सामग्री पर जाएँ

न्यायसुधा (जयतीर्थकृता)/द्वितीयाध्यायस्य तृतीयः पादः

विकिस्रोतः तः


ॐ तत् सत्
न्यायसुधा
॥ पादप्रतिपाद्यार्थः, सङ्गतिश्च॥
“न वियदश्रुतेः” इत्यादि पादप्रतिपाद्यं ससङ्गतिकं दर्शयति अथेति।
अनुव्याख्यानम्
अथाशेषसमाम्नायविरोधापाकृतिं प्रभुः।
करिष्यन्नधिदैवाधिभूतजीवपरात्मनाम्॥१॥
स्वरूपनिर्णयायैव वचनानां परस्परम्।
पादेनानेनाविरोधं दर्शयत्यमितद्युतिः॥२॥
प्रभुः सूत्रकारः। अनेन व्याचिख्यासिततया बुद्धिसन्निहितेन तृतीयेन पादेन वैदिकानां वचनानां परस्परमविरोधं विरोधाभावं दर्शयतीति प्रतिपाद्यकथनम्। अस्यान्तर्भावलक्षणां सङ्गतिं दर्शयितुमुक्तम् अशेषेति। अशेषाश्च ते समाम्नायविरोधाश्चेति विग्रहः। करिष्यन्नित्यध्यायोपक्रमसमयापेक्षया। सूत्रकृता खलु सर्वानपि वेदविरोधान् परिहर्तुं द्वितीयोऽयमध्याय आरब्धः। वैदिकानां वचनानां परस्परविरोधोऽपि तदन्तर्भूत एवेत्यतस्तदपाकरणमिह सङ्गतमेवेति। आनन्तर्यलक्षणां सङ्गतिं दर्शयितुमथेत्युक्तम्। अवसरप्राप्तौ प्राधान्याद्युक्तिविरोधपरिहारस्य प्राथम्ये तत्प्रपञ्चात्मकत्वेन समयविरोधपरिहारस्य तदानन्तर्ये सति श्रुतीनां परस्परविरोधपरिहारस्य भवत्ययमवसर इति।
नन्वेवन्तर्ह्यस्य पादस्य चतुर्थपादाद् भेदो न स्यात्। तत्रापि वेदवचसां परस्परविरोधस्य अपाक्रियमाणत्वादित्यत उक्तम् अधिदैवेति। अधिदैवानि अव्यक्ताद्यभिमानिदेवताः। अधिभूतानि कार्यकारणोपेतानि वियदादिभूतानि।
इदमुक्तं भवति यद्यपि पादद्वये वेदवाक्यानां परस्परविरोध एव निरस्यते, तथाऽपि विषयभेदाद् भेदो भविष्यति। इहाधिदैवादिविषयवाक्यानाम्, चतुर्थे त्वध्यात्मविषयाणामिति। नचैवमस्य पादस्य अनेकविषयत्वेनानेकत्वापत्तिः। अध्यात्मेतरविषयत्वेनैकत्वोपपत्तेरिति। अत्रापि क्रमनियमे हेतुमाचार्य एव वक्ष्यति। (१०६४)
॥ श्रुतिविरोधपरिहारस्य प्रयोजनम्॥
ननुच वेदवाक्यानां परस्परविरोधपरिहारः किमर्थः? मिथो विरुद्धानां प्रामाण्यानिश्चयात् तत्प्रामाण्यनिश्चयार्थ इति चेत्, न। एवंसत्यस्य तर्कशास्त्रत्वप्रसङ्गेन मीमांसात्वव्याघातादिति। उच्यते ब्रह्मणोऽशेषजगत्कारणत्वनिश्चयो ह्यशेषजगत्स्वरूपनिर्णये तस्य कार्यत्वादिनिर्णये च सति स्यात्, नान्यथा। नच तद्विषयाणां वाक्यानां मिथो व्याघाते तत्स्वरूपनिर्णयो भवति। अतोऽधिदैवादिवस्तुतत्वावधारणार्थ एवायं मिथो विरोधपरिहारः। तदिदमप्युक्तम् स्वरूपनिर्णयायैवेति।
ननु किं कतिपयवचनानामन्योन्यविरोधः परिह्रियते, उत सर्वेषाम्? नाऽद्यः, वैयर्थ्यात्। तत्रैव वचनान्तरविरोधसद्भावेनानिर्णयतादवस्थ्यात्। न द्वितीयः, वेदवाक्यानामनन्तत्वेन ज्ञातुमशक्यत्वादित्यत उक्तम् अमितद्युतिरिति। सर्वज्ञ इत्यर्थः।
॥ द्वितीयाध्यायतृतीयपादाधिकरणानां पूर्वपक्षसिद्धान्तयुक्तयः॥
एतत्पादाधिकरणपूर्वपक्षसिद्धान्तयुक्तीः सङ्गृह्याऽह अनुभूतीति।
अनुभूतियुक्तिबहुवाग्वैलोम्यं च ततोऽधिकम्।
एतत् सर्वं सतः साम्यं द्वारवैयर्थ्यमेव च॥३॥
दृष्टयुक्त्यनुसारित्वमुक्तान्यार्थाविरोधतः।
प्रसिद्धनामस्वीकारो बहुवाक्यानुवर्तिता॥४॥
लोकदृष्टानुसारित्वं जीवसाम्यमनादिता।
तत्रतत्र परिज्ञानं गुणसाम्यश्रुती तथा॥५॥
उत्पत्तिमत्त्वं स्वगुणाननुभूत्यल्पकल्पने।
नानाश्रुतिश्च वैचित्र्यं युक्तयः पूर्वपक्षगाः॥६॥
व्यवस्थाऽनुपपत्तिश्च स्वातन्त्र्यमनुसारिता।
मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः॥७॥
गत्यादिरीशशक्तिश्च सर्वमानविरोधिता।
अभीष्टासिद्धिसुव्यक्ती शास्त्रसिद्धिर्विपर्ययः।
विशेषकारणं चेति सिद्धान्तस्यैव साधिकाः॥८॥
अथ वियदधिकरणम्॥१॥
॥ सौत्रवियत्पदस्य प्रकृत्याद्युपलक्षणपरत्वम्॥
न वियदश्रुतेः। अत्राधिकरणे “अनादिर्वाऽयमाकाशः” इत्यादिश्रुतीनां गौणत्वम्, “आत्मन आकाशः सम्भूतः” इत्यादिश्रुतीनां मुख्यत्वमुपादाय वियत उत्पत्तिः समर्थिता। तत्र वियत्पदं नाऽकाशमात्रपरम्। किन्नाम। “अथ ह वाव नित्यानि पुरुषः प्रकृतिरात्मा कालः” इत्यादिश्रुतिविगानविषयाणां परमात्मातिरिक्तानां प्रकृत्यादीनामुपलक्षणार्थं ज्ञातव्यमित्याशयवानाह प्रकृतिरिति।
ॐ न वियदश्रुतेः ॐ॥१॥
प्रकृतिः पुरुषः कालो वेदास्तदभिमानिनः।
महदाद्याश्च जायन्ते ....................।
प्रकृतिः अचेतना। पुरुषो जीवः। तदभिमानिनः प्रकृत्याद्यभिमानिनः। महदाद्या इति महदहङ्कारमनोबुद्धीन्द्रियभूतसूक्ष्मतन्मात्राण्युच्यन्ते। प्रकृतस्योत्पत्त्यसम्भवस्य नेति प्रतिषेधे लब्धमर्थमाह जायन्त इति।
अयमभिसन्धिः न तावत् प्रकृत्यादयो जन्मरहिता एवाभ्युपगता इति युक्तम्। “प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः”,”यावद्विकारं तु विभागो लोकवत्” इत्युक्तानां प्रतिज्ञाहान्यादीनामत्रापि साम्यात्। अन्यथा तेषामनैकान्तिकत्वापातात्। नाप्यविगीतजन्मानः। श्रुतिविगानस्य दर्शितत्वात्। नचाधिकरणान्तरं तत्परमस्ति। तस्मादत्रैव वियत्पदेन तेषामुपलक्षणं युक्तम्। मातरिश्वप्रभृतिषु पुनरधिकाशङ्कानिरासायाधिकरणान्तरारम्भ इति।
॥ आकाशादिसृष्टेः पराधीनविशेषावाप्तिरूपत्वम्॥
इहाऽकाशस्योक्तं जन्म घटादेरिवाभूत्वाभवनलक्षणमिति केचिदास्थिताः। तन्निराकरिष्यन् स्वमतं तावदाह पराधीनेति।
..................पराधीनविशेषिता।
इदं सर्वं ससर्जेति जनिमत्त्वमिहोदितम्॥९॥
“आत्मन आकाशः सम्भूतः”, “इदं सर्वमसृजत” इत्यादिश्रुतिं विभक्तत्वादियुक्तिं चाऽश्रित्य यदिहाधिकरणे वियतो जनिमत्त्वमुदितम्, तत् पराधीनातिशयलाभलक्षणं प्रतिपत्तव्यम्। अपूर्वविशेषोपजनने हि विशिष्टाकारोपजनोऽवश्यम्भावी। विशिष्टाकारश्च वस्तुस्वरूपाभिन्न इति तस्यैव असावुपजनो भवति। देवदत्तः शरीरी जातः, विद्वान् जात इति, घटः संयुक्तो जातः, विभक्तो जात इति चावस्थितस्वरूप एव वस्तुनि विशेषावाप्तिमात्रेण जननव्यवहारो दृश्यत एव।
ननु परिणामवादे घटादेरप्येषैवोत्पत्तिर्यदवस्थितस्वरूपस्यैव मृदादेरप्याकारान्तरतापत्तिः। परैरपि परिणामवाद एवाङ्गीकृतो नाऽरम्भवादः। अतो विवादाभावाद् व्यर्थोऽयमारम्भः। यथा न व्यर्थः, तथाऽऽचार्य एव विवादविषयं स्पष्टयिष्यति। (८६३)
अत्र “इदं सर्वं ससर्ज” इति श्रुत्युदाहरणं श्रुत्यादावप्येवमेव जन्म व्याख्येयमिति ज्ञापनार्थम्। यच्च वियत्पदं प्रकृत्याद्युपलक्षणपरमित्यभिप्रेतं तत्रोक्तरीत्योपपत्तिसूचनार्थं चेति।
॥ अव्याकृताकाशस्य अभूत्वाभवनरूपजन्मनिरासः॥
परोक्तरीत्या घटादिवदभूत्वाभवनलक्षणैवोत्पत्तिर्वियतः श्रुतिसूत्रविवक्षिता किं न स्यादिति चेत्, अत्र पृच्छामः आकाशशब्देन किं विवक्षितम्? परेषां वैशेषिकादिवदवकाशमात्रम्, उत बाह्यानामिव मूर्ताभावः? आद्यं दूषयति अवकाशमात्रमिति।
अवकाशमात्रमाकाशः कथमुत्पद्यतेऽन्यथा।
अन्यथा पराधीनविशेषाप्तिर्जन्मेत्यनङ्गीकृत्याभूत्वाभवनं जन्मेत्यङ्गीकारेऽवकाशमात्रमाकाश इति चाङ्गीकारे कथमसावुत्पद्यते? तस्योत्पत्तिर्नोपपद्यत इति यावत्। सोपादाना हि सर्वा सृष्टिर्दृष्टा। नचाऽकाशोत्पत्तावुपादानमस्ति। नच ब्रह्मण उपादानत्वमुपपद्यत इति प्रकृत्यधिकरणे निष्टङ्कितम्। (३८७) यस्य चोत्पत्तिः, तस्य प्रागभावेन भाव्यम्। नचाऽकाशस्य प्रागभावः सम्भवति। अनुपपन्नप्रतीतिकत्वात्। अभावो हि प्रतीयमानोऽस्यात्रेति प्रतीयते, नतु निराश्रयः। नचाऽकाशाभावस्याऽश्रयप्रतीतिरुपपद्यते। यदेवेहेति निर्दिश्यते तस्यैवाऽकाशत्वात्। उपादानाश्रिताभाववादेऽपि तदभावान्नाभावप्रतीत्युपपत्तिः। तथाच श्रुतिः “अभावो हि प्रदेशस्य नह्यत्राभाव इत्यपि” इति। अनवकाशरूपं ब्रह्मैवाऽकाशस्य पूर्वावस्था प्रागभावश्र्चोच्यत इत्यपि ब्रह्मणोऽनुपादानत्वेन प्रत्युक्तम्। प्रतियोग्याश्रय एवाभावाश्रयः। नचाऽकाशस्याऽश्रयोऽस्तीति तदभावोऽपि निराश्रयोऽस्त्विति चेत्, न। निराश्रयत्वे कार्यत्वानुपपत्तेः। किञ्च प्रतीतावाकाशः स्वाश्रय इत्यतस्तदभावोऽप्याकाशाश्रयः प्रतीयेतेति विरुद्धमापद्यते।
प्रकृतिराकाशस्य कारणमिति कश्चित्। तन्मते प्रकृतेरजन्मप्रसङ्गः। अथ तत्र पराधीनविशेषावाप्तिर्जन्माङ्गीक्रियते, तदाऽसम्भावितोत्पत्तिके वियदादावप्येवमेवाङ्गीकरणीयमिति।
॥ मूर्ताभावलक्षणाकाशस्य सृष्ट्यङ्गीकारे प्राक् सृष्टेः जगतो मूर्तनिबिडताप्रसङ्गः॥
द्वितीयेऽपि किं प्रदेशरूपमाकाशमङ्गीकृत्येदमुच्यते, उतानङ्गीकृत्य? प्रथमे यस्यकस्यचिन्मूर्तद्रव्याभावस्योत्पत्तिर्वा सर्वस्य वा विवक्षिता? नाऽद्यः, तस्याः प्रत्यक्षादिसिद्धत्वेनाधिकरणानारम्भकत्वात्। द्वितीयं दूषयति यदीति।
यद्यनाकाशता पूर्वं किं मूर्तनिबिडं जगत्॥१०॥
मूर्तसम्पूर्णता चैव यद्यनाकाशता भवेत्।
सर्वस्यापि मूर्ताभावस्य सृष्टावुत्पत्त्यङ्गीकारे प्रलयेऽवश्यं तदभावोऽभ्युपगन्तव्यः स्यात्। अत्यन्तसतो जन्मासम्भवात्। यदिच सृष्टेः पूर्वं प्रलयेऽनाकाशता सर्वस्य मूर्तद्रव्याभावस्याभावः अङ्गीक्रियते, तर्हि किं तदा मूर्तनिबिडं जगदङ्गीक्रियते?
एतदेव स्पष्टयति मूर्तेति। यद्युक्तलक्षणाकाशाभावः प्रलये भवेत्, तदा मूर्तसम्पूर्णता भवेदेव। अभावाभावस्य भावानतिरेकात्। तद्व्याप्तत्वाद् वा। चशब्दोऽनुक्तसमुच्चयार्थः। सृष्ट्युत्तरकालं मूर्तमात्रं च न स्यात्। एवञ्च सर्गप्रलयविपरिवर्तः स्यात्। अधिका च प्रलये मूर्तसम्पूर्तेरापत्तिः।
॥ अव्याकृताकाशानङ्गीकारे बाधकोक्तिः, तत्सद्भावसमर्थनं च॥
मूर्तद्रव्याभाव एवाऽकाशो न ततोऽतिरिक्तोऽस्तीति द्वितीयं निराकरोति मूर्तद्रव्याणीति।
मूर्तद्रव्याणि चाऽकाशे स्थितान्येव हि सर्वदा॥११॥
तदभावश्चेति चार्थः। यो मूर्तद्रव्याणि तदभावांश्चाङ्गीकरोति, तेनावश्यं तदतिरिक्ताकाशोऽङ्गीकर्तव्य एव, यस्मात् तानि सर्वदाऽऽकाशे स्थितानि तेनेति योजना।
इदमुक्तं भवति एकस्मिन् पतत्रिणि पतति द्वितीयेन पतत्रिणा कुत्र पतितव्यमिति वाच्यम्। यत्रासौ नास्ति तत्रेति चेत्, तर्हि येनाधिकरणेनैकस्य पतत्रिणोऽभावः परस्य च भावो विशिष्यते तदर्थान्तरमङ्गीकरणीयम्। स एव प्रदेशरूप आकाश इति कथं तदनभ्युपगमः? किञ्च “इह पक्षी’ “नेह पक्षी’ इति मूर्ततदभावाश्रयतया प्रदेशः साक्षिसिद्धः कथमपह्नोतुं शक्यते?
अपिच किं मूर्तद्रव्यस्य प्रागभाव आकाशः, किंवा प्रध्वंसः, यद्वाऽत्यन्ताभावः, अथवाऽन्योन्याभावः? न प्रथमद्वितीयौ। सृष्ट्युत्तरकाले निराकाशत्वप्रसङ्गात्। प्रागभावप्रध्वंसाभावयोरुपादाननिष्ठत्वेन तत्राऽकाशबुद्धेः, अन्यत्र तदभावस्य चाऽपत्तेः। न तृतीयः, क्वचित् कदाचिन्मूर्तसद्भावे तदत्यन्ताभावानुपपत्तेः। न चतुर्थः, घटान्योन्याभावो हि पटस्तन्निष्ठो वेति तत्राऽकाशबुद्धिप्रसङ्गात्। मूर्तद्रव्यसंसर्गाभावमात्रमाकाश इति चेत्, तर्हि उत्पततः पतत्रिणः केन संसर्गो येन तदभावस्याऽकाशत्वं स्यादित्यवश्याश्रयणीयः प्रदेश इति। तदेवमाकाशस्याभूत्वाभवनरूपोत्पत्तिरयुक्तेति सिद्धम्।
॥ भूताकाशस्याभूत्वाभवनरूपोत्पत्तिः,
अव्याकृताकाशस्य तदभिमानिनश्च पराधीनविशेषावाप्तिरूपोत्पत्तिः॥
अस्त्वेवं परकृतमपव्याख्यानम्। कस्तर्ह्याकाशशब्दार्थः? का च तस्य पराधीनविशेषाप्तिरित्यत आह अत इति।
अत आकाशशब्दोक्तस्तद्देवोऽत्र विनायकः।
देहोत्पत्त्या समुत्पन्न इति श्रुत्याऽभिधीयते॥१२॥
भूतमप्यसितं दिव्यदृष्टिगोचरमेव तु।
उत्पद्यतेऽव्याकृतं हि गगनं साक्षिगोचरम्।
प्रदेश इति विज्ञेयं नित्यं नोत्पद्यते हि तत्॥१३॥
परकीयव्याख्यानस्यायुक्तत्वादित्यर्थः। तद्देवो भूताकाशाभिमानीति विनायकस्याऽकाशशब्दवाच्यत्वोपपादनम्। अत्र “आत्मन आकाशः” इत्यादिश्रुतौ। देहोत्पत्त्येति पराधीनविशेषाप्तेर्विवरणम्। वाक्यद्वयमेतदित्यतोऽत्रेति श्रुत्येति च युज्यते।
श्रुतेर्विषयान्तरं चाऽह भूतमपीति। भूतमप्याकाशशब्दोक्तं तच्च घटादिवदुत्पद्यत इति श्रुत्या अभिधीयत इति सम्बन्धः। कुतो भूताकाशस्योत्पत्तिमत्त्वमित्यत उक्तम् असितमिति। रूपित्वादित्यर्थः। तथाच श्रुतिः “आकाशो नीलिमोदेति” इति। तथासति चाक्षुषत्वप्रसङ्ग इत्यत उक्तम्दिव्येति। तुशब्देनानुद्भूतत्वविशेषं सूचयति।
इदमुक्तं भवति किं चाक्षुषत्वमात्रमापाद्यम्, उतास्मदादीन् प्रति? आद्ये त्विष्टापादनम्। दिव्यदृष्टिगोचरत्वाभ्युपगमात्। द्वितीये तु भूतादिशरीरेषु व्याप्तिभङ्गः। तत्रानुद्भूतादिकल्पनेऽत्रापि तत् समानम्, श्रुतिप्रामाण्यादिति।
नन्वाकाशस्याभूत्वाभवनलक्षणामुत्पत्तिमधुनैव निराकृत्यात्र पुनस्तदङ्गीकारे कथं पूर्वोत्तरव्याघातो न भवेदित्यत आह अव्याकृतमिति। यतोऽव्याकृतमेव गगनं नोत्पद्यत इत्युक्तम्, नतु भूतम्, अतो न विरोधः। तस्यानुत्पत्तौ हेत्वन्तरमप्याह नित्यं हि तदिति। नचैतदसिद्धम्। विनाशकारणाभावात्। नहि कारणान्तरमनपेक्ष्येश्वरेच्छा विनाशहेतुर्दृष्टा। उत्पत्तिश्रुतेस्तदपि कल्पनीयमिति चेत्, न। तस्या भूततदभिमानिविषयत्वेन सावकाशत्वात्। अवश्यं चैतदेवम्। “आत्मन आकाशः सम्भूतः” इत्यादेर्भूतप्रकरणत्वात्। नन्वव्याकृताकाशे प्रमाणमेव नास्ति, कस्यानुत्पत्तिरुच्यत इत्यत उक्तम् साक्षीति। तत् कथमित्यत आह प्रदेश इति। नन्वेतदेव भूताकाशमिति चेत्, न। रूपित्वारूपित्वव्याकृतत्वाव्याकृतत्वपरिच्छिन्नत्वापरिच्छिन्नत्वश्रुतीनां सत्त्वात्। किञ्चोत्पत्त्यनुत्पत्तिश्रुत्योर्विरोधोऽप्याकाशद्वैतमवगमयति। व्यवस्थयाऽविरोधोपपत्तावनुत्पत्तिश्रुतेरौपचारिकत्वकल्पनायोगात्। नच प्रदेशस्योत्पत्तिरुपपद्यत इत्युक्तं प्राक्। (८५८) ननु सूत्रकृतैव “गौण्यसम्भवात्” इत्युक्तम्। सत्यम्। व्याख्यातं तद् भाष्यकृता। विवृतं चास्माभिः।
॥ आकाशप्रकृतिकालरमाजीवानां पराधीनविशेषावाप्तिरूपोत्पत्तौ नैकप्रकारता॥
नन्वव्याकृताकाशस्योत्पत्त्यभावे मा भूत् “आकाशः सम्भूतः” इति विरोधः। “इदं सर्वमसृजत” इत्यादिश्रुतिविरोधस्तु भविष्यतीति चेत्, न। तस्याभूत्वाभवनलक्षणोत्पत्त्यसम्भवेऽपि पराधीनविशेषाप्तिरूपोत्पत्तिसद्भावादित्याह तथाऽपीति।
तथाऽपि मूर्तसम्बन्धपरतन्त्रविशेषयुक्।
खमेवोत्पत्तिमन्नाम श्रुतिशब्दविवक्षितम्॥१४॥
प्रकृतिः पुरुषः काल इत्येते च समस्तशः।
ईशाधीनविशेषेण जन्या इत्येव शब्दिताः।
कालप्रवाह एवैको नित्यो नतु विशेषवान्॥१५॥
पुरुषाव्यक्तकालानां रमैवैकाऽभिमानिनी।
सिसृक्षुत्वविशेषं तत् साक्षाद् भगवदिच्छया॥१६॥
प्राप्तैव सृष्टेत्युदिता प्रधानं विकृतेरपि।
पुमांसो देहसम्बन्धात् सृष्टिमन्त इतीरिताः॥१७॥
मूर्तसम्बन्धश्चासौ परतन्त्रविशेषश्चेति विग्रहः। यदनादित्वेनोक्तं तदेव खमित्यर्थः। “इदं सर्वमसृजत” इति श्रुतिवाक्यं श्रुतिशब्दः। एवं श्रौताकाशोत्पत्तिं व्याख्यायोपलक्षितप्रकृत्याद्युत्पत्तिं व्याख्याति प्रकृतिरिति। इत्येते च एतदादयश्च। ईश्वराधीनविशेषेणैव नाभूत्वाभावित्वेनेत्यर्थः। कालस्य त्वभूत्वाभवनमप्यस्तीत्याशयेनाऽह कालेति। विशेषवान् क्षणलवादिरूपः। उपपादितं चैतत् प्रागेव। (७५९,७६०)
प्राक् परिगणितानां प्रकृत्यादीनामीश्वराधीनविशेषावाप्तिरेव जन्मेत्युक्तम्। तत्र कस्य कीदृशी विशेषावाप्तिरित्यतः प्रकृत्यादित्रयाभिमानिदेवतायाः पराधीनविशेषावाप्तिं विशदयति पुरुषेति। यस्मात् पुरुषादीनां रमाऽभिमानिनी। सा चैकैव देहदेह्यादिभेदरहिता। तत् तस्मात् साक्षाद् भगवदिच्छया सिसृक्षुत्वविशेषं प्राप्तैव सृष्टेत्युदिता। नतु विनायकाद्यभिमानिवद् देहोत्पत्तिमतीत्यर्थः। यद्यपि भगवत्या इच्छाऽपि नित्या, तथाऽपि व्यक्तिरूपस्येश्वराधीनत्वाभिप्रायेणेदमुक्तमिति ज्ञातव्यम्।
प्रकृतेः पराधीनविशेषावाप्तिं विवृणोति प्रधानमिति। प्रधानमपि विकृतेरीश्वराधीनायाः कारणात् “इदं सर्वमसृजत” इत्यादौ सृष्टमित्युदितमित्यर्थः। यथोक्तम् “विकारोऽव्यक्तजन्म हि” इति। पुरुषाणां पराधीनविशेषावाप्तिं स्पष्टयति पुमांस इति॥*॥ इति वियदधिकरणम्॥१॥
अथ मातरिश्र्वाधिकरणम्॥२॥
॥ अधिकरणविषयादिरभ्यधिकाशङ्का च॥
एतेन मातरिश्र्वा व्याख्यातः। अतीताधिकरणे वियदादिविषयाणामुत्पत्त्यनुत्पत्तिश्रुतीनां व्यवस्थया विरोधः परिहृतः। इदानीं “तेजोबन्नान्याकाश इति तान्यनित्यानि वायुर्वाव नित्यः” इति श्रुतौ व्यवस्थितनित्यत्वानित्यत्ववन्तमप्याकाशमनित्यपक्षे निक्षिप्य वायोर्नित्यत्वाभिधानादाकाशदेवताया विनायकस्येव, वायुदेवतायाः स्वरूपेण नित्यत्वम्, देहोत्पत्त्यादिना जन्मादिमत्त्वमिति व्यवस्थानुपपत्तेर्मुख्यैवानुत्पत्तिरित्यधिकाशङ्कया पूर्वपक्षिते व्यवस्थातिदेशेनैव सिद्धान्तितम्। तत्र कीदृशी वायौ श्रुतीनां व्यवस्था? ययाऽधिकाशङ्कापरिहारः स्यादित्यतस्तां दर्शयति एवमिति।
॥ वायोर्नित्यसमत्वोक्तौ निमित्तकथनम्, पराधीनविशेषावाप्तिरूपोत्पत्तिमत्त्वसमर्थनं च॥
एवं प्रलयकालेऽपि प्रतिभातपरावरः।
मुख्यवायुर्नित्यसमः शरीरोत्पत्तिकारणात्।
पराधीनविशेषेण जनिमानेव शब्दितः॥१८॥
यथा वियदनादि, जन्मवच्चोक्तमेवमित्यर्थः। प्रतिभातपरावरः शरीराभावेऽपि प्रातिभेनैव ज्ञानेन विषयीकृतातीतानागतो यतः, तस्मान्नित्यसम इति शब्दितः। शरीरोत्पत्तिकारणात्, पराधीनविशेषेण इत्येतयोर्हेतुहेतुमद्भावः। एवशब्दस्य पराधीनविशेषेणैवेत्यन्वयः। मुख्यवायुरित्यनेन भूतप्रकरणेऽपि न भूतवायुविषयमिदं सूत्रम्। तत्राधिकाशङ्काभावात्। अत एव नावान्तराभिमानिविषयम्। किन्नाम। तत्परमाभिमानिविषयमेवेति सूचयति। स्वरूपातिरिक्तस्य प्रातिभज्ञानस्याप्यनुपप्लवादाकाशदेवतातो विशेषो युज्यत इति भावः।
॥ पराधीनविशेषावाप्तिरूपोत्पत्त्यनङ्गीकारे भगवतः सर्वस्रष्टृत्वानुपपत्तिः॥
यदुक्तमत्र प्रकरणे पराधीनविशेषावाप्तिरेव जनिर्नाभूत्वाभवनमिति तदुपपत्त्यन्तरेणोपपादयन्नधिकरणार्थमुपसंहरति नैवेति।
नैव किञ्चित् ततो जन्मवर्जितं परमादृते।
पराधीनविशेषत्वे जन्मनः स्थूलताभवः॥१९॥
पूर्वशब्दविलोपश्च यदि जन्मेति कीर्त्यते।
रमाया नैव जन्मास्ति चैतन्यस्यापि केवलम्॥२०॥
प्रधानस्य च वेदस्य....................।
इति सिद्धमिति शेषः। एतच्च जन्मनः पराधीनविशेषलाभत्व एवाङ्गीकृते सिद्ध्यति नत्वभूत्वाभवनरूपत्व इत्यर्थः।
नन्वव्याकृताकाशस्याभूत्वाभवनानुपपत्तेरस्तु तत्र पराधीनविशेषावाप्तिर्जन्मशब्दार्थः। अन्यत्र त्वभूत्वाभवनमेवाङ्गीक्रियते चेत्, को दोषः? बाधकभावाभावाभ्यामनेकार्थत्वकल्पनाविरोधादित्यत आह स्थूलतेति। उपादानधर्मिणो धर्म्यन्तरात्मना परिवर्तः स्थूलताभवः। अत एव पूर्वशब्दविलोपश्च पूर्वशब्दनिवृत्तौ शब्दान्तरप्रवृत्तिश्चेत्यर्थः। उदाहृतं चैतत् प्रकृत्यधिकरणे। (३८८, ३९८) अभूत्वाभवनं यदि जन्मेति कीर्त्यत इत्युक्तेऽसदनुवादः स्यात्। परिणामवादिभिः क्वाप्यभूत्वाभवनानभ्युपगमात्। अतो विमतिपदं दर्शयितुं स्थूलतेत्याद्युक्तम्।
तर्हि रमाया जीवचैतन्यस्यापि प्रधानस्य वेदस्य चैवंविधं जन्म नैवास्तीत्यतः परमेऽश्वरादृते सर्वं जनिमदिति न सिद्ध्येत्। तथाच “इदं सर्वमसृृजत” इत्यादिप्रतिज्ञाहानिः, “आत्मा वा” इत्यादिशब्दविरोधः, विभक्तत्वहेतोरनैकान्त्यं च स्यादिति वाक्यशेषः। “एष चेतनया युक्तो जीव इत्यभिधीयते” इत्यादिवचनाज्जीवशब्दो भूतादिसङ्घाते वर्तते। तस्य चोक्तविधोत्पत्तिरस्त्येवेत्यतः केवलं चैतन्यस्य इत्युक्तम्। नहि क्षीरं दधि जातमितिवदिदं द्रव्यं रमादित्वेन परिवृत्तमित्यत्र प्रमाणमस्ति। किन्तु “द्वावेतौ नित्यमुक्तौ नित्यौ सर्वगतौ”, “अजो नित्यः”, “अजामेकाम्”, “यावद् ब्रह्म विष्ठितं तावती वाक्” इत्यादिश्रुतिभ्योऽनादित्वमेवावगतम्।
॥ वेदस्य पराधीनविशेषावाप्तिविवरणम्॥
ननु वेदस्य कीदृशी पराधीनविशेषाप्तिः, येन भवत्पक्षे प्रतिज्ञाहान्यादिकं न स्यादित्यत आह वेदस्यापीति।
.....................वेदस्यापीश्वरेच्छया।
व्यक्तिर्नाम विशेषोऽस्ति तस्मात् तद्वशतैव हि॥२१॥
उत्पत्तिरत्र कथिता......................।
नियतविशिष्टानुपूर्विकत्वेनार्थबोधकत्वशक्त्याविर्भावो व्यक्तिः। कालप्रवाहस्य नास्तित्वे दोषो वक्ष्यते। (९७७,१३२५) महदादिसूक्ष्मरूपनित्यता च श्रुत्यादिप्रसिद्धा। अतोऽपि प्रतिज्ञाहान्याद्यनिस्तार इत्याशयवानुपसंहरति तस्मादिति। तद्वशता परमेश्वरवशत्वविशेषलाभः। अत्र श्रुतिसूत्रयोः॥*॥ इति मातरिश्र्वाधिकरणम्॥२॥
अथ असम्भवाधिकरणम्॥३॥
॥ अभ्यधिकाशङ्कादिः॥
असम्भवस्तु सतोऽनुपपत्तेः। असम्भाव्यमानजन्मनोर्गगनपवनयोरुत्पत्तावुक्तायमिदमाशयते। “सदजायत” इत्यादिश्रुतेर्ब्रह्मणोऽपि जन्मास्ति। नच श्रुत्यादिविरोधः। स्वरूपोत्पत्त्यभावेऽपि परायत्तविशेषावाप्तिरूपोत्पत्तिसम्भवात्, गगनपवनवदिति। तन्निवृत्त्यर्थमिदमधिकरणमारब्धम्। एतच्च अयुक्तमिवाऽभाति। “असम्भवः” इत्यनुत्पत्तिमात्रप्रतिज्ञानात्। तस्य च परेणाप्यङ्गीकृतत्वात्। नन्ववधारणार्थस्य तुशब्दस्य प्रयोगान्नायं दोषः। सत्यम्। तथाऽपि तत्र हेतोरनभिधानादयुक्तमेव। ननु “अनुपपत्तेः” इत्युक्तम्। सत्यम्। किं तस्यार्थः? नह्यसतः सदुत्पत्तेरदृष्टत्वादनुपपत्तेरिति। नचैतत् सर्वथाऽप्युत्पत्त्यभावमुपपादयितुमलम्। कारणविशेषप्रतिषेधात्। मैवम्। प्रसक्तकारणनिरासादन्यस्याप्रसङ्गात् कारणाभावस्यैव सिद्धेरिति स्थिते विभवात् “अनुपपत्तेः” इति हेतुं प्रकारान्तरेण व्याचक्षाणः सूत्रार्थमाह स्वतन्त्रत्वादिति।
॥ ब्रह्मणः विभागोत्पत्तिपराधीनविशेषावाप्त्योर्निरासः॥
ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ॥९॥
.................स्वतन्त्रत्वात् परात्मनः।
नैवोत्पत्तिः कथमपि न स्वतन्त्रं ततोऽपरम्॥२२॥
कथमपीति। स्वरूपतो विशेषतश्चेत्यर्थः। कुतः परमात्मनः स्वातन्त्र्यमिति चेत्। मैवम्। किं स्वतन्त्रमेव वस्तु नाङ्गीक्रियते, किंवाऽतोऽन्यत् स्वतन्त्रमङ्गीकृत्य तस्य स्वातन्त्र्यं निराक्रियते? नाऽद्यः, “अनवस्थितेरसम्भवाच्च”। द्वितीयं प्रत्याह नेति। प्रमाणाभावात्। भावे वा तदेवास्माभिः परमात्मतयाऽङ्गीकरिष्यत इति भावः।
॥ वृत्तिकृदभिहितसूत्रार्थप्रत्याख्यानम्॥
केचिदिदं सूत्रमन्यथा व्याचक्षते “प्राग् गुणिनां वियदादीनामुत्पत्तिरुक्ता। इदानीं रूपादीनां गुणानां दिक्कालादेश्र्चोत्पत्तिरुच्यते। सतो गुणादेरसम्भवो नोपपद्यते। प्रतिज्ञाहान्यादिनाऽनुपपत्तेः” इति। तदसत्। वियत्पदेनैव सर्वस्योपलक्षणात्। अभ्यधिकाशङ्काभावाच्च। वियत्पदस्य सजातीयभूतमात्रोपलक्षकत्वं न्याय्यम्। विजातीयगुणाद्युपलक्षकत्वमयुक्तमिति चेत्, न। सङ्गतिरेषा नाभ्यधिका शङ्का। रूपादीनामुत्पत्त्यश्रवणादिति चेत्, न। प्रतिज्ञादिभ्यस्तदवगतेः। सङ्कोचस्तत्र कल्प्यत इति चेत्, न। बाधकानुपन्यासादिति।
॥ रामानुजीयव्याख्यानप्रत्याख्यानम्॥
अन्ये त्वेवं व्याकुर्वते “ब्रह्मण एवासम्भवो नतु तद्व्यतिरिक्तस्य। प्रतिज्ञाहान्यादिप्रसङ्गेन अनुपपत्तेः” इति। एतदप्यसत्। पूर्वेणैवास्यार्थस्य लब्धत्वात्। वियन्मातरिश्वनोरुत्पत्तिप्रतिपादनमुपलक्षणार्थमिति ज्ञापयितुमेतदिति चेत्, न। प्रतिज्ञाहान्याद्युपन्यासेनैव तज्ज्ञापनसिद्धेः। समानन्यायोपलक्षणस्य मीमांसायां सर्वत्र प्रसिद्धत्वात्। अन्यथाऽतिदेशेऽभ्यधिकाशङ्काभ्यूहनवैयर्थ्यादित्युक्त एव सूत्रार्थः। एतदेव ज्ञापयितुं भगवताऽऽचार्येण प्रागेव “नैव किञ्चित्” इत्युपसंहृतम्॥*॥ इत्यसम्भवाधिकरणम्॥३॥
अथ व्यतिरेकाधिकरणम्॥१३॥
॥ विभागायोग्यजीवं विभज्य भोगप्रदातुर्विष्णोः सर्वस्वातन्त्र्यसमर्थनम् ॥
व्यतिरेको गन्धवत् तथाच दर्शयति। अत्र योगिनां स्वरूपेणैवानेकत्वमुपपाद्यते। तस्य च “अविरोधश्चन्दनवत्” इत्युक्तार्थोपपादकतया सङ्गतौ स्थितायां “असम्भवस्तु सतोऽनुपपत्तेः” इति यदीश्वरस्य सर्वस्वातन्त्र्यमुक्तं तदुपपादकत्वेनापि सङ्गतिं ज्ञापयन्, तथा सूत्रं व्याचष्टे अच्छेद्यस्यापीति।
ॐ व्यतिरेको गन्धवत् तथाच दर्शयति ॐ॥२६॥
अच्छेद्यस्यापि जीवस्य विभागं बहुधा हरिः।
कृत्वा भोगान् प्रदायैव चैक्यमापादयेत् पुनः।
अत ईशवशं सर्वं चेतनाचेतनं जगत्॥२३॥
अविभागं विभागाय यदा नयति केशवः।
किमशक्यं परेशस्य तदेति ह्यभिधीयते॥२४॥
भोगांश्चेति सम्बन्धः। ऐक्यमेवेत्येवशब्दान्वयः। ऐक्यं एकरूपत्वम्। स्वरूपैक्यस्य विभागेऽपि सत्त्वात्। सर्वमीशवशम्। तथाच स एव स्वतन्त्र इति वाक्यशेषः।
नन्वन्यैश्छेत्तुमशक्यं छित्वा तेषामपि भागानां भोगशक्तिं प्रदाय यदि पुनरेकतामापादयति हरिः, तर्हि तत्र तस्य सामर्थ्यं ज्ञायताम्। कार्यस्य कारणशक्तिं विनाऽनुपपत्तेः। सर्वं जगदीशवशमिति तु कथमित्यत आह अविभागमिति। यथा लोके किञ्चिदद्भुतं कार्यं कृतवतस्तथाभूतेऽन्यत्रापि कार्यशक्तिः सम्भाव्यते, तथाऽत्यन्ताघटितमिदं घटयतो जगन्नाथस्य सर्वत्रापि शक्तिसम्भावना युक्तैवेति भावः।
॥ उक्तार्थस्य उत्सूत्रित्वशङ्कानिरासः॥
नन्वत्र सूत्रे जीवस्यानेकत्वापत्तिमात्रमुच्यते, नतु तस्याः परमेश्वरायत्तत्वम्। तत् कथमनेन तस्य सर्वैश्वर्यावगतिरित्यत आह इति हीति। “तं यथायथेश्वरः प्रकुरते तथातथा भवति। सोऽचिन्त्यः परमो गरीयान्”,
“अचिन्त्येशशक्त्यैव ह्येकोऽवयवविवर्जितः।
आत्मानं बहुधा कृत्वा क्रीडते योगसम्पदा”
इति सूत्रोपात्ताभ्यां श्रुतिस्मृतिभ्यां यस्मादेवमभिधीयते तस्मात् सूत्रेणाप्येवमेवमभिधीयते। प्रतिज्ञाप्रमाणयोरेकार्थताया आवश्यकत्वादिति॥*॥ इति व्यतिरेकाधिकरणम्॥१३॥
अथ पृथगुपदेशाधिकरणम्॥१४॥
॥ पूर्वपक्षिणा आगमानुमानाभ्यां जीवब्रह्मैक्यसाधनम्॥
पृथगुपदेशात्। अत्र जीवात्मनः परमात्मनाऽऽत्यन्तिको भेदः समर्थ्यते। स्यादेतत्। यथाहि प्रत्यक्षादिप्रमाणैरवावधृतसिंहदेवदत्तभेदस्य पुंसः “सिंहो देववत्तः’ इति वाक्यश्रवणेऽपि न सिंहदेवदत्तस्वरूपैक्यप्रतिपत्तिर्भवति। किन्नाम। गौण एवायं प्रयोग इत्यध्यवस्यति। तथा “अथातो ब्रह्मजिज्ञासा” इत्यादिभिः “व्यतिरेको गन्धवत्” इत्यन्तैः सूत्रैः जीवात्मपरमात्मभेदस्य प्रत्यक्षादिप्रमाणबलेनोपपादितत्वात् तत्त्वमस्यादिश्रुतिशतेनापि न तदभेदप्रतिपत्तिरुत्पत्तुमलम्। किन्तु गौणार्थ एव श्रुतय एव इति निश्चयो भवेत्। अतः प्रापकाभावान्नेदमधिकरणमारम्भणीयमित्यतोऽधिकाशङ्कां दर्शयन् पूर्वपक्षयति एवं स्थितेऽपीति।
एवं स्थितेऽपि जीवैक्यं केचिदाहुः परात्मना।
तद् योऽहमिति पूर्वाभिः श्रुतिभिश्चानुमाबलात्॥२५॥
एवमतीतग्रन्थोक्तन्यायेन जीवात्मपरमात्मनोर्भेदे निश्चितेऽपीत्यर्थः। स्मृतिभिश्चेति चार्थः। अनुमानबलाच्चेति वा सम्बन्धः।
एतदुक्तं भवति यद्यपि भेदः प्राक् समर्थितः, तथाऽपि जीवः परमात्मनाऽभिन्न एव। “तद् योऽहं सोऽसौ योऽसौ सोऽहम्”, “तत् त्वमसि”, “अहं ब्रह्मास्मि” इत्यादिश्रुतेः।
“अहं हरिः सर्वमिदं जनार्दनो नान्यत् ततः कारणकार्यजातम्।
ईदृ मनो यस्य न तस्य भूयो भवोद्भवा द्वन्द्वगदा भवन्ति”
इत्यादिस्मृतेश्च। नचैताः श्रुतयः, स्मृतयश्च गौणार्था योज्याः। उपक्रमादिबलेन तात्पर्यावधारणात्। बलवद्बाधकाभावाच्च। उपन्यस्तानि तु प्रमाणान्याविद्यकमिथ्याभेदविषयतयाऽपि सम्भवन्ति। तथाचानुमानम् विमतो भेदो मिथ्या, भेदत्वात्; चन्द्रभेदवदिति। नच “अस्मिन्नस्य च तद्योगं शास्ति” इति मुक्तावपि भेदोक्तिर्बाधिका। तस्या अवान्तरविषयत्वोपपत्तेः। नच परममुक्तौ भेदे प्रमाणमस्ति।
“यत्र त्वस्य सर्वमात्मैवाभूत्”,
“विभेदजनके ज्ञाने नाशमात्यन्तिके गते।
आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति।
आ विमुक्तेस्तु भेदः स्याज्जीवस्य परमस्य च।
ततः परं न भेदोऽस्ति भेदहेतोरभावतः”
इत्यादिश्रुतिस्मृतयोऽपवदन्ति च परममुक्तौ जीवपरभेदमित्येवं केचिद् वादिनो वदन्ति। अतो युक्तस्तन्निराकरणायाधिकरणारम्भ इति।
॥ श्रुतौ भेदव्यपदेशात् जीवो ब्रह्मणा भिन्न एव॥
एवं पूर्वपक्षयित्वा सिद्धान्तयत् सूत्रं व्याचष्टे न तदिति।
ॐ पृथगुपदेशात् ॐ॥२७॥
न तद् युक्तं यतो विष्णुः पृथगेवाभिधीयते।
प्रज्ञानेत्रोऽलोक इति मुक्तौ भेदोऽभिधीयते॥२६॥
तत् जीवस्य परमात्मैक्यं न युक्तम्। किन्तु पृथगेव जीवात्मपरमात्मानौ। कुतः? यतो विष्णुर्जीवात्, जीवश्च विष्णोः “भिन्नोऽचिन्त्यः परमो जीवसङ्घात्” इत्यादिश्रुतिस्मृतिभिः पृथगेव अभिधीयते, तस्मादित्यर्थः।
नन्वेताः श्रुतिस्मृतयोऽविद्याकल्पितभेदविषयतयाऽन्यथासिद्धाः, न तात्विकभेदसिद्ध्यै प्रभवन्तीत्युक्तमिति चेत्। मा त्वरिष्ठाः, निराकरिष्यामः श्रुत्यादेरतत्वादेकत्वं (८८३, ९६८) इत्याशयवान् कल्पितभेदविषयां श्रुतिमुदाहरति प्रज्ञेति। “एष ब्रह्मैष प्रजापतिरिन्द्रः” इत्यादिना विश्वप्रपञ्चमनूद्य सर्वं तत् प्रज्ञानेत्रमिति तस्य प्रज्ञाख्यब्रह्मनेतृकत्वमभिधाय, नेतृनेतव्यभावस्य कल्पितत्वादित्याशङ्कानिवृत्त्यर्थं “प्रज्ञानेत्रोऽलोकः” इति श्रुत्या मुक्तावपि जीवपरयोर्भेदोऽभिधीयते, अलोको मुक्तोऽपि प्रज्ञानेत्रो ब्रह्मनेतृक इति। नीयतेऽनेनेति नेत्रम्। “दाम्नि” इत्यादिसूत्रात्। प्रज्ञा च ब्रह्म। “प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म” इति वाक्यशेषात्। नचात्र लोक इति पदं छेद्यम्। जनभुवनदेहरूपस्य लोकस्य प्रागेव ब्रह्मनेतृकत्वस्योक्तत्वेन पुनरुक्तिप्रसङ्गात्। नच नेतृनेतव्ययोरभेदः क्वचिदस्ति। नचावान्तरमुक्तिविषयेयं श्रुतिः। तत्र लोकातीतायोगात्। देहेन्द्रियादिवैकल्यं खल्वलोकत्वम्। परममुक्तौ चानुवर्तमानो भेदो नाविद्याकल्पितो भवितुमर्हति, अतिप्रसङ्गादिति।
॥ परममोक्षे जीवब्रह्मणोः भेदाभिधात्रीणां श्रुतिस्मृतीनामुदाहरणम्॥
ननु मुक्तावभेदेऽनेकाः श्रुतयः स्मृतयश्च सन्ति। तत् कथमेकाकिनीयं श्रुतिर्मुक्तौ भेदसाधनाय अलमित्यतो बह्वीः श्रुतिस्मृतीरत्रोदाहरति एतमिति।
एतमानन्दमित्यन्या परमं साम्यमित्यपि।
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च॥२७॥
“एतमानन्दमयमात्मानमुपसङ्क्रम्य” इत्यन्या श्रुतिर्मुक्तस्य पस्स्माद् भेदमाह। सामीप्यप्राप्तेरभिधानात्। नचेयमवान्तरमुक्तिः, “अस्माल्लोकात् प्रेत्य” इति विदेहत्ववचनात्।
“तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति” इत्यपि श्रुतिर्मुक्तौ जीवस्य ब्रह्मणो भेदमाचष्टे। साम्यस्य भेदसमानाश्रयत्वात्। पुण्यपापाञ्जनाख्याविद्याविधूननाभिधानादस्यापि परममुक्तिविषयत्वं ज्ञायते।
“इदं ज्ञानम्” इति भगवद्वाक्येऽपि मम साधर्म्यमागता इति भेदो ज्ञायते। सर्गप्रलययोरप्युपजननव्यथाभावोक्त्या परममुक्तित्वं च।
उपसम्पद्यते ज्योतिः स्वरूपेणाभिपद्यते।
तत्र पर्येति जक्षंश्च क्रीडन्नपि सदा सुखी॥२८॥
आचक्ष्व मे परं मोक्षं धीरा यं प्रवदन्ति तम्।
इत्युक्त आह वाग्देवी परं मोक्षं प्रजापतेः॥२९॥
“उपसम्पद्यते” इत्यनेन
“परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते। स तत्र पर्येति जक्षन् क्रीडन् रममाणः”
इत्येतां श्रुतिमर्थतोऽनुवदति। अत्रापि सामीप्यप्राप्त्यादिना भेदोऽवगम्यते। “अस्माच्छरीरात् समुत्थाय स्वेन रूपेणाभिनिष्पद्यते” इत्युक्त्या परममोक्षत्वं च।
शाखां शाखां महानद्यः संयान्ति परितःस्रवाः।
धानापूपा मांसकामाः सदा पायसकर्दमाः॥३०॥
यस्मिन्नग्न्मिुखा देवाः सेन्द्रा सहमरुद्गणाः।
ईजिरे क्रतुभिः श्रेष्ठैस्तदक्षरमुपासते॥३१॥
प्रविशन्ति परं देवं मुक्तास्तत्रैव भोगिनः।
निर्गच्छन्ति यथाकामं परेशेनैव चोदिताः॥३२॥
“शाखां शाखाम्” इति महाभारतवाक्ये भेदावभासः स्फुट एव। तस्य च परममोक्षविषयताप्रदर्शनार्थमाचक्ष्वेत्यादिपूर्ववाक्यार्थसङ्ग्रहकथनम्। इत्युक्ते प्रजापतिनेति पृष्टे। तस्य मध्ये वेतसः पुण्यगन्धः सहस्रशाखो विमलो विभाति। तस्य वेतसस्य शाखां शाखामाश्रित्य धानापूपवत्यः, मांसकामवत्यः, “अर्शआदिभ्योऽच्”, पायसं कर्दमस्थानीयं यासां ताः, तथोक्ताः। यस्मिन् लोके। ईजिरे यजन्ते च। तदक्षरं परमं ब्रह्म। तत्रैव परमेश्वरान्तर एव।
भेददृष्ट्याऽभिमानेन निःसङ्गेनापि कर्मणा।
कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम्॥३३॥
स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिना।
जातेऽगुणव्यतिकरे यथापूर्वं प्रजायते॥३४॥
“भेददृष्ट्या” इति भागवतवाक्यस्यायमर्थः
“आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः।
योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः”
स जीवेश्वरादिभेदज्ञानेन, अभिमानेनेश्वरबहुमानेन, निवृत्तकर्मणा च जगत्कर्तृत्वात् सार्वज्ञ्यादिगुणोपेतं परमपुरुषाख्यं परं ब्रह्म सङ्गत्य मुक्तः सन् प्रविश्य पुनः कालाख्यपरमेश्वरमूर्त्या सृष्टिकाले जाते सति अगुणव्यतिकरे सत्त्वादिगुणविक्रियाहीने विष्णुलोके पूर्ववत् सर्वमुक्ताधिपतिर्जायत इति। अत्र तु भेदः स्फुट एव। हिरण्यगर्भमुक्तित्वादेव परममुक्तित्वं च सिद्धम्।
ऋचां त्वः पोषमास्ते च परेण प्रेरिताः सदा।
यत्कामस्तत् सृजत्यद्धैवाऽत्मना तत् सृजत्यपि॥३५॥
“ऋचां त्वः पोषमास्ते पुपुष्वान्
गायत्रं त्वो गायति शक्वरीषु।
ब्रह्मा त्वो वदति जातविद्यां
यज्ञस्य मात्रां विमिमीत उ त्वः”
इति मन्त्रस्यायमर्थः मुक्तिस्थाने त्वः कश्चिद् ब्रह्मा ऋचां पोषं पुपुष्वानास्ते ऋचः पुष्टाः कुर्वन्नास्ते। त्वो ब्रह्मा शक्वरीषु ऋक्ष्वारूढं गायत्रं साम गायति। त्वो ब्रह्मा जातविद्यां पौरुषेयविद्यां वदति। त्वो ब्रह्मा यज्ञस्य विष्णोर्मात्रामंशमेव विमिमीते ध्यायतीति। अत्रापि भेदः स्फुट एवावभासते। ब्रह्मबाहुल्यश्रवणात् परममोक्षत्वं च। नचास्य ऋत्विग्विषयत्वम्। ब्रह्मणो जातविद्यावादित्वस्य अप्रसिद्धत्वात्। चतुर्णामपि पादानां होत्रादिभिन्नविषयत्वे तृतीयपादे त्व इति च व्यर्थं स्यात्। चशब्दो वाक्यशेषसमुच्चये।
“परेण प्रेरिताः सदा” इत्यनेन “स वा एष ब्रह्मनिष्ठ इदं शरीरं मर्त्यमतिमृज्य ब्रह्माभिसम्पद्य ब्रह्मणा पश्यति” इत्यादिश्रुतीः, “यथेष्टं परिवर्तन्ते तस्यैवानुग्रहेरिताः” इत्यादिस्मृतीश्र्चोपादत्ते।
“यत्कामः” इत्यनेन “न हास्य कर्म क्षीयतेऽस्माद्ध्येवाऽत्मनो यद्यत् कामयते तत्तत् सृजते” इति श्रुतिरुपादीयते। मुक्तो यद्यत् कामयते तत्तद् वस्तु तत् कर्म सृजते। कथम्? यत् सृजते तदस्मादात्मन एव परमेश्वरानुग्रहद्वारैवेत्यर्थः। अद्धैवेति ह्येवशब्दार्थः। अत्रेश्वराज्जीवस्य भेदः स्पष्ट एव। कर्माक्षयवचनात् परममुक्तित्वं च।
सहैव ब्रह्मणा कामान् भुङ्क्ते निस्तीर्णतद्गुणः।
दुःखादींश्च परित्यज्य जगद्व्यापारवर्जितः॥३६॥
भुङ्क्ते भोगान् सहैवोच्चानित्याद्यागममानतः।
मुक्तस्य भेदावगतेः कथमेव ह्यभिन्नता॥३७॥
जीवेशयोः...............................।
“सहैव” इत्यनेन “सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता” इति श्रुतिमुपादत्ते। “ब्रह्मणा ब्रह्मात्मकतया सर्वान् कामान् सह यौगपद्येन भुङ्क्ते” इति व्याख्यानं तु श्रौताक्षराननुगुणं तत्सिद्धान्ताननुगुणं च।
निस्तीर्णेत्यनेन “तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवति” इति श्रुतिर्गृह्यते। तदा सर्वान् शोकांस्तीर्णो मुक्तो हृदयस्य ब्रह्मणः शेषभूतो भवतीत्यर्थः। हृदयनत्वाद् हृदयं ब्रह्म। तद्गुणा हृद्गुणा दुःखाद्याः। अत्र सर्वशोकतरणात् परममुक्तित्वमवगम्यते।
“दुःखादींश्च परित्यज्य” इत्यनेन,
“ज्योतिर्मयेषु देहेषु स्वेच्छया विश्वमोक्षिणः।
भुञ्जते सुसुखान्येव न दुःखादीन् कदाचन”
इत्यादि ब्रह्मवैवर्तवाक्यं गृह्यते। अत्र बहुवचनेन भेदः, दुःखाद्यभावेन परममुक्तित्वं चावभासते।
जगद्व्यापारेत्यनेन,
“स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतिष्वपि।
मुक्तानां नैव कामः स्यादन्यान् कामांस्तु भुञ्जते”
इति वाराहवचनं गृह्यते। अत्रचैश्वर्यमर्यादया भेदो गम्यते। स्वपक्षसाधनमुपसंहरति इत्यादीति। मुक्तस्य, परब्रह्मण इति शेषः।
॥ भेदस्य मिथ्यात्वसाधकानुमानभङ्गः, ॥
इदानीं परपक्षं निराकरिष्यन् यदुक्तं “श्रुतिभिश्चानुमाबलात्” इति श्रुतिसाचिव्येन अनुमानम्, तत् तावन्निराकर्तुमुपक्रमते नानुमा चेति।
............नानुमा च तदभेदं प्रमापयेत्।
मिथ्यैव भेदो विमतो भेदत्वाच्चन्द्रभेदवत्।
इति चेत् साध्यधर्मोऽयं सन्नसन् वा नवोभयम्॥३८॥
यदि सन्नपसिद्धान्तः स एवासन्नितीरिते।
नोभयं चेन्न सिद्धं तदिति मानस्य दूषणम्॥३९॥
चशब्दः स्वपक्षसाधनपरपक्षनिराससमुच्चयार्थः। प्रमापयेत् प्रमितं कुर्यात्। यद्वा जीवेश्वराभेदे परोपन्यस्तसमस्तप्रमाणनिरसनप्रतिज्ञेयम्। तथाच श्रुतिस्मृती चेति चार्थः।
तत् कथमित्यतोऽनुमानं तावदनुवदति मिथ्यैवेति। भेदो मिथ्येत्येतावत्युक्ते चन्द्रभेदादिना सिद्धसाधनं स्यादित्यतो विमत इत्युक्तम्। जीवब्रह्मणोर्भेद इति यावत्। स्तम्भकुम्भादिभेदस्य पक्षतुल्यत्वान्न तत्र भेदत्वहेतोर्व्यभिचारः शङ्कनीय इति ज्ञापनार्थं वा। यावान् कश्चिद् विमतो भेदः स सर्वोऽपीति। भेदग्रहणं स्पष्टार्थम्। साध्यावधारणेनासिद्ध्याद्याभासोद्धारं सूचयति। भेदमिथ्यात्वसिद्धावभेद एव वास्तवः सिद्ध्यतीति भावः।
दूषयितुं पृच्छति साध्येति। अयं जीवब्रह्मभेदस्य मिथ्यात्वलक्षणः। सन्निति स्वमतानुसारेण। ननु मिथ्यात्वं सच्चेत्, तद् यस्य तदपि सत् स्यात्। नहि सम्भवति नास्ति धर्मी धर्मश्चास्तीति। तथाच वैपरीत्यमेव। मैवम्। मिथ्यात्वं खल्वत्यन्ताभावप्रतियोगित्वम्, तच्च बुद्धिद्वारेणैव। अत्यन्तासतोऽपि प्रतीतिरङ्गीक्रियते। तथाच मिथ्यात्वमस्तीत्यस्य तत्प्रतियोगिकोऽत्यन्ताभावः सन्नित्यर्थः। नचात्र कोऽपि विरोधः।
असन् वेति माध्यमिकमतानुरोधेन। नहि प्रतिवादिन्याश्र्वासोऽस्ति। येनासौ स्वमतमतिपत्य न वदेदिति निश्चिनुमः। उभयं नवेति प्रतिवादिमतानुसारेण। सदसद्विलक्षण इत्यर्थः।
ननु सदसत्त्वमपि जैनादिरीत्या कुतो न विकल्पितम्? सदादिपक्षदूषणसाम्यादिति ब्रूमः। यद्वोभयं चेति तृतीयः पक्षः। नेति चतुर्थः। उभयं नवेत्यर्थः।
आद्यं दूषयति यदीति। यद्ययं साध्यधर्मः सन्नित्युच्यते, तदा मायावादिनोऽपसिद्धान्तः स्यात्। नहि जीवब्रह्मणोर्भेदस्य मिथ्यात्वं ब्रह्म, येन तस्य सत्त्वेऽपि सदद्वैतवादिनो नापसिद्धान्तः स्यात्। ब्रह्मणो निर्विकल्पकत्वात्।
द्वितीये दोषमाह स एवेति। अपसिद्धान्त एव। मिथ्यात्वस्यासत्त्वे सत्त्वमेव जीवब्रह्मभेदस्य स्यात्। नचासत् प्रमाणविषय इति तेषां पक्षः। अनेन सदसत्त्वपक्षोऽपि निरस्तो वेदितव्यः।
अन्तिममपाकरोति नोभयं चोदिति। तदुभयविलक्षणत्वं च जीवब्रह्मभेदमिथ्यात्वेऽन्यत्र वा क्वापि न सिद्धम्।
नन्वनेन किमुक्तं स्यात्? अप्रसिद्धविशेषणत्वमिति चेत्, न। सदसद्वैलक्षण्यस्य पक्षविशेषणत्वाभावात्। मिथ्यात्वमेव पक्षविशेषणमुपन्यस्तम्, तद्धर्म एव सदसद्वैलक्षण्यम्। नच विमतं बुद्धिमत्कर्तृपूर्वकमितिवद् विशेषणविशेषणेनापि प्रसिद्धेन भाव्यमिति वाच्यम्। वैषम्यात्। यद्धि व्यापककोटिनिविष्टं विवादपदं च तस्य प्रसिद्धताऽवश्यम्भाविनी। अन्यथा व्याप्तिग्रहणपक्षतयोरसम्भवात्। अस्ति च बुद्धिमत्त्वस्यापि व्यापककोटिनिवेशादि, नतु सदसद्वैलक्षण्यस्येति।
उच्यते यो ह्यर्थः प्रमाणसाध्यः स सम्भवावितप्रकारेष्वन्यतमप्रकारवानुपलब्धः। इदं च जीवब्रह्मभेदस्य मिथ्यात्वं न सदादिप्रकारवदङ्गीकर्तुं शक्यम्, प्रकारत्रयस्यापसिद्धान्तपराहतत्वात्। चतुर्थस्याप्रामाणिकत्वात्। नह्यप्रामाणिकेन प्रकारेण प्रकारवत् किञ्चिद् भवति। अतो व्यापकानुपलब्धिबाधितं जीवब्रह्मणोर्भेदस्य मिथ्यात्वं न साधयितुं शक्यमिति समुदायार्थो विवक्षित इति न काचिदनुपपत्तिः। अनेनैवाभिप्रायेण टीकाऽपि नेतव्येति।
दूषणान्तरमाह इति मानस्येति। मीयत इति मानम्। कृत्यल्युटो बहुलमिति वचनात्। मिथ्याशब्दार्थं विकल्प्याप्येवं दूषणमभिधानीयमित्यर्थः। तथाहि किं मिथ्येत्यसत्त्वमुच्यते, किंवा अनिर्वाच्यत्वम्? आद्येऽपसिद्धान्तः। द्वितीयेऽप्रसिद्धविशेषणता पक्षस्येति। सत्त्वाभावो मिथ्यापदार्थ इति चेत्, न। तस्यैवासत्त्वपदार्थत्वेन अपसिद्धान्तानिस्तारादिति।
दोषान्तरमाह इतीति। मानस्य लिङ्गस्य। भेदत्वहेतुरपि सन्, असन् वा, सदसन् वा, अनिर्वाच्यो वेति विकल्प्य, आद्येऽद्वैतवादिनोऽसिद्धिः, दृष्टान्तश्च साधनविकलः। द्वितीयतृतीययोर्द्वयोरपि। चतुर्थे द्वैतवादिन इति दूषणमभिधातव्यमित्यर्थः। नच सदसदादौ भेदत्वसामान्यमस्ति। येन धूमवत्त्ववदयं हेतुः स्यात्।
जीवो ब्रह्मणो न भिद्यते, आत्मत्वात्; ब्रह्मवदित्यादावनुमानान्तरेऽप्येवमेव विकल्प्य दूषणान्तरमभिधातव्यमित्याह इति मानस्येति। यद्वाऽद्वैतवादिप्रयुक्तेषु विरुद्धविषयेषु सर्वेष्वपि अनुमानेष्वेवं साध्यं हेतुं च विकल्प्य दोषो वक्तव्य इत्यतिदिशति इतीति।
॥ अनिर्वचनीयत्वसाधकानुमानस्याऽभासत्वम्॥
“न सिद्धं तत्” इत्ययुक्तम्। पक्षीकृते भेदे वा, प्रपञ्चे वा, अविद्यायां वा, शुक्तिरजतादौ वाऽनिर्वचनीयत्वस्य प्रमाणेन साधयितुं शक्यत्वादित्यत आह नचेति।
नच मानान्तरेणैतच्छक्यं साधयितुं क्वचित्।
अनुमानेन चेत् सैव ह्यनवस्था भविष्यति॥४०॥
यदा भेदमिथ्यात्वस्य सत्त्वादिविकल्पेन दूषणाभिधानम्, तदाऽन्तरशब्दो विशेषवचनः। यदातु मिथ्याशब्दार्थविकल्पेन दूषणाभिधानम्, तदाऽन्यन्मानं मानान्तरम्। एतत् अनिर्वाच्यत्वम्। क्वचित् इत्युक्तस्थलेषु।
तत् कथमिति चेदित्थम् कस्यचित् पदार्थस्यानिर्वाच्यत्वे प्रत्यक्षं वा प्रमाणमुच्यते, अनुमानं वा, आगमो वा, अर्थापत्तिर्वा, उपमानं वा, अभावो वेति मनसि विकल्पान् निधाय पराङ्गीकारप्राचुर्यानुरोधेनानुमानं तावदपाकरोति अनुमानेन चेदिति। विमतमनिर्वाच्यम्, बाध्यत्वादित्याद्यनुमानेन शुक्तिरजतादेरनिर्वाच्यत्वं साध्यते चेदनवस्था भविष्यति। कथम्? सैव हि अप्रसिद्धविशेषणतापरिहारार्थानुमानपरम्पराद्वारिका प्रसिद्धैवेत्यर्थः। यदत्र वक्तव्यं तत् प्रथमसूत्र एवास्माभिरभिहितम्। (९९, ६६७१)
॥ “नासदासीत्” इति श्रुतेरनिर्वचनीयवस्तुपरत्वप्रत्याख्यानम्॥
आगममपाकरोति नचेति।
नचाऽगमस्तदर्थोऽस्ति नासदासीन्न तद् वदेत्।
तदर्थोऽनिर्वचनीयार्थः। अनुपलम्भादिति भावः। ननु कथं नास्ति? “नासदासीन्नो सदासीत् तदानीम्” इत्यागमस्य विद्यमानत्वादित्यत आह नासदिति। इत्यागम इति शेषः। तत् अनिर्वाच्यं वस्तु। अयं भावः पदसमन्वयबलेन प्रतीतः पदार्थसंसर्गो हि वाक्यार्थः, नापरः। अन्यथाऽर्थापत्त्यादेरप्यागमान्तर्भावप्रसङ्गात्। अत्र च प्रलये सदाद्यभावमात्रं वाक्यात् प्रतीयते, न पुनरनिर्वाच्यं वस्तु। ततो नायमागमोऽनिर्वाच्यार्थ इति।
॥ परिशेषादनिर्वचनीयसिद्ध्यङ्गीकारे ब्रह्मण एवानिर्वचनीयत्वप्रसङ्गः॥
मा भूदयमागमोऽनिर्वचनीयार्थः, तथाऽप्येतद्वचनबलेनानिर्वचनीयार्थः सेत्स्यति। तथाहि अत्र तावत् प्रलये सदसदभावः प्रतिपाद्यते। तत्सामर्थ्यात्, तदा विद्यमानस्यार्थस्य सत्त्वासत्त्वप्रतिषेधावगतौ परिशेषादनिर्वाच्यत्वावगतेः। नच तदा वस्तुमात्राभावः। पुनः सृष्ट्यनुपपत्तेः। अभावस्याङ्गीकार्यत्वाच्च। परिशेषश्चार्थापत्तिः, अनुमानं वेत्याशङ्कते परिशेषादिति।
परिशेषादनिर्वाच्यं यदि सिद्ध्येत् परात्मनः।
अनिर्वाच्यत्वमेव स्यात् परिशिष्टो ह्यसौ तदा॥४१॥
परिशेषादनिर्वाच्यं वस्तु सिद्ध्येदिति यद्युच्यत इति सम्बन्धः। अत्र ब्रूमः भवेदिदं यद्यत्र सदसच्छब्दौ प्रतीतार्थौ स्याताम्। नचैवम्। प्रत्यक्षाप्रत्यक्षपञ्चमहाभूतपरत्वात्। “न सत् तन्नासदुच्यते” इत्यादौ तत्र प्रयोगात्।
कुत एतदिति चेत् प्रतीतार्थत्वेऽनिष्टप्रसङ्गादित्याशयवानाह परात्मन इति। तर्हि सत्त्वेनाङ्गीकृतस्य परमात्मन एवानिर्वाच्यत्वं स्यादित्यर्थः। कुत इत्यत आह परिशिष्टो हीति। सदसत्प्रतिषेधसामर्थ्यात् सर्वकार्यलयेऽवशिष्टस्य खल्वनिर्वाच्यत्वमेवेष्टव्यम्। असौ परमात्मा यस्मात् तदा प्रलयवेलायामलीनतयाऽवशिष्टः, तस्मात् तस्यानिर्वाच्यत्वं भवेदिति।
नच वाच्यम्, यद्यपि प्रलये परमात्मा विद्यत एव, तथाऽपि “तम आसीत्” इत्यादिसन्निहितवाक्यात् तमोऽविद्याख्यं बुद्धिसन्निहितमिति तदुपरक्तायां बुद्धौ परिशेषप्रमाणमपि तमस एव अनिर्वाच्यतामाधास्यतीति। “आनीदवातम्” इति वाक्येन ब्रह्मणोऽपि बुद्धिसन्निधानात्। “सत्यं ज्ञानम्” इति तस्य सत्यत्वावगमादपवाद इति चेत्, न। “आसीत्” इति तमसोऽपि सत्त्वावगमादपवादः स्यात्। सांव्यावहारिकं सत्त्वं तदिति चेत्। ब्रह्मणोऽपि तथा किं न स्यात्? किञ्चास्मिन् व्याख्याने तदानीमिति व्यर्थम्, सदा तमसोऽनिर्वाच्यत्वात्। अन्यपरं वाक्यमिति चेत्। तथाऽप्यसन्नासीदिति व्यर्थमेव। प्राप्त्यभावात्।
॥ श्रुत्यन्तरस्यानिर्वचनीयपरत्वनिरासः॥
“न तं विदाथ य इमा जजानान्यद् युष्माकमन्तरं बभूव। नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति”, “त इमे सत्याः कामा अनृतापिधानाः” इत्याद्यागमस्तर्ह्यज्ञानस्यानिर्वाच्यत्वे प्रमाणमित्यत आह नचेति।
नचान्य आगमस्तत्र सदसत्प्रतियोगिनि।
तत्रानिर्वाच्येऽर्थे मानमिति शेषः। अन्यानृतशब्दाभ्यामनिर्वचनीयाज्ञानाभिधानात् कथं नेत्यतोऽनिर्वाच्यत्वं निर्वक्ति सदसदिति। सदसती प्रतियोगिनी यस्य तत् तथोक्तम्। यन्न सत्, नााप्यसत्, तद्धि अनिर्वाच्यम्। नचात्र तत्प्रतिपादकः शब्दोऽस्ति। अनृतादिशब्दस्य त्वन्यथा व्याख्यानादिति।
॥ प्रत्यक्षार्थापत्तिभ्यामपि अनिर्वचनीयस्यासिद्धिः॥
प्रत्यक्षं प्रतिक्षिपति नचेति।
नच प्रत्यक्षमत्रास्ति नचार्थापत्तिरिष्यते॥४२॥
नहीदमनिर्वाच्यमिति कश्चिल्लौकिकः परीक्षको वा चक्षुरादिनेक्षते। बाधोत्तरकालं मिथ्यैव रजतं प्रत्यभादित्यनुवादात् कथं नेक्षत इति चेत्, न। मिथ्याशब्दस्यासदर्थत्वात्।
अर्थापत्तिमपाकरोति नचेति। अनुमानात् पृथक् प्रामाणिकैरिति शेषः। अनुमानं चाप्रसिद्धविशेषणतया निरस्तमिति भावः। किञ्च नास्त्यसावनुपपद्यमानोऽर्थो येन कस्यचिदर्थस्यानिर्वाच्यतापत्तिः स्यात्।
॥ विश्वस्य बाधप्रतीत्यन्यथानुपपत्त्याऽनिर्वचनीयत्वसाधनम्, तन्निरासश्च॥
अथ मतम् यदि वियदादिविश्र्वं वा शुक्तिरजतादिकं वा सत् स्यात्, तदा न बाध्येत, सतो बाधायोगात्। नहि सन्नात्मा बाध्यते। यदि वाऽसत् स्यात्, तर्हि न प्रतीयेत, असतः प्रतीत्ययोगात्। नहि नरि श्रृङ्गं भाति गवीव। अतो बाधप्रतीत्योरनुपपत्त्याऽनिर्वाच्यत्वं गम्यत इत्यत आह बाधेति।
बाधायोगात् सत इति बाधाभावत एव हि।
इष्टापत्तिर्नहि भ्रान्तावपि बाधोऽवगम्यते॥४३॥
विषयस्य कुतो बाधो विद्यमानं हि बाध्यते।
नहि वन्ध्यासुतो बाध्यो यज्ञदत्तो हि बाध्यते॥४४॥
अर्थापत्तिर्नेष्यत इति वर्तते। एकदेशोत्कीर्तनेनोक्तं सर्वमुपात्तं वेदितव्यम्। सतो बाधायोगादित्याद्युक्तार्थापत्तिर्नानिर्वाच्यत्वं गमयितुमलमित्यर्थः। वियदादेः सत्त्वे, शुक्तिरजतादेश्चासत्त्वेऽनुपपत्त्यभावादिति भावः।
ननु यदि वियदादिकं सत् स्यात्, तदा बाधो न स्यादित्युक्तमित्यत आह बाधाभावत इति। वियदादेर्विश्वस्य बाधाभावत एव, सत्त्वे बाधो न स्यादितीष्टापादानमेतत्। “नेह नानाऽस्ति” इति श्रौतनिषेधात्मा बाधोऽस्तीति चेत्, न। तस्य प्रा निषिद्धत्वात्। (४९, ४१०) तदिदमाह हिशब्देन। अनेनाऽक्षेपकासिद्धिश्र्चोक्ता भवति।
विमतं बाध्यम्, दृश्यत्वात्; भ्रान्तिवदिति वियदादौ बाधः प्रमित इत्यत आह नहीति। तस्माद् दृष्टान्तः साध्यविकल इत्यर्थः। कथमिति चेत्, वक्तव्यं तर्हि कस्य बाध इति। किं ज्ञानस्य, उत विषयस्य? नाऽद्यः, अधिष्ठानज्ञाननाश्यत्वलक्षणस्य पराभिमतस्य बाधस्य तत्र स्वभावभङ्गुरेऽभावात्। अन्यथा प्रमितेरपि तत्प्रसङ्गात्। परमते ज्ञानस्य साक्षित्वेन विनाशायोगाच्च।
द्वितीयं प्रतिषेधति विषयस्येति। न कुतोऽपीत्यर्थः। कुतो नेति चेत्। विषयः कोऽभिमतः? किं शुक्त्यादिः, किंवा रजतादिः? आद्ये हेतुमाह विद्यमानं हीति। “नहि भ्रान्तौ” इत्यतो मण्डूकप्लुत्या नेत्यनुवर्तते। विद्यमानं यथार्थज्ञानोदयानन्तरमप्यनुवर्तमानं नहि बाध्यते। तथासत्यात्मनोऽपि बाधप्रसङ्गादिति भावः।
द्वितीये हेतुमाह विद्यमानं हीति। यत् पूर्वं विद्यमानम्, तदेव केनचिन्नाश्यते, नत्वविद्यमानम्। शुक्तिरजतादिकं चाविद्यमानमिति तस्य नाश्यत्वायोगात् तद्विषयो बाधः सुतरामयुक्त इति। असतो नाश्यत्वं नास्ति किन्तु विद्यमानस्यैवेत्यत्र दृष्टान्तावाह नहीति। अयमत्र प्रयोगः शुक्तिरजतं न नाश्यम्, असत्त्वात्; यदसत्, तन्न नाश्यम्, यथा वन्ध्यासुतः। यद्वा यन्नाश्यम्, न तदसत्, यथा यज्ञदत्त इति।
॥ वियदादेः अन्यथाविज्ञातस्य सम्यग्विज्ञानगोचरत्वलक्षणबाध्यत्वमङ्गीक्रियते,
नतु अधिष्ठानयाथात्म्यज्ञाननाश्यत्वलक्षणम्॥
स्यादेतत्। बाधानभ्युपगमे लौकिकवैदिकव्यवहारविरोधः, अपसिद्धान्तश्च स्यादित्यतः सर्वथा अङ्गीकर्तव्ये बाधे, तद्दृष्टान्तेन वियदादेरपि बाधायोगात् सत्त्वानुपपत्तिरित्यत आह बाधेति।
बाधायोगात् सत इति व्याप्तिरेषा क्व दृश्यते।
क्वेत्याक्षेपे। इदमुक्तं भवति सत्यमङ्गीक्रियत एव बाधोऽस्माभिः। किन्त्वन्यथाविज्ञातस्य सम्यग्विज्ञानगोचरत्वलक्षणः। स तु भ्रान्ताविव वियदादावप्यस्त्येव। क्षणिकत्वब्रह्मपरिणामत्वादिरूपेण विज्ञातस्य स्थायित्वादिरूपेणावगमात्। अधिष्ठानयाथात्म्यज्ञाननाश्यत्वस्यैव प्राक् निरस्तत्वात्। तत्साधने सिद्धसाधनता स्यात्। नच तेन वियदादौ सत्त्वप्रतिक्षेपः सम्भवति। यत् सत् तन्न बाध्यत इति व्याप्तेरनवगतत्वात्। सत्यस्याप्यात्मनोऽन्याकारेण विदितस्य सम्यग्विज्ञानगोचरत्वस्योभयसिद्धत्वात्। नचार्थापत्तेः पृथक्प्रमाणत्वे किं व्याप्त्येति वाच्यम्। नहि वयमनुपपद्यमानस्य अर्थस्योपपादकेनार्थेन व्याप्तेरभावं चोदयामः। किन्तु सत्त्वस्य बाधाभावेन बाधस्य वा सत्त्वाभावेन। नहि बाध एवानुपपद्यमानोऽर्थः। किन्तु प्रतीतत्वे सति बाधः। तस्य चान्यथाऽनुपपत्तिं व्युत्पादयता सर्वथाऽसत्त्वे बाधो न स्यादिति प्रसङ्गो वा, बाधात् सन्न भवतीत्यनुमानं वा वाच्यम्। तदुभयं च व्याप्त्यपेक्षमेव। यदातु प्रमाणद्वयविरोधोऽर्थापत्तिः, तदा स्पष्ट एव व्याप्त्यभावो दोष इति।
ननु बाधायोगादिति पञ्चमी किमर्था? उच्यते सतो बाधायोगाद् बाध्यमानमिदं न सदित्यनुमाने व्याप्तिरेषा क्व दृश्यत इति व्याख्यायते। यद्वाऽस्मदभिमतबाधाभ्युपगमे बाधायोगात् सत इत्यादिकं नोपपद्यत इति नञोऽनुवृत्त्या व्याख्या। कुत इत्याशङ्कायां व्याप्तिरित्यादिकं व्याख्येयम्।
॥ परमतानुसारेण बाध्यत्वविकल्पः॥
एवं विनाशलक्षणं बाधं सिद्धवत्कृत्य शुक्तिरजादौ वियदादौ च बाधस्यासिद्धिरभिहिता। इदानीं तामेव विवरितुं बाधस्वरूपं परं पृच्छति कश्चेति।
कश्चायं बाध उद्दिष्टो नहि नाशोऽसतो भवेत्।
निवृत्तिश्चाप्रवृत्तस्य कथमेवोपपद्यते॥४५॥
योऽयं वियदादेः शुक्तिरजतादेश्च सत्त्वाभावसिद्ध्यर्थं बाध उद्दिष्टः, अयं कः? किं ज्ञानेन विनाशः, किंवा निवृत्तिः, यद्वा “नासीत्, नास्ति, न भविष्यति’ इति कालत्रयसत्तानिषेध इति भावः।
ननु विनाशनिवृत्त्योः को भेदः? उच्यते केचित् खलु मायावादिनो वदन्ति अधिष्ठानयाथात्म्यज्ञानेन सविलासाऽविद्या विनश्यति। यावन्ति ज्ञानानि तावत्यो ह्यविद्या इति। तन्मतरीत्या विनाश इत्युक्तम्। अपरे त्वेकैवाविद्या तदवस्थाविशेषा एव रजताद्युपादानानि भवन्तीति मन्वाना अधिष्ठानतत्वज्ञानेन सह कार्यैरविद्या तिरोधत्त इति। तत्समयानुसारेण निवृत्तिरिति।
यद्वाऽविद्याया विद्यया विनाशो भवति। कार्यं तु रजतादिकमुपादानविनाशे स्वयमेव विलीयत इति परेषां मतम्। तदुभयानुसारेणेदं कल्पद्वयम्। अथवाऽलौकिकरजतोत्पादवादिनां मतमनुसृत्य विनाश इति। मायावादिनां तु मतमनुरुद्ध्य निवृत्तिरिति। यदि वा, विनाश इति मायावादिनां मतम्, विवेकाग्रहात् प्रवृत्तस्य विवेकग्रहे सति निवृत्तिरिति प्राभाकरमतमिति।
॥ ज्ञानविनाश्यत्वलक्षणबाध्यत्वनिरासः॥
आद्यं दूषयति नहीति। असत इत्युपलक्षणम्। “असदेव रजतं प्रत्यभात्’ इत्युत्तरानुभवबलादसदेव तावच्छुक्तिरजतम्। नचासतः शशविषाणवद् विनाशः सम्भवति। स्वरूपनिवृत्तिर्हि विनाशः। नचासतः स्वरूपमस्ति, व्याघातात्। नापि वियदादेर्विनाशः सम्भवति, नित्यत्वात्। घटादेरपि मुद्गराभिघातादिनैव विनाशः, नाधिष्ठानतत्वज्ञानेनेति पूर्वोक्तं स्मारयितुमेतदुक्तमिति हिशब्दः।
॥ ज्ञाननिवर्त्यत्वलक्षणबाध्यत्वनिरासः॥
द्वितीयं निराकरोति निवृत्तिश्चेति। तिरोभावादिरूपा निवृत्तिः खल्वाविर्भावादिरूपप्रवृत्तिमतो भवेत्।सद्धर्मश्चाऽविर्भावः। शुक्तिरजतादिकं चासदित्युक्तम्। अतोऽप्रवृत्तस्य तस्य निवृत्तिश्च कथमेवोपपद्यते? यद्वा अविद्यया प्रवृत्तस्य तदुपादानकस्य हि विद्यया निवृत्तिरुक्तरूपोपपद्यते। नच शुक्तिरजतादिकमविद्योपादानकम्, असत्त्वात्। अतोऽप्रवृत्तस्य निवृत्तिश्च कथमेवोपपद्यते? एतेन वियदादावपि बाधासिद्धिरुक्ता वेदितव्या। प्राभाकरं प्रति रजतार्थिताभावादिनाऽप्रवृत्तस्य पुरुषस्य निवृत्तिर्नोपपद्यत इति तत्राव्याप्तेर्नेदं बाधलक्षणमिति व्याख्येयम्।
॥ त्रैकालिकसत्तानिषेध्यत्वरूपबाध्यत्वनिरासः॥
तृतीयं दूषयितुमनुवदति नासीदिति।
नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता।
यदि बाधस्तदाऽसत्त्वं तेनैवाङ्गीकृतं पुनः॥४६॥
यदेतावन्तं कालं प्रत्यभात्, तत्, “नासीत्, नास्ति, न भविष्यति’ इति त्रैकालिकसत्त्वनिषेधरूपज्ञानविषयता यदि बाध इत्यर्थः। यद्यप्येवविधं ज्ञानं बाध इति वक्तव्यम्, तथाऽपि तस्य रजतादिसम्बन्धिताज्ञापनार्थं ज्ञानमेयतेत्युक्तम्।
दूषयति तदेति। यद्येवं त्रैकालिकसत्त्वनिषेधलक्षणो बाधो वियदादेः शुक्तिरजतादेश्चाङ्गीक्रियते, तदा असद्वैलक्षण्यमुररीकुर्वता तेनैव पुनरसत्त्वमङ्गीकृतं स्यात्। सत्ताविरहव्यतिरेकेण शशविषाणादीनामप्यसत्त्वस्यानिरूपणात्। अपसिद्धान्तप्रसङ्गान्नायं बाधः परेणाङ्गीकर्तुं शक्यत इत्याशयः। असिद्धश्चायं बाधो वियदादाविति प्रागेवोक्तम्। (७२)
॥ असतः प्रतीतिविषयत्वस्यावश्याभ्युपगमनीयत्वम्॥
यदुक्तं शुक्तिरजतादेरसत्त्वान्न विनाशादिलक्षणो बाधः सम्भवतीति, तदसिद्धम्। विमतं नासत्, प्रतीयमानत्वात्; यत् प्रतीयते तन्नासत्, यथा पटः, यच्चासत् न तत् प्रतीयते, यथा शशविषाणमिति प्रमाणेनासत्त्वविरहस्य निश्चितत्वात्। अत एवासत्त्वेऽनुपपत्त्यभावादर्थापत्तेरन्यथैवोपपत्तिरित्यपि प्रत्युक्तम्। प्रतीतेरेवानुपपत्तेः।
यच्चोक्तं त्रैकालिकसत्त्वनिषेधेऽसत्त्वाङ्गीकारप्रसङ्ग इति, तदप्यसत्। प्रतीतत्वेनासत्त्वानुपपत्तौ निषेधस्य सत्त्वोत्सारणमात्र एव पर्यवसानोपपत्तेः।
यदप्यत्रोक्तं सत्ताविरहव्यतिरेकेणासत्त्वं नाम दुर्निरूपमिति, तच्चायुक्तम्। निरुपाख्यत्वमसत्त्वमिति निरूपणादिति चेत्, न। असतः प्रतीत्यभावे खल्विदं सर्वं स्यात्। नचैवम्। असतः प्रतीतिं निराकुर्वता त्वयैव तस्या अङ्गीकार्यत्वादित्याशयवानाह प्रतीतिरिति।
प्रतीतिर्नासत इति वदन्नङ्गीकरोति ताम्।
निषेधो ह्यप्रतीतस्य कथञ्चिन्नोपपद्यते।
वदन्नित्युपलक्षणम्। जानन्नित्यपि द्रष्टव्यम्। असतः प्रतीतिर्नास्तीति निषेधं कुर्वता कुतोऽसतः प्रतीतिरङ्गीकार्येत्यत आह निषेधो हीति। प्रतीतिर्नासत इति किमसतः प्रतीतिर्निषिद्ध्यते, किंवा प्रतीतेरसद्विषयत्वम्? आद्ये प्रतिषेधविषयतया, द्वितीये प्रतिषेध्यनिविष्टतयाऽवश्यमसतः प्रतीतिरङ्गीकरणीया। तस्मात् कथञ्चिदुक्तप्रकारद्वयेनाप्रतीतस्य सम्बन्धी निषेधो नोपपद्यते। नह्यप्रतीते भूतले घटे वा भूतले घटो नास्तीति प्रतिषेधो दृष्टः। तदनेन विमतोऽसत्प्रतीतिमान्, तत्सम्बन्धिनिषेधकर्तृत्वात्, तद्व्यवहर्तृत्वाद् वा; सम्मतवदिति प्रमाणं सूचितं भवति। अवश्यं च प्रामाणिकं परीक्षकेणाभ्युपगन्तव्यम्। मनस्यभ्युपगमो वाचि निषेध इति स्वक्रियाविरोधो वाऽनेन सूचित इति।
॥ उपमानाभावाभ्यामपि अनिर्वचनीयस्यासिद्धिः॥
एवमर्थापत्तिं निरस्योपमानं च निरस्यति नचेति।
नचोपमा भवेदत्र प्रत्यक्षात् सत्त्वमेव च॥४७॥
अत्र अनिर्वचनीयार्थसद्भावे। प्रमाणमिति शेषः। तस्याः सादृश्यादिनियतविषयत्वादिति भावः।अभावमपाकरोति प्रत्यक्षादिति। वियदादौ शुक्तिरजतादौ वा प्रत्यक्षेणानुपलम्भेन वा सत्त्वासत्त्वयोरभावसिद्धावनिर्वचनीयार्थसिद्धिरिति वक्तव्यम्। नच तद् युक्तम्। यतो वियदादौ प्रत्यक्षात् सत्त्वमेव निश्चीयते। चशब्दाच्छुक्तिरजतादावसत्त्वं च निश्चीयत इति गृह्यते। प्रत्यक्षं विपरीतम्, अनुपलम्भश्चासिद्ध इत्यर्थः।
॥ अनिर्वचनीयसाधकप्रमाणानां प्रत्यक्षविरोधः॥
एवमनुमानादीनां प्रत्येकं दूषणमभिधाय साधारणं दूषणमाह प्रत्यक्षादिति। प्रत्यक्षेण गगनादौ सत्त्वमेव शुक्तिरजतादौ त्वसत्त्वमेव निश्चीयते। “सद् गगनम्’, “अस्ति मेऽज्ञानम्’, “असदेव रजतं प्रत्यभात्’ इति सर्वलोकसाक्षिणः साक्षात्कारिप्रत्ययस्य दुरपह्नवत्वात्। अतस्तदनिर्वाच्यतायामाशयमानान्यनुमानादीनि प्रत्यक्षापहृतविषयाणीति “नोभयं चेन्न सिद्धं तत्” इति युक्तम्।
॥ जीवेश्वरभेदमिथ्यात्वानुमानस्य दूषणम्॥
यद्वा जीवेश्वरयोर्भेदो मिथ्या, भेदत्वात्; इत्याद्यनुमानस्य दूषणान्तरमाह प्रत्यक्षादिति। जीवेश्वरभेदस्यावधार्यत इति शेषः। ततः प्रत्यक्षविरुद्धत्वेन कालात्ययापदिष्टत्वं जीवेश्वरभेदमिथ्यात्वादिसाधकानुमानस्येति भावः।
॥ स्वात्मपरमात्मनोर्भेदस्य साक्षिसिद्धत्वादैक्यानुमानस्य बाधितविषयत्वम्॥
स्यादेतत्। ईश्वरस्तावन्न प्रत्यक्षसिद्धः। शास्त्रयोनित्वस्याभ्युपगतत्वात्। नापि सर्वे जीवाः। परात्मनां परात्मानं प्रति प्रत्यक्षत्वस्यानभ्युपगमात्। नचाप्रत्यक्षवस्तुभेदः प्रत्यक्षसिद्धः, दूरे तत्सत्यत्वमित्यत आह शास्त्रेति।
शास्त्रगम्यपरेशानाद् भेदः स्वात्मन ईयते।
अनुभूतिविरोधेन कथमेकत्वमुच्यते॥४८॥
ईयते प्रत्यक्षेणेति शेषः। उक्तं तावन्नैक एव भेदोऽनेकत्र व्यासज्य वर्तते, किन्त्वेकप्रतियोगिकोऽपरधर्भिक इति। (७२१) तत्प्रत्यक्षतायां च धर्मिण एव प्रत्यक्षतोपयुज्यते। प्रतियोगिनस्त्ववगममात्रम्, तथा लोके दर्शनात्। तत्रेश्वरस्याऽत्मान्तराणां चाप्रत्यक्षत्वेन तद्धर्मिकस्य भेदस्य प्रत्यक्षेण ज्ञातुमशक्यत्वेऽपि परमेश्वरप्रतियोगिकः स्वात्मधर्मिको भेदः प्रत्यक्षेण ज्ञातुं शक्यत एव। स्वात्मनः प्रत्यक्षत्वात्। परेशानस्य च शास्त्रेणावगतत्वात्। यस्तु शास्त्रेणेश्वरं न जानाति तेन मा विज्ञायि तत्प्रतियोगिकः स्वात्मनो भेदः। शास्त्राद् विदितेश्वरस्यैव प्रत्यक्षं ततः स्वात्मनो भेदे प्रमाणमुक्तमिति।
तथाऽपि कथमनुमानस्य कालात्ययापदिष्टत्वं भेदग्राहकस्य प्रत्यक्षस्य प्राबल्यानिरूपणादित्यत आह अनुभूतीति। अत्रानुभूतिशब्देन साक्षी गृह्यते। उच्यते अनुमीयते। परार्थानुमानप्रयोगस्य वचनात्मकत्वादुच्यत इत्युक्तम्। अनुमानेनेत्यध्याहारो वा।
एतदुक्तं भवति साक्षिप्रत्यक्षं खलु स्वात्मनः परमात्मभेदग्राहकमिष्टम्। तच्चानुमानतः प्रबलमेव। तत्स्वरूपप्रामाण्ययोर्धर्मिकोटिनिविष्टस्य जीवस्य च ग्राहकत्वेनोपजीव्यत्वात्। अतस्तद्विरोधेन जीवब्रह्मणोरेकत्वं नानुमातुं शक्यत इति।
॥ साक्षिणः स्वात्मपरमात्मभेदग्राहित्वप्रतिपादनम्॥
अस्तु साक्षिप्रत्यक्षमनुमानात् प्रबलम्, तस्येश्वरात् स्वात्मनो भेदग्राहकत्वं तु कुतो निश्चितम्, येन अनुमानं बाधितविषयं स्यादित्यत आह किञ्चिदिति।
किञ्चित्कर्ता च दुःखीति सर्वैरेवानुभूयते।
सर्वज्ञो भगवान् विष्णुः सर्वशक्तिरिति श्रुतः॥४९॥
उपलक्षणमेतत्। अल्पज्ञोऽल्पशक्तिश्चेत्यपि पूर्वार्धे ग्राह्यम्। तथा सर्वकर्ता निर्दुःख इत्यपरार्धे। अनुभूयते स्वात्मेति शेषः। श्रुतः “यः सर्वज्ञः”, “पराऽस्य शक्तिः”,”स हि सर्वस्य कर्ता”, “निरनिष्टः” इत्यादाविति शेषः।
अयमभिसन्धिः यो हि यमर्थमधिगम्य तद्विरुद्धधर्माणं यमध्यक्षीकरोति स तस्मात् तस्य भेदं प्रत्यक्षतः पश्यत्येवेति सर्वसाक्षिकम्। यद्यपि भेदः प्रत्यक्षसिद्धः, तथाऽपि प्रतियोगिनो वैधर्म्यदर्शनं प्रत्यक्षसाचिव्यमाचरतीति न दोषः। दृष्टं हि रत्नतत्वसाक्षात्कारे शास्त्रीयलक्षणज्ञानस्य साचिव्यम्। तदिहापि शास्त्रावगतसार्वज्ञ्यादिमदीश्वरः पुरुषः स्वात्मानं तद्विरुद्धाल्पज्ञत्वादिधर्मवन्तं साक्षिणाऽनुभवन्, ततः स्वात्मनो भेदं कथं नाध्यक्षीकुर्यादिति।
अस्त्वेकस्य जीवस्येश्वराद् भेदः साक्षिसिद्धः, तथाऽपि तं विहायान्यत्रेश्वराभेदानुमाने न प्रत्यक्षबाध इत्यत उक्तम् सर्वैरेवेति। एकप्रत्यक्षबाधाभावेऽपि तत्तत्प्रत्यक्षबाधो दुष्परिहर इति भावः।
॥ ऐक्यानुमानस्य प्रत्यक्षागमविरोधः॥
ननु जीवं पक्षीकृत्येश्वराभेदसाधने भवेदयं प्रत्यक्षविरोधः। नचैवमनुमीयते। किन्त्वीश्वरं पक्षीकृत्य जीवाभेद इत्यत आह अनुभूताद्धीति।
अनुभूताद्धि भेदेन श्रुतिरेषा वदत्यमुम्।
ईश्वरं पक्षीकुर्वता हि तत्सिद्धिरवश्यं वक्तव्या। नच प्रत्यक्षादिना स सिद्ध्यतीति श्रुतिरेव तद्ग्राहिका ग्राह्या। एषा च धर्मिप्रमाणभूता “यः सर्वज्ञः” इत्यादिका श्रुतिः अमुमीश्वरमल्पज्ञत्वादिना अनुभूताज्जीवाद् भेदेन वदति। तस्मात् प्रत्यक्षबाधाभावेऽप्युपजीव्यश्रुतिविरोधेन कालात्ययापदिष्टता दुष्परिहरैव। सदावगताल्पज्ञत्वादिमज्जीवस्वरूपं प्रति सार्वज्ञ्यादिमदीश्वरस्वरूपं प्रतिपादयन्ती श्रुतिः ततस्तं भिन्नमेव प्रतिपादयति। अनुभवस्यापलपितुमशक्यत्वात्। अनेनैवोभयपक्षीकारोऽपि परास्तः। उपजीव्यप्रत्यक्षश्रुतिबाधितत्वादिति।
॥ “तद् योऽहम्’ इत्यादेरैक्यपरत्वे उपजीव्यप्रमाणविरोधः॥
एवमनुमानं निराकृत्येदानीं “तद् योऽहम्” इत्यादिश्रुतिं निराकरोति उपजीव्येति।
उपजीव्यविरुद्धं तु कथमैक्यं श्रुतिर्वदेत्॥५०॥
तुशब्दो विशेषार्थः। दुष्टं ह्यनुमानमप्रमाणमेव, श्रुतेस्तु प्रतीतार्थप्रच्यावनमात्रमिति। ऐक्यं जीवेश्वरयोः। श्रुत्या हि यदि जीवमनूद्य तस्येश्वरैक्यं बोध्यते, तदा जीवग्राहकं साक्षिप्रत्यक्षमुपजीव्यं स्यात्। तच्च भेदग्राहकमित्युक्तमित्युपजीव्यविरोधः। यदि चेश्वरानुवादेन तस्य जीवाभेदो विधीयते तदा “यः सर्वज्ञः” इत्यादिकं श्रुत्यन्तरमेवोपजीव्यं भवेत्। तच्च भेदग्राहकमित्युक्तत्वादुपजीव्यविरोध एव। यदिचोभयानुवादेनाभेदमात्रबोध्यम्, तदोभयमुपजीव्यमित्युपजीव्यप्रमाणविरोधः स्फुट एव। यद्यप्येतत् सर्वं प्रथमसूत्र एवोक्तम्, तथाऽपि प्रपञ्चनार्थं पुनरारभ्यत इत्यदोषः। (११७)
॥ उपजीवकविरोधेन उपजीव्यस्य अप्रामाण्यायोगः॥
ननूपजीव्यविरोधेनोपजीवकं बाध्यत इत्यत्र किं नियामकम्? येन प्रत्यक्षागमविरोधादनुमानागमयोरप्रामाण्यमुक्तम्। उच्यते इह हि भेदाभेदविषययोरुपजीव्योपजीवकयोरुभयोरपि प्रामाण्यमेव वा, अप्रामाण्यमेव वा, एकस्य प्रामाण्यं अपरस्याप्रामाण्यं वा, तत्राप्युपजीवकस्य प्रामाण्यं उपजीव्यस्याप्रामाण्यं वा, उपजीव्यस्य प्रामाण्यं उपजीवकस्याप्रामाण्यमिति पक्षाः सम्भवन्ति। तत्र न तावत् प्रथमः, विरुद्धयोः प्रामाण्यानुपपत्तेः। उपपत्तौ वा वस्तुनो द्वैरूप्यापत्तेः। भ्रान्तिबाधव्यवस्थाभावप्रसङ्गाच्च। नच भेदाभेदाभ्यामुपपत्तिः, निराकरिष्यमाणत्वात्, (१००९) असार्वत्रिकत्वाच्च। नचानैकान्तवादेन निस्तारः, द्वयोरपि सावधारणत्वासम्भवात्। नापि द्वितीयः, वस्तुनो निःस्वभावत्वापत्तेः। नचानिर्वाच्यतास्वीकारेण निर्वाहः। ब्रह्मण्यपि सम्भवादिति पक्षद्वयमतिस्फुटदोषत्वादनिराकृत्य तृतीयं दूषयति अप्रामाण्यमिति।
अप्रामाण्यं यदा भेदवाचकस्य भविष्यति।
स एव धर्मिणो ग्राही तदभेदः कथं भवेत्॥५१॥
भेदवाचकस्याऽगमस्येत्युपलक्षणम्। भेदग्राहिणः प्रत्यक्षस्येत्यपि द्रष्टव्यम्। एवं तदा स एवेत्यत्रापि व्याख्यातव्यम्। धर्मिणो जीवस्येश्वरस्य च। इतिशब्दोऽध्याहार्यः। कथं बोध्य इति शेषः।
इदमुक्तं भवति यद्यज्ञानादिविशिष्टस्य जीवस्य सार्वज्ञ्यादिविशिष्टस्य परमात्मनो ग्राहकं प्रत्यक्षमागमवाक्यं वाऽप्रमाणं स्यात्, तदा जीवेश्वरयोरसिद्धौ तत्त्वमस्याद्यागमैरनुमानैश्च तदभेदबोधनं न स्यात्, निर्विषयत्वात्। तथाच कस्य विरोधात् प्रत्यक्षादेरप्रामाण्यं स्यात्? ज्ञापकश्चायमर्थो न कारकः। अखण्डार्थबोधनमपि लौकिकवाक्यन्यायमनुसृत्य पश्चाल्लक्षणया परेणाभ्युपगतम्। न पुनरेवमेव। अलौकिकप्रकारस्य बोधानङ्गत्वात्। तस्मादुपजीवकविरोधेनोपजीव्यस्याप्रामाण्यायोगात् परिशेषतः चतुर्थप्रकार एव च सिद्ध्यतीति।
॥ भेदबोधकागमस्य निषेध्यसमर्पकतया उपजीव्यत्वात् अनुमानबाध्यत्वाङ्गीकारे
धर्मिग्राहकप्रमाणाभावेनानुमानस्यैवानुत्थानप्रसङ्गः॥
भवेदेवोपजीवकादुपजीव्यं वलवत्, तद्विरोधे चोपजीवकस्याप्रामाण्यम्। किन्नाम। अस्ति तत्र विशेषः। अनेकप्रकारो ह्युपजीव्योपजीवकभावः। क्वचिद् धर्मिग्राहकतया। क्वचित् साध्यग्राहकतया। क्वचित् तद्ग्रहणोपयुक्ततया। क्वापि स्वरूपग्रहणेन। कुत्रचित् प्रामाण्योपपादनेन। क्वचिद् व्याप्त्याद्यङ्गप्रतिपादकत्वेनेति। तत्र सर्वत्रोपजीव्यविरुद्धमुपजीवकं बाध्यत एव। आश्रयादिहीनस्योत्थानविरहापत्तेः। यत्र पुनः प्रतिषेधकस्योपजीवकस्य प्रतिषेध्यसमर्पकमुपजीव्यं भवति, तदा नायं न्यायः। तत्र चोपजीवकेनैवोपजीव्यस्य बाधः। निषेधार्थमेव तेन तदुपजीवनात्। दृष्टं हीदं रजतमिति ज्ञानस्य नेदं रजतमिति ज्ञानेन बाध्यत्वम्। तदिहापि यदुक्तमभेदप्रमाणयोरनुमानागमयोरुपजीव्याभ्यां प्रत्यक्षागमाभ्यां विरोधादप्रामाण्यमिति, तदयुक्तम्। प्रत्यक्षागमयोरनुमानागमौ प्रति निषेध्यसमर्पकतयोपपजीव्यत्वात्। भेदनिषेधो हि न तत्प्राप्तिं विना सम्भवति। तेनात्रोपजीवकविरोधिनोरुपजीव्ययोः प्रत्यक्षागमयोरेवाप्रामाण्यमुचितमित्यतो “यः सर्वज्ञः” इत्यादेरागमस्य तावदप्रामाण्यमपाकरोति अप्रामाण्यमिति। भेदवाचकस्य भेदकसार्वज्ञ्यादिविशिष्टपरमात्मप्रतिपादकस्याऽगमस्य।
एतदुक्तं भवति समुत्थानवता खल्वनुमानेनाऽगमेन वा विरोधिना “यः सर्वज्ञः” इत्याद्यागमस्य अप्रामाण्यमेष्टव्यम्। अस्याप्रामाण्ये त्वनुमानादेरुत्थानमेव दुर्लभम्। दूरे तद्बाधनम्। परमात्मलक्षणस्य धर्मिणस्तदेकगम्यत्वात्। निराश्रयस्यानुमानादेः प्रवृत्त्यनुपपत्तिरिति।
॥ नेदं रजतमित्यत्र यदुपजीव्यं न तदुपजीवकेन बाध्यते,
यच्च बाध्यते न तदुपजीव्यम्॥
नन्वेवन्तर्हि नेदं रजतमिति ज्ञानविरोधेन इदं रजतमिति ज्ञानस्याप्रामाण्यं न स्यात्। न न स्यात्। नहि नेदं रजतमिति ज्ञानं रजतताविशिष्टं वस्तु धर्मीकृत्योत्पद्यते, किन्तु स्वरूपमात्रम्। सर्वमपि हि ज्ञानं धर्मिणि प्रमाणम्, प्रकारे तु विपर्ययः। तदत्रापीदं रजतमिति ज्ञानमिदमंशे प्रमाणमिति तत्सिद्धमिदमाकारमाश्रित्य प्रवृत्तेन बाधकप्रत्ययेन विरोधाद् रजतांशे पूर्वज्ञानस्याप्रामाण्यं युज्यत एव।
॥ आगमानां ब्रह्मस्वरूपमात्रे प्रामाण्यम्, सार्वज्ञ्यादिवैशिष्ट्याकारेऽप्रामाण्यमित्यस्य दूषणम्॥
नन्वनेनैव न्यायेनाभेदानुुमानागमविरोधेन “यः सर्वज्ञः” इत्यादिश्रुतेरप्रामाण्यं शक्योपपादनम्। इयमपि श्रुतिर्ब्रह्मस्वरूपमात्रे प्रमाणमिति तन्मात्रमुपजीव्य, अनुमानागमाभ्यां सार्वज्ञ्यादिभेदकधर्मवैशिष्ट्यांशेऽप्रमाणीकरिष्यते। तथाच यद् धर्मिग्राहकम्, न तद्विरोधोऽनुमानादेः। यच्च विरोधि न तद्धर्मिप्रमाणमित्यत आह यदिति।
यत् स्वरूपग्रहे मानं तद् धर्मे न कथं भवेत्।
यत् श्रुतिवाक्यं ब्रह्मस्वरूपग्रहणार्थं मानमङ्गीक्रियते, तद् धर्मे सार्वज्ञ्यादिधर्मवैशिष्ट्याकारे कथं न मानं भवेत्?
अयमभिसन्धिः शुक्तिरजतादिज्ञानं हीदमंशे प्रमाणं रजतवैशिष्ट्यांशे त्वप्रमाणमिति युक्तम्। वैशिष्ट्यांशस्य बाधकप्रमाणविरुद्धत्वात्। इदमाकारस्योत्तरत्राप्यनुवृत्तेः। इदं न रजतमिति बाधकज्ञानमुत्पद्यते न पुनर्नेदं न रजतं चेति। नचायमत्र न्यायः। स्वरूपवद् विशिष्टांशेऽपि बाधकाभावात्। नचाभेदानुमानागमौ बाधकौ, अन्योन्याश्रयत्वात्। बाधितत्वेन श्रुतेरप्रामाण्ये सत्युपजीव्यविरोधरहितस्यानुमानादेर्बाधकत्वम्, सति च तस्मिन् तद्विरोधिन्याः श्रुतेरप्रामाण्यमिति।
कथञ्चानुमानादेः श्रुतिबाधकत्वम्? न तावद् विरोधित्वमात्रेण। वैपरीत्यस्यापि सुवचत्वात्। नापि विरोध्युत्तरज्ञानत्वेन शुक्तिरियमिति ज्ञानानन्तरं रजतमिदमिति ज्ञानस्य दर्शनात्। अनुत्तरविरोधिज्ञानं बाधकम्, इदं तु सोत्तरमित्यपि न। कदाचिदनुत्तरस्यापि रजतज्ञानस्य सम्भवात्। किन्तु यावच्छक्ति परीक्षितमुत्तरं विरोध्यपरीक्षितस्य पूर्वस्य बाधकं भवति। नचैवमत्रास्तीति।
॥ इदं रजतमित्यत्र विषयोपाधिवशाद् द्विभागत्वस्य, बाधकबलादेकस्याप्रामाण्यस्य चाङ्गीकारेऽपि
“यः सर्वज्ञः’ इत्याद्यागमजन्यज्ञानस्य एकत्वात्, बाधाभावाच्च नाप्रामाण्यम्॥
न केवलं बाधकाभावसाम्यादयं विभागो न युक्तः, किन्तर्हीत्यत आह एकेति।
एकविज्ञानविज्ञप्त्या द्वयं मानं भविष्यति।
नचेदेकं प्रमाणं तद् द्वयमप्यत्र नो भवेत्॥५२॥
एकविधमेवेदं “यः सर्वज्ञः” इत्यादिश्रुतिजनितं विज्ञानम्, न पुनः शुक्तिरजतादिज्ञानमिव स्वरूपमात्रे प्रमाणं विशिष्टाकारे त्वप्रमाणमित्यनेकविधमित्येवं परीक्षासहकृतसाक्षिरूपविज्ञप्त्याऽपीदं ज्ञानद्वयं धर्मधर्मिद्वयगर्भं विशिष्टाकारं प्रत्यपि मानं भवत्येव। वक्ष्यते चायमर्थः प्रपञ्चेन। (अनुपदम्, १२३१) यद्वा द्वयं प्रतीतिद्वयं स्वरूपवद् धर्मेऽपीति योज्यम्।
अथवा “यः सर्वज्ञः” इत्यादिश्रुतेर्ब्रह्मस्वरूपमात्रे प्रामाण्यम्, अप्रामाण्यं तु सार्वज्ञ्यादिविशिष्टाकार इति वदतः कोऽभिप्रायः? किं शुक्तिरजतादिज्ञानमिवैकमेवेदं ज्ञानं विषयभेदेन प्रमाणं अप्रमाणं चेति, किंवा ज्ञानद्वयमेतत् तत्रैकं प्रमाणं अपरं चाप्रमाणमिति? आद्यं दूषयति यदिति। पूर्व एवाभिप्रायः। द्वितीयं निराकरोति एकेति। एकमेवेदं विज्ञानमिति साक्षिविज्ञप्त्या नानेकत्वं कल्प्यमिति शेषः। अन्यथा स्तम्भोऽयमित्यादावपि ज्ञानद्वयकल्पनापत्तिः। तथाच सामानाधिकरण्यं न केनापि ज्ञायेत।
अस्तु वेदं ज्ञानद्वयम्, तथाऽपि नैकस्याप्रामाण्यं वक्तुं शक्यते। स्वरूपज्ञानस्येव धर्मज्ञानस्याप्यबाधितत्वादित्याह द्वयमिति। ज्ञानद्वयमपीत्यर्थः। धर्मज्ञानमपीति वक्तव्ये द्वयमिति वचनं न्यायसाम्यसूचनार्थम्।
एवं बाधाभावपरीक्षितत्वसाम्येऽपि श्रौतमेकं ज्ञानद्वयं वाऽङ्गीकृत्यांशतः प्रामाण्याप्रामाण्ये वदतोऽतिप्रसङ्गमाह नचेदिति। तच्छ्रौतं ज्ञानं द्वयं विशिष्टाकारं प्रति प्रमाणं नचेत्, तदाऽत्र विषये एकं स्वरूपांशं प्रत्यपि प्रमाणं न भवेत्, अविशेषात्। तथाच पुनरनाश्रययोरनुमानागमयोरनुत्थानमेव। यद्वा तद्विज्ञानमत्र विषये एकं विशिष्टाकारं प्रति प्रमाणं नचेत्, तदा द्वयं प्रत्यपि नो भवेत्। विशिष्टाकारवत् स्वरूपेऽपि प्रमाणं न भवेत्, अविशेषादिति यावत्। ज्ञानद्वयाङ्गीकारवादे त्वत्र ज्ञानद्वये तद्विशिष्टविषयं ज्ञानं प्रमाणं नचेत्, तर्हि ज्ञानद्वयमपि प्रमाणं न भवेत्। विशिष्टज्ञानमिव स्वरूपज्ञानमप्यप्रमाणं स्यात्, अविशेषादिति।
॥ सर्वज्ञत्वादिविशिष्टब्रह्मस्वरूपस्य दुःखादिविशिष्टजीवस्वरूपस्यैव च धर्मित्वात्
ऐक्यागमस्य धर्मिग्राहकविरोधो दुष्परिहरः॥
एवमभेदानुमानागमौ प्रति “यः सर्वज्ञः” इति श्रुतेर्निषेध्यसमर्पकत्वेनोपजीव्यत्वं प्रत्युक्तम्। तथाऽपि नानुमानागमयोरुपजीव्यप्रमाणविरोधोऽस्ति। “यः सर्वज्ञः” इत्यादिश्रुतिसिद्धब्रह्मस्वरूपमात्राश्रयणेन प्रवृत्तत्वात्। नहि सार्वज्ञ्यादिविशिष्टाकारमवलम्ब्यानुमानादिना प्रवर्तितव्यमित्यत्र नियामकमस्ति। ततो विरुद्धाकारस्यानुपयोगितयाऽनुपजीवनादुपजीव्यस्य च स्वरूपमात्रस्य अविरोधित्वान्नोपजीव्यप्रमाणविरोधोऽनुमानादेः। प्रमाणविरोधस्तु कथञ्चित् स्यादित्याशङ्कां परिहरन्नुपसंहरति धर्मीति।
धर्मिग्राहिविरोधस्तु तस्मान्मानस्य दूषणम्।
तुशब्दो विशेषार्थः प्रमाणमात्रविरोधाद् व्यवच्छिनत्ति। धर्मिग्राहिण्या श्रुत्या विरोधः। मानस्य अभेदप्रमाणस्यानुमानागमरूपस्य।
अयमाशयः परमाणवः सावयवा इत्यादेरनुमानस्य वाक्यस्य च कथमुपजीव्यविरोधः इति वक्तव्यम्। परमाणुग्राहकेण प्रमाणेन निरवयवतयैव तेषां सिद्धत्वादिति चेत्, न। तत्रापि परमाणुत्वस्य अनुपयोगिनोऽनुपजीव्यत्वम्, किन्तु स्वरूपमात्रस्येति वक्तुं शक्यत्वात्। नैवं युक्तम्। निरवयवत्वादिना विना परमाणोर्धर्मीकरणासम्भवात्। स्वरूपमात्रधर्मीकरणे सिद्धार्थतापत्तिरिति चेत्, समं प्रकृतेऽपि। नहि ब्रह्मापि सार्वज्ञ्यादिना विना शक्यं धर्मीकर्तुम्। स्वरूपमात्रधर्मीकरणे सिद्धसाधनात्। आरोपितेन सार्वज्ञ्यादिना व्यावृत्तस्य धर्मीकरणे को दोषः? योऽयं स्थाणुः स पुरुष इतिवदिति चेत्, न। आरोपितेन निरवयवत्वादिना व्यावृत्तस्य तत्रापि धर्मीकरणसम्भवात्। निरवयवत्वादिग्राहकं प्रमाणतयाऽवधृतम्, नाऽरोपित इति चेत्, तुल्यमत्रापि। श्रुतेरपि प्रामाण्यनिश्चयात्। तदेवं प्रमाणसिद्धेन निरवयवत्वादिना विशिष्टस्यैव यथा धर्मीकरणम्, तथाऽत्रापि सार्वज्ञ्यादिना पारमार्थिकेनैव विशिष्टस्यैव धर्मीकरणमित्यतो धर्मिग्राहिविरोधो दुष्परिहर इति।
॥ अभेदप्रमाणस्य निषेधसमर्पकतया उपजीव्यत्वात् तदुपजीवकभेदश्रुतिबाध्यत्वम्॥
स्यादेतत्। यथा खल्वभेदप्रमाणयोरनुमानागमयोरुपजीव्यविरोधान्नाभेदसाधकत्वम्, तथोदाहृताया “भिन्नोऽचिन्त्यः” इत्यादिभेदश्रुतेरप्युजीपव्यविरोधान्न भेदसाधकत्वं सम्भवति। तादात्म्यप्रतियोगिकः प्रतिषेधो हि भेदो नाम। नचाप्राप्ते तादात्म्ये तत्प्रतिषेधबोधनं युक्तमित्यभेदप्रापकं प्रमाणमुपजीव्य प्रवृत्ता भेदश्रुतिः कथं नोपजीव्यविरुद्धा? किञ्च निर्भेदं स्वरूपमाश्रित्य तस्य भेदो बोधनीयः। तथाच कथं नोपजीव्यविरोधः? यथोक्तम्
“अभेदं नोल्लिखन्ती धीर्न भेदोल्लेखनक्षमा।
तथाचाऽद्ये प्रमा सा स्यान्नान्त्ये स्वापेक्ष्यवैशसात्”
इत्यत आह नेति।
नोपजीव्यो ह्यभेदोऽत्र क्वचिद् भेदश्रुतेर्बलात्॥५३॥
हिशब्दो युक्तिसूचकः। अभेद इति तद्ग्राहकम्। अत्र क्वचिदिति। धर्मित्वादावित्यर्थः।
तदयमर्थः भेदश्रुतेर्हि न धर्मिसमर्पकत्वेनाभेदज्ञानोपजीवकत्वं तावत्। जीवेश्वरस्वरूपस्यैव धर्मित्वात्। नापि स्वरूपप्रामाण्यग्राहकत्वेन। प्रत्यक्षेणैव तत्सिद्धेः। अतो निषेध्यप्रापकतयैवेति वक्तव्यम्। नच तद्विरोधोऽप्रामाण्यमावहति। निषेधशास्त्रापलापप्रसङ्गात्। नच प्रमाणप्राप्तस्यायं प्रतिषेधः, किन्तु तत्त्वमस्यादिश्रुतितात्पर्यापरिज्ञानप्राप्तस्यैव। यदपि निर्भेदं स्वरूपमादाय भेदो बोद्धव्य इति तत्रापि न ययोर्भेदो बोधनीयः, तयोरभेद आश्रयणीयः। किन्तु स्वगताभेदं वस्तु धर्मितयोपादाय तस्यान्यतो भेदो बोध्यते। अतो जीवेशभेदश्रुतेस्तदभेदोपजीवनाभावादनपेक्षत्वलक्षणाद् बलाद् युक्तं भेदसाधकत्वमिति शेषः।
किञ्च तिष्ठतु तावत् “यः सर्वज्ञः” इत्यादिश्रुतेरुपजीव्यत्वम्, तथाऽप्यभेदानुमानागमबाधकत्वं भवेदेव। इयं खलु श्रुतिः सार्वज्ञ्यादिविशिष्टमीश्वरं प्रतिपादयन्ती न किञ्चिदपेक्षते। अनुमानागमौ तु सापेक्षौ। सापेक्षनिरपेक्षयोश्च निरपेक्षस्य प्राबल्यादित्याशयवानाह नोपजीव्यो हीति। अत्र भेदाभेदप्रमाणयोर्मध्ये। भेदश्रुतेः भेदकधर्मविशिष्टधर्मिश्रुतेः। अभेद इत्यभेदप्रमाणम्। अनपेक्षत्वोपलक्षणमेतत्। अतो बलादभेदप्रमाणबाधकत्वमिति शेषः।
॥ “यः सर्वज्ञः” इत्यादेः अनुपजीव्यत्वेऽपि, निरपेक्षत्वेन प्रबलत्वात्
  प्रतिषेध्यसमर्पकप्रमाणसापेक्षत्वेन दुर्बलस्यानुमानादेः बाधकत्वमस्त्येव॥
स्यादेतत्। “यः सर्वज्ञः” इत्यादिश्रुतिर्न जीवभेदकधर्मविशिष्टं ब्रह्म प्रतिपादयति। किन्त्वनुवदत्येव। अतो नानुमानादेस्तद्बाध इत्यत आह नचेति।
नच मानान्तरोपेयं ब्रह्म तद् भवति क्वचित्।
उपेयं ज्ञेयम्। तदिति सार्वज्ञ्याद्युपेतम्। क्वचिदिति भ्रान्तिप्रतिपन्नमपि न भवतीति सूचयति। न तावत् सार्वज्ञ्यादिविशिष्टं ब्रह्म श्रुतिव्यतिरिक्तप्रमाणगम्यम्। शास्त्रैकयोनित्वस्य समर्थितत्वात्। नापि भ्रान्तिप्रतिपन्नम्। क्वचित् प्रमितस्यैवान्यत्राऽरोपात्। नच प्रमाणेन भ्रान्त्या वाऽप्राप्तस्यानुवादः सम्भवति। अतो नेयं श्रुतिरनुवादिनी। किन्नाम। प्रतिपादयत्येवोक्तरूपं ब्रह्मेति।
ननु तथाऽपि नोपजीव्यप्रमाणविरोधोऽनुमानादेः। श्रुत्युपजीवने हि सः स्यात्। नचैवम्। तद्व्यतिरिक्तप्रमाणोपजीवनादित्यत आह नचेति। वस्तुव्यवहितो वह्निरधूमस्थले प्रत्यक्षाद्यवेद्योऽपि क्वचिद् देशे प्रत्यक्षेणानुमानेन वाऽवगम्यते। प्राक् पतनोत्पत्तेरगम्यमपि गुरुत्वं क्वचित् कालेऽनुमानेन गम्यते। नचैवं ब्रह्म क्वचिन्मानान्तरोपेयम्। येन तदुपजीव्यानुमानादिप्रवृत्तिः स्यात्।
॥ ब्रह्मणः प्रमाणान्तरवेद्यत्वेऽपि ऐक्यागमस्य तद्विरोधो दुष्परिहरः॥
अस्तु वा ब्रह्म प्रमाणान्तरवेद्यम्, तथाऽप्यभेदानुमानादेरुपजीव्यप्रमाणविरोधो दुष्परिहरः। श्रुतिवत् तस्यापि प्रमाणस्य भेदप्रत्यायकत्वादित्यभिप्रायवानाह येनेति।
येन मानेन चोपेयं भेदस्तेनावगम्यते॥५४॥
सर्वज्ञ्यानुमयैवेशो यद्युपेयः कथञ्चन।
सर्वज्ञत्वगुणेनैव तया भेदोऽवगम्यते॥५५॥
उपेयं ब्रह्मेति शेषः। तत् कथमित्यत आह सार्वज्ञ्येति। धर्मादिकं कस्यचित् प्रत्यक्षम्, प्रमेयत्वात्; घटवदित्यादिकया सार्वज्ञ्यसाधकयाऽनुमया। सर्वकर्तृत्वाद्यनुमानोपलक्षणं चैतत्। एवेति प्रत्यक्षं व्यावर्तयति। कथञ्चनेत्यभ्युपगमवादोऽयमिति सूचयति। सर्वज्ञत्वेत्युपलक्षणम्। तयैवेत्यन्वयः। ईश्वरे तावत् प्रत्यक्षं शङ्कार्हमेव न भवति। अतोऽनुमानमेव वक्तव्यम्। प्रतिपक्षादिना पराहतस्यापि तस्य कथञ्चिच्छङ्कार्हत्वात्। अनुमानं च किञ्चित् केनचिद् विशिष्टमेव प्रतिपादयति। नतु निष्कृष्टं वस्तु। नच जीवादिसाधारणधर्मविशिष्टार्थसिद्धावीश्वरः सिद्ध्यति। तस्माद् भेदकधर्मवैशिष्ट्येनैव तत्सिद्धिर्वक्तव्या। तथाचानुमानादेरुपजीव्यविरोधो वज्र्लेपायितः। यद्यप्यनुमानं स्वतः श्रुतितो दुर्बलम्, तथाऽपि उपजीव्यतया बाधकं भवत्येवेति।
॥ दुःखानुभवस्य मिथ्यात्वनिरासः॥
तदनेनेश्वरग्राहिकायाः श्रुतेर्भेदकधर्मविशिष्टे तस्मिन् प्रामाण्यमुपपादितम्। इदानीं जीवग्राहकस्य प्रत्यक्षस्येश्वरभेदकधर्मिणि जीवे प्रामाण्यं समर्थ्यते। तथाहि भवतु श्रुतिरदुःखित्वसार्वज्ञ्यादिमदीश्वरे प्रमाणम्, तथाऽपि नाभेदानुमानागमयोरुपजीव्यप्रमाणविरोधेनाप्रामाण्यम्। दुःखित्वादिरूपे हि जीवस्य तात्त्विके सति तथा स्यात्, नचैवम्। अहं दुःखीत्यादेरनुभवस्य मिथ्यानुभवत्वात्। अन्तःकरणगतो हि दुःखादिरनर्थः स्वरूपतो मिथ्याभूतो जपाकुसुमारुणिमेव स्फटिके चैतन्ये चकास्ति। नच भ्रान्तिप्रतिपन्नेन भेदकेन वस्तु भिद्यते इत्यत आह नेति।
न दुःखानुभवः क्वापि मिथ्यानुभवतां व्र्जेत्।
नहि बाधः क्वचिद् दृष्टो दुःखाद्यनुभवस्य तु॥५६॥
क्वापीति। सर्वथेत्यर्थः। भवेदेतद् यद्यहं दुःखीत्याद्यनुभवो मिथ्यानुभवः स्यात्, नच तथा। अपितु प्रमाणमेव। यद्यपि दुःखादिकमन्तःकरणगतं, तथाऽपि स्वरूपेण सदेव। जीवात्मनश्च तद्भोक्तृत्वेन तद्वत्त्वं तात्त्विकमेव। अल्पशक्तित्वपारतन्त्र्यादिकं तु स्वरूपगतमेवेत्याशयः।
कुत इत्यत आह नहीति। तुशब्दोऽवधारणे नैवेति सम्बन्धः। असञ्जातबाधभ्रमेषु व्यभिचारपरिहाराय क्वचिदित्युक्तम्। नहि कदाचित् कुत्रचित् कश्चित् “नाहं दुःखी, किन्त्वन्तःकरणगतेनैव मिथ्यादुःखेन दुःखितयाऽऽत्मानममनिषम्’ इति बाधकप्रत्ययवान् दृश्यत इत्यर्थः।
॥ दुःखानुभवस्य श्रुतिबाधितत्वोक्तिनिरासः॥
 ननु “विमुक्तश्च विमुच्यते” “तत् त्वमसि” इत्यादिश्रुतिरेवास्यानुभवस्य बाधिकाऽस्तीति कथं न दुःखानुभूतिर्भ्रान्तिः? अत्रहि दुःखाद्युपप्लवरहितमेवास्याऽत्मनस्तात्त्विकं रूपमिति प्रतिपाद्यत इत्यत आह यदीति।
यदि दुःखानुभूतिश्च भ्रान्तिरित्यवसीयते।
अदुःखिताश्रुतिः केन न भ्रान्तिरिति गम्यते॥५७॥
अवसीयते श्रुतिमाश्रित्येति शेषः। केन करणेन। भ्रान्तिः स्वरूपतोऽर्थतश्च। गम्यते अभ्युपगम्यते। अनुभवमाश्रित्येति शेषः।
इदमुक्तं भवति भवेदेषा श्रुतिरस्यानुभवस्य बाधिका, यदि निश्चितप्रमाणभावा भवेत्। नच तथा। धर्मिग्राहकानुभवविरोधेनास्माभिः तदप्रामाण्यस्य प्रतिपाद्यमानत्वात्। परस्य च तत्परिहाराय अद्यापि समुद्यतत्वात्। तथाच सति श्रुतिप्रामाण्यनिश्चयेऽनुभवस्य भ्रान्तित्वम्, तस्मिंश्च सति श्रुतिप्रामाण्यनिश्चय इति परस्पराश्रयत्वप्रसङ्गः। नन्वनुभवविरोधेन श्रुत्यप्रामाण्याभिधानेऽपि समानमेतत्। न समानम्। अनुभवस्यानपेक्षत्वात् श्रुतेस्तदपेक्षत्वात्। अन्यथा सर्वत्र धर्मिग्राहकविरोधोच्छेदापत्तिरिति।
ननु तर्हि नेदं रजतमित्यस्यापि रजतमिदमिति ज्ञानं प्रति बाधकत्वमयुक्तं स्यात्। न स्यात्। नेदं रजतमिति ज्ञानप्रामाण्यस्य साक्षिणा परीक्षया निश्चितत्वात्। इदं रजतमिति ज्ञानस्य तदभावात्। परीक्षितप्रामाण्येनोपजीवकेनोपजीव्यस्यातथाभूतस्य बाधोपगमात्। उपजीव्योपजीवकन्यायस्य तदन्यविषयत्वात्। प्रामाण्यसन्देहे खलु न्यायानुसरणम्। निश्चिते तु प्रामाण्ये किमनेन? वक्ष्यति चैतदाचार्यः। (१२२९)
॥ मायामते साक्षिणा श्रुतिप्रामाण्यनिश्चयायोगः॥
एवन्तर्हि श्रुतेरपि प्रामाण्यं परीक्षासहकृतेन साक्षिणा निश्चितमित्यनुभवबाधकत्वमुपपत्स्यत इत्याशयवानाशङ्कते श्रुतीति।
श्रुतिस्वरूपमर्थश्च मानेनैवावसीयते।
तच्चेन्मानं गृहीतं ते किं दुःखानुभवे भ्रमः।
नच बाधविशेषोऽस्ति यदबाधितमेव तत्॥५८॥
स्वरूपमर्थश्चेति विवक्षाभेदेन प्रामाण्यमेवोक्तम्। जीवस्य निर्दुःखब्रह्मात्मताप्रतिपादकश्रुतिस्वरूपमस्याः श्रुतेः सोऽर्थ इत्युभयत्र फलतोऽर्थभेदाभावात्। एतदेव हि प्रामाण्यमपि। मानेन साक्षिणा। परिहरति तच्चेदिति। त इत्यव्ययं तृतीयार्थे। ते मत इत्यध्याहारो वा। किं किन्निमित्तम्। दुःखानुभवे भ्रम इति। दुःखानुभवस्य भ्रमत्वमिति यावत्। अङ्गीक्रियत इति शेषः। तत् साक्षिलक्षणं मानं दुःखानुभवविषये भ्रमः कृतोऽङ्गीक्रियत इति वा।
एतदुक्तं भवति साक्षिणा श्रुतिप्रामाण्यं निश्चितमिति न परेणाङ्गीकर्तुं शक्यते। तथासति तत्प्रामाण्यस्याङ्गीकर्तव्यत्वप्रसङ्गात्। इष्यते तदिति चेत्, न। तथासत्यहं दुःखीति दुःखादिविषयोऽपि स एवेति तत्रापि तस्य प्रामाण्यमेव ग्राह्यं स्यात्, न भ्रमत्वम्। नचेत् श्रुतिप्रामाण्यग्रहणेऽपि भ्रमः स्यादिति।
॥ दुःखादिविषयकसाक्ष्यनुभवस्य अबाधितत्वात् प्रामाण्यम्॥
नन्वेकत्र प्रामाण्ये विषयान्तरेऽपि प्रामाण्येन भाव्यम्, तत्राप्रामाण्ये चान्यत्राप्यप्रामाण्येन भवितव्यमिति कुत एतत्? मा हि भूदेकस्य चक्षुरादेरयं नियम इत्यत आह नचेति। भवेदेवैकस्यापि क्वचित् प्रामाण्ये परत्राप्रामाण्यम्, कारणविशेषात्। स चोत्पत्तौ दोषो ज्ञप्तौ बाधः। दोषोऽपि बाधोन्नेय एव। यथोक्तम् “बलवत्प्रमाणतश्चैव ज्ञेया दोषा नचान्यथा” इति। ततो बाध एव विशेषः। नच दुःखादिविषयस्य साक्ष्यनुभवस्य बाधरूपो विशेषोऽस्ति। येनासौ श्रुतिप्रामाण्ये प्रमाणभूतोऽपि दुःखादौ भ्रमः स्यात्। यद् यस्मादेवं तत् तस्मात् श्रुतिप्रामाण्यमिव तत् आत्मनो दुःखित्वादिकमप्यबाधितमेव सत्यमेवाङ्गीकार्यमिति। यद्वा यद् यस्मादेवं तत् तस्मात् किं दुःखानुभवे भ्रम इति पूर्वेण सम्बन्धः।
॥ दुःखादिके श्रुतिप्रामाण्ये चेत्युभयत्र साक्षिणः प्रामाण्यम्॥
नन्वेतत् श्रुतिप्रामाण्यं दुःखादिकं च साक्षिगृहीतमेव। नचोभयत्र प्रामाण्यं साक्षिणो युक्तम्। परस्परविरोधात्। तत एकत्राप्रामाण्यावश्यम्भावे दुःखादावेव तदिति ग्राह्यम्। श्रुतिप्रामाण्यस्यापौरुषेयत्वादिपरीक्षासहकृतेन गृहीतत्वात्। अतो मिथ्यैव दुःखित्वादिकमिति चेत्, न। दुःखादावपि सजातीयविजातीयसंवादरूपपरीक्षासद्भावात्। एवन्तर्हि सन्देहान्न दुःखादिसत्यतानिश्चयो भवतां युक्त इति न श्रुतेरनुभवबाधो वक्तुं शक्यत इत्यत आह अबाधितमेवेति।
तद् दुःखं सत्यमेवेत्यवधारयतोऽयमभिसन्धिः सत्यम्। श्रुतिप्रामाण्यं दुःखादिकं च साक्षिगृहीतमेव। नचैकत्रापि बाधकमस्तीत्युभयत्रापि प्रमाणं साक्षी। नच विरोधः। अद्वैतसत्तामन्तरेणापि श्रुतिप्रामाण्यसत्तायाः सम्भवात्। नह्यपौरुषेयत्वादियुक्तयो विषयविशेषनियतप्रामाण्यनिश्चये साक्षिणः साचिव्यमाचरन्ति। किन्तु प्रामाण्यमात्रनिश्चये। उपक्रमाद्यास्तु तत्रतत्राऽभासीकृता एव। नच दुःखसत्तामन्तरेण तत्र प्रामाण्यस्य सम्भवोऽस्ति। नच दुःखसत्तया श्रुतिप्रामाण्यमात्रस्य विरोधोऽस्ति। विषयान्तरेऽपि तस्य सम्भवात्। अतः सत्यमेव दुःखादिकमिति।
॥ श्रुतिस्वरूपप्रामाण्यग्राहकतयाऽपि साक्षिणः प्राबल्यम्॥
श्रुतिरनुभवस्य बाधिका न भवति। किन्तु धर्मिग्राहकतया प्रबलेनानुभवेनैव बाध्यत इत्युक्तम्। न केवलं धर्मिग्राहकतयाऽनुभवस्य प्राबल्यम्। किन्नाम। श्रुतिस्वरूपप्रामाण्यग्राहकत्वेनापीत्याशयवानाह श्रुतीति। अर्थ इत्यर्थवत्त्वं प्रामाण्यमिति यावत्। स्वरूपतः प्रामाण्यतश्चावसिता हि श्रुतिरभिप्रेतसिद्धये प्रयोक्तव्या, नान्यथा। श्रुतिस्वरूपं तत्प्रामाण्यं च मानेनैव साक्षिलक्षणेनावसीयते नान्येन। यद्यपि श्रुतिस्वरूपं श्रोत्रवेद्यम्, तथाऽपि श्रोत्रजनिततद्वृत्तिप्रामाण्यं यावन्न साक्षिणा गृह्यते, तावन्न तत् सिद्ध्यतीत्यतः श्रुतिस्वरूपावसायोऽपि साक्षिण्येवाऽयतते।
यद्वा श्रुतिशब्देन तज्जनितज्ञानमुच्यते। तत्र पृच्छामः तस्य साक्षिणः प्रामाण्यं भवताऽप्यभ्युपगतम्, नवेति। नेति पक्षे श्रुतिस्वरूपाद्यसिद्धेर्न तद्विरोधेन दुःखाद्यनुभवस्य भ्रमत्वं वक्तुं युक्तम्। आद्यं दूषयति तच्चेदिति। तत् साक्षिरूपं प्रमाणं त्वया गृहीतं चेत्, तदा दुःखानुभवस्य भ्रमत्वं किं कथम्? न कथञ्चित्। श्रुतिविरोधेन खलु तदुच्यते। सा तु स्वरूपप्रामाण्यग्राहकतयोपजीव्येनानुभवेन बाधिता कथं तद्बाधनाय प्रभवतीति।
स्यादेतत्। श्रुतिस्वरूपप्रामाण्ययोः साक्षिणः प्रामाण्यमङ्गीक्रियते। दुःखादौ तु विषयान्तरे श्रुतिविरोधेनाप्रामाण्यमाश्रीयते। तत् कथमुक्तदोष इत्यत आह नचेति। बाधस्य बाधकत्वेन अभिमतायाः श्रुतेः विशेषो बाध्यतयाऽभिमतात् साक्षिणोऽतिशयो नास्ति। अस्ति चोक्तवक्ष्यमाणरीत्या साक्षिण एव विशेष इति। शिष्टं स्पष्टम्।
॥ साक्षिण एकत्र प्रामाण्यम्, अपरत्राप्रामाण्यमित्यङ्गीकारायोगः॥
किञ्चाहं दुःखीत्यादिसाक्षिणो भ्रमत्वं वदन् प्रष्टव्यः किं सर्वत्रापि साक्षिणो भ्रमत्वमङ्गीक्रियते, उत क्वचित् प्रामाण्यमपि? आद्ये दोषमाह श्रुतिस्वरूपमिति। मानेन साक्षिणैव। तथाच तस्य भ्रान्तित्वे तन्न सिद्ध्येदिति भावः। परमार्थतो मा सैत्सीदिति च न वाच्यम्। तत्वावेदकत्वस्याङ्गीकृतत्वात्। अथ श्रुतिस्वरूपादिविषये तन्मानत्वं स्वीक्रियत इति द्वितीयमनूद्योत्तरमाह तच्चेदिति। एकत्र प्रामाण्ये परत्रापि प्रामाण्यमङ्गीकर्तव्यमित्येतत् कुत इत्यतोऽविशेषादित्याह नचेति। पूर्ववद् व्याख्यानम्।
॥ साक्षिणो यथार्थत्वनियमः॥
एवं साक्षिणः प्रमाणान्तरसाधारणरूपत्वमुपेत्य बाधकाभावेनाहं दुःखीत्यादेर्भ्रमत्वं नोपपद्यत इत्युक्तम्। इदानीं साक्षिणो यथार्थत्वनियमाच्च न दुःखादिविषये भ्रमत्वशङ्कोपपद्यते, किं बाधकगवेषणादिनेत्याशयवान् साक्षिणो यथार्थत्वनियमं विपक्षे बाधकेन समर्थयते बाध इति।
बाधो यद्यनुभूतेऽर्थे कथं निर्णय ईयते।
कोऽपि ह्यर्थो न निश्चेतुं शक्यते भ्रमवादिना॥५९॥
अनुभूते साक्षिप्रतीतेऽर्थे यदि बाधः प्रवर्तेत, साक्षी यदि कुत्रचिदयथार्थः स्यादिति यावत्। अयथार्थत्वस्य बाधोन्नेयत्वादेवमुक्तम्, तदा कथं स्तम्भोऽयं कुम्भोऽयमिति पदार्थानां निर्णय ईयते उपेयते?
एतदेव प्रपञ्चयति कोऽपीति। भ्रमवादिना साक्षिणः क्वचिद् भ्रमत्वं वदता। यदि साक्षी क्वचिदयथार्थः स्यात्, तदा पदार्थनिर्णयो न स्यादित्यर्थः। यथाऽऽहुरन्येऽपि “ज्ञानस्य व्यभिचारित्वे विश्र्वासः किन्निबन्धनः” इति।
ननु च निर्णयो निश्चय इति चावधारणात्मकं ज्ञानमुच्यते। तच्च स्तम्भकुम्भादिष्वर्थेषु तत्तत्कारणसामग्रीवशादेवोत्पद्यते। निर्णायकाभावसहकृतसमानधर्मदर्शनादिना ह्यनवधारणात्मकं ज्ञानं संशयपदवेदनीयं जन्यते। तद्विलक्षणया च सामग्र्या अवधारणज्ञानम्। तत्र कः साक्षिणो याथार्थ्यनियमस्योपयोगः? किञ्च तदभावेनापनेष्यते?
उच्यते न स्तम्भोऽयमित्येकाकारप्रतिनियतं ज्ञानमिह निर्णयादिशब्दैरभिधीयते। अपितर्हि? तदनन्तरभावी वस्तुतथात्वाश्र्वासः। तथाहि वक्तारो भवन्ति। स्तम्भ इति प्रतीयते भवति चायं स्तम्भ इति वा, वस्तुतत्वं तु न विद्म इति वेति। तत् कस्य हेतोः? एकाकारप्रतिनियतेष्वपि ज्ञानेषु केषाञ्चिद् भ्रमत्वस्य केषाञ्चिदभ्रमत्वस्य बहुलमुपलब्धत्वेनेदानीं जायमानेष्वेकाकारनियते ज्ञाने वस्तुतथात्वविश्र्वासायोगात्।
॥ वृत्तिज्ञानानां भ्रमत्वाभ्रमत्वयोः साक्षिवेद्यत्वम्॥
भवतु वस्तुतथात्वाश्र्वासो वस्तुदर्शनपृष्ठभावी निर्णयः। सोऽपि तस्य दर्शनस्य भ्रमत्वाभ्रमत्वनिर्णयमेवापेक्षते। यदि ज्ञानं भ्रमः स्यात्, तदा वस्त्वतथाभूतमित्यवसीयते। यदित्वभ्रमः, तदा तथाभूतमिति। एवञ्च किं साक्षिणो याथार्थ्यनियमेनोपनीयते, किञ्च तस्य भ्रमत्वेनापनीयत इत्यत आह भ्रमत्वमिति।
भ्रमत्वमभ्रमत्वं च यदैवानुभवोपगम्।
एकस्य भ्रमता तत्र परस्याभ्रमता कुतः॥६०॥
सत्यं प्रत्ययानां भ्रमत्वाभ्रमत्वनिर्णयायत्तो वस्तुनिर्णय इति। सैव तत्र प्रत्ययेष्वेकस्य स्तम्भादौ पुरुषादिप्रत्ययस्य भ्रमता, अपरस्य स्तम्भादिप्रत्ययस्याभ्रमता च कुतो निर्णेतव्या? न कुतोऽपि। कुतः? यदा यतः प्रत्ययानां भ्रमत्वमभ्रमत्वं च अनुभवोपगं साक्षिणैवाध्यवसेयमिति।
॥ साक्षिणो यथार्थत्वनियमाभावे करणदोषादिनिश्चयासम्भवेन
ज्ञानानां भ्रमत्वाभ्रमत्वनिश्चयायोगः॥
स्यादेतत्, करणदोषबाधकप्रत्ययाधीनं प्रत्ययानां भ्रमत्वमभ्रमत्वं च संवादायत्तं भविष्यति। तत् कथं तदनवधारणमित्याशङ्कां परिहरन्नुक्तमर्थं स्पष्टमाचष्टे भ्रमत्वमिति।
भ्रमत्वमभ्रमत्वं च सर्वं वेद्यं हि साक्षिणा।
स चेत् साक्षी क्वचिद् दुष्टः कथं निर्णय ईयते॥६१॥
प्रत्ययानां भ्रमत्वमभ्रमत्वं तदवधारणोपयुक्तं च सर्वं करणदोषादिकं साक्षिणा निश्चेयम्। अनिश्चितस्य भ्रमत्वाद्यवधारणानङ्गत्वात्। स चेत् साक्षी क्वचित् विषये दुष्टः अयथार्थः स्यात्, तदा कथं करणदोषादेः, भ्रमत्वादेः, वस्तुतथात्वादेर्वा निर्णय ईयते?
एतदुक्तं भवति प्रत्ययानां भ्रमत्वावधारणं करणदोषाद्यायत्तम्, तथाऽपि साक्षिणो याथार्थ्यनियमाभावे न सिद्ध्येत्। नहि तत् स्वरूपेणोपयुक्तम्, अतिप्रसङ्गात्। किन्तु निश्चितमेव। तन्निश्चयश्च साक्षात् परम्परया वा साक्षिण्यायतते। स हि करणदोषादिकं स्वयमेव वा, तद्ग्राहकप्रामाण्यग्रहणेन वा निश्चित्य भ्रमत्वं निश्चिनोति। ततश्च तस्य क्वचिदयथार्थत्वेऽविश्वसननीयत्वापत्त्या न निर्णयः स्यात्। अभ्रमत्वनिश्चयस्तु न संवादाधीनः। तथासत्यनवस्थादिदोषाः प्रादुष्युरित्युक्तम्। किन्तु केवलसाक्षिण्यायत्तः। विपर्ययशङ्कानिरासे तु संवादस्यानुप्रवेशः। नच संवादोऽप्यनिश्चितोऽङ्गम्। तन्निश्चयश्च साक्ष्यधीन एव। तस्य च क्वचिदयथार्थत्वे तदुभयनिर्णयोऽपि न भवेदिति।
॥ उक्तप्रक्रियानङ्गीकारे सर्वव्यवहारविलोपप्रसङ्गः॥
ननु साक्षिणो यथार्थत्वनियमेऽपि प्रत्ययानां भ्रमत्वाभ्रमत्वनिर्णयो नोपपद्यते। नहि याथार्थ्यं स्वरूपेणैवोपयुक्तम्, अतिप्रसङ्गात्। किन्तु निश्चितमेव। नच तन्निश्चयोपायोऽस्ति। अतस्तदनिश्चयात् करणदोषादेः, भ्रमत्वादेः, स्तम्भत्वादेरनिश्चय एवेत्यत आह विशेषा इति।
विशेषाः सर्व एवैते साक्षिप्रत्यक्षगोचराः।
ऊरीकृत्य च तान् सर्वान् व्यवहारः प्रवर्तते।
साक्षिणो व्यवसायी तु व्यवहारोऽभिधीयते॥६२॥
विशिष्यन्ते एतैरिति विशेषाः करणदोषादयः। साक्षिप्रत्यक्षगोचरा एवेति सम्बन्धः। साक्षियाथार्थ्यस्य साक्षिणैव निश्र्चोपपत्तेः। अस्यार्थस्य च वक्ष्यमाणव्यवहारान्यथानुपपत्तिसिद्धत्वादिति भावः। यदि साक्षी क्वचिद् व्यभिचरेत्, तदा तेनाविश्वसनीयेन करणदोषादिनिश्चयो न स्यात्। तदभावे च प्रत्ययानां भ्रमत्वादि न निश्चीयेत। तथाच वस्तुनिर्णयो न स्यात्। कारणाभावे कार्यायोगादित्युक्तम्। तत्र मा भूदेतत् सर्वमिति चेत्, न। तथासति हानोपादानादिसर्वव्यवहारविलोपप्रसङ्गात्। कथम्? सर्वव्यवहाराणामेतत्कार्यत्वादित्याह ऊरीकृत्य चेति। निश्चित्येत्यर्थः। चोऽवधारणे। तान् सर्वान् करणदोषादीन् ऊरीकृत्य व्यवहारः प्रवर्तत इति गौणं समानकर्तृकत्वम्।
यद्वोरीकृत्य कारणतया उपादाय कारणीकृत्वेति व्याख्येयम्। तथाहि इदं रजतमिति भ्रान्त्या प्रवृत्तः करणदोषं बाधकप्रत्ययं वाऽवधार्य तस्य ज्ञानस्य भ्रमत्वं निश्चित्य नेदं रजतम्, किन्तु शुक्तिरेवेति वस्तु व्यवस्थाप्य जहाति। तथा जलमेतदिति प्रतीत्य तस्य प्रत्ययस्याऽपातत एवान्यथात्वशङ्कायां संवादं निवेश्य तत्स्वरूपप्रामाण्ये गृहीत्वा, अभ्रमत्वं निश्चित्य, जलमेतद् भवत्येवेत्यवधार्य तदुपादत्त इति।
ननु नायमस्ति नियमो यदुक्तरीत्याऽर्थतथात्वाध्यवसायपूर्वक एव व्यवहार इति। तत्सन्देहादिनाऽपि व्यवहारदर्शनादित्यत आह साक्षिण इति। व्यवसायी निःशङ्कोऽविसंवादी च व्यवहरोऽस्माभिरुक्तरीत्या साक्षिणः कार्योऽभिधीयते, नतु व्यवहारमात्रम्। नच विशिष्टो व्यवहारोऽर्थतथात्वाध्यवसायपूर्वकतां व्यभिचरतीति।
॥ सर्वलोकसिद्धनिःशङ्कअविसंवादिव्यवहारान्यथानुपपत्तिः
साक्षिणो यथार्थत्वनियमे प्रमाणम्॥
अस्तु व्यवहारविलोपः किं नश्छिन्नमित्याशङ्कां परिहरन्नुक्तप्रसङ्गानां विपर्ययपर्यवसानमाह तस्मादिति।
तस्मात् सर्वप्रसिद्धस्य व्यवहारस्य सिद्धये।
साक्षी निर्दोष एवैकः सदाऽङ्गीकार्य एव नः॥६३॥
यस्मात् साक्षिणः क्वचिदयथार्थत्वेऽविश्वसनीयत्वापत्त्या करणदोषाद्यनिश्चयप्रसङ्गेन ज्ञानानां भ्रमत्वाभ्रमत्वनिर्धारणाभावप्रसक्त्याऽर्थतथात्वातथात्वनिर्णयाभावानुषङ्गेण निःशङ्कोऽविसंवादी व्यवहारो लुप्येत। नच तल्लोपोऽङ्गीकर्तुं शक्यः। सर्वलोकप्रसिद्धत्वात्। तथाविधस्य च लौकिकैः परीक्षकैश्र्चोल्लङ्घनायोगात्। प्रमितार्थाननुमतावुन्मत्तत्वप्रसङ्गात्। तस्मात् सर्वलोकप्रसिद्धस्य निःशङ्कस्य अविसंवादिनो व्यवहारस्य कार्यभूतस्य सिद्धये वस्तुतथात्वातथात्वनिश्चयः कारणभूतोऽङ्गीकार्यः। तत्सिद्धये करणदोषादिनिश्चयद्वारा साक्षिणा ज्ञानानां भ्रमत्वाभ्रमत्वनिर्णयोऽङ्गीकार्यः। तत्सिद्धये साक्षिणो विश्वसनीयत्वम्, तत्सिद्धये च साक्षी सदा निर्दोषो यथार्थ एव नः परीक्षकाणामङ्गीकार्य इति।
नन्वेवन्तर्हि प्राभाकरादिदिशा सर्वेषामपि प्रत्ययानां यथार्थत्वनियमोऽस्त्वित्यत आह एक एवेति। एकस्यैव याथार्थ्यनियमेन सर्वस्योपपत्तौ किमप्रामाणिकेन प्रमाणविरुद्धेन सर्वप्रत्यययाथार्थ्यनियमेनेति भावः।
॥ साक्षिणो यथार्थत्वनियमाद् धर्मिग्राहकविरोधेन ऐक्यश्रुतेरप्रामाण्यम्॥
किमतो यद्येवं साक्षी नियमेनार्थाव्यभिचारीत्यत आह शुद्ध इति।
शुद्धः साक्षी यदा सिद्धो दुःखित्वं वार्यते कथम्।
उपजीव्यप्रमाणं तद् भेदग्राहकमेव हि।
अतो जीवेशयोर्भेदः श्रुतिसामर्थ्यसुस्थिरः॥६४॥
दुःखित्वं तेन प्रतीतं जोवस्येति शेषः। ततश्च किमित्यत आह उपजीव्येति। श्रुत्यनुमानयोरुपजीव्यप्रमाणं तत् तस्माद् भेदग्राहकं भेदप्रमापकम्। तथाचोपजीव्यविरोधादभेदश्रुत्यादेरप्रामाण्यमिति भावः। ततोऽपि किमित्यतः सूत्रार्थमुपसंहरति अत इति। श्रुतिः “भिन्नोऽचिन्त्यः” इत्यादिका। सामर्थ्यमप्रतिपक्षत्वम्।
॥ यथा प्राज्ञस्य ब्रह्मणः सर्वभूतगुणयुक्ततया जगद्गुणसदृशगुणस्वरूपत्वात् “सर्वं खल्विदं ब्रह्म’ इत्यादावभेदव्यपदेशः, तथा जीवस्य भगवद्गुणसदृशगुणस्वरूपत्वात्
“तत् त्वमसि’ इत्यादावभेदव्यपदेशः, नतु ऐक्याभिप्रायेण॥
यद्येवं जीवेश्वरयोर्भेद एव पारमार्थिको व्यवस्थितः, तदा “तत् त्वमसि” इत्याद्यद्वैतश्रुतीनाम्, “अहं हरिः” इत्यादिस्मृतीनां च का गतिः? नहि तासामनुमानवत् सर्वथाऽप्रामाण्यं युक्तम्। अपौरुषेयत्वेनाऽप्तोक्तत्वेन च तत्कारणभावादित्याशङ्कापरिहाराय सूत्रम् “तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत्” इति। तद् व्याचष्टे तथाऽपीति।
ॐ तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॐ॥२८॥
तथाऽपि तु चिदानन्दपूर्वास्तत्सदृशा गुणाः।
सारः स्वरूपमस्यापि मुक्तावप्यवशिष्यते॥६५॥
अतोऽभेदवदेवैताः श्रुतयः प्रवदन्ति हि।
पौराणानि च वाक्यानि सादृश्याभेदसंश्रयात्॥६६॥
यद्यपि जीवब्रह्मणोर्भेद एव, तथाऽप्यभेदवदिति सम्बन्धः। तुशब्दो विशेषार्थः। तं च वक्ष्यामः। (८९८) तत्सदृशाः परमात्मगुणसदृशाः। सार इत्यनुवादेन स्वरूपमिति व्याख्यानम्। अस्य जीवस्य। कुतः? मुक्तावपि कैवल्येऽप्यवशिष्यते यतः। अभेदवत् अभेदमिव। “तत्र तस्येव” इत्यत्रोपसङ्ख्येयमेतत्। शिष्टप्रयोगात्। यद्वाऽभेद इति तत्प्रतिपादकमुपलक्ष्यते। अत एवेति सम्बन्धः। एताः परोदाहृताः। हीति मुख्ये बाधकं सूचयति।
अत एवेत्यस्यैव विवरणम् सादृश्येति। सादृश्यमेवाभेदः सादृश्याभेदः। सिंहो देवदत्त इत्यादिवद् गौणोऽयं व्यपदेश इति वाक्यार्थः। अद्वैतवादिभिः खलु तत्त्वम्पदयोर्विरुद्धस्वार्थैकदेशत्यागेन एकदेशलक्षणया सामानाधिकरण्यमात्रं मुख्यमङ्गीकृतम्। ततो वरं पदद्वयस्य मुख्यार्थत्वमभ्युपगम्य सामानाधिकरण्यमात्रस्य गौणत्वमभ्युपगन्तुम्। तात्पर्यलिङ्गानि च तत्रतत्रान्यथा नीतानि।
॥ प्रकारान्तरैरपि ऐक्यवाक्यानां गतिकथनम्॥
उपलक्षणं चैतत् सौत्रमभेदागमव्याख्यानमित्याशयवानुक्तानुवादेनार्थान्तरमप्याह सादृश्याच्चेति।
सादृश्याच्च प्रधानत्वात् स्वातन्त्र्यादपि चाभिदाम्।
आहुरीशेन जीवस्य न स्वरूपाभिदां क्वचित्॥६७॥
प्रधानत्वादपीत्यन्वयः। आहुः श्रुतयः। पौराणानि वाक्यानीति वर्तते। उक्तानुवादः प्रतिपत्तिसौकर्यार्थः। प्रधानत्वं वैशिष्ट्यम्। “तत् त्वमसि” इत्यादिव्यपदेशः सादृश्याद् गौण इत्युक्तम्। “नान्योऽतोऽस्ति द्रष्टा” इत्यादिनिर्देशस्तु प्राधान्यस्वातन्त्र्याभ्यां लाक्षणिकः। द्रष्टृपदेन तत्रारोपितवैशिष्ट्यं स्वातन्त्र्यं चोपलक्ष्यते। तथाच द्रष्टा विशिष्टः स्वतन्त्रश्चान्यो नास्ति इत्यर्थः सम्पद्यते।
यद्वा “तत् त्वमसि” इत्यादिनिर्देशोऽपि प्राधान्यस्वातन्त्र्याभ्यां लाक्षणिको व्याख्यायते। तथाहि तच्छब्देन तदीये प्राधान्यस्वातन्त्र्ये लक्ष्येते। पुनस्ताभ्यां तद्विषयता लक्ष्यते। ततश्च तत्प्रधानकः, तत्तन्त्रश्चेति वाक्यार्थो भवति। एतदप्युपलक्षणम्। “अतत् त्वमसि” इत्यादिव्याख्यानन्तरमप्यत्र द्रष्टव्यम्।
स्यादेतत्। तुशब्दो हि सौत्रोऽवधारणर्थः, तेन च सादृश्यतिरिक्तोऽर्थो निवर्त्यते। तत् कथमर्थान्तरवर्णनमित्यतोऽन्यथा व्याचष्टे नेति। क्वचित् प्रदेशे। स्वरूपाभिदां नाऽहुरिति तुशब्दार्थः, नतु प्राधान्यादिनिवृत्तिरिति।
॥ मुक्तब्रह्मैक्यश्रुतीनां स्थानैक्यमत्यैक्यनिमित्तेन प्रवृत्तत्वम्॥
अस्त्वेवं जीवस्य ब्रह्मैक्यम्, मुक्तस्य तत् कथं व्याख्येयम्? नच तदप्युक्तन्यायेनेति युक्तम्। तथासति “यत्र त्वस्य” इत्यादिविशेषोक्त्यनुपपत्तेरित्यत आह स्थानैक्यमिति।
स्थानैक्यमैकमत्यं च मुक्तस्य तु विशिष्यते।
सादृश्यं च विशेषेण...................
ईशेनेति वर्तते। न केवलमुक्तनिमित्तत्रयम्। किन्नाम। एतन्निमित्तद्वयं विशिष्यते। अतो विशेषेण अभेदोक्तिरुपपद्यते। तत्र स्थानैक्येनैक्यव्यपदेशो लाक्षणिकः। स्थानगतस्यैक्यस्य स्थानिषु प्रयोगात्। ऐकमत्यनिमित्ते तु प्रयोगे लक्षितलक्षणा। विषयैक्यान्मत्यैक्यम्, ततश्च मतिमतामिति।
किञ्च यत्सादृश्यं सज्जीवमात्रसाधारणतयोक्तम्, तत् संसारिण्यनभिव्यक्तम्, मुक्ते तु व्यक्तमिति तदभिप्रायेणापि विशेषतोऽभेदोक्तिर्युक्तेत्याशयवानाह सादृश्यं चेति। मुक्तस्येशेनेति वर्तते।
॥ चिदानन्दादिभगवद्गुणसदृशगुणानां केवलमुत्तमजीवस्वरूपत्वात् श्रुतेस्तन्मात्रपरत्वम्॥
ननु सादृश्यदिकं जडेष्वपि विद्यते। तत् कथं तेषां “सर्वं खल्विदं ब्रह्म”, “भूतानि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च” इत्यदौ क्वचिदेव परमात्मैक्यव्यपदेशो न पुनर्जीववत् प्राचुर्येणेत्यत आह जडानामिति।
.................... जडानां द्वयमेव तु।
भवेत् सादृश्यमत्यल्पं तृतीयं परमात्मना॥६८॥
तत्प्रधानकत्वं तत्तन्त्रत्वमेव। जडानां त्विति सम्बन्धः। सादृश्यस्यापि तृतीयस्य विद्यमनत्वात् कथं द्वयमेवेत्यत आह भवेदिति। जडानामिति वर्तते। सत्यमस्ति सादृश्यम्, किन्तु तत् सत्तादिनैव। नतु जीववदानन्दादिना। अतो द्वयस्यैव सत्त्वादुपपन्नाऽप्रचुरोक्तिः।
नन्वानन्दादिना सादृश्यं जीवेष्वपि नास्ति। केषाञ्चिज्जीवानमतद्रूपताभ्युपगमादिति चेत्, मा भूत्। नहि जीवमात्रं प्रति “तत् त्वमसि” इत्युच्यते। तस्य वेदानधिकारित्वात्। किन्तु मोक्षयोग्यं प्रतीत्येवेत्यदोषः। अत्र स्थानैक्यं च क्षीराब्ध्यादिस्थितभगवद्रूपापेक्षयोक्तमिति न जीवजडसाधारणम्। जडाभेदव्याख्यानेन “प्राज्ञवत्” इति दृष्टान्तोऽपि व्याख्यातो भवति।
॥ भगवतः स्वगुणक्रियारूपावयवैः मुख्य एवाभेदः॥
सूत्रे “प्राज्ञवत्” इत्युक्तम्। तस्यायमर्थः प्राज्ञे यथाऽभेदव्यपदेशोऽमुख्यः, तथेति। तत्र प्रतियोगिविशेषानुक्तेः “विज्ञानमानन्दं ब्रह्म” इत्यादिरखिलोऽप्यभेदव्यपदेशो नित्यत्वादिसादृश्येन अमुख्य इति ज्ञायेत। तन्मा विज्ञायीत्याशयवानाह ईशेति।
ईशरूपक्रियाणां च गुणानामपि सर्वशः।
तथैवावयवानां तत्स्वरूपैक्यं तु मुख्यतः॥६९॥
रूपाणि मत्स्यादीनि। क्रियाः सृष्ट्याद्याः। गुणा ज्ञानादयः। सर्वश इति प्रत्येकं सम्बन्धः। तथाशब्दः समुच्चये। एवशब्दस्य मुख्यत इत्यनेनान्वयः। अवयवा हस्ताद्याः। तत्स्वरूपैक्यं ईश्वरस्वरूपेण ऐक्यम्, तत्प्रतिपादकं वाक्यमिति यावत्। मुख्यत एव व्याख्येयमिति शेषः। तुशब्दो जडव्यावृत्त्यर्थः। तथाच जडविशेष एवायं दृष्टान्त इति भावः। नचैवं साध्यसमत्वदोषः। जीवमात्राभेदवादिनं प्रत्यस्य अधिकरणस्याऽरब्धत्वादिति।
॥ भगवतस्तद्गुणानां च परस्परं भेदस्य भेदाभेदस्य वा दर्शने तमःप्राप्तिः॥
कुत एतदिति चेत्। तत्र भेददर्शने प्रत्यवायस्योक्तत्वादित्याह यथेति।
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति।
एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति।
इति श्रुतेर्नोभयं च भेदाभेदाख्यमिष्यते॥७०॥
पर्वतेषु दुर्गे शिखरे वृष्टमुदकं यथाऽधो धावति, एवं पारमेश्वरान् धर्मान् ततः पृथक् पश्यन् तानेव तद्दर्शनमन्वेवाविलम्बेन नरकं विधावतीत्यर्थः।
नन्वीश्वरधर्माणां भेदाभेदौ भवताम्। तथाचात्यन्ताभेदोक्तिरमुख्येति सौत्रो दृष्टान्तोऽसङ्कुचितवृत्तिर्भविष्यति। इयं च श्रुतिरत्यन्तभेददर्शननिन्दापरा भवत्वित्यत आह नोभयं चेति। इष्यते सूत्रकृतेति शेषः। भेदाभेदो नेष्यते इति वक्तव्ये भेदाभेदाख्यमुभयमिति वचनं वक्ष्यमाणश्रुतिव्याख्यानानुसारेणेति ज्ञातव्यम्।
॥ “एकमेव’ “नेह नाना’ इत्येतयोरर्थकथनम्॥
कुतो नेष्यत इत्यत आह एकमेवेति।
एकमेवाद्वितीयं तु नेह नानाऽस्ति किञ्चन।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति॥७१॥
इति श्रुताविवेत्यस्माद् भेदाभेदनिराकृतिः।
इवोभये च सादृश्य इति वाक् शब्दनिर्णये॥७२॥
एकम् अभिन्नम्। एकमपि घटादिकमवयवभेदवदुपलब्धमत एवेत्युक्तम्। अद्वितीयं समाधिकरहितम्। इह ब्रह्मणि किञ्चन गुणादिकमिति नानाभूतं नास्ति। यस्त्विह ब्रह्मणि विद्यमानं गुणादिकं नाना भिन्नम्, इवशब्दादभिन्नं च पश्यति, स मृत्योरनन्तरं मृत्युं नरकमाप्नोति। इति श्रुताविवेत्यस्माच्छब्दात्। उपलक्षणं चैतत्। एवशब्दाच्च भेदाभेदनिराकृतिः कृता ज्ञायते। अतो नेष्यत इति योजना।
इवशब्दप्रयोगात् कथमेतल्लभ्यत इत्यत आह इवेति। उभये यदुक्तं पूर्वपदेन तत्प्रतियोगिनि द्वितीये वर्तत इत्यर्थः। अत्र च नानोक्त्या प्रयुक्त इवशब्दोऽनाना गृह्णातीति भेदाभेदाख्यमुभयं निराकृतं भवति। वागस्तीति शेषः। शब्दनिर्णयो नाम ग्रन्थविशेषः॥*॥ इति पृथगुपदेशाधिकरणम्॥१४॥
अथ अंशाधिकरणम्॥१८॥
॥ मायावादिना जीवस्य ब्रह्मणोऽभिन्नांशत्वपरतया सूत्रव्याख्यानम्॥
अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके। केचिदिदमेवं व्याचक्षते जीवः परमात्मनोंऽशः। अंशत्वं च नाऽरम्भकत्वम्, परमात्मनोऽनारब्धत्वात्। नापि खण्डत्वम्, अच्छेद्यत्वात्। नच प्रदेशत्वम्, पटादिवदनित्यत्वप्रसङ्गात्। किन्नाम। भिन्नाभिन्नत्वम्। अत्र भेद औपाधिकः, अभेदस्तु स्वाभाविकः। उपाधिश्च अनाद्यनिर्वाच्याऽविद्येत्येके। अन्ये तु सत्यमेवान्तःकरणादिकमिति। कुत एतत्? “द्वा सुपर्णा” “नित्यो नित्यानाम्” इत्यादिनानाव्यपदेशात्। अन्यथा चापि “तत् त्वमसि” “अहं ब्रह्मास्मी” इत्याद्यभेदव्यपदेशात्। नचैकस्यैव जीवस्य ब्रह्मणा भेदाभेदौ, किन्तु सर्वेषाम्। यतो “ब्रह्मदाशा ब्रह्मकितवाः” इत्येके ब्रह्मणो दाशकितवादित्वमधीयत इत्यादि।
॥ जीवब्रह्मणोर्भेदस्य स्वाभाविकत्वम्॥
तदिदमयुक्तम्। तथाहि कोऽयमभेदः? किं मुख्य एव, उतामुख्यः सादृश्यादिलक्षणः। आद्यं निराकरोति भेदस्येति।
भेदस्य मुक्तौ वचनादपि तत्पक्षनिग्रहः।
चेतनत्वादिसादृश्यं यद्यभेद इतीष्यते।
अङ्गीकृतं तदस्माभिर्न स्वरूपैकता क्वचित्॥७३॥
मुक्तावपीति सम्बन्धः। तत्पक्षो मुख्याभेदपक्षः। जीवस्यौपाधिक एव परमात्मनो भेदः, अभेदस्तु स्वाभाविक इति वदता मुक्तौ भेदाभावोवाच्यः। तत्राविद्याया अन्तःकरणादेश्चाभावात्। नच तद् युज्यते। मुक्तावपि जीवब्रह्मणोर्भेदस्य प्रागुदाहृताभिः श्रुतिस्मतिभिरभिहितत्वात्। अतः प्रमाणविरुद्धत्वादस्य पक्षस्य हेयत्वमेव।
द्वितीयं निराचष्टे चेतनत्वादीति। सादृश्यमित्युपलक्षणम्। तत्प्रधानकत्वाद्यपीति द्रष्टव्यम्। अभेदोऽङ्गीकृतश्चेत्, कथं तत्पक्षनिग्रह इत्युक्तमित्यत आह नेति। क्वचिदिति संसारे मुक्तौ वेत्यर्थः।
॥ जीवब्रह्मणोर्भेदाभेदाङ्गीकारायोगः॥
न केवलं युक्तिविरुद्धो जीवब्रह्मणोर्भेदाभेदाङ्गीकारः, किन्तर्हि, श्रुतिविरुद्धोऽपीत्याह न केनचिदिति।
न केनचिदभेदोऽस्ति भेदाभेदोऽपि वा क्वचित्।
समुदायमृते विष्णोः स्वगुणादीन् विनाऽपि वा।
इति श्रुतेर्न तस्यास्ति भेदाभेदोऽपि केनचित्॥७४॥
भेदेन सहितोऽभेदो भेदाभेदः। क्वचिदपीति सम्बन्धः। वाशब्दः समुच्चये। ऋतेयोगे द्वितीयाऽप्युपसङ्ख्यातव्या। श्रौतप्रयोगात्। अपिशब्दः समुच्चये। वाशब्दो विकल्पार्थः। स च व्यवस्थितो विकल्पः। समुदायमृते केनचिद् भेदाभेदो नास्ति। स्वगुणादीन् विनाऽभेदो नास्तीति। केनचिदपीत्यन्वयः। एतेन “जीवब्रह्मणोर्भेदाभेदौ द्वावपि स्वाभाविकौ, नतु भेदोऽविद्याद्युपाधिनिबन्धनः। अतो मुक्तावपि भेदसद्भावान्नास्माकं मुक्तभेदवचनविरोधः” इति वदन् यादवप्रकाशोऽपि निरस्तः। क्वचित् केनचिदिति विशेषश्रुतिविरोधादिति।
॥ जीवब्रह्मणोः पुत्रभ्रातृसखिस्वामित्वादिनानाप्रकारेण सम्बन्धव्यपदेशाद् भेदाभेदश्रुत्यन्यथानुपपत्त्या च, जीवः तदुपजीवकत्वात्, तत्सदृशत्वात्, तच्छेषभूतत्वाच्च ब्रह्मण अंश इत्युच्यते॥
यद्येवं जीवब्रह्मणोर्न भेदाभेदौ, कथन्तर्हि सौत्रं भेदाभेदश्रुत्युदाहरणमित्यतः स्वमतेन सूत्रतात्पर्यमाह अभेदेति।
ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ॥४२॥
अभेदश्रुतयोंऽशत्वात्....................।
उपलक्षणमेतत्। भेदश्रुतयश्चेत्यपि द्रष्टव्यम्। अंशत्वादेव हि उपपद्यन्त इति शेषः।
अयमर्थः जीवः परमात्मनोंऽश इति प्रतिज्ञातार्थे “नानाव्यपदेशात्” इति पुत्रभ्रातृत्वादिनानाविधसम्बन्धव्यपदेशं हेतुमभिधाय “अन्यथा चापि” इत्यादिनाऽर्थापत्तिरप्युच्यते। तथाहि जीवब्रह्मणोर्भेदमभेदं च वदन्त्यः श्रुतयस्तावद् विद्यन्ते, ताश्च जीवस्य ब्रह्मांशत्वादेव ह्युपपद्यन्ते नान्यथा। यदि जीवो ब्रह्मणो घट इव पटादत्यन्तभिन्नः स्यात्, तदाऽभेदश्रुतय उपरुद्ध्येरन्। यदि वा ब्रह्माभिन्नः स्यात्, तर्हि भेदश्रुतयो बाध्येरन्। नच भेदाभेदाश्रयणेन श्रुतिद्वयसामञ्जस्यं वाच्यम्। “न केनचित्” इत्युदाहृतश्रुतिविरोधात्। अतो भेदाभेदश्रुत्यन्यथानुपपत्त्या जीवो ब्रह्मांशोऽङ्गीकार्य इत्येव सूत्रार्थ इति। एतदर्थं च “न केनचित्” इत्याद्येकवाक्यतया व योज्यम्। यथोक्तम्
“यतो भेदेन तस्यायमभेदेन च गीयते।
अतश्र्चांशत्वमुद्दिष्टं भेदाभेदौ न मुख्यतः” इति।
॥ अंशत्वनिरुक्तिः॥
परमात्मांशत्वं चेदुपगतं जीवस्य, कथन्तर्हि न भेदाभेदाङ्गीकारः? प्रकारान्तरेणांशत्वस्य निर्वक्तुमशक्यत्वात्। मत्स्यादिषु परमेश्वरांशेष्वभेदस्याङ्गीकृतत्वाच्चेत्यत आह सादृश्यं चेति।
...................सादृश्यं चांशताऽस्य तु।
अस्य जीवस्य परमेश्वरांशता तु तत्सादृश्यम्। चशब्दात् तदधीनसत्तादिमत्त्वं चेत्यर्थः। एतेन “पुंस्त्वादिवत्” इत्यनेनैवेदं गतार्थमधिकरणमित्यपि निरस्तम्। यद्वा चशब्दोऽवधारणार्थः। सत्यम्, मत्स्यादिष्वभेदनिमित्तकोंऽशशब्दः, तथाऽपि मुख्यांशसादृश्यं तत्सत्तयैव सत्तावत्त्वलक्षणमेव जीवस्य अंशत्वम्, गौणोऽयमंशशब्द इति यावत्।
॥ मत्स्यादीनां भगवदभिन्नांशत्वम्, जीवानां भिन्नांशत्वम्॥
अंशशब्दस्यानेकार्थत्वम्, तत्र मत्स्यादीनां स्वरूपांशत्वम्, जीवानां त्वतथाभूतांशत्वमित्येतत् कुत इत्यतोऽत्राऽगमवाक्यं पठति अंशस्त्विति।
अंशस्तु द्विविधो ज्ञेयः स्वरूपांशोऽन्य एव च।
विभिन्नांशोऽल्पशक्तिः स्यात् किञ्चित्सादृश्यमात्रयुक्॥७५॥
अंशिनो यत्तु सामर्थ्यं यत् स्वरूपं यथा स्थितिः।
स एव चेत् स्वरूपांशः प्रादुर्भावा हरेर्यथा॥७६॥
द्विविध एव, नत्वेकविध एवेत्यन्वयः। किञ्चित्सादृश्यमात्रयुगिति पुरोवदुभयथा व्याख्येयम्। सामर्थ्यं सृष्ट्यादिकर्तृत्वादिलक्षणम्। स्वरूपं पूर्णानन्दादिकम्। स्थितिः सर्वगतत्वादिपरिमाणम्। स एव चेत् तत्सामर्थ्यादियुक्तश्चेदंशः, तदाऽसौ तत्स्वरूपांशो ज्ञातव्यः। प्रादुर्भावा इति तस्यैवोदाहरणम्। एवं जीवा यथेत्याद्यस्याप्युदाहरणं द्रष्टव्यम्। अनेन “प्रकाशादिवन्नैवं परः” इत्यस्य तात्पर्यमुक्तं भवति।
॥ यथा सूर्यमण्डलाभिमानिनः अंशिनः सूर्यस्य प्रकाशाभिमान्यंशेनाभेदः, खद्योताभिमान्यंशेन च भेदः
अमृताब्ध्यभिमानिनो वरुणस्य बाह्योदाभिमान्यंशेनाभेदः, मूत्राभिमान्यंशेन च भेदः
ब्रह्माण्डाभिमानिन्याः पृथिव्याः मेर्वाद्यभिमान्यंशेनाभेदः, विडभिमान्यंशेन च भेदः
तथा, सर्वगुणपूर्णस्य अंशिनो नारायणस्य पूर्णगुणयुक्तमत्स्याद्यंशैरभेदः, अल्पगुणयुक्तजीवैः भेदः॥
मत्स्यादीनां जीवानां च परमेश्वरांशत्वसाम्येऽपि नैकप्रकारता, किन्तु मत्स्याद्याः स्वरूपांशा एव जीवा विभिन्नांशा एवेत्यत्रासम्भावनानिरासाय “प्रकाशवत्” इति सूत्रकृता दृष्टान्ता दत्ताः। ते चायुक्ता इव प्रतीयन्ते, उभयत्र भेदाभेदसाम्यादित्याशङ्कानिरासार्थं भाष्यम् “अभिमानिदेवतापेक्षयैतत्” इति। तदविस्पष्टमित्यतः सौत्रान् दृष्टान्तान् स्पष्टयति सूर्येति।
ॐ प्रकाशादिवन्नैवं परः ॐ॥४६॥
सूर्यमण्डलमान्येकस्तत्प्रकाशाभिमानवान्।
सूर्योऽथ सप्तमाब्धेश्च बाह्योदस्य च वारिपः॥७७॥
कठिनत्वेन मेर्वादिः पृथिव्या अपि देवता।
धरादेव्येवमेवैको भगवान् विष्णुरव्ययः।
नानावताररूपेण स्थितः पूर्णगुणः सदा॥७८॥
विण्मूत्राद्यभिमानिन्यो यथाऽपभ्रष्टदेवताः।
सूर्यादिभ्यस्तथैवायं संसारी परमात् पृथक्॥७९॥
सूर्यमण्डलमान्यंशी सूर्यस्तत्प्रकाशाभिमानवांस्तदंशश्चैक एव। यथेति सर्वत्रान्वीयते। अथशब्दः समुच्चये। बाह्योदस्याभिमान्यंशी वारिपः सप्तमाब्धेरभिमानी तदंशश्चैक एव। पृथिव्याः पञ्चाशत्कोटिविस्तीर्णाया अभिमानिनी अंशिभूता देवता धरादेवी मेर्वादेरभिमानिनी देवताऽप्यंशरूपैकैव। मेरुहिमवदादेः पुरुषा अभिमानिनः पुराणेषु प्रसिद्धा इत्यत उक्तम् कठिनत्वेनेति। “यत् कठिनं सा पृथिवी” इति श्रुतेर्धरादेव्येव सर्वस्याः पृथिव्या अभिमानिनी। अवान्तराभिमानिनस्त्वन्ये इति। अनेन स्वरूपांशो निदर्शितः।
दार्ष्टान्तिकं दर्शयति एवमेवेति। भगवान् विष्णुरंशी नानावताररूपेण स्थितः अंशश्चैक एवेति योजना। अव्ययः सदा पूर्णगुण इत्यागामिसूत्रानुसारेणाभेदोपपादनम्।
विभिन्नांशदृष्टान्तविवरणपूर्वकं दार्ष्टान्तिकं विवृणोति विण्मूत्रेति। अपभ्रष्टनामका देवता अंशरूपाः सूर्यादिभ्यः सूर्यवरुणपृथिवीभ्योंऽशिभ्यो व्युत्क्रमेण यथा पृथक्।
॥ यथा परदेहगतदोषदुष्टानां खद्योताद्यभिमानिनां सूर्याद्यधीनप्रवृत्त्यादिमत्त्वात् तद्भिन्नांशत्वम्,
तथा जीवस्य देहदोषिलप्तत्वात् भगवदधीनप्रवृत्त्यादिमत्त्वाच्च तद्भिन्नांशत्वम्॥
जीवांशानामंशिनः परमेश्वरात् पृथक्त्वं युक्तितः समर्थयितुं सूत्रम् “अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत्” इति। अत्रापि दृष्टान्तानामसङ्गतिमाशयाभिमानिविषयतया व्याख्याति देहेति।
ॐ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॐ॥४७॥
देहदोषैश्च दुष्टत्वादपभ्रष्टाख्यदेवताः।
अन्याः सूर्यादिदेवेभ्यो ह्यनुग्राह्याश्च तैः सदा॥८०॥
एवमेव पराद् विष्णोः पृथक् संसारिणो मताः।
अनुग्राह्याश्च तेनैव तत्प्रसादाच्च मोक्षिणः॥८१॥
नतु मत्स्यादिरूपाणामनुग्राह्यत्वमिष्यते।
परदेहगतदोषैः। देवतात्वं त्वन्तर्धानादिशक्तियोगः। चशब्दौ हेत्वोः समुच्चये। हि यस्मादनुग्राह्याश्च तैः सूर्यादिभिः, तत्प्रसादायत्तप्रतिबन्धनिवृत्तित्वाच्चेत्यपि द्रष्टव्यम्। अनुग्राह्याश्चेत्यादौ यत इति शेषः। देहदोषिलप्तत्वादित्यपि ग्राह्यम्।
नन्वनुज्ञादिहेतुत्रयं स्वरूपांशेषु मत्स्यादिष्वस्तीत्यनैकान्तिकं न जीवांशानां परमेश्वराद् भेदं साधयितुमलमित्यत आह नत्विति। अनुग्राह्यत्वमित्युपलक्षणम्। नेष्यते “नैव ते जायन्ते” इत्यादिश्रुतिबलेनेति शेषः।
॥ मत्स्यादीनां गुणपूर्णत्वाद् भगवता भेदाभावः॥
अत्रैव सूत्रम् “असन्ततेश्चाव्यतिकरः” इति। तज्जीवांशानां परमेश्वराद् भेदमेव साधयत् प्रतीयते, नतु मत्स्यादीनामभेदमपि। अत उपलक्षणत्वेन व्याचष्टे गुणैरिति।
ॐ असन्ततेश्चाव्यतिकरः ॐ॥४८॥
गुणैरशेषैः पूर्णत्वान्मुख्याभेदोऽपरैर्नच॥८२॥
मत्स्यादिरूपाणामिति वर्तते। मुख्याभेदोंऽशिना। अपरैर्जीवैरीश्वरस्याभेदो नच तेषामपरिपूर्णगुणत्वाच्चेति। अनुज्ञापरिहारावित्येतदप्येवमुपलक्षणतया व्याख्येयम्। तदर्थं वा “नतु मत्स्यादिरूपाणाम्” इति वाक्यं योज्यम्।
॥ जीवस्य भगवन्मुख्यांशत्वाभावः॥
एवमंशस्यापि जीवस्येश्वराद् भेदः प्रमाणैः समर्थितः। यस्त्वंशत्वादभेदं साधयेत्, तस्यांशशब्दवाच्यत्वमात्रत्वं चेद्धेतुः, तदाऽनैकान्तिकत्वमुक्तमेव। (९०३) मुख्यांशत्वं चेद्धेतुः, तदाऽसिद्धिरिति प्रतिपादयत् “आभास एव च” इति सूत्रं व्याचष्टे अंशेति।
ॐ आभास एव च ॐ॥४९॥
अंशाभासाश्च सर्वेऽपि परस्यांशा न मुख्यतः।
यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम्।
नतु पुम्पादवत् पादा जीवा एते परात्मनः॥८३॥
पूर्णास्तस्य गुणा एव प्रादुर्भावतया स्थिताः।
एवं जगाद परमा श्रुतिर्नारायणं परम्॥८४॥
सर्वेऽपि जीवाः। जीवानामंशाभासत्वं श्रुत्यन्तरेण द्रढयति यथेति। तथैतस्मिन् पुरुषोत्तमे एतज्जीवजातमाततम्। एतदेवास्य तदंशत्वमिति भावः।
नन्वेतत् श्रुतिविरुद्धम्, “पादोऽस्य विश्र्वा भूतानि त्रिपादस्यामृतं दिवि” इत्यस्मिन् मन्त्रेऽनन्तासनश्वेतद्वीपवैकुण्ठेषु द्युशब्दवाच्येष्ववस्थितरूपत्रयवद् भूतशब्दवाच्यानां जीवानामपि परमपुरुषपादत्वाभिधानादित्याशय विशेषश्रुतिबलेन पादशब्दस्यानेकार्थत्वकल्पनं न्याय्यमित्याशयवानाह नत्विति। पुम्पादवत् पुरुषस्यामृतपादत्रयमिव। कुतः? पूर्णाः। नारायणं प्रादुर्भावरूपम्। जीवांशेभ्यः परं विलक्षणं जगाद।
॥ पादार्थसङ्ग्रहः॥
अधिदैवादिस्वरूपनिर्णयाय पादोऽयमारब्ध इत्युक्तम्। (८५५) तत्र कीदृशोऽत्र निर्णयो जात इत्यतस्तं बुद्ध्यारोहाय पिण्डीकृत्याऽह अक्षय इति।
अक्षयो भगवान् विष्णुर्लक्ष्म्यावासो लये स्थितः।
मुक्तैः सदा चिन्त्यमानो ब्रह्माद्यैस्तारतम्यगैः॥८५॥
देहादिक्षयरहित एव प्रलये स्थितः। अनेन “असम्भवस्तु सतोऽनुपपत्तेः”, “नाऽत्मा श्रुतेर्नित्यत्वाच्च ताभ्यः” इत्यधिकरणतात्पर्यमुक्तं भवति। लक्ष्म्यावास इति। देव्या अपि प्रलयेऽवस्थानोक्त्या वियत्पदेनोपलक्षितायास्तस्या न जीववज्जननमिति। वियदादिपदोपादानेन तदभिमानित्वदशायामेव ब्रह्मादीनां देहाद्युत्पत्तिर्न मुक्ताविति सूचितम्, तत् सूचयति मुक्तैरिति। तथाऽपि सृष्टिलयक्रमसमर्थनेन सूचितं तारतम्यं तु तत्रापि नापैतीत्याशयेनोक्तम् तारतम्यगैरिति।
॥ सृष्टिक्रमः॥
“विपर्ययेण तु क्रमोऽतः” इति सृष्टिक्रमविपर्ययेण प्रलये क्रमोऽभिहितः। तत्र कः सृष्टौ क्रम इत्यतस्तं दर्शयन् वियदधिकरणतात्पर्यमाह प्रकृतिरिति।
प्रकृतिः पुरुषः कालो वेदाश्चेति चतुष्टयम्।
नित्यं स्वरूपतो विष्णोर्विशेषावाप्तिमात्रतः।
उत्पत्तिमदिति प्रोक्तं लक्ष्मीस्तदभिमानिनी॥८६॥
ततो जातः पुमान् नाम ब्रह्माऽस्यां वासुदेवतः।
सूत्रात्मा प्राणनामा च देव्यौ प्रकृतिमानिनी।
ततो रूपं महन्नाम ब्रह्मणोऽहङ्कृतिः शिवः॥८७॥
ब्रह्मणो बुद्धिनाम्नोमा तत इन्द्रो मनोभिधः।
स्कन्दश्च तत एवान्ये सर्वे देवाः प्रजज्ञिरे॥८८॥
तदभिमानिनी लक्ष्मीश्चैवमित्यर्थः। ततः तदनन्तरम्। प्राणनामा सङ्कर्षणात्। देव्यौ सरस्वतीभारत्यौ। प्रकृतिमानिनी प्रकृतिमानिन्यौ। “सुपां सुलुक्पूर्वसवर्ण” इति पूर्वसवर्णः। ततः प्रकृतिपुरुषाभ्याम्। ब्रह्मणो महत्तत्त्वरूपात्। ततः अहङ्कारात्। तत एव इन्द्रस्कन्दाभ्याम्। अन्ये तत्वाभिमानिनः। अत्रोपलक्षितानामप्यधिकाशङ्कानिरासाय “तथा प्राणः” इत्यादिना निर्णयः करिष्यत इत्यदोषः।
॥ पूर्वं सृष्टस्य श्रेष्ठत्वम्, पश्चात् सृष्टस्य नीचत्वम्॥
सृष्टिप्रलययोः क्रमविपर्ययसमर्थनस्य तात्पर्यमाह तत्रेति।
तत्र पूर्वतनः श्रेयान् गुणैः सर्वैः समस्तशः।
तेभ्यश्च भगवान् विष्णुस्तदधीना इमे सदा॥८९॥
जन्मस्थितिलयाज्ञाननियतिज्ञानसंसृतिः।
मोक्षश्च तदधीनत्वमेतेषां नैव हीयते॥९०॥
मुक्तावपि स एवैकः स्वतन्त्रः पूर्णसद्गुणः।
इति श्रुत्युपपत्तिभ्यां पादेऽस्मिन् प्रभुणोदितम्॥९१॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य तृतीयः पादः।
समस्तशः समस्तेषु। “तेजोऽतः”,”तदभिध्यानात्” इत्यादेस्तात्पर्यमाह तेभ्यश्चेति। श्रेयानिति वर्तते । समस्तश इति पञ्चम्यन्तमत्र वा सम्बद्ध्यते। सर्वस्य जन्मलयौ परमेश्वरायत्तावित्युक्तम्। “परात्तु तच्छ्रुतेः” इत्यादिना प्रवृत्तिश्च। तत्तात्पर्यमाह तदधीना इति। इमे जन्माद्या मोक्षान्ता भावाः। एतेषामिति वक्ष्यमाणमत्रापि सम्बद्ध्यते। द्वन्द्वैकवद्भावेऽपि नपुंसकत्वाभावः छान्दसः। “युवोरनाकौ” इति यथा।
मुक्तौ जन्माभावेऽपि स्थित्यादौ भगवदधीनत्वमत्स्त्येवेत्याह तदधीनत्वमिति। एतेषां ब्रह्मादीनाम्। परमप्रमेयमाह स एवेति। उपसंहरति इतीति॥*॥ इत्यंशाधिकरणम्॥१८॥
इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते
रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना।
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ
द्वितीयेऽध्यायेऽस्मिन् गगनचरणः पर्यवसितः॥*॥
इति श्रीमद्ब्रह्मसूत्रानुव्याख्यानटीकायां
श्रीजयतीर्थमुनिविरचितायां श्रीमन्न्यायसुधायां
द्वितीयाध्यायस्य तृतीयः पादः।