न्यायसुधा (जयतीर्थकृता)/तृतीयाध्यायस्य प्रथमः पादः

विकिस्रोतः तः


ॐ तत् सत्
न्यायसुधा
॥ एतत्पादीयपूर्वपक्षसिद्धान्तयुक्तयः॥
कुपिताहिफणच्छायासमीकृत्यापरं सुखम्।
सेवन्ते यत्पदं धीरास्तं भजे वल्लभं श्रियः॥
“साधनविचारोऽयमध्यायः। वैराग्यार्थे गत्यादिनिरूपणा प्रथमपादे” इत्यध्यायपादप्रतिपाद्यं भाष्य एव स्पष्टम्। सङ्गतिं तु लाघवायैकीकृत्योपरि वक्ष्याम (१०८२) इत्याशयवान् तृतीयाध्यायाद्यपादाधिकरणपूर्वपक्षसिद्धान्तयुक्तीः सङ्ग्रहेणाऽह स्वाभाविकेति।
अनुव्याख्यानम्
स्वाभाविकान्यथानामसहभावान्यथोक्तयः।
अविशेषविशेषौ च सहभावो विमिश्रता॥१॥
विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः।
युक्तयः पूर्वपक्षस्य गुणाधिक्यार्थतोभवौ॥२॥
उपपत्तिर्द्विरूपत्वमाधिक्यमनुरूपता।
योग्यता बलवत्त्वं च विभागः कारणाभवः।
क्लृप्तिरन्या गतिश्चैव सिद्धान्तस्यैव साधकाः॥३॥
साधका इति वक्ष्यमाणं पूर्वपक्षस्येत्यत्रापि सम्बद्ध्यते। पूर्वपक्षस्य सिद्धान्तस्येति जातावेकवचनम्। साधका इति च्छान्दसो निर्देशः। यद्वा युक्तयः पूर्वपक्षस्येत्यत्र साधका इति नाऽकृष्यते। पूर्वपक्षसम्बन्धिन्यो युक्तय इत्येवार्थः। सिद्धान्तस्यैव साधका इत्यत्र तु न्याया इति शेषः।
अथ योन्यधिकरणम्॥२०॥
ॐ योनेः शरीरम् ॐ॥२९॥
॥ कर्मिणः शरीरोत्पत्तौ बीजादिसम्बन्धनियमाभावः॥
अत्र सूत्रम् योनेः शरीरमिति। तद् व्याख्यातं भाष्ये । स्वर्गादवाग्गतो जीवो वृष्टिद्वारा व्रीह्यादिबीजेषु सङ्क्रान्तो रेतःसिचं पुरुषं प्रविश्य सह रेतसा मातृयोनिद्वारेण जठरं प्रविष्टः कललबुद्बुदादिक्रमेणोत्पन्नं शरीरमाप्नोतीति प्रसिद्धम्। तत् किं तथ्यम्, उतातथ्यमिति सन्देहः। न तथ्यमिति पूर्वः पक्षः। कुतः? “देहं गर्भस्थितं क्वापि प्रविशेत् स्वर्गतो गतः” इत्यादिवचनात्। मान्धातृद्रोणद्रुपदकृपशुकादीनामितिहासपुराणेषु विनैव बीजादिसम्बन्धेन जननदर्शनाच्च। अन्यथासिद्धे चार्थे न बहुकल्पना युक्ता। अतस्ते वैराग्यजननार्थमेवाध्यात्मविदां वादा इति।
तथ्यमिति सिद्धान्तः। कस्मात्? “मेघो भूत्वा प्रवर्षति। त इह व्रीहियवा ओषधयस्तिला माषा इति जायन्ते। यो यो ह्यन्नमत्ति। यो वा रेतः सिञ्चति स तद्रूप एव भवति। तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्यन्ते” इत्यादिश्रुतेः। नचादृष्टेऽर्थेन्यथासिद्धिरवकाशवती। नच वचनान्तरलिङ्गदशनविरोधः। क्वचिद् बीजादिसम्बन्धाभावस्यापि विद्यमानत्वेन तद्विषयत्वात्। यथोक्तम् “दिवः स्थास्नून् गच्छति”, “स्थावराणि दिवः प्राप्तः” इति श्रुतिस्मृतिभ्यामिति।
॥ बीजादिसम्बन्धनियमाभावस्य पूर्वसूत्रानुवृत्ताथशब्दोक्तत्वम्॥
तदिदमयुक्तं व्याख्यानम्। उत्सूत्रत्वात्। यद्यप्यत्र योनिशब्दो बीजाद्युपलक्षणः शक्यो व्याख्यातुम्, तथाऽपि तत्सम्बन्धनियम एव सूत्रे प्रतीयते। नतु क्वाचित्कस्तदभावोऽपि। यदिच क्वचिद् बीजादिसम्बन्धाभावः स्यात्, तदाऽऽकस्मिकत्वं स्यादित्यत आह बीजेति।
बीजपूरुषयोनीनां सङ्गातिनियमोज्झितिम्।
अथशब्देन भगवानाह कारणतश्च ताम्॥४॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य प्रथमः पादः।
बीजशब्देन व्रीह्यादिकं रेतश्र्चोच्यते। सङ्गातिनियमोज्झितिं सम्बन्धातिनियमाभावम्।
अयमर्थः “रेतःसिग्योगोऽथ” इति पूर्वसूत्रादथशब्दोऽत्राप्यनुवर्तते। स च प्रकृतादर्थादर्थान्तरे वर्तते। तथाच योनेः शरीरमापद्यते। क्वचित् तदभावेनापीत्यथशब्देन भगवान् सूत्रकारो बीजादिसम्बन्धनियमाभावं सूत्रितवानित्यतो नोत्सूत्रित्वपर्यनुयोगो युक्त इति।
यदुक्तमेवंसत्याकस्मिकत्वप्रसङ्ग इति तत् परिहरति कारणतश्चेति। तां च बीजादिसम्बन्धनियमोज्झितिं कारणत आह।
एतदुक्तं भवति जन्मकारणादृष्टाकृष्टो जन्तुर्बीजादिसम्बन्धेन शरीरमापद्यत इत्युत्सर्गः। स च क्वचिज्ज्ञानतपोयोगाद्यतिशयलक्षणेन कारणविशेषेणापोद्यते। यथा क्षुद्रजन्तुयातनाशरीरोत्पत्तावपवाद इति। तथाचोक्तम्
“विशेषकारणादेव विशेषाज्जनिरिष्यते।
सामान्यजननं चैव नृणां सामान्यहेतुतः” इति।
अतो युक्तमेतद् व्याख्यानमिति॥*॥ इति योन्यधिकरणम्॥२०॥
इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते
रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ
तृतीयेऽध्यायेऽयं प्रथमचरणः पर्यवसितः॥*॥
इति श्रीमद्ब्रह्मसूत्रानुव्याख्यानटीकायां
श्रीजयतीर्थमुनिविरचितायां श्रीमन्न्यायसुधायां
तृतीयाध्यायस्य प्रथमः पादः।