
अत्र ज्ञानग्रहणं सुखादिव्यावृत्त्यर्थमिति केचित्। तदसत्। विषयसाक्षात्कारस्यैव सुखादिहेतुत्वात्। इन्द्रियार्थसन्निकर्षस्तु तदर्थमभ्यर्थ्यते।
नन्वेवंसति सर्वार्थसाक्षात्कारवतः कुतो न तत्प्रसङ्गः? अथ न तावन्मात्रं सुखादिकारणम्। किन्नाम। धर्मादिकमपि। अतस्तदभावान्न तस्य सुखाद्युत्पाद इति चेत्, तुल्यम्। अत एव न योगिष्वपि प्रसङ्गः। तथाचाऽहुः “देहे शीतोष्णादिसम्बन्धाद्धि शीतोष्णाद्यनुभव आत्मनः। ततश्च सुखदुःखे” इति। अत्र देहशब्देन तदाश्रितानीन्द्रियाण्युपलक्ष्यन्ते।
तदयं लक्षणार्थः निर्दोषार्थसन्निकृष्टनिर्दोषेन्द्रियोद्भवं ज्ञानं प्रत्यक्षमिति। यद्वा निर्दोषार्थेन्द्रियसन्निकर्षजं ज्ञानं प्रत्यक्षमित्येवार्थः। जन्यप्रत्यक्षविषयमेव वा तद् व्याख्यायत इति नोक्तदोषः। अनुगतलक्षणसिद्ध्यर्थं तु द्वितीयं पक्षं परिगृह्णीमः। निर्दोषं यथार्थमक्षोद्भवमिति। अक्षोद्भवशब्देन च साक्षात्कारो लक्ष्यत इति न कश्चिद् दोषः। साक्षात्कारत्वं च ज्ञानगत एव विशेषो न करणोपाधिकः। तदनेन केवलं प्रत्यक्षं लक्षितम्।
॥ अनुप्रमाणप्रत्यक्षलक्षणम्॥
अत्रैव यतस्तदिति पदद्वयाध्याहारेण यथार्थापरोक्षज्ञानसाधनमित्यनुप्रमाणप्रत्यक्षलक्षणमपि व्याख्येयम्। तच्च विवक्षाभेदेन निर्दोषार्थेन्द्रियसन्निकर्षो वा, निर्दोषार्थसन्निकृष्टमदुष्टमिन्द्रियं वेति।
ननु “अदुष्टमिन्द्रियं त्वक्षम्” इति वचनादक्षशब्द एवादुष्टतामाचष्टे। तत् किमर्थं निर्दोषेत्यक्षविशेषणम्? मैवम्। इन्द्रियं त्वक्षम्, तच्चादुष्टमिह विवक्षितमिति तद्व्याख्यानात्।
नन्वेतल्लक्षणं प्रतिगतमक्षं प्रत्यक्षमित्येवं शब्दनिर्वचनादेव प्रतीयमानं लक्ष्यात् प्रत्यक्षान्न भिद्यते। नचैकस्यैव लक्ष्यलक्षणभावः सम्भवति। ज्ञातत्वाज्ञातत्वासम्भवादिति चेत्, न। अत्र प्रत्यक्षपदवाच्यतायाः साध्यत्वेन विवक्षितत्वादित्याशयेनोक्तम् इति गीयत इति।
॥ इन्द्रियाणां निर्दोषत्वस्य ज्ञानयाथार्थ्यगम्यत्वम्, अन्योन्याश्रयशङ्कापरिहारश्च॥
ननु निर्दोषतेन्द्रियाणां कुतोऽवगन्तव्या? ज्ञानयाथार्थ्यादिति चेत्, तदपि किं करणगतया निर्दोषतया ज्ञातव्यम्, किंवा विरुद्धप्रमाणाभावात्? नाऽद्यः, परस्पराश्रयतापत्तेः। न द्वितीयः, असञ्जातविरोधिविभ्रमेऽप्यापत्तेः। मैवम्। ज्ञानयाथार्थ्यस्य साक्षिसिद्धत्वाङ्गीकारात्। परीक्षापेक्षायां तु प्रबलविरोध्यभावः साचिव्यमाचरति। यथोक्तम् “बलवत्प्रमाणतश्चैव ज्ञेया दोषा नचान्यथा” इति। असञ्जताविरोधी तु विभ्रम एवेति कुतः। देशकालपुरुषान्तरसम्बन्धिविपरीतप्रमावशादिति चेत्, कथं तर्ह्यसञ्जातविरोधित्वम्। एवन्तर्हि सर्वथा विपरीतप्रमाभावोऽङ्गीकृतः स्यात्। अद्धा। सोऽपि तैस्तैः परीक्षाविशेषैर्निश्चीयते। निर्मूलं तु न शयते। अन्यथा सर्वत्रानाश्र्वासेनाभिमतमपि न सिद्ध्येदिति।
॥ गगनस्य चक्षुर्विषयत्वाभावाद् चक्षुराकाशसन्निकर्षे नातिव्याप्तिः॥
नन्विन्द्रियार्थसन्निकर्षस्य प्रत्यक्षत्वे गगननयनसन्निकर्षादपि ज्ञानमुत्पद्यताम्। मैवम्। अर्थशब्देन तत्तदिन्द्रियग्रहणयोग्यस्यैव विवक्षितत्वात्। गगनादौ च तद्योग्यताभावस्य कार्याभावादेव सिद्धेः। एतेन चक्षुरादिना गन्धादिग्रहणप्रसङ्गोऽप्यपास्तः।
॥ चक्षुषः प्राप्यकारित्वासम्भवात् तत्र सन्निकर्षाभ्युपगमोऽयुक्त इत्याशङ्कापरिहारः॥
अथ मतम् यद्याश्रिता योग्यता, किमन्तर्गडुना सन्निकर्षेण? तत्तदिन्द्रियविषयः, तेनतेनेन्द्रियेण गृह्यते। कथमन्यथा काचाभ्रपटलद्यन्तरितोपलब्धिः स्यात्? सान्तरग्रहणं च प्राप्तिपक्षे न सम्भवति। प्राप्यकारिषु त्वगादिषु तदभावात्। किञ्च नयनं चेत् प्राप्यकारि, तदा स्वसंयुक्तमात्रं गृह्णीयात्। कुठारादिषु तथा दर्शनात्। पृथुतरं च गृह्णाति। दिग्विशेषसन्देहश्चैवंसति न स्यात्। प्राप्त्या तन्निश्चयप्राप्तेः। सन्निकृष्टविप्रकृष्टयोः शाखाचन्द्रमसोर्युगपद् ग्रहणाच्च। नहि प्राप्यकारिण्येवं भवितुमर्हति।
अपिच चक्षुरप्राप्यार्थप्रकाशकम्, अत्यासन्नाप्रकाशकत्वात्; व्यतिरेकेण श्रोत्रादिवत्ः चक्षुर्गत्वा नार्थेन सम्बद्ध्यते, इन्द्रियत्वात्; स्पर्शनादिवत्। नचार्थस्याऽगमनं प्रत्यक्षविरोधात्। तथाचाप्राप्यप्रकाशकत्वसिद्धिरिति।
अत्रोच्यते विषयकरणयोर्योग्यतामात्रमुपादाय सन्निकर्षापाकरणं किं सर्वत्र, उत नयन एवेति वक्तव्यम्। न प्रथमः, अप्राप्तैरेव कुठारादिभिः काष्ठादौ छिदाद्युदयप्रसङ्गात्। घ्राणरसनस्पर्शनैरप्राप्तैरेव गन्धाद्यवबोधोदयापत्तेश्च। तथाच योग्यतावदन्वयव्यतिरेकसिद्धा प्राप्तिरपि क्रियोत्पादोपयोगिनी। न द्वितीयः, विशेषकारणाभावात्। योग्यताया अन्वयव्यतिरेकदर्शनात् प्राप्तेश्चानुपलम्भादिति चेत्, न चक्षुषोऽपि करणत्वेन्द्रियत्वाभ्यां प्राप्त्युपलम्भात्।
नन्वत्र किं गोलकं पक्षीक्रियते, उत तदतिरिक्तं चक्षुः? आद्ये प्रमाणबाधः। द्वितीये त्वाश्रयासिद्धिरिति चेत्, न। तवापि गोलकपक्षीकारे सिद्धसाधनम्। अन्यत्राऽश्रयासिद्धिरिति वक्तुं शक्यत्वात्। अथ विशेषं विहाय रूपदर्शनानुमितं करणमात्रं पक्षीक्रियत इति ब्रूषे। समं ममापि। अत एव गोलकातिरिक्तमपि तत् सेत्स्यति। सन्निकर्षश्च प्रत्यासत्तिमात्रं विवक्षितम्, न संयोगादिरिति न शब्दादिभिः व्यभिचारः।
॥ योग्यतावाद एव कल्पनागौरवप्रसङ्गः, न सन्निकर्षवादे॥
का चेयं योग्यता? यन्मात्रादसन्निकृष्टमपि चक्षुः प्रकाशयेत्। यदि रूपविशेषादिरूपा तदाऽतीतानागतयोरपि तद्भावाच्चाक्षुषतापत्तिः। सन्निकर्षार्थं खलु वर्तमानताभ्यर्थनम्। सन्निकर्षस्यान्यथासिद्धौ प्रत्यभिज्ञायां तत्तांशस्य चक्षुषाऽवभासनात् स चेदनपेक्षितः, किं तदा वर्तमानतया? अथ वर्तमानताऽपि रूपादिवद् योग्यतान्तर्गता, तदा प्रत्यभिज्ञा न सिद्ध्येत्। कुड्यादिव्यवहितप्रतीतिप्रसङ्गश्च। प्राप्तिप्रतिघातकं हि कुड्यादिव्यवधानमिति प्राप्त्यर्थं तदभावोऽन्वेषणीयः स्यात्। सा यदि नेष्यते तदा कुड्यादिकं कस्यापकुर्यात्? आवरणाभावोऽपि योग्यतेति चेत्, न। कुड्यापरभागावस्थितेनाप्यग्रहणप्रसङ्गात्। अथ नयनविषययोर्मध्ये निबिडावयवद्रव्याभावो विवक्षित इति चेत्, स्फटिकाद्यन्तरितानुपलब्धिप्रसङ्गात्। अस्वच्छद्रव्याभावो विवक्षित इति चेत्, तथाऽप्यव्यवहितदूरदर्शनापत्तिरेव। अथ क्षणभङ्गपरिणामावाश्रित्य तथाभूतस्योत्पादानुत्पादावेव योग्यतायोग्यते मन्यसे, तदा सोऽर्थः कदाचित् सर्वैरुपलभ्येत, कदाचिन्न केनापि। द्रष्टृनिबन्धनोऽपि तद्भेदोऽस्तीति चेत्, न। प्रमितसन्निकर्षपरित्यागेनाप्रमितानेककल्पनस्यानुचितत्वात्।
॥ सन्निकर्षवादसमर्थनम्॥
किञ्चासन्निकृष्टप्रतीतौ च आसन्नसन्निकृष्टविप्रकृष्टयोर्वैशद्यावैशद्ये न स्याताम्। अस्माकं तु नयनरश्मयः सम्यगासन्नेन सन्निकृष्यन्ते विप्रकृष्टेन त्वसम्यक्, प्रदीपरश्मय इवेति युक्ते प्रतीतेर्वैशद्यावैशद्ये। काचाद्यन्तरितोपलब्ध्या किमप्राप्यप्रकाशकत्वं कल्पयामः, किंवा काचादीनां प्राप्तिप्रतिबन्धकत्वाभावम्? आद्यः प्रमाणविरुद्धोऽनेकातिप्रसङ्गपराहत इति द्वितीय एवाऽश्रयणीयः। तथात्वे काचादेर्व्यूहान्तरतापत्तिरिति चेत्, न। जलानलव्यतिभेदेऽपि घटादेस्तदभावात्। तत्रापि सूक्ष्मतरतदभ्युपगमेऽत्रापि साऽस्तु। सान्तरग्रहणमप्यसन्निकृष्टस्य ग्रहणं चेदसिद्धम्। सान्तर इति ग्रहणं चेत्, प्रदीपेऽनैकान्तिकम्।
यथा खलु दीपो रश्मिभिरर्थसन्निकृष्टोऽपि स्वरूपापेक्षया सान्तर इति प्रतीयते, तथा चक्षुरप्यधिष्ठानापेक्षयेति किमनुपपन्नम्? पृथुतरग्रहणमपि नयनरश्मीनामुन्मत्तककुसुमवत् पृथ्वग्रहतयोपपत्स्यते। अप्राप्तौ त्वल्पस्यापि ग्रहणं न स्यात्। प्राप्तौ दिग्विशेषसन्देहो न स्यादिति चेत्, न। अप्राप्तौ सर्वत्र सन्देहः स्यात्। सन्देहादपि च निश्चयो महीयान्। तत्र सन्देह आगन्तुकं कारणान्तरं कल्पयिष्यति। युगपद् ग्रहणाभिमानस्तु तेजसः शीघ्र्गामितानिबन्धनो भ्रम एव। प्राप्तेः प्रमाणसिद्धत्वात्।
अपर आह नायनरश्मयः शाखाचन्द्रसंयुक्तैः सौररश्मिभिरेकीभूता युगपच्छाखाचन्द्रमसौ ग्राहयन्तीति। तदसत्। सर्वार्थग्रहणप्रसङ्गात्। अदृष्टात् तद्व्यवस्थेति चेत्, न। बाह्यसाधनसाकल्येऽदृष्टवैकल्येन कार्यानुदयस्य क्वाप्यदर्शनात्। अदृष्टवैकल्ये हि बाह्यसामग्री विकला स्यात्। अन्यथा समनस्केन्द्रियसन्निकृष्टः स्फीतालोकमध्यमध्यासीनोऽपि घटः कदाचिन्नोपलभ्येत। अप्राप्यार्थप्रकाशकमिति चाप्रसिद्धविशेषणता। अत्यासन्नाप्रकाशकत्वं प्राप्यप्रकाशकेषु घ्राणादिष्वपि विद्यते। स्वगतगन्धादेरग्रहणात्। परस्यैवात्यासन्नकाचाद्यग्रहणमयुक्तम्। योग्यताया अनपायात्।
गत्वा नार्थेन सन्निकृष्यत इत्यत्र किं गतिप्रतिषेधः साध्यः, किंवा सन्निकर्षप्रतिषेधः, उतोभयप्रतिषेधः? नाऽद्यः, कालातीतत्वात्, अनैकान्त्याच्च। न द्वितीयः, अनैकान्तिकत्वादेव। अत एव न तृतीयोऽपि। विशिष्टनिषेधोऽयमिति चेत्, न। सोऽपि विशेषणाभावेन वेत्यादिविकल्पदूषणानिस्तारात्। सन्निकर्षार्थं गतिमन्न भवतीति साध्यमिति चेत्, न। स्पर्शनादावनैकान्त्यात्। शीतजलसन्निकर्षार्थं त्वगिन्द्रियगतये हि शरीरपरिस्पन्दो भवति।
अथायमभिप्रायः अधिष्ठानाद् बहिर्न गच्छतीति। तदेन्द्रियत्वे समानेऽपि घ्राणादीनामतैजसानामनेवम्भावः। चक्षुषस्तु तैजसस्येत्थम्भूतताङ्गीकारे बाधकाभावादप्रयोजकत्वम्। चाक्षुषरश्मीनामुपलब्धिप्रसङ्ग इति चेत्, न। अतीन्द्रियत्वोपपत्तेः। महत्तेजोजातीयमैन्द्रियकमुपलब्धमिति चेत् चाक्षुषमप्युपलब्धमिति वारिस्थं तथा स्यात्। अदृष्टवशादनुद्भूतरूपं तदिति चेत्, इदमप्यनुद्भूतरूपस्पर्शं कुतो न कल्प्यते? कल्पिकायां प्राप्यकारितायां प्रमाणस्योक्तत्वात्। (५००)
यदिच नयनं निर्गत्यार्थं गृह्णीयात्, तदा उन्मील्य निमीलनेऽप्यर्थप्रतिपत्तिः स्यात्। यदि चाक्षुषमधिष्ठानातिरिक्तं स्यात्, अधिष्ठानोपघातचिकित्से व्यर्थे स्यातामिति तु प्रदीपेन समानयोगक्षेमम्।
अपिच च्छायायामुपविष्टस्याप्यातपालोकनेन नयनस्याशिशिरत्वम्, आतपोपविष्टस्यापि शिशिरद्रव्यावलोकनेन शिशिरत्वं चैतमेवार्थं गमयतः। नह्यप्राप्तावेतदुपपद्यते। तदेतदखिलमपि प्रमाणप्रसिद्धमिति किमत्र वक्तव्यमिति हिशब्देनाऽचष्टे। (४९८)
॥ साक्षिप्राकृतभेदेन इन्द्रियद्वैविध्यम्॥
यदक्षविशेषणं निर्दोषत्वमुक्तं तद्व्यवच्छेद्यं दर्शयितुमक्षभेदं तावदाह प्राकृतमिति।
प्राकृतं शुद्धचैतन्यमक्षं तु द्विविधं मतम्।
प्रकृतिशब्देनाहङ्कारः पञ्चभूतानि चोच्यन्ते। सूक्ष्मरूपेण नित्यमप्यहङ्कारभूतांशैरुपचितत्वात् प्राकृतम्। शुद्धमित्यस्यैव विवरणम् चैतन्यमिति। चेतिशब्दावध्याहार्यौ। तुशब्देनाचैतन्यमेवेन्द्रियं तच्चाहङ्कारिकमेवेति वदतां साङ्ख्यादीनाम्, भौतिकमेवेति भाषमाणानां वैशेषिकादीनाम्, द्रव्येन्द्रियभावेन्द्रियभेदाद् द्विविधमिति जल्पतां जैनानां च मतं व्यवच्छिनत्ति। मतमिति स्वोक्तार्थस्य प्रमितत्वमाह। तत्र जडचैतन्यभेदमनुपदमेवोपपादयिष्यति। जडस्य च नित्याहङ्कारिकभौतिकत्वम्
“सूक्ष्मेन्द्रियाणि सन्त्येव स्युः स्थूलान्यप्यहङ्कृतेः।
तेषां भूतैरुपचयः सृष्टिकाले विधीयते”
इत्यादिस्मृतिसिद्धम्।
॥ इन्द्रियाणां भौतिकत्वसाधकानुमानचतुष्टयनिरासः॥
नच केवलाहङ्कारिकत्वे भौतिकत्वे वा प्रमाणमस्ति। कपिलादीनामाप्तत्वासिद्धेः। घ्राणं पार्थिवम्, रसाव्यञ्जकत्वे सति गन्धव्यञ्जकत्वात्; कुङ्कुमगन्धाभिव्यञ्जकघृतवत्। रसनमाप्यम्, रूपाव्यञ्जकत्वे सति रसव्यञ्जकत्वात्; लालावत्। चक्षुस्तैजसम्, स्पर्शाव्यञ्जकत्वे सति रूपव्यञ्जकत्वात्; प्रदीपवत्ः स्पर्शनं वायवीयं शब्दाव्यञ्जकत्वे सति स्पर्शव्यञ्जकत्वात्; व्यजनवातवदिति।
अत्र पार्थिवत्वादिमात्रसाधने सिद्धसाधनत्वम्। तन्मात्रत्वसाधने दृष्टान्तानां साध्यवैकल्यम्, सर्वत्र पाञ्चभौतिकत्वाभ्युपगमात्। सर्वत्र चादृष्टेन व्यभिचारः। तत् सर्वव्यञ्जकमिति चेत्, किं व्यक्तिपुरस्कारेणोच्यते, उतोपाध्यवच्छेदपुरस्कारेण? नाऽद्यः, यददृष्टमेकैकव्यञ्जकं तत्र व्यभिचारानिस्तारात्। तन्न निश्चितमिति चेत्, तथाऽपि सन्दिग्धव्यभिचारिता। न द्वितीयः, इन्द्रियत्वावच्छेदेनासिद्धेः।
किञ्च पार्थिवादिपदैः पृथिवीत्वाद्यभिधाने तत्तत्सन्निकर्षैरनैकान्त्यम्। इन्द्रियत्वेन हेतुविशेषणे दृष्टान्तानां साधनवैकल्यम्। पृथिव्यादिकार्यतासाधने प्रागुक्तसिद्धसाधनतापरिहाराय मात्रपदप्रयोगे पृथिव्यादिरूपादिव्यञ्जकसन्निकर्षेषु व्यभिचारतादवस्थ्यम्।
अपिच चर्मादिगन्धव्यञ्जकत्वं जलादेः, रसव्यञ्जकत्वं लवणादेः, रूपव्यञ्जकत्वमञ्जनादेः, स्पर्शव्यञ्जकत्वं कर्पूरादेरप्यस्तीति व्यभिचार एवेति।
॥ उपपत्त्या इन्द्रियद्वैविध्यसमर्थनम्॥
इन्द्रियद्वैविध्यस्य प्रमितत्वमुक्तम्। तत् कथमित्यत आह शुद्धमिति।
शुद्धमीशरमामुक्तेष्वन्यत्र प्राकृतैर्युतम्॥२७॥
प्राक् प्रसिद्धितारतम्यमपेक्ष्योद्देशेऽपि प्राधान्यतारतम्यापेक्षयोपपादनमिति द्रष्टव्यम्। अन्यत्र संसारिषु। प्राकृतैरक्षैर्युतं शुद्धमस्तीत्यर्थः।
अयमभिसन्धिः उपपादयिष्यते हीशरमामुक्तानामक्षवत्ता। (५९६,८३१,१३४५) नच तदक्षं प्राकृतमिति युक्तम्। निर्गुणत्वादिश्रुतिस्मृतिविरोधात्। ततस्तच्छुद्धचैतन्यमेव भवितुमर्हति। संसारिषु चाक्षवत्ता सुप्रसिद्धा। नच तन्मुक्तावक्षप्रतिपादकप्रमाणबलायातं शुद्धमेवास्त्विति युक्तम्। संसारेऽपि सम्यग्ज्ञाननियमाद्यापत्तेः। अतस्तत्र प्राकृतं शुद्धं चेति द्विविधमप्यस्तीति स्वीकार्यम्। ततः सिद्धमुक्तरूपाक्षद्वैविध्यमिति।
परैरीशलक्ष्म्योर्लीलाविग्रहग्रहणाङ्गीकारिभिस्तदक्षस्य प्राकृतत्वमङ्गीक्रियते। तान् प्रति किं वादान्तरेणेति मुक्तग्रहणम्। स्वमते मुक्तानां लीलाविग्रहस्वीकारात्। किमन्यदाऽपीन्द्रियोपपादनायासेनेतीशरमेति।
॥ इन्द्रियाणां सदोषत्वनिर्दोषत्वव्यवस्था॥
किमतो यद्येवमक्षद्वैविध्यमित्यत आह निर्दोषमेवेति।
निर्दोषमेव चैतन्यमन्यत्रोभयमिष्यते।
तत्रोत्तमजीवसम्बन्धिचैतन्यमक्षं निर्दोषमेवेत्यर्थः। अन्यत्रापि निर्दोषतासद्भावादेवेत्युक्तम्। अन्यत्र मध्यमजीवसम्बन्धिचैतन्ये। सर्वत्र प्राकृते चाक्षे निर्दोषत्वं सदोषत्वं चोभयं कालादिभेदेनेष्यते। अधमसम्बन्धिचैतन्ये तु सदोषत्वमेवेति शेषः। इष्यते प्रामाणिकैरिति। अनेनाऽगमम्, कार्यलिङ्गकमनुमानं चात्रार्थे दर्शयति। यावदत्र सदोषमुक्तं तन्निर्दोषग्रहणव्यवच्छेद्यमिति भावः।
॥ संसारिणां साक्षीन्द्रियवत्त्वप्रतिपादनम्॥
ननुच संसारिषु प्रवृत्तिसिद्ध्यर्थमिन्द्रियमवश्यमङ्गीकरणीयम्। नच तच्छुद्धम्, उक्तानुपपत्तेः। अतः प्राकृतेनैव सर्वस्योपपत्तेः संसारिषु शुद्धेन्द्रियाभ्युपगमो निर्बीज एव। नच मुक्तौ शुद्धसद्भावात् प्रागपि तदङ्गीकरणीयम्। मुक्तिवच्छुद्धेन्द्रियस्यापि पश्चात् प्राप्त्युपपत्तेरित्यत आह सुखेति।
सुखदुःखादिविषयं शुद्धं संसारगेष्वपि॥२८॥
न केवलमीशरमामुक्तेषु किन्तु संसारगेष्वपि शुद्धमिन्द्रियमङ्गीकरणीयम्। कुतः? सुखदुःखादिविषयम्। अयमर्थः अस्ति तावत् संसारिणां सुखदुःखेच्छादिविषयोऽपरोक्षावभासः। लिङ्काद्यननुसन्धानेनैवाहं सुखीत्यादिस्पष्टावभासदर्शनात्। नचेन्द्रियविषयतामन्तरेणापरोक्षावभासित्वं सुखादीनां युक्तम्। धर्मादेरपि तत्प्रसङ्गात्। तस्मात् सुखदुःखादिविषयमिन्द्रियमङ्गीकर्तव्यम्। तदेव शुद्धमिति।
॥ सुखादिविषयस्येन्द्रियस्य साक्षित्वम्॥
अस्तु सुखदुःखादिविषयमिन्द्रियं संसारिषु। तच्छुद्धमिति कुतः? प्राकृतेनापि तदपरोक्षावभासोपपत्तेरित्यत आह निर्दोषत्वेति।
निर्दोषत्वातिनियमात् तद् बिलष्ठतमं मतम्।
तत् सुखादिविषयमिन्द्रियं तावद् बिलष्ठतमं सर्वथाऽप्यबाध्यं मतं सर्वेषां सम्मतम्। नहि कदाचिदप्यसति सुखे अहं सुखीति प्रत्ययोऽस्ति। नापि सति नास्मि सुखीति। तथाहिसति इन्द्रियस्य बाध्यता स्यात्। बिलष्ठतमता चेन्द्रियस्य निर्दोषत्वादिनियमादेव उपपद्यते नान्यथा। सदोषाणां बाधदर्शननियमात्। निर्दोषत्वातिनियमश्च शुद्धस्यैव धर्मो न प्राकृतस्य इति सुखादिविषयस्येन्द्रियस्य शुद्धतासिद्धिरिति।
एतदुक्तं भवति सुखादिकमिन्द्रियविषयः, अपरोक्षावभासित्वात्; घटवत्। सुखादिविषयमिन्द्रियं शुद्धम्, निर्दोषतानियमवत्त्वात्; ईश्वरादीन्द्रियवत्। विमतं निर्दोषतातिनियमवत्, सर्वथाऽप्यबाध्यत्वात्; तद्वदेवेति।
यद्यपि मुक्तानां शुद्धेन्द्रियवत्त्वेन संसारिणां तद्वत्ता शक्यसाधना, तस्य तत्स्वरूपतावगमात्। स्वरूपस्य चानागन्तुकत्वात्। तथाऽपि साक्षिणो यत् प्रत्यक्षत्वमुक्तम्, तद् विभावयितुमयं प्रमाणान्तरोपन्यासः। सुखादिविषयं स्वरूपभूतं चैतन्येन्द्रियं हि साक्षीत्युच्यते, तदभिव्यक्तं ज्ञानं चेति।
॥ प्राकृतेन्द्रियस्य षाड्विध्यम्॥
ननु प्राकृतशुद्धभेदात् द्विविधमिन्द्रियमित्यसत्। “श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च। अधिष्ठाय मनश्चायम्” इति पञ्चेन्द्रियमनोभेदेनेन्द्रियषाड्विध्यस्मरणविरोधादित्यत आह पञ्चेति।
पञ्चेन्द्रियमनोभेदात् प्राकृतं षड्विधं स्मृतम्॥२९॥
यत् पञ्चेन्द्रियमनोभेदादिन्द्रियं षड्विधमिति स्मृतम्, तत् प्राकृतम्, नतु सर्वमित्यतो न विरोधः। ज्ञानेन्द्रियाणामेवात्र विवक्षितत्वान्नैकादशत्वोक्तिविरोधः। बुद्धेरपि मनस्यन्तर्भावान्न सप्तत्वविरोधः।
॥ श्रोत्रमनसोः प्राकृतत्वेऽनुपपत्तिपरिहारः॥
नन्वाकाशात्मकस्य श्रोत्रस्य कथं प्राकृतत्वम्? मैवम्। भूताकाशपरिणामत्वाभ्युपगमात्। अव्याकृताकाशात्मकत्वे सार्वत्रिकशब्दोपलब्धिप्रसङ्गः। कर्णशष्कुल्यवच्छेदाङ्गीकारेऽपि बधिराभावप्रसक्तिः। अदृष्टोपग्रहान्नेति चेत्, न। तथासत्याकाशस्यैव तत्तदवच्छिन्नस्यादृष्टोपगृहीतस्य घ्राणादिभावोपपत्तौ पार्थिवत्वाद्यभ्युपगमवैयर्थ्यात्। गन्धादिमत्त्वात् तत्सिद्धिरिति चेत्, न। असिद्धे;। यदिन्द्रियं यं विशेषगुणं गृह्णाति तत् तद्वदिति व्याप्तेः सुखादिग्राहिणि मनसि, सांसिद्धिकद्रवत्वस्नेहग्राहिणि चक्षुषि, शीतोष्णस्पर्शग्राहिणि स्पर्शने च भग्न्त्वात्। आगमात् पृथिव्यादिप्राकृतिकताऽवगम्यत इति चेत्, तर्ह्यहङ्कारिकाकाशकार्यता श्रोत्रस्यापि तत एवाङ्गीकरणीया।
ननु मनोऽनादिनित्यं कथं प्राकृतम्? मैवम्। प्रमाणाभावात्। स्पर्शरहितद्रव्यत्वादेः सत्त्वान्नेति चेत्, न। तमस्यस्माकमनैकान्त्यात्। नित्यत्वादिमात्रसाधने सिद्धसाधनत्वात्। कूटस्थतासाधने त्वागमविरोधादिति।
॥ अनुमित्यमानयोः लक्षणे॥
क्रमप्राप्तं केवलमनुप्रमाणं च अनुमानं लक्षयति अनुमेति।
अनुमा युक्तिरेवोक्ता.................।
अत्रानुमेति लक्ष्यम्। युक्तिरिति लक्षणम्। यदिच युक्तेरेव बहुशः प्रकृतत्वात् तत्स्वरूपजिज्ञासायामिदं प्रवृत्तम्, तदा विपरीतो लक्ष्यलक्षणभावः।
नन्वनुमा युक्तिरिति पर्यायावतौ। तथाहि फलप्रामाण्यपक्षेऽनुमितिरनुमेति भावसाधनोऽनुमाशब्दो लिङ्गदशनसमुत्थं लैङ्गिकविषयमनुमितिनामकं यथार्थज्ञानमाह। तदेव योजनं युक्तिरिति युक्तिशब्दोऽपि। साधनप्रामाण्यपक्षेऽप्यनुमीयतेऽनयेति करणसाधनोऽनुमाशब्दो यमर्थमाचष्टे तमेव युज्यतेऽनयेति युक्तिशब्दोऽपि। तत् कथं लक्ष्यलक्षणभाव इत्यत उक्तम् उक्तैवेति। अत्रापि व्यवहार एव साध्यो नत्वनुमात्वं, युक्तित्वं वा, येनोक्तदोषः स्यादिति भावः।
॥ लक्षणे निर्दोषपदोपादानस्य विवक्षाधीनत्वम्॥
ननु युक्त्युपपत्तिशब्दावेकार्थौ। तथाचान्यत्र “निर्दोषोपपत्तिरनुमा” इत्यादौ यदि निर्दोषग्रहणस्य व्यावर्त्यमस्ति, तदाऽत्रापि तत् कर्तव्यं स्यात्। अन्यथाऽतिव्याप्तिप्रसङ्गात्। नास्ति चेत्, न तत् कर्तव्यमिति।
उच्यते अस्ति खलु शब्दानां मुख्यामुख्यभेदेन द्वयी वृत्तिः। एवञ्चोपपत्तिशब्दादुपपत्ताविव तदाभासेऽपि प्रतिपत्तावुत्पन्नायां तद्व्यवच्छेदेन मुख्यार्थोपदर्शनार्थं तत्र निर्दोषग्रहणं कृतम्। अत्र पुनरन्तर्गतनिर्दोषत्वं मुख्यमेवार्थमुपादाय युक्तिरित्येवोक्तम्। समीचीनो हेतुरनैकान्तिको हेतुरिति यथेति। तदिदमप्युक्तम् युक्तिरेवेति। नतु निर्दोषत्वविशेषिता। युक्तिशब्दमुख्यार्थविवक्षायां तदनपेक्षणादिति शेषः।
अथवा नेदं पर्यायलक्षणम्। किन्नाम। युज्यते सम्बद्ध्यते इति युक्तिरनुमोक्तेति योज्यम्। नन्वेवंसति विरुद्धानध्यवसितव्यवच्छेदेऽप्यनैकान्तिकस्यानुमानत्वं स्यादित्यतो युक्तिरेवेत्युक्तम्। युज्यत एव नतु वियुज्यतेऽपीत्यर्थः। प्रमेयत्वादिकं ह्यनित्यत्वादिना युज्यते, न युज्यते च। नतु युज्यत एव। तदनेन साहित्यनियमवद् व्याप्यं, लिङ्गम्, अनुमानमिति चोच्यत इत्युक्तं भवति।
॥ अनुमानस्य तादात्म्यादिसम्बन्धविशेषवत्त्वनिरासः॥
सौगतास्तु मन्यन्ते तादात्म्यतदुत्पत्ती एवानुमानाङ्गभूतौ सम्बन्धाविति। वैशेषिकास्तु अस्येदं कार्यं कारणं सम्बन्ध्येकार्थसमवायि विरोधि चेति लैङ्गिकनिमित्तसम्बन्धान् परिसञ्चक्षते। एवं
“मात्रानिमित्तसंयोगिविरोधिसहचारिभिः।
स्वस्वामिवध्यघाताद्यैः साङ्ख्यानां सप्तधाऽनुमा”
इति साङ्ख्याः परिसङ्ख्यातवन्तः। तत् सर्वमपाकर्तुं वा युक्तिरेवेत्यवधारणम्। नियतसम्बन्धवदेवानुमानं न सम्बन्धविशेषवदित्यर्थः। एतच्चोपपादयिष्यामः। (९४०, अनुपदं च)
॥ पक्षधर्मताया अनुमानाङ्गत्वनिरासः॥
केचिदाहुः पक्षधर्मताऽप्यनुमानाङ्गमिति। तदप्यपाकुर्वन्नुक्तमेव विवृणोति व्याप्तिरेवेति।
................... व्याप्तिरेव तु सा स्मृता।
विशेषेणाऽप्यत इति व्याप्तिः। यदव्यभिचरितसाहित्योपेतमेव लिङ्गं साऽनुमा। न पक्षधर्मताऽवश्यभ्माविनीत्यर्थः। यद्वा व्याप्तिरिति भावसाधनः। तथात्वे व्याप्तिरेव साऽनुमेति गौणो निर्देशः। व्याप्तिरेवानुमानाङ्गं न पक्षधर्मतेत्यर्थः। उपपादयिष्यते चैतद् व्यधिकरणस्यापि साधकतामुपपादयता आचार्येणैव। (९४०) एतेन
“ज्ञातसम्बन्धनियमस्यैकदेशस्य दर्शनात्।
एकदेशान्तरे ज्ञानमनुमानमबाधितम्”
इत्यपि निरस्तम्। एकदेशतानियमस्याप्रयोजकत्वात्।
॥ अनुमानस्य पञ्चरूपोपन्नत्वनिरासः॥
यदुक्तं पक्षधर्मत्वम्, सपक्षे सत्त्वम्, विपक्षाद् व्यावृत्तिः, अबाधितविषयत्वम्, असत्प्रतिपक्षत्वमिति पञ्चरूपोपपन्नमनुमानमिति। यथाऽऽह
“अनुमेयेन सम्बद्धं प्रसिद्धं च तदन्विते।
तदभावे च नास्त्येव तल्लिङ्गमनुमापकम्” इति।
अत्राबाधितविषयत्वमसत्प्रतिपक्षत्वं च चशब्दसङ्गृहीतमिति। तदसत्। केवलान्वयिनो विपक्षाद् व्यावृत्त्यभावेन केवलव्यतिरेकिणश्च सपक्षे सत्ताभावेनाव्यापकत्वात्। क्वचिच्चतूरूपोपपन्नत्वम्, क्वचित् पञ्चरूपोपपन्नत्वमिति चेत्, न। एकप्रयोजकालाभात्। व्याप्तिपक्षधर्मतौपयिकत्वेनैषां ग्रहणम्। वस्तुतस्तु त एवानुमानाङ्गमिति चेत्, न। पक्षधर्मताया अप्यप्रयोजकत्वात्। तथाच व्याप्तिरेव प्रयोजिकेति वक्तव्यम्। किमनेन जल्पितेनेत्याह व्याप्तिरेवेति। अविनाभावो व्याप्तिः।
॥ व्याप्तिद्वैविध्यनिरासः॥
 सा द्विविधा अन्वयव्यतिरेकभेदात्। साध्येन साधनस्य व्याप्तिरन्वयः। साधनाभावेन साध्याभावस्य व्याप्तिर्व्यतिरेक इति केचिदाचक्षते। तद्द्वैविध्यं तुशब्देन व्यवच्छिनत्ति। तथाहि योऽग्निमान्न भवति स धूमवान्न भवतीति व्यतिरेकव्याप्तिः किं धूमेनाग्न्सिाधन उपयुज्यते, किंवाऽग्न्यभावेन धूमाभावसाधने? नाऽद्यः, यो धूमवानसावग्निमानित्यन्वयव्याप्त्यैव तत्सिद्धेः। अन्यथा केवलान्वयवतोऽसाधकत्वप्रसङ्गात्।
किञ्चात्राभावयोर्व्याप्यव्यापकभावो, भावेन भावसाधनमिति सुभाषितम्। अन्यगतया व्याप्त्या अन्यस्य साधकत्वेऽतिप्रसङ्गात्। यदभावयोर्व्याप्यव्यापकभावः, तयोरेव साध्यसाधनभाव इत्यभ्युपगमे नातिप्रसङ्ग इति चेत्, न। तथाऽपि व्याप्यं लिङ्गमित्यस्याव्याप्तिप्रसक्तेः। यदभावो यदभावस्य व्यापकः स तस्य व्याप्य इति नियमाददोष इति चेत्, न। तर्हि न व्यतिरेकव्याप्तिः प्रकृतसाध्यसिद्ध्युपयोगिनी। किन्नाम। प्रकृतसाधनव्याप्तिसाधनोपयोगिनी। तत्रचान्वयिरूपतैव तस्याः। द्वितीयस्त्विष्यत एव। किन्नाम। साऽप्यन्वयरूपैवेति न सर्वथा व्याप्तिद्वैविध्यं सम्भवतीति।
॥ अनुमानत्रैविध्यनिरासः॥
एतेनानुमानस्य केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिभेदेन त्रैविध्यमपि परास्तम्। व्यतिरेकव्याप्तेरनुमानानङ्गत्वात्। सद्भावमात्रेण व्युत्पादनस्यातिप्रसङ्गित्वात्।
॥ केवलव्यतिरेकिनिरासः॥
कथन्तर्हि केवलव्यतिरेकिणो गमकत्वमिति चेत्, कोऽयं केवलव्यतिरेको नाम? केवलो व्यतिरेक एव यस्यासाविति चेत्, तर्हि कथमत्यन्तासतोः साध्यसाधनता स्यात्? दृश्यते तावदिति चेत्, न। यतस्तस्यान्यैव गतिः। प्राणादिमत्त्वस्य सात्मकत्वेन व्याप्तिर्जीवच्छरीर एव गृहीता। अतस्तत्रैव विप्रतिपत्तौ न सोपदर्शयितुं शक्याऽभूत्। व्याप्तिमात्रमेवानुमानाङ्गम्, न पुनः सपक्षे तदुपदर्शनमपीत्यतो व्यतिरेकयोर्व्याप्त्या तदुपपादनं क्रियते।
अयमत्र प्रयोगक्रमः जीवच्छरीरं सात्मकम्, प्राणादिमत्त्वात्; यत् प्राणादिमत् तत् सात्मकम्, प्राणादिमच्चेदम्, तस्मात् सात्मकमिति प्रयुक्ते धूमस्याग्न्निेवास्य न व्याप्तिर्दृश्यते। तत् कथमित्याकाङ्क्षायां प्रयोगान्तरं प्रवर्तते। प्राणादिमत्त्वं सात्मकत्वेन व्याप्तम्, तदभावव्यापकाभावत्वात्; यो यदभावव्यापकाभावः, स तद्व्याप्तो यथा धूमोऽग्न्निेति। तेदतावति वक्तव्ये यदन्यथा प्रयुज्यते तद् विवेकिनां स्फुटप्रतीतिकतया, सङ्ग्रहरुचितया वेति।
॥ यद्देशकालसम्बद्धस्य यस्य यद्देशकालसम्बद्धेन येन विनाऽनुपपत्तिः, तस्य तत्साधकत्वम्॥
स्यादेतत्। व्याप्यं चेदनुमानं तदा धूमः शब्दानित्यत्वेऽप्यनुमानं स्यात्। व्याप्तो हि सोऽप्यग्न्निेति। मैवम्। व्याप्यमित्यस्य सम्बन्धिशब्दत्वात्। तथाच यो येन व्याप्यः स तस्मिन्ननुमानमित्युक्तं स्यात्। नचैवमतिप्रसङ्गोऽस्ति।
॥ धर्माणां स्थितिकथनम्॥
द्विविधा हि धर्मा भवन्ति। केचित् परस्परपरिहारेणैव वर्तमानाः, यथा कृतकत्वनित्यत्वे, स्वातन्त्र्यपारतन्त्र्ये चेत्येवमादयः। केचित् समाविष्टाः। तेऽपि त्रिविधाः। केचित् सङ्कीणाः। परस्परपरिहारेणैव वर्तमानयोरेकत्र समावेशः सङ्करः। यथा भूतत्वमूर्तत्वे, पुरुषत्वपाचकत्वे चेत्येवमादयः। केचित् परापरभावावस्थिताः, यथा सत्त्वद्रव्यत्वे, धूमवत्त्वाग्न्मित्त्वे चेत्येवमादयः। केचित् तुल्यवृत्तयः, यथा कृतकत्वानित्यत्वे, गुरुत्वरसवत्त्वे चेत्येवमादयः।
तत्राऽद्यानां परस्परसम्बन्ध एव नास्तीति नानुमानानुमेयभावः। विरुद्धसमाख्यया तेऽभिधीयन्ते। द्वितीयानामपि सत्यपि सम्बन्धे परस्परव्यभिचारेण व्याप्यव्यापकभावाभावान्नानुमानानुमेयता। किन्तु परस्परमनैकान्तिकतयाऽभिधीयन्ते। तृतीयेष्वपरेषां व्याप्यतया परेषां व्यापकतयाऽस्त्यनुमानानुमेयत्वम्। परे त्वव्याप्यतया नापरेष्वनुमानतामश्नुवते। किन्नाम। अनैकान्तिका एव। चतुर्थास्तु परस्परं व्याप्यव्यापकभावादन्योन्यमनुमानतामर्हन्तः प्रसिद्ध्यप्रसिद्धिभ्यां विशिष्यन्त इति सङ्क्षेपः।
॥ व्याप्तिस्मरणसहितव्याप्यज्ञानस्यैव अनुमितिजनकत्वम्॥
नन्वेवमपि धूमेनाग्न्ज्ञिानं सर्वेषां स्यादित्यत उक्तम् स्मृतेति। प्रमितत्वस्योपलक्षणमेतत्। स्मृता व्याप्तिरेव प्रमितमेव व्याप्यमनुमा। नत्विन्द्रियवत् सत्तामात्रेण प्रमाकरणमित्यर्थः।
ननु तथाऽपि नारिकेलद्वीपवासिनो धूमदर्शनादग्न्यनुमितिप्रसक्तिः। मैवम्। व्याप्यस्वरूपप्रमितिवद् व्याप्तिप्रमितेरप्यपेक्षितत्वात्। तथाऽपि गृहीतास्मृतव्याप्तेस्तदवस्थः प्रसङ्ग इत्यत उक्तम् स्मृतेति। स्मृता व्याप्तिरेव साऽनुमोपयोगिनीत्यर्थः। तथाच व्याप्तिस्मरणसव्यपेक्षं व्याप्यज्ञानमनुमानमित्युक्तं भवति।
॥ नैयायिकप्रभाकरमतपरीक्षा॥
लिङ्गपरामर्शोऽनुमानम्, परामर्शश्चानुसन्धानात्मकं तृतीयं ज्ञानमिति कश्चित्। तथाहि महानसादौ धूमस्याग्न्निा व्याप्तिग्रहणसमये यज्ज्ञानम्, तत् प्रथमम्। गृहीतव्याप्तिकस्य पर्वतादौ यद् धूमज्ञानम्, तद् द्वितीयम्। ततः सम्बन्धिदर्शनसमुद्बुद्धसंस्कारकारणकस्य यो धूमवानसावग्निमानिति व्याप्तिस्मरणस्य अनन्तरमयं चाग्न्व्यिाप्तधूमवानिति प्रतिसन्धानात्मकं यद् धूमज्ञानम्, तत् तृतीयमनुमानमिति।
तदतेदन्यो न मन्यते। व्याप्तिस्मरणं पक्षधर्मताज्ञानमित्येतावदेव ह्यनुमानसामर्थ्यम्। तत्राननुभूताया व्याप्तेः स्मर्तुमशक्यत्वात् प्रथमं ज्ञानमिष्यते। द्वितीयज्ञानमपि पक्षधर्मताविषयत्वादङ्गीक्रियते। ततो व्याप्तिस्मृतौ सत्यां किमपरमवशिष्यते यदर्थं तृतीयं ज्ञानमेष्टव्यमिति।
स स्थूलदृश्वेत्याद्यः। न खलु विशकिलते व्याप्तिस्मृतिपक्षधर्मताज्ञाने भावयतोऽनुमितिः। परस्परवार्तानभिज्ञयोः सहकारितानुपपत्तेः। किन्तु सङ्किलते। नच तत् सङ्किलतत्वं विना तृतीयज्ञानादिति कथं तन्नैष्टव्यम्? आत्मा सङ्कलयतीति चेत्, सत्यम्। वृत्त्या ह्यसौ सङ्कलयेत्, नतु स्वरूपेणैव। नचैवं तदेवास्त्विति वाच्यम्। पूर्वेण विना तदनुपपत्तेरिति।
वयं तु ब्रूमः यत्र लिङ्गदशनादेव व्याप्तिस्मृतिः, अस्तु तत्रोक्तप्रकारः। यदातु गृहीतव्याप्तेर्विनाऽपि लिङ्गदशनाद् वचनादिनैव व्याप्तिस्मृतिराविरस्ति तदा द्वितीयमेव लिङ्गदशनं प्रतिसन्धानात्मकमुदेष्यतीति नावश्यम्भाविनीयं प्रक्रिया। यथा खलु संस्कारसाहित्ये सतीन्द्रियसन्निकर्षादेव सोऽयमिति प्रत्यभिज्ञा जायते, तथाऽत्रापीत्यङ्गीकारे न कश्चिद् विरोध इति।
ननु व्याप्तिरेव केन प्रमाणेन ग्राह्यः? यथायथं प्रत्यक्षानुमानागमैरित्युक्तम्। (४७६) यथाचैतत् तथा वक्ष्यामः। (६९२)
॥ अनुमानस्य स्वार्थपरार्थभेदेन द्वैविध्यम्॥
द्विविधमनुमानम् स्वार्थं परार्थं चेति। तत्र यत् परोपदेशानपेक्षं व्याप्तिस्मृतिमद्व्याप्यदर्शनं तत् स्वार्थम्। परोपदेशापेक्षं तु परार्थम्।
॥ परार्थानुमानस्य पञ्चायवयवत्वनियमाभावः॥
ससामर्थ्यलिङ्गप्रतीतिजनकं वाक्यं परोपदेशः। तच्च प्रतिज्ञाहेतूदाहरणोपनयनिगमनैः पञ्चभिरवयवैरुपेतमित्येके। तमिमं नियममरोचयमान आह उक्तेति। उक्ता व्याप्तिरेव साऽनुमा। व्याप्त्युक्तिरेव परोपदेश इति यावत्। एवशब्दो नियमनिराकरणपरो न पुनः पक्षान्तरनिवृत्त्यर्थः। पक्षान्तरस्य स्वयमेव वक्ष्यमाणत्वात्। (५१४)
ननु यो धूमवान् सोऽग्निमानिति व्याप्त्युक्तिः कथं प्रत्यायनाङ्गम्? वादिप्रतिवादिनोरन्योन्यस्मिन्ननाश्र्वासादित्यत उक्तम् स्मृतेति। तुशब्दश्चशब्दार्थो जिज्ञासितेति समुच्चिनोति। गृहीतव्याप्तेस्तदुक्तिः स्मरणहेतुरगृहीतव्याप्तेस्तु जिज्ञासाजनिकेत्युच्यते। नत्वागमतयोपयुज्यत इत्याशयः।
॥ व्याप्तिवचनमेव परोपदेशः॥
ननु व्याप्त्युक्तिरेव परोपदेश इत्ययुक्तम्। प्रथमत एव व्याप्त्युक्तेरसङ्गतत्वादित्याशङ्कां परिहरन् “उक्ता व्याप्तिरेव सा” इति प्रतिज्ञातमुपपादयति प्रतिज्ञातेति।
प्रतिज्ञातार्थसिद्ध्यर्थं व्याप्तिरेव यदोदिता॥३०॥
अवशिष्टं किमत्रास्ति..................।
प्रतिज्ञातार्थसिद्ध्यर्थमित्यसङ्गतेः परिहारः। तदेत्यध्याहार्यम्। किमाक्षेपे। अत्र वक्तव्ये।
एतदुक्तं भवति यो हि पर्वतमग्न्मिन्तं प्रतिपद्यमानः परेण निरग्न्किं मन्यमानेन किं पर्वतस्याग्निमत्त्वे मानमित्यनुयुज्यते। स यदि यो धूमवानसावग्निमानिति व्याप्तिमात्रं परं प्रति स्वप्रतिपन्नार्थसिद्ध्यर्थं ब्रूयात्, तदा का नामासङ्गतिः? परपृष्टप्रमाणस्योपन्यस्यमानत्वात्। किंवाऽपरं वक्तव्यमवशिष्टम्, यदर्थं शब्दान्तरं वक्तव्यं स्यात्। अतो व्याप्तिवचनमेव परोपदेश इति।
॥ परेण परोपदेशस्य पञ्चावयवत्वनियमोपपादनम्॥
स्यादेतत्। व्याप्तिपक्षधर्मतोपेततया लिङ्गानुसन्धानं खल्वनुमानम्। पक्षधर्मतामनङ्गं मन्यमानैरपि लिङ्गस्य सत्ता तावदवश्यमङ्गीकरणीया। अन्यथा व्याप्त्यङ्गीकारव्याघातात्। सा च नाविवक्षितस्थाना। तथासति यस्यकस्यचिद् धूमवत्त्वादिना सर्वस्याप्यग्न्मित्त्वादिप्रसङ्गात्। अतो व्याप्त्यनुसारेण नियतदेशधर्मताऽप्यङ्गीकरणीयैव। व्यधिकरणोऽपि हि कृत्तिकागत एवोदयो रोहिण्युदयासत्तिं गमयति। नतु यत्रतत्रत्यः। ततस्तावदनेन वक्तव्यं यावता व्याप्तिविवक्षितस्थलधर्मतोपेततया लिङ्गस्य अनुसन्धानं स्यात्, तदप्याकाङ्क्षाक्रमेणाभिधातव्यमिति स्थिते, निराश्रयस्य प्रमाणस्याभिधातुमशक्यत्वात् प्रमाणजिज्ञासोत्थापनाय विषयोपक्षेपरूपं पर्वतोऽग्निमानिति प्रतिज्ञावाक्यं वक्तव्यम्। ततः कस्मादिदं प्रमाणात् प्रतिपत्तव्यमित्याशङ्कायां पराङ्गतापन्नलिङ्गस्वरूपमात्रप्रतिपादकं धूमवत्त्वादिति हेतुवचनम्। ततोऽस्य सामर्थ्यजिज्ञासायां व्याप्तिप्रतिपादनाय यो धूमवानसावग्निमानित्युदाहरणवाक्यम्। पक्षादिविवक्षितस्थलधर्मताप्रतिपादनार्थं धूमवांश्चायमित्युपनयः। ततः सर्वस्य बुद्ध्यरोहायैकवाक्यतामापादयितुं तस्मादग्निमानेवेति निगमनम्। अत एव प्रतिज्ञाहेतुभ्यामुपनयनिगमनयोर्गतार्थतां मन्यमाना निरस्ता भवन्ति। तदेवमेतावति वक्तव्ये कथं व्याप्तिमात्रमुक्त्वा कृती स्यादिति।
॥ प्रतिज्ञाहेतूपनयानामवक्तव्यता॥
उच्यते यत् तावत् प्रतिज्ञावश्यम्भावे कारणमुक्तम्, तदसत्। विवादेनैव विषयोपक्षेपस्य सिद्धतयाऽऽकाङ्क्षोदयस्य समर्थितत्वात्। तथाऽप्याकाङ्क्षितत्वाल्लिङ्गस्वरूपस्य तत्पक्षधर्मतायाश्च प्रतिपादनाय हेतूपनयौ वक्तव्याविति चेत्, न। विकल्पानुपपत्तेः। तथाहि किं येन धूमवत्त्वं पर्वतवृत्तितयाऽवगतं तं प्रति हेतूपनयौ वक्तव्यौ, उत विपरीतं प्रति? आद्यं दूषयति लिङ्गमिति।
.....................लिङ्गं तत्र विजानतः।
यदि लिङ्गमसिद्धं स्यात् कुत एवास्य मानता।
तत्र विवक्षिते स्थले। अवशिष्टं किमस्तीति पूर्वेणान्वयः। लिङ्गस्वरूपतदीयपक्षधर्मताविज्ञापनाय हि हेतूपनयोपयोगः। तच्चेद् विज्ञानं परस्य स्वतः सिद्धं तदा किं हेतूपनयाभ्यामिति भावः।
द्वितीयमनूद्य दूषयति लिङ्गमिति। तत्रेत्यनुवर्तते। असिद्धं परेणाप्रमितम्। तदाऽस्य लिङ्गस्य स्वरूपासिद्धस्य मानतैव कुतः? नास्तीति यावत्। दूरे वक्तव्यतेत्येवशब्दार्थः।
॥ व्याप्तेरप्यवक्तव्यतामाशय परिहारकथनम्॥
नन्वेवंसति व्याप्तिरपि न वक्तव्या। साऽपि यदि विदितव्याप्तिकं प्रत्युच्यते तदाऽभिधानवैयर्थ्यम्। विपरीतस्य तु व्याप्यत्वासिद्ध्या तत् प्रमाणमेव न भवतीति कुतो व्याप्त्यभिधानमिति तत्रापि वक्तुं शक्यत्वात्। तथाच वादिप्रतिवादिनोर्मौनमेवाऽपतितमिति।
मैवम्। उभयथाऽप्यदोषात्। व्याप्तिर्हि न स्वरूपेणोपयोगिनी। नापि ज्ञाततामात्रेण। अपितर्हि? स्मर्यमाणा। तथाच गृहीतव्याप्तिकं प्रति तत्स्मारतया, अगृहीतव्याप्तिकं प्रति तु तदैव तज्जिज्ञासाजनकतया व्याप्तिवचनमुपयुज्यत इत्युक्तमेव।
॥ लिङ्गस्वरूपपक्षधर्मतयोः व्याप्तिवचनेनैव सिद्धेः, हेतूपनययोरवक्तव्यता॥
एवन्तर्हि हेतूपनयावपि नानुपयुक्तौ। नहि पक्षधर्मोपेतं लिङ्गं स्वरूपेणोपयुक्तम्। नापि विदितत्वमात्रेण। किन्तु ज्ञातचरम्। स्मर्यमाणतया ज्ञायमानमपि न वृक्षादिसाधारण्येन। किन्तर्हि? लिङ्गतया। तथाच विदितलिङ्गस्वरूपपक्षधर्मतं प्रति तत्स्मारकत्वेन लिङ्गतयाऽनुसन्धायकत्वेन, इतरं प्रति तज्जिज्ञासाजनकत्वेन हेतूपनययोः सार्थक्यमेवेत्याशयाऽह यदीति।
यदि स्मारकमात्रं स्यात् स्मर्तुर्नात्र प्रयोजनम्॥३१॥
स्मारकत्वमुक्तस्य सर्वस्योपलक्षणम्। मात्रग्रहणेन प्रत्यायकत्वं व्यावर्तयति। हेत्वादिकमिति शेषः। पक्षधर्मतोपेतस्य लिङ्गस्येति च। स्यादित्यतः परं यत इत्यध्याहार्यम्। स्मर्तुरित्युपलक्षणम्। अत्र व्याप्तिवचने। निमित्तसप्तमीयम्। हेत्वादाविति च। ततश्च व्याप्तिवचनवद्धेत्वादिकमपि पक्षधर्मतोपेतस्य लिङ्गस्य स्मरणानुसन्धानजिज्ञासाजनकं स्यादिति यद्युच्यते, तन्न। यतो व्याप्तिवचनेनैव तत्स्मरणादिमतस्तस्य हेत्वादिना प्रयोजनं नास्तीति योजना।
एतदुक्तं भवति यदिहि हेत्वादिकं वाक्यतया प्रत्यायकं स्यात्, तदा सामर्थ्यचिन्तोपयुज्यते। यदातु तत्स्मारकत्वादिनैवोपयुक्तम्, तदा संस्कारोद्बोधोपयुक्तं सादृश्यसम्बन्धादिकं किमप्यन्वेष्टव्यम्। तद् व्याप्तिवचनेऽपि समानम्। यो धूमवानसावग्निमानित्यभिहिते खल्वनुमानमुद्रावित् अत्र धूमवत्त्वं व्याप्यमित्यवबुध्यत एव। ततस्तदीयपक्षधर्मतादिस्मृत्यादिमानपि कथं न भवेदिति।
॥ पञ्चावयववाक्यस्याऽगमतया प्रत्यायकत्वाभावादपि तन्नियमाभावः॥
यद्वा परोपदेशस्य पञ्चावयवतानियतिं वदन् प्रष्टव्यः। किमेतत् पञ्चावयवं वाक्यमागमतया व्याप्तिपक्षधर्मतोपेतस्य लिङ्गस्य प्रत्यायकम्, उत स्मारकादिमात्रम्? आद्ये तु स्यादेवेदं परव्युत्पादितरीत्या वाक्यपरिमाणं कथञ्चित्। नचासौ युज्यते। वादिप्रतिवादिनोरितरेतरस्मिन्ननाश्र्वासात्। आश्र्वासे वा प्रतिज्ञामात्रेणार्थसिद्धौ हेत्वाद्यभिधानवैयर्थ्यात्।
द्वितीये त्वाह यदीति। परोपदेशं वाक्यं यदि स्मरणादिमात्रकारणमङ्गीक्रियते, तदाऽत्र व्याप्तिवचने सत्येव स्मर्तुर्व्याप्तिवचनादेव स्मरणाद्युत्पत्तेरिति यावत्।
अत्र व्याप्तिवचनातिरिक्ते शब्दे प्रयोजनं नास्तीति नासाववश्यं वक्तव्यः। दृश्यते खलु लोके पदैकदेशादितोऽपि पदार्थस्मरणादिकम्। शास्त्रेऽपि च वाक्यैकदेशप्रयोगः। तत्र वक्तुराप्तत्वावधारणादनुसरणं प्रतिवादिनि तु तन्नास्तीति चेन्मा भूत्। नह्येतदागमतया प्रत्यायकमित्युक्तम्। अन्यथा सांव्यावहारिकः केवलव्यतिरेकिप्रयोगोऽपि नानुसरणीयः। वास्तवप्रयोगपरिमाणान्यथात्वस्योपपादितत्वात्। (५०८) प्रतिवादिन्यप्यनुसरणे निग्रहस्थानोद्भावनं न स्यादिति चेत्, लौकिकाशास्त्रीयसंव्यवहारातिक्रमे तदवकाशात्। अन्यथा प्रकरणाद्यापन्नस्यासङ्कीर्तनमपि निग्रहहेतुः स्यात्। किं प्रकरणाद्यापन्नतयाऽयं न वदति, उताप्रतिपन्नत्वादिनेति सन्देहस्य प्रकृतेऽपि तुल्यत्वादिति।
॥ नैयायिकैः पञ्चावयववाक्यस्य निर्विशङ्कसाध्यावधारणार्थत्वेनावैयर्थ्यमित्युपपादनम्॥
अपर आह प्रमेयावधारणार्थं हि प्रमाणोपन्यासः। प्रमेयावधारणं च निर्विवादा तत्प्रतीतिः। नच सा प्रमाणस्वरूपमात्रोपदर्शनेन भवति। किन्नाम। तदाभासोद्धारेणापि। अन्यथा तत्प्रामाण्यस्यैव अनवस्थानात्। तथाच प्रतिज्ञावाक्येन विषयमुपक्षिप्य तत्र हेतुना प्रमाणस्वरूपमुपदर्श्य तस्योदाहरणवाक्येन विरुद्धानध्यवसितानैकान्तिकत्वनिरासः क्रियते। उपनयेनासिद्धिरपास्यते। निगमनेनापि हेत्वनुवादेन तस्मादेव नान्यस्मादिति सिद्धसाधनताऽपक्षिप्यते। साध्यानुवादेन तु अग्निमानेव नतु निरग्न्कि इति बाधप्रतिपक्षप्रतिक्षेपः क्रियते। तदेवं विधूतविवादसाध्यप्रतिपत्तये पञ्चावयववाक्यमावश्यकमिति।
॥ अनुमानप्रयोगस्य प्रमेयनिर्णयावधित्वे पञ्चावयववाक्येनापि तदसम्भवात् तन्नियमोऽयुक्तः॥
तदयुक्तम्। एवं वदताऽपि यावता विवादावसानम्, तावान् परोपदेश इत्युक्तं स्यात्। तथाच पञ्चावयवं वाक्यं परोपदेश इत्ययुक्तम्। पञ्चावयवोक्तावपि विवादावसितेरभावात्। किन्त्वा कथापरिसमाप्तेः परोपदेश इति वक्तव्यमित्याशयवानाह नेति।
न पञ्चावयवोक्तौ च विवादावसितिर्भवेत्।
विवादावसितिः विवादावसानोपेता साध्यप्रतीतिः। नन्वेतदयुक्तम्। उदाहरणाद्यवयवत्रयेण आभासोद्धारस्य कृतत्वात्। निरस्तसमस्ताभासप्रमाणोपन्यासेऽपि विवादानवसाने सर्वदाऽपि तत्प्रसङ्गादित्यत आह दृष्टान्तेति।
दृष्टान्तादिषु चैवं स्यात् साधनं पुनरेव तु।
दृष्टान्तपदेनोदाहरणार्थमुपलक्षयति। आदिपदेनोपनयनिगमनार्थग्रहणम्। विषयसप्तमीयम्। एवं यथा प्रतिज्ञार्थे साधनं वक्तव्यमिति शेषः। स्यादेवेति सम्बन्धः। तुशब्दो यस्मादित्यर्थे।
अयमर्थः सत्यमुद्धृताभासात् प्रमाणात् प्रमेयावधारणं भवतीति, किन्तु पञ्चभिरप्यवयवैः तादृशप्रमाणप्रतीतिरेव न भवतीति ब्रूमः। आभासोद्धारपरोदाहरणाद्यर्थविप्रतिपत्तौ तत्साधनस्यापि वक्तव्यत्वात्। नच तत्र विप्रतिपत्तिर्न कर्तव्या। नापि वाङ्मात्रेण तन्निवृत्तिः। प्रतिज्ञार्थसमानयोगक्षेमत्वात्। नचोदाहरणादिष्वेव सर्वशङ्कोद्धारकारणमस्ति, अनुपलम्भात्। पञ्चावयवप्रयोग एव कथामुद्रणापातात्। अतः प्रमेयनिर्णयावधित्वेऽनुमानप्रयोगस्य न पञ्चावयवत्वनियमो युज्यते। अपितु कथापरिसमाप्त्यवधिकत्वमेवाङ्गीकार्यमिति।
॥ अनुमानप्रयोगस्य अवान्तराकाङ्क्षामात्रनिवर्तकत्वाङ्गीकारे हेतुवचनेनैव तत्सिद्धिः॥
सत्यं निःशेषतो विवादनिवृत्तिर्न पञ्चावयवप्रयोगेऽपि भवतीति। तथाऽप्यवान्तराकाङ्क्षानिवर्तकत्वेन पञ्चावयवमेवावान्तरवाक्यं परिसमाप्यत इत्यत आह लिङ्गेति।
लिङ्गोक्तावपि चैवं स्यादनुमावसितिर्ध्र्ुवा॥३२॥
चो हेत्वर्थे। अनुमेति तत्सम्बन्धिवाक्यमुपलक्ष्यते। एवंसति किमत्र प्रमाणमित्यवान्तराकाङ्क्षानिवृत्तिहेतौ धूमवत्त्वमिति लिङ्गोक्तौ कृतायामप्यवान्तरवाक्यपर्यवसानमवश्यं भवतीति तन्मात्रमेव वाक्यमङ्गीकरणीयम्। नतु पञ्चावयवत्वनियतिरिति।
॥ हेतुवचनादिनाऽपि अभिमतार्थसिद्धेः पञ्चावयवत्वनियम एव निराक्रियते, नतु विधान्तरम्॥
यदुक्तं स्मरणादिमात्रहेतुत्वेन वाक्यस्योपयोगः, तच्च व्याप्तिवचनमात्रेण भवतीति व्याप्तिरेव वक्तव्येति, तदयुक्तम्। तथासति लिङ्गमात्रवचनस्यापि प्रयोक्तव्यत्वापातात्। सम्भवति हि तस्यापि व्याप्तिपक्षधर्मतास्मरणादिहेतुतेत्युक्ताभिप्रायमजानानस्य चोद्यं वा परिहरति लिङ्गेति। यथा व्याप्त्युक्तावेवं लिङ्गोक्तावप्यनुमावसितिर्ध्र्ुवा स्यात्। इष्टापादनमेतदित्यर्थः। चशब्दः “प्रतिज्ञा हेतुगर्भैव” इत्याद्युक्तपक्षान्तरसमुच्चये। नचैवंसति व्याप्तिरेवेत्यवधारणानुपपत्तिः। येनयेन प्रकारेण व्याप्त्यादिस्मरणादिकं भवति, यश्च सांव्यावहारिकः, तन्तमुपादाय नियमनिराकरणस्य तत्रेष्टत्वादित्यभिसन्धिः। एतेन प्रतिज्ञाहेतुभ्यामुपनयनिगमनयोर्गतार्थताऽपि समर्थिता वेदितव्येति।
॥ विरोधः, असङ्गतिश्च द्वे साक्षादनुमानदूषणे॥
निर्दोषतामन्तर्भाव्य युक्तिरनुमेत्युक्तम्। दोषपरिज्ञान एव तद्वियुक्ता युक्तिः सुज्ञानेत्यतो युक्तिदोषो निरूपणीयः। धूमादेरग्न्यादिप्रमितिजनकत्वेऽपि यन्निमित्तं कश्चिदर्थोऽर्थान्तरज्ञानं न जनयति, संशयविपर्ययौ वा करोति, स युक्तिदोषः। स द्विविधः साक्षात्, वाचनिकश्च। तत्राऽद्यं विभागेनोद्दिशति विरोध इति।
विरोधोऽसङ्गतिश्चैव साक्षाद् युक्तेस्तु दूषणम्।
प्रायेणानुमानदोषा विरोध एवान्तर्भवन्तीति प्राधान्यात् प्रथमं तदुद्देशः। एवेति परपरिसङ्ख्यातमाधिक्यं निराकरोति। दोषाणां सतामत्रैवान्तर्भावात्। अनन्तर्भूतानां च दोषत्वनिरासात्। साक्षादिति। वचनोपधानेन विनाऽर्थनिष्ठम्। उक्तं युक्तेः सामर्थ्यम्, दूषणं त्विति तुशब्दसम्बन्धः। साक्षात्त्विति वा। युक्तेर्युक्तित्वाभिमतस्यार्थस्य।
साधनाभिमतस्यार्थस्य साध्यभिमतेनार्थेन सम्भावितप्रतीतिकस्यापि साध्यसाधनभावस्य बाधलक्षणमयोग्यत्वं विरोध इति शिष्यैरेवोह्यतामित्याशयवानसङ्गतिं निरूपयति प्रतिज्ञायामिति।
प्रतिज्ञायामसम्बन्धो युक्तेरुक्ता ह्यसङ्गतिः॥३३॥
प्रतिज्ञापदेन तदर्थो लक्ष्यते। विषयसप्तमीयम्। असम्बन्धोऽत्राऽकाङ्क्षालक्षणसम्बन्धविरहः। अत्रापि युक्तेरिति गौणो निर्दोशः। असम्बन्धोऽसङ्गतिरिति पर्यायावित्यतो व्यवहारसाध्यतासूचनाय उक्तेत्युक्तम्। विरोधासङ्गतिस्वरूपस्य स्फुटत्वात्, अन्यैरुपदर्शितत्वाच्च किमत्रोदाहरणोपदर्शनेनेति हिशब्देनाऽह।
॥ प्रतिज्ञार्थविरोधअसिद्धिअव्याप्तिभेदेन विरोधस्य त्रैविध्यम्॥
ननु कथं द्वे एवानुमानदूषणे परपरिगणितानामसिद्धत्वादीनां बहूनां सत्त्वादित्यतस्तेषामत्रान्तर्भावं विभावयितुं विरोधविभागमाह धिरोधोऽपीति।
विरोधोऽपि त्रिधैव स्यात्प्रतिज्ञार्थविरुद्धता।
लिङ्गराहित्यमव्याप्तिः....................॥३४॥
सामान्यविभागेन सह विशेषविभागस्य समुच्चयेऽपिशब्दः। असङ्गतिरप्यनेकविधेति वा। त्रिधैव नत्वेकविधैव येनासिद्ध्यादीनामन्तर्भावो दुर्घटः स्यात्। यद्वा यावन्तोऽनुमानाभासाः परपरिगणिताः, तावद्भेदतां निवर्तयितुमेवशब्दः। सर्वेषामत्रैवान्तर्भावात्।
त्रैविध्यं दर्शयति प्रतिज्ञार्थेति। साध्यधर्मविशिष्टो धर्मी प्रतिज्ञार्थः। तस्य प्रतिस्पर्धिसद्भावो विरुद्धता। यत्रार्थे लिङ्गप्रमितिः साध्यसिद्ध्युपयोगिनी तत्र तदभावो लिङ्गराहित्यम्। व्याप्तेरभावः अव्याप्तिः। इतिशब्दोऽध्याहार्यः।
साध्यसाधनभावसम्बन्धयोग्यताविरहो हि साध्यसाधनाभिमतयोस्तद्भावसम्भवे भवति। नच साधनस्य तद्भावेऽपि विरुद्धस्य साध्यता सम्भवति। निशितत्वेऽपि परशोराकाशस्य छेद्यताभावात्। नापि साध्यस्य तथात्वसम्भवेऽप्यसमर्थस्य साधनतोपपद्यते। छेद्यत्वेऽपि काष्ठस्य कुण्ठकुठारस्य छेदकत्वाभावात्। अतः प्रतिज्ञार्थविरुद्धतादीनां युक्तं विरोधित्वम्।
अस्तु लिङ्गराहित्याव्याप्त्योर्युक्तिदोषत्वम्। प्रतिज्ञार्थविरुद्धता तु कथं तद्दोषः? साध्यसम्बन्धित्वादिति चेत्, न। साध्याभिमतस्य तद्भावासम्भवे साधनाभिमतस्याविषयवृत्तित्वात्।
॥ सिद्धसाधनत्वस्य असङ्गतावन्तर्भावः, न विरोधे॥
नन्वेवंसति सिद्धसाधनताऽपि विरोध एव स्यात्। नहि सिद्धस्य साध्यता सम्भवति। नचास्त्विति वाच्यम्। उक्तप्रकारत्रयानन्तर्भावात्। “सिद्धसाधकोऽसङ्गतः” इति स्ववचनविरोधाच्चेति। मैवम्। सति साकाङ्क्षत्वेऽन्वयायोग्यत्वं विरोधः। नच सिद्धसाधनस्य साकाङ्क्षताऽस्तीति नासौ विरोधेऽन्तर्भवति।
॥ प्रमाणलक्षणे प्रतिज्ञाहेतुदृष्टान्तविरोधभेदेन त्रैविध्यस्यान्यथानिरूपणात् तद्विरोधपरिहारः॥
ननुचान्यत्र “त्रिविधो विरोधः” इत्यादिना लिङ्गराहित्याव्याप्त्योरेकतामुपादाय साध्यस्य साधनस्य वाऽननुगमो दृष्टान्तविरोधस्तृतीयतया परिगृहीतः। अत्रापि “साध्यसाधनवैकल्यं दृष्टान्तस्य” इति वक्ष्यते। तत् कथमेतत्? नचात्रापि तदध्याहारेण तथैव व्याख्यानं युक्तम्। दृष्टान्तदोषस्यानुमानदोषतानुपपत्तेः। नहि दृष्टान्तोऽनुमानम्। तथाऽप्यनुमानाङ्गव्याप्तिदूषकतयाऽनुमानदोषत्वमस्तु। दृष्टान्तस्य साध्यवैकल्ये साधनस्य साध्यपरित्यागात्। साधनवैकल्ये तु व्याप्तेरनुपदर्शनादिति चेत्, न। तथासत्यव्याप्त्यैव सङ्गृहीतत्वे तृतीयत्वानुपपत्तेरिति।
उच्यते स्वार्थानुमाने हि दृष्टव्याप्तिकस्य लिङ्गस्य विवक्षितस्थले सिद्धिमात्रेण साध्यप्रमितिरुत्पद्यत इति तत्परिपन्थिनां दोषत्वमभिप्रेत्य प्रतिज्ञार्थविरुद्धतालिङ्गराहित्याव्याप्तीनामत्र ग्रहणम्। परार्थानुमाने त्वव्याप्त्यौपायिकस्यापि दृष्टान्तदोषस्य तदाश्रयतया प्रतीतत्वेन तथैवोद्भावनीयताज्ञापनाय तेन सह त्रिविधत्वमन्यत्रोक्तमिति न विरोधः।
॥ साध्यसाधनवैकल्यभेदेन दृष्टान्तदोषस्य द्वैविध्यमेव, नाष्टविधत्वादि॥
यद्वा साध्यसाधनोभयाश्रयहीनसाध्यसाधनोभयाव्यावृत्ताश्रयहीनानष्टौ दृष्टान्तदोषानेके भाषन्ते। तन्निरासाय दृष्टान्तदोषस्य पृथगुपादानम्। तथाहि उभयविकलस्तावन्न परिसङ्ख्येयः। अन्यतरवैकल्येनैव दृष्टान्तदुष्टतासिद्धावाधिक्यप्रसङ्गात्। अन्यथैकैकविकलपरिसङ्ख्यानानुपपत्तेः। कथन्तर्हि अन्वयव्यतिरेकीति चेत्, न कथञ्चिदित्युक्तमेव। (५०८) साध्याद्यव्यावृत्तिस्तु दृष्टान्तस्य गुण एव न दोषः। सतो हि सता व्याप्तिं प्रदर्शयितुं दृष्टान्तोऽन्वेष्टव्यः। वैधर्म्यदृष्टान्तस्यायं दोष इति चेत्, स एव किमर्थः? व्यतिरेकव्याप्तिबोधायेति चेत्, न। तस्याः साक्षादनुपयोगात्। पारम्पर्येणोपयोगे तु साधर्म्यदृष्टान्त एवासाविति किं पृथगुपादानेन?
उभयावृत्तश्चाधिक्यान्निरस्तः। आश्रयहीनस्त्वाश्रयासिद्धिसमानयोगक्षेम इति द्वावेव दृष्टान्तदोषौ। असार्वत्रिकश्च दृष्टान्तदोषः। नहि सर्वत्र दृष्टान्त एव व्याप्तिरुपदर्शनीयेत्यस्ति नियमः। आनुमानिकागमिकव्याप्तेस्तदनपेक्षणात्।
॥ अनुमानदोषाणां प्रकारान्तरेण निरूपणस्य वैयर्थ्यशङ्कापरिहारः॥
स्यादेतत्। प्रतिज्ञार्थविरुद्धतया हि कालातीतप्रकरणसमौ सङ्गृहीतौ। लिङ्गराहित्यमित्यसिद्धिः। अव्याप्तिश्च त्रिविधा भवति साधनस्य साध्येन सम्बन्धाभावः, सत्यपि सम्बन्धे तदभावेनापि सम्बन्धः, साध्याभावव्याप्यता चेति। तदेतत् त्रयं क्रमेणानध्यवसितानैकान्तिकविरुद्धसञ्ज्ञां लभते। तथाच परनिरूपितप्रस्तारस्य समसनमेवानेन कृतं स्यात्। नचानेन किमपि प्रयोजनम्। अन्यथा पुरुषमतिवैरूप्येण प्रक्रियान्तरस्यापि सावकाशत्वात्। नच ब्रह्मतर्कादितर्कशास्त्रमनुसृत्येत्थं व्युत्पादनमिति वाच्यम्। प्रयोजनाभावेऽन्धपरम्परापत्तेरिति।
उच्यते अस्ति प्रक्रियान्तरकरणस्य प्रयोजनम्। तथाहि प्रतिज्ञार्थविरुद्धतया हि स्ववाक्यविरोधस्यापि सङ्ग्रहं वक्ष्यति। (५२३) नच कालातीतत्वादिना स लभ्यते। अपिच व्यवहारोऽपि प्रतिज्ञार्थविरुद्धतयोपपद्यते, न कालातीतत्वादिना, वैयर्थ्यप्रसङ्गात्। असाधकमिदम्, कालातीतत्वात्, सत्प्रतिपक्षत्वादित्यस्य प्रबलसमबलप्रमाणविरुद्धत्वादित्यर्थः। नचात्र विशेषणस्य किमपि प्रयोजनमस्ति। हीनबलस्य प्रमाणपदेनैव निरस्तत्वात्। प्रमाणतदाभासाविवेक एव हि प्रमाणशब्दप्रयोगः, नत्वप्रामाण्यनिश्चये। अहीनबलतया वा विशेषणे सम्भवति तदवान्तरभेदोपादानं निरर्थकमेव। तथाचैकमेवेदं दूषणं स्यात्। लिङ्गराहित्यग्रहणेन चादूषणानामपि दूषणतया परपरिगणितानामाश्रयव्यधिकरणसाध्यान्यथासिद्धीनां निरासो लभ्यते, अन्यथासिद्धेर्दूषणत्वेऽपि प्रकारान्तरस्य वक्ष्यमाणत्वात्। (९५०)
अनध्यवसितत्वादिभेदोऽपि किं व्याप्त्यभावे सम्भवतीत्येतावता परिसङ्ख्येयः, व्यवहारोपयोगित्वाद् वा? नाऽद्यः, व्यर्थव्युत्पादनस्यातिप्रसङ्गित्वात्। न द्वितीयः, वैयर्थ्यप्रसक्तेः। नेदं साधकम्, अनैकान्तिकत्वादित्यस्य हि सपक्षवृत्तित्वे सति विपक्षवृत्तित्वादित्यर्थः। नचात्र विशेषणव्यवच्छेद्यं किञ्चिदस्ति। एवं विरुद्धत्वादित्यस्य सपक्षावृत्तित्वे सति विपक्षवृत्तित्वादित्यर्थः। तथाच वैयर्थ्यमेव। साध्यविपर्ययव्याप्यत्वादित्यत्रापि सम्बन्धमात्रेण कृतार्थत्वे व्याप्तिग्रहणं व्यर्थमेव। एवमवान्तरभेदव्युत्पादनमपि निरस्तम्। शिष्यमतिवैशद्याय व्युत्पादनं त्वनुमतमेवेति न स्वीयव्यवहारविरोध इति। विरोधवदसङ्गतेरपि प्रभेदाः स्वयमेवोहनीयाः।
॥ न्यूनम्, आधिक्यं च वाचनिके अनुमानदूषणे
विरोधासङ्गत्योरपि वाचनिकदोषत्वमाशय निराकरणं ॥
एवं साक्षाद्युक्तिदोषमभिधाय वाचनिकदोषमाह न्यूनेति।
.....................न्यूनाधिक्ये तु वाचके॥३४॥
न्यूनशब्दो भावप्रधानः। युक्तेर्दूषणमिति प्रकृतमनुवर्तते। अवश्यवक्तव्यापरिपूर्तिर्न्यूनत्वम्। कृतकार्यत्वमाधिक्यम्। वचनदोषात् तत्प्रतिप्रादिता युक्तिरपि दुष्टा स्यादित्येतयोर्वाचनिकत्वम्।
नन्वयुक्तोऽयं विभागः। विरोधासङ्गत्योरपि वाचनिकत्वात्। नहि कृतकत्वं स्वयमेव दुष्टम्। अनित्यत्वसाधनेऽपि तथात्वापत्तेः। कृशानुशैत्यादौ तथेति चेत्, तत् किं कृतकत्वं कृशानुशैत्यं वा, शब्दनित्यत्वं वा साधयितुं स्वयमेव प्रवृत्तम्, येन तत्र दुष्टं स्यात्। किन्नाम। तत्साधनतया शब्देन प्रदर्शितम्। एवमसङ्गतावपि सिद्धसाधनतादिलक्षणायां वाच्यमित्याशङ्कानिरासार्थं तुशब्दः। न्यूनाधिक्ये एव वाचनिके, न विरोधासङ्गती। स्वार्थानुमानेऽपि दर्शनादिति भावः।
सन्तु तर्हि प्रतिपत्तृप्रतिपादकयोरेवैते दोषाः। यथा निशातमसिमाकाशे छिन्ने वा व्यापारयन् पुरुषो दोषवान् भवति, नासिः। एवं कृतकत्वादिकं कृशानुशैत्यादौ व्यापारयन् पुरुष एवापराधी स्यात्, नतु कृतकत्वादिकमिति।
मैवम्। कृतकत्वादेरदुष्टत्वे तद् व्यापारयतोऽप्यपराधानुपपत्तेः। अन्यथा शब्दानित्यत्वसाधने प्रयुञ्जानोऽप्यपराध्येत। ततः कृशानुशैत्यादेः साध्यतानर्हत्वं नित्यत्वादिसाधने कृतकत्वादेरसमर्थत्वमित्यादिरर्थशब्दगत एव दोषोऽङ्गीकरणीयः। नह्युपाधिमन्तर्भाव्य भवन् दोषो न दोषो भवति। तथासति बहुविप्लवापत्तेरिति।
॥ सोपाधिकत्वनिरूपणम्, तस्य अव्याप्तावन्तर्भावसमर्थनम्॥
ननु कथमेत एवानुमानदोषाः। सोपाधिकत्वस्याप्यतिरिक्तस्य सत्त्वादित्यतस्तत्स्वरूपानुवादेन उक्तान्तर्भावमाह साध्येति।
साध्यव्यापकवैलोम्यमव्याप्तिः साधनस्य च।
साधनस्य यत् साध्यव्यापकवैलोम्यं साऽव्याप्तिः। चशब्दात् सत्प्रतिपक्षता च। साध्यस्याधर्मसाधनत्वादेर्व्यापको यो निषिद्धत्वादिधर्मः, यत्राधर्मसाधनत्वं तत्र निषिद्धत्वमिति नियमात्; तेन साधनस्य हिंसात्वादेर्वैलोम्यं साध्यापेक्षया वैपरीत्यमव्याप्तत्वमिति यावत्। यत्र हिंसात्वं तत्र निषिद्धत्वमिति नियमाभावात्। वैधहिंसायां सत्यपि हिंसात्वे निषिद्धत्वाभावात्। तदनेन सोपाधिकत्वस्य स्वरूपमुक्तम्। साध्यव्यापकत्वे सति साधनाव्यापको हि धर्म उपाधिः, तद्वत्त्वं च साधनस्य साध्यव्यापकाव्याप्यत्वमेव। एतत् प्रागनुमानाद् व्याप्तिग्रहणवेलायामव्याप्तिरेव। साध्यव्यापकं परित्यजतः साध्यपरित्यागावश्यम्भावात्। नहि साध्यमपरित्यजन् तद्व्यापकं परित्यजतीति युज्यते। साध्यपरित्यागश्चाव्याप्तिरेव।
अपरे तु निरुपाधिकः सम्बन्धो व्याप्तिः। सोपाधिकत्वे तु लक्षणाभावाद् व्याप्त्यभाव इत्याचक्षते। तदसत्। व्याप्तिज्ञानाधीनमुपाधिज्ञानं तदधीनं च निरुपाधिकत्वज्ञानं तदायत्तं व्याप्तिज्ञानमिति चक्रकप्रसङ्गेन तस्य व्याप्तिलक्षणत्वानुपपत्तेः। तत् किं सोपाधिकस्याप्यस्ति व्याप्तिः? मैवम्। व्याप्तत्वानुपाधिकत्वयोः समनियमेऽपि व्याप्तिबोधानङ्गतयोपाध्यभावस्य लक्षणत्वानुपपत्तेरुक्तत्वात्।
नन्वेवं चेत् कथं साध्यसाधनव्यवहारः? आगामिसम्भावनापेक्षयेति ब्रूमः। वस्तुतस्तु यो धर्मो यद्व्यापकाव्याप्तः, तस्य तेनाव्याप्तिरित्येव वक्तव्यम्। अनुमानप्रवृत्त्युत्तरकालं तु सत्प्रतिपक्षतैव। साधनस्य साध्यव्यापकपरित्यागो हि पक्षादन्यत्र वा स्यात्, पक्षे वा। न तावदाद्यः, तथासति स्फुटव्यभिचारपरित्यागेनोपाध्युद्भावनस्यानवसरत्वात्। द्वितीये तु साध्यव्यापकस्य पक्षाद् व्यावृत्तिः साध्यमपि व्यावर्तयतीति सत्प्रतिपक्षैव।
एतेन “उपाध्यभावस्य प्रतिपक्षत्वे नोपाधेर्दूषणत्वम्, नहि यदभावो यत्र दूषणं सोऽपि तत्र दूषणमिति युक्तः, विरोधात्’ इति परास्तम्। पक्षव्यावृत्तिप्राधान्येनैवोपाधित्वात्। एतदर्थं च साध्यव्यापकस्य वैलोम्यं पक्षाद् व्यावृत्तिः साधनस्य सत्प्रतिपक्षतेति योजनीयम्। भावप्रधानस्यादोषत्वं त्विष्टमेव।
ननुच प्रागनुमानादपि सत्प्रतिपक्षताऽनुमानोत्तरमव्याप्तिर्वा किं न स्यात्? मैवम्। पक्षे हि साध्यस्य उपसंहारे प्रतिपक्षावसरः। नच व्याप्तिग्रहणसमये पक्षादिप्रविभागोऽस्तीति कथं तदा प्रतिपक्षत्वं स्यात्, अनुमानोत्तरमव्याप्तिः कथमिति वक्तव्यम्। साध्यव्यापक उपाधिः पक्षाद् व्यावर्तमानः साध्यमपि व्यावर्तयति। तथाच साध्यरहिते तत्र वर्तमानं साधनं साध्यं व्यभिचरतीति चेत्, न। तथासति बाधितसत्प्रतिपक्षयोरपि व्यभिचारितापातात्। ओमिति चेत्, न। निरसिष्यमाणत्वात्। (५२४) बाधप्रतिपक्षाभ्यामेवानुमानदूषणसम्भवे किं तदुपजीविना व्यभिचारेणेति चेत्, तर्हि व्यापकव्यावृत्त्या प्रतिपक्षेणैवानुमाने दूषिते किं तदुपजीविना व्यभिचारेणेति तुल्यम्।
किञ्च पक्षे व्यभिचारः किं निश्चितः, उत सन्दिग्धः? नाऽद्यः, विकल्पानुपपत्तेः। तथाहि पक्षे साध्याभावो निश्चितः, नवा? आद्ये किं प्रमाणान्तरेण, उत साध्यव्यापकोपाधिव्यावृत्त्या? प्रथमे तत एवानुमानं दुष्टमिति किमुपाधिना? न द्वितीयः, परस्पराश्रयत्वप्रसङ्गात्। उपाधेः साध्यव्यापकत्वनिश्चये तद्व्यावृत्त्या साध्यव्यावृत्तिनिश्चयः, सति च तस्मिन्नसाविति। नेति पक्षे साध्यव्यापकत्वानिश्चयात् उपाधेः, कथं तद्व्यावृत्त्या पक्षे साधनस्य निश्चितो व्यभिचारः स्यात्? पक्षे सन्दिग्धो व्यभिचारस्तु स्वत एव सिद्धो नोपाधिमुखनिरीक्षणापेक्षः। सर्वानुमानोच्छेदहेतुश्च। तस्मादनुमानोत्तरकालं सत्प्रतिपक्षतैवेत्युचितम्। एतदेवाभिप्रेत्य “स एवोपाधिदोषोऽपि” इत्यादिवचनम्।
अनुकूलतर्कादिना साध्यव्यापकत्वनिश्चये सति पक्षे निश्चितव्यभिचारितासिद्धिरिति चेत्, न। निश्चितसाध्यव्यापकव्यावृत्तेर्बाधकत्वेन तत एवानुमाने दूषिते व्यभिचारवैयर्थ्यात्। तथाऽपि सोपाधिकत्वं सत्प्रतिपक्षत्वमिति गतः पक्ष इति चेत्, न। प्रतिपक्षस्य यावज्जीवं तद्भावानङ्गीकारात्। सामर्थ्यानिर्धारणायामेव सत्प्रतिपक्षः, निर्धारिते तु सामर्थ्ये बाधको वा स्यात्, बाध्यो वेति को नाम नाभ्युपैति?
अत्र सोपाधिकत्वमिति वक्तव्ये साध्यव्यापकवैलोम्यमिति वचनमुपाधिलक्षणस्यापि प्रदर्शनार्थम्। तदपि साध्यसमव्यापकत्वपक्षनिरासाय।
॥ सन्न्यायरत्नावलीविरोधपरिहारः, उदयनमतदूषणम्॥
नन्वेष पक्षष्टीकाकृताऽङ्गीकृतः। मैवम्। परमतानुवादत्वात्। अन्यथा “एकसाध्याविनाभावे” इत्युदयनवचनोदाहरणवैयर्थ्यात्। दूषणं तु स्फुटत्वान्नोक्तम्। तथाहि समपदं किं विषमव्याप्तिकव्यवच्छेदार्थम्, उत प्रयोजनान्तरार्थम्? नाऽद्यः, पार्थिवपरमाणुरूपादयो नित्याः, परमाणुविशेषगुणत्वात्; आप्यपरमाणुरूपादिवदित्यादौ पृथिवीविशेषगुणत्वाभावादेर्विषमव्याप्तिकस्याप्युपाधित्वेन तद्व्यवच्छेदस्यायुक्तत्वात्, प्रतिपक्षोन्नायकत्वसम्भवेन दूषणत्वाच्च। विषमव्याप्तिकस्योपाधित्वे पक्षेतरत्वस्यापि तत्प्रसङ्ग इति चेत्, तत् किमुक्तविशेषणद्वयोपेतम्, नवा? नेति पक्षे तत एवानुपाधित्वम्। आद्ये तु तस्याप्युपाधित्वे को दोषः? पर्वतेतरत्वादेः सर्वत्र सम्भवेन नैवमिति चेत्, न। अनुमानव्याप्त्यदिग्राहकप्रमाणप्राबल्ये सति साध्यव्यापकत्वभङ्गात्। तदभावे चानुमानभङ्गस्य इष्टत्वात्। अन्यथा शब्दोऽभिधेयः, प्रमेयत्वात्; घटवदित्यादावशब्दत्वादेः समव्याप्तिकपक्षेतरस्य अनिरासप्रसङ्गात्। तदिदमिष्टमपि त्यजति अनिष्टमपि गृह्णातीति न विशेषणम्।
यदप्युक्तम्
“स्वसम्बन्धेन यः स्वीयं धर्ममन्यत्र योजयेत्।
स उपाधिर्यथा लोके जपादिः स्फटिकादिषु।
इहाप्यव्याप्यहेत्वर्थव्याप्यत्वभ्रमहेतुता।
उपाधेः स्यात् तदा तस्य समव्यप्तिर्यदा भवेत्” इति।
तत्र वक्तव्यम् किमनेनोक्तं भवति। किं विषमव्याप्तिकस्य व्याप्यत्वाभावात् तत्सम्बन्धेन साधनाभिमते व्याप्यताभ्रमानुपपत्तेरदोषत्वेन तद्व्यवच्छेदाय समपदमिति, किंवाऽन्वर्थोपाधिशब्दसम्पादनार्थमिति। नाऽद्यः, प्रतिपक्षोन्नायकत्वेन दूषणत्वसम्भवे स्वगतव्याप्त्यवभासकताभावस्यादोषत्वात्। साध्यसाहचर्यदर्शनेनैव व्याप्यताभ्रमसम्भवाच्च। न द्वितीयः, उपाधिशब्दसम्बन्धस्य स्वकपोलकल्पितत्वात्। अत एव भगवानाचार्यवर्यः सोपाधिकत्वमित्यनभिधाय “साध्यव्यापकवैलोम्यम्” इत्याह। व्यवहारास्तु परकृतसङ्केतेनापि निर्वहणीयः। यद्वा क्वचित् साध्यव्याप्यतासद्भावेन उपाधित्वेऽन्यत्रापि गौण्या वृत्त्या उपाधिव्यवहारोपपत्तिः। अत एव न द्वितीयोऽपि।
॥ उपाधेः प्रतिपक्षोन्नायकत्वसमर्थनम्॥
ननुच विषमव्याप्तिकस्य प्रतिपक्षोन्नायकत्वं न सम्भवति। क्वचित् पक्षेतरविपर्ययस्यासाधारणत्वादिति। मैवम्। असाधारणत्वस्य दूषणत्वासम्मतेः। सम्मतौ वा तत्रोपाधित्वाभावस्य व्युत्पादनात्। यत्रोपाधिः पक्षैकदेशाद् व्यावर्तते तत्र कथं प्रतिपक्षः, भागासिद्धिप्रसङ्गात्। नचासौ नोपाधिः। पक्षैकदेशाद् व्यावृत्त्याऽपि साधनाव्यापकत्वसम्भवात्। नचायं समव्याप्तिपक्षेऽस्ति दोषः। उपाधिमत्येकदेशे साध्यसद्भावनियमेन तं विहायैकदेशान्तरस्यैव पक्षीकरणौचित्यादिति।
उच्यते अस्माभिरप्युपाधिव्यावृत्तिमानेव एकदेशः पक्षीक्रियते। एकदेशान्तरेऽपि यदि साध्यसम्मतिः, तदा तस्यापक्षीकरणमेव। असम्मतौ तु तत्र दोषान्तरमेव भविष्यतीति किमनुपपन्नम्?
ननु शङ्कितोपाधौ कथं प्रतिपक्षः, सन्दिग्धासिद्धिप्रसङ्गेनासमबलत्वादिति चेत्, न। पाक्षिकसिद्ध्यादिना सत्प्रतिपक्षताफलस्य संशयस्यानिवारणात्। संशयानङ्गत्वमेवासमबलत्वमभिप्रेतम्।
॥ उपाधिलक्षणविचारः॥
स्यादेतत्। साध्यव्यापकत्वे सति साधनाव्यापकत्वं किमुपाधिसामान्यलक्षणम्, किंवा विशेषलक्षणम्? नाऽद्यः, समवायः समवेतः, सम्बन्धत्वात्; संयोगवदित्यत्र साधनावच्छिन्नसाध्यव्यापककृतकत्वोपाध्यव्यापनात्। वायुः स्पार्शनः, अनुद्भूतरूपानधिकरणत्वे सत्युपलभ्यमानस्पर्शाधिकरणत्वात्; घटवदित्यत्र द्रव्यत्वावच्छिन्नसाध्यव्यापकचाक्षुषत्वोपाध्यव्याप्तेश्च। नच साधनावच्छिन्नसाध्यव्यापकस्य, यत्किञ्चिदवच्छिन्नसाध्यव्यापकस्य च नोपाधित्वमिति वाच्यम्। तत्रतत्राऽचार्यैः अङ्गीकृतत्वात्। व्यतिरेकोपाध्यव्यापकत्वाच्च।
न द्वितीयः, सामान्यलक्षणस्य वक्तव्यतापातात्। नचान्वयव्यतिरेकिधर्मत्वं तदिति वाच्यम्। तस्यात्रायमुपाधिरिति व्यवहारकारणत्वाभावात्। तथात्वे च लक्षणवैयर्थ्यादिति।
अत्र ब्रूमः इदमेव सामान्यलक्षणम्। साध्यपदेनावच्छिन्नानवच्छिन्नसाध्यस्याभिधानात्। नच तत्र प्रतिपक्षासम्भवः। यदवच्छिन्नसाध्ये य उपाधिः, तद्व्यावृत्तेस्तद्विशिष्टाभावे हेतुत्वोपपत्तेः। यथा समवायः सम्बन्धत्वे सति समवेतत्वेन हीनः, अकार्यत्वात्; आकाशवत्। वायुर्द्रव्यत्वे सति स्पार्शनत्वेन हीनः, अचाक्षुषत्वात्; आकाशवदिति।
नचात्र साध्यविशेषणवैयर्थ्यम्। शब्दो न स्पर्शवद्विशेषगुणः, प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वात्; इत्यादाविव व्यभिचारपरिहार्थत्वात्। क्वचित् साध्यावच्छेदकावच्छिन्नस्योपाध्यभावस्य हेतुत्वात्। यथा वायुः स्पार्शनो न भवति द्रव्यत्वे सत्यचाक्षुत्वादिति। व्यतिरेकव्याप्तौ तूक्तमेवोत्तरम्। साध्यसाधनपदाभ्यां च प्रकृतयोरेव विवक्षितत्वान्न कश्चित् क्षुद्रोपद्रवः। यो यत्साध्यव्यापको यत्साधनाव्यापक इति वाऽस्यार्थ इति सर्वं सुस्थम्।
॥ समबलप्रमाणविरोधस्य प्रतिज्ञार्थविरोधेऽन्तर्भावः
 दुर्बलप्रमाणविरोधस्य प्रतिज्ञार्थविरुद्धत्वाभावः॥
ननुच सोपाधिकत्वस्य सत्प्रतिपक्षत्वेऽपि तेनैवानुमानदोषाधिक्यमिति। मैवम्। प्रतिज्ञार्थविरुद्धता इत्यनेनैव प्रबलप्रमाणविरुद्धतालक्षणकालातीततावत्समबलप्रमाणविरुद्धतायाः सत्प्रतिपक्षतया अपि सङ्गृहीतत्वात्। प्रतिस्पर्धिसद्भावमात्रं हि प्रतिज्ञार्थविरुद्धतेत्युक्तम्। एवन्तर्हि दुर्बलेन विरोधोऽपि प्रतिज्ञार्थविरुद्धता स्यात्, उक्तलक्षणोपेतत्वादित्यत आह दुर्बलेनेति।
दुर्बलेन विरोधेऽपि न प्रमाणमसाधकम्॥३५॥
अयमर्थः प्रकरणादिवशाद्धि सामान्यशब्दा अपि विशेषे वर्तन्त इति प्रसिद्धम्। यथा विशिष्टसमये पुरुषमानयेत्युक्ते पुरुषविशेष एवाऽनीयते नतु यः कोऽपि षुरुषः। प्रकृते चानुमानस्यासाधकत्वनिमित्तपरिसङ्ख्यानम्। नच दुर्बलेन विरोधेऽप्यनुमानमसाधकं भवति। प्रबलविरोधादिना तस्यैव आभासत्वात्। यथा विमतश्चक्षुष्मान्, रूपापरोक्षज्ञानित्वादित्यत्र विमतोऽन्धः पुरुषत्वादिति। अतः सामान्यशब्दप्रसक्तोऽपि दुर्बलेन विरोधो नानुमानासाधकतावच्छिन्नप्रतिज्ञार्थविरुद्धता। किन्तु प्रबलसमबलप्रमाणविरुद्धतैवेति।
॥ स्ववाक्यविरोधस्य प्रतिज्ञार्थविरोधेऽन्तर्भावरः॥
नन्वेवमाधिक्यनिरासेऽपि नानुमानविरोधत्रैविध्यं सम्भवति। प्रतिज्ञाविरोधस्याव्याप्त्यैव गतत्वात्। विरोधेनैव साध्यविरहिणि पक्षे वर्तमानस्य हेतोरव्याप्तिर्भवति। नहि विरोधस्याव्याप्त्यसङ्कीर्णमुदाहरणमस्ति। यत्र तु विरोधसम्भवः, तत्राव्याप्तेरेवान्यत्रावधृतसामर्थ्याया दूषणत्वात्। विरोधस्याव्याप्त्युत्थापनेन चरितार्थत्वादित्याशङ्कां भिक्षुपादप्रसारणन्यायेन परिहरति स्ववाक्येनेति।
स्ववाक्येन विरोधेऽपि नैव साधकतां व्र्जेत्।
प्रमाणमित्यनुवर्तते। न केवलं प्रमाणविरोधे, किन्तु स्ववाक्येन विरोधेऽपि प्रमाणं नैव साधकतां व्र्जेत्। एवशब्देन परेषामपि सिद्धोऽयमर्थ इति दर्शयति। यथोक्तम् “अविरोधिग्रहणात् प्रत्यक्षानुमानागमस्वशास्त्रस्ववचनविरोधिनो निरस्ता भवन्ति” इति।
एतदुक्तं भवति प्रतिज्ञार्थविरोधो द्वेधा भवति। प्रमाणविरोधः, स्ववाक्यविरोधश्चेति। तत्राऽद्यः प्रबलसमबलप्रमाणविरोधात्मा द्विविधो भवति। द्वितीयोऽप्यपसिद्धान्तजातिभेदेन द्वेधा। जातिश्च स्ववचनविरोधस्वन्यायविरोधस्वक्रियाविरोधभेदेन त्रेधा। तत्राऽस्तां तावत् प्रमाणविरोधः। स्ववाक्यविरोधग्रहणं तावत् पृथक्करणीयम्। तस्याप्यव्याप्त्युत्थापने व्यापारायोगात्। स्ववाक्यविरोधे हि किं साधनस्योभयाभिमत्या पक्षे व्यभिचारो भवेत्, किंवाऽन्यतराभिमत्या? नाऽद्यः, स्ववाक्यप्रामाण्यस्योभयासम्मतेः। न द्वितीयः, तस्य स्वतःसिद्धत्वेन स्ववाक्यविरोधानपेक्षत्वात्, अदोषत्वाच्च। तस्मादविषयवृत्तिताहेतुत्वेन प्रतिज्ञार्थविरुद्धता पृथगेव परिसङ्ख्यातव्येति।
किञ्चायं न केवलं व्याप्त्यपेक्षप्रवृत्तेरनुमानस्यैव दोषः। किन्नाम। तदनपेक्षस्य प्रत्यक्षादेरपि। तथाच अन्यत्रोपलब्धसामर्थ्यस्यानुमानेऽपि स्वातन्त्र्यसिद्धिरित्याशयवता प्रस्तावादनुमानमिति वक्तव्ये प्रमाणमित्येवाधिकृतम्।
॥ बाधसत्प्रतिपक्षयोरपि स्वतन्त्रदोषत्वसमर्थनम्॥
एतेनैतदपि निरस्तम् अस्तु स्ववाक्यविरोधस्य पृथग् दोषत्वम्, अव्याप्त्युत्थापकत्वायोगात्। बाधप्रतिरोधरूपः प्रमाणविरोधस्तु न स्वतन्त्रदोषः। प्रमाणविरोधे हि हेतुरपक्षधर्मो वा स्यात्, अनैकान्तिको वा। जिज्ञासितधर्मणो धर्मिणः पक्षत्वात्। प्रमाणावगतसाध्यविरुद्धधर्मवतश्चापक्षत्वेन तद्धर्मस्यापक्षधर्मत्वनियमात्। साध्यधर्मण्येव प्रमाणोपस्थापितसाध्यधर्मविरुद्धधर्मवति दर्शनेन व्यभिचारात्। नच सपक्षविपक्षावेवान्वयव्यतिरेकगम्याविनाभावदर्शनविषयौ, न पक्ष इति साम्प्रतम्। यदि हि पक्षं विहाय बहिरेवाविनाभावोऽवगम्यते, तदा बहिर्व्याप्तिबलेन पक्षधर्मोऽपि हेतुर्न पक्षे साध्यं साधयेत्। असिद्धा हि तत्र तस्य साध्येन व्याप्तिः। तस्मादन्तर्बहिर्वा सर्वोपसंहारेण अविनाभावोऽवगन्तव्यः। एवञ्च सिद्धः पक्षे व्यभिचारः साधनधर्मस्य।
ननु प्रतिरोधे कथम्? तत्रापि व्याप्तिग्राहकस्य प्रमाणस्य प्राबल्यात्। उभयत्रापि प्रमाणसद्भावे व्याप्यत्वासिद्धावन्तर्भावादिति। प्रमाणविरोधस्य प्रमाणान्तरेऽप्यविषयवृत्तिताहेतुत्वेनावगतस्वतन्त्रदूषणभावस्यानुमानेऽपि तथैवाङ्गीकर्तुमुचितत्वात्।
अपिच किं व्याप्तिग्रहणसमयेऽव्याप्तेरुपस्थापकः प्रमाणविरोधः स्यात्, उतानुमानप्रवृत्त्युत्तरमपि? आद्यस्त्विष्यत एव। “मानबाधे न तद् भवेत्” इति वक्ष्यमाणत्वात्। न द्वितीयः, उपजीव्यपरित्यागेन उपजीवकस्वीकारस्यायुक्तत्वात्। प्रमाणविरुद्धस्यापक्षधर्मत्वे सिद्धसाधनस्यापि तथात्वं स्यात्। समानन्यायत्वात्। ओमिति चेत्, न। स्वार्थानुमानेऽपि सिद्धसाधनस्य दोषत्वापत्तेः। नहि पक्षधर्मतासिद्धिः परार्थ एवानुमाने दोषः। तस्मात् परानाकाङ्क्षित्वादसङ्गत एव सिद्धसाधन इति।
॥ नैयायिकोक्ताशेषनिग्रहस्थानानां विरोधादिष्वन्तर्भावः॥
एवमनुमानदोषान् निरूप्य प्रसङ्गात् परनिरूपिताशेषनिग्रहस्थानानामपि विरोधादिष्वेवान्तर्भाव इत्याह संवादेति।
संवादानुक्तिसंयुक्ता एत एव तु निग्रहाः॥३६॥
निगृह्यते पराजीयते एताभिरिति निग्रहाः निग्रहस्थानानि। ननुच प्रतिज्ञाहान्यादीनां वक्तृदोषाणां कथमर्थवचनदोषेषु विरोधासङ्गतिन्यूनाधिक्येष्वनुप्रवेश इत्यत उक्तम् संवादानुक्तिसंयुक्ता इति। तथाऽप्यनुपपत्तिरेव। विरोधादिचतुष्टयस्यानुमानदोषत्वेनोक्तत्वात्। निग्रहस्थानानां च नियमेन अनुमानाश्रयत्वाभावात्। नहि पुनरुक्तिरनुमान एव सम्भाविनी। प्रश्र्नादावप्युपपत्तेरित्यतोऽस्त्यत्र विशेष इति तुशब्देनाऽह। द्विविधं हि विरोधादिचतुष्टयम्। समयबन्धादिकथासर्वरूपसाधारणम्, असाधारणं च। तत्रानुमानस्यैव यदसाधारणं विरोधादि, तत्रानुमानदोषाणां सर्वेषां प्रवेशोऽभिहितः। साधारणे तु सर्वनिग्रहस्थानानामिति न कश्चिद् विरोधः। निग्रहस्थानस्वरूपानुवादपूर्वकमन्तर्भावप्रकारश्च लेशतोऽन्यत्रास्माभिर्दर्शित इति। यद्वा कथाबाह्यादीनामेषां निग्रहस्थानताव्यवच्छेदार्थस्तुशब्दः।
॥ कथासामान्यलक्षणम्, वादजल्पवितण्डाभेदेन कथायास्त्रैविध्यम्॥
ननु केयं कथा नामेत्यपेक्षायां तत्स्वरूपं निरूपयन् सामान्यलक्षणं विभागमुद्देशं चाऽह वाद इति।
वादो जल्पो वितण्डेति कथास्तिस्रो विजानताम्।
स्वार्थं परार्थमपि वा तत्वनिर्णयसाधनी॥३७॥
केवलं तु कथा वादो जल्पोऽर्थादिव्यपेक्षया।
सतामेव कथा ज्ञेयावितण्डा त्वसतां सताम्॥३८॥
अप्रकाश्य स्वसिद्धान्तमसतां पक्षदूषणम्।
उक्ते तैः प्रथमं माने वक्तव्यं तस्य दूषणम्॥३९॥
अत्र कथेति लक्ष्यपदमावर्तनीयम्। विचारगोचरेत्युपस्कर्तव्यम्। विजानतामिति जातौ बहुवचनम्। तथाचानेकविद्वत्कर्तृकविचारगोचरा कथा वाक्यसन्दर्भः कथेति सामान्यलक्षणसिद्धिः। ताश्च कथा वादादिभेदेन तिस्रः त्रिविधा इत्यर्थः। विजानतां मतेन तिस्र इति वा। तेन न्यूनाधिकसङ्ख्योक्तिस्तद्विरोधादयुक्तेत्युक्तं भवति।
॥ वादस्वरूपम्॥
वादलक्षणमाह स्वार्थमिति। तत्वनिर्णयसाधनीत्यर्थाद्यर्थजल्पवितण्डाव्यवच्छेदः। तथाऽपि वितण्डाविशेषेऽतिव्याप्तिः, तदर्थं केवलमित्युक्तम्। साक्षादित्यर्थः। तुशब्देन तत्वनिर्णयसाधनादपि जल्पविशेषात् तदुद्देशेन प्रवृत्तत्ववैलक्षण्यं दर्शयति। यदातु विदिततत्वौ वीतरागावविदिततत्वैः परैरभ्यर्थितौ कथां कुरुतः, तदा तत्राव्याप्तमेतल्लक्षणम्। नचासौ न वादः। अन्यत्रानन्तर्भावेन तिस्र इत्यस्य व्याघातादित्यत उक्तम् स्वार्थं परार्थमपि वेति। अपिशब्द उभयार्थतासमुच्चयार्थः।
॥ जल्पस्वरूपम्॥
जल्पलक्षणमाह जल्प इति। आदिपदेन ख्यात्यादेर्ग्रहणम्। अर्थादिव्यपेक्षयेति वादव्यावृत्त्यर्थम्। आनुषङ्गिकार्थादिसाधनत्वं वादस्यापि सम्भवतीति व्यपेक्षाग्रहणम्। वितण्डाव्यावृत्त्यर्थं सतामेवेति। सतामित्येवोक्ते न वितण्डाव्यावृत्तिसिद्धिः। वितण्डायामप्येकस्य सत्त्वात्, बहुवचनस्य जात्यर्थत्वात्। तेन एवेत्युक्तम्।
॥ वितण्डास्वरूपम्॥
वितण्डां लक्षयति वितण्डेति। तुशब्दो वादजल्पव्यवच्छेदार्थः। कथेत्यनुवर्तते। कर्तृभेदेन कथाभेदेऽतिप्रसङ्ग इत्यतो लक्षणान्तरमाह अप्रकाश्येति। सद्भिः स्वसिद्धान्तमप्रकाश्य असाधयित्वाऽसतां पक्षस्य दूषणमेव क्रियते यत् सा वितण्डेत्यर्थः। प्रतिवादिनः स्वपक्षसाधनेन विना परपक्षप्रतिक्षेपमात्रेण पर्यवस्यन्ती कथा वितण्डेत्युक्तं भवति।
नन्वेतदेव किन्निमित्तम्? प्राश्र्निकाद्यधीनमिति ब्रूमः। तेऽपि कुत एतादृशनियमं कुर्युरिति चेत्, न। तत्वज्ञानायोग्यानसतः प्रति सद्भिः स्वसिद्धान्तसाधने तेषां तत्वज्ञानोत्पादप्रसङ्गात्। तस्य च निषिद्धत्वादित्याशयेनासतामित्युक्तम्। एतेन प्रथमलक्षणस्यापि समर्थनं वेदितव्यम्।
॥ वितण्डालक्षणेऽनुपपत्तिपरिहारः॥
नन्वसम्भवीदं लक्षणम्। परपक्षदूषणं हि तत्प्रतिपादकप्रमाणदूषणेनैव भवेत्। नच स्वपक्षसाधनहीनायां वितण्डायां तत् सम्भवतीत्यत आह उक्त इति। तैरसद्भिः प्रथमं स्वपक्षसाधनाय मान उक्ते सति सद्भिस्तस्य मानस्य दूषणं वक्तव्यम्। असतो वादिभूतस्य स्वपक्षसाधनं परपक्षनिराकरणं च करणीयम्। सतस्तु प्रतिवादिनः तत्प्रमाणदूषणेनैव चरितार्थत्वमित्युक्तं भवति।
क्वचित् “सतामेव” इत्यादिसार्धश्लोको “वादजल्पयोः” इत्यतः परं पठितः। तत एतामेव सङ्गतिमाश्रित्य टीकाकृता तत्रैव व्याख्यातः।
॥ जल्पे वितण्डे च समविद्यवादिनोरेवाधिकारः॥
किञ्च गुरुशिष्यादयोऽसमानविद्या अपि वादेऽधिक्रियन्ते। तत्वनिर्णयार्थित्वात्। जल्पवितण्डयोस्तु सम्भावितसमानविद्ययोरेवाधिकारः,
“ययोरेव समं वित्तं ययोरेव समं श्रुतम्।
तयोर्विवाहो वादश्च नोत्तमाधमयोः क्वचित्”
इति स्मरणात्। वादो जल्पवितण्डालक्षणो विवादः। अन्यथाऽत्यन्तापकृष्टोऽप्युत्कृष्टतमेन वैयात्याद् घटमानो यदि वा दैवात् तमभिभावयेत् तदा वृथाख्यातिं लभेत। तथाच प्राश्र्निकादीनामसुज्ञत्वं प्रत्यवायश्च स्यात्। “अपूज्यः पूज्यते यत्र” इति वचनात्। एवञ्च वादाज्जल्पवितण्डयोर्भेदः।
॥ जल्पवितण्डयोः विद्यापरीक्षापूर्वत्वम्॥
नन्वेतदयुक्तम्। परबुद्धेरप्रत्यक्षत्वेन विद्यासाम्यवैषम्ययोर्ज्ञातुमशक्यत्वादिति चेत्, न। जल्पवितण्डार्थिनोर्विद्यासाम्यादेः परीक्षया निश्चयोपपत्तेः। तदेतदाह विद्येति।
विद्यापरीक्षापूर्वैव वितण्डा जल्प एव च।
विद्यापरीक्षा पूर्वा कारणभूता यस्याः सा तथोक्ता। विद्यापरीक्षया निश्चितसाम्ययोरेव वितण्डा दातव्या, न विषमविद्ययोः। जल्पश्चैवं विद्यापरीक्षापूर्व एवेति व्याख्येयम्। द्वितीयैवशब्दो वादव्यावृत्त्यर्थः। समानविद्ययोरेवेत्ययं नियमो न वादेऽस्तीति।
॥ वादिप्रतिवादिनोर्विद्यापरीक्षायाः वादेनैव कर्तव्यताप्रतिपादनम्॥
ननु जल्पवितण्डार्थिनोर्विद्यासाम्यादिनिश्चयाय कर्तव्या परीक्षा किं कथया, उतान्यथा? नान्यथा, अन्योन्यसङ्घर्षणेन विना तदसिद्धेः। आद्येऽपि किं वादेन, जल्पवितण्डाभ्यां वा? न प्रथमः, ख्यात्यादिकामयोः स्पर्धावतोर्वादानुपपत्तेः। न द्वितीयः, अनवस्थापातादिति चेत्, न। वादेन तावद् विद्यापरीक्षणस्येष्टत्वादित्याशयवान् वादस्य विद्यापरीक्षायां कारणत्वमन्वयव्यतिरेकाभ्यां साधयितुमुपोद्घातं तावदाह उच्चेति।
उच्चनीचत्वनिर्णीतिर्यतो जयपराजयौ॥४०॥
विनैव तत्वनिर्णीतिं नहि जल्पादिना क्वचित्।
उच्चनीचत्वविज्ञानमिति विद्यापरीक्षणम्॥४१॥
वादेन चोच्चनीचत्वविज्ञानं भवति स्फुटम्।
इति वादस्य पूर्वत्वं तत्सिद्धौ व्यर्थताऽन्ययोः॥४२॥
यतो विद्ययोच्चत्वेन निर्णीतत्वमेव जयः, नीचत्वेन निर्णीतत्वं च पराजय इत्यर्थः। “इति विद्यापरीक्षणं वादेन” इति वक्ष्यमाणेनान्वयः।
एवमुपयुक्तमभिधाय व्यतिरेकमाह विनैवेति। निर्णीयतेऽनयेति निर्णीतिः, तत्वस्य निर्णीतिः तत्वनिर्णीतिः। वाद इति यावत्। तत्वनिर्णीतिं विनोच्चनीचत्वविज्ञानं नहीत्येवोक्ते विना वादेनेति वक्ष्यमाणविरोधः स्यात्। अतो जल्पादिनेत्युक्तम्। इतिशब्दस्तस्मादित्यर्थे। विद्यापरीक्षणं वादेनेति वक्ष्यमाणमत्रापि सम्बद्ध्यते। यद्यपि सत्साधनोपलम्भे जल्पेऽपि भवति वादिनोरुच्चनीचत्वविज्ञानम्। तथाऽपि तदुद्देशेनाप्रवृत्तेस्तादर्थ्यस्य प्रथममनिश्चयान्न तदर्थं जल्पो दातुं शक्यते।
व्यतिरेकस्यान्यदीयाकारणत्वमात्रनिश्चयहेतुत्वाद् वादस्य कारणतामवधारयितुमन्वयं चाऽह वादेनेति। चशब्दोऽन्वयस्य व्यतिरेकेण सयुच्चयार्थः। अन्वयव्यतिरेकाभ्यां समर्थितमर्थमुपसंहरति इतीति। इति तस्माद् वादस्य पूर्वत्वम्। जल्पवितण्डार्थिनोर्विद्यासाम्यादिनिश्चयहेतुपरीक्षार्थं प्रथमानुष्ठेयत्वं सिद्धमित्यर्थः।
एतदुक्तं भवति समानविद्ययोरेव जल्पवितण्डे। समानविद्यता च परीक्षानिश्चेया। परीक्षा च वादकथया विधेया, न जल्पवितण्डाभ्याम्। जयेन हि विद्याधिक्यं निर्णेतव्यम्। पराजयेन च तन्न्यूनता। जयपराजयौ च प्रमाणतर्काभ्यां प्रकृतप्रमेयसाधनसामर्थ्यासामर्थ्यलक्षणौ उच्चनीचत्वनिर्णयविषयताशब्दवाच्यावेव प्रकृतोपयोगिनौ। तौ च वाद एव सम्भवतो न जल्पवितण्डयोः। तत्र यत्किञ्चिन्निग्रहोद्भावनमात्रेण जयपराजयव्यवस्थापनात्। अतो जल्पवितण्डार्थं जल्पवितण्डाभ्यर्थनाभावान्नानवस्थेति।
जल्पवितण्डार्थिनोर्विद्यापरीक्षायां वादेन कृतायां किं कार्यम्। समविद्यत्वसम्भावनायां जल्पवितण्डे कर्तव्ये इत्युक्तमेव। विषमविद्यतावधारणायां किं विधेयमित्यपेक्षायमाह तत्सिद्धाविति। तेन वादेनैव तस्य नीचोच्चभावस्य सिद्धौ सत्यामन्ययोर्जल्पवितण्डयोर्व्यर्थता। ततश्च अकर्तव्यतेत्यर्थः। परीक्षार्थेन वादेनैवोपरम इति।
॥ लोकसंवादादिना एकस्य वादिनो बहुविद्यत्वसिद्धौ कथाया एवाप्रसङ्गः॥
जल्पवितण्डार्थिनोर्विद्यापरीक्षार्थं वादकथा प्रथमं दातव्येत्युक्तस्यापवादमाह बहुविद्यत्वेति।
बहुविद्यत्वसिद्धौ तु नैव वादोऽपिकारणम्।
प्राक् परीक्षतो लोकसंवादादिनाऽन्यतरस्य प्रतियोग्यपेक्षया बहुविद्यत्वसिद्धौ तु वादोऽपि नैव दातव्यः। किमु जल्पवितण्डे इति। कुत इत्यत आह कारणमिति। विद्यापरीक्षाया इति शेषः। वाद इत्यनुवर्तते। वादो हि विद्यापरीक्षाकारणमित्येष्टव्यो नतु व्यसनितया। तत्फलं त्वन्यत एव जातमिति किं परीक्षया, किं तदङ्गेन वादेनेति।
॥ वादस्य विद्यापरीक्षाकारणत्वोक्तावनुपपत्तिपरिहारः॥
यदुक्तं स्पर्धावतोः ख्यात्यादिकामयोर्वादो न सम्भवति, तत्रासत्साधनोत्तरप्रयोगस्यावश्यमवर्जनीयत्वात्, ततश्च विद्यासाम्यवैषम्यनिर्णयानुपपत्तेरिति तत्राऽह सभेति।
सभासभापप्राश्र्नीकपूर्वस्तु स्पर्धिनामपि॥४३॥
वाद एव...............................।
प्रश्नशब्दात् करोतीत्यर्थे ईकक्प्रत्ययो वक्तव्यः। स्पर्धिनामिति जातौ बहुवचनम्। एवेत्यस्य युज्यत इत्यध्याहृतेनान्वयः। यतः सभादिपूर्वः, ततः स्पर्धिनामपि वादो युज्यत एवेति। तुशब्दो हेत्वर्थः। सभासभापतिप्राश्र्निकैः नियतयोरसत्साधनादिप्रयोगवर्जनसम्भवादिति भावः।
॥ विद्यापरीक्षार्थस्य वादस्य अर्थादिकारणत्वम्॥
यदुक्तं “तत्सिद्धौ व्यर्थताऽन्ययोः” इति तदयुक्तम्। वादेन तत्वनिर्णयसिद्धावप्यर्थाद्यसिद्धेः। तथाचाभिलषितं न सिद्धम्, सिद्धं चानभिलषितमिति तत्राऽह उभयेति।
.........उभयार्थः स्यान्निर्णीतिजयकारकः।
वाद इत्यनुवर्तते। अस्यैव विवरणं निर्णीतीति। न केवलं निर्णीतिकारकः, किन्तु जयकारकश्च। जयशब्देन तत्साध्यमर्थादिकमुपलक्ष्यते। विद्यापरीक्षार्थे वादे जयिनोऽर्थादिकमपि सभापतिना सम्पादनीयमिति भावः।
॥ वितण्डाजल्पयोः तत्वाप्रकाशः एव फलम्॥
एवन्तर्हि न कदाऽपि जल्पवितण्डाप्रवृत्तिः, “व्यर्थताऽन्ययोः” इति युक्तेः समानत्वात्। यथाहि विद्यावैषम्यनिर्णये जितवतोऽर्थादिलाभः, तथा तत्साम्ये द्वयोरपि अर्थादिलाभः सम्भवत्येव। नच फलान्तरमस्ति येन पुनर्जल्पवितण्डारम्भः स्यादित्यत आह तत्वाप्रकाश एवेति।
तत्वाप्रकाश एवैको वितण्डाजल्पयोः फलम्॥४४॥
तत्वाप्रकाश इति परवञ्चनसामर्थ्यमुच्यते। तेन तत्साध्योऽर्थादिलाभो लक्ष्यते।
इदुमुक्तं भवति यद्यपि विद्यासाम्यवैषम्ययोर्निर्णीतिजयौ स्याताम्, तथाऽपि तात्त्विककथाफलरूपावेव। पराच्छादनचातुर्यप्रयुक्तार्थादिलाभार्थं समानविद्ययोः पुनर्जल्पवितण्डाप्रवृत्तिरिति। नचैवं विषमविद्ययोरपि तत्प्रवृत्तिः, उपप्लवप्रसङ्गस्योक्तत्वादिति।
यद्वा तत्वनिर्णयफलो वादः, अर्थादिफले जल्पवितण्ड इति फलभेदेन कथाभेद उक्तः। सोऽनुपपन्नः। तथासत्यर्थादीनां भेदेन कथानन्त्यप्रसङ्गादित्यत आह तत्वेति। यद्यपि अर्थादयोऽवान्तरभेदभिन्नाः, तथाऽपि तत्वाप्रकाश एक एव वितण्डाजल्पयोः फलम्। तत्वनिर्णयेतरत्वरूपेणार्थादीनामेकत्वान्नोक्तदोषः। तदवान्तरभेदविवक्षा तु व्यर्थैवेति भावः।
॥ अविगीतविद्वत्प्रसिद्ध्यादिना वादिनोः समविद्यत्वे सिद्धे वादस्यानवसरः॥
एवं कथया विद्यापरीक्षणमिति पक्षः समर्थितः। इदानीमन्यथेति पक्षमपि समर्थयमान आह विनेति।
विना वादेन विद्याया यदि शक्यं परीक्षणम्।
स्याज्जल्पादिरपि क्वापिवाद एवान्यथा भवेत्॥४५॥
अविगीतविद्वत्प्रसिद्ध्यादिनेति शेषः। क्वापित्यस्य पूर्वार्धेनान्वयः। तदा समविद्ययोः प्रथममपि जल्पादिः कथाविशेषः कार्यः स्यादित्यर्थः। तर्हि विद्यापरीक्षणं वादेनैवेत्युक्तिविरोध इत्यत आह वाद एवेति। वाद एव प्रथमं कर्तव्यो भवेदिति यदुक्तं तदन्यथा वादेन विना विद्यापरीक्षणस्य कर्तुमशक्यत्व एवातो न विरोध इति।
॥ तत्वनिर्णयअर्थादिरूपफलद्वयनिमित्तेन प्रवृत्तस्य वादस्य जल्पशब्देनापि व्यवहार्यता॥
अस्त्वेवमुपायान्तरविरहे कथयैव विद्यापरीक्षणम्। सा तु वाद इति कुतः? तत्वनिर्णयार्थिनोः अधिकारित्वात्, तत्फलत्वाच्चेति चेत्, न। एवन्तर्हि विजिगीषावतोरधिकारित्वादर्थादिफलत्वात् सभाद्यङ्गोपेतत्वाज्जल्पोऽपि स्यादिति। किमत्र जल्पशब्दवाच्यतामात्रमापाद्यते, किंवा वादशब्दवाच्यताभावः, अथवा समाहाररूपं कथान्तरम्, यद्वा निमित्तद्वयसमावेशे वादशब्दस्यैव व्यवहारानुपपत्तिः? सर्वत्राप्युत्तरमाह जल्प इति।
जल्प इत्यपि नाम स्याद् वादस्यैतादृशस्य तु।
एतादृशस्य निमित्तद्वयोपेतस्यात्र जल्प इति नाम स्यादित्यभ्युपगमेनाऽद्यो निरस्तः। अपिशब्देन वादशब्दवाच्यतां प्रतिज्ञायैतादृशस्येत्यनेन हेतुरुक्तः। तेन द्वितीयोऽपि निराकृतः। नहि निमित्तसद्भावे वाचकाप्रवृत्तिरिति युक्तम्। जल्पशब्देऽपि साम्यात्। अतस्तुलायां प्रमाणप्रमेयशब्दवदुभयशब्दवाच्यत्वमिति। तृतीयोऽप्यनेनैव निराकृतः। अन्यथा तुलाऽपि प्रमाणादितो विधान्तरवती स्यात्।
वादस्य जल्प इत्यपि नाम स्यादिति वादसञ्ज्ञा तु मुख्या जल्पसञ्ज्ञा त्वमुख्येतिे सूचितम्। तेन चतुर्थोऽपि निरस्तः। तत्र हेतुविशेषसद्भावं तुशब्देन द्योतयति।
तथाहि यद्यपि कथकावादितो विजिगीषू तथाऽपि सभ्यादिभिर्विजिगीषां परिभाव्योत्पादिता तत्वनिर्णयार्थितैव कथोपयोगिनी। अर्थादिलाभश्चान्तरा प्राप्तो न त्वादित एवोद्दिष्ट इत्यमुख्य एव। अत एव पूर्व उभयार्थः स्यादित्युक्ते साम्यप्रतीतिप्रसक्तौ निर्णीतिजयकारक इति तत्वनिर्णीतेः प्राधान्यप्रदर्शनार्थं विवरणं कृतम्। अन्यथा कथाफलद्वयस्यैवोभयशब्देन प्रतीतेर्विवरणं व्यर्थं स्यात्। “अल्पाच्तरम्” इति लक्षणस्य व्यभिचारं कुर्वाणेनाप्येतदेव सूचितम्। अन्यथा जयनिर्णीतिकारक इत्यवक्ष्यत्। सभ्यादिसंवरणं च विजिगीषुतापरिभवार्थमिति वादताप्राधान्यमेवोपोद्बलयतीति।
॥ विद्यापरीक्षाकारणकथाया वादत्वसमर्थनम्॥
अपिचाधिकारिभेदादिकं बहिरङ्गतयैव कथाभेदकम्। अन्तरङ्गं तु प्रवृत्तिप्रकार एव। स च वादसम्बन्ध्येवास्यां कथायामस्तीत्यतो वादत्वमेव मुख्यमित्याशयवानाह प्रतिज्ञेति।
प्रतिज्ञामात्रसाध्यत्वमपि स्याद् याज्ञवल्क्यवत्।
संवादे वादिनोः क्वापिविवादे हेतुरिष्यते॥४६॥
विद्यापरीक्षार्थायां कथायां क्वापि प्रमेये प्रतिज्ञामात्रेण प्रमाणोपन्यासरहितेन वचनेन साध्यत्वं प्रज्ञापनीयं स्यात्। कुत एतत्? “कत्येव देवा याज्ञवल्क्य” इति शाकल्येन पृष्टे याज्ञवल्क्येन “त्रयस्त्रिंशत्” इति वचनमात्रेण प्रज्ञापनस्य कृतत्वात्। सा च विद्यापरीक्षार्था कथेत्युपक्रमपर्यालोचनया सिद्धम्। याज्ञवल्क्यशब्देन तत्कथोपलक्ष्यते। सप्तम्यर्थे वतिः।
ततः किमित्यत आह संवाद इति। एवम्भावो हि वादिप्रतिवादिनोः संवादेऽन्योन्याप्तताश्र्वासे सत्येव स्यात्, तदाश्र्वासो हि वाद एव सम्भवति, न जल्पे। विजिगीषुणाऽपसिद्धान्तादिपरिहारेण सर्वथा प्रमाणप्रश्नस्य कर्तव्यत्वात्। तेनायं वाद एवेति ज्ञायत इति।
नन्वेवन्तर्हि न विद्यापरीक्षा सम्भवति। प्रमाणोपन्यासे हि तत्समर्थनोपालम्भाभ्यां सा स्यात्। नतु प्रश्नप्रतिज्ञाभ्युपगममात्रेणेत्यत आह विवाद इति। हेतुरिति प्रमाणमात्रोपलक्षणम्। प्रमाहेतुरिति वा। नह्येकत्राऽप्तः सर्वत्राऽप्त एवेति नियमोऽस्तीति भावः। याज्ञवल्क्येनापि तत्रतत्र प्रमाणोपन्यासः कृत एवेति सकलमनाकुलम्।
॥ सभ्यसभापतिप्राश्र्निकानां लक्षणानि॥
प्रकृतानां सभ्यसभापतिप्राश्र्निकानां स्वरूपजिज्ञासायामाह सभेति।
सभा सभापतिश्चैव प्राश्र्निकाश्चैव वैष्णवाः।
रागद्वेषविहीनाश्च स्युः सभ्याः सर्ववेदिनः॥४७॥
प्राश्र्निकाश्च..............................।
द्वौ चशब्दौ सभादीनामन्योन्यसमुच्चये। तृतीयो विशेषणसमुच्चये। एवशब्दौ तु वैष्णव एव रागद्वेषविहीना एवेति सम्बद्ध्येते। अन्यथा कथानुपपत्तिसूचनं तत्प्रयोजनम्। स्युरिति वक्ष्यमाणमिहापि सम्बद्ध्यते।
सभ्यानां प्राश्र्निकानां च विशेषणान्तरमाह स्युरिति। सर्वशब्देन वादिप्रतिवादिदर्शनस्य कथोपयुक्तस्य व्याकरणादेश्च सङ्ग्रहः। पुनः सभ्यप्राश्र्निकग्रहणं सभापतिव्यवच्छेदार्थम्। तत्सार्वज्ञ्यस्य कथोपयोगाभावात्। सभ्याः प्राश्र्निकाश्च सर्ववेदिनः स्युरित्यन्वयः।
॥ प्राश्र्निकसभ्यादिसंवरणस्य प्रयोजनम्॥
ननु प्राश्र्निकानां क्वोपयोगः? विवदमानयोर्गुणदोषावधारणादाविति ब्रूमः। एवन्तर्हि तैरेवालं किं सभ्यैरित्यत आह एतदिति।
.........एतदज्ञाने सभ्याश्चैषां च दूरगाः।
प्रमाणं निर्णयाय स्युःपक्षपातविवर्जिताः॥४८॥
अनन्तरोक्तान् प्राश्र्निकानेतच्छब्देन परामृशति। क्वचित् सूक्ष्मे प्रमेये एतेषां प्राश्र्निकानां कारणान्तराद् वाऽज्ञाने सति वादिनोर्गुणदोषनिर्णयाय सभ्याश्च प्रमाणं स्युरिति वक्ष्यमाणेनान्वयः। प्रमाणाश्रयेषु प्रमाणत्वोपचारः।
यद्येवं प्राश्र्निकेष्वज्ञानशङ्कया सभ्यानां वरणम्, तदा तेष्वप्यज्ञानशङ्कयाऽन्येऽपि वरणीयाः। अन्यथा निर्णयाभावेन कथावैयर्थ्याप्तत्तेः। तेष्वप्येवमित्यत आह एषां चेति। एषां सभ्यानां चाज्ञाने दूरगा देशान्तरस्थाः। नचैवं सभ्यसंवरणमप्यनर्थकम्। ततः परं प्रायेणाज्ञानशङ्कानुदयात्। लौकिकश्चायमर्थ इति।
दूरगानां निर्णायकत्वसम्भवाय विशिनष्टि पक्षेति। एकदेशोत्कीर्तनेन यथोक्तं सभ्यादिलक्षणमतिदिशति।
॥ स्वपक्षसाधनम्, प्रतिपक्षदूषणं वादजल्पयोः, वितण्डायां तु परपक्षदूषणमात्रम्॥
“अप्रकाश्य स्वसिद्धान्तम्” इति वितण्डालक्षणमुक्तम्। तत् कथं वादजल्पाभ्यां व्यावर्तकमित्यत आह उभाभ्यामिति।
उभाभ्यां साधनं चैव दूषणं वादजल्पयोः।
वादजल्पयोरुभाभ्यामेव स्वपक्षसाधनं परपक्षदूषणं कर्तव्यम्, नतु प्रतिवादिनः परपक्षदूषणमात्रेण कृतार्थतेति।
॥ पाठान्तरस्य व्याख्यानक्रमः॥
“सतामेव” इति सार्धश्लोकस्यात्र सन्निवेशे तु, लक्षितौ वादजल्पौ। इदानीं तु वितणडाया लक्षणद्वयं विवक्षुस्तावदुपयुक्तमाह उभाभ्यामिति। कथा वादजल्पलक्षणा। एतेन जल्पोऽर्थादिव्यपेक्षयेत्युक्तस्य वितण्डायामतिव्याप्तिरपि परिहृता। उभयसाधनवत्त्वेन सदेकाधिकारिकत्वेन वाऽर्थादिव्यपेक्षकथाया विशेषितत्वात्।
यदर्थं सतामेवेत्युक्तं तद् वितण्डालक्षणमाह वितण्डा त्विति। कथेत्यनुवर्तते। उभाभ्यामिति यदर्थमुक्तं तल्लक्षणान्तरमाह अप्रकाश्येति। उक्ते तैरिति पूर्ववदिति।
॥ स्वपक्षसाधने नियमाः॥
“उभाभ्यां साधनम्” इत्याद्युक्तम्। तत्र साधनाय किं प्रमाणं प्रयोक्तव्यम्? यत्र यदस्ति तत्र तदेव वक्तव्यम्। सत्यम्। प्रमाणसम्प्लवे तु कथम्? किं सर्वमेव, उतैकमेव? तत्रापि किमित्यपेक्षायामाह सद्भिरिति।
सद्भिरागम एवैकः प्रयोज्योऽभीष्टसाधकः।
एक एव, नतु सम्भवत् सर्वम्, आधिक्यप्रसङ्गात्। स चाऽगम एवेति योज्यम्। यद्वैकशब्दो मुख्यार्थः। ईश्वरादिप्रमेये मुख्यो वेदादिरागम एव वक्तव्यः। नानुमानमिति।
नन्ववैदिकस्य वेदाद्यागमोपादानेऽपसिद्धान्तः स्यादित्यत उक्तं सद्भिरिति। कुतो वेदादिप्रयोगनियम इत्यत आह अभीष्टेति। यत इति शेषः। अनुमानं खलु न स्वातन्त्र्येणेश्वरादिसाधनस्येष्टे। सर्वत्रोपाधिप्रतिपक्षयोः सम्भवात्। तदर्थमन्ततोऽप्यागमोऽनुसरणीयः। ततो वरं प्रथममेवाऽगमो वक्तव्यः। तस्य स्वातन्त्र्येण साध्यसिद्ध्यङ्गत्वात्। नन्ववैदिकं प्रति कथम्? आगमं प्रयुज्य तत्प्रामाण्यं साधनीयमिति।
॥ वितण्डायां असद्वादिना स्वपक्षसाधनक्रमः॥
नन्वसद्भिः किं वक्तव्यम्? न तावत् प्रत्यक्षम्। अतीन्द्रिये तदयोगात्। नचाऽगमः। स्वपरागमयोः अन्योन्यं प्रामाण्यासम्मतेः। नाप्यनुमानम्। प्रयोगपरिमाणासम्मतेः। तथाहि सौगतो यदि द्व्यवयवप्रयोगं कुर्यात्, तदा नैयायिकेन न्यूनेन निगृह्येत। अनिग्रहे वा प्रतिवादी पर्यनुयोज्यमुपेक्षेत। पञ्चावयवप्रयोगे त्वधिकेन निगृह्येत। तथा स्वीकारे चापसिद्धान्तेन। तथाच नियतावयवादिव्यतिरेकेण वितण्डैव न स्यादित्यत आह स्वसिद्धान्तेति।
स्वसिद्धान्तानुसारेण ह्यसद्भिरनुमोच्यते॥४९॥
यथासिद्धान्तं वक्तव्यमिति प्रा नियमात् स्वसिद्धान्तनिर्णीतप्रयोगावयवपरिमाणापेक्षयैव न्यूनाद्यवतारात्, अन्यथा कथानुपपत्तेरिति हिशब्दार्थः।
॥ परपक्षदूषणे नियमाः॥
सद्भिरागमो वक्तव्य इत्ययुक्तम्। वैदिकस्य प्रतिवादिनस्तद्दूषणेऽपसिद्धान्तात्। अदूषणे तु परपक्षादूषणेन कथाभावप्रसङ्गादित्यत आह प्रत्यक्षेति।
प्रत्यक्षागमवैरूप्यमाश्रित्यान्यार्थतैव तु।
आगमे दर्शनीयाऽत्र दोषो लिङ्गविलोमता।
लिङ्गानुकूल्यं स्वार्थस्य श्रुत्यादीनामनुग्रहः॥५०॥
आगमे तु वादिना प्रयुक्ते प्रतिवादिना वैदिकेन तस्यान्यार्थतैव दर्शनीया। नानुमानस्येवाप्रामाण्यम्। येनापसिद्धान्तः स्यात्। तत एव कृतपरपक्षदूषणोऽपि भवेत्। अन्यार्थतां दर्शितवताऽऽगमस्य पराभिमतार्थात् प्रच्यावितत्वात्। नह्यपेक्षितार्थासाधकत्वादन्यत् प्रमाणदूषणमस्तीति।
नन्वेवंसति कथं कथापर्यवसानम्? स्वस्वाभिमतार्थाग्रहपरित्याजनोपायाभावादित्यत उक्तम् प्रत्यक्षेत्यादि। अत्र पराभिमतेऽर्थे प्रत्यक्षागमविरोधमाश्रित्य। न केवलमेतावत्। अत्रोपक्रमादिलिङ्गविलोमतादोषोऽपि दर्शनीयः। अत्रान्यतरमात्रे तात्पर्यम्। अन्यथाऽऽधिक्यप्रसङ्गात्।
॥ वितण्डायां स्वसिद्धान्तानुसारेणैव अनुमानप्रयोगादेः कर्तव्यता॥
नन्वेतावताऽपि न कथासमाप्तिः। पराभिमतार्थानुपपत्तिमात्रेण स्वाभिमतार्थासिद्धेरित्यतः सत्यमित्याह लिङ्गेति। दर्शनीयपदमनुवर्तते। श्रुत्यादीनां वेदादीनां “श्रुतिर्लिङ्गं समाख्या च” इत्युक्तानां लिङ्गग्रहणेनैव गृहीतत्वात्। उपलक्षणं चैतत्। परार्थे प्रमाणानुकूल्यस्य स्वार्थे तत्प्रतिकूलस्य च निरासो दर्शनीय इत्यपि द्रष्टव्यम्। स्वसिद्धान्तसिद्धप्रयोगपरिमाणानतिक्रमेण परार्थानुमानवाक्यप्रयोगः कर्तव्यः। तथात्वे च न न्यूनाद्यवतारः। तदतिक्रम एव तदवकाश इत्युक्तम्।
॥ उदयनोक्तवितण्डाप्रवृत्तिसमर्थनप्रकारनिरासः॥
अपर आह यथावस्तु प्रयोक्तव्यम्। नच वस्तुतत्व एव वादिनां विप्रतिपत्तेरवश्यं न्यूनाद्यवतारासम्भवेनाप्रयोगप्राप्तिरिति वाच्यम्। यस्य यत्र तात्त्विकत्वाभिमानः, तेन तत्प्रयोगानन्तरं परेण न्यूनादावुद्भाविते तथारूपतायाः साधनीयत्वात्। नचैवमर्थान्तरापातः। हेतोरन्यतरासिद्ध्युद्भावने तत्सिद्धिव्युत्पादनवत् प्रकृतोपयोगसद्भावादिति। तदयुक्तम्। द्वित्रिपञ्चावयवादिपक्षाणां सर्वेषामपि तात्त्विकतायाः समर्थितत्वात्। (५१५) स्वस्वनियमस्यैव तात्त्विकत्वमुपेत्य तदनतिक्रमेणैव प्रयोगाङ्गीकारे तु सर्वथा कथोच्छेदापत्तेः। तत्तात्त्विकतायां प्रतिवादिना विप्रतिपद्यमानेनावश्यं न्यूनादेरुद्भावनात्। ननूक्तमत्र स्वस्वावयवकल्पना परं प्रति समर्थनीयेति। दुरुक्तं तत्। तत्समर्थनस्याशक्यत्वादित्याह त्रिपञ्चेति।
त्रिपञ्चावयवामेव युग्मावयविनीमपि।
नियमाद् योऽनुमां ब्रूयात् तं ब्रूयाद् यदि तादृशी।
नानुमेति तदा केन साध्यावयवकल्पना॥५१॥
त्रयः प्रतिज्ञाहेतूदाहरणानि, उदाहरणोपनयनिगमनानि वा, पञ्च प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि वाऽवयवा यस्याः सा त्रिपञ्चावयवा। एवशब्देन पक्षद्वयनियममाह। युग्मौ द्वावुदाहरणोपनयावयवौ यस्याः सा युग्मावयविनी। नियमादिति सन्निहितेनैव सम्बद्ध्यते। अनुमेति तादर्थ्यात् प्रयोग उच्यते। वैशेषिकादीनां तत्रैव व्यवहारात्। तं ब्रूयाद् यदि परोऽनियतवादीति शेषः।
यद्वा यो मीमांसकः, ताकिकादिश्च त्रिपञ्चावयवामेवानुमां ब्रूयात्। तं प्रति यः सौगतो नियमाद् युग्मावयविनीं ब्रूयात्। स यदि तादृशी त्र्यवयवा पञ्चावयवा च नानुमेति ब्रूयादिति योज्यम्। एवं परिवर्तेनापि। तादृशी नानुमेत्यस्य प्रमाणाभावादिति शेषः।
एतदुक्तं भवति नैयायिकेन सौगतं प्रति पञ्चावयवप्रयोगे विहिते सौगतोऽधिकमिति निगृह्णीयात्। ततो नैयायिकेन पञ्चावयवप्रयोगस्यैव तात्त्विकत्वान्नैवमिति वक्तव्यम्। ततः सौगतो नेदं तत्वमप्रामाणिकत्वादिति वदेदेव। अथ नैयायिकेनाप्रामाणिकत्वमसिद्धमिति वदता कथमिति सौगते पृष्टवति सति केन प्रमाणेन स्वीया पञ्चावयवकल्पना साध्या। न तावत् प्रत्यक्षेण। पञ्चावयववाक्यस्य व्याप्तिपक्षधर्मतोपेतलिङ्गप्रतीतिजनकत्वमित्यस्यार्थस्य तदगोचरत्वात्। नहि कार्यकारणभावः क्वापि प्रत्यक्षस्य विषयः। नचाऽगमेन। तदभावात्। “पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित्” इति भारतादिवाक्यमस्तीति चेत्, न। “सौक्ष्म्यं सङ्ख्याक्रमश्चैव निर्णयश्च प्रयोजनम्” इत्यादिना तत्रैव अन्यथा व्याख्यातत्वात्। नाप्युपमानाभावाभ्याम्। नियतविषयत्वात्। नचार्थापत्त्या। तदभावात्, अनुमानानतिरेकाच्चेति।
मा भूत् प्रत्यक्षादिनाऽवयवकल्पनासिद्धिः। अनुमानेन तु भविष्यति। व्याप्तिपक्षधर्मतोपेतलिङ्गप्रतीतेः पञ्चावयववाक्यश्रवणान्वयव्यतिरेकानुविधायित्वादिति चेत्, न तावदिदमनुमानं त्वच्चेतसि परिवर्तमानं परं प्रत्यायनाङ्गम्। किन्नाम। प्रयुज्यमानम्। तत्र किं पञ्चावयवप्रयोगोऽस्य विधास्यते, अथ द्व्यवयवः? नोभावपीत्याह नियतेति।
नियतावयवासिद्धौ व्याप्तिमात्रेण साधनम्।
कर्तव्यमेव तेन स्यात्तस्मात् सैवानुमा मता॥५२॥
नियतावयवस्य पञ्चावयवस्य द्व्यवयवस्य च यथासङ्ख्यं सौगतनैयायिकयोर्बोधौपयिकत्वासिद्धौ नानुमानेनाप्यवयकल्पनासिद्धिरिति शेषः।
यद्वोत्तरवाक्ये नियतावयवासिद्धावित्यनुवादोऽयम्। ततो नियतावयवासिद्धेरिति सिद्ध्यति, पञ्चावयवप्रयोगे परेणाधिक्योद्भावनात्। द्व्यवयवप्रयोगेऽन्यतरन्यूनत्वापासिद्धान्तयोरुद्भावनादित्यर्थः। ततः किमित्यत आह व्याप्तीति। यत एवं नोपायान्तरं तेन कारणेन। तेन नैयायिकेन व्याप्तिमात्रेण यद्यस्यान्वयव्यतिरेकावनुविधत्ते तत्तत्कार्यमित्यादिव्याप्तिवचनमात्रेणैव। उपलक्षणमेतत्। “लिङ्गोक्तौ” इत्यादिप्राग्व्युत्पादितप्रकारेष्वन्यतमेनेत्यपि द्रष्टव्यम्। साधनं पञ्चावयवनियमस्य कर्तव्यं स्यात्। सौगतेनापि तदनुसरणीयम्। इतरथा तस्यापि प्रयोगानुपपत्तिप्रसङ्गादिति।
ततोऽपि किमित्यत आह तस्मादिति। यस्मात् प्रयोगेयत्तासाधनं वादिप्रतिवादिभ्यामन्यतरेण वा स्वमतपरित्यागेनान्यमताभ्युपगमे कृत एवोपपद्यते नान्यथा। तस्मात् सैवानुमा मता। व्याप्तिवचनादिकमेव परार्थप्रयोगत्वेन सर्वत्र मन्तव्यम्।
इदमुक्तं भवति यदा नैयायिको द्व्यवयवेन पञ्चावयवनियमं साधयति, तदा द्व्यवयवस्य तात्विकत्वं स्वयं मन्यते, नवा? नेति पक्षे प्रतारकः स्यात्। आद्येऽन्यत्रापि कथं तत् तत्वं न स्यात्। एवं कथाभावप्रसङ्गभीरुः सौगतोऽपि पञ्चावयवेन द्व्यवयवस्याऽवश्यकतां प्रतिपद्यमानः, तत्वं मन्यते नवा? द्वितीये कथं ततः प्रतिपद्येत? आद्येऽन्यत्रापि कुतस्तन्न तत्वम्? अतोऽत्र सर्वसिद्धान्तप्रकाराणां तात्त्विकत्वाद् युक्तं स्वसिद्धान्तानुसारेणेति।
अस्मादेवं सङ्कटाद् बिभ्यदुदयनो यथावस्तु वक्तव्यमित्युक्त्वा यथासिद्धान्तं वा वक्तव्यमिति समयं बद्ध्वा प्रवृत्तायां कथायां न न्यूनाद्यवतार इति पक्षान्तरमवादीदिति। अवसितमनुमानम्।
॥ आगमस्वरूपकथनम्॥
निर्दोषं वाक्यमागमः। स द्विविधः पौरुषेयोऽपौरुषेयश्च। तत्रापौरुषेयो वेदः। अन्यस्तु पौरुषेय इति सुप्रसिद्धत्वान्नोक्तम्।
॥ आगमस्यानुमानरूपत्वप्रत्याख्यानम्॥
केचिद् वाक्यं वाक्यार्थेऽनुमानमिति ब्रुवते। तदनुपपन्नम्। वाक्यवाक्यार्थयोर्देशतः कालतो वाऽन्वयव्यतिरेकाभावात्। अथेदं वाक्यं वाक्यार्थवत्, वाक्यत्वादिति साध्यते। तत्र किं वाक्यार्थमात्रं साध्यते, तद्विशेषो वा? नाऽद्यः, विशेषप्रमितेर्निर्निबन्धनत्वापत्तेः। द्वितीये स विशेषः प्रतीतः, नवा? आद्ये वाक्यवैयर्थ्यम्। द्वितीयेऽप्रसिद्धविशेषणता। विशेषस्यान्यत्राभावादनैकान्त्यं च। मतुबर्थश्च किं प्रतिपाद्यपतिपादकभावः, सम्बन्धान्तरं वा? आद्ये साक्षात्, लिङ्गतया वा? न प्रथमः, अनुमानवैयर्थ्यात्, अपसिद्धान्ताच्च। द्वितीये तु नेदं वाक्यार्थानुमानं किन्तु सिद्धेऽर्थे वाक्यस्य लिङ्गतानुमानमेव। तत्रच दृष्टान्तोऽन्यतरसाध्यविकलः। न द्वितीयः, तदभावेन बाधात्।
॥ उदयनोक्तानुमानदूषणम्॥
अथैवं प्रयुज्यते विवादाध्यासितानि पदानि स्वस्मारितार्थान्वयप्रमितिपूर्वकाणि, आकाङ्क्षादिमत्पदकदम्बकत्वादिति। तदयुक्तम्। विनाप्यन्वयप्रमितिं दैवात् प्रयुक्तेष्वाकाङ्क्षादिमत्सु पदेष्वनैकन्त्यात्। आप्तप्रयुक्तत्वेन हेतुविशेषणे साध्यार्थस्य हेत्वर्थे प्रवेशापत्तेः पुरुषविशेषप्रयुक्तत्वस्य अध्यापकप्रयुक्तेषु व्यभिचारात्। मूलप्रमानुमानेऽपि वेदेष्वनुपपत्तेः। तदपौरुषेयत्वस्य साधितत्वात्।
॥ प्रभाकरमतदूषणम्॥
अपरे त्वपौरुषेयस्याऽगमत्वमुपगम्य पौरुषेयस्यानुमानत्वमभ्युपगच्छन्ति। तेषां तु स्फुटो व्यभिचारः। किञ्च पदानामन्विताभिधाने शक्तिः। पदान्येव च वाक्यम्। नच वैदिकपदेभ्योऽन्यान्येव लौकिकानि पदानि। वक्ता तु पदज्ञान एवोपयुज्यते। तत् कथं लोकवेदयोः प्रकारभेदः स्यात्।
अपिच वेदानुकारेण पठ्यमानेषु लौकिकवाक्येषु कथम्? अन्वयप्रतीतिरुत्पद्यत एव। किन्नाम। पुनः पौरुषेयत्वज्ञानादपनीयत इति। एवन्तर्हि वाक्यादेव वाक्यार्थज्ञानम्। तत्प्रामाण्यनिश्चयाय तु वक्त्राद्यनुसरणमित्यायातमित्यास्ताम्।
॥ प्रभाकरोक्तप्रमाणलक्षणप्रत्याख्यानपूर्वकं स्मृतिप्रामाण्यसाधनम्॥
तेदवं सामान्यतो विशेषतश्च प्रमाणानि लक्षितानि। तत्र स्वीयसामान्यलक्षणसमर्थनेनार्थाद् वाद्यन्तरोक्तसामान्यलक्षणानि निरस्तान्येव। तथाऽपि स्मृतिविषये वक्तव्यविशेषस्य विद्यमानत्वात् प्राभाकरलक्षणं विशेषतो निराकरोति अनुभूतिरिति।
अनुभूतिः प्रमाणं चेत् केन स्मृतिरपोद्यते।
“तदा वक्तव्यं स्मृतिः प्रमा, न वा? आद्येऽपसिद्धान्तः’ इति शेषः। द्वितीये त्वाह केनेति। यदि स्मृतिर्न प्रमा, तदा लक्षणेन व्यावर्तनीया। अन्यथाऽतिव्याप्तेः। तत् केन स्मृतिरपोद्यते व्यावर्त्यते। स्मृतिव्यावर्तकं न किमपि। लक्षणेऽस्तीति यावत्।
नन्वनुभूतिरित्युक्त एव स्मृतावप्रसङ्गः। स्मृतिव्यतिरिक्तं ज्ञानमनुभूतिरित्यभिधानात्। नहि स्मृतिः स्मृतिव्यतिरिक्ता भवतीति। मैवम्। स्मृतेरपि स्मृत्यन्तरव्यतिरिक्तत्वसम्भवेनाव्यवच्छेदकत्वात्। स्मृतित्वानधिकरणं ज्ञानमनुभूतिरिति चेत्, किमिदं स्मृतित्वम्। न तावज्जातिः। गुणेषु जातेरनङ्गीकृतत्वात्। संस्कारमात्रजन्यज्ञानत्वं तु न सम्भवति। अदृष्टादिजन्यत्वात्। असाधारणकारणविवक्षायामपि तथा। स्मृतेर्मानसत्वस्य वक्ष्यमाणत्वात्।(५३९) एतेन नियमेन प्रत्युत्पन्नासाधारणकारणकप्रत्ययत्वमनुभूतित्वमित्यप्यवच्छेदकं द्रष्टव्यम्। स्मृतेरपि मानसप्रत्यक्षजन्यायास्तथात्वात्। संस्कारस्य कारणत्वेऽपि नासौ सत्तामात्रेण स्मृतिं जनयति। किन्नाम। उद्बुद्ध एव। तथाच कथं न प्रत्युत्पन्नासाधारणकारणजन्यत्वम्? अन्यथेन्द्रियादिमात्रमुपादायानुभूतेरपि तन्निराकुर्यात्। किञ्च स्मृतिरपि काचित् प्रत्युत्पन्नसंस्कारजन्या सम्भवत्येव। नचावच्छेदकेन विना नियमो ज्ञातुं शक्यत इति।
॥ स्मृतेः प्रमाणविरुद्धत्वाभावान्नाप्रामाण्यम्॥
यद्वाऽनुभूतिः प्रमाणं चेत्, तदा स्मृतावव्याप्तिरिति शेषः। ननु स्मृतिः प्रमाणमेव न भवति। तत् कथं तत्राव्याप्तिदोष इत्यत आह केनेति। स्मृतिः केन निमित्तेनापोद्यते प्रमाणाद् बहिः क्रियते न केनापीत्यर्थः। तथाहि किमयथार्थत्वात्, याथार्थ्येऽप्यननुभूतित्वाद् वा, अप्रामाण्ये बाधकाभावाद् वा, प्रामाण्ये साधकाभावात्, बाधकसद्भावाद् वा? आद्यं दूषयति केनेति। स्मृतिः केन प्रबलेन प्रमाणेनापोद्यते बाध्यते। येन यथार्था न स्यात्। बाधकाभावान्नायथार्थत्वं वाच्यमिति।
॥ स्मृतेरननुभूतित्वात् प्रामाण्यनिरासायोगः॥
द्वितीयं निराकरोति केनेति। किमनुभूतित्वं प्रमाणलक्षणमिति कृत्वाऽननुभूतित्वात् स्मृतिरप्रमाणमित्युच्यते, किंवा घटादिदृष्टान्तावष्टम्भेन? आद्येऽन्योन्याश्रयत्वम्। तथाच केन स्मृतिरपोद्यते? द्वितीयेऽपि स्मृतिरेव केनापोद्यते? अस्मृतित्वेनानुभूतिः कुतो नापोद्यते विशेषाभावादिति।
॥ स्मृतेरप्रामाण्ये पूर्वानुभूतविषयस्य निष्प्रमाणकत्वप्रसङ्गः॥
तृतीयमपाकरोति पूर्वेति।
पूर्वानुभूते किं मानमित्युक्ते स्यात् किमुत्तरम्।
यदि स्मृतिरप्रमाणं स्यात्, तदा पूर्वानुभूते किं मानमिति प्रश्र्नो निरुत्तरः स्यात्। स्मृतिव्यतिरिक्तस्य तत्प्रमाणस्याभावात्। तथाच साक्ष्यादिलोकव्यवहारो लुप्येत। स्मृतिरेव प्रमाणम्, किन्तु लिङ्गतयेति चेत्, न। तथाऽनुभवाभावात्। अन्यथा साक्षात्कारेण कार्येण कर्मकारकतया घटाद्यनुमानमित्यपि स्यात्।
॥ लोकव्यवहारत एव स्मृतिप्रमाण्यसिद्धिः॥
चतुर्थं निराह पूर्वेति। स्मृतिरित्येव हि वक्तव्यम्। वचनाच्चानुभवोऽनमीयत इति लोकव्यवहार एवात्र प्रमाणमित्यर्थः।
॥ स्मृतेः प्रामाण्ये बाधकोद्धारः, तस्या मानसत्वस्य साक्षिसिद्धत्वकथनं च॥
ननु यदि स्मृतिः प्रमा स्यात्, तदा तत्करणस्य संस्कारस्यानुप्रमाणत्वं प्रसज्येत। तथाचानुप्रमाणत्रित्वं भज्येत। नहि संस्कारः प्रत्यक्षदिष्वन्तर्भवति। अनिन्द्रियसन्निकर्षत्वात्, अज्ञातकरणत्वाच्चेति पञ्चममपाकरोति मानसमिति।
मानसं तद्धि विज्ञानं तच्च साक्षिप्रमाणकम्॥५३॥
हि यस्मात् तत् स्मरणं मानसं मनःप्रत्यक्षजं न संस्कारकरणकम्, ततो नोक्तदोष इति शेषः। असाक्षात्काररूपत्वान्न प्रत्यक्षफलत्वमित्यत उक्तम् विज्ञानमिति। साक्षात्कार इत्यर्थः। स्मरणस्य मानसत्वं साक्षात्कारत्वं च कुत इत्यत आह तच्चेति। तदिति मानसत्वम्। चशब्दात् साक्षात्कारत्वं च। यद्वा द्वयमपि तच्छब्देन परामृश्यते। प्रकृतानुसन्धानार्थश्चशब्दः।
॥ मनसः स्मरणसाधनत्वप्रतिपादनम्॥
नन्विन्द्रियाणां प्राप्यकारित्वनियमादतीतेन च मनसः प्राप्तेरयोगात् कथं स्मृतेर्मानसप्रत्यक्षजत्वमित्यत आह अतीतेति।
अतीतानागतं यद्वद् योगिभिर्दृश्यतेऽञ्जसा।
एवं पूर्वानुभूतं च मनसैवावगम्यते॥५४॥
सन्ति तावद् योगिनोऽणिमादिसिद्धिसम्पन्ना अतीतानागतदर्शिनः श्रुतिस्मृतीतिहासपुराणप्रसिद्धाः। श्रुत्यादेः सिद्धार्थे प्रामाण्यस्य साधितत्वात्। (१२६) कर्मविधिसमानयोगक्षेमत्वाच्च योगविधीनाम्। नच तज्ज्ञानमसाक्षात्कारः। श्रुत्यादिना साक्षात्कारत्वप्रतीतेः। तथाहि श्रुतिः “अपश्यमप्यये मायया विश्वकर्मण्यदो जगन्निहितं शुभ्रचक्षुः” इति। पुराणं च “नारायणप्रसादेन” इत्यादि। इतिहासोऽपि “दिव्यं ददामि ते चक्षुः” इत्यादि। तदिदमुक्तम् अञ्जसेति। साक्षादित्यर्थः। एवञ्च यथा योगिनामिन्द्रियेणैवातीतानागतार्थसाक्षात्कारः, तथाऽतीतमपि मनसा स्मर्यत इति को दोषः?
नन्विन्द्रियस्यार्थप्राप्तिर्नाम न संयोगः समवायो वेति नियमः। किन्तु प्रत्यासत्तिमात्रम्। अस्ति च तद् योगीन्द्रियाणाम्। तत्तदुपदर्शकयोगजधर्मसहकृतत्वलक्षणमिति चेत्, एवन्तर्हि मनसोऽपि पूर्वानुभवजनितसंस्कारसाचिव्यलक्षणाऽस्त्यतीतार्थेन प्रत्यासत्तिरित्याशयवतोक्तम् पूर्वानुभूतं चेति।
एतदुक्तं भवति यदि प्राप्तिः संयोगादिलक्षणा विवक्षिता, तदा तदभावोऽनैकान्तिकः। प्रत्यासत्तिमात्रविवक्षायां त्वसिद्धिरिति। दृष्टान्तकथनं तु प्रत्यासत्तिमात्रस्य साक्षात्कारहेतुतां सम्भावयितुम्, कार्यदर्शनवशाच्चेयं कल्पनाऽतो नातिप्रसङ्ग इति दर्शयितुं च। एतेन मानसं चेत् स्मरणं स्यात्, न संस्कारजं तदाऽननुभूतेऽप्युत्पद्येतेति परास्तम्। संस्कारस्य सन्निकर्षस्थानीयतयाऽङ्गीकृतत्वात्।
॥ स्मृतेर्मानसत्वस्य साक्षिसिद्धत्वोक्तिसमर्थनम्॥
यत् स्मृतेर्मानसत्वं साक्षिसिद्धमित्युक्तं तदभिनयेन दर्शयति विज्ञातमिति।
विज्ञातं मनसा पूर्वं मयैतत् कृतमित्यपि।
साक्षादनुभवात् सिद्धं कथमेव ह्यपोद्यते॥५५॥
“एतन्मया पूर्वं कृतम्’ इत्येतन्मया मनसा विज्ञातं स्मृतमपीति स्मरणस्य मानसत्वं साक्षादनुभवात् साक्ष्यनुभवेन सिद्धमिति। यदुक्तं परैः पूर्वानुभवावच्छिन्नार्थगोचरा स्मृतिस्तद्याथार्थ्यादिकमनुविदधाना न स्वयं यथार्थेति। तदसत्, अनुभववच्छुद्धार्थविषयत्वस्यापि साक्षिसिद्धत्वादिति दर्शयितुं मयैतत् कृतमित्यपीत्युक्तम्। ननु मनसोऽप्रत्यक्षत्वात् कथं स्मरणस्य साक्षिप्रत्यक्षगम्येति चेत्, न। तस्य साक्षिवेद्यताया वक्ष्यमाणत्वात्। (६३२) तथाऽपि कार्यकारणभावो न प्रत्यक्ष इति चेदन्वयव्यतिरेकसचिवस्य साक्षिणस्तत्र प्रामाण्याभ्युपगमात्। ज्ञानं नित्यानुमेयमिति चेत्, न। ज्ञातताया निराकरिष्यमाणत्वात्। (९९४) स्वप्रकाशमिति चेत्, न। अनात्मत्वात्, घटवत्। मानसवेद्यता तु निरसिष्यत (१२१८१२१९) इत्याशयवानाह कथमेवेति।
॥ ईश्वरादिविषये वेदस्यैव प्रमणत्वोक्तिपूर्वकं प्रमाणनिरूपणस्योपसंहारः॥
“याथार्थ्यमेव” इत्यादिनोक्तस्य प्रकृतोपयोगमाह एवमिति।
एवंलक्षणके मानत्रये ब्रह्मादिवस्तुषु।
प्रमाणं वेद एवैकस्तत्प्रामाण्यं च साधितम्॥५६॥
यस्मान्मानत्रयमेवंलक्षणकम्, तस्माद् ब्रह्मादिवस्तुषु वेद एव प्रमाणं न युक्त्यादेस्तत्रावकाशः। इन्द्रियं हि रूपादिमत्येव द्रव्ये प्रवर्तते। नच ब्रह्मादिकं तथा। अनुमानं च व्याप्तिसापेक्षम्। नच वेदनिरपेक्षस्य तस्य ब्रह्मादौ सञ्चारोऽस्ति। उपाधिप्रतिपक्षयोस्तु सर्वत्र सम्भवेन व्याप्त्यनिश्चयात्। वेदानुसरणे तु साध्याव्यापकत्वबाधितविषयत्वयोरावश्यकत्वात्। पौरुषेयागमस्तु परतन्त्र एवेति। ततः किमित्यत आह तत्प्रामाण्यं चेति। यस्माद् वेदविषये न युक्तेरवकाशः, ततो विरोधोऽपि स एवोक्त इत्युपपन्नम्।
तथाच वेदस्य प्रमाणविरोधाभावात् तत्प्रामाण्यं च साधितम्। यदुक्तं प्राक् “तस्माद् वेदप्रामाण्यमिष्यते” इति तत् सिद्धमित्यर्थः॥*॥ इति नविलक्षणत्वाधिकरणम्॥२॥
अथ अभिमान्यधिकरणम्॥३॥
॥ “मृदब्रवीत्’ इत्यादिश्रुतेः निरवकाशयुक्तिविरुद्धत्वादप्रामाण्यमित्यभ्यधिकाशङ्का॥
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्। युक्त्यन्तरविरोधं वेदस्य परिहर्तुमिदमारभ्यते। स्यादेतत्। युक्तिविरोधाः किं प्रत्येकं परिहरणीयाः, उतोपलक्षणया? नाऽद्यः, निरसनीययुक्त्याभासानन्त्येन शास्त्रापर्यवसानप्रसङ्गात्, सूत्रत्वव्याघाताच्च। द्वितीये त्वनारम्भ एवास्याधिकरणस्य। निरन्तरातीताधिकरणेनैवोपलक्षणया सकलयुक्तिविरोधानां परिहृतत्वादिति। मैवम्। अभ्यधिकाशङ्कासद्भावेन तदुपपत्तेरित्याशयवान् पूर्वपक्षं तावदाह तथाऽपीति।
तथाऽपि मृज्जलादीनां बुद्धिवागादिवाचकः।
दृष्टव्याप्तिविरुद्धत्वात् तत्र मानं कथं भवेत्॥५७॥
यद्यपि फलव्यभिचारादिविरोधो वेदस्य परिहृतः, तथाऽपीत्यर्थः। मृज्जलादीनामित्यादिपदेन तेजःप्रभृतीनां ग्रहणम्। बुद्धिर्ज्ञानम्। वाग् वक्तृत्वम्। आदिग्रहणेन श्रोतृत्वादिकम्। वेद इत्यनुवर्तते। दृष्टा प्रमिता व्याप्तिर्यस्या युक्तेः सा तथोक्ता। व्याप्तिग्रहणं पक्षधर्मताया अप्युपलक्षणम्। क्वचित् तन्नियमानभ्युपगमात् स्वशब्देनासङ्कीर्तनम्। तया विरुद्धत्वात्। तत्र मृज्जलादीनां बुद्धिवागादौ। कथमित्याक्षेपे। प्रतिपाद्यान्तरं तु नास्त्यप्रतीतेरिति शेषः।
एतदुक्तं भवति “मृदब्रवीत्”, “आपोऽब्रुवन्”, “तत् तेज ऐक्षत”, “ता आप ऐक्षन्त”, “शृणोत ग्रावाणः”, “विदुषोऽनुप्राणाः अहं श्रेयसि व्यूदिरे”, “आपो वा अकामयन्त” इत्यादिवेदस्तावन्न प्रमाणम्, युक्तिविरुद्धार्थाभिधायित्वात्; नीलं नभ इतिवत्। मृज्जलादीनां बुद्धिवागादिमत्त्वं खल्वस्यार्थः। स च, विमता मृन्न वक्त्री, मृत्त्वात्; सम्प्रतिपन्नमृद्वदित्यादियुक्तिविरुद्धः। तथाच वेदवाक्यान्तरेऽप्यप्रामाण्यमनुमास्यते।
॥ मृत्त्वावक्तृत्वयोः व्याप्त्यादेः प्रमितत्वाद्
युक्तेः निरवकाशत्वम्॥
ननु “न विलक्षणत्वात्” इत्येनेनैव न्यायेनायमपि विरोधः परिहरणीयः। मैवम्। तन्न्यायसञ्चाराविषयत्वात्। तत्रहि यथोक्तानुष्ठानेऽपि फलव्यभिचारश्चेद्धेतुः तदाऽऽपाततस्तावत् सन्दिग्धविशेषणासिद्धिः। कर्त्रादिवैगुण्यस्यापि सम्भवात्। नित्यत्वेन वेदप्रामाण्यस्य स्थितौ तु विशेषणासिद्धिनिश्चय एव। फलव्यभिचारमात्रस्य हेतुत्वे तु अनैकान्तिकत्वमित्येवं व्याप्तिपक्षधर्मताविरहव्युत्पादनेन युक्तिविरोधः परिहृतः। नचास्या युक्तेर्व्याप्त्याद्यङ्गवैकल्यं शक्यव्युत्पादनम्। व्याप्त्यादेः प्रमाणदृष्टत्वात्। न खलु मृत्त्वादिकमवक्तृत्वादिना न सम्बद्धम्। प्रसिद्धमृदादौ तथोपलम्भात्। नच तत्रापि बुद्ध्यादिसद्भावः, कदाऽपि तत्कार्यस्यादर्शनात्। नापि सम्बद्धमपि व्यभिचीर्णम्। व्यभिचारानुपलम्भात्। नचानुपलम्यमानव्यभिचारमपि सोपाधिकम्, उपाधेरनिरूपणात्। बुद्ध्यादिमत्त्वे च मृदादीनां शरीरेन्द्रियवत्ताऽपि स्यात्। अकरणकक्रियादर्शनात्। नच तद् युक्तम्, इन्द्रियादीनामपि वक्तृत्वादिवददर्शनात्। ततोऽनुकूलतर्कसनाथेनोपाधिव्यभिचारानुपलम्भसहकृतेन सहभावग्राहकेण प्रमाणेन सिद्धा मृत्त्वादीनामवक्तृत्वादिना व्याप्तिः। नच मृदादिषु मृत्त्वादिकं नास्तीति युक्तम्। व्याघातात्। “मृदब्रवीत्” इत्यादिप्रयोगाच्च। ततः पक्षधर्मताऽपि सिद्धैवेति।
ननुच नित्यतया वेदस्य प्रामाण्ये व्यवस्थिते तद्विरुद्धाया युक्तेरेवाप्रामाण्यमुचितमिति। मैवम्। व्याप्तिपक्षधर्मतोपेताया युक्तेरपि निरवकाशत्वात्। ततश्च सत्प्रतिपक्षतया निश्चायकत्वाभावेनाप्रामाण्यं वेदस्य।
॥ अनुमानस्य धर्मिग्रहाकप्रमाणविरोधमाशय परिहारकथनम्॥
ननु प्रसिद्धमृदादिपक्षीकारे सिद्धसाधनता। पक्षसपक्षभेदाभावश्च। सपक्षान्तरस्वीकारे तत्र मृत्त्वाद्यभावः। जडत्वस्य हेतूकरणे त्वसिद्धिः स्यात्। तस्मादादिकालीनं मृदादीकं पक्षयितव्यम्। नच तत् प्रत्यक्षादिसिद्धमिति वेद एवोपजीव्यः। तथाच धर्मिग्राहकप्रमाणविरोधादप्रामाण्यं युक्तेरिति चेत्, न। व्याप्त्यादिमत्यास्तदसम्भवात्। आदिकालीनमृदादिस्वरूपपरवाक्यान्तरेण, परिदृश्यमानकार्यलिङ्गेन वा धर्मिग्रहोपपत्तेः। एतेन वैदिकेऽर्थे युक्तेरवकाशाभावान्न तद्विरोधकत्वमित्यपास्तम्।
तदेवं मृदब्रवीदित्यदिवेदवाक्यानां युक्तिविरुद्धत्वेनाप्रामाण्ये वेदत्वात् “यतो वा इमानि भूतानि” इत्यादिवाक्यानामप्यप्रामाण्यान्न वेदसमन्वयेन ब्रह्मणो जगत्कारणत्वसिद्धिरिति।
॥ मृदादिशब्दानामभिमानिवाचकत्वेन न युक्तिविरोधः॥
सिद्धान्तमाह तत इति।
ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्ॐ॥६॥
ततस्तन्नामकः कश्चित् पुमानन्यो भवेदिति।
युक्त्यागमाविरोधेन प्राप्तमत्राभिधीयते॥५८॥
वेदस्य युक्तेश्च निरवकाशत्वं तत इति परामृशति। तन्नामको मृदादिनामकः कश्चिदिति अस्मदाद्यतीन्द्रियत्वमभिप्रैति। पुमांश्चेतनोऽन्योऽस्मदादिविलक्षणोऽन्तर्धानादिशक्तिमान् भवेत्। अस्यां श्रुतौ वक्तृत्वादिना प्रतिपाद्यत इति शेषः। इतिशब्दस्य प्राप्तमित्यनेनान्वयः। प्राप्तं प्रमितम्। युक्त्यागमविरोधेनेत्यर्थापत्तिं सूचयति।
ततश्चायमर्थः न “मृदब्रवीत्” इत्यादिवाक्यानां युक्तिविरोधेनाप्रामाण्यं वक्तव्यम्। अत्र मृदादिशब्दस्य चेतनविषयत्वात्। तथाच तत्पक्षीकारे हेतोरसिद्धेः। शब्दमात्रेण हेतुत्वेऽतिप्रसङ्गात्। अचेतनमृदादिपक्षीकारे च प्रकृताविरोधात्।
॥ मृदाद्यभिमानिनां तत्तच्छब्दवाच्यत्वम्, अन्तर्धानशक्त्युपेतदेहवत्त्वाद् वक्तृत्वम्, अदृश्यत्वं च॥
ननु कथं चेतनेषु मृदादिशब्दप्रवृत्तिः। अभिधानशक्त्येति ब्रूमः। मृदाद्यभिमानित्वात्। पृथिव्यादिषु तदभिमतत्वेन मृदादिशब्दप्रवृत्तिः। नन्वेतेऽभिमानिनः किमभिमतार्थव्यापिनः, तदेकदेशवृत्तयो वा? आद्येऽपि सदेहाः, विदेहा वा? आद्ये तदुपलम्भप्रसङ्गः। द्वितीये तेषामिन्द्रियाभावेन वक्तृत्वाद्यनुपपत्तौ पुनर्युक्तिविरोधतादवस्थ्यम्। तृतीये तद्वैयर्थ्यम्। तदनधिष्ठितप्रदेशवत् प्रदेशशान्तरप्रवृत्तिसम्भवादिति। मैवम्। व्यापकानां सदेहानामपि पिशाचादिवदन्तर्धानशक्तियोगाददृश्यत्वोपपत्तेः।
॥ निरवकाशश्रुतियुक्तिद्वयान्यथानुपपत्तिः उक्तार्थे प्रमाणम्॥
नन्वेवंसति कल्पनागौरवमापद्येत। केषाञ्चिच्चेतनानां मृदाद्यभिमानित्वम्, ततस्तच्छब्दानां तेषु वृत्तिर्व्यापकत्वम्, सदेहत्वम्, अन्तर्धानशक्तिः, तत्परता च श्रुतेरित्यनेकस्य कल्प्यमानत्वात्। मैवम्। अर्थापत्तितः सर्वस्यास्य सिद्धत्वात्। श्रुतिर्हि मृदादीनां वक्तृत्वादिकं प्रतिपादयति, युक्तिश्च तदभावम्। नच वास्तवो विरोधः सम्भवति, वस्तुविकल्पापत्तेः। नचायं विरोधो विनैतत्कल्पनया शाम्यति। जडस्वीकारे युक्तिविरोधात्। अनभिमानिस्वीकारे च पृथक् शब्दशक्तौ प्रमाणाभावात्। अव्यापकत्वाद्यङ्गीकारे चोक्तानुपपत्तेः। नच श्रुतियुक्त्योरन्यतराप्रमाण्येनाप्येतदुपपाद्यत इति वाच्यम्। उक्तरीत्या द्वयोरपि निरवकाशत्वात्। नहि परेणापि विद्वेषेणैवाऽगमाप्रामाण्यमभिधातुं युक्तम्। किन्नाम। उपपत्तिमाश्रित्यैव। तथाच कथं वेदप्रामाण्येऽपि न दीयते दृष्टिः। तदेवं युक्त्यागमविरोधेनास्यार्थस्य प्राप्तत्वान्न किञ्चित् कल्पनागौरवमिति।
नन्वेतदुत्सूत्रितं कथमुच्यत इत्यत आह अत्रेति। इत्युक्तमेतत् सर्वमत्र “अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्” इति सूत्रेऽभिधीयत इत्यर्थः। यद्वाऽत्राभिधीयत इति सिद्धान्तोपक्रमवाक्यम्। तस्यैवं प्राप्ते सूत्रकृता समाधानमभिधीयत इत्यर्थः। एवं सूत्रमवतार्य तत इत्यादिना व्याख्यातमिति।
॥ मृदाद्यभिमानिनां मुख्यवृत्त्या तत्तच्छब्दवाच्यत्वसमर्थनम्॥
यदुक्तं तन्नामक इति मृदादिशब्दवाच्यत्वं देवतायाः, तदनुपपन्नम्। अयोगात्, अनुपयोगाच्च। मृदादिशब्दाः खल्वचेतनेष्वेव रूढाः। न देवतायाम्। लक्षणाश्रयणेनापि श्रुतियुक्तिविरोधशान्तिर्भविष्यति। नापि वचनवृत्तिं सूत्रकृदाहेत्यत आह बालरूढिमिति।
बालरूढिं विनैवापि विद्वद्रूढिसमाश्रयात्।
तत्तन्नामान एवैते तत्तद्वस्त्वभिमानिनः॥५९॥
सन्ति.................................।
एते पृथिवीवरुणादयस्तत्तन्नामान एव सन्ति। तानितानि मृदादीनि नामानि वाचकानि येषां ते तथोक्ताः। नतु तानि लक्षकाणीत्येवशब्दार्थः। सन्ति भवन्ति। अयोगपरिहाराय उक्तम् बालेति। अविद्वद्रूढ्यभावेऽपि विद्वद्रूढिसद्भावात्। मृदादिशब्दास्तावद् देवताविषया इत्यर्थापत्तिसिद्धम्। मुख्यासम्भव एव च जघन्यवृत्तिराश्रयणीया। नचात्र बाधकमस्तीति वैदिकप्रयोगादेव बाधकाभावसहिताद् विद्वद्रूढिरवगम्यते। यच्चोक्तं वचनवृत्त्यङ्गीकारः प्रकृतानुपयोगीति तत्परिहारायोक्तम् तत्तन्मृदादिवस्त्वभिमानिन इति।
अयमर्थः मृदादिशब्दानां चेतनविषयतामात्रेण प्रकृतविरोधशान्तावपि वस्तुस्थितिं विजिज्ञापयिषता सूत्रकारेण व्यपदेशस्त्विति तुशब्देन मुख्यवृत्तिः सूचिता। तत्रोपपत्तिज्ञापनायाभिमानीति चोक्तम्। अन्यथा चेतनव्यपदेश इत्यवक्ष्यत्। अभिमानी खल्वभिमतस्य सत्तादेः प्रयोजकः। ततश्च “तदधीनत्वात्” इति न्यायेन स एव तन्मुख्यार्थ इति। तदेतदस्माभिः सूत्रं व्याकुर्वद्भिरभिहितमिति।
॥ भाष्ययोः वचनव्यत्यासे निमित्तम्॥
नन्वत्र तन्नामक इत्येकवचनं प्रक्रम्य तत्तन्नामान इति बहुवचनप्रयोगे किं निमित्तम्? तथा भाष्येऽपि “अभिमानिदेवता तत्र व्यपदिश्यते। तासां च” इत्यादि।
उच्यते अत्राभिमानिव्यपदेश इत्यभिमानिशब्दो ह्येकवचनान्तः समस्तः। व्यपदेशशब्दस्य एकवचनान्तत्वात्। नहि बहूनामेको व्यपेदश इति सम्भवति। उत्तरसूत्रे चैकवचनमेव। अतो यथासूत्रं प्रथमं व्याख्यातम्। अथेदानीं प्रमाणसंवादादिघटनाय जाताविदमेकवचनमित्याशयवता बहुवचनं प्रयुक्तमिति।
॥ अभिमानिनां अन्तर्धानादिशक्तिमत्त्वस्य प्रमितत्वम्॥
अभिमानिनां प्रादेशिकत्वविदेहत्वयोर्वैयर्थ्यवक्तृत्वाद्यनुपपत्ती, व्याप्तानां सदेहत्वेऽनुपलम्भबाध इत्येतत्परिहाराय “विशेषानुगतिभ्याम्” इति सूत्रखण्डं “कश्चिदन्यः” इति तात्पर्यतो व्याख्यातम्। तत् प्रपञ्चयति तेषामिति।
........ तेषां विशेषेण शक्तिरन्येभ्य उच्यते।
व्याप्तिश्र्चोक्तानुसारेणदृश्यन्ते चाधिकारिभिः॥६०॥
विशेषेणातिशयेन। अन्येभ्योऽस्मदादिभ्यः। व्याप्तिश्र्चोच्यत इति सम्बन्धः। देहवत्त्वस्याप्युपलक्षणमेतत्। यद्यप्येतत् सर्वमर्थापत्त्यैव लब्धम्। अन्यथा विरोधशान्तेरेवापर्यवसानात्। तथाऽप्युच्यत इति “पृथिव्याद्यभिमानिन्यः” इत्यागममप्यत्र संवादिनं दर्शयति। यद्यप्यत्राऽकाङ्क्षानुसारेण व्याप्तिमादावुक्त्वा शक्तिविशेषोऽनन्तरमभिधातव्यः। तथाऽप्यल्पाच्तरस्य पूर्वनिपातमनुसृत्य प्रवृत्तं सूत्रमनुगच्छता क्रमो भग्न्ः।
ननुच “पृथिव्याद्यभिमानिन्यः” इति वाक्यं कथमुपादेयम् “आत्मनि चैवं विचित्राश्च हि”, “उत्क्रान्तिगत्यागतीनाम्” इत्याद्यागामिसूत्रेणाचिन्त्यशक्तेः सर्वगतत्वस्य च विरुद्धत्वादित्यत आह उक्तानुसारेणेति। “आत्मनि चैवम्” इत्याद्युक्तानुसारेण शक्तिर्व्याप्तिश्र्चोच्यत इत्यन्वयः। स्यादयं विरोधो यदि शक्तिर्व्याप्तिश्च निरवधिकाऽत्रोच्यते। नचैवम्। प्रमाणान्तरानुसारेणान्तर्धानादिशक्तेरभिमतार्थव्याप्तेश्च प्रतिपाद्यताङ्गीकारादिति।
एवमस्मदाद्यपेक्षयाऽभिमानिनामनुपलम्भमङ्गीकृत्य तद्बाधः परिहृतः। इदानीमसिद्धश्चासावित्याह दृश्यन्ते चेति। अधिकारिभिरन्तर्हितार्थदर्शनसमर्थैर्योगिभिः। एतच्च भाष्योदाहृतस्मृतिसिद्धम्। एतेन “दृश्यते च” इति सूत्रं व्याख्यातं भवति।
॥ अभिमानिनां सदेहत्वस्य उपपत्त्या समर्थनम्॥
ये तु मीमांसकम्मन्या विग्रहवतीं देवतां न सहन्ते तेऽप्यनेनैव निरस्ता भवन्ति। अर्थापत्त्या प्रत्यक्षेण च तत्सिद्धेः। समर्थितं चाऽगमानां सिद्धार्थे प्रामाण्यम्। (१२६) अनुपलम्भः, अनेकत्र युगपत् सन्निधानं च शक्तिविशेषादुपपद्यते पिशाचादिवत्। नच पिशाचादयोऽपि न सन्ति। मन्त्रौषधादिनाऽस्मदादिभिरप्युपलभ्यमानत्वात्। अर्थक्रियया संवादेन च प्रामाण्योपपत्तेः। वक्ष्यति च सूत्रकारः “देवादिवत्” इत्युक्त्वा तत्रापि विप्रतिपन्नं प्रति “अपि लोकः” इति।
किञ्चेन्द्राग्न्विरुणादिपदं कस्यचिद् वाचकम्, पदत्वात्; गोपदवत्। नचाचेतनमात्रे तत्प्रयोगोऽस्ति। नच चेतनो मुक्तः प्रलीनो वा तद्वाच्यः। जगद्व्यापारसम्बन्धिन्यपि प्रयोगात्। नचासौ विग्रहविधुरः सम्भवतीत्यलम्।
॥ मृदादिशब्दानामभिमानिषु व्युत्पत्त्यसम्भवमभिधाय श्रुतेरबोधकत्वशङ्का॥
ननु तथाऽपि “मृदब्रवीत्” इत्यादिवेदस्याबोधकत्वलक्षणमप्रामाण्यं दुर्निवारम्। तथाहि यद्यपि वाक्यतापन्नानि पदानि वाक्यार्थं पदार्थानामन्योन्यसंसर्गविशेषरूपमपूर्वमेवावगमयन्ति, तथाऽपि पदार्थैर्वाच्यवाचकभावरूपसम्बन्धप्रतिपत्तिलक्षणां व्युत्पत्तिमपेक्षन्ते, अन्वयव्यतिरेकाभ्यां तथाऽवधारणात्। नच मृदादिशब्दानां पृथिव्यादिषु देवतासु व्युत्पत्तिः सम्भवति। सम्बन्धज्ञानस्य सम्बन्धिज्ञानसापेक्षत्वात्। प्रतिसम्बन्धिरूपायाश्च देवतायाः प्रत्यक्षेण दुरधिगमत्वात्। लिङ्गाभावेन अनुमानायोगात्।
नच शब्दतस्तदवगमः। सत्यां व्युत्पत्तौ शब्दतो देवतावगमः, सति च तस्मिन् व्युत्पत्तिरिति परस्पराश्रयत्वात्। नच शब्दविशेषस्यागृहीतसङ्गतिकस्यैव बोधकत्वम्। अदृष्टकल्पनाप्रसङ्गात्। यद्यपि “दृश्यते च” इत्युक्तम्, तथाऽप्यस्मादादीनां व्युत्पत्यनुुपपत्तिरेव। देवतादर्शनं च योगिनां वेदार्थज्ञानोत्तरभावनाजन्यमङ्गीक्रियत इति न व्युत्पत्तिहेतुः। लक्षणाऽपि वाच्यार्थदर्शनं विनाऽनुपपन्नैवेत्यत आह शास्त्रोक्तेति।
॥ शास्त्रैकसमधिगम्यवस्तुनः शास्त्रलिङ्गत एव व्युत्पत्तिः॥
शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः।
चशब्दोऽप्यर्थः। एवशब्दः सामर्थ्याच्छास्त्रशब्देन सम्बन्धनीयः, शास्त्रैकसमधिगम्यवस्तुन इति। प्रत्यक्षाद्यगम्याया अपि देवताया इति यावत्। वस्तुनो व्युत्पत्तिरिति मृदादिशब्दस्य तत्सम्बन्धिवाचकत्वप्रतिपत्तिरित्यर्थः। युज्यत इति शेषः। अनेन च एवशब्दस्य सम्बन्धः। शास्त्रलिङ्गतस्तज्ज्ञानसम्भवादिति शेषः।
यद्वा शास्त्रोक्तवस्तुनोऽपि शास्त्रलिङ्गतोऽधिगतिसम्भवात् तत्र शब्दस्य व्युत्पत्तिर्युज्यत इति योजना। देवताया इति वक्तव्ये शास्त्रोक्तवस्तुनश्चेति वचनं शङ्कानुवादरूपम्। शास्त्रमेव लिङ्गं शास्त्रलिङ्गम्। “मृदब्रवीत्” इत्यादिशास्त्रादेवोपपत्तिविरोधसहितान्मृदादिशब्दवाच्यतयैव देवतास्वरूपमवगम्यत इति।
यद्वा शास्त्रं तैस्तैः प्रणीतं तत्सद्भावे लिङ्गम्। नहि वेदादन्यद् वाक्यं वक्तारमन्तरेणोपपद्यते। ततश्च वचनलिङ्गानुमिते वक्तरि वृद्धैरन्यान् प्रति मृदादिशब्दाः शक्यव्युत्पादनाः।
यद्वा शास्त्रं शासनम्। वर्षणाद्युपलक्षणमेतत्। नहि वर्षणादिक्रिया विकर्तृका सम्भवति। तथाच तयाऽनुमिते कर्तरि शक्यत एव वृद्धैः शब्दो व्युत्पादयितुम्।
अथवा शास्त्रोक्तं लिङ्गमव्यभिचरितो धर्मः शास्त्रलिङ्गम्। पाशहस्तत्वसहस्राक्षत्वादिशास्त्रोक्ततत्तद्देवतालक्षणान्युपादाय व्युत्पादनं शक्यमेव। यथा खलु लोके, यथा मुद्गस्तथा मुद्गपर्णी, यथा माषस्तथा माषपर्णी, दीर्घग्रीवादिमान् पशुरुष्ट्र इति लक्षणान्युपादाय मुद्गपर्णीत्यादिशब्दा व्युत्पाद्यन्ते, तथा यः पाशहस्तत्वादिमान् सोऽबादिशब्दार्थ इति व्युत्पादनं सुकरमेव। पाशादिशब्दास्तु लोकत एव गृहीतसङ्गतयः। समासस्य वाक्यत्वेन व्युत्पत्त्यनपेक्षत्वमिति न कश्चिद् विरोधः।
न केवलं मृदादिशब्दानामयं व्युत्पत्तिप्रकारः। किन्नाम। अतीन्द्रिये धर्मादावपि। ततश्चैवं वेदप्रामाण्यमाक्षिपतोऽतीन्द्रियार्थव्यवहारमात्रविलयप्रसङ्ग इति सूचयितुं शास्त्रोक्तवस्तुनश्चेति सामान्येन उक्तम्।
॥ शास्त्रलिङ्गलब्धव्युत्पत्तेर्बलवत्त्वम्॥
एवन्तर्हि कुटिलिकेयं व्युत्पत्तिर्दुर्बला। साक्षात्कृते तु मृदादावेव प्रबला। ततश्च देवतानां मुख्यप्रतिपाद्यत्वमित्ययुक्तम्। किन्तु मृदादीनामेव। व्युत्पत्त्यनुसारित्वात् प्रतिपादनस्येत्यत आह व्युत्पत्तिरिति।
व्युत्पत्तिः सा बलवती मूर्खव्युत्पत्तितो हि यत्।
सेति। या विदितशब्दशक्तिभिर्वृद्धैः शास्त्रलिङ्गतः सम्पादिता। मूर्खैरविदितशक्तिभिर्व्युत्पादिता व्युत्त्पत्तिर्मूर्खव्युत्पत्तिः। हिशब्दो हेतुसूचकः। नहि व्युत्पत्तिविषयस्य परोक्षत्वमपरोक्षत्वं च व्युत्पत्तेः दौर्बल्ये प्राबल्ये च कारणम्। अपितर्हि? व्युत्पादकस्य शब्दशक्तितत्वज्ञत्त्वम्। तदनुसारेण व्युत्पादनं प्राबल्ये, अन्यत्तु दौर्बल्ये। अन्यथैरण्डे साक्षात्कृते चन्दनशब्दस्य व्युत्पत्तिः प्रबला। लिङ्गतोऽपि ज्ञापिते चन्दने दुर्बलेति स्यात्। अस्ति चेदं कारणं प्रकृते। इतीयमेव प्रबला नेतरेति। यद् यस्मादेवं तत् तस्मात् तत्तन्नामान एवैत इति पूर्वेण सम्बन्धः।
॥ युक्तिविरोधेन श्रुत्यर्थप्रच्यावनस्य अयुक्तताशङ्कापरिहारः॥
नन्वेतदयुक्तम्, यद् युक्तिविरोधेन वेदस्य स्वार्थात् प्रच्यावनम्। तस्य सकलप्रमाणापेक्षया च प्राबल्यात्। यत् क्वचित् स्वार्थात् प्रच्यावनं तदुपजीव्यविरोध एव। नचात्र तथेत्यत आह दृढेति।
दृढयुक्तिविरोधे तु सर्वत्र न्याय ईदृशः॥६१॥
विरोधे वेदस्येति शेषः। अयं भावः श्रुतेरर्थप्रच्यावनस्यायुक्ततां वदतः कोऽभिसन्धिः? किं विरुद्धयोरेवाप्रामाण्यम्, उताऽगमविरुद्धाया युक्तेरप्रामाण्यम्? नाऽद्यः, वस्तुविकल्पप्रसङ्गात्। न द्वितीयः, व्याप्तिपक्षधर्मतोपेतायास्तदयोगात्। कथन्तर्हि “उपजीव्यविरोधे तु” इत्याद्युक्तमिति चेत्। उपलक्षणत्वेनेति ब्रूमः। उपजीव्यं खलु नोपजीव्यमित्येव बाधकम्। किन्तु प्रबलत्वेन। तद् यदि युक्त्यन्तरस्यापि स्यात् तदा कुतो न बाधकतेति।
॥ अधिकरणोपाधिः॥
यद्वाऽधिकरणोपाधिमनेनाऽह। न केवलमत्रोदाहरणे। किन्तु सर्वत्रापि वेदवाक्ये प्रमितव्याप्तिपक्षधर्मतावद्युक्तिविरोधे सतीदृश एवान्यार्थस्वीकारेण विरोधपरिहारो न्यायः प्रकारो द्रष्टव्य इति॥*॥ इत्यभिमान्यधिकरणम्॥३॥
अथ असदधिकरणम्॥४॥
॥ गतार्थताशङ्कापरिहारः, अधिकरणोपाधिप्रदर्शनं च॥
असदिति चेन्न प्रतिषेधमात्रत्वात्। ननुचानारम्भाणीयमेवेदमधिकरणम्, “न विलक्षणत्वात्” इत्यनेनैव वेदस्य सकलयुक्तिविरोधानां परिहृतत्वात्, दृढयुक्तिविरोधपरिहारस्य चाभिमान्यधिकरणन्यायसिद्धत्वादित्यतो गतार्थतां परिहरन्नधिकरणस्योपाधिमप्याह अल्पवाक्येति।
अल्पवाक्ययुक्ता युक्तिर्बहुलैव विरोधिनी।
यत्र तत्र कथं वस्तुनिर्णयः स्यादितीरिते।
विरोधियुक्तिबाहुल्यादिति न्यायो विनिश्चितः॥६२॥
यत्र यदा वेदस्य वाक्ययुता युक्तिर्विरोधिनी स्यात्, तत्र तदा, वस्तुनिर्णयः कथं स्यात् इति पूर्वपक्षिणेरित सति तद्विरोधियुक्तीनां बाहुल्यात् प्राबल्याद् वस्तुनिर्णयो भवेदिति सिद्धान्त इत्येषोऽत्राधिकरणे न्यायो विनिश्चितः।
एतदुक्तं भवति पूर्वाधिकरणे प्रत्यक्षादिगृहीतव्याप्त्यादिमत्त्वेन दृढया युक्त्या विरुद्धत्वाद् वेदैकदेशस्याप्रामाण्ये सति तद्दृष्टान्तेन ब्रह्मणो जगत्कारणत्वाभिधायकस्यापि वेदस्य वेदत्वादप्रामाण्ये तदसिद्धिरिति पूर्वः पक्षः। सिद्धान्तस्तु युक्तिवद् वेदस्याप्यपौरुषेयत्वेन दृढत्वात् वास्तवविरोधस्य अनुपपत्तेरविरुद्धार्थकल्पनोपपत्तेर्नाप्रामाण्यमिति।
इह पुनर्वेदवाक्यान्तरसंवादेन सुदृढया युक्त्या विरुद्धत्वाद् ब्रह्मणो जगत्कारणत्वाभिधात्रीणां श्रुतिनामेव तत्र प्रामाण्यानुपपत्तौ प्रथमाध्यायोक्तवस्तुनिर्णयो न भवेदिति पूर्वः पक्षः। सिद्धान्तस्तु पूर्वपक्षिणोत्प्रेक्षिताभ्यः श्रुतिसहितयुक्तिभ्योऽपि प्रबलानां तद्विरोधियुक्तीनां सद्भावात् तद्विरुद्धानां पूर्वपक्षश्रुतियुक्तीनामप्रामाण्यादुपपन्नतरः प्रागुक्तोऽर्थ इति। अतः पूर्वोत्तरपक्षन्याययोरगतत्वेन युक्तोऽधिकरणारम्भ इति। एतच्चानुपदमेवोदाहरणेन प्रपञ्चयिष्यामः।
॥ अधिकरणस्यास्य चतुर्थपादे सन्निवेश्यत्वशङ्कापरिहारः॥
नन्वेवंसति श्रुतीनां श्रुतियुक्तिविरोधपरिहारोऽस्याधिकरणस्यार्थ इत्युक्तं भवति। सोऽयं चतुर्थपादार्थ एवेति तत्रैवास्याधिकरणस्योपनिबन्धनमुचितम्, नात्रेत्यतोऽस्य ततोऽपि वैलक्षण्यं दर्शयितुमुक्तम् अल्पेति, बहुलेति च। अत्राल्पत्वमुपसर्जनत्वम्, बहुलत्वं च प्रधानत्वमिति ज्ञातव्यम्। एवशब्दस्तु न गुणप्रधानभावव्यत्यासश्चतुर्थपाद इवेत्यर्थे।
ननु श्रुतियुक्तिभ्यां पूर्वपक्षितं कथं प्रबलयुक्तिमात्राश्रयेण सिद्धान्तः? कथञ्चित् पतिपक्षतामात्रसम्भवादित्यत उक्तं विवृण्वन्नाह युक्तेस्त्विति।
युक्तेस्तु युक्तिबाहुल्यमागमादागमस्य च।
कथं न निर्णयं कुर्यादिति..............॥६३॥
पूर्वपक्षयुक्त्यपेक्षया विरोधियुक्तेर्बाहुल्यम्। तथा पूर्वपक्षागमापेक्षया विरोध्यागमस्य च बाहुल्यं कथं निर्णयं न कुर्यात्? पूर्वपक्ष्युत्प्रेक्षितयुक्त्यागमाभ्यां प्रबलौ विरोधियुक्त्यागमौ तद्बाधया वस्तुव्यवस्थां कुरुत इत्यर्थः। कुर्यादिति प्रत्येकं सम्बन्धः। न केवलं सिद्धान्ते प्रबलयुक्तिमात्रम्, किन्नाम, प्रबलागमोऽप्यस्तीति भावः। इति अतः अधिकरणारम्भः सम्भवतीति शेषः। अधिकरणोपाधिव्युत्पादनसमाप्तिद्योतको वा इतिशब्दः।
॥ पूर्वपक्षिणा जगत्प्रागभावस्य अनन्यथासिद्धपूर्वक्षणवृत्तित्वात् जगत्कारणत्वमित्युपपादनम्॥
तदिदमुदाहरणनिष्ठं व्युत्पादयितुं पूर्वपक्षमनुवदति सूत्रकारः असदिति चेदिति।
ॐ असदिति चेन्न प्रतिषेधमात्रत्वात्ॐ॥८॥
अयमस्यार्थः न ब्रह्मणो जगत्कर्तृत्वं युक्तम्, प्रमाणाभावात्। “सदेव सोम्येदमग्र आसीत् तत् तेजोऽसृजत” इत्यादिश्रुतिरस्तीति चेत्, न। तस्या युक्तिविरुद्धत्वेन भवदभिमतार्थे प्रामाण्याभावात्। तथाहि महाप्रलये तावदुत्पत्स्यमानकार्यप्रागभावोऽवश्यमङ्गीकरणीयः। अन्यथा सर्गादौ कार्योत्पादायोगात्। नचास्यान्यत्र चरितार्थतोपलभ्यते। ततश्च स एव सकलकार्यकारणं भविष्यति।
अयमत्र प्रयोगः महाप्रलयवर्ती कार्यप्रागभावो महदादिकार्यकारणं भवितुमर्हति, अन्यत्रानुपक्षीणत्वे सति नियमेन तत्पूर्वभावित्वात्; योऽन्यत्रानुपक्षीणत्वे सति नियमेन यतः पूर्वभावी स तस्य कारणम्, यथा कुविन्दः पटस्येति। महदादिकं वा प्रागभावकार्यम्, अनन्यथासिद्धनियतपश्चाद्भावित्वात्; यद् यदनन्यथासिद्धनियतपश्चाद्भावि तत् तत्कार्यम्। यथा पटः कुविन्दस्येति।
॥ प्रलये ईश्वरादिभावमात्रस्य असत्त्वसाधनम्॥
नन्वत्र जगत्प्रागभावस्य जगत्कारणत्वमात्रं वा साध्यम्, अन्ययोगव्यवच्छेदेन वा। आद्येऽर्थान्तरता, प्रागभावस्य कारणत्वेऽपि ब्रह्मकारणतासम्भवात्। द्वितीये व्याप्त्यभावः। नहि यो यदपेक्षया पूर्वभावी, स एव तत्कारणं नान्य इति नियमोऽस्ति। ततः प्रागभावस्य जगत्कारणत्वेऽपि तत्समानन्यायानामीश्वरादीनामपि तत्कारणत्वमङ्गीकार्यमिति।
मैवम्। स्यादेतदेवं यदीश्वरादीनां प्रलये सत्त्वमेव स्यात्। नचैतदस्ति। सिद्धान्तिना कारणत्वेनाऽशास्यमानमीश्वरादिकं प्रलयेऽसद् भवितुमर्हति, भावत्वात्; महदादिकार्यवदिति युक्तिविरुद्धत्वात्। एवञ्च ईश्वरादीनां प्रलयेऽसत्त्वसिद्धौ प्रागभावस्य कारणत्वमात्रसाधनेऽपि तस्यैव कारणत्वमिति सिद्ध्यति।
॥ जगतोऽसत्कारणकत्वस्य श्रुतिसिद्धत्वम्॥
ननुच यत् कार्यं तत् सकर्तृकमिति नियमान्महदादिकर्तृत्वेनेश्वरोऽवश्यमङ्गीकरणीयः। न। प्रलये तत्सत्त्वाभावस्य प्रमितत्वेन प्रागभावस्यैव जगत्कर्तृत्वोपपत्तेः। नचैतदनुमानजातमुदाहृतश्रुतिविरुद्धत्वेनाप्रामाणमिति साम्प्रतम्। “असदेवेदमग्र आसीत्”, “तदसदेव तन्मनोऽकुरुत”, “असतः सदजायत” इत्यादिश्रुतिसंवादित्वेन श्रुतिमात्रतः प्राबल्यात्। प्रबलयुक्तिविरुद्धायाश्च श्रुतेः स्वार्थपरित्यागस्यातीताधिकरणे स्थितत्वात्। (५४८) प्रागभावस्यापि स्वरूपसत्त्वादिना सदेवेत्यादिप्रयोगविषयत्वोपपत्तेः।
॥ प्रागभावस्य कारणत्वे कर्तृत्वे चानुपपत्तिमाशय परिहारकथनम्॥
ननु “एतेन सर्वे” इत्यसदादिशब्दानां ब्रह्मार्थत्वमुक्तम्। तत् किं शब्दानामन्यत्र शक्तिरेव नास्ति, किंवा श्रुतेस्तत्र तात्पर्याभावः? नाऽद्यः, समाकर्षाङ्गीकारात्। न द्वितीयः, युक्त्युपेतायास्तत्र तात्पर्योपपत्तेः। तथाऽपि प्रागभावस्यैव कारणत्वं कर्तृत्वं च न क्वाप्युपलब्धमिति चेत्, न। अलौकिकार्थस्य यथागमं ग्राह्यत्वात्। सन्ततोत्पत्तिप्रसङ्गस्तु ब्रह्मवादिनोऽपि समानः। इच्छादिकारणानां कादाचित्कत्वेन तत्समाधानं ममापि समानम्। अत एव श्रुतिराह “तन्मनोऽकुरुत” इति। तस्मात् तत्तत्प्रागभावस्यैव तत्तत्कर्तृत्वादुक्तमयुक्तमिति। तदिदमुक्तम् असदिति। अभावः श्रुत्या जगत्कर्तृत्वेनोच्यते। अनुमीयते च तथा। तस्मात् स एव जगत्कर्तेति। अत्रासच्छब्दो भावसाधनः श्रुत्यनुगमार्थमभावे प्रयुक्तः। अपराऽपि वृत्तिः। भावत्वहेतुना कार्यवदीश्वरादिकमपि प्रलयेऽसदनुमीयत इति। अत्रासच्छब्दः कर्तृसाधनः।
॥ असतः कारणत्वस्य उपपत्तिविरुद्धत्वम्॥
इह प्रथमां वृत्तिमभिप्रेत्य नेति सिद्धान्तांशं व्याख्याति असदिति।
..........................असत् कारणं नहि॥६३॥
श्रुत्यर्थो भवति क्वापि.......................।
अभाव इत्यर्थः। कारणमिति तद्विशेषः कर्तोच्यते। हीत्यनेनेदमाह उपपत्तिविरुद्धस्तावन्न वेदार्थः सम्भवति, तदविरुद्धेऽर्थे सम्भवतीत्युक्तम्। प्रकृतश्र्चोपपत्तिविरुद्धः। तथाच वक्ष्याम इति। (५२२) श्रुत्यर्थो न भवतीत्युपलक्षणम्। अनुमानप्रमेयमपीदं न भवत्युपपत्तिविरुद्धत्वादित्यपि द्रष्टव्यम्।
किञ्च सम्भावित एव श्रुत्यर्थो वक्तव्योऽनुमातव्यश्च। नचैवं प्रकृतः। क्वाप्यभावस्य कर्तृत्वानुपलम्भादित्याह क्वापीति। असत् कारणं नह्युपलब्धमित्यनुवर्तते।
॥ चतुर्थपादार्थकथनपूर्वकं ततोऽस्याधिकरणस्य वैलक्षण्यसमर्थनम्, व्यवधानेनोक्तौ निमित्तं च॥
चतुर्थपादादस्याधिकरणस्य वैलक्षण्यं दर्शयितुमल्पेत्याद्युक्तम्। तदविशदम्। वैलक्षण्यज्ञानस्य उभयस्वरूपज्ञानाधीनत्वात्। अतश्चतुर्थपादार्थं दर्शयति श्रुतीति।
..................श्रुतिप्रायोपपत्तिभिः।
अविरोधश्चतुर्थे तु पादे सम्यक् समर्थ्यते॥६४॥
श्रुतीनां प्रायो बाहुल्यम्। तत्सहिताभिरुपपत्तिभिः। श्रुतिप्रधानकोपपत्तिभिरिति यावत्। अविरोधो विरोधाभावः। श्रुतीनामिति शेषः।
यद्वा श्रुतिप्रायशब्देन श्रुतिकल्पत्वमुच्यते। श्रुतिगृहीताभिरुपपत्तिभिरित्यर्थः। अत्र तु स्वतन्त्राभिरिति स्फुटमेव। अथवाऽत्रोक्तार्थस्यैव तत्र प्रपञ्चनान्न दोषः। यथा प्रथमपादार्थप्रपञ्चनात् द्वितीयपादस्य इत्याशयेनोक्तम् सम्यगिति।
यद्वा क्वापीति अत्र सम्बद्ध्यते। तेन क्वाप्यध्यात्मलक्षणे विषये, अत्र त्वन्यत्रेति भेदः सूचितो भवति। यद्यप्येतत् प्रागेव वक्तव्यम्, तथाऽप्यसत्कार्यमित्यादेर्वक्ष्यमाणस्य, सूत्रस्य व्याख्यानान्तरत्वद्योतनाय व्यवधानेनोक्तम्। अन्यथा पूर्वमेव व्याख्यानम्, इदं तु तदुपपादनायोपयोगीति विज्ञायेत।
॥ अभावस्य प्रतिषेधैकस्वरूपत्वात् न कर्तृत्वम्, कारणत्वं वा॥
अथ द्वितीयां वृत्तिमभिप्रेत्य “असदिति चेन्न” इत्येतावत् सूत्रं व्याचष्टे असदिति।
असत् कार्यं यथा दृष्टं वस्तुत्वात् कारणं तथा।
इति चेन्न निषेधैकस्वरूपस्य न कर्तृता॥६५॥
कार्यं महदादिकम्। यथा प्रलयेऽसत् प्रमितं तथा वस्तुत्वाद् भावत्वात् कारणं कारणत्वेन सिद्धान्तिनाऽङ्गीकृतमीश्वरादिकमपि प्रलयेऽसद् भवितुमर्हतीत्यर्थः। कुतो नेति चेत्। न तावदस्मादेव अनुमानादभावस्य विश्वकर्तृत्वसिद्धिः, किन्त्वनेन प्रलयावस्थायामीश्वराद्यभावसिद्धौ कार्यस्य सकर्तृकत्वनियमे स्थिते प्रागभावस्य नियतपूर्वभावित्वेन विश्वकारणत्वं सिद्ध्यत् कर्तृतयैव सेत्स्यतीति वक्तव्यम्। तदिदं प्रत्यनुमानपराहतमित्याशयवान् प्रतिषेधमात्रत्वादिति सौत्रं हेतुं व्याकुर्वन् साध्यमध्याहरति निषेधेति। निषेधैकस्वरूपस्येति हेतुगर्भविशेषणम्।
अयमत्र प्रयोगः विप्रतिपन्नोऽभावो न कर्ता, प्रतिषेधमात्रत्वात्, निषेधैकस्वरूपत्वात्; सम्प्रतिपन्नघटाभाववदिति। कर्तृत्वमात्रस्याभावे विश्वकर्तृत्वं दूरोत्सारितम्। नच दृष्टान्तः साध्यविकलः। अन्वयव्यतिरेकाभ्यां कुलालादेः कर्तृत्वनिश्चये अभावस्य तत्कल्पकाभावात्।
॥ इच्छाप्रयत्नादिरूपप्रवृत्तिमत्त्वस्यैव कर्तृत्वात्, अभावे तदसम्भवः॥
नन्वस्तु निषेधैकस्वरूपत्वम्, कतृत्वं च। को विरोधः? तथाच घटाद्यभावस्याकर्तृत्वेऽपि प्रलयकालीनोऽभावः कर्ता भविष्यतीत्यतः कर्तृत्वनिषेधैकस्वरूपत्वयोर्विरोधं स्फोरयितुं कर्तृत्वस्वरूपमाह बुद्धीति।
बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिति निश्चितम्।
प्रवृत्तिः इच्छाप्रयत्नादिका। निश्चितं सर्वैरपि परीक्षकैः। वृक्षेण स्थीयत इत्यादौ कर्तृत्वं पारिभाषिकम्, नतु स्वाभाविकमिति हि सर्वेऽपि प्रतिपन्नाः।
अत्र बुद्धिपूर्वप्रवृत्तिरित्येतद् बुद्ध्या विविच्य व्याख्येयम्। तथाहि स्यात् कर्तृत्वनिषेधैकस्वरूपत्वयोरविरोधः, यदि तृतीयादिविषयत्वमेव कर्तृत्वं स्यात्। नचैतदस्ति। अपितर्हि? इच्छाप्रयत्नादिरूपा प्रवृत्तिरेव। सर्वैरपि परीक्षकैस्तस्या एव कर्तृत्वेन निश्चितत्वात्। प्रकरणाच्चैतदेव निश्चितम्। अत्रैव हि विप्रतिपत्तिर्नान्यत्र। सा चेयं प्रवृत्तिर्बुद्धिपूर्वा बुद्धिव्याप्ता। कार्यायाः प्रवृत्तेर्बुुद्धिकारणकत्वात्। अकार्यायाश्च बुद्धिव्यभिचाराद्यर्शनात्। नच कर्तृत्वापरपर्यायायाः प्रवृत्तेर्व्यापिका बुद्धिरभावे सम्भवति। ततो व्याप्यं कर्तृत्वमपि न सम्भवत्येवेति कथं कर्तृत्वनिषेधैकस्वरूपत्वयोर्न विरोध इति। अत्र कर्तृत्वानुवादेन बुद्धिपूर्वप्रवृत्तिरिति व्याख्यानान्निश्चितमिति नपुंसकोपपत्तिः। भावे वा क्तप्रत्यय इति।
॥ कुलालादीनामन्योन्याभावधर्मात्मना प्रतिषेधात्मकत्वात् तत्र व्यभिचारनिरासाय सूत्रे मात्रपदग्रहणम्॥
ननु मा भूदप्रयोजकत्वं हेतोः। तथाऽपि वैयर्थ्यमपरिहार्यम्। अभावपर्यायो हि प्रतिषेधशब्दः, कर्तृत्वं च कार्योत्पत्त्यनुकूलेच्छादियोग इत्युक्तम्। नच प्रतिषेधत्वं कर्तरि वर्तते, येनाकर्तृत्वं व्यभिचरेत्। तन्निरासार्थं च विशेषणं सार्थकं स्यात्। अतः प्रतिषेधत्वादित्येतावताऽकर्तृत्वव्यभिचाराभावात् सूत्रे मात्रग्रहणं व्याख्यानेऽप्येकग्रहणं व्यर्थमित्यत आह प्रतिषेधेति।
प्रतिषेधात्मकत्वं तु भावस्याभावधर्मतः।
धर्मधर्म्यैक्यतश्चैव नतु तन्मात्रता भवेत्॥६६॥
भावस्यापि कुलालादेः कर्तुः प्रतिषेधात्मकत्वं विद्यते। अतः प्रतिषेधत्वादित्येवोक्ते कुलालादौ अकर्तृत्वेन हेतोर्व्यभिचारः स्यात्। तत्परिहारार्थं मात्रग्रहणम्, तद्व्याख्याने चैकग्रहणं च सार्थकमिति।
ननु कुलालादेर्भावस्य कथं प्रतिषेधात्मकत्वमित्यत आह अभावेति। आभावोऽत्रान्योन्याभावो विवक्षितः। स धर्मोऽस्येत्यभावधर्मा। तस्य भावस्तत्त्वम्। तत इति भावप्रधानो निर्देशः। अस्ति खलु कुलालादेर्भावस्य भेदापरपर्यायः प्रतिषेधात्मकोऽन्योन्याभावो धर्म इति।
नन्विदमसङ्गतम्। यः कर्ता धर्मी कुलालादिः, न तस्य प्रतिषेधात्मकत्वम्, यश्च प्रतिषेधात्मकोऽन्योन्याभावो न तस्य कर्तृत्वमित्यत आह धर्मेति। धर्मधर्मिणोः कुलालान्योन्याभावयोरेकत्वतः। चशब्दो हेतुसमुच्चये। अभावधर्मतो धर्मधर्म्यैक्यतश्च प्रतिषेधात्मकत्वं भावस्यास्तीत्यन्वयः। एवशब्दो भेदव्युदासार्थः। अन्योन्याभावो हि धर्मिणा अत्यन्ताभिन्नोऽभ्युपेयते। नत्वयावद्द्रव्यभावी धर्म इव भिन्नाभिन्नः।
अस्त्वेवं प्रतिषेधत्वस्य कुलालादौ व्यभिचारः, तथाऽपि कथं मात्रग्रहणस्य सार्थक्यम्? नह्यविशिष्टव्यभिचार एव विशेषणं प्रयोजयति। तथात्वे विशेषणनियमानुपपत्तेः। किन्नाम। विशेषणस्य व्यभिचारनिरासौपयिकत्वे सति। तदत्र कथमित्यत आह नत्विति। कुलालादेः कर्तुर्भावस्य प्रतिषेधात्मकत्वेऽपि तन्मात्रता प्रतिषेधमात्रता न भवेत्। अतोऽस्ति मात्रग्रहणस्य व्यभिचारपरिहारौपयिकत्वम्। तुशब्दोऽवधारणे सन्दिग्धव्यभिचारपरिहारार्थः।
॥ धर्मद्वारमन्तरेण धर्मिण एव प्रतिषेधात्मकत्वस्य विवक्षितत्वात्
अभावस्य प्रमेयत्वादिना विधिरूपत्वेऽपि न सौत्रहेतोरसिद्धिः॥
नन्वेवमेकं सन्धित्सतोऽपरं प्रच्यवते। यतो व्यर्थविशेषणतापरिहारे स्वरूपासिद्धिरापन्ना। तथाहि पक्षीकृतेऽभावे प्रमेयत्वादिधर्माः सन्ति, नवा? नेति पक्षेऽप्रमिताश्रयत्वादिकं हेतोः। आद्यो न तावत् तेऽप्यभावाः, विधिप्रत्ययविषयत्वात्, प्रतियोग्यनिरूप्यत्वाच्च। षदार्थातिरिक्तत्वमभावत्वमिति चेत्, न। स्वेच्छापरिकल्पनाया अनुपादेयत्वात्। अन्यथा पञ्चैव भावास्तदतिरिक्तोऽभाव इति कल्पनायां समवायादेरपि भावत्वं न स्यात्। ते च नाभावाद् धर्मिणो भिन्नाः। अन्योन्याभावसमानन्यायत्वात्। तथाच यथा कुलालादेर्विपक्षस्य विधिनिषेधात्मकत्वेन प्रतिषेधमात्रत्वाभावः, तथा पक्षीकृताभावस्यापि धर्मद्वारा विधिरूपस्य प्रतिषेधमात्रत्वाभावात् स्वरूपासिद्धो हेतुः स्यात्। दृष्टान्तश्च साधनविकलः। घटाभावस्यापि धर्मद्वारा विधिरूपस्य प्रतिषेधमात्रत्वाभावादित्यत आह अभावस्य चेति।
अभावस्य च भावोऽपि धर्मोऽथापि हि धर्मिणः।
तादृक्त्वं मात्रतेहोक्ता........................॥६७॥
प्रथमापिशब्दात् पूर्वं यदीत्यध्याहार्यम्। यद्यप्यभावस्य पक्षीकृतस्य दृष्टान्तीकृतस्य च भावः प्रमेयत्वादिधर्मोऽस्ति। चशब्दाद् धर्मिणाऽभिन्नश्च। भावस्याभावधर्म इवेति वा। अथाऽपि न स्वरूपासिद्ध्यादिदोष इति शेषः। कथमित्यत आह हि धर्मिण इति। हिशब्दो हेतौ। तादृक्त्वं प्रतिषेधात्मकत्वम्। मात्रता प्रतिषेधमात्रता। इह सूत्रे।
 एतदुक्तं भवति स्यादयं स्वरूपासिद्ध्यादिदोषो यद्यत्र प्रतिषेधमात्रशब्देन केवलप्रतिषेधत्वं विवक्षितं स्यात्। नचैवम्। किन्तु धर्मद्वारमन्तरेण धर्मिण एव प्रतिषेधत्वम्। तच्च पक्षदृष्टान्तयोरस्त्येव। तयोर्धर्मद्वारेण विधित्वेऽपि धर्मिणोः प्रतिषेधत्वस्योभयसिद्धत्वात्। व्यावृत्तं च विपक्षात् कुलालादेः। तस्य धर्मतो निषेधत्वेऽपि धर्मिणोऽनिषेधत्वादिति।
ननु कथमेतल्लभ्यते? उच्यते मात्रशब्दो हि साकल्ये वर्तते। नच तत् क्वापि सम्भवति। प्रतिषेधेऽपि विधिसद्भावस्य परेणैवोक्तत्वात्। ततः प्रतिषेधमात्रशब्दो विधेरप्राधान्यं लक्षयति, अन्नमात्रं भुक्तमिति यथा। धर्मधर्मिणोश्च अप्राधान्यं धर्मस्य, प्राधान्यं धर्मिणः। तेन धर्मिणः प्रतिषेधत्वं प्रतिषेधमात्रत्वमिति सिद्ध्यति।
॥ अभावस्य प्रतिषेधात्मकत्वादेवाचेतनत्वम्॥
इच्छाप्रयत्नादिरूपायाः प्रवृत्तेः कर्तृतापरनामिकायाः व्यापिका बुद्धिरभावाद् व्यावृत्ता तामपि व्यावर्तयतीत्युक्तम्। तत्राभावाद् बुद्धिव्यावृत्तिरेव कुत इत्यत आह बुद्धीति।
......................बुद्धिराहित्यमेव तत्॥६७॥
तत् तस्मात् प्रतिषेधमात्रत्वादेव बुद्धिराहित्यमभावस्य घटाभाववत् सिद्ध्यतीत्यर्थः। द्विविधं हि प्रमेयम् स्वतन्त्रम्, परतन्त्रं च। परतन्त्रमपि द्विविधम् भावः, अभावश्च। भावोऽपि द्वेधा चेतनः, अचेतनश्च। एवञ्च यदा भावस्यापि कस्यचिन्न चैतन्यम्, का वार्ता तदाऽभावे चैतन्यस्य। कश्चिदभावो बुद्धिमान् किन्न स्यादिति चेत्, न। निरुपाधिकसम्बन्धमनादृत्य निर्निमित्तायाः शङ्काया अतिप्रसङ्गित्वात्। “तन्मनोऽकुरुत” इति श्रुतेरिति चेत्, न। अन्यथासिद्धत्वात्। अथ प्रतिषेधमात्रत्वमपि पक्षे नाभ्युपेयात्, तदाऽसदिति ब्रह्मेति च सञ्ज्ञाभेदमात्रम्। अनेकत्वादेः परेणापि त्याज्यत्वात्। अनेकस्वातन्त्र्ये कार्योदयायोगात्।
नन्विदं तत्रैव वक्तव्यम्। सत्यम्। प्रतिषेधमात्रत्वे विदिते ततो बुद्धिराहित्यप्रतीतेः सौलभ्यादिहोक्तम्। टीकाकारास्तु प्रमेयत्वादिभावधर्माङ्गीकारे बुद्धिरपि तथा किं न स्यादिति शङ्कावकाशादिहोक्तमित्याहुः।
॥ भावाभावयोरसम्बद्धत्वात्, विरुद्धस्वभावत्वाच्च
 धर्मधर्मिभावानुपपत्तिमाशय परिहारकथनम्॥
भावस्याभावो धर्मः, अभावस्य च भावोऽपि धर्म इत्यनुपपन्नम्। भावाभावयोरभावभावधर्मित्वे प्रमाणाभावात्, सम्बन्धाभावाच्च। सम्बद्धयोरेव हि शौक्ल्यपटयोर्धर्मधर्मिभावो दृष्टो नासम्बद्धयोर्मेरुमन्दरयोः। नच भावाभावयोः सम्बन्धोऽस्ति। संयोगसमवाययोर्भावनियतत्वात्। विरुद्धस्वभावत्वाच्च। यावविरुद्धस्वभावौ गुणगुणिनौ तावेव हि धर्मधर्मिणावुपलब्धौ। न विरुद्धस्वभावावश्वमहिषौ। विरुद्धस्वभावौ च भावाभावौ। विधिनिषेधरूपत्वात्, अभेदाच्च। नहि घटः स्वयं स्वस्यैव धर्मो भवति। उक्तं च धर्मधर्म्यैक्यमित्यत आह विशेष्यतैवेति।
विशेष्यतैव धर्मित्वम्......................।
विशेषणतैव च धर्मत्वमित्यपि द्रष्टव्यम्। यो हि येन विशिष्यते व्यवच्छिद्यते स तस्य धर्मी, धर्मश्चापरः। प्रकारान्तरस्य निर्वक्तुमशक्यत्वात्। प्रतीयते च विशेष्यविशेषणभावो भावाभावयोः। अन्यथा घटः पटो न भवतीति, अभावः प्रमेय इति च व्यवहारानुपपत्तेः। तत् कथं भावभावयोर्न धर्मधर्मिभावः? पटशौक्ल्ययोश्च न सम्बन्धप्रयुक्तो धर्मिधर्मभावः। नापि मेरुमन्दरयोस्तदभावः सम्बन्धाभावप्रयुक्तः। किन्तु स्वभावादेव विशेष्यविशेषणत्वतदभावरूपः। सम्बद्धयोरपि घटपटयोः तदभाववत्, भूतलघटाभावयोस्तद्भावाच्च।
एवमेव विरोधिस्वभावाभेदावपि परास्तौ। सगुणनिर्गुणत्वेन नित्यानित्यत्वेन वा विरुद्धस्वभावयोरपि गुणगुणिनोर्धर्म्यादित्वस्य दर्शनात्, अदर्शनाच्च पटत्वशौक्ल्ययोः। दृश्यते चाभेदेऽपि तद्भावः। अस्तित्वाभिधेयत्वादीनां धर्माणां परैर्धर्म्यभेदस्याङ्गीकृतत्वात्। भिन्नानामपि तद्भावो नोपलभ्यते। तदेवमसम्बद्धयोरपि, विलक्षणस्वभावयोरपि, भावाभावयोरभेदेऽपि विशेषशक्त्या विशेष्यविशेषणतालक्षणो धर्मिधर्मभावो युक्त एवेति।
॥ विधिधर्मिकपदार्थस्य भावत्वम्, निषेधधर्मिकपदार्थस्य अभावत्वम्॥
यद्येवं भावाभावयोरभावभावधर्मित्वं धर्मधर्मिणोश्चाभेदः स्यात्, तदा भावस्याप्यभावत्वेन, अभावस्य च भावत्वेन, घटादीनां भावत्वमेव, प्राक्प्रध्वंसात्यन्ताभावानामभावत्वमेवेति नियमो निर्निबन्धनः स्यात्। नचैवमस्त्विति वाच्यम्। सकललोकसिद्धस्य तथाभावानर्हत्वादित्यत आह प्रथमेति।
......................प्रथमप्रतिपत्तिषु।
निषेधविधिरूपत्वं भावाभावत्वमत्र हि॥६८॥
रूपशब्दो धर्मिवचनः। भावाभावत्वमिति यथायोगं सम्बन्धः। अत्रैवंसत्यपि। हिशब्दः प्रसिद्धौ।
अयमर्थः किं भावाभावनिबन्धनं प्रमेयरूपमन्विष्यते, प्रमाणं वा? आद्यस्योत्तरार्धमुत्तरम्। यद्यपि भावाभावात्मका घटादयः, प्रागभावादयश्च। तथाऽप्यत्र पदार्थसार्थे यः पिण्डो विधिधर्मिको घटादिः स भावो, यस्तु निषेधधर्मिकः प्रागभावादिः सोऽभाव इति व्यवस्थोपपद्यते। अभेदेऽपि धर्मधर्मिभावो विशेषशक्त्या सङ्गच्छत इत्युक्तमेव।
॥ प्रथमप्रतिपत्तौ विधित्वेन प्रतीयमानत्वाद् घटादेः भावत्वम्,
निषेधत्वेन प्रतीयमानत्वात् प्राक्प्रध्वंसादेरभावत्वम्॥
द्वितीयस्योत्तरम् प्रथमप्रतिपत्तिष्विति। यः प्रथमं विधितया परप्रतिक्षेपरूपतां विना प्रतीयते स घटादिर्भावः, यस्तु निषेधतया परप्रतिक्षेपेण प्रतीयते प्रागभावादिः सोऽभाव इत्युत्तरार्धेनैकवाक्यतया योज्यम्।
घटो हि प्रथमं विधित्वेन धर्मिरूपेण प्रतीतोऽनन्तरं पटो न भवतीति पटनिषेधात्मतया प्रतीयते। प्रागभावादिरपि प्रथमं निषेधत्वेन धर्मिस्वरूपेणावगतोऽनन्तरं प्रमेय इति विधितया प्रतीयत इति सकलप्रतिपत्तृसिद्धमिति बहुवचनहिशब्दाभ्यां द्योतयति। विषयिविषययोराधाराधेयभावमभिप्रेत्य सप्तमीप्रयोगः। कारकेषु गौणमुख्यत्वविवक्षाभावस्य स्थितत्वादिति।
॥ प्रलये अभावमात्रवत्त्वप्रसङ्गात् अभावकर्तृकत्वमतमसमञ्जसम्॥
एवं पूर्वपक्ष्युत्प्रेक्षितप्रमाणसमुदायलब्धस्यार्थस्य प्रमाणविरोधो दर्शितः। इदानीमसत्कार्यं यथा दृष्टमित्यनुमानं विशेषतो निराचिकीर्षुस्तत्प्रस्तावनायासूत्रयत् सूत्रकारः “अपीतौ तद्वत्प्रसङ्गादसमञ्जसम्” इति।
ॐ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॐ॥९॥
असमञ्जसमेतद् विश्वस्याभावकर्तृकत्वमतम्। कुतः? अभावस्यैव जगत्कर्तृत्वाङ्गीकारेऽपीतौ प्रलये तद्वत्प्रसङ्गात् अभाववत्त्वप्रसङ्गात्। ईश्वरादेः सर्वस्याप्यभावाभ्युपगमप्रसङ्गादिति यावत्। नहीश्वरादौ सति तत्परित्यागेनाभावस्य जगत्कर्तृत्वमवधारयितुं शक्यमिति।
॥ प्रलये पदार्थसत्त्वसाधकानुमानसद्भावात् सर्वासत्त्वाभ्युपगमोऽयुक्तः॥
ननु नेदमनिष्टम्। ईश्वरादिकं प्रलयेऽसद् भवितुमर्हति, भावत्वात्; घटवदित्यनुमानेनेश्वरादेः सर्वस्य प्रलयेऽभावाभ्युपगमादित्यत्रोक्तं सूत्रकृता “न तु दृष्टान्तभावात्” इति।
ॐ न तु दृष्टान्तभावात् ॐ॥१०॥
नैव प्रलये सर्वस्यासत्त्वमङ्गीकर्तुमुचितम्। कस्मात्? दृष्टान्तभावात्। दृष्टान्त इति तत्रावधारितव्याप्तिमूलमनुमानमुच्यते। दृष्टान्तमात्रस्य साधनबाधनानङ्गत्वात्। तथाच प्रलये परमेश्वरादिसद्भावस्य साधकानुमानसम्भवादित्यर्थः।
॥ प्रलये चेतनसद्भावसाधकमनुमानम्॥
किं तदनुमानमित्यत आह भाष्याकारः सर्वनाशेष्वपीति।
सर्वनाशेष्वपि सदा शिष्टत्वाद् यस्यकस्य नुः।
नाशोऽयं विमतोऽपि स्यान्नाशत्वात् कर्तृशेषवान्॥६९॥
अपिरभिव्याप्तौ। सर्वशब्दो वर्तमानमात्रविवक्षयाऽपि स्यादित्यतः सदेत्युक्तम्। तदिदं व्यभिचारपरिहारायाभिहितम्। नुः पुरुषस्य। अयमित्यस्यैव विवरणं विमत इति। अत्र पूर्वार्धेन व्याप्तिरुक्ता। उत्तरार्धेन प्रतिज्ञाहेतू।
एतदुक्तं भवति महाप्रलयलक्षणो नाशः पुरुषशेषवान् भवितुमर्हति, नाशत्वात्; सम्प्रतिपन्ननाशवदिति। अत्र पुरुषावशेषमात्रं साध्यम्। नतु नाशकर्तुः पुरुषस्यावशिष्टता। अत एवोक्तम् यस्यकस्येति। नाशस्य कर्तुरकर्तुर्वेत्यर्थः। तथाऽपि कर्तृशेषवानिति वदतेदमभिप्रेतम् प्रलये पुरुषसद्भावमात्रसाधने सति भग्न्ं तावत् परस्यानुमानम्। यदपि परस्याभावकर्तृकत्वं जगतोऽभिमतम्, तदप्यत एवापास्तम्। अवशिष्टस्य पुरुषविशेषस्यैव विश्वकर्तृत्वसम्भवेऽभावस्य तत्कल्पनानवकाशात्। दृष्टानुसारिणी हि कल्पना। नहि लोके प्रागुत्पत्तेः कुलालाभावयोः सतोरभावो घटस्य कर्ता दृष्टः। किन्नाम। कुलाल एवेति।
॥ नाशत्वहेतोर्व्यभिचारशङ्कानिरासः॥
अभिप्रायमजानानः कर्तृशेषवानित्युक्त्या विभ्रान्तश्र्चोदयति यत्र सुन्दोपसुन्दन्यायेनाशेषा अपि पुरुषा नष्टाः, तत्र नाशत्वहेतोरनैकान्तिकतेति। तत्राऽह नचेति।
नचाशेषनृनाशस्तु दृष्टो दृश्योऽस्ति वा क्वचित्।
चशब्दोऽवधारणे। अशेषनृनाशस्तु नैव क्वचिद् दृष्ट इत्यतीतनिषेधो, दृश्यो वा नैवेत्यनागतस्य, नैवास्ति वा दृश्यमान इति वर्तमानस्य।
इदमुक्तं भवति अनैकान्तिकत्वं हि प्रमिते विपक्षे हेतुवृत्तौ सत्यां वक्तव्यम्, नाप्रमिते। तथासत्यनुमानमात्रोच्छेदप्रसङ्गात्। नचाशेषपुरुषनाशः कालत्रयेऽपि प्रमितः, येन नाशत्वस्य तत्र व्यभिचारः स्यात्। प्रमितत्वाङ्गीकारे च प्रमातुरेवोर्वरितत्वेन व्याघातश्च स्यात्। नच नाशकर्तुः पुरुषस्यावशिष्टता साध्यत्वेनेष्टा। येन सुन्दोपसुन्दादिनाशः प्रत्युदाह्रियेत। किन्तु पुरुषावशेषवत्त्वमात्रमिति। अनेन प्रलयकालः पुरुषवान्, कालत्वात्; इदानीन्तनकालवदित्यप्यनुमानं सूचितम्। नच तदा कालाभावादाश्रयासिद्धिः। तथासति तदेत्येव वक्तुमशक्यत्वात्। परकीयानुमाने च प्रलयविशेषणानुपपत्तेः।
यद्यप्यत्र, “कालोऽङ्गीक्रियते, नवा। आद्ये तत्रैव भावत्वहेतोर्व्यभिचारः। द्वितीये प्रलयविशेषणानुपपत्तिः। सकलकार्यविनाशविशिष्टकालस्य प्रलयत्वात्। अथ कार्यविनाश एव प्रलयः, तथाऽपीश्वराभावस्य तेन सम्बन्धाभावादीश्वरादिकं प्रलयेऽसदिति प्रतिज्ञार्थानुपपत्तिः। देशादिद्वारा सम्बन्धाभ्युपगमे तत्रैव भावत्वस्य व्यभिचारः। प्रलयविशेषणपरित्यागे चेश्वरादेः सर्वदाऽप्यभावः प्रतिज्ञातः स्यात्। तथाच स्फुटो दोषः’ इति वक्तुं शक्यते, तथाऽपि तच्छिष्यैरेवोह्यतामिति न सूत्रभाष्यकाराभ्यामभिहितम्। सूचितं च “अपीतौ” इति सूत्रकृता। “लये मानं च किं भवेत्” इति भाष्यकृताऽपि।
॥ प्रलये अदृष्टाश्रयत्वेन जीवसद्भावसाधनम्॥
तदिदं जीवेश्वरसाधारणमनुमानमुक्तम्। इदानीं प्रलये जीवसद्भावसाधकमनुमानमाह धर्मेति।
धर्माधर्माश्रयत्वेन स्वीकार्योऽपि नरो लये॥७०॥
न केवलमुक्तानुमानेन। किन्नाम। धर्माधर्माश्रयत्वेनापीति सम्बन्धः। नरो जीवात्मा। अयमत्र प्रयोगः प्रलयकालवर्ती धर्मः साश्रयः, धर्मत्वात्; इदानीन्तनधर्मवत्। एवमधर्ममपि पक्षीकृत्य प्रयोक्तव्यम्। नच धर्माधर्माश्रयो जीवात्मनोऽन्यः सम्भवति। एवञ्च प्रलये जीवात्मसद्भावाद् भावमात्रासत्त्वसाधनमनुपपन्नमिति।
॥ प्रलये अदृष्टाधिष्ठातृत्वेन ईश्वरसद्भावसाधनम्॥
यद्वेश्वरसद्भावसाधनमिदम्। आश्रयशब्दस्याधिष्ठातृपरत्वात्। तत्रैवं प्रयोगः प्रलयकालवर्तिनौ धर्माधर्मौ केनचिदधिष्ठितौ, कारणत्वे सत्यचेतनत्वात्; वाश्यादिवदिति। नचातीन्द्रिययोर्धर्माधर्मयोरधिष्ठातृत्वमीश्वरादन्यस्योपपद्यते। अतो धर्माधर्माधिष्ठातृत्वेनापि नरः परमपुरुषो लये स्वीकार्य इति।
॥ प्रलये अदृष्टस्याप्यसत्त्वाङ्गीकारे तस्य कारणत्वाभावप्रसङ्गः॥
ननु प्रलये भावमात्रस्यासत्त्वमभ्युपगच्छतो मम तदा धर्माधर्मावपि न स्त एवेत्याश्रयासिद्धिरिति। इदमिह वक्तव्यम्। किं धर्माधर्मसञ्ज्ञितमदृष्टमस्ति, कार्यमात्रस्य कारणं च भवातीत्यभ्युपगम्य प्रलये तदभावोऽभिधीयते, उत सदपि तदकारणमित्यभ्युपेत्य, अथ तदेव नास्तीत्यङ्गीकृत्य। आद्यं दूषयति अनादित्वमिति।
अनादित्वं विनाऽदृष्टं कथं स्यात् कारणं क्वचित्।
अनादित्वमिवानादित्वं प्रलये सत्त्वमित्यर्थः। क्वचिदिति सृष्टिकाले। यद्यदृष्टं प्रलये न स्यात् तदाऽऽदिकालीनस्य कार्यस्य कारणं न स्यात्। असतः कारणत्वायोगात्। तथाच सर्वोत्पत्तिमतां निमित्तमित्यभ्युपगमो भग्न् इत्यर्थः।
स्यादेतत्। अधुनातनकार्यमदृष्टकारणकम्, नत्वादिकालीनमिति ममाभ्युपगमः। तत् किमदृष्टस्य प्रलये सद्भावेनेत्यत आह अनादित्वमिति। अनादित्वं विना तत एवाऽदिकालीनकार्यकारणत्वं च विनाऽदृष्टं क्वचिदधुनातनेऽपि कार्ये कारणं कथं स्यात्? न कथञ्चित्। अधुनातनं कार्यं अदृष्टकारणकं न, कार्यत्वात्; आदिकालीनकार्यवदित्यनुमानसम्भवात्। नचेदिदमिव तदप्यदृष्टकार्यमेवाङ्गीकार्यमिति।
यद्वा मा भूदादिकालीनस्य कार्यस्यादृष्टं कारणम्। तथाऽपि प्रलये तद्भावोऽङ्गीकरणीयः। कुतः? अनादित्वं प्रलये सत्त्वं विनाऽऽदृष्टं क्वचिदिदानीन्तनेऽपि कार्ये कारणं कथं स्यात्? अन्तराल एव अदृष्टोत्पत्त्ययोगादिति योज्यम्।
नन्वदृष्टस्य सर्वोत्पत्तिमन्निमित्तत्वेऽपि न प्रलये सद्भावोऽभ्युपगन्तव्यः। आदिकाल एवोत्पन्नस्यापि महदादिकारणत्वोपपत्तेरिति। इदमत्र वक्तव्यम्। तदादिकाले जनिमददृष्टं ततः पूर्वादृष्टादुत्पद्यते नवेति। आद्यमुपादत्ते पूर्वेति।
पूर्वादृष्टात् परादृष्टं यदि नैवोत्तरं कुतः।
जायत इति शेषः। परिहरति नैवेति। एवन्तर्हि तदुत्तरमादिकाले जनिमददृष्टं नैवास्माभिः पक्षीक्रियते। किन्तु तत्कारणं प्रलयकालीनं पूर्वादृष्टमेवेति कुत आश्रयासिद्धिरिति।
द्वितीयमुपादत्ते पूर्वेति। नैवोत्पद्यत इति शेषः। दूषयति उत्तरमिति। तर्हि तदुत्तरमादिकालीनमदृष्टं कुतो जायते? न कुतश्चित्। सर्वोत्पत्तिमन्निमित्तस्यादृष्टस्याभावादादिकालीनादृष्टोत्पत्तिरेव न स्यादित्यर्थः।
न ब्रूमो वयं सर्वं कार्यमदृष्टजन्यमिति। किन्तर्हि? आदिकाले जनिमतो महदादिकारणाददृष्टादन्यदेवातो नोक्तदोष इत्याशङ्कामुत्थाप्य दूषयति पूर्वेति। यदि परादृष्टं सृष्ट्युपक्रमे जनिमत् पूर्वादृष्टान्नैवोत्पद्यते, अपित्वदृष्टनिरपेक्षमेव, तर्ह्युत्तरमहदादिकार्यमपि कुतोऽदृष्टादुत्पद्यत इत्यङ्गीकरणीयम्। अदृष्टवत् तस्याप्यदृष्टनिरपेक्षत्वसम्भवात्। अन्यथा कार्यत्वादृष्टस्याप्यदृष्टापेक्षाऽङ्गीकार्येति।
॥ अदृष्टस्य प्रत्यक्षेणानुपलभ्यमानत्वादसत्त्वे
प्रलयस्यापि तथात्वादसत्त्वप्रसङ्गः॥
अस्तु तर्ह्यदृष्टं कारणमेव न भवतीति द्वितीयः पक्षः, अदृष्टमेव नास्तीति तृतीयो वा; उभयस्याप्यनुपलम्भात्। तथाचाऽश्रयासिद्धिरपरिहार्येत्याशयाऽह अदृष्टमिति।
अदृष्टं कारणं नो चेल्लये मानं च किं भवेत्॥७१॥
यदि प्रत्यक्षेणानुपलम्भाददृष्टं न स्यात्, सदपि वा कारणं न स्यात्, तदा लये च किं मानं भवेत्? प्रलयोऽप्यप्रामाणिकत्वान्न स्यात्। नह्यसावपि प्रत्यक्षेणोपलभ्यते। तथाचेश्वरादिकं प्रलयेऽसद् भवितुमर्हतीत्यप्रसिद्धविशेषणः पक्षः परस्यापि स्यात्।
॥ प्रलयसद्भावादौ उदयनोक्तानुमानोपन्यासः॥
अथ मतम् कालविप्रकर्षादनुपलभ्यमानोऽपि प्रलयोऽनुमानसिद्धत्वादङ्गीकरणीयः। तथाहि विश्वसन्तानोऽयं दृश्यसन्तानशून्यैः समवायिभिरारब्धः, सन्तानत्वात्; आरणेयसन्तानवत्। वर्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पादितसजातीयसन्तानान्तराः, नित्यत्वे सति तदारम्भकत्वात्; प्रदीपपरमाणुवत्। सर्वे सन्तानाः कदाचित् सहोच्छिद्यन्ते, सन्तानत्वात्; प्रदीपसन्तानवत्। सर्व एव परमाणवः कदाचित् समग्रोपादेयप्रबन्धशून्याः, आरम्भकत्वात्; नष्टपवनारम्भकपरमाणुवत्। भूगोलकसन्तानः कदाचित् साकल्येनोच्छिद्यते, सन्तानत्वात्; दीपसन्तानवत्। इयं क्रिया स्वान्यावयविकालीनत्वानधिकरणकिञ्चित्कालीनक्रियान्या, क्रियात्वात्; अन्यक्रियावदिति।
॥ अदृष्टस्यापि अनुमानार्थापत्तिसिद्धत्वम्॥
एवन्तर्हि धर्माधर्मावपि स्वरूपतो विप्रकृष्टत्वादनुपलभ्यमानावपि देवदत्तशरीरादिकं देवदत्तविशेषगुणजन्यम्, कार्यत्वे सति देवदत्तभोगहेतुत्वात्; देवदत्तप्रयत्नजन्यस्रगादिवदित्याद्यनुमानेन, विचित्रकार्यान्यथानुपपत्त्या, “ज्योतिष्टोमेन स्वर्गकामो यजेत”, “यो ब्राह्मणायावगुरेत् तं शतेन यातयात्” इत्यादिश्रुतसाध्यसाधनभावान्यथानुपपत्त्या वा सिद्धत्वादभ्युपगन्तव्याविति समं समाधानम्।
॥ अदृष्टसाधकानुमाने दोषोद्भावनम्॥
अथ मन्यसे नानुमानादिना धर्मादिसिद्धिः। तस्याऽभासत्वात्। तथाहि देवदेत्तशरीरादेः देवदत्तविशेषगुणजन्यत्वं किं साक्षात् साध्यम्, उत परम्परया? नाऽद्यः, धर्माधर्मयोरप्यारम्भकप्रेरणादिरूपेणैवोपयोगाङ्गीकारात्। देवदत्तशरीरं न साक्षाद् देवदत्तविशेषगुणजन्यम्, शरीरत्वात्; यज्ञदत्तशरीरवदिति सत्प्रतिपक्षत्वाच्च। द्वितीये तु जन्मान्तरीयप्रयत्नाराधितदेवताद्वारेणोपपत्तेरर्थान्तरता। देवदत्तविशेषगुणजन्यतया विनाऽपि आकाशादेरिवेश्वरेच्छया देवदत्तस्य भोगहेतुता सम्भवतीत्यप्रयोजकता च। कार्यवैचित्र्यं च दृष्टकारणवैचित्र्यादेवोपपद्यते। आदिकालीनं च तत्तत्प्रागभाव एव वैचित्र्याङ्गीकारेण स्वर्गयागादेः साध्यसाधनभावश्रवणं त्वसिद्धमेव, योग्यताविरहात्। अन्यथाख्यातिमाश्रित्याभ्युपगमेऽप्यन्यथासिद्धम्। यागाद्याराधितावज्ञातदेवताद्वारेण स्वर्गाद्युपपत्तेरिति।
॥ प्रलयसाधकानुमानानामाभासताव्युत्पादनम्॥
एवन्तर्हि प्रलयसाधकानुमानानामप्याभासत्वान्न तैस्तत्सिद्धिरिति तुल्यमुत्तरम्। तथाहि विमतः कालोऽवयवियुक्तः, कालत्वात्; इदानीन्तनकालवत्। विमतो ब्राह्मणो ब्राह्मणपूर्वकः, ब्राह्मणत्वात्; संमतवदित्यादिना सत्प्रतिपक्षं तावदुक्तानुमानजातम्।
ननु प्रलयकालपक्षीकृतावाश्रयासिद्धिः। अन्यथा सिद्धसाधनम्। एवमाद्यब्राह्मणपक्षीकारेऽन्यथा च दोष इति चेत्, न। पर्वतोऽग्निमानित्यादावप्यग्न्मिदनग्न्मित्पक्षदूषणसम्भवेन सर्वानुमानोच्छेदप्रसङ्गात्।
नन्वग्न्मित्त्वादिव्यतिरेकेणाप्यस्ति पर्वतादेः स्वरूपम्, शक्यं च विशेषान्तरेणावधारयितुम्। तत् कथं दोषावकाश इति चेत्। तत् किमवयविसम्बन्धासम्बन्धौ विहाय कालविशेषस्य स्वरूपमेव नास्ति, ब्राह्मणव्यक्तेर्वाऽऽद्यत्वानाद्यत्वे विहाय? अवधारणं च कालादेर्हिरण्यगर्भापवर्गोत्तरभावित्वादिना भविष्यति।
किञ्च प्रथमप्रयोगे विश्वशब्देन किं ब्रह्माण्डमभिप्रेयते, सकलकार्याणि वा? नाऽद्यः, अश्रायासिद्धेः। प्रलयमनभ्युपगच्छता ब्रह्माण्डस्यानङ्गीकृतत्वात्। ब्रह्माण्डाभावेऽपि कार्यान्तरावस्थितिसम्भवेन प्रलयासिद्धेश्च। कपिकपोलान्तर्गतौदुम्बरोदरवर्तिमशकशरीरादिवत् कार्यान्तरावस्थानमसम्भावितमिति चेत्, न। कुण्डबदरवदुपपत्तेः। कालाग्न्रिुद्रादिप्रक्रियाया असिद्धत्वात्। द्वितीयेऽपि न प्रलयसिद्धिः। यथाहीदानीन्तनानां दहनपवनसन्तानानां क्रमेणास्तमयेऽपि न प्रलयः, तथा तरुगिरिशरीरादिसन्तानानामपि क्रमारम्भसिद्धावप्यवयविशून्यसमयासिद्धेः। अथैकदैवेति विशेषणमुपादीयेत, तदा क्रमारब्धदहनपवनादिसन्तानैर्व्यभिचारः स्यात्। एकदाऽरम्भकहेतुसाकल्ये सतीति हेतुविशेषणे विशेषणासिद्धिः। द्व्यणुकादिक्रमेणाऽरम्भस्वीकारेण बाधादिप्रसङ्गश्च।
एतेन द्वितीयानुमानमपि निरस्तम्, ब्रह्माण्डानभ्युपगमात्। अभ्युपगमेऽप्यवयवानामावापोद्धाराभ्यामेवोत्पादविनाशयोरुपपत्तेः। कार्यान्तरावस्थानोपपत्तेश्च। तृतीयेऽप्यपसिद्धान्तः। क्रमेण उच्छेदस्याभ्युपगमात्। चतुर्थेऽपि पटादिभ्यः पूर्वविनष्टैस्तन्त्वादिभिर्व्यभिचारः। परमाणुत्वेन हेतुविशेषणेऽपि द्व्यणुकाद्यवस्थानसम्भवेन दृष्टान्तस्य सन्दिग्धसाध्यता। पञ्चमेऽपि किं भूगोलका एव सन्तानशब्देनोच्यन्ते, तदतिरिक्तो वा कश्चित्? आद्ये सिद्धसाधनम्। अवयवानामावापोद्धाराभ्यां सन्ततोत्पत्तिविनाशसिद्धेः। द्वितीये त्वाश्रयासिद्धिः। षष्ठं त्वाभाससमानयोगक्षेमत्वादुपेक्षणीयमिति।
॥ प्रलयादृष्टयोरागमसिद्धत्वम्॥
अथ मा भूदनुमानैः प्रलयसिद्धिः, तथाऽप्यागमैर्भविष्यति, तेषां सिद्धार्थेऽपि प्रामाण्यस्य साधितत्वात्; ततो नाप्रसिद्धविशेषणतेति ब्रूषे; तर्ह्यस्माकमपि धर्मादिसिद्धिरागमाद् भविष्यतीति कथमाश्रयासिद्धिरिति। एवं प्रलये जीवेश्वरसद्भावं साधयता धर्मादिसत्त्वमपि साधितमिति न प्रलये भावमात्रासत्त्वसाधनं युक्तम्। एवमादिकार्यं पक्षीकृत्य सोपादानत्वसाधने प्रकृत्यादिसिद्धिरपि द्रष्टव्येति।
॥ अनुमानेन विश्वस्य चेतनकर्तृकत्वसाधनम्॥
प्रथमसूत्रेऽभावस्य कर्तृत्वनिरासायानुमानमुक्तम्। इदानीमितोऽपि नाभावकर्तृकं जगत्, चेतनकर्तृकत्वे दृष्टान्तभावादिति सूत्रस्य वृत्त्यन्तरमभिप्रेत्य चेतनकर्तृकत्वेऽनुमानमाह उत्पत्तीति।
उत्पत्तिनाशकारी च बुद्धिमान् दृश्यते क्वचित्।
तद्दृष्टान्तेन सर्वत्र कर्ता किं नानुमीयते।
बुद्धिमानुत्पत्तिनाशकारीति बुद्धिपूर्वं तत्कर्तेत्यर्थः। क्वचित् पटादौ। सर्वत्र विप्रतिपन्ने कार्ये। महदादिकार्य इत्येवोक्तेऽङ्कुरादौ व्यभिचारः शयेत, तदर्थं तस्यापि पक्षनिक्षेपार्थं सर्वत्रेत्युक्तम्। कर्ता बुद्धिमानिति शेषः। अन्यथाऽभावकर्तृत्ववादिनं प्रति सिद्धसाधनताप्रसङ्गात्। किमाक्षेपे। अननुमाने न किमपि कारणम्। दृष्टान्ताभावेन प्रतिपक्षासम्भवादित्यर्थः। एतेन “स्वपक्षदोषाच्च” इति सूत्रमपि व्याख्यातं भवति।
अयमत्र प्रयोगक्रमः विमतं कार्यं चेतनोत्पाद्यम्, कार्यत्वात्; घटवत्। चेतनविनाश्यं च तत एव तद्वदेव। विमतोत्पत्तिश्चेतनकर्तृका, उत्पत्तित्वात्; पटोत्पत्तिवत्। विमतो विनाशश्चेतनकर्तृकः, विनाशत्वात् सम्मतवदिति। अत्र विनाशस्य चेतनकर्तृकत्वसाधनं प्रासङ्गिकम्।
यद्वा केचित् कारणस्य बीजादेः प्रध्वंसेन अङ्कुरादेर्जन्मदर्शनात्, तन्त्वादिनाशेन पटादिनाशदर्शनाच्च प्रध्वंसाभावस्यैव जगज्जन्मविनाशकर्तृत्वमास्थिताः। यथोक्तम् “नानुपमृद्य प्रादुर्भावादि” इति। तन्मतं वाऽत्र “असत्” इत्यादिसूत्रैर्निराकृतमिति ज्ञापनार्थम्। दृष्टान्ताभावस्तु स्वयमूहनीयः।
॥ ईश्वरादेरनुमानसिद्धत्वोक्तौ शास्त्रैकसमधिगम्यत्वोक्तिविरोधपरिहारः॥
नन्विदमनुमानेनेश्वरस्य जगत्कर्तृत्वसाधनं सूत्रकारस्य उक्तविरुद्धम्। “शास्त्रयोनित्वात्” इतीश्वरे अनुमानप्रामाण्यस्य स्वयमेव निराकृतत्वादित्यत आह आगमेति।
आगमानुगृहीता तु मानमेषाऽनुमाऽपि तु॥७२॥
अनुमेति वक्ष्यमाणमत्रापि सम्बद्ध्यते। न सर्वथाऽपीश्वरेऽनुमानस्य प्रामाण्यं सूत्रकृता निराकृतम्। किन्नाम। आगमाननुगृहीतस्य। आगमानुगृहीता त्वनुमा ईश्वरे मानमेवाभिमता। अन्यथा वेदवाक्यार्थे युक्त्यनुसन्धानरूपजिज्ञासां नाऽरभेतेति।
किमतो यद्येवमित्यत आह एषेति। आगमानुगृहीतेत्यनुवर्तते। मानमिति च। एषा सम्प्रत्युपन्यस्ताऽप्यनुमा”यतो वा इमानि भूतानि” इत्यागमानुगृहीता। ततो भवतीश्वरे मानमिति न कश्चिद् विरोध इति।
॥ पूर्वपक्षिणा अनुमानस्य अव्यवस्थितत्वेन सर्वत्र प्रत्यनुमानसम्भवादप्रामाण्यमित्युपपादनम्॥
एवमनुमानेनाभावकर्तृकत्वं विश्वस्याऽशयानुमानेनैवेश्वरकर्तृकत्वं समर्थितम्। तदेतन्मतान्तरेण आक्षिप्य समादधत् सूत्रम् “तर्काप्रतिष्ठानादप्यन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः” इति।
ॐ तर्काप्रतिष्ठानादप्यन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॐ॥१२॥
तत्राऽक्षेपस्यायमर्थः नायमनुमानावष्टम्भेन पूर्वपक्षः सिद्धान्तो वा युज्यते। यतः प्रमाणाभासेन पूर्वपक्षः प्रमाणेन च सिद्धान्तो भवति। नचानुमानं नाम प्रमाणमस्ति। कुतः? अन्यथाऽप्यनुमेयम्। असत्प्रतिपक्षत्वं ह्यनुमानप्रामाण्यवादिभिरनुगमानाङ्गमङ्गीकरणीयम्। प्रतिरुद्धस्य करणस्य क्वापि क्रियानिष्पादकत्वादर्शनात्। अनुमानप्रतिपन्नं चान्यथाऽप्यनुमेयम्, अनुमातुं शक्यम्, कस्मात्? तर्काप्रतिष्ठानात्, एवमेवानुमातव्यम्, न पुनरन्यथेति तर्कस्य व्यवस्थाभावात्। तथाचोक्तम् “उपाधिप्रतिपक्षौ तु क्व नामातीव दुर्वचौ” इति। नन्विदं व्यधिकरणम्, तर्कस्याप्रतिष्ठितत्वादन्यथाऽनुमेयमिति। मैवम्। एतदनेन ज्ञापयति सूत्रकारः न तर्कोऽनुमानाद् भिद्यत इति।
अथवा तर्कस्यानुमानस्याप्रतिष्ठानादप्रमाणत्वान्नानुमानेन पूर्वोत्तरपक्षौ युक्तौ। कथमप्रमाणत्वम्? यतोऽन्यथाऽनुमेयमिति योजना।
॥ अनुमानस्य प्रमाणानुगृहीतत्वे प्रामाण्यम्, अन्यथाऽप्रामाण्यमिति व्यवस्थापकोक्तिः॥
तत्र समाधानसूत्रं सङ्गमयितुमुत्सूत्रमेव भाष्यकारस्तावदुत्तरमाह आगमेति।
आगमानुग्रहाभावे न तकः स्यात् प्रतिष्ठितः।
अक्षजागममूलस्य स्यादेवास्य प्रतिष्ठितिः।
आगमग्रहणं प्रमाणमात्रोपलक्षणम्। अत एवोत्तरार्धेऽक्षजमपि सङ्गृहीतम्। प्रमाणानुग्रहप्रमाणमूलत्वशब्दाभ्यां प्रतिष्ठितप्रामाण्यप्रमाणान्तरावधृतपक्षलिङ्गव्याप्तिमत्त्वं तत्संवादित्वं चोच्यते। तत्राऽद्ययोजनायामस्यायमर्थः यदुक्तमनुमानस्याव्यवस्थितत्वेन सर्वत्र प्रत्यनुमानसम्भव इति, तदनुपपन्नम्। यतः प्रमाणानुग्रहाभावे तर्को न प्रतिष्ठितः स्यात्। किन्तु प्रमाणमूलस्यैवास्य प्रतिष्ठितिः स्यात्।
एतदुक्तं भवति प्रत्यनुमानं भवत् किं प्रमाणानुग्रहरहितं स्यात्, उत तन्मूलम्? आद्यं तु कथं स्वयमदृढभूमिकं परं प्रतिरुन्ध्यात्। नहि भवति तरक्षोः प्रतिपक्षो हरिणशावः। किन्त्वाद्येनैव प्रमाणमूलेन बाध्यते। द्वितीयं तु स्यादेव प्रमाणम्। आद्यं चापबाधेत। उभयथाऽपि न सर्वानुमानाप्रामाण्यम्। यदातु उभयोरपि प्रमाणमूलत्वसन्देहः, तदाऽस्तु प्रतिरोधः। किन्तु नैवं सर्वत्र। अवधारणायां तु पूर्वैव गतिरिति।
द्वितीययोजनायां तु प्रष्टव्यम् किं प्रमाणानुग्रहरहितमनुमानं प्रत्यनुमानपराहतत्वादप्रमाणम्, उत तन्मूलम्। आद्ये सम्प्रतिपत्तिमुत्तरमाह आगमेति। तथाऽपि नैवं सर्वत्रेति भावः। प्रतिष्ठितः प्रमाणभूतः। द्वितीये त्वाह अक्षजेति। प्रतिष्ठितिः प्रामाण्यम्। तेनैव प्रतिप्रयोगस्य बाधितत्वात्। उभयोर्वास्तवप्रमाणमूलत्वासम्भवादिति भावः।
॥ उक्तव्यवस्थानङ्गीकारे स्वव्याघातादनिवृत्तिप्रसङ्गः॥
यस्त्वेतां व्यवस्थामनभ्युपगम्य सर्वत्रापि प्रतिपक्षस्यास्त्यवकाश इति सर्वमनुमानमप्रमाणमिति च मन्यते, तस्य सूत्रारूढमुत्तरमाह अन्यथेति।
अन्यथाऽस्याप्रतिष्ठा च स्ववाचा व्याहतैव हि॥७३॥
एतेनैवमुपपादितेऽपि यो नैवं मन्यते तस्य स्ववचनव्याघातादनिर्मोक्षप्रसङ्ग इति सूत्रयोजना सूचिता। तथाहि सर्वमनुमानमप्रमाणं प्रतिपक्षप्रतिहतत्वादिति त्वदीयमनुमानं प्रतिपक्षपराहतं चाप्रमाणं च भवति, नवा? आद्ये नानेन सर्वस्याप्रामाण्यसिद्धिः। द्वितीये त्वत्रैव बाधादीति। अन्यथा उक्तव्यवस्थां विहाय अस्य सर्वस्याप्यनुमानस्य अप्रतिष्ठा अप्रमाणता स्ववाचैव व्याहता हीति।
॥ मायावादिकृतापव्याख्याननिरासः॥
अपरे तु “न विलक्षणत्वात्” इत्यादीनि सूत्राणि ब्रह्मणो जगदुपादानत्वाक्षेपसमाधानार्थतया व्याचक्षते। तत् प्रकृत्यधिकरण एव निराकृतम्।
यच्चात्र सूत्रे “तर्काप्रतिष्ठानात्” इति वाक्यं भित्त्वा सिद्धान्ततयैव वर्णयन्ति, तद्वा अनेन सार्धेन श्लोकेन निराचष्टे। तथाहि तर्कस्याप्रतिष्ठां वदन् वक्तव्यः। किं प्रमाणानुग्रहरहितस्य, उत तन्मूलस्य? आद्ये गूढाभिसन्धिरुत्तरमाह आगमेति। अयमाशयः सत्यमेतत्। तथाऽपि न साङ्ख्यः स्वतर्कस्याऽगमाद्यनुग्रहाभावं मन्यते। स्वमतेनेदमुच्यते चेत् पौनरुक्त्यम्। “शास्त्रयोनित्वात्”, “ईक्षतेर्नाशब्दम्”, “आनुमानिकम्” इत्यादिनाऽस्यार्थस्योक्तत्वादिति।
द्वितीयं दूषयति अक्षजेति। नहि ज्ञानकरणस्य प्रमाणगृहीतव्याप्त्यादिमत्त्वेनाप्रामाण्यकारणव्यभिचारादिशङ्काकलङ्कविकलस्य प्रामाण्यं नास्तीति युक्तमिति भावः। विपक्षे बाधकं चाऽह अन्यथेति। अन्यथोक्तानभ्युपगमेनास्य प्रमाणमूलस्याप्यनुमानस्याप्रतिष्ठा स्ववाचा व्याहतैव सूत्रकृतः स्यात्। स्वयमेव हि युक्त्यनुसन्धानरूपां ब्रह्ममीमांसामारभ्य प्रमाणमूलस्यापि तर्कस्याप्रामाण्यमभिदधानः सूत्रकारो न व्याहतभाषी कथं स्यात्?
॥ वृत्तिकृदुक्तसूत्रार्थनिरासः॥
यदपि वृत्तिकारैरुक्तम् “एकेन ताकिकेणोत्प्रेक्षितं तर्कमपरो दूषयति, तेनोत्प्रेक्षितमप्यपरः, इत्यतः पुरुषमतिवैरूप्यजन्मा तकः स्यादप्रतिष्ठितः” इति। तच्चायुक्तम्। यतोऽस्यापि तर्कस्यापि तर्कस्य प्रामाण्येऽप्रामाण्ये वा अस्याप्रतिष्ठा च स्वव्याहतैवेति नायं वाक्यभेदो युक्त इत्युक्त एव सूत्रार्थः।
॥ मायावादिव्याख्याननिरासः॥
अत्र सूत्रम् “एतेन शिष्टा अपरिग्रहा अपि व्याख्याताः” इति। तत् केचिद् व्याचक्षते एतेन “न विलक्षणत्वात्” इत्यादिना प्रकृतेन शिष्टैः केनचिदंशेन परिगृहीतस्य प्रधानकारणवादस्य निराकरणेन शिष्टैर्मनुव्यासप्रभृतिभिः केनचिदप्यंशेनापरिगृहीता येऽण्वादिकारणवादास्तेऽपि व्याख्याता द्रष्टव्या इति। तदिदं दूषयति नचेति।
नच शिष्टागृहीतत्वं निरीशादीशवादिनः।
आस्तां तावदभ्यधिकाशङ्काप्रकारः, परिहारातिदेशप्रकारश्च। यत्तावदुक्तम्, साङ्ख्यादपि वैशेषिकादेरतिशयेन शिष्टागृहीतत्वम्, तदतीव विरुद्धम्। साङ्ख्यस्य निरीश्वरत्वात्। वैशेषिकादेस्तु सेश्वरत्वात्। वैपरीत्यस्यैवोचितत्वात्। इह हि ब्रह्मणो जगत्कारणत्वे विप्रतिपत्तयो निरस्यन्ते। तत्र साङ्ख्यो ब्रह्मैव नाभ्युपैति। कुतस्तदीयं जगत्कारणत्वमित्यतिशयेन वेदान्तवादविरोधित्वाच्छिष्टापरिगृहीतः। वैशेषिकादिस्तु ब्रह्म तस्य जगन्निमित्तत्वं चाङ्गीकृत्योपादानतामात्रं नाङ्गीकुरुत इतीषद् विरोधित्वात् ईषच्छिष्टापरिगृहीत इति युक्तम्। सत्कार्यवादित्वादिकं तु प्रकृतासङ्गतमेव। अन्यथा यागीयहिंसानिषेधादिना विपरिवर्तः स्यात्। अथ वेदसंवादबाहुल्याबाहुल्यप्रयुक्तमिदम्। तन्न। तत्वानां प्रतिपाद्यानामपरिसङ्ख्यातत्वादिति।
॥ प्रमाणाभावादेव जगतः जीवप्रधानशून्यकालस्वभावादिकारणकत्ववादा निरस्ताः॥
किन्तर्ह्यस्य सूत्रस्याभिधेयमित्यत आह अत इति।
ॐ एतेन शिष्टा अपरिग्रहा अपि व्याख्याताः ॐ॥१३॥
अतोऽवशिष्टजीवादिकर्तृताऽत्र निषिद्ध्यते॥७४॥
अर्थान्तरस्य निराकृतत्वादित्यर्थः। अपव्याख्याननिराकरणस्य स्वव्याख्यानदार्ढ्यार्थत्वान्नासङ्गतमिति सूचयितुमत इत्युक्तम्। अवशिष्टा निराकृताया अभावकर्तृतायाः, जीवादिकर्तृता, जगत इति शेषः। अनेन निराकृतादवशिष्टा वेदापरिगृहीता जीवप्रधानासत्कालस्वभावादिवादा निराकृता इति व्याख्यातं भवति। तत्र शिष्टा इत्येवोक्ते ब्रह्मकारणवादोऽपि प्राप्नोति। तदर्थमपरिग्रहा इत्युक्तम्। तन्मात्रे तूक्ते अभावकर्तृत्ववादोऽपि गृह्येत। तथाच पुनरुक्तिरतिदेशानुपपत्तिश्च स्यात्। अतः शिष्टा इत्युक्तम्। अभ्यधिकाशङ्कासद्भावसूचनेन सूत्रारम्भोपपादनार्थं च शिष्टाः शिष्टतया प्रतीताः, नतु तत एव निराकृततयेति।
॥ असदितिसूत्रे अभावस्य कारणत्वनिरासः, अत्र शून्यस्येति न पुनरुक्तिः॥
ननु जीवादीत्यादिग्रहणेनासत्कर्तृकत्वं गृहीतम्। तदसत्। तस्य “असदिति चेत्” इत्यादिना निरस्तत्वेन पौनरुक्त्यादिप्रसङ्गादित्यत आह तन्मन इति।
तन्मनोऽकुरुतेत्यादेरसतो मनसो जनिः।
निवारिता तु पूर्वत्र ह्यकस्मादिति तद् विना॥७५॥
असतो विश्वजननमाशयात्र निषिद्ध्यते।
इत्यादेः प्रमाणात्। आशङ्कितेति शेषः। आदिपदेनोक्तयुक्तिर्गृह्यते। असतः अभावस्य। मनस इति ज्ञानेच्छाप्रयत्नेभ्यो जनिः। जगत इति शेषः। पूर्वत्र त्विति सम्बन्धः। तच्च प्रतिषेधमात्रत्वादित्यादिना स्फुटमवगम्यत इति हिशब्दः। “अकस्माद्धिदमाविरासीत्” इत्यादिश्रुत्या। तत् मनो विना। असतः शून्यात्।
यद्वा भाष्यदिशा निष्कारणैवात्र जगज्जनिराशङ्कितेति न पौनरुक्त्यादिकम्। अत्र शङ्काप्रापकप्रमाणोपन्यासस्तु अस्यैव प्रमेयभेदस्योपपादनार्थम्।
एतेनाभ्यधिकाशङ्काऽपि सूचिता। तथाहि मा भूदभावकर्तृकं जगत्, तथाऽपि जीवादिभ्यो जनिमद् भविष्यति। “जीवाद् भवन्ति भूतानि”, “प्रधानादिदमुत्पन्नम्”, “अकस्माद्धीदमाविरासीत्” इत्यादिश्रुत्यनुगृहीतेभ्यो घटदधिकण्टकतैक्ष्ण्यादिदृष्टान्तेभ्यः। नहि जीवादीनां प्रतिषेधमात्रत्वमस्ति, येनोक्तयुक्तिविरोधः स्यात्। असत्त्वाचेतनत्वादेरुपलक्षणमेतदिति चेत्। किमत्र असदादेः कारणत्वमात्रं नेत्युच्यते, किंवा कर्तृत्वम्? नाऽद्यः, उक्तदृष्टान्तेषु व्यभिचारात्। न द्वितीयः, कर्तृत्वस्यास्माभिरनङ्गीकृतत्वादिति। अत एवात्र सर्वत्र कर्तृशब्दः कारणत्वमात्रपरो द्रष्टव्यः।
॥ पूर्वपक्षस्य निर्दलत्वशङ्कापरिहारः॥
नन्वत्र जीवादेर्विश्वकारणत्वमात्रं शयते, तस्यैव वा? आद्ये न सिद्धान्तविरोधः। जीवस्य ह्यदृष्टाधारतया निमित्तत्वं प्रधानस्य चोपादानत्वमङ्गीकृतमेव। न द्वितीयः, प्रापकाभावात्। कार्यस्य सकर्तृकत्वनियमदर्शनाच्चेत्यत आह प्रापकमिति।
प्रापकं वाक्यमात्रं तु परिहारोऽविशेषितः॥७६॥
द्वितीय एवाऽशयते। तस्य च प्रापकं “न जीवात् कारणं परम्”, “नह्यन्यत् कारणं मतम्” इत्यादिवाक्यम्। नच लोकविरोधः। वाक्यमात्रसिद्धेऽर्थे तत्प्रतिपन्नमेव गृह्यते नतु लोकोऽनुगम्यत इति पूर्वपक्षी मन्यत इति।
॥ श्रुतिप्राप्तप्रधनाकारणत्ववादोऽत्र निराकृतः, समयप्राप्तस्तु द्वितीयपाद इति न पौनरुक्त्यम्॥
ननुच प्रधानकारणत्वादिमतानि द्वितीयपादे निराकरिष्यन्ते। तेषामत्रापि निराकरणे पुनरुक्तिदोषः स्यादित्यतो वाऽऽह प्रापकमिति। अत्र शङ्काप्रापकं वाक्यमात्रम्, नतु समय इत्यर्थः। इदमुक्तं भवति अत्र श्रुत्यनुगृहीताभिर्युक्तिभिः प्राप्तं प्रधानादिकारणत्वं निराक्रियते। उत्तरत्र तु साङ्ख्यादिसमयप्राप्तम्। अतोऽपि नोक्तदोष इति।
॥ परिहारातिदेशसमर्थनम्॥
नन्वेवन्तर्ह्येतेनेत्यतिदेशः कथम्? उक्तपरिहारस्य पूर्वपक्षिणा परिहृतत्वादित्यत आह परिहार इति। यद्यपि प्रतिषेधमात्रत्वं प्रधानादिष्वसिद्धम्। अचेतनत्वादिकं च कारणत्वमात्रवादेऽनैकान्तिकम्। तथाऽपि पूर्वपक्षाणां युक्तिविरुद्धत्वं यत् “प्रतिषेधमात्रत्वात्”, “दृष्टान्तभावात्” इति सामान्यतः सूचितम्, यच्च “स्वपक्षदोषाच्च” इत्यप्रामाणिकत्वम्, स परिहारोऽत्राप्यविशेषितः समान इत्यतिदेशो युज्यत इत्यर्थः।
॥ जीवादिकारणकत्ववादस्य युक्तिविरुद्धत्वम्॥
ननु कथं जगतो जीवकर्तृत्वादिवादस्य युक्तिविरुद्धत्वमित्यत आह क्वचिदिति।
क्वचिज्जीवाकृतं दृष्ट्वाऽचेतनादेव चाकृतम्।
तद्वदेवानुमाऽन्यत्र वस्तुत्वात् क्रियते श्रुतेः॥७७॥
क्वचिद् देशादौ। यद्वा क्वचित् जीवादौ। अकृतमिति च भावप्रधानो निर्देशः। कारणत्वमात्रमत्र पूर्वपक्षो न कर्तृत्वमित्यतोऽचेतनादिति पञ्चमीप्रयोगः। अचेतनादकृतं च दृष्ट्वा। एवशब्देन दृष्टान्तानामसन्दिग्धसाध्यतामाह। अनुमा अनुमितिः। अन्यथा वस्तुत्वस्यैवानुमानत्वात् पञ्चमी न स्यात्। जीवाकृतत्वादेरिति शेषः। अन्यत्र महदादौ।
अत्रैते प्रयोगाः महदादिकार्यं न जीवकृतम्, वस्तुत्वात्; जीववत्। विमतं न प्रधानकार्यं वस्तुत्वात्; प्रधानवत्। विमतं नासत्कार्यम्, वस्तुत्वात्; घटवदिति। यद्यपि जीवस्य निमित्तत्वेन प्रधानस्य उपादानत्वेन जगत्कारणत्वमङ्गीकृतमेव, तथाऽपि स्वातन्त्र्याभावाभिप्रायेणेदं वचनमिति न विरोधः।
नन्वेवंसत्यतिप्रसङ्गः स्यात्। विमतमीश्वरकृतं न भवति, वस्तुत्वात्; ईश्वरवदित्यपि प्रयोक्तुं शक्यत्वादित्यत आह श्रुतेरिति। “स इदं सर्वमसृजत” इत्यादिश्रुतेर्महदादेरीश्वरकृतत्वावधारणादतिप्रसङ्गानुमानस्य बाधितत्वेनाप्रामाण्यमिति।
समं तर्हीदं भवदनुमानेषु, “जीवाद् भवन्ति भूतानि” इत्यादिश्रुतेरित्यत आह श्रुतेरिति। भावप्रधानो निर्देशः। जीवादिशब्दानां ब्रह्मश्रुतित्वाद् ब्रह्मनामत्वान्न श्रुतिविरोध इत्यर्थः। तत् कुत इत्यत आह श्रुतेरिति। “नामानि सर्वाणि यमाविशन्ति” इत्यादिश्रुतेः। शेषं भाष्ये।
ननु जीवादिकारणकत्वेऽपि घटादिदृष्टान्तावष्टम्भेनानुमानसम्भवात् कथमप्रामाणिकत्वमित्यत आह श्रुतेरिति। “नान्योऽतोऽस्ति कर्ता” इत्यादिश्रुतेर्बाधितविषयत्वाद् दृष्टान्तानां साध्यवैकल्याच्च नानुमानानां प्रामाण्यम्।
एतेनास्मदनुमानेऽकार्यत्वमुपाधिरित्यपि निरस्तम्। स्वातन्त्र्येण जीवाद्यकृतेऽपि घटादावकार्यत्वाभावात्। प्रतिपक्षे बाधादिदोषानुषङ्गाच्चेति सर्वं सुस्थम्॥*॥ इत्यसदधिकरणम्॥४॥
अथ भोक्त्रापत्त्यधिकरणम्॥५॥
॥ पूर्वपक्षिणा “एकीभवन्ति’ इति मोक्षे जीवस्य ब्रह्मत्वापत्तिश्रवणात् तयोरभेदप्रतिपादनम्॥
भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत्। अतीताधिकरणे ब्रह्मणो जगज्जन्मादिकारणत्वे श्रुतिसंवादित्वेन प्रबलया युक्त्या विरोधः परिहृतः। इदानीं तु श्रुतिसिद्धलिङ्गत्वेन प्रबलया युक्त्या विरोधः परिह्रियते।
तथाहि न ब्रह्मणो जगत्कारणत्वं वास्तवं सम्भवति। असर्वकारणेन मुक्तजीवेनात्यन्ताभिन्नत्वात्। नहि यो येनात्यन्ताभिन्नः, स तद्विरुद्धस्वभावो वस्तुत इति क्वचिदुपलब्धम्। नच मुक्तस्यासर्वकारणत्वमसिद्धम्, सर्वकारणत्वस्य संसारेऽनुपलम्भात्। संसारे प्रतीयमानस्य कस्यचिदाकारस्यैव अपगमो हि मोक्षः, नत्वपूर्वाकारोत्पादः, अनित्यत्वप्रसङ्गात्। नचाऽनन्दादेरिव विद्यमानस्यैवाविद्यया तिरोहितत्वात् सर्वकारणत्वस्यानुपलम्भ इति वाच्यम्, प्रमाणाभावात्। आनन्दादेः परमप्रेमास्पदत्वादिना ईषदुपलब्धेश्च। नच ब्रह्मणो जगत्कारणत्वश्रवणात् सर्वथाऽनुपलभ्यमानमपि जगत्कारणत्वं संसारे कल्प्यमिति युक्तम्, श्रुतेः काल्पनिकजगत्कारणत्वानुवादित्वेनापि सावकाशत्वात्। नच तथाभूतमेव लक्षणमस्त्विति वाच्यम्, अनङ्गीकारात्। काल्पनिकस्य जगत्कारणत्वस्य प्रधानादिष्वपि सम्भवेनातिप्रसङ्गाच्च
स्यादेतत्। मुक्तस्य ब्रह्मणैक्यमेवासिद्धमिति। मैवम्। “कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति” इत्यादिश्रुतिसिद्धत्वादिति। तदिदमुक्तं सूत्रकृता भोक्तुर्जीवस्य मोक्षे ब्रह्मत्वापत्तिश्रवणात् तयोरविभागो भेदाभावः। ततश्च न ब्रह्मणो जगत्कारणत्वं वास्तवं युक्तमिति।
॥ एकीभाववचनस्य स्थानैक्यमत्यैक्यनिमित्तकत्वान्नाभेदकल्पना युक्ता॥
एवं प्राप्ते सिद्धान्तितम्।
ॐ भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत् ॐ॥१४॥
भवेदेतदखिलं यदि मुक्तस्य ब्रह्मणाऽभेद एव प्रामाणिकः स्यात्। नचैतदस्ति। श्रौतस्त्वेकीभावप्रयोगः स्याल्लोकवत्। यथा लोके उदके उदकस्यैकीभावव्यवहारः स्थानैक्यनिबन्धनः, यथावा प्राग् विभिन्ना ब्राह्मणाः साम्प्रतमेकीभूता इति मत्यैक्यनिबन्धनः, तथा प्राग् विभिन्नस्थाना भिन्नमतयश्च जीवा मुक्तौ ब्रह्मणा एकीभवन्ति। एकस्थाना एकमतयश्च भवन्तीत्युपपद्यते। तस्मादसिद्धेनासिद्धसाधनमेतदिति।
॥ प्रागभिन्नयोरेव मोक्षे अभेदाङ्गीकारे श्रुतौ च्विप्रत्ययानुपपत्तिः॥
तदेतदयुक्तम्। मुख्यार्थे बाधकाभावात्। विना बाधकेन जघन्यवृत्त्याश्रयणे चातिप्रसङ्गादित्यतो मुख्यार्थे बाधकयुक्तिव्युत्पादनपरत्वेनापि “स्याल्लोकवत्” इति सूत्रखण्डं व्याचष्टे नान्यदिति।
नान्यदन्यत्वमापन्नं क्वचिद् दृष्टं कथञ्चन।
अतो जीवस्य न ब्रह्मभावः स्याद्धि कदाचन॥७८॥
अत्र मुख्यमेवार्थमङ्गीकुर्वाणः प्रष्टव्यः। किं प्रागभिन्नस्यैव जीवस्य मुक्तौ ब्रह्मणैक्यमनेनोच्यते, उत भिन्नस्य, अथवा भिन्नाभिन्नस्य? नाऽद्यः, अभूततद्भावार्थस्यैकीभवन्तीति च्विप्रत्ययस्यैवानुपपत्तेः। अत एव न तृतीयः, ऐक्यस्य प्राक् सिद्धत्वात्। भेदनिवृत्त्यर्थत्वे तु गौणार्थत्वापत्तेः। द्वितीयनिराकरणेन निरस्तत्वाच्च।
॥ प्राग् जीवस्य ब्रह्मभिन्नत्वाभ्युपगमे कदाचिदपि तदभेदो नाङ्गीकारार्हः॥
द्वितीये त्विदमुपतिष्ठते नान्यदिति। हिशब्दो हेतौ। यतो लोके अन्यद् वस्तु, अन्यत्वं वस्त्वन्तरेण अभेदमापन्नं क्वचित् काले कथञ्चनोपायेन न दृष्टम्। अतस्तद्दृष्टान्तेन जीवस्यापि कदाचन मुक्तावपि ब्रह्मभावो ब्रह्मत्वं न स्यात्।
अयमत्र प्रयोगः जीवो न कालान्तरेऽपि ब्रह्मणैक्यमापत्स्यते, प्राक् ततोऽत्यन्तभिन्नत्वात्; यः कदाचिद् यतोऽत्यन्तं भिद्यते, नासौ कदाचित् तदैक्यमापद्यते, यथा घटः पटेनेति। अथवा जीवब्रह्मणोर्भेदः सतोर्भेदिनोर्न निवृत्तिमान्, भेदत्वात्; स्तम्भकुम्भादिभेदवदिति। आगमबाधितमेतदिति चेत्, न। आगमानां मुख्यार्थतासम्भवेऽनुमानबाधकत्वम्, बाधिते चानुमाने तेषां मुख्यार्थतेति परस्पराश्रयत्वप्रसङ्गात्। सत्प्रतिपक्षत्वाच्च। तथाहि श्रुतिः “यथोदकम्” इत्यादिका। प्रह्लादोऽपि
“परमात्मात्मनोर्योगः परमार्थ इतीष्यताम्।
मिथ्यैतदन्यद् द्रव्यं हि नैति तद्द्रव्यतां यतः” इति।
॥ भिन्नतया प्रमितस्य कालान्तरेऽपि
  अभिन्नतया प्रतीत्यसम्भवात् नाभेदो श्रुत्यर्थः॥
अथ मतम्। नायमस्ति युक्तिविरोधः। प्रागप्यभिन्न एव ब्रह्मणा जीव इत्यङ्गीकारात्। नच च्विप्रत्ययानुपपत्तिः। प्रतीत्यपेक्षया तदुपपत्तेः। प्राग् विभिन्नतया दृष्टोऽयं जीवो ब्रह्मणः। अथेदानीं मुक्तावभिन्नतया दृश्यते, इत्यत एकीभवन्तीत्युच्यत इति।
अत्रेदं वक्तव्यम् किं प्राक्तनी जीवब्रह्मणोर्भेददृष्टिर्भ्रान्तिः, उत प्रमेति। नाऽद्यः, बाधकाभावात्। श्रुतयस्त्वद्याप्यव्यवस्थितार्था न बाधकतामश्नुवते। द्वितीये त्वाह क्वचिदिति।
क्वचिद् भिन्नतया दृष्टं तदभिन्नतया कथम्।
दृश्येन्नो दृष्टपूर्वं हि तादृशं नच दृश्यते॥७९॥
क्वचित् काले यद् वस्तु यतो भिन्नतया प्रमितम्, तत् कालान्तरेऽपि कथं तदभिन्नतया प्रतीयेत? न कथञ्चिदित्यर्थः। कुत इत्यत आह नो दृष्टपूर्वं हीति। तादृशं प्राग् भिन्नतया प्रमितं कालान्तरेऽभिन्नतया प्रमीयमाणम्।
अयमिह प्रयोगः जीवो न कदाचिद् ब्रह्माभिन्नतया प्रमाविषयः, ततोऽत्यन्तभिन्नतया प्रमितत्वात्; यदेवं तदेवम्, यथा घटः पटाद् भिन्नतयेति। यस्तु क्वचिदपि भेदप्रमां न मन्यते, तं प्रत्यारोपितभेदमेकं वस्तु व्यतिरेकोदाहरणं वाच्यम्। एवञ्च प्रतीतिमुपादायापि न च्विप्रत्ययोपपत्तिः। एतदर्थत्वेनापि “स्याल्लोकवत्” इति योज्यम्। तदेवं ग्रावप्लवनादिश्रुतिवत् उपपत्तिविरुद्धत्वेन श्रुतेर्मुख्यार्थासम्भवादमुख्यार्थ एव स्वीकरणीये परकीयहेतोरसिद्धत्वान्न ब्रह्मणो जगत्कारणत्वे युक्तिविरोध इति सिद्धम्।
॥ मायावादिभास्करव्याख्याननिरासः॥
केचिदिदं सूत्रमन्यथा व्याचक्षते। पूर्वं किल चेतनाचेतनात्मकस्य प्रपञ्चस्य ब्रह्मोपादनत्वेन ब्रह्मानन्यत्वमुक्तम्। तदाक्षिप्य समाधातुमिदं सूत्रम्। तथाहि यदि चेतनाचेतनात्मकस्य जगतो ब्रह्मानन्यत्वं स्यात्, तदा चेतनो भोक्ता भोग्याश्चाचेतना विषया इत्ययं विभागो न स्यात्। कुतः? भोगस्यापि भोक्तृत्वापत्तेः। भोक्तुरपि भोग्यत्वापत्तेः। भवितव्यं चानेन विभागेन। प्रत्यक्षादिसिद्धत्वादिति चेत्, स्याल्लोकवत्। यथा लोके समुद्रात्मनामपि फेनतरङ्गादीनां नेतरेतरभावापत्त्या विभागभङ्गः, यथावा महाकाशात्मनामपि घटमठाद्याकाशानां, तथा प्रकृतेऽपि स्यादिति। तदिदं दूषयति भोक्तृत्वेति।
भोक्तृत्वापत्तित इति यन्मतं तत् कुतो हरिः।
भोक्त्त्रापत्तेरिति प्राह.....................॥८०॥
यद् यदि भोक्त्रापत्तेरित्यत्र भोक्तृत्वापत्तेरिति व्याख्यानं सूत्रकारस्याभिमतं स्यात्, तत् तर्हि कुतो हरिः सूत्रकृत् भोक्त्रापत्तेरिति प्राह। भोक्तृत्वापत्तेरित्येव ब्रूयात्। नचैवमब्रवीत्। ततो नायमभिप्रायः सूत्रकारस्येति। यद्यप्यत्र परेषामस्माकं चाध्याहारसाम्यम्। तथाऽपि भावप्रत्ययाभावः परस्याधिकः।
॥ रामानुजोक्तसूत्रार्थनिरासः॥
ये तु व्याचक्षते “चिदचिद्वस्तुशरीरत्वे ब्रह्मणो जीववत् सुखदुःखादिभोक्तृत्वापत्तेर्जीवब्रह्मस्वभावविभागो न स्यादिति चेत्, न। यथा कान्तारे निपतितस्यापि नृपस्य दंशमशकाद्युपद्रवः, तथाऽत्रापि स्यात्” इति। तेषामप्ययं शब्ददोषः समानः।
॥ अपव्याख्याननिरासस्य अयुक्ततामाशय परिहारकथनम्॥
ननु भावप्रधाना निर्देशास्तत्रतत्र बहुलमुपलभ्यन्ते। तत् कथमयं दोषोऽभिधीयते? अयमभिसन्धिर्भाष्यकारस्य प्रतिपाद्ये व्यवस्थिते तद्बलाच्छाब्दी गौणता कथञ्चिदनुसर्तव्या। नचास्य सूत्रस्य इदं प्रतिपाद्यं व्यवस्थितम्। जगदुपादानत्वस्य प्रागनुक्तत्वेनानुक्तोपालम्भप्रसङ्गात्। जगच्छरीरत्वस्य अन्तर्याम्यधिकरणे प्रसक्तत्वेऽपि सम्भोगप्राप्तिरित्यनेनैव परिहृतत्वात्। तत्र जीवशरीरगतत्वेन प्रसक्तभोक्तृत्वमपास्तम्, अत्र तु जगच्छरीरत्वेनेति चेत्, न। पूर्वोत्तरपक्षयोर्न्यायाविशेषे सूत्रारम्भानुपपत्तेः। अतो निर्निमित्तः शाब्ददोषोऽपि नानुसरणार्ह इति। यद्वैतदर्थप्रतिपादनाय कथञ्चेत्याद्युत्तरवाक्यमत्रापि संयोज्य व्याख्येयमित्युक्त एव सूत्रार्थ इति॥*॥ इति भोक्त्रापत्त्यधिकरणम्॥५॥
अथ आरम्भणाधिकरणम्॥६॥
॥ गतार्थताशङ्कापरिहारः॥
तदनन्यत्वमारम्भणशब्दादिभ्यः। प्राक् प्रमाणमूलत्वतत्संवादित्वाभ्यां प्रबलया युक्त्या उक्तेऽर्थे विरोधो निराकृतः। बाहुल्यलक्षणबलवद्युक्तिविरोधपरिहाराय इदमधिकरणमारभ्यते।
॥ भास्करेण कार्यकारणयोर्जगद्ब्रह्मणोरभेद अधिकरणार्थ इत्युपपादनम्॥
तदिदं ब्रह्मपरिणामवादी व्याचष्टे अनन्तराधिकरणे भोग्यवर्गस्य परिणामतः सिद्धप्रातिस्विकरूपभेदानपह्नवेन लोकसिद्धकारणाभेदमङ्गीकृत्य साङ्ख्यसिद्धान्तेन शास्त्रतो भोक्तृवर्गस्य स्वाभाविकरूपब्रह्माविभागे भोग्यस्यापि ब्रह्मैक्यवद् भोक्तृत्वापत्तिमाशयानैकान्तिकत्वेन निरासोऽभिहितः। सम्प्रति वैशेषिकादिमतेन स्वरूपकार्यव्यपदेशादिभेदेन कार्यस्य कारणात्मकत्वासिद्ध्या प्रपञ्चस्य ब्रह्माद्वैतमाक्षिप्य समाधीयते।
तथाहि तदनन्यत्वं तेन ब्रह्मणाऽनन्यत्वं कार्यस्य। कुतः? आरम्भणशब्दादिभ्यः, “यथा सोम्यैकेन मृत्पिण्डेन विज्ञातेन सर्वं मृन्मयं विज्ञातं स्यात्। वाचाऽऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्” इत्यादिशब्दात्। आदिग्रहणात् “ऐतदात्म्यमिदं सर्वम्”, “यदयमात्मा”, “सर्वं स्वल्विदं ब्रह्म” इत्यादितादात्म्यावेदकश्रुतिपरिग्रह इति।
॥ मायावादिना कार्यप्रपञ्चस्य मिथ्यात्वप्रतिपादनपरतया अधिकरणव्याख्यानम्॥
विवर्तवादी तु व्याख्याति अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागम्, “स्याल्लोकवत्” इति परिहारोऽभिहितः। नत्वयं विभागः पारमार्थिकोऽस्ति। यस्मात् तदनन्यत्वं कारणाद् ब्रह्मणः कार्यस्याऽकाशादेः परमार्थतोऽनन्यत्वं व्यतिरेकेणाभावः अवगम्यते। कुतः? आरम्भणशब्दादिभ्य इति।
॥ जगद्ब्रह्मणोरभेदस्य अधिकरणार्थत्वासम्भवः॥
तत्राऽद्यं व्याख्यानं तावन्निराकरोति कथं चेति।
....................कथञ्च तदनन्यता॥८०॥
कथमित्याक्षेपे। चशब्दः पूर्वसूत्रापव्याख्यानाक्षेपेणास्य समुच्चयार्थः। जगत इति वक्ष्यमाणमत्रापि सम्बद्ध्यते। अत्र प्रतिपाद्या स्यादिति शेषः।
अयमाशयः यो हि ब्रह्मोपादानतां जगतोऽभ्युपगम्यापि तदन्यतां मन्यते, सोऽत्र पूर्वपक्षीकरणीयः। नच वैशेषिकादिस्तथेति प्राप्त्यभावान्न तदनन्यत्वोक्तेरवसरोऽस्ति। ब्रह्मोपादानतामनङ्गीकुर्वाणं प्रति तु सैव समर्थनीया। नतु तदनन्यता। तदधीनसिद्धित्वादस्याः। अथ ब्रह्मोपादानताऽप्यत्र समर्थ्यत इति चेत्, न। तथासति प्रकृत्याधिकरणवैयर्थ्यापत्तेः। प्रकृत्यधिकरणन्यायेनोपपादितब्रह्मोपादानतामभ्युपेत्यापि तदन्यतां मन्यमानोऽत्र पूर्वपक्षीति चेत्, न। किमिदं ब्रह्मोपादानत्वं बह्मसमवायित्वं वा, ब्रह्मपरिणामत्वं वा, यत् परेणाङ्गीकारितम्। नाऽद्यः कल्पः, तस्यानन्यत्वविरोधात्। समवायस्य निराकरिष्यमाणत्वाच्च। (६९५) द्वितीये प्रयत्नवैयर्थ्यमेव। नहि कोऽपि परिणामवादमङ्गीकृत्य कार्यकारणयोरत्यन्तभेदमङ्गीकुरुते, यं प्रतीदमारभ्येत इति।
॥ जगद्ब्रह्मणोरभेदस्य अङ्गीकारानर्हत्वम्॥
यद्वा, कथञ्च तदनन्यता जगतो वक्तुं शक्यते? अनन्यत्वं हि भेदाभावः। अत्यन्ताभेद इति यावत्। भेदाभेदौ च परेणाङ्गीकृतौ। अतस्तादात्म्यमिति वक्तव्यं स्यात्। नैष दोषः, यावता कार्यस्य कारणेन अभेद एव, कारणस्य तु कार्याद् भेद एवेत्येवं भेदाभेदावङ्गीकृताविति चेत्, न। यदि ब्रह्म जगतोऽन्यदेव, तदा कथञ्च तदनन्यता जगतः स्यात्। नहि यद् यतोऽत्यन्तभिन्नम्, तत् तेनात्यन्ताभिन्नमिति सम्भवति, अतिप्रसङ्गादिति।
॥ जगद्ब्रह्मणोरभेदस्य अप्रामाणिकत्वम्॥
अथवा, कथञ्च तदनन्यता प्रतिज्ञातुं युक्ता? प्रमाणाभावादिति शेषः। ननुच “आरम्भणशब्दादिभ्यः” इत्युक्तत्वात् कथं प्रमाणाभाव इति चेत्। अत्र वक्तव्यम् आरम्भणशब्दस्तावत् किं साक्षाज्जगतो ब्रह्मानन्यत्वमाचक्षीत, उत विकारस्य विकार्यनन्यत्वम्। आद्ये कथञ्च तदनन्यता जगतोऽस्यार्थः स्यात्? “यथा सोम्य” इति मृत्पिण्डादेः प्रकृतत्वादित्युत्तरम्। द्वितीये भवतु नाम विकारस्य विकार्यनन्यत्वम्, जगतस्तु कथं तदनन्यतेति।
॥ जगद्ब्रह्मणोर्विकारिविकारभावानुपपत्तिः॥
ननु विकारस्य विकार्यनन्यत्वे तेनोक्तेऽपि जगतो ब्रह्मानन्यत्वं सिद्ध्यत्येव। तस्यापि तद्विकारत्वादित्यत आह जगतस्त्विति।
जगतस्त्वविकारत्व उक्तन्यायेन साधिते।
अविकारत्वे ब्रह्मविकारत्वाभावे। उक्तन्यायेन “नच प्रकृति” इत्यादिनेति शेषः। साधिते सति कथञ्च तदनन्यतेत्यन्वयः। यद्वा जगत इति पूर्वेणैव सम्बद्ध्यते। अविकारत्वे ब्रह्मण इति शेषः। न विद्यते विकारो यस्येत्यविकारम्। तस्य भावस्तत्त्वम्, तस्मिन्।
॥ परोदाहृतश्रुतीनां विकारपरत्वाभावः॥
नन्वत्राऽरम्भणशब्देन “उत तमादेशम्” इत्याद्या श्रुतिरुपलक्ष्यते, तत्तात्पर्यपर्यालोचनायां च जगतो ब्रह्मविकारत्वं तदनन्यत्वं चावगम्यते इति चेत्, न। महावाक्यावान्तरवाक्योपक्रमत्वप्रधानवाचित्वाद्यभावेनास्य श्रुत्युपलक्षणयोपादने निमित्ताभावात्। अभ्युपेत्याप्युपलक्षणत्वमाह अविकारत्व इति। विकारत्वादन्यस्मिन् सादृश्यादौ। श्रुत्यर्थतयोक्तन्यायेन साधिते सति श्रुतितात्पर्यपर्यालोचनयाऽपि कथञ्च तदनन्यता सिद्ध्येदिति।
यदप्युक्तम्, आदिपदगृहीतात् “ऐतदात्म्यमिदं सर्वम्” इत्यादिवाक्यात् तदनन्यत्वासिद्धिरिति, तदप्यसत्। आदिपदेन वाक्यान्तरग्रहणस्यानुपपत्तेः। तथासत्येतेषामपि शब्दत्वेनाऽरम्भणादिशब्देभ्य इति प्रयोगप्रसङ्गात्।
॥ जगद्ब्रह्मणोर्विकारिविकारभावस्य उपपत्तिविरुद्धत्वम्॥
अस्तु वा कथञ्चिदादिपदोपात्तता तेषां वाक्यानाम्। तथाऽपि नैतेभ्यस्तदनन्यता सिद्ध्यति। उपपत्तिविरुद्धत्वादित्याशयेन पृच्छति कथञ्चेति। या सूत्रकृता प्रतिज्ञाता श्रुतिभिश्च प्रतिपादिता सा जगतस्तदनन्यता कथं किम्प्रकारा? किं पिकः कोकिल इतिवदेकत्वलक्षणा, किंवा मृद् घट इतिवद् विकारिविकारत्वलक्षणेति प्रश्र्नार्थः।
आद्यमाक्षिपति कथञ्चेति। एकत्वलक्षणा जगतस्तदनन्यता तु कथं सूत्रकृता प्रतिज्ञायेत? कथं च श्रुतिभिः प्रतिपाद्येत? न कथञ्चिदित्यर्थः। अत्र हेतुमाह अविकारत्व इति। ब्रह्मणोऽविकारत्व उक्तन्यायेन साधिते सति जगतस्तु विकारात्मकत्वे प्रत्यक्षादिप्रमिते सति विरुद्धधर्माधिकरणत्वादिति भावः। द्वितीयमाक्षिपति कथञ्चेति। विकारिविकारत्वरूप इति शेषः। आक्षेपे युक्तिमाह जगतस्त्विति। व्याख्यानं पूर्ववत्।
॥ श्रुतीनामर्थान्तरपरत्वम्॥
नन्वेवमुपपत्तिविरुद्धाऽपि जगतो ब्रह्मानन्यताऽङ्गीकरणीया। अन्यथा”ऐतदात्म्यमिदं सर्वम्” इत्यादिश्रुतीनामप्रामाण्यप्रसङ्गादित्यत आह कथञ्चेति। अविकारित्वेऽपि विकारात्वादन्यस्मिन् तदधीनत्वादौ श्रुत्यर्थे “स्वातन्त्र्ये च विशिष्टत्वे” इत्युक्तन्यायेन साधिते सति कथं तदनन्यताऽङ्गीकर्तुमुचिता। सावकाशश्रुतिप्रतीतोऽप्यर्थो निरवकाशोपपत्तिविरोधात् त्याज्य एव। यथोक्तमभिमान्यधिकरण इति भावः। (५४८)
॥ मायावादिव्याख्यानप्रत्याख्यानम्॥
अपरमपि व्याख्यानं दूषयति कथञ्चेति। इति प्राहेत्यनुवर्तते। यद्यत्र कार्यमात्रप्रपञ्चस्यानृतत्वं सूत्रकृतोऽभिमतं स्यात्, तदाऽनृतत्वमित्येव ब्रूयात्। तदनन्यत्वमिति कथं प्राह? नहि ब्रह्मानन्यत्वशब्दोऽनृतत्ववाची। तथासति ब्रह्मणोऽप्यनृतत्वप्रसङ्गात्।
ननुच तदनन्यत्वं तद्व्यतिरेकेणाभाव इति व्याख्यातम्। सत्यम्। न तथाऽप्यनृतत्वलाभः। तद्व्यतिरेकेण नास्तीत्युक्ते तदात्मनाऽस्तीति लभ्यते। न पुनः सर्वथाऽप्यनृतत्वम्। अन्यथा ब्रह्मातिरेकेणासतो जीवचैतन्यस्यापि सर्वथाऽनृतत्वं स्यात्। प्रसिद्धं चैतत्। यद् विशिष्टविषयः प्रतिषेधो विशेषणमुपसङ्क्रामतीति। सत्यम्। तथाऽपि ब्रह्मविवर्तताज्ञापनायैवमुक्तमिति चेत्, न। तथासति तत्राऽरोपितत्वमिति वक्तव्यत्वात्। नहि शुक्तिकाशकले कलधौतमारोपितमिति वक्तव्ये ततोऽनन्यदिति प्रयुज्यते। अथ ब्रह्मसत्तयैवेदं सत्, नापरा सत्ताऽस्यास्तीति ज्ञापनमेतस्य प्रयोजनमिति चेत्, तर्हि परमार्थसदेवेदमित्यायातमिति कथमनृतत्वम्?
अथ येयं प्रपञ्चे सत्ताऽवभासते, साऽधिष्ठानब्रह्मगतैवाऽरोपितेत्यनेन ज्ञाप्यत इति चेत्, तत् किमन्यथाख्यातिवादिवदनिर्वचनीयाख्यातिवादिनोऽप्यारोपिताकारस्यान्यत्र पारमार्थ्यमावश्यकम्? तथात्वे चाऽकाशत्वादिकमपि ब्रह्मणि पारमार्थिकमङ्गीकरणीयं स्यात्। रजतत्वादिकं च शुक्तिकायामिति।
यद्वा “स्याल्लोकवत्” इति भोक्तृभोग्यप्रपञ्चस्य सत्यतामभिधायेदानीं कथञ्च तदनन्येतेति तद्विरुद्धमनृतत्वं प्राहेति योजना।
ननु सूत्रकारः परमार्थाभिप्रायेण तदनन्यत्वमित्याह। व्यावहाराभिप्रायेण तु “स्याल्लोकवत्” इति। तत् कुतो विरोध इति चेत्, न। प्रतारकत्वप्रसङ्गात्। अन्यथा प्रत्याचक्षीत। अप्रत्याख्यायैव कार्यप्रपञ्चम्, परिणामप्रक्रियामाश्रयति सगुणेषूपासनेषूपयोक्ष्यत इति चेत्, किं सगुणोपसनविषयप्रयोजने प्रकृतविषयप्रयोजनानुकूले, उत तद्विरुद्धे, अथोदासीने? नाऽद्यः, भेदविषयत्वात्, सांसारिकफलत्वाच्च। भेदवासना हि सुदृढा तामेवोपोद्बलयेत्। अत एव न तृतीयोऽपि। न द्वितीयः, अनाप्तत्वापरिहारादिति।
अथवाऽऽस्तां तावदियं ग्रन्थार्जवचिन्ता। कथं च तदनन्यताऽनृतत्वलक्षणा जगतो युक्ता स्यात्? न कथञ्चिदिति योज्यम्। अत्र हेतुमाह जगत इति। अविकारत्वे ब्रह्मविवर्तत्वाभावे। “यच्चाविकृतम्” इत्याद्युक्तन्यायेन। एवं प्रमाणाभावपरत्वेनापि पूर्ववद् व्याख्येयमिति।
॥ ईश्वरातिरिक्तस्य स्वातन्त्र्येण जगज्जन्मादिकारणत्वाभावप्रतिपादनमधिकरणार्थः॥
एवन्तर्हि कोऽस्यार्थ इत्यत आह स्वतन्त्रेति।
ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ॥१५॥
स्वतन्त्रकारणान्यत्वं तेन ह्यत्र निषिद्ध्यते॥८१॥
यत एवं जगतो ब्रह्मानन्यत्वमनेकविधमपि नात्र प्रतिपाद्यम्, तेनेत्यर्थः। अनेनापव्याख्याननिराकरणं स्वव्याख्यानदृढीकरणार्थत्वान्नासङ्गतमिति स्मारयति।
कर्त्रनधीनसत्ताशक्त्यादिमत्कारणान्तरसव्यपेक्षा खलु घटादिसृष्टिर्दृष्टा। ततो महाददिसृष्टिरपि कर्तृव्यतिरिक्तस्वतन्त्रकारणसव्यपेक्षा, सृष्टित्वात्; घटसृष्टिवत्, महदादिकं वा कर्तृव्यतिरिक्तस्वतन्त्रकारणायत्तोत्पत्तिकम्, कार्यत्वात्; घटवत्, प्रकृत्यादिकं वा स्वतन्त्रम्, कारणत्वात्; मृदादिवत्, ईश्वरो वा स्वतन्त्रकारणसव्यपेक्षः, कर्तृत्वात्; कुलालादिवदिति युक्तिविरुद्धत्वाज्जन्मादिसूत्रेऽभिप्रेतं यत् परस्यैव ब्रह्मणः स्वातन्त्र्यं तन्नोपपद्यते। नच श्रुतिविरोधः। श्रुतीनां ब्रह्मणो जगत्कारणत्वमात्रपरत्वात्। स्वतन्त्रकारणान्तरनिरासे श्रुतेरभावात्। भावेऽप्यपौरुषेयतया श्रुतिप्राबल्यवद् बाहुल्येन युक्तिप्राबल्यस्यापि सम्भवात्, सत्प्रतिपक्षतया श्रुत्यभिप्रेतावधारणानुपपत्तेरित्येवं प्राप्तम्। स्वतन्त्रकारणान्यत्वं ब्रह्मणोऽन्यस्य स्वतन्त्रकारणत्वमिति यावत्। अत्र अधिकरणे। “तदनन्यत्वम्” इत्यनेन निषिद्ध्यते। महदादिसृष्टौ यत् स्वतन्त्रकारणं तस्य तदनन्यत्वमिति।
यद्यत्र स्वतन्त्रकारणाभाव इत्येव ब्रूयात्, तदा ब्रह्मणोऽपि स्वातन्त्र्यं प्रतिषिद्धं स्यात्। तदनन्यत्वं स्वतन्त्रकारणस्येत्युक्ते हि स्वतन्त्रकारणं तदेव नान्यदिति लभ्यते। तदुपपादनाय यत् “आरम्भणशब्दादिभ्यः” इति स्वपक्षे प्रमाणमुक्तम्, यश्च “भावे चोपलब्धेः” इति विपक्षे प्रमाणाभावः, तदुभयं हिशब्देन सूचयति।
नन्वारम्भणाद्याक्षेपशब्दादिभ्य इति वक्तव्यम्। सत्यम्। लक्षितलक्षणयैष एवार्थः प्रतिपाद्यत इत्यदोषः। तथाऽपि “किंस्विदासीदधिष्ठानम्” इति श्रौतनिर्देशानुसारेणाधिष्ठानस्योपादानमुचितमिति चेत्, न। शाब्दादप्यर्थप्राधान्यस्य बलवत्त्वात्। “साधकतमं करणम्” इति स्मरणात्।
ननुच स्वतन्त्रकारणस्य ब्रह्मानन्यत्वं प्रतिज्ञाय कारणान्तराभावे प्रमाणोपन्यासोऽसङ्गतः। मैवम्। अस्त्यत्राभिप्रायः। वक्ष्यते हि ब्रह्मातिरिक्तप्रकृत्यादिकारणसद्भावः। आरम्भणशब्दादिभ्यस्तदभावोऽवगम्यते। ततोऽर्थात् स्वतन्त्रकारणान्तराभाव एव सिद्ध्यतीति।
ननुच युक्तीरुपलभमानोऽपि सूत्रकारः कथं स्वतन्त्रकारणान्तरभावे च प्रमाणैरुपलब्धेः प्रसङ्ग इति वदन् प्रमाणाभावमाह? एवं मन्यते। शुष्काभ्यो बहुयुक्तिभ्योऽपि श्रुत्यनुगृहीतानां बह्वीनां युक्तीनां प्राबल्यात् तद्विरुद्धानां पूर्वपक्षयुक्तीनामप्रामाण्यमिति।
॥ भगवदधीनस्य प्रकृत्यादेः जगत्कारणत्वाभ्युपगमात् न “अद्भः सम्भूतः’ इत्यादिश्रुतिविरोधः॥
स्यादेतत्। “अद्भ्यः सम्भूतः” इत्यादिवचनात् कथं ब्रह्मातिरिक्तस्य स्वतन्त्रकारणस्यानुपलब्धिः? नचात्र न स्वातन्त्र्यं श्रूयत इति वाच्यम्। पारतन्त्र्यानुक्तौ स्वातन्त्र्यस्य लोकानुरोधादेव सिद्धेरिति। एतत्परिहाराय सूत्रम् “सत्त्वाच्चावरस्य” इति।
ॐ सत्त्वाच्चावरस्य ॐ॥१७॥
तस्यायमर्थः स्यादयं दोषो यदि वयं ब्रह्मातिरिक्तं कारणमेव नास्तीति वदामः। नचैवम्। अवरस्य तदधीनस्य प्रकृत्यादेः कारणस्य सत्त्वादिति। तदिदं परिहाराय न पर्याप्तम्। यावता पूर्वपक्षिणा पारतन्त्र्यानुक्तौ स्वातन्त्र्यमेव सेत्स्यतीत्युक्तम्। अन्यथा पूर्वपक्षस्य निर्दलत्वापत्तेरित्यतः प्रकृत्यादेः कारणजातस्येश्वराधीनसत्ताकत्वे प्रमाणं दर्शयन् सूत्रं व्याचष्टे द्रव्यमिति।
॥ प्रकृत्यादीनां भगवदधीनत्वे प्रमाणम्॥
द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः।
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया।
इति श्रुतेस्तद्वशस्य भावो............॥८२॥
चेतनाः जीवाः। धृतिः चित्प्रकृतिः, “धारकत्वात्” इति श्रुतेः। प्रकृत्यादेस्तद्वशस्य भावोऽङ्गीक्रियते। अतः “अद्भ्यः सम्भूतः” इत्यत्रापि स्वातन्त्र्यासिद्धेर्नानुपलब्धिरयुक्तेत्यर्थः। यद्यपि आरम्भणशब्दादेः “अद्भ्यः सम्भूतः” इति श्रुतेश्च परस्परविरोधादर्थापत्त्यैवैषोऽर्थो लभ्यते, तथाऽपि मन्दापेक्षया स्पष्टश्रुत्युदाहरणम्।
यद्वा स्वतन्त्रकारणान्यत्वं निषिद्ध्यत इत्यनेन परतन्त्रकारणान्तरसद्भावः सूचितः। अन्यथा कारणान्यत्वमित्येव ब्रूयात्। स परतन्त्रकारणसद्भावः कुत इत्यत इत्यत आह द्रव्यमिति। भावो गम्यत इति शेषः। अत्र तद्वशत्वं विधेयम्। कारणसद्भावस्य परेणाप्यङ्गीकृतत्वात्।
॥ पूर्वपक्षिणा प्रलये प्रकृत्यादेरसत्त्वप्रतिपादकश्रुतिबलात् कारणान्तराङ्गीकारस्यायुक्तताकथनम्॥
“असद्व्यपेदशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात्” इति सूत्रम्।
ॐ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॐ॥१८॥
तत्राऽक्षेपस्यायमर्थः “नासदासीन्नो सदासीत् तदानीम्” इति महाप्रलये मूर्तामूर्तादेरशेषस्य असत्त्वव्यपदेशात् कारणोपलब्धिपरिचोदना, तस्येश्वरवशस्याङ्गीकारेण समाधानं च नोपपद्यते। नचायं पक्षः “असदिति चेत्” इत्यादिनैव निराकृतः। तत्रेश्वरस्याप्यनङ्गीकारात्। इह पुनरीश्वरमङ्गीकृत्य कारणान्तरनिराकरणात्। नच “अद्भ्यः सम्भूतः” इत्यादिविरोधः। अत्र महाप्रलये कारणान्तरसद्भावस्याश्रवणात्। ईश्वरातिरिक्तकर्तृकासु सृष्टिष्वबादिकरणसद्भावपरत्वाच्च। एवञ्चाऽरम्भणशब्ददादयोऽपि समञ्जसा भवन्तीति।
॥ प्रकृत्यादेः पारतन्त्र्याव्यक्तत्वादिधर्मापेक्षया श्रुतावसत्त्ववचनम्, न स्वरूपासत्त्वाभिप्रायेण॥
अत्र नेति सिद्धान्तांशं व्याचष्टे द्रव्यमिति। न महाप्रलये कारणान्तरस्याभावो वाच्यः, किन्तु तद्वशस्य भाव एव। तस्य तद्वशत्वं कुत इति चेत्। “द्रव्यम्” इति श्रुतेरिति।
ननु “नासदासीत्” इति सर्वस्यासत्त्वव्यपदेशात् कथं नेत्यत उक्तम् धर्मान्तरेणेति। तद् व्याचष्टे तद्वशस्येति। सावधारणं चेदम्। तद्वशस्यैव भावः प्रलये, न स्वतन्त्रस्य। ततः स्वातन्त्र्यलक्षणधर्मविशेषाभिप्रायेणासत्त्वव्यपदेशो युज्यते। उपलक्षणमेतत्। यथोक्तं भाष्ये। यत् खलु परतन्त्रम्, अव्यक्तम्, कार्यानभिमुखम्, तदसदिति व्यपदिश्यते।
कुतः श्रुतेः मुख्यार्थपरित्यागेनामुख्यार्थोऽङ्गीक्रियते? “तम आसीत्” इत्यादिवाक्यशेषात्। नच तमो ब्रह्म, “आनीदवातम्” इति तस्य पृथगवस्थानोक्तेः। नचानन्तप्रकाशस्य तमस्त्वमुपपद्यते। किन्तु प्रकृतेरेव, आच्छादकत्वादेरिति।
॥ “वाक्यशेषात्” इति सूत्रखण्डस्य वर्णकान्तरम्॥
ननुच प्रलयेऽवस्थितं चेत् प्रकृत्यादि, तस्य स्वातन्त्र्यादिधर्माभावः कुतः, येनैवं व्याख्यास्यत इति चेत्, वाक्योपक्रमतच्छेषयोर्विरोधादर्थापत्त्यैवेति ब्रूमः। श्रूयते च स्पष्टमित्याशयवान् “वाक्यशेषात्” इत्येतत् प्रकारान्तरेण व्याचष्टे न पर इति।
.........................न पर इत्यतः॥८२॥
“तस्माद्धान्यन्न परः किञ्च नाऽस” इत्यतो वाक्यशेषात् प्रकृत्यादीनां प्रलये स्वातन्त्र्याद्यभावोऽवगम्यत इत्यर्थः। इह हि तस्माद् ब्रह्मणोऽन्यत् प्रकृत्यादिकं परः परं स्वातन्त्र्यादिधर्मोपेतं नाऽसेति तत्सद्भावाभ्युपगमेन परत्वं निषिद्ध्यते। अन्यथा परशब्दवैयर्थ्यादिति।
॥ भगवतः सर्वदा कारणान्तरसापेक्षत्वे स्वातन्त्र्यभङ्गः,
तदभावेऽपि कदाचित् सृष्ट्याद्यङ्गीकारे तेषां कारणत्वभङ्ग इत्याशङ्कापरिहारः॥
स्यादेतत्। कारणान्तरसद्भावमभ्युपगम्य तस्येश्वराधीनतां वदता सिद्धान्तिनेदं वक्तव्यम्। किमीश्वरः प्रकृत्यादिभिर्विनाऽपि कदाचित् सृष्ट्यादिकं करोति, उत तैरेवेति नियमः। आद्ये तेषां कथं कारणत्वम्? अनियतत्वात्। अन्यथा रासभस्यापि घटकारणतापत्तेः। द्वितीये तु कथं तत्परित्यागेन कदाऽप्यकुर्वाणस्येश्वरस्य स्वातन्त्र्यम्? कथञ्च नियमेनापेक्षणीयानां तेषां पारतन्त्र्यम्?
एवं प्रकृत्यैव महान्तम्, महतैवाहङ्कारमित्यादिनियमं कदाचिदपहाय सृजति, उतानेन नियमेनैव? आद्ये त्वनियतत्वेनाकारणत्वप्रसङ्गः। द्वितीये पुनरीश्वरादेः स्वातन्त्र्याद्यनुपपत्तिः। तथा प्रकृत्यादिकमुपादानीकृत्य कालादिकं निमित्तीकृत्य सृजातीति नियमे व्यत्यासे चोक्तदोषानुषङ्गः।
अतो युक्तिबाधितत्वादस्यार्थस्य कारणान्तरनिरपेक्ष एव भगवान् सृष्ट्यादिकं करोतीत्येव ज्यायः। एवञ्च निरर्गलमैश्वर्यमस्य समर्थितं स्यात्। नच प्रमाणबाधः, “अद्भ्यः सम्भूतः पृथिव्यै रसाच्च” इत्यादेरनीश्वरकर्तृकावान्तरसृष्टिविषयत्वस्योक्तत्वात्। “तम आसीत्” इत्यादौ तमःप्रभृतीनां प्रलये सत्त्वश्रवणेऽपीश्वरकर्तृकायां सृष्टौ कारणत्वाश्रवणादित्याशङ्कापनोदनार्थं सूत्रम् “युक्तेः शब्दान्तराच्च” इति।
ॐ युक्तेः शब्दान्तराच्च ॐ॥१९॥
अस्यायमर्थः नोक्तयुक्तिविरोधेन भगवतः कारणान्तरविधुरत्वमुररीकर्तव्यम्। कारणान्तरसद्भावाभ्युपगमेऽपि प्रकृत्यादेः कारणत्वस्येश्वरादिस्वातन्त्र्यादिकस्य च युक्तेः। नचैवन्तर्हि विनिगमने कारणाभाव इति वाच्यम्। “अद्भ्यः सम्भूतो हिरण्यगर्भः” इत्यादिशब्दान्तरात्। पूर्वोदाहृतशब्दविलक्षणशब्दः शब्दान्तरम्।
तेनेदमुक्तं भवति यद्यपि प्रागुदाहृताः शब्दाः कथञ्चिदन्यथा नेतुं शक्यन्ते, तथाऽप्ययं न तथा। अत्रेश्वरकर्तृकायामेव सृष्टौ कारणान्तरसद्भावश्रवणात्। नहि हिरण्यगर्भसृष्टिरनीश्वरकर्तृका। तस्यैव प्रथमजत्वादिति।
॥ भगवतः कारणान्तरसापेक्षत्वादेः स्वेच्छायत्तत्वात् न स्वातन्त्र्याद्यनुपपत्तिः॥
अत्र “युक्तेः” इति या स्वपक्षे कारणत्वादेर्घटनोक्ता, सा कथमित्यपेक्षायामाह शक्तोऽपीति।
शक्तोऽपि ह्यन्यथा कर्तुं स्वेच्छानियमतो हरिः।
कारणैर्नियतैरेव करोतीदं जगत् सदा॥८३॥
अन्यथा, कारणैर्विना कर्तुं शक्तोऽपि हरिः कारणान्तराण्युपादायैव करिष्यामीति स्वेच्छानियमतः कारणैरेवेदं जगत् सदा सृजति। एवमन्यथा, प्रकृत्याऽहङ्कारम्, अहङ्कारेण महान्तमित्येवम्, तथा प्रकृतिं निमित्तीकृत्य, कालादिकं चोपादानीकृत्य कर्तुम्, तथा नियतैः स्वनियतसत्ताशक्त्यादिमद्भिरेव कारणैरिदं जगत् सदा करोतीति योजना।
इदमुक्तं भवति यदुक्तमीश्वरस्य कारणोपादानादिनियमोऽस्ति, नवेति। तत्रास्तीति ब्रूमः। तथाच प्रकृत्यादीनां कारणत्वं युक्तम्। स च नियमो न कुलालादेरिव तान्यपहाय व्यत्यस्य वाऽकरणे शक्त्यभावनिबन्धनः। येन तस्य स्वातन्त्र्यम्, तेषां च पारतन्त्र्यं न स्यात्। किन्नाम। स्वेच्छायत्त एव। ततः स्वातन्त्र्यादिकमपि युक्तम्। नच तानि स्वाधीनसत्ताशक्त्यादिमन्ति, येनैश्वर्यं निरर्गलं न स्यात्। किन्तु भगवत्येव तदीयं सत्तादिकमायतते। ततस्तत्साचिव्यमतिशयेनैश्वर्यस्य द्योतकमेव। यथोक्तम्
“साधनानां साधनत्वं यदाऽऽत्माधीनमिष्यते।
तदा साधनसम्पत्तिरैश्वर्यद्योतिका भवेत्” इति।
ननु शक्तस्यापीश्वरस्य तन्नियमानुसारेणेच्छा कुत इति चेत्। किं कारणं पृच्छसि, उत ज्ञापकम्? आद्ये स्वभावोऽयमिति वदामः। द्वितीये तु श्रुतिप्रसिद्धेरिति। तदिदमुक्तं हिशब्देन। श्रुतिं चोदाहरिष्यति। (५८८) अनेन “शब्दान्तराच्च” इति सूत्रं प्रकारान्तरेण व्याख्यातं ज्ञातव्यम्। शब्दान्तरं च शब्दविशेषः, विवक्षितार्थप्रतिपादकः शब्द इति यावत्। “पटवच्च” “यथा प्राणादिः” इति सूत्रे भाष्य एव व्यक्ते।
॥ मायावादिना कार्यकारणयोरभेदस्य, कार्यस्य प्रागुत्पत्तेः सत्त्वस्य च
प्रतिपादकतया सूत्रषव्याख्यानम्॥
अन्ये पुनरन्यथैतानि सूत्राणि वर्णयन्ति। तथाहि भावे चोपलब्धेः। मृदादेः कारणस्य भाव एव घटादेः कार्यस्योपलब्धेश्चानन्यत्वं कारणात् कार्यस्य। नहि यद् यतो भिन्नं तत् तद्भाव एवोपलभ्यते। नह्यश्र्वो गोतोऽन्यो गोर्भाव एवोपलभ्यते। किञ्च भावे तिलादौ कारणे तैलाद्युपलभ्यते। कार्ये च भावे कुण्डलादौ सुवर्णादिकम्। अतश्च तदभेदसिद्धिः।
सत्त्वाच्चावरस्य। अवरकालीनस्य कार्यस्य प्रागुत्पत्तेः “सदेव सोम्येदमग्र आसीत्” इति सत्त्वावधारणाच्चानन्यत्वं कारणात् कार्यस्य।
असद्व्यपदेशादिति चेन्न धर्मान्तरेण वाक्यशेषात्। “असदेवेदमग्र आसीत्”, “असद् वा इदमग्र आसीत्” इति प्रागुत्पत्तेः कार्यस्यासत्त्वव्यपदेशान्नेति चेत्, न। भवदेतद् यदि कार्यस्वरूपाभिप्रायेणायं व्यपदेशः स्यात्, किन्तु व्यक्तत्वलक्षणधर्मान्तराभिप्रायेण। कुतः? वाक्यशेषात्। “असदेवेदमग्र आसीत्” इत्यसच्छब्देनोपक्रमे निर्दिष्टं पुनः “तत् सदासीत्” इति वाक्यशेषे निर्दिशति। “असद् वा” इत्यत्रापि “तदात्मानं स्वयमकुरुत” इति । तेन ज्ञायते नासत् कार्यं धर्मान्तरेणैव असत्त्वव्यपदेश इति।
युक्तेः शब्दान्तराच्च। युक्तेश्च कार्यस्य प्रागुत्पत्तेः सत्त्वं कारणादनन्यत्वं च गम्यते। शब्दान्तराच्च। युक्तिस्तावदसदकरणादित्यादिका साङ्ख्योक्ता। वृत्तिविकल्पानुपपत्त्यादिका च सौगतोक्ता। शब्दान्तरं चासद्व्यपदेशादन्यः “सदेव सोम्येदमग्र आसीत्” इत्यादिसद्व्यपदेशः।
पटवच्च। संवेष्टितप्रसारितपटन्यायेनेदं कारणात् कार्यस्यानन्यत्वं प्रागुत्पत्तेः सत्त्वं च प्रतिपत्तव्यम्। यथा प्राणादिः। प्राणायामेन निरुद्धा प्राणापानादयो यथा तथा चेति।
॥ निमित्तकारणकार्ययोरत्यन्तभेदस्य, उपादानकारणकार्ययोर्भेदाभेदस्य च
समर्थनपूर्वकं जगद्ब्रह्मणोरभेदवादप्रत्याख्यानम्॥
अत्र सूत्राक्षराणामार्जवानार्जवादिचिन्ता शिष्यैरेव क्रियतामित्याशयवान् यदुक्तं कारणात् कार्यस्य अनन्यत्वम्, तत् तावन्निराकरिष्यन्, किमनेन प्रबन्धेन निमित्तकारणानन्यत्वं कार्यस्योपपादितम्, उत उपादानकारणानन्यत्वमिति विकल्पं चेतसि निधायाऽद्यं निराकरोति नित्यभेद इति।
नित्यभेदो निमित्तेन ह्युपादानेन तु द्वयम्।
असद् यत् कार्यरूपेण कारणात्मतयाऽस्ति हि।
नित्यशब्दो नियमार्थः। भेद एवेति। कार्यस्येति शेषः। हीति सर्वप्रमाणप्रसिद्धिं सूचयति। तथाच सर्वमिदं बाधितविषयमिति।
न द्वितीयः, प्रकृतानुपयोगात्। वियदादिप्रपञ्चस्य ब्रह्मानन्यत्वमुपपादयितुं स्वल्वस्योपन्यासः। तद् यदि नाम उपादानानन्यत्वं कार्यस्य तदा किमायातं प्रकृते? नहि ब्रह्म प्रपञ्चोपादानमित्येतदुक्तप्रायमिति मन्वानो दूषणान्तरमाह उपादानेनेति। हीत्यनुवर्त्यते। उपादानेन कार्यस्य द्वयं भेदाभेदौ प्रमितौ। ततोऽस्मिन्नपि पक्षे बाधितविषयत्वमिति।
कथं कार्यं कारणेन भिन्नाभिन्नं प्रमितमित्यत आह असदिति। यद् घटादिकं मृदादिकारणात्मतया प्रागुत्पत्तेरस्तीति प्रमितं परेणाङ्गीकृतं च, तदेव पृथुबुध्नोदराकारादिना कार्यरूपेण प्रागुत्पत्तेरसत्, हि यस्मात् तस्मादुपादानेन भिन्नाभिन्नमिति निश्चीयते।
एतदुक्तं भवति परो हि घटादेः कार्यस्य प्रागुत्पत्तेः सत्त्वमभ्युपगच्छति। तत् किं पृथगेव, उत मृदादिकारणात्मतयेति वक्तव्यम्। नाऽद्यः, अनभ्युपगमात्, अनुपलब्धेश्च। द्वितीये तु कार्यस्योपादानाभेदस्तावदङ्गीकृतः। नचात्यन्ताभेदः। घटादेः कार्याकारेण प्रागुत्पत्तेरसत्त्वात्। यदा हि घटादिकं मृदादिनाऽत्यन्ताभिन्नं स्यात्, तदा प्रागुत्पत्तेर्घटादिरूपेण सत् स्यात्। मृदादेस्तदा सत्त्वात्। नचैवम्। तेन जानीमो घटादिकं मृदादीना भिन्नाभिन्नमिति। अत्यन्तासत्कार्यवादिनं प्रति भेदाभेदसमर्थनं विरोधपरिहारश्च उत्तरत्र विधास्यत इति। (७११७१२)
॥ सत्कार्यवादभङ्गः॥
यच्च कार्यस्य प्रागुत्पत्तेः सत्त्वमुक्तम्, तदपि नोपपन्नमित्याह असदिति। यद् घटादिकं प्रागुत्पत्तेरस्तीत्यावयोः सम्मतम्, तदेव तदाऽसच्च यस्मात् तस्मात् सदसदेवेति सत्कार्यवादोऽनुपपन्न एव। तस्यैव तदैव तत्रैव सत्त्वमसत्त्वं च विरुद्धमिति चेत्, न। रूपभेदेन अविरोधादित्याशयेनोक्तम् कारणात्मतया कार्यरूपेणेति। नन्वेवंसति किञ्चित् सदेव, किञ्चिदसदेव, सदसत्तु न किमपि स्यात्। न स्यात्। तयोरपि रूपयोरत्यन्तभेदाभावादिति।
॥ कार्यकारणयोरत्यान्ताभेदे, कार्यस्य प्रागुत्पत्तेः सत्त्वे उत्पत्तिविनाशव्यवस्थाभावप्रसङ्गः॥
स्यादेतदुक्तम्, यद्यसत्त्वं प्रागुत्पत्तेः कार्यस्य स्यात्। तदेव कुतः? तथाचात्यन्ताभिन्नं कार्यमुपादानेनेत्यतो विपक्षे बाधकप्रदर्शनेन कार्यस्य प्रागुत्पत्तेरसत्त्वमुपादानाद् भेदं चोपपादयति अनवस्थेति।
अनवस्थाऽन्यथा हि स्यात् सर्वत्रोत्पत्तिनाशयोः॥८४॥
अन्यथा कार्यस्य प्रागुत्पत्तेरात्यन्तिके सत्त्वे कारणेनात्यन्ताभेदे चाङ्गीकृते सर्वत्रोत्पत्तिनाशयोरनवस्था अव्यवस्था स्यात्। यथाहि पटस्तन्त्वात्मकः प्रागपि सन्नेव, तथा तन्तवोऽपि स्वकारणात्मकाः सन्त एवेत्यनेन क्रमेण सर्वस्य मूलकारणात्मकत्वेनाऽत्यन्तिकं सत्त्वं स्यात्। नच मूलकारणमुत्पद्यते विनश्यति चेति पटादीनामप्युत्पत्तिविनाशौ न स्याताम्। तथाच पटादय उत्पत्तिविनाशवन्त आत्मादयस्तद्रहिता इति लोकवेदप्रसिद्धोत्पत्तिनाशव्यवस्था न स्यादिति। उपलक्षणं चैतत्। पटादीनामुत्पत्तिविनाशाभावे तत्कारकव्यापारवैफल्यं स्यादित्यपि द्रष्टव्यम्।
॥ सत्कार्यवादे कारणस्य प्रागुत्पत्तेरप्युपलब्धिप्रसङ्गः,
अनुपलभ्यमानत्वेऽपि सत्त्वाङ्गीकारे सत्त्वासत्त्वव्यवस्थाभङ्गः॥
यद्वोत्पत्तिनाशशब्दाभ्यां सत्त्वमसत्त्वं चोपलक्ष्यते। ततश्चायमर्थः यदि पटस्तन्त्वात्मकः प्रागुत्पत्तेरपि सन्नेव, तदा तदाऽप्युपलभ्येत तन्तुवत्। यदिचानुपलभ्यमानोऽपि सन्नभ्युपेयते, तदा सर्वत्रोत्पत्तिनाशयोः सदसत्त्वयोरनवस्था स्यात्। उपलभ्यमानं घटादिकमस्ति, अनुपलभ्यमानं खरविषाणादिकं नास्तीति सर्वजनसम्मता व्यवस्था न स्यात्।
॥ सत्कार्यवादे उत्पत्तिविनाशयोरुपपादनानुपपत्तिः॥
अथवोत्पत्तिविनाशशब्दाभ्यां तदुपपादनस्योपलक्षणम्। तथाचैवं योजना आस्तां तावदन्यत्। सत्कार्यवादे सर्वत्र शिष्यं प्रतिवादिनं वा प्रति उत्पत्तिनाशयोर्नासदुत्पद्यते न सद् विनश्यतीत्येवंरूपोपपादनस्याप्यनवस्थाऽवस्थानाभावः स्यात्। तथाहि इदमुपपादनं किमर्थमिति वाच्यम्। शिष्यादेः विद्योत्पत्तयेऽविद्यानाशाय वादे, जल्पादौ तु ख्यात्याद्युत्पादायेति चेत्, तद् विद्यादिकं सच्चेन्नोत्पाद्यम्, सत्त्वात्; आत्मवत्। असच्चेनोत्पादयितुं शक्यम्, अन्यथा सत्कार्यवादभङ्गप्रसङ्गात्। एवमविद्या सती चेत्, न विनाश्या। अन्यथाऽपसिद्धान्तापत्तेः। असती चेत् नितराम्। नित्यनिवृत्तत्वात्। ततः सर्वथा प्रतिपादनासम्भव एवेति।
॥ सत्कार्यवादे कार्यकारणयोर्विरुद्धधर्मवत्त्वानुपपत्तिः॥
यदिवा उत्पत्तिनाशयोरिति विरुद्धधर्मोपलक्षणम्। तथाहि यदि कार्यमुपादानात्मकमेव सदेव च प्रागुत्पत्तेः स्यात्, तदोत्पत्तिविनाशादिधर्माणामनवस्था स्यात्। तन्तवः प्रागेव सन्तो नेदानीमुत्पद्यन्ते। पटस्तूत्पद्यते। तन्तुष्वविनष्टेष्वेव पटो विनश्यति। तन्तवो बहवः पटस्त्वेकः। एवमाकाराभिधानबुद्धिकार्यभेदोऽपि द्रष्टव्यः। सैषा व्यवस्था न स्यादिति।
॥ व्यक्त्यव्यक्तिरूपव्यवस्थापकमङ्गीकृत्य मायावादिना उक्तानुपपत्तिपरिहारकथनम्॥
नन्वेतत् सकलमपि “पटवच्च”, “यथा प्राणादिः” इति व्यक्त्यव्यक्त्यवष्टम्भेन परिहृतम्। तथाहि व्यक्त्यपेक्षयोत्पत्तिः पटादीनामव्यक्त्यपेक्षया च विनाशे युज्यते। व्यक्त्यव्यक्त्यर्थमेव च कारकाण्युपयुज्यन्ते। व्यक्त्यव्यक्तिभ्यामेवोपलब्ध्यनुपलब्धी भवतः। अत एव प्रतिपादनं सङ्गच्छते। व्यक्ताव्यक्तरूपेणैव विरुद्धधर्मा व्यवतिष्ठन्ते। यथाहि संवेष्टितः पटो न स्फुटं पट इति प्रतीयते, न प्राव्र्यिते, न शीतमपनुदति, न बहुदेशव्यापी भवति। प्रसारितस्तु स्फुटप्रतीत्यादिमान्। नचैतावता भेदः। नापि प्रसारितः प्रागसन्। यथाच प्राणायामेन निरुद्धः शारीरो वायुर्जीवनमात्रं करोति नोत्क्षेपणादि। निरोधापगमे त्वासादितव्यक्तिस्तदपि करोति। न तावन्मात्रेण भिद्यते। प्रागसन् वा। तथैवैतदपि व्यक्त्यव्यक्तिभ्यां समञ्जसमिति।
॥ मायावाद्युक्तव्यवस्थानिरासः॥
अत्र ब्रूमः केयं पटस्य प्रागुत्पत्तेरूर्ध्वं च विनाशादव्यक्तिः, मध्ये च व्यक्तिः। अनुपलब्धिरव्यक्तिरुपलब्धिर्व्यक्तिरिति चेत्, तत्राऽह अनवस्थेति। यद्युपलब्ध्यनुपलब्धी एवोत्पत्तिविनाशौ, तदा सर्वत्रोत्पत्तिनाशयोरनवस्था स्यात्। यद् यदोपलब्धम्, तत् तदैवोत्पन्नम्। अनुपलब्धं च विनष्टमिति स्यादिति यावत्। किञ्च प्रागुत्पत्तेः सत्त्वे पटस्य कस्मान्नोपलब्धिः, कथञ्चोर्ध्वमुपलब्धिरिति प्रश्नस्य उपलब्ध्यनुपलब्धिभ्यामेवेति परिहारं वदन् देवानाम्प्रियः श्र्लाघनीयप्रज्ञः स्यात्। अपिच प्रागूर्ध्वं च तन्तूपलब्धौ कथं तन्मात्रस्य सतः पटस्यानुपलब्धिः? अन्यथा तन्तूनामपि सा स्यात्।
॥ व्यक्त्यव्यक्त्योः कार्यधर्मत्वेऽभेदाभावप्रसङ्गः, उभयधर्मत्वे उत्पत्तिविनाशव्यवस्थाभङ्गः॥
अथ पटधर्मावेव व्यक्त्यव्यक्ती, तदा तावपि तन्तूनां विद्येते, नवा। नचेत्, न कार्यकारणयोरत्यन्ताभेदः। विद्येते चेत्, तत्राऽह अनवस्थेति। उत्पत्तिनाशव्यवहारहेतू व्यक्त्यव्यक्ती यदि तन्तुष्वपि विद्येते, तदा सर्वत्रोत्पत्तिनाशयोरनवस्था स्यात्। तन्तवो नोत्पन्ना न नष्टाः। किन्तु पट एवेत्युत्पत्तिविनाशव्यवस्था न स्यादिति।
॥ व्यक्त्यव्यक्त्योरुत्पत्तिविनाशाङ्गीकारेऽपसिद्धान्तः॥
किञ्चेयमभिव्यक्तिरुत्पत्त्यादिव्यवहारकारणतयोपादीयते, सा किं चक्रचीवरादिभिः प्रागसत्येव उत्पद्यते मुद्गराभिघातादिना च नश्यति, उत प्रागपि सत्येवाविनाशिनी च? एवमव्यक्तिरपि किं प्रागसती मुद्गराभिघातादिनोत्पद्यते, किंवा प्रागपि सती? उभयत्राऽद्यौ दूषयति अनवस्थेति। व्यक्त्यव्यक्त्योरुत्पत्तिविनाशवत्त्वे सर्वत्रोत्पत्तिविनाशयोरनवस्था व्यवस्थाभावः स्यात्। न किञ्चिदसदुत्पद्यते, न किञ्चित् सद् विनश्यतीति सिद्धान्तविरोधः स्यादित्यर्थः।
॥ व्यक्त्यव्यक्त्योः सर्वदा सत्त्वाङ्गीकारे उत्पत्तिविनाशव्यवहाराभावप्रसङ्गः॥
द्वितीयौ दूषयति अनवस्थेति। व्यक्त्यव्यक्त्योः सदा सत्त्वे सर्वत्रोत्पत्तिनाशयोरनवस्थाऽव्यवस्थितिः स्यात्। तथाहि एतावन्तं कालमनुत्पन्नो घट इदानीमुत्पन्न इति तावन्न स्यात्। उत्पत्तिव्यवहारहेतोरभिव्यक्तेः प्रागपि सत्त्वात्। तथा मुद्गराभिघाताद्युत्तरकालमपि घटसत्त्वव्यवहारः स्यात्। तद्धेतोरभिव्यक्तेरविनष्टत्वात्। तथेदानीमेव नष्टो घट इत्यपि न स्यात्। विनाशव्यवहारकारणानभिव्यक्तेः प्रागपि सत्त्वादिति। कारकव्यापारवैफल्यतादवस्थ्यं स्फुटमेव।
॥ व्यक्त्यव्यक्त्योरपि पृथग् व्यक्त्यव्यक्त्यङ्गीकारेऽनवस्थाप्रसङ्गः॥
अथैतद्दोषपरिहाराय व्यक्त्यव्यक्त्योरपि व्यक्त्यव्यक्ती स्वीक्रियेते, तदा तयोरप्युक्तविकल्पदोषानुषङ्गः स्यात्। अथ तत्रापि व्यक्त्यव्यक्त्यन्यतराङ्गीकारः, तदाऽनवस्था स्यादित्याह अनवस्थेति। उत्पत्तिनाशयोरिति विषयसप्तमी। सन्त्वनन्ता व्यक्तयोऽव्यक्तयश्च। मूलक्षयाभावान्नानवस्था दोष इत्यत आह अनवस्थेति। अन्यथाऽनवच्छिन्नव्यक्त्यव्यक्तिपरम्पराङ्गीकारे सर्वत्र घटादावुत्पत्तिनाशयोरनवस्थाऽनवक्लृप्तिः स्यात्। उत्तरोत्तरव्यक्त्यव्यक्तिसिद्धौ हि पूर्वपूर्वव्यक्त्यव्यक्तीनामुत्पत्तिनाशव्यवहारनिदानत्वम्। ततः प्रयोजनपरिक्षयहेतुत्वादनवस्था दूषणमेव।
॥ असत्कार्यवादे एतद्दोषाणामप्रसक्तिः॥
नन्विदं भवतामपि समानम्। प्रागसतः सत्तासमवायो हि जनिरिष्यते। सत्तासमवायौ च सदा सन्ताविति प्राग् विनाशोत्तरमपि जनिः स्यात्। विनाशश्च न स्यादित्यत आह अनवस्थेति। इयं सर्वत्रोत्पत्तिविनाशयोरनवस्थाऽव्यवस्थितिः अन्यथा समवायस्य जनित्वाङ्गीकृतावेव हि स्यात्। नास्मन्मते। प्रकारान्तरेण जनेर्वक्ष्यमाणत्वादिति। (७४१,७५७)
ननु जनिः किं प्राक् सती, उत कारकव्यापारजन्या? आद्ये प्रागुक्त एव दोषः। द्वितीये जनेर्जनिरपि तथेत्यनवस्था। एवं विनाशोऽपीत्यत आह अनवस्थेति। सर्वत्रोत्पत्तिनाशयोरियमुक्तानवस्था। अन्यथा घटजनेरन्या जनेर्जनिरित्यङ्गीकार एव स्यात्। नत्वेवमङ्गीक्रियते। अपितर्हि? घटजन्मैव जन्मनो जन्मेति। यथाऽऽहुः “यथा जनेर्जनिर्नान्या तस्या वस्तुजनिर्जनिः” इति। घटो जायते घटजन्म जायत इत्यनयोरेकार्थतैव हि लौकिकपरीक्षकसम्मता। नच व्यक्त्यव्यक्त्योरप्येवमङ्गीकर्तुमुचितम्। जन्मविनाशावुपलब्ध्यनुपलब्धी वा विहाय व्यक्त्यव्यक्त्योरेवाप्रामाणिकत्वादिति।
॥ असत उत्पत्तौ सतो विनाशे च व्यवस्थानिरूपणम्॥
ननु यद्यसदुत्पद्येत सच्च विनश्येत, तदा सर्वत्रोत्पत्तिनाशयोरनवस्थैव स्यात्। एवंसति हि खरविषाणमप्युत्पद्येत, आत्मा च नश्येदित्यत आह अनवस्थेति। अन्यथा कारणशक्त्यनादरणे हीयमुत्पत्तिविनाशयोरनवस्था स्यात्। नचैवम्। किन्तु यस्योत्पत्तिकारणमस्ति, तदसदप्युत्पद्यते। यस्य च विनाशकारणं विद्यते तत् सदपि निरुद्ध्यते। न खरविषाणजन्मन्यात्मविनाशे वा कराणमस्तीति तयोर्जननविनाशाभावः। कारणस्वभावाननुगमे तु सत्कार्यवादिनोऽप्यतिप्रसङ्ग एवेति।
अथवा स्यादियमनवस्था यद्यत्यन्तासदेवोत्पद्यते सन्मात्रं विनश्यतीति ब्रूमः। सदसदेवोत्पद्यत इति चोक्तम्, विनाशकारणवदेव च विनश्यतीति।
॥ मायावादिव्याख्यानस्य सूत्राक्षरानानुगुण्यम्॥
यच्चोक्तम्, “भावे चोपलब्धेः” इति सूत्रार्थत्वेन, तद् व्यप्यव्यापकभावेनैवोपपन्नं नात्यन्ताभेदसाधकम्। अथ कारणोपरक्तबुद्धिः सामानाधिकरण्यबुद्धिर्वाऽत्राभिमतेति मतम्, साऽपि अभेदमात्रेण चरितार्था नात्यन्ताभेदसाधनायालम्। किञ्चैतद् “युक्तेश्च” इत्यनेनैव शक्यसङ्ग्रहम्, न पुनरभिधातव्यम्। अथानेन प्रत्यक्षमुपन्यस्यते, तदपि नात्यन्ताभेदसाधकम्। अत एव “भावाच्चोपलब्धेः” इति सूत्रविपरिणामोऽपि निरस्तः।
“सत्त्वाच्चावरस्य” इति युक्तिश्चेत्, “युक्तेश्च” इत्येतेनैव गतार्थता। श्रुतिश्चेत्, “शब्दान्तराच्च” इत्यनेन। “असद्व्यपदेशात्” इति तु परिचोदनैवासङ्गता। परमार्थतो ब्रह्मकारणतापरत्वेन, आपाततस्तु शून्यस्याभावस्य वा कारणभावप्रतिपादकताप्रतिभासेन कार्यासत्त्वस्य श्रुतावप्रतीतेः। “युक्तेः” इत्युक्तयुक्तिं तूत्तरत्रापाकरिष्यामः। (६२८,७६६) शब्दान्तरं त्वाचार्येणैवान्यत्रान्यथैव व्याख्यातम्। पटे प्राणादौ च नात्यन्तानुपसञ्जातविशेषत्वमित्यनुदाहरणमेवेत्यलं प्रपञ्चेन।
॥ कार्यस्य निमित्तकारणाद् भेदे उपादानाद् भेदाभेदादौ च प्रमाणम्॥
यदुक्तं “शक्तोऽपि हि’ इति, यच्च “नित्यभेदः’ इति, तदुभयं श्रुत्याऽपि साधयति शक्तोऽपीति।
शक्तोऽपि भगवान् विष्णुरकर्तुं कर्तुमन्यथा।
स्वभिन्नं कारणाभिन्नं भिन्नं विश्र्वं करोत्यजः।
इति श्रुतेरवसित उक्तोऽर्थोऽयमशेषतः॥८५॥
अकर्तुं शक्तोऽपि करोति। अन्यथा विना कारणैः, तद्व्यत्यासेन च कर्तुं शक्तोऽपि नियतैः कारणैः करोति। इच्छयेति योज्यम्। स्वस्मान्निमित्तकारणाद् भिन्नम्। उपादानकारणेनाभिन्नं भिन्नं च। संसारिणो हि विष्टिगृहीता इवेश्वरप्रेरिता अनिष्टमपि धारकप्रयत्नेनाकृत्वा न स्थातुमीशते। नच भगवांस्तथेत्यकर्तुं शक्तोऽपीत्युक्तम्। अशेषतः प्रागिदानीं चोक्तः, नतु सन्निहित एवेत्यर्थः॥*॥ इत्यारम्भणाधिकरणम्॥६॥
अथ इतरव्यपदेशाधिकरणम्॥७॥
॥ जीवकर्तृत्वस्यानङ्गीकारे अपसिद्धान्तादिः॥
इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः। अस्मिन्नधिकरणे “जीवकर्तृत्वपक्षः श्रुतिप्राप्तो विस्तरान्निराक्रियते” इति भाष्यम्। अत्र वक्तव्यम् किमत्र जीवस्य सर्वथा कर्तृत्वं निराक्रियते, उतेश्वराधीनं तदङ्गीकृत्य स्वातन्त्र्यमात्रम्? नाऽद्यः, तथासति “कर्ता शास्त्रार्थवत्त्वात्” इत्यादिवक्ष्यमाणविरोधापत्तेः। “स्वतः कर्तृत्वानुपपत्तिः” इत्यादिविशेषणवैयर्थ्यप्रसङ्गाच्च।
॥ जीवकर्तृत्वस्याङ्गीकारे, कार्त्स्न्येन कर्तृत्वेऽनुभवविरोधः, एकदेशेन कर्तृत्वे निरंशत्वश्रुतिविरोधः
तस्य ईश्वराधीनत्वाङ्गीकारेऽपि अनुभवश्रुतिविरोधतादवस्थ्यम्॥
न द्वितीयः, “हिताकरणादिदोषप्रसक्तिः” इत्यादिसूत्राणां स्वातन्त्र्यनिराकरणपरत्वेन शक्ययोजनकत्वेऽपि “कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा” इत्यस्य सूत्रस्याशक्यव्याख्यानत्वात्। इदं हि सूत्रं सर्वथा कर्तृत्वं निराकुर्वदुपलभ्यते। तथाहि कर्तृत्वं कृत्स्नैकदेशाभ्यां व्याप्तम्। तत्र कृत्स्नप्रसक्तावनुभवविरोधः। एकदेशाङ्गीकारे च “अथ यः स जीवः स नित्यो निरवयवः” इत्यनंशत्वश्रुतिव्याकोपः स्यात्। नहि सामर्थ्यापरपर्यायं प्रयत्नादिरूपं कर्तृत्वमस्माकं जीवाद् भिन्नम्। येन तस्य विचित्रत्वेऽपि जीवस्य निरंशत्वं न व्याहन्येत। ततो व्यापकनिवृत्त्या व्याप्यं कर्तृत्वमपि निवर्तत इति खल्वस्य तात्पर्यं प्रतीयते। प्रसङ्गस्य विपर्यये पर्यवसानावश्यम्भावात्।
अथ जीवकर्तृत्वस्य ईश्वराधीनतानाङ्गीकार एवैतौ प्रसङ्गावुक्तौ, न कर्तृत्वमात्रे। तथाचेश्वराधीनत्वमेव विपर्ययपर्यवसानलभ्यं भविष्यतीति चेत्, न। स्यादप्येवं यदि जीवकर्तृत्वस्येश्वराधीनत्वाङ्गीकारेणेमौ प्रसङ्गौ शक्यसमाधानौ स्याताम्। नचैवम्। पराधीनेनापि खल्वनेन कृत्स्नेन वा कर्तव्यम्, एकदेशेन वा। तृतीयप्रकाराभावात्। भावे वा तेनैवापराधीनत्वेऽपि कर्तृत्वोपपत्तेः। अतो विपर्ययापर्यवसानान्नैवं व्याख्यानं युक्तमिति कर्तृत्वाभाव एव तात्पर्यम्। तथाच वक्ष्यमाणविरोधः। अथ वस्तुतो नास्त्येव जीवस्य कर्तृत्वम्, आभिमानिकं तु तदित्यविरोधः। मैवम्। “विहारोपदेशात्” इत्यादिना वास्तवस्यैव तस्य साधयिष्यमाणत्वात्।
॥ परमेश्वराचिन्त्यशक्त्या निरंशस्यापि जीवस्य कार्यानुरूपसामर्थ्यप्रयोगसम्भवादविरोधः॥
अतो दुर्घटमेतदधिकरणमित्यतो द्वितीयपक्षमङ्गीकृत्य प्रसङ्गौ जीवकर्तृत्वस्येश्वराधीनतानङ्गीकारविषयौ व्याकरिष्यन्, आदौ तावदीश्वराधीनताङ्गीकारे प्रसङ्गनिवृत्तिप्रकारमागमवाक्योदाहरणेन दर्शयति अनंशस्यापीति।
अनंशस्यापि जीवस्य किञ्चित् सामर्थ्ययोजनाम्।
कार्येषु यः करोत्यद्धा नमस्तस्मै स्वयम्भुवे॥८६॥
किञ्चित् सामर्थ्ययोजनां कार्यानुरूपसामर्थ्यप्रयोगम्। स्वयम्भुवे स्वतन्त्राय। इति वचनादवसितोऽयमभिप्रेतोऽर्थ इत्यनुवर्तते।
ततश्चैतदुक्तं भवति यदि जीवः परमेश्वराधीनतया कर्ताऽङ्गीक्रियते, तदोपपद्यत एव तस्य कर्तृत्वम्, प्रसङ्गयोः समाधातुं शक्यत्वात्। अनंशत्वस्याभ्युपगमेन हि न निरवयवत्वशब्दकोपः। अनंशस्यापि परमेश्वराचिन्त्यशक्तिवशेन कार्यानुरूपसामर्थ्यप्रयोगसम्भवान्न कृत्स्नप्रसक्तिरिति। एतच्चानुपदं स्फुटीभविष्यति।
॥ ईश्वराधीनत्वानङ्गीकार एवानुभवश्रुतिविरोधः॥
एवमुपोद्घातप्रक्रियया विपर्ययपर्यवसानोपपत्तिमुक्त्वेदानीं विवक्षितार्थे सूत्रं योजयति यदीति।
ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ॥२२॥
यदि भागेन कार्येषु जीवशक्तिं न योजयेत्।
हरिस्तदा हि सर्वत्र कृत्स्नयत्नोंऽशिताऽपि वा॥८७॥
भागेन कार्यानुगुणांशेन। अत्र यदीश्वराधीनतया कर्ता न स्यादिति वक्तव्ये यदि भागेनेत्यादिवचनं प्रसङ्गस्फुटीकरणार्थम्। ईश्वराधीनत्वप्रकारप्रपञ्चनार्थं च। सर्वत्र तृणादानादावपि कृत्स्नयत्नः, अंशिताऽपि वा प्रसज्येत। तथाचानुभवश्रुतिविरोधः। तस्मात् परमेश्वराधीन एव जीवः कर्तेति शेषः। नचोपाधिकृतांशकल्पनया कर्तृत्वस्याऽविद्यकत्वेन वोपपत्तिः, “अनंशस्यापि” इत्यादिप्रमाणसिद्धोपपन्नोपपादकपरित्यागेनाप्रामाणिकानुपपन्नस्वीकारस्यायुक्तत्वात्।
॥ जीवस्याघटितघटकाचिन्त्यशक्त्यभावः॥
ननु जीवशक्त्यैवेदं घटताम्। मैवम्। तस्याघटितघटकाचिन्त्यशक्त्यभावात्। भावे वा हिताकरणादिदोषप्रसक्तिः। नह्यत्राधिकरणे पूर्वपक्षिणा महदादिसकलकार्यकर्तृत्वं जीवस्याऽशङ्कितम्। किन्तु घटादिकर्तृत्वम्। तत्तावदनुभवसिद्धत्वात् कुलालादीनां न त्यक्तुं शक्यम्। तत्रेश्वरस्यापि कर्तृत्वाङ्गीकारे कल्पनागौरवं स्यादित्यतो नेश्वरस्य सर्वकर्तृत्वमिति। तथाच कथमचिन्त्यशक्तिप्रसक्तिः?
॥ जीवानामणुत्वानेकरूपत्वान्यथानुपपत्त्या सांशत्वसिद्धेर्निरंशत्ववचनविरोधमयुक्तमित्याशङ्का॥
ननुच “व्यतिरेको गन्धवत्” इति जीवानामनेकरूपतां सूत्रकार एव वक्ष्यति। “उत्क्रान्तिगत्यागतीनाम्” इत्यणुत्वं च। नचाणोर्युगपदनेकरूपत्वं विना सांशतोपपद्यत इति सांशताऽपि तत एव सिद्धा। तत् कथमत्र “निरवयवत्वशब्दकोपो वा” इत्यवादीदिति गूढाभिसन्धेराशङ्कामविदिताभिप्राय इव परिहरति अंशिनो हीत्यादिना सार्धेन श्लोकद्वयेन।
॥ अंशांशिनोरत्यन्ताभिन्नत्वात् तदपेक्षया जीवानां सांशत्वेऽपि निरंशत्ववचनम्,
नतु सर्वथांऽशराहित्याभिप्रायेण॥
अंशिनो हि पटाद्या ये भिन्नैरेव परस्परम्।
अंशैरंशिन उच्यन्ते नैवमेव हि चेतनाः।
अतोऽनंशिन इत्येव श्रुतिरेतेषु वर्तते॥८८॥
अप्यनेकस्वरूपेषु विशेषादेव केवलम्।
बहुस्वरूपताख्या तु तेष्वस्त्येव हि सांशता॥८९॥
तत्र बहुस्वरूपताख्येत्यनेन वक्ष्यमाणमभ्युपैति। बह्वित्यनेकत्वोपलक्षणम्। बहुस्वरूपतया ख्यायत इति बहुस्वरूपताख्या। तुशब्दः श्रुतिनिषेध्याया वैशिष्ट्यद्योतकः। तेषु चेतनेषु। हिशब्दः प्रमाणप्रसिद्धिं द्योतयति। अत एवास्त्येवेत्यवधारणम्।
ततश्चायमर्थः अस्त्येव वक्ष्यमाणानेकस्वरूपता, अणुत्वं च, तदन्यथानुपपत्तिसिद्धा संशता च। प्रामाणिकस्य त्यक्तुमशक्यत्वादिति। तर्हि कथमत्र तद्विरुद्धमुक्तमित्यत उक्तम् अंशिन इत्यादि। आद्यो हिशब्दः प्रमाणप्रसिद्धौ, द्वितीयो यस्मादित्यर्थे। ये पटाद्या अंशिनः प्रसिद्धास्ते परस्परं भिन्नैरेवांशैरंशिना च वक्ष्यमाणप्रकारेण भिन्नाभिन्नैरेव नत्वत्यन्ताभिन्नैः तन्त्वादिभिरंशैरंशिन उच्यन्ते। चेतनास्त्वेवमेव पटादिवदुक्तरूपैरंशैरंशिनो न भवन्ति। किन्तु परस्परमंशिना चात्यन्ताभिन्नैः। यस्मादेवमतः प्रसिद्धांशिवैधर्म्यादेवानेकस्वरूपेषु तत एव सांशेष्वप्येतेषु चेतनेष्वनंशिन इति श्रुतिर्वर्तते। नतु सर्वथांऽशराहित्याभिप्रायेण। अतो न विरोध इति।
॥ अघटितघटकेश्वराचिन्त्यशक्त्यनङ्गीकारे विरुद्धयोरभेदानकत्वयोः जीवे समावेशासम्भवः॥
ननु यदि भेदो नास्ति, कथं तर्ह्यनेकत्वम्? तस्य भेदव्याप्तत्वात्। कथञ्चांशित्वम्? मत्वर्थस्य भेदेन विनाऽनुपपत्तेरित्यत उक्तम् विशेषादेवेति। भेदाभावेऽपि केवलं तत्प्रतिनिधेर्विशेषादेव अनेकस्वरूपेष्विति योजना। यद्वा “अप्यनेकस्वरूपेषु” इत्यनेनैव वक्ष्यमाणमङ्गीकृत्यांशिन इत्यादिना विरोधः परिहृतः। तत्र भेदाभावे कथमनेकत्वमंशित्वं चेत्याशङ्कां विशेषादेवेत्यादिपादत्रयेण परिहरति। केवलमेव भेदेन विनैव तेषु बहुस्वरूपता तया ख्यायमाना सांशता चास्ति। कथम्? विशेषादेवेति। कुत एतत् कल्प्यते? श्रुतिद्वयविरोधादेवेति हिशब्देनाऽह। अत्र जीवस्येति प्रकृतेऽपि यच्चेतना इति सामान्येनोक्तम्, तेन चेतनमात्रेऽप्ययं न्याय इति सूचयति। अथवा यद्यंशिनो जीवाः, तर्हि पटादिवदेव स्युरित्यस्याचेतनत्वमुपाधिमनेन द्योतयति।
नन्वेवन्तर्हि, किं जीवकर्तृत्वस्येश्वराधीनत्वकल्पनया? तदभावेऽपि स्वतो बहुरूपत्वसद्भावेनैकदेशतः क्रियोपपत्तौ कृत्स्नप्रसक्तेरभावात्। विभिन्नांशाभावेन निरवयवत्वशब्दकोपस्यापि परिहारात्। एतदतिरिक्तस्य चेश्वरकृत्यस्यादर्शनादिति पूर्वपक्षिणा स्वाभिसन्धावुद्घाटिते सत्याह बहुत्वेनेति।
बहुत्वेनाविनाभावाद् भिन्नता नियमाद् भवेत्।
यदि नैवं नियमकृद् भगवान् पुरुषोत्तमः।
तस्य त्वशेषशक्तित्वाद् युज्यते सर्वमेव हि॥९०॥
यदि भगवन् पुरुषोत्तम एवं न नियमकृद् बहुत्वेऽपि भेदो जीवेषु मा भूदिति व्यवस्थायाः कर्ता न स्यात्, तदा बहुत्वेन हेतुना जीवेष्वपि भिन्नता भवेत्। बहुत्वसङ्ख्याया भिन्नत्वेनाविनाभावलक्षणान्नियमात्। यथोक्तम् “तदनुविधानात् पृथक्त्वम्” इति।
एतदुक्तं भवति परमेश्वरानपेक्षस्य जीवस्य कर्तृत्वाङ्गीकारे न सर्वथोक्तप्रसङ्गद्वयपरिहारः। तथाहि कृत्स्नप्रसक्तिस्तावत् कथं परिहरणीया? बहुत्वसद्भावेनेति चेत्, तर्हि बहुत्वस्य लोके भेदाविनाभूतत्वेन जीवस्य बहुत्वे भिन्नत्वमप्यापद्येत। तथाच दुरात्मा निरवयवत्वशब्दकोपो दुष्परिहरः। अथ तत्परिहारार्थं भेदो नेष्यते, तदा व्यापकनिवृत्त्या व्याप्यनिवृत्तेरावश्यकत्वाद् बहुत्वसङ्ख्याऽपि त्याज्या स्यात्। तथाच पुनः सैव कृत्या कृत्स्नप्रसक्तिरास्कन्देत।
अथ जडेष्वेव यत्र बहुत्वम्, तत्र भेद इति नियमः, न चेतनेष्विति चेत्, कुत एतत्? तथा दर्शनादिति चेत्, न। यतः कारकप्रश्र्नोऽयं न प्रमाणप्रश्र्नः। स्वभावोऽयं पदार्थानामिति चेत्, न। अनीश्वरवादपादप्रसारिकापातात्।
किञ्च विरुद्धश्च स्वभावश्चेति कथम्? नहि स्वयमेव स्वेन सद्वितीय इति युक्तम्। प्रमितत्वान्न विरोध इति तु प्रत्युक्तम्। चैतन्यसामर्थ्यादिदं घटत इति चेत्, धूमवानपि कश्चिन्निरग्न्किो घटताम्। अथ विशेषशक्त्येदमुपपद्यत इति चेत्, घटेऽप्युपपद्यताम्। नहि तत्र विशेषो नास्ति। विशेषवैचित्र्यान्नेति चेत्, तदेव कुतः? तस्माद् भगवानेव स्वरूपस्वभावविशेषाणां नियामकश्चैतन्यमवच्छेदकं विधाय विशेषं निमित्तीकृत्य विरुद्धे अप्यभेदबहुत्वे समावेश्याभेदेन निरवयवत्वशब्दकोपमपास्य बहुत्वेन कृत्स्नप्रसक्तिं न्यक्कृत्य कार्यानुरूपं सामर्थ्यविशेषं योजयञ्जीवेन कारयतीत्यङ्गीकर्तव्यमिति।
नन्वेतत् सर्वं जीवसामर्थ्यादिनाऽशक्यसम्पादनं कथं भगवानपि सम्पादयेदित्यत आह तस्य त्विति। तदेवमस्य सूत्रस्यैवं तात्पर्यव्याख्याने न कश्चिद् विरोध इति स्थितम्॥*॥ इतीतरव्यपदेशाधिकरणम्॥७॥
अथ शब्दमूलत्वाधिकरणम्॥८॥
॥ कृत्स्नप्रसक्तेः, श्रुतिविरोधात्, देहादिरहितत्वाच्च ईश्वरस्याकर्तृकत्वमिति पूर्वपक्षः॥
श्रुतेस्तु शब्दमूलत्वात्। नन्वीश्वरस्यापि कर्तृत्वं न युज्यते। जीववत् कृस्नप्रसक्तेः। नहि ब्रह्माण्डपिपीलिकाण्डनिर्माणे समं सामर्थ्यं प्रयुञ्जानः प्रेक्षावान् भवति। गत्यन्तराभावान्न दोष इति चेत्, न। ईश्वरत्वव्याघातात्। अथैतत्परिहारार्थमेकदेशेन प्रवृत्तिरङ्गीक्रियते, तदा “नेह नाना” इत्यादिनिरवयवत्वशब्दकोपः स्यात्। शरीरेन्द्रियादिविकल्पत्वाच्च न कर्तृत्वम्। नहि कश्चिच्छरीरादिविकलः कर्तोपलब्धः। भूम्याद्याधारविधुरत्वाच्च। एवं दौर्घट्येऽपि यदि कर्तृत्वमीश्वरस्य स्यात्, तदा जीवस्यापि किं न स्यात्? विशेषादर्शनात्। एवञ्च सर्वकर्तृत्वं दूरनिरस्तमित्ययं पूर्वपक्षोऽत्राधिकरणे निरस्यते।
॥ ईश्वरस्याऽगमैकगम्यत्वादुक्तदोषाणामप्रसक्तिः॥
तस्य तात्पर्यमाह तस्य त्विति। तुशब्दो जीवाद् विशेषं द्योतयति। चशब्दो हेतुसमुच्चये। ईश्वरस्यालौकिकत्वश्रुतेः, आगमैकगम्यत्वेन युक्तिविरोधानवकाशात् “विचित्रशक्तिः पुरुषः”, “सर्वैर्युक्ता शक्तिभिर्देवता सा” इत्यादिश्रुतिभिर्विचित्राशेषशक्तित्वावगमाच्च। सर्वम्, भिन्नांशरहितस्यापि कार्येषु कृत्स्नप्रसक्त्यभावः, स्वरूपांशबाहुल्येऽपि भेदाभावः, अंशतः कार्यकरणेऽपि निरवयवत्वशब्दकोपाभावः, देहादिरहितस्यापि कर्तृत्वनिर्वाह इत्यादि युज्यत इति।
ननु दुर्घटमपि जीवकर्तृत्वमीश्वरशक्त्या घटत इत्यतीताधिकरणेऽभिहितम्। तथाच कथमत्र पूर्वपक्षावकाशः? यो हि परत्र प्रमितं घटयितुमीष्टे सः स्वस्मिन् नेष्टे इत्यसम्भावितम्। उच्यते नैषोऽर्थः सूत्रकृताऽतीताधिकरणेऽभिहितः। किन्त्वागामिनमर्थं मनसि निधाय जीवकर्तृत्ववादनिरास एव विहितः। भाष्यकारेण तु शिष्यहितैषिणा वक्ष्यमाणमप्यर्थमाकृष्य पूर्वोत्तरविरोधः परिहृत इति।
॥ अन्यैः ब्रह्मणो जगदुपादनत्वे कृत्स्नप्रसक्तिश्रुतिविरोधपरिहारपरतया व्याख्यनम्॥
परिणामवादिनो विवर्तवादिनश्च ब्रह्मणो जगदुपादानत्वं “कृत्स्नप्रसक्तिः” इत्यनेनाऽक्षिप्य “श्रुतेस्तु” इत्यादिना समाधीयत इति व्याचक्षते।
तथाहि न ब्रह्म जगदुपादानम्। यतः, तथात्वे कृत्स्नस्यापि ब्रह्मणः कार्याकारताप्रसक्तिः स्यात्। स्थितौ च ब्रह्माभावे तद्दर्शनोपदेशानर्थक्यादि स्यात्। अथैतेद्दोषपरिजिहीर्षया ब्रह्म एकदेशेन परिणमते एकदेशेन चावतिष्ठत इत्युच्यते, तदा “निष्कलं शान्तम्” इत्यादिनिरवयवत्वशब्दकोपः स्यादिति।
अत्रोच्यते नायं दोषः। “तदात्मानं स्वयमकुरुत” इत्यादिश्रुतेर्ब्रह्मणो जगदुपादानत्वस्य कृत्स्नपरिणामाभावस्य चावगमात्। शब्दमूलत्वेन युकिविरोधानवकाशाच्च। अपिच सर्वशक्त्युपेता च परदेवता श्रूयते, “सर्वकर्मा सर्वकामः” इत्यादि। ततो निरवयवस्यापि ब्रह्मणः कृत्स्नप्रसक्त्यभावेनैव जगदुपादानत्वमुपपन्नमित्यादि।
॥ अधिकरणस्य परोक्तार्थपरत्वेऽध्यायान्तर्भावायोगः॥
तदेतद् व्याख्यानमनुपपन्नम्। एवंसत्येषां सूत्राणामेतदध्यायान्तर्भावलक्षणसङ्गत्यभावप्रसङ्गात्। तत् कथमित्यत आह विरोध इति।
विरोधः सर्ववैशिष्ट्ये यो द्वितीये निरस्यते।
नारायणस्य त्वध्याये..................॥९१॥
तुशब्दोऽवधारणे। परब्रह्मणो नारायणस्य सर्वस्माच्चेतनादचेतनाच्च वैशिष्ट्ये वैलक्षण्ये परमोत्कृष्टत्वेऽत्यन्तव्यावृत्तत्वे च यो युक्त्यादिविरोधः स एवात्र द्वितीयेऽध्याये निरस्यते। सकलजगदुपादानत्वेन सर्वात्मकत्वं तु न सर्ववैशिष्ट्यम्। नापि तदुपयुक्तम्। प्रत्युत विरुद्धमेव। तत् कथं तत्र विरोधपरिहारोऽत्रान्तर्भावमासादयेत्?
ननु जगदुपादानत्वादेव सर्ववैशिष्ट्यं ब्रह्मणः, नहि जगज्जगदुपादानमिति चेत्, तत् किमुपादानोपादेययोर्भेदं मन्यसे। तथाच “तदनन्यत्वम्” इत्युक्तविरोधः। जगद् ब्रह्मणो न भिद्यते इति चेत्, न। उक्तोत्तरत्वात्। (५७१५७२)
॥ ब्रह्मण उपादानत्वस्य निराकृतत्वात् चोद्यस्यानवकाशः॥
प्राग् ब्रह्मोपादानत्वस्यानुक्तत्वात् कृत्स्नप्रसक्त्यादिपरिचोदनैवानवकाशा। परिणामप्रतिपादकश्रुतेरभावेन गगनादिप्रपञ्चात्मकस्य तदसम्भविशब्दमूलत्वसर्वशक्तित्वाद्यसम्भवेन च समाधानमप्युक्तम्। विवर्तवादे तु सर्वथाऽपि नैषा शङ्काऽवकाशमश्नुते। शुक्त्यादिकमिव रजताद्यारोपस्य ब्रह्माऽविद्यकप्रपञ्चारोपस्याधिष्ठानमिति स्पष्टमारम्भणाधिकरणेऽभिहितम्। तत्र कथं कृत्स्नैकदेशविचारः? उक्तानवधानाच्छङ्केति चेत्, तर्ह्युक्तं स्मरेति वक्तव्यम्। स्पष्टं चाऽरोपितत्वं प्रपञ्चस्य ब्रह्मण्युपपादनीयम्। “श्रुतेस्तु” इत्यादेस्तु का सङ्गतिः?
कश्चित् परिहारादर्शनसम्भ्रान्तचित्त आह अविद्यासंविलतं खलु ब्रह्म जगदुपादानम्। तत्र अविद्योपादानत्वस्यायमाक्षेपः परिहारश्चेति। तदतीव मन्दम्। नह्यविद्याया उपादानत्वमपि वास्तवम्। तस्या अविचारितरमणीयतयैव शङ्काविषयत्वात्। किञ्च कृत्स्नप्रसिक्तिः सावयवत्वं चाविद्यायां किं करिष्यति? समाधानं तु सर्वथाऽप्यसङ्गतमेव। एतेन “विकरणत्वात्” इत्याक्षेपपरिहारावप्यसङ्गतौ वेदितव्यौ। नहि भ्रमाधिष्ठानता शरीरादिकमपेक्षते। ईश्वरविषयं तदिति चेत्, न। तस्य विकरणत्वाभावेनाऽक्षेपानुदयादित्यादिकं स्वयमेव शिष्यैरवगन्तव्यमित्यसङ्गतिरेवाऽचार्येणोक्ता।
॥ लक्षणसूत्रोक्ते ब्रह्मणः सर्ववैशिष्ट्ये विरोधपरिहार एव द्वितीयाध्यायार्थः॥
स्यादेवमसङ्गतिर्यदि ब्रह्मणः सर्ववैशिष्ट्ये विरोधपरिहारोऽध्यायार्थः स्यात्। तदेव कुत इत्यत आह तदन्य इति।
....................तदन्ये तत्रतत्रगाः॥९१॥
तस्मात् सर्ववैशिष्ट्यविषयादन्ये विरोधास्तत्रतत्रैवाधिकरणेषु गताः परिहृताः।
एतदुक्तं भवति अविरोधलक्षणो द्वितीयोऽध्याय इति तावत् सम्मतम्। नचानुक्तेऽर्थे विरोधपरिहारः सङ्गत इति प्रथमाध्यायार्थेऽविरोधो द्वितीयस्यार्थः। प्रथमे चाऽदिसूत्रेण शास्त्रीयविषयप्रयोजनप्रदर्शनमुखेन ब्रह्मजिज्ञासायाः कर्तव्यत्वमुक्तम्। तच्चतुरध्यायीपरिसमाप्यं नैकत्र पर्यवस्यति। ततः, किं तद् ब्रह्म? किं जीवः, अथ जडमिति स्वरूपजिज्ञासायाम्, शृङ्गग्राहिकया प्रदर्शयितुमशक्यत्वात्। द्वितीयसूत्रे सर्वतो वैलक्षण्यप्रदर्शनेन सर्वोत्कृष्टं सर्वस्माद् व्यावृत्तं चेति प्रतिपादितम्। सजातीयविजातीयासम्भावितधर्मस्य लक्षणत्वात्। सकलेतरव्यावृत्तेश्च तत्प्रयोजनत्वात्। तृतीयसूत्रे शास्त्रं तत्र प्रमाणमभिधाय तस्योत्तरप्रबन्धेन सामान्यतो विशेषतश्च सकलजीवजडव्यावृत्तवस्तुविषयता समर्थिता। एवञ्च द्वये विरोधाः परिहरणीया भवन्ति। द्वितीयसूत्रसिद्धसर्ववैशिष्ट्यविषयाः शास्त्रसमन्वयविषयाश्च। तत्र द्वितीया “विकारशब्दात्” इत्यादिना तत्रतत्रैवाधिकरणे परिहृता इति परिशेषात् सर्ववैशिष्ट्यविषयविरोधपरिहार एव द्वितीयार्थ इति ज्ञायत इति।
॥ श्रुतीनां परस्परविरोधपरिहारोऽपि सर्ववैशिष्ट्यसमर्थनायैव॥
ननुच श्रूतीनां परस्परविरोधोऽपि द्वितीयेऽध्याये “न वियदश्रुतेः” इत्यादिना परिहृतः। तत् कथमुच्यते ब्रह्मणः सर्ववैशिष्ट्ये विरोधो द्वितीये निरस्यत इति। तत्राऽह सृष्टीति।
सृष्टिसंहारवाक्यानां जीवरूपाभिधायिनाम्।
अप्यन्योन्याविरोधस्तु द्वितीयाध्यायगोचरः।
जीवरूपाभिधायिनां वाक्यानाम्। उपलक्षणमेतत्। प्राणादिविषयाणां चेत्यपि द्रष्टव्यम्। सृष्ट्यादिविशेषणमुपपत्तिसूचनार्थम्। तुशब्दे विशेषार्थः। यो द्वितीयाध्यायगोचरो वाक्यानामन्योन्याविरोधः सोऽपि पारमेश्वरसर्ववैशिष्ट्यविरोधपरिहार एव। किन्तु प्रथमद्वितीयपदायोः साक्षात्, तृतीयचतुर्थयोस्तु व्यवधानेनेति विशेषः।
तथाहि श्रुतीनां परस्परविरोधपरिहारः किं तत्प्रामाण्यनिर्णयमात्रफलः, किंवा प्रमेयनिर्णयफलः? नाऽद्यः, मीमांसाया न्यायशास्त्रत्वापत्तेः। किञ्चैवंसति वियदादिसृष्ट्यादिविषयवाक्यविरोधपरिहार एव कस्मात् क्रियते? उदितहोमादिवाक्यानामपि न्यायदर्शन इवोपादानोपपत्तेः। आकाशवाय्वादिक्रमश्चात्र नात्यन्तमुपयुज्यते। द्वितीयेऽपि किं सृष्ट्यादिकमेव प्रमेयम्, उत तदङ्गिभूतमन्यत्। नाऽद्यः, तस्य स्वरूपतोऽप्रयोजनत्वात्। प्रथमाप्रतिपाद्यत्वाच्च। अन्यथा पुनरुदितहोमादिवाक्यविरोधपरिहारोऽपि कार्यः स्यात्। सृष्ट्यादिविषयनिष्कर्षोऽपि निर्हेतुकः। अतो द्वितीय एव परिशिष्यते। नचान्यदस्ति सृष्ट्यादिप्रमेयस्याङ्गि प्रथमोक्तं द्वितीयसूत्राभिहिताद् ब्रह्मणः सर्ववैशिष्ट्यात्। अतो युक्तमुक्तम्। तदेवं परोक्तसूत्रार्थस्य द्वितीयाध्यायान्तर्भावलक्षणसङ्गत्यभावात्, विरोधाच्च उक्त एव सूत्रार्थ इति सिद्धम्।
॥ भगवतः इन्द्रियादिमत्त्वप्रतिपादकसूत्रस्य पौनरुक्त्यमाशय परिहारकथनम्॥
अत्रेश्वरस्य शरीरेन्द्रियादिकरणरहितत्वात् कर्तृत्वं नोपपद्यत इत्याक्षेपसमाधानार्थं सूत्रम् “विकरणत्वान्नेति चेत् तदुक्तम्” इति।
ॐ विकरणत्वान्नेति चेत् तदुक्तम् ॐ॥३२॥
एतदनारम्भणीयम्, पुनरुक्तत्वात्। “श्रुतेस्तु शब्दमूलत्वात्”, “आत्मनि चैवं विचित्राश्च हि”, “सर्वोपेता च तद्दर्शनात्” इति सूत्रैरेवालौकिकत्वशब्दैकसमधिगम्यत्वविचित्रानन्तशक्तित्वादियुक्तिभिः सर्वस्यापि दौर्घट्यस्य परिहृतत्वात्। यो हि साक्षात् कारकाधिष्ठानस्य नेष्टे, स शरीरव्यवधानमपेक्षते। यस्य चाऽगन्तुकं ज्ञानम्, स तदर्थमिन्द्रियाणि। यश्च गुुरुशरीरो नावस्थातुं शक्नोति स क्षित्यादिकमाधारम्। भगवांस्तु सर्वशक्तिः सर्वज्ञः, किमर्थमपेक्षतेति। नच काचिदभ्यधिकाशङ्काऽस्ति येन पुनरारम्भः स्यादित्यत आह मानेति।
॥ प्रमाणविशेषस्य प्रमेयविशेषस्य वा वक्तव्यत्वे पुनरुक्तेरदोषत्वमित्युपपादनम् ॥
मानमेयविशेषेण पुनरुक्तिर्न जायते॥९२॥
यथा “अत एव प्राणः” इत्यादौ मानैक्येऽपि मेयविशेषेण न पुनरुक्तिदोषः, तथाऽत्र मेयैक्येपि मानविशेषेण न पुनरुक्तिदोषः।
एतदुक्तं भवति किमुक्तार्थोक्तिमात्रं दोषः, किंवोक्तानतिरिक्तोक्तिः? नाऽद्यः, उक्तपरिहारातिदेशोक्तेरपि दोषत्वानुषङ्गात्। द्वितीयस्तु प्रकृते न सिद्धः। प्रमेयैक्येऽपि प्रमाणभेदस्य सत्त्वात्। इह हि चिदानन्दाद्यात्मकदिव्यमङ्गलविग्रहवतो महापुरुषस्य प्राकृतशरीराद्यभावेऽपि सकलकार्यकर्तृत्वं “अपाणिपादः” इत्यादिश्रुतिमाश्रित्योक्तमिति।
यद्वा मानमेययोर्विशेषेणेति योज्यम्। तथाचायमर्थः पूर्वसूत्रैः सामान्यविषयप्रमाणान्याश्रित्य सामान्यत एव सर्वानुपपत्तिपरिहारो विहितः, इह तु विशेषविषयेणैव ग्रमाणेन विशेषानुपपत्तिपरिहारः क्रियत इति कथं पुनरुक्तिदोषावकाश इति। तथाऽप्याक्षेपो नोपपद्यत इति चेत्, न। विशेषजिज्ञासया उपपत्तेरिति॥*॥ इति शब्दमूलत्वाधिकरणम्॥८॥
अथ नप्रयोजनाधिकरणम्॥९॥
॥ सिद्धान्तसूत्रयोः पूर्वपक्षानाच्छादकत्वशङ्कापरिहारः॥
न प्रयोजनत्त्वात्। यत्प्रयोजनार्थं सृष्ट्यादिः, तदूनत्वादपूर्णतेत्याक्षेपपरिहारायेदमधिकरणमारभ्यते। तदेतदनुपपन्नमिवाऽभाति। तथाहि यद्यत्र कर्तृत्वेन प्रयोजनवत्त्वं प्रसाध्यापूर्णत्वसाधनं पूर्वपक्षिणो विवक्षितं स्यात्, तदा प्रथमसूत्रमयुक्तं स्यात्। अपूर्णतासाधकं प्रति प्रयोजनवत्त्वहेतोरसिद्धत्वात्। अथ कर्ता चेत् प्रयोजनवान् स्यात्, तथाचापूर्णः स्यादित्यापादनं विवक्षितम्, तदा व्यर्थमेवेदं सूत्रम्। नचापूर्णस्ततो न प्रयोजनवानिति परेणैवाङ्गीकृतत्वात्। अन्यथा विपर्ययापर्यवसानात्। “लोकवत्तु लीलाकैवल्यम्” इति द्वितीयसूत्रं तु पक्षद्वयेऽप्ययुक्तम्। साधनापादानदूषणस्य अनुद्भावनादिति।
मैवम्। ईश्वरस्य सृष्ट्यादिना प्रयोजनमस्ति, नवा? आद्येऽपूर्णत्वं प्रसज्येत। द्वितीये तु कर्तृत्वानुपपत्तिः, तस्य प्रयोजनव्याप्तत्वादित्युभयथाऽपीश्वरस्य जगत्सृष्ट्यादिकर्तृत्वानुपपत्तिरित्यत्र पूर्वपक्षिणो विवक्षितम्। तत्र प्रथमसूत्रेण प्रयोजनाभावपक्षं सयुक्तिकमुपादत्ते। तत्रोक्तदोषपरिहारार्थं द्वितीयं सूत्रम्।
यद्वा कर्तृत्वेन प्रयोजनस्य तेन चापूर्णत्वस्येदं साधनं विवक्षितम्, उताऽपादनमिति सिद्धान्ती विकल्प्याऽद्यमाद्येन निराचष्टे। न कर्तृत्वेन प्रयोजनवत्त्वं साध्यम्। कृतकृत्यत्वेन प्रयोजनाभावस्यैव निश्चितत्वात्। नचासिद्धो हेतुः। “अथैष एव परम आनन्दः”, “निरनिष्टो निरवद्यः” इति श्रुतेः। प्रयोजनवत्त्वेनापूर्णतानुमानं तु गर्भस्रावेणैव गतमिति। आद्यस्य दूषणान्तरं वदन् द्वितीयं द्वितीयेन निराकरोतीति।
॥ ईश्वरस्य सृष्ट्यादौ प्रयोजनाभावेऽपि स्वभावादेव प्रवृत्तिः॥
ननूक्तमत्र “लोकवत्” इति सूत्रेण साधनस्याऽपादनस्य वा न किञ्चिद् दूषणमुद्भाव्यत इति। मैवम्। बाधादेरुद्भावनादित्याशयवान् द्वितीयसूत्रस्य तात्पर्यमाह सदेति।
ॐ लोकवत्तु लीलाकैवल्यम् ॐ॥३४॥
सदा प्रवृत्तिरीशस्य स्वभावादेव केवलम्।
यथा लोके ज्वलनपवनादीनाम्, तथेशस्यापि सदा सृष्ट्यादौ केवलं प्रयोजनेन विना स्वभावादेव प्रवृत्तिः प्रमितेति शेषः। तदनेनेश्वरस्य प्रवृत्त्या प्रयोजनसाधनमनैकान्तिकम्, बाधितविषयं च। प्रसङ्गस्तु व्याप्तिविकलो विपर्ययापर्यवसायी चेत्युक्तं भवति।
अथ मन्येत चेतनप्रवृत्तिः न प्रयोजनेन विना दृष्टा, अतो नानैकान्त्यादीति। तदपि नास्ति। मत्तस्य सुखोद्रेकादेव नृत्तगानादिप्रवृत्तिदर्शनात्। (२५१)
ननुच प्रेक्षावत्प्रवृत्तिर्न प्रयोजनोद्देशेन विनोपलब्धा, इयं च प्रेक्षावत्प्रवृत्तिः। अतः प्रयोजनोद्देशवती स्यादिति साध्यमापाद्यं चेत्यत आह अङ्गेति।
अङ्गचेष्टा यथा पुंसः काश्चिदुद्देशवर्जिताः।
देवस्यैष स्वभावोऽयमित्याह श्रुतिरञ्जसा॥९३॥
काश्चिद् व्याख्यानादावङ्गुलिचालनादिकाः। उद्देशवर्जिताः प्रयोजनोद्देशवर्जिताः। तथा ईशस्यापि प्रवृत्तिरिति पूर्वेणान्वयः। तथाऽप्यनैकान्त्याद्यनिस्तार इति भावः।
॥ “देवस्यैष स्वभावोऽयम्’ अस्याः श्रुतेरर्थकथनम्॥
यदुक्तमीश्वरस्य प्रवृत्तिः प्रयोजनेन विना स्वभावादेव प्रमितेति, तत् प्रमाणमिदानीमाह देवस्येति। “देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा” इति श्रुतिरज्जसा स्फुटमुक्तमर्थमाह। देवस्यायं सृष्ट्यादिविषय एषः इच्छा, तत्पूर्विका प्रवृत्तिरिति यावत्। स्वभाव एव। न प्रयोजनाय। कुतः? आप्तकामस्य प्रयोजनस्पृहासम्भवादित्यर्थः।
॥ ईश्वरप्रवृत्तेः क्रीडाप्रयोजनत्ववादनिराकरणम्॥
केचिदिदं सूत्रमन्यथा व्याचक्षते यथा लोके सप्तद्वीपां मेदिनीमधितिष्ठतः सम्पूर्णशौर्यवीर्यपराक्रमस्यापि महाराजस्य केवललीलैकप्रयोजनाः कन्दुकाद्यारम्भा दृश्यन्ते। तथैव परस्यापि ब्रह्मणः स्वसङ्कल्पमात्रावक्लृप्तजगज्जन्मस्थितिध्वंसादेर्लीलैव प्रयोजनमिति। तदेतन्निराकरोति क्रीडामिति।
क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी।
इति केवललीलैव निर्णीता प्रभुणा स्वयम्॥९४॥
“भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे” इति क्रीडाप्रयोजनां भगवतः सृष्ट्यादिप्रवृत्तिं वदतः पूर्वपक्षीकृत्य “देवस्यैष स्वभावोऽयम्” इति सयुक्तिकं प्रयोजनलेशाभावः श्रुत्या सिद्धान्तितः। अतः श्रुतिविरुद्धत्वादपव्याख्यानमेवैतत्।
सूत्राक्षराननुगुणं चैतद् व्याख्यानमित्याह इतीति। यत एवं क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी, इति तस्मात् श्रुत्यनुसारिणा प्रभुणा स्वयं साक्षात् स्पष्टं केवललीलैव सृष्ट्यादिप्रवृत्तिः निर्णीता लीलाकैवल्यमिति। नतु लीलार्थेति ततोऽप्ययुक्तमिदं व्याख्यानमिति।
यद्वा पूर्ववाक्योक्तो हेतुः, अयं साध्यनिर्देशः। यस्माल्लीलां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी, तस्मादेतत्सूत्रे केवललीलैव सूत्रकृता निर्णीता व्याख्याता न पुनर्लीलार्थेति।
॥ ईश्वरस्य सृष्ट्यादौ स्वप्रयोजनाभावेऽपि परप्रयोजनोद्देशताऽङ्गीक्रियते॥
किञ्च कर्तृत्वेन प्रयोजनवत्तां साधयन्, आपादयन् वा प्रष्टव्यः। किं प्रयोजनं स्वसम्बन्धि विवक्षितम्, उत परसम्बन्धि, अथ साधारणम्? आद्ये साधनेऽनैकान्त्यम्, आपादने व्याप्त्यभावः, विपर्ययपर्यवसाने व्यभिचार एव। दृश्यन्ते हि कृपालवः स्वप्रयोजनमनुद्दिश्य परप्रयोजनार्थमेव प्रवर्तमानाः। नचादृष्टार्थमिति वाच्यम्। पशूनां पशुप्रायाणां चापत्यपालनादौ प्रवृत्तिदर्शनात्। नच प्रयोजनोद्देशिता, कृपालुता चेति सम्भवति। द्वितीयेऽप्यनैकान्त्यादिकमेव। स्वप्रयोजनार्थं प्रवृत्तेः बहुलमुपलम्भात्। भगवतोऽपि स्वप्रयोजनाभावेऽपि परप्रयोजनोद्देशिताङ्गीकारेण क्रमेण सिद्धसाधनेष्टापादनासिद्धत्वप्रसङ्गाश्च। अत एव न तृतीयोऽपि। अत एव केनचित् कर्तृत्वविशेषणम्, प्रवृत्तिस्वभावत्वे सदा प्रवर्तेतेत्यतिप्रसञ्जनं च प्रत्युक्तम्।
॥ ईश्वरप्रवृत्तेः परप्रयोजनार्थत्वस्य श्रुतिसूत्रसिद्धत्वसमर्थनम्॥
स्यादेतदेवम्। यदीश्वरप्रवृत्तौ परप्रयोजनोद्देशः स्यात्, नचासावङ्गीकर्तुमुचितः। का स्पृहा, न काऽपीति श्रुत्या, नेति सूत्रकारेण च सर्वथा प्रयोजनोद्देशस्य निवारितत्वादित्यत आह आत्मेति।
आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत्।
न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुः॥९५॥
श्रुतिरिति सूत्रकृतोऽप्युपलक्षणम्। परप्रयोजनार्थतां त्वङ्गीकुरुत एवेति शेषः। कुत एतदवगम्यत इत्यत आह नेति। यतः परप्रयोजनमङ्गीकृत्याऽत्मप्रयोजनार्थतामेव नेति न्यवारयत्। अत एव हि “प्रयोजनवत्त्वात्” इति तत्र हेतुमाह। अन्यथा नैतं ब्रूयात्।
एतदुक्तं भवति यदि नेति सौत्रीप्रतिज्ञा स्वपरप्रयोजनविषया स्यात्, तदा “प्रयोजनवत्त्वात्” इति हेतुरनैकान्तिकः स्यात्। स्वयं व्यापारसाध्यप्रयोजनवतोऽपि परप्रयोजनोद्देशेन व्यापारदर्शनात्। स्वप्रयोजनमात्रविषयत्वे तु नायं दोषः। योऽवाप्तयत्प्रयोजनः, स स्वार्थं न तदुद्दिशतीति व्याप्तेरनवद्यत्वात्। अतः “प्रयोजनवत्त्वात्” इति हेतुं ब्रुवाणः सूत्रकृदात्मप्रयोजनोद्देशमेव नेति निवारितत्वान्। न परप्रयोजनोद्देशमपि। तथात्वे तद्व्याप्तमेव कमपि हेतुं ब्रूयात्। स्वप्रयोजननिषेधं कुर्वाणो विशेषनिषेधस्य शेषाभ्यनुज्ञाज्ञापकत्वात् परप्रयोजनमनुजानातीति ज्ञायत इति।
उपलक्षणमेतत्। श्रुतिरपि “आप्तकामस्य” इति हेतुगर्भविशेषणं प्रयुञ्जानाऽऽत्मप्रयोजनस्पृहामेव आक्षिपति परप्रयोजनस्पृहामभ्युपैतीति ज्ञायत इत्यपि द्रष्टव्यम्।
॥ भगवतः इच्छारूपगुणनिषेधपरतया श्रुतिव्याख्यानस्य दूषणम्॥
इह हि बुद्धिरेवेश्वरस्याव्याहता क्रियाशक्तिः, तयैव सर्वस्योपपत्तौ किमिच्छाप्रयत्नकल्पनया? यद्वा प्रयत्नः कर्तृत्वम्। तस्यैवाऽख्यातार्थतया निर्णीतत्वात्। स च द्वेधा बुद्धिमपेक्षते। उत्पत्त्यर्थं विषयनियमार्थं च। तत्रेश्वरप्रयत्नो यद्यपि नित्यत्वान्नोत्पत्तावपेक्षते बुद्धिम्। तथाऽपि विषयनियमार्थं तामपेक्षत एव। नहि निर्विषय एवासौ, व्यर्थत्वप्रसङ्गात्। नच स्वभावत एवार्थप्रवणः, बुद्धित्वप्रसङ्गात्। बुद्धिरेव हि स्वभावतोऽर्थप्रवणा। अतो ज्ञानप्रयत्नाभ्यामेव सर्वनिर्वाहान्नेश्वरस्येच्छाऽस्ति। नचेच्छया प्रयत्नस्य विषयनियमः। तस्या अपि स्वतो विषयप्रवणताभावात्। तदर्थं बुद्ध्यङ्गीकारे तयैव प्रयत्नस्य विषयनियमोपपत्तेः किमन्तर्गडुनेच्छयेति मन्यमानाः केचित्, “का स्पृहा” इति श्रुतिर्नेश्वरस्य प्रयोजनेच्छामात्रनिषेधपरा, किन्त्विच्छालक्षणं गुणमेव निषेधतीति व्याचक्षते। तान् निराकरोति इच्छामात्रमिति।
॥ श्रौतार्थवादान्यथानुपपत्त्या भगवत इच्छावत्त्वसमर्थनम्॥
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः।
इति प्रशंसया कामश्रुतिभ्यश्चैव युक्तितः॥९६॥
“का स्पृहा” इति श्रुत्या नेश्वरस्येच्छामात्रं निषिद्ध्यते। कुतः? इच्छावत्त्वस्य प्रमाणतः सिद्धत्वात्। तथाहि
“विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः।
स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता।
कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः”
इति परिणामवादं विवर्तवादं कालादिनिमित्तवादं चान्यमतत्वेनोक्त्वा “इच्छामात्रम्” इति श्रुत्या स्वमतमुच्यते। ये सृष्टिविषये विशिष्टनिश्चयवन्तः, ते प्रभोरिच्छामात्राधीना सृष्टिर्न ब्रह्मपरिणामः, नच तद्विवर्तः, नापि कालादिनिमित्तेति मन्यन्त इति। अनया प्रभोरिच्छामात्रायत्ततां सृष्टेर्मन्यमानानां विनिश्चिता इति प्रशंसया तस्येच्छावत्त्वमवगम्यते। यदीश्वरस्येच्छा न स्यात्, तदा तदायत्ततां सृष्टेः मन्यमाना विपर्यस्ताः स्युः। विशिष्टनिश्चयवन्तः इत्येषा प्रशंसाऽनुपपन्ना स्यात्। नच प्रशंसात्वादेव अर्थासिद्धिः। पूर्वोत्तरपक्षावधारणप्रसङ्गे प्रशंसाया अपि याथार्थ्यावश्यम्भावात्। अन्यथा परिणामादिवादा अपि प्रशंस्येरन्।
॥ भगवत इच्छावत्त्वे श्रुत्युपन्यासः॥
न केवलं श्रुतार्थानुपपत्त्या। अपितर्हि? “कामस्तदग्रे समवर्तताधि”, “सोऽकामयत” इत्यादिभ्यो भगवतः कामप्रतिपादकश्रुतिभ्यश्चेच्छाऽवगम्यते। एवशब्दः श्रुतीनामर्थापत्तितः प्राबल्यसूचकः। इच्छाकामशब्दयोर्ज्ञानप्रयत्नोपलक्षणत्वस्य सम्भवान्नार्थापत्तिश्रुतिभ्यामिच्छासिद्धिरिति चेत्, न। मुख्ये बाधकाभावात्।
॥ अनुमानेन भगवत इच्छावत्त्वसमर्थनम्॥
मा वा सैत्सीदिच्छाऽर्थापत्तिश्रुतिभ्याम्, युक्तितस्तावत् सेत्स्यति। तथाहि ईश्वर इच्छावान्, आत्मत्वात्; यज्ञदत्तवत्। नच मुक्तादौ व्यभिचारः। तत्रापि तस्याः साधयिष्यमाणत्वात्। ज्ञानवत्त्वात्, प्रयत्नवत्त्वात्, कर्तृत्वाद् वा। ईश्वरज्ञानं वेच्छासमानाश्रयम्, ज्ञानत्वात्; अस्मदादिज्ञानवत्। एवं तत्प्रयत्नमपि पक्षीकृत्य प्रयोक्तव्यम्।
यद्वा क्षित्यादिकमिच्छावज्जन्यम्, कार्यत्वात्; घटवत्। नन्वेवं दुःखादिकमपि साधयितुं शक्यमिति चेत्, तत् किमतिप्रसङ्गभीरुणा क्षित्यादेर्बुद्धिमत्कारणत्वानुमानमपि त्यक्ष्यते। दुःखादिसाधने बाधोऽस्ति, न बुद्धिसाधन इति चेत्, समं प्रकृतेऽपि।
॥ भगवत इच्छाभावे तस्य श्रुतिमहातात्पर्यविषयत्वाभावप्रसङ्गः॥
नन्वीश्वरस्येच्छाभावे बाधकाभावादप्रयोजकत्वमनुमानानामिति। मैवम्। महातात्पर्ययुक्तेश्च।
महातात्पर्ययुक्तेश्च नेच्छामात्रं निषिद्ध्यते।
यदीश्वरस्य इच्छा न स्यात्, तदा तस्मिन् सर्ववेदानां महातात्पर्यं न स्यदिति बाधकसद्भावात्। इच्छा निष्प्रयोजनेति चेत्, स्यादेवं यदि प्रयोजनमनुरुद्ध्य कल्प्यते। अन्यतः सिद्धेऽर्थे किं प्रयोजनगवेषणया?
॥ भगवत इच्छाया अनङ्गीकारे बुद्धेरप्यनङ्गीकार्यत्वप्रसङ्गः॥
किञ्चैवंसति बुद्धिरपि नाङ्गीकरणीया। स्वरूपसामर्थ्येनैवेश्वरस्य कर्तृत्वोपपत्तेः। लोकवैरूप्यमिति चेत्, तत् किमुदासीनस्य बोद्धुः कर्तृत्वमुपलब्धं लोके, येनानिच्छतोऽपि तदीश्वरस्याङ्गीक्रियते। प्रयत्नवत एव वा कर्तृत्वं भविष्यति, तस्य विषयनियमार्थं बुद्धिरेष्टव्येति, चेत्, न। बुद्धिवत् स्वतो विषयप्रवणतोपपत्तेः। तथात्वे बुद्धितो भेदो न स्यादिति चेत्, न। बुद्धित्वादिनैव तदुपपत्तेः। अन्यथा परोपाधिकविषयप्रवणत्वयोरिच्छाप्रयत्नयोरपि भेदो न स्यात्।
विषयनियमार्थमिति च कोऽर्थः? किं विषयविशेषसम्बद्धतयोत्पादार्थम्, उतोत्पन्नस्य स्थितस्यैव वा तत्सम्बन्धार्थम्, अथ तज्ज्ञानार्थम्? नाऽद्यः, अनादित्वात्। सादित्वेऽपि कारणसापेक्षतया बुद्धेरपि परतो विषयप्रवणतापत्तेः। न द्वितीयः, पौर्वापर्याभावात्। नहि प्रयत्न उत्पद्य स्थित्वा वा पश्चाद् विषयेण सम्बद्ध्यते। न तृतीयः, स्वरूपग्राहकप्रमाणेनैव तद्ग्रहणात्। बुद्धेरपि परापेक्षाप्रसङ्गाच्चेति।
॥ श्रुतीनां मोक्षार्थत्वात्, मोक्षस्य भगवत्प्रसादसाध्यत्वेन भगवत एव श्रुतिमहातात्पर्यविषयत्वात्
प्रसादस्य इच्छाविशेषत्वात्, इच्छाभावे विषयप्रयोजनाभावात् श्रुतेरप्रामाण्यप्रसङ्गः॥
महातात्पर्ययुक्तेश्चेति यदुक्तं तदसत्। यदीश्वरो नेच्छावान् स्यात्, तदा श्रुतिमहातात्पर्यविषयो न स्यादित्यत्र व्याप्त्यभावात्। इच्छारहितस्यापि धर्मादेस्तत्तच्छास्त्रमहातात्पर्यविषयत्वदर्शनात्। आपाद्यस्यानिष्टत्वाभावाच्चेत्यत उक्तं विवृणोति मोक्षार्था इति।
मोक्षार्थाः श्रुतयो यस्मात् स च तस्य प्रसादतः।
उन्निनीषतिवाक्याच्च लोकदृष्टानुसारतः॥९७॥
इच्छानिमित्तको यस्मात् तदभावे कुतः श्रुतिः।
महातात्पर्यरहिता प्रमाणत्वं गमिष्यति॥९८॥
यस्मात् कारणात् सर्वा अपि श्रुतयो मोक्षार्थाः मोक्षप्रयोजनाः, तस्मात् तदभावे परमेश्वरस्येच्छाभावे, तत एव मोक्षार्थताभावे श्रुतिस्तत्र महातात्पर्यरहिता स्यात्। तथाच कथं प्रमाणत्वं गमिष्यतीति योजना। मोक्षार्थत्वे किमीश्वरस्येच्छयेत्यत उक्तम् स चेति। स च मोक्षस्तस्य ईश्वरस्य प्रसादतो यस्मात्, तस्मात् तदभाव इति सम्बन्धः।
तथाऽपीश्वरस्य प्रसादेन भाव्यं किमिच्छयेत्यतः प्रसादत इत्येतद् व्याख्यातम् इच्छानिमित्तक इति। ईश्वरज्ञानादेव मोक्षसिद्धेः किं तत्प्रसादेनेत्यत उक्तम् लोकेति। विमतो बन्धमोक्षः प्रभुप्रसादसाध्यः, मोक्षत्वात्; शृङ्खलामोक्षवदित्यादिलोकदृष्टव्याप्त्युपेतानुमानानुसारतः इत्यर्थः।
न केवलमनुमानात् किन्त्वागमादपीत्युक्तम् उन्निनीषतीति। “एष ह्येव साधुकर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते” इति वाक्याच्च। अत्र कर्मेत्युपलक्षणम्। उन्नितीषते ऊर्ध्वं नेतुमिच्छति।
यद्वा प्रसादशब्देनेच्छोच्यते इत्यत्र इदं वाक्यं ज्ञापकम्। लोकदृष्टानुसारत इत्येतदप्यस्यैवार्थस्य ज्ञापकमुक्तम्। श्रुतय इत्युपक्रम्य श्रुतिरित्येकवचनं कैमुत्यार्थम्। एकमपि वाक्यं न तत्र महातात्पर्यवत् स्यात्, किमुत सर्वाः श्रुतय इति।
एतदुक्तं भवति शास्त्रं हि साध्यसाधनभाववद्विषयप्रयोजनवत्तया व्याप्तम्। तत्र श्रुतीनां मोक्ष एव प्रयोजनम्। “तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते” इति वचनात्। मोक्षादन्यत्राऽत्यन्तिकदुःखप्रहाणायोगात्। स्वर्गादिप्रयोजनं भवदप्यवान्तरमेव, न प्रधानम्। विषयस्तु परमेश्वर एव। “सर्वे वेदा यत् पदमामनन्ति” इत्यादिवचनात्। धर्मादिकं त्ववान्तरप्रतिपाद्यम्। अभिप्रेतप्रयोजनसाधनं च विषयतामश्नुते। नच धर्मादिकं मोक्षसाधम्। “पुण्यचितो लोकः क्षीयते” इति श्रुतेः। अतो भगवत्येव मोक्षसाधनत्वात् सर्वश्रुतीनां महातात्पर्यम्। नचाव्यापृतात् साधनात् फलसिद्धिः। व्यापारश्च प्रसाद एव, नतु श्रुतिजनितं तज्ज्ञानं साक्षात्कारो वा। “यस्य प्रसादात्” इत्यादिवाक्यादुक्तानुमानाच्च। ज्ञानं तु प्रसादसाधनमिति न सम्बन्धानुपपत्तिः। प्रसादो नामेच्छाविशेषः। तथासति “उन्निनीषते”, “तदिच्छया यतो ह्यस्य बन्धमोक्षौ प्रतिष्ठितौ” इत्यादिश्रुतिभिः “यस्य प्रसादात्” इति श्रुतेरैकार्थ्यलाभात्। प्रसन्नोऽस्मीति प्रतीतौ परोपचिकीर्षाया एव स्फुरणात्। तथाच यदीश्वरो नेच्छावान्, तदा न प्रसीदेत्, घटवत्। सामान्याभावे विशेषाभावनियमात्। प्रसादरहितश्च न मोक्षसाधनं स्यात्। यद् यत्र विवक्षितावान्तरव्यापाररहितं न तत् तत्र साधनमिति व्याप्तेः। मोक्षं प्रत्यसाधनं च न मोक्षशास्त्रमहातात्पर्यविषयः स्यात्। तथाच मोक्षप्रयोजनता श्रुतीनां हीयेत। नच विषयान्तरं प्रयोजनान्तरं चास्तीति विषयप्रयोजनशून्यत्वादप्रामाण्यमेवाऽपद्येत। नच तदपौरुषेयतयाऽनाशङ्कितदोषस्य वाक्यस्योपपद्यते। अतोऽवश्यमुक्तेन क्रमेणेच्छावत्त्वं भगवतोऽङ्गीकरणीयमिति।
॥ फलवत्त्वप्रामाण्ययोर्व्याप्त्यभावेऽपि आगमप्रामाण्यस्य फलवत्त्वव्याप्तत्वात् सुस्थोऽतिप्रसङ्गः॥
ननु विषयाभावे स्यादप्रामाण्यम्। फलाभावे तु कथमप्रामाण्यापादनम्? नहि फलवत्त्वं प्रामाण्यम्, किन्तु याथार्थ्यमेवेत्युक्तम्। (४९४) नापि प्रामाण्यस्य व्यापकम्, तृणादिदर्शनस्य प्रयोजनाभावेऽपि प्रामाण्याभ्युपगमादित्यत आह याथार्थ्यमेवेति।
याथार्थ्यमेव मानत्वमपि वाक्यं प्रयोजकम्।
मानत्वमेति................................॥९९॥
यद्यपि याथार्थ्यमेव मानत्वम्, न फलवत्त्वम्। नापि तेन व्याप्तम्। तथाऽपि वाक्यं प्रयोजकमेव मानत्वमेतीति युक्तमापादनम्।
एतदुक्तं भवति प्रामाण्यमात्रस्य प्रयोजनवत्त्वेन व्याप्त्यभावेऽपि तद्विशेषस्य वाक्यप्रामाण्यस्य अस्त्येव। पदानामिष्टसाधन एव गृहीतसङ्गतिकत्वात्। पदसङ्गतिग्रहणसव्यपेक्षस्यैव वाक्यस्य बोधकत्वात्। फलस्य विषयविशेषे वाक्यप्रामाण्यनिर्णयहेतुत्वाच्च। अतो व्यापकाभावे व्याप्यवाक्यप्रामाण्याभावापादनमुपपन्नमेवेति।
॥ अवान्तरविषयप्रयोजनवत्त्वं नाऽगमप्रामाण्ये प्रयोजकम्॥
ननुच महातात्पर्यगोचरस्य विषयस्य परमप्रयोजनस्य चाभावेऽप्यवान्तरविषयेण धर्मादिनाऽप्रधानप्रयोजनेन च स्वर्गादिना विषयप्रयोजनवती श्रुतिः प्रमाणं भविष्यतीत्यत आह तत्रापीति।
.......... तत्रापि यत् सम्पूर्णप्रयोजनम्॥९९॥
वाक्येऽपि। निर्धारणे सप्तमी। प्रयोजनवत्त्वेऽपीति वा। यद् वाक्यं सम्पूर्णप्रयोजनं महाप्रयोजनम्। उपलक्षणं चैतत्। प्रधानविषयं चेत्यपि द्रष्टव्यम्। यदिति श्रवणत्, तदिति लभ्यते। सम्पूर्णप्रयोजनमिति चाऽवर्तनीयम्। मानत्वमेतीत्यनुवर्तनीयम्।
तथाचायमर्थः नावान्तरविषयप्रयोजनाभ्यां वाक्यस्य प्रामाण्यं सम्भवति। किन्नाम। यद् वाक्यं यन्महत् प्रयोजनमुद्दिश्य यं प्रधानं विषयं प्रतिपादयितुं प्रवृत्तम्, तत् ताभ्यामेव प्रयोजनविषयाभ्यामुपेतं प्रामाण्यमश्नुते। तदभावेऽवान्तरप्रयोजनादेरप्यसिद्धेः। सिद्धौ वा तस्यैव प्राधान्यप्राप्तेः। वेदवाक्यं च मोक्षोद्देशेन परमेश्वरे महातात्पर्योपेतमित्युक्तम्। तत् तयोरेव विषयप्रयोजनयोरुपपत्तौ प्रमाणं स्यात्, नान्यथेति॥*॥ इति नप्रयजनाधिकरणम्॥९॥
अथ वैषम्यनैर्घृण्याधिकरणम्॥१०॥
॥ कर्मनिरपेक्षस्य भगवतः फलदातृत्वे स्वातन्त्र्यभङ्गः, तन्निरपेक्षत्वे वैषम्यनैर्घृण्यप्रसङ्गः॥
वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथाहि दर्शयति। प्राणिनां विविधान् देहेन्द्रियादिविषयान् तत्फलं च सुखदुःखलक्षणमुत्पादयन्नीश्वरः किं तदीयं धर्माधर्मरूपं कर्मापेक्षते, नवा? आद्ये तस्य स्वातन्त्र्यप्रच्युतिः। द्वितीये निर्निमित्तं कांश्चित् सुखयन् विषमः स्यात्, कांश्चिद् दुःखयन् निर्घृणः स्यादित्युभयथा न तस्य सर्वकर्तृत्वमित्येष पूर्वपक्षोऽत्राधिकरणे निराक्रियते।
तत्र तावदाद्येन सूत्रेण कर्मादिसापेक्षस्य कर्तृत्वमभ्युपेत्य वैषम्यनैर्घृण्ये परिहृते। अपेक्षणीयं कर्मादि ईश्वरायत्तं, नवा? नेति पक्षे सर्वकारणत्वहनिः। आद्ये निर्निमित्तं विषमाणां कर्मणां कारयितुर्वैषम्यनैर्घृण्ये स्यातामित्याक्षिप्य कर्मादीनामनादित्वाभ्युपगमेन समाधानमुक्तम् “न कर्माविभागादिति चेन्नानादित्वात्” इति सूत्रेण। एवन्तर्हि कर्मादिसापेक्षस्य स्वातन्त्र्यं न स्यादित्याशयोक्तम् “उपपद्यते च” इति। कर्माद्यपेक्षस्यापि तस्य स्वातन्त्र्यमुपपद्यते। कर्मादिसत्तादेरपि तदधीनत्वस्याऽरम्भणाधिकरणे समर्थितत्वात्। (५७९) नहि स्वाधीनसत्तादिकमपेक्षमाणस्य स्वातन्त्र्यप्रच्युतिर्युक्तेति।
॥ कर्मनिरपेक्षत्वाक्षिप्तवैषम्यनैर्घृण्ययोर्वेदाप्रामाण्यहेतुत्वाद् दोषत्वम्,
स्वाधीनसत्तादिकर्मसापेक्षत्वाक्षिप्तवैषम्यनेर्घृण्ययोरदोषत्वम्॥
एवन्तर्हि तदपेक्षा नामानपेक्षैव। तथाच पुनर्वैषम्याद्यापत्तिरित्याशयोक्तम् “उपलभ्यते च” इति। उपलभ्यते हीश्वरस्येदृशं वैषम्यं निर्घृणत्वं च प्रमाणैः। अतो नेदमनिष्टमिति। तदिदमयुक्तम्। वैषम्यनैर्घृण्ये हि वस्तुतो दूषणे, नवा? आद्ये कथमन्ततोऽप्यङ्गीक्रियेते? द्वितीये प्रथममेवाङ्गीकार्ये, किं सापेक्षतापक्षं कक्षीकृत्य तत्र दूषणपरिहारक्लेशेन? तथाच बकबन्धरीतिरित्यतोऽभिप्रायमाह वैषम्यमिति।
ॐ वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथाहि दर्शयति ॐ॥३५॥
वैषम्यं चैव नैर्घृण्यं वेदाप्रामाण्यकारणम्।
नाङ्गीकार्यमतोऽन्यत्तु न वैषम्यादिनामकम्॥१००॥
द्विविधं खल्विदं वैषम्यं निर्घृणत्वं च। एकं कर्माद्यानपेक्षताप्रयुक्तम्, अपरं तु सापेक्षत्वेऽपि कर्मादिसत्तादेरपीश्वराधीनत्वप्रयुक्तम्। तत्राऽद्यं वेदाप्रामाण्यकारणत्वेन दूषणत्वान्नेश्वरस्याङ्गीकर्तुमुचितम्। वेदो हि धर्मं सुखसाधनम्, अधर्मं च दुःखसाधनमाह। तत्र यदीश्वरो धर्माधर्मावनपेक्ष्य विषमो निर्घृणश्च स्यात्, तदा वेदोदितं धर्माधर्मयोः सुखदुःखसाधनत्वमसत् स्यात्। तथाच तस्य कथं प्रामाण्यं स्यात्? अतः सूत्रकारेण कर्मादिसापेक्षतापक्षमुररीकृत्य तत् परिहृतम्। अतोऽन्यत्तु द्वितीयं वैषम्यं नैर्घृण्यं च न वैषम्यादिनामकं दूषणरूपं न भवतीति यावत्।
तथाहि वैषम्यादिकं तावन्न स्वरूपेण दोषः, किन्तु दोषहेतुतया। नचेदं वेदाप्रामाण्यकारणम्। कर्मादिसापेक्षत्वाङ्गीकारात्। नापि जीवानामिवेश्वरस्य प्रत्यवायहेतुः। तदभावात्। अतोऽदूषणत्वादङ्गीकृतं सूत्रकृतेति न कश्चिद् दोषः। तथाच भाष्यम् “नच पुनर्वैषम्याद्यापातेन दोषः” इति॥*॥ इति वैषम्यनैघृण्याधिकरणम्॥१०॥
अथ सर्वधर्मोपपत्त्यधिकरणम्॥११॥
॥ भगवतः सर्वगुणपूर्णत्वस्य सर्वदोषदूरत्वस्य च साधनम्॥
सर्वधर्मोपपत्तेश्च। सर्वे चेतना अपूर्णगुणा दोषिणश्च दृष्टाः, तद्दृष्टान्तेन चेतनत्वादीश्वरस्यापि समासव्यासाभ्याामपरिपूर्णगुणत्वम्, दोषित्वं च स्यादिति पूर्वपक्षोऽत्राधिकरणे निरस्यते। तदिदमस्पष्टं भाष्ये। चशब्दसमुच्चितायाः श्रुतेरेवोदाहृतत्वात्। युक्तेरव्युत्पादनात्। ततः स्पष्टं व्याचष्टे यदधीना इति।
ॐ सर्वधर्मोपपत्तेश्च ॐ॥३८॥
यदधीना गुणाश्चैव दोषा अपि हि सर्वशः।
गुणास्तस्य कथं न स्युः स्युर्दोषाश्च कथं पुनः॥१०१॥
सर्वधर्मोपपत्तेस्तद् वाक्यैरपि हि तादृशैः।
निर्दोषाशेषगुणको निर्णीतो भगवान् हरिः॥१०२॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य प्रथमः पादः।
चापिशब्दावन्योन्यसमुच्चये। एवशब्दस्य यदधीना एवेत्यन्वयः। हिशब्दः सर्वस्य भगवदधीनतायां श्रुत्यादिप्रसिद्धिं द्योतयति। कथमित्याक्षेपे। द्वेधा हि वस्तु न प्राप्यते, तत्र स्वातन्त्र्याभावाद् वा, प्रेप्साभावाद् वा। द्वेधा च न हीयते, स्वातन्त्र्याभावाद् वा, जिहासाभावाद् वा। अस्ति तावदीश्वरस्य सर्वत्र स्वातन्त्र्यम्, अस्ति च मया सर्वदाऽऽनन्दादिगुणवता दुःखादिदोषवर्जितेन भाव्यमितीच्छा, प्रेक्षावत्त्वात्। अतः कथं तस्याऽनन्दादिगुणपूर्णत्वं दुःखादिसर्वदोषदूरत्वं न भवति?
अत्रैते प्रयोगाः ईश्वरः सकलगुणपूर्णः सर्वदोषदूरश्च, स्वतन्त्रत्वात्; व्यतिरेकेण यज्ञदत्तवत्। ईश्वरो विप्रतिपन्नगुणवान्, तत्र प्रेप्सावत्त्वे सति स्वतन्त्रत्वात्; यो यत्र प्रेप्सावत्त्वे सति स्वतन्त्रः स तद्वान्, यथा सम्प्रतिपन्नः। ईश्वरो न विमतदोषवान्, तज्जिहासुत्वे सति स्वतन्त्रत्वात्; यो यत्र जिहासावत्त्वे सति स्वतन्त्रः, स तदभाववान्, यथा सम्मत इति।
तत् एवमुक्तप्रकारेण सर्वेषां धर्माणां गुणानां दोषाभावानां च सम्बन्धिन्याः तत्प्रतिपादिकाया उपपत्तेः तादृशैः सर्वगुणपूर्त्यादेरुपपादकैः। हिशब्दस्तेषां “गुणाः श्रुताः” इत्यादीनां प्रसिद्धतां सूचयति। तदनेन स्वपक्षे प्रमाणमभिदधतैव परकीययुक्तीनां कालात्ययापदिष्टत्वं स्वातन्त्र्याभावोपाधिदुष्टत्वं चोक्तं भवतीति॥*॥ इति सर्वधर्मोपपत्त्यधिकरणम्॥११॥
इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते
रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना।
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ
द्वितीयाध्यायस्य प्रथमचरणः पर्यवसितः॥*॥
इति श्रीमद्ब्रह्मसूत्रानुव्याख्यानटीकायां
श्रीजयतीर्थमुनिविरचितायां श्रीमन्न्यायसुधायां
द्वितीयाध्यायस्य प्रथमः पादः।