न्यायसुधा (जयतीर्थकृता)/तृतीयाध्यायस्य तृतीयः पादः

विकिस्रोतः तः


ॐ तत् सत्
न्यायसुधा
॥ वैराग्यभक्तिउपासनाज्ञानपादानां परस्परं कार्यकारणभावलक्षणा सङ्गतिः॥
“उपासनाऽस्मिन् पाद उच्यते” इति भाष्यम्। तत्रोपासनार्थस्यास्य पादस्य का पूर्वेणोत्तरेण वा सङ्गतिरित्यतोऽस्य पादस्य सङ्गतिं वदन् प्रसङ्गादेतदध्यायगतपादचतुष्टयस्याप्याह वैराग्यत इति।
अनुव्याख्यानम्
वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत्।
आपरोक्ष्यं भवेद् विष्णोरिति पादक्रमो भवेत्॥१॥
मीमांसासाध्याद् वैराग्यात् प्रागेव भक्तेर्भाव्यत्वाद् दार्ढ्यमित्युक्तम्। यदाशब्दो यस्मादित्यर्थे। तयाऽऽपरोक्ष्यं भवेत्। इति तस्मात्।
अयमर्थः साधनविचारोऽयं तावदध्यायः। मोक्षसाधनं च भगवत्प्रसाद एव। तत्साधनानि च विषयवैराग्यम्, भगवद्भक्तिः, तदुपासना, तत्साक्षात्कार इति चत्वारि। तानि च न समकक्ष्याणि। किन्त्वादौ वैराग्यं साध्यम्, तेन भक्तिः। नहि हेये रागवत उपादेये प्रमोत्पत्तिरस्ति। दृश्यते तावदिति चेत्। नासौ दृढः प्रेमा। अत एवोक्तम् भक्तिदार्ढ्यमिति। तेन वैराग्येण भक्तिदार्ढ्येन चोपासा भवेत्। नह्यन्यत्र रागवतस्तत्र भक्तिरहितस्याऽदरनैरन्तर्याभ्यामनुचिन्तनमुत्पद्यते। उपासनया चातिदीर्घर्कालमनुष्ठितया प्रसन्नो भगवानात्मानं दर्शयति। यस्मादेवं वैराग्यादीनां क्रमः, तस्मात् तद्विषयाणामेषां पादानामप्ययं क्रमो भवेदिति।
॥ “अथातो ब्रह्मजिज्ञासा’ इत्यत्रस्थाथशब्दव्याख्यानम्॥
एवमेतदध्यायगतानां चतुर्णामपि पादानामानन्तर्यलक्षणां सङ्गतिमभिधाय तत्प्रसङ्गात् प्रथमसूत्रमारभ्यातीतानां सर्वेषामपि सूत्राणां परस्परं सङ्गतिं विवक्षुः प्रथमसूत्रार्थं तावदनुवदति युक्तित इत्यारभ्य विशिष्टाचार्यसम्पदेत्यन्तेन।
युक्तितो ज्ञातवेदार्थो निरस्य समयान् परान्।
परस्परविरोधं च प्रणुद्याशेषवाक्यगम्॥२॥
अध्यात्मप्रवणो भूत्वा तस्य सन्निहितत्वतः।
बहुयुक्तिविरोधानां भानात् तत्सहितश्रुतेः॥३॥
विरोधं च निराकृत्य श्रुतीनां प्राणतत्वगान्।
परिहृत्य विरोधांश्च तत्प्रसादानुरञ्जितः॥४॥
देहकर्तृत्वमीशस्य ज्ञात्वा तत्पितृतास्मृतेः।
विशेषस्नेहमापाद्य सर्वकर्तृत्वतोऽधिकम्॥५॥
निष्पाद्य बहुमानं च तदन्यत्रातिदुःखतः।
उत्पाद्याधिकवैराग्यं तद्गुणाधिक्यवेदनात्॥६॥
सर्वस्य तद्वशत्वाच्च दार्ढ्यं भक्तेरवाप्य च।
यतेतोपासनायैव विशिष्टाचार्यसम्पदा॥७॥
तत्र यतेतोपासनायैवेत्यनेन ब्रह्मजिज्ञासा कर्तव्येत्येतद् व्याख्यातम्। अन्यत् सर्वमप्यथशब्दव्याख्यानम्। यद्यपि सङ्गतिमात्रविवक्षयेदमारब्धम्। तथाऽपि प्रागथशब्दस्याव्याख्यातत्वात् तस्य च केवलस्य व्याख्यातुमशक्यत्वात् सूत्रार्थानुवादः कृतः। अतीतेन सार्धेनाध्यायद्वयेन यावानर्थो मीमांसितः, तावतः सामान्यतो ज्ञानादिमत्त्वमथशब्दस्यार्थ इति सङ्क्षेपः। विशिष्टाचार्यसम्पदेति सर्वत्रान्वयः।
तत्र ज्ञातवेदार्थ इति सर्ववेदानां भगवानेवार्थ इति ज्ञानवानित्यनेन प्रथमाध्यायप्रमेयमुक्तम्। युक्तित इति ल्यब्लोपनिमित्ता पञ्चमी। वेदार्थविरोधियुक्तीः सामान्यतो निराकृत्येति द्वितीयाध्यायाद्यपादस्य। परान् वैष्णवसमयादन्यान् साङ्ख्यादिसमयान् सामान्यतो निरस्येति द्वितीयस्य। परस्परविरोधं चेति तृतीयचतुर्थयोः। कथन्तर्हि पादभेद इत्यतोऽध्यात्मप्रवणो भूत्वेति बहुयुक्तिविरोधानां भानात् कारणाच्छ्रुतीनां युक्तिसहितश्रुतेर्विरोधं च निराकृत्येति चतुर्थस्य विशेषो दर्शितः। अध्यात्मविषयश्रुतिविरोधपरिहारज्ञानस्य चरमत्वोपपादनाय तस्येत्युक्तम्। आध्यात्मिका हि भावा मिथ्या सम्यग् वा विदिता बन्धमोक्षयोरन्तरङ्गतामश्नुवते। न तथा बाह्याः।
प्राणतत्वगानित्यनेन चतुर्थपादगतानामेव मुख्यप्राणविषयाणामधिकरणानां प्रमेयम्। अध्यात्मेत्यनेनैव लब्धमेतत् कस्मात् पुनरुच्यत इत्यतो विशेषेणैतद् भाव्यं तत्प्रसादायत्तत्वाज्जिज्ञासाया इत्याशयवतोक्तम् तत्प्रसादेति। अनुरञ्जितः समीचीनः कृत इति यावत्।
देहकर्तृत्वमित्यादिना “त्रिवृत् कुर्वतः” इत्यधिकरणस्य। सर्वकर्तृत्वत इति। सर्वकर्तृत्वं विज्ञाय ततश्च भगवद्भक्तिमान् भूत्वेत्यर्थः। अत्रापि पुनर्वचनस्य तात्पर्यं पूर्ववदवधेयम्।
अतिदुःखतोऽतिदुःखसाधनत्वं विज्ञाय। तदन्यत्र भगवतोऽन्यत्राधिकं वैराग्यमुत्पाद्येति तृतीयाद्यस्य। अजिज्ञासूनामपि कदाचित् क्वचिद् वैराग्यं जायते, अतोऽधिकमित्युक्तम्, अतीति च। तद्गुणाधिक्येति द्वितीयस्य। तद्वशत्वात् तद्वशत्वं विज्ञाय। भक्तेः प्राक् सिद्धत्वाद् दार्ढ्यमित्युक्तम्। नचैतत् सर्वमनुपासितगुरोर्भवतीत्यतो विशिष्टेत्यभिहितमिति।
कथमयमथशब्दस्यार्थ इति चेत्, उच्यते यद्यप्यथशब्दोऽनेकार्थः। तथाऽप्यर्थान्तराणामत्रायोगादानन्तर्यार्थः परिगृह्यत इत्यविवादम्। आनन्तर्यं न यतःकुतश्चिदभिधातव्यम्, वैयर्थ्यात्। किन्तु येन विना ब्रह्मजिज्ञासा न भवति, यस्मिंश्च सति भवत्येव तदानन्तर्यम्। तथाविधं च वेदार्थज्ञानादीति।
किञ्च जिज्ञासा नाम विचारापरपर्यायं मननम्। नच तच्छ्रवणमन्तरेण सम्भवतीत्यतो यावदर्थजातमत्र शास्त्रे विचार्यम्, तावतः श्रवणजन्यं ज्ञानं पूर्ववृत्तम्। सति च तस्मिन् जन्मान्तरानुष्ठितसत्कर्मणः सत्कुलप्रसूतस्य सात्त्विकप्रकृतेर्वैराग्यादिकमवश्यं भवत्येव।
यत्तु परैर्नित्यानित्यवस्तुविवेकः, शमदमादिसाधनसम्पत्, इहामुत्रफलभोगवैराग्यम्, मुमुक्षुता चेति साधनचतुष्टयं पूर्ववृत्तमुक्तं तदस्मदुक्त एवान्तर्भवतीत्यविरुद्धम्। उत्तमभक्तानां मुमुक्षुता नास्तीत्याचार्येण न सङ्कीर्तिता।
एतेन जिज्ञासासाध्यस्य वैराग्यादेस्तत्साधनत्वेऽन्योन्याश्रयत्वं स्यादित्यपि निरस्तम्। सात्त्विकप्रकृतेः सत्सङ्गवशादीषद्वैराग्यादिमतः श्रवणेन तदभिवृद्धौ कृतमननादेर्भूयस्तदभिवृद्धिरिति।
॥ मोक्षदत्वाद् ब्रह्म जिज्ञास्यमिति प्रथमसूत्रार्थस्योपपादकत्वं द्वितीयसूत्रस्य॥
एवं प्रथमसूत्रार्थमभिधाय तेन द्वितीयसूत्रस्य सङ्गतिमाह कर्तव्येति।
कर्तव्या ब्रह्मजिज्ञासेत्युक्ते किमिति संशये।
अत इत्युदितेऽप्यस्य विशेषानुक्तितः पुनः॥८॥
उक्ते सति किमिति कर्तव्या प्रयोजनाभावान्न कर्तव्येति संशयो भवति। संशयशब्देनात्र विपर्ययोऽभिधीयते। मिथ्याज्ञानत्वसाम्यात्। संशये सति तत्परिहाराय “जन्माद्यस्य यतः” इत्याहेति शेषः। यद्वा किं कर्तव्या नवेति संशये, प्रयोजनाभावान्न कर्तव्येति पूर्वपक्षे च सतीति व्याख्येयम्। इत्याहेति वक्ष्यमाणेनैव वा सम्बन्धः।
प्रथमसूत्रेऽतःशब्देन जिज्ञासाया मोक्षार्थत्वेनोक्तत्वात् कथं पुनराशङ्केत्यत आह अत इति। अतःशब्देन जिज्ञासाया मोक्षार्थत्वे उदितेऽप्यस्य मोक्षार्थत्वस्य विशेषानुक्तितो हेतोः पुनः संशय इति पूर्वेण सम्बन्धः। एवन्तर्हि जन्मादिसूत्रेणापि नैषा शङ्का निवर्तते। तत्रापि हि मोक्षः समासार्थतया व्याख्यातव्य एव। नतु विशेषेणोक्त इति चेत्, न। प्रमाणविशेषानुक्तित इति व्याख्यानात्। एतदुक्तं भवति मोक्षप्रयोजनत्वात् ब्रह्मजिज्ञासा कर्तव्येत्यतःशब्देनोदितेऽपि पुनराशङ्का भवत्येव। तत्र प्रमाणस्यानुक्तत्वादिति।
॥ यस्माद् विष्णोः अस्य मुमुक्षोः जन्मादि मोक्षादिकं भवतीति श्रुतम्,
तस्मात् तज्जिज्ञासा कर्तव्येति द्वितीयसूत्रस्य द्वितीयं व्याख्यानम्॥
एवं चेद् द्वितीयसूत्रमपि कथमेतदाशङ्कां निवर्तयेत्? नह्यत्रायमर्थः प्रमाणेनोपपादित इत्यतस्तद् व्याचष्टे सृष्टीति।
सृष्टिबन्धनमोक्षादिकर्तृत्वस्य श्रुतत्वतः।
यतो मोक्षादिदाताऽसावतो जिज्ञास्य एव वः।
इत्याह तत् परं ब्रह्म व्यासाख्यं ज्ञानरश्मिमत्॥९॥
श्रुतत्वतोऽसौ मोक्षादिदाता। यतश्च मोक्षादिदाताऽसावतो वो युष्माकं मुमुक्षूणां जिज्ञास्य एव इत्येतमर्थं जन्मादिसूत्रेणाऽहेत्यर्थः। अयमभिसन्धिः “जन्माद्यस्य यतः” इति सूत्रे श्रुतमिति वाक्यशेषः। तथाच परमेश्वरस्य मोक्षदातृत्वे श्रुतिः प्रमाणमित्युक्तं भवति।
॥ सूत्रे मोक्षदत्वमात्रस्य वक्तव्यत्वे सृष्ट्यादिहेतुत्वोक्तिस्तु तत्सम्भावनार्था॥
किञ्चात्र मोक्षदातृत्वं प्रधानम्, सृष्ट्यादिकर्तृत्वं तु तत्र हेतुत्वेनोक्तम्। केवलव्यतिरेकी चायं हेतुः। तस्य चासिद्धिपरिहाराय श्रुतत्वमभिहितमिति। “कृत्यानां कर्तरि वा” इति व इति षष्ठी।
॥ “मोक्षदिकतृत्वस्य” इत्यस्य साधुत्वसमर्थनम्॥
ननु मोक्षादिकर्तृत्वस्येत्यादि कथम्? “कर्तरि च” इति तृजन्तेन षष्ठ्याः समासप्रतिषेधात्। तृन्नयं तच्छीलादौ विहितः। तेन च “श्रितादिषु गामिगम्यादीनामुपसङ्ख्यानम्” इति द्वितीयायाः समासः। ज्ञानं रश्मय इव ज्ञानरश्मयः। व्याप्तज्ञानवदित्यर्थः। “अपान्तरतमो नाम कश्चन मुनिर्व्यासो बभूव” इति प्रवाददर्शनाच्छिष्याणां सूत्रकारे भक्तिमान्द्यं मा भूदित्यतो विशेषणोपादनम्।
॥ जिज्ञासायाः मोक्षहेतुत्वस्य लोकत एव सिद्धत्वात्,
सूत्रे विष्णोः सृष्ट्यादिकतृत्वोक्त्या मोक्षदत्वमेव समर्थितम्॥
जिज्ञासाया मोक्षसाधनत्वे प्रमाणाभावेनाऽक्षिप्ते भगवतो मोक्षसाधनत्वसमर्थनमसङ्गतमित्यत आह येनैवेति।
येनैव बन्धमोक्षः स्यात् स च जिज्ञासया गतः।
सुप्रसन्नो भवेदीशो जिज्ञासाऽतोऽस्य मुक्तिदा॥१०॥
बन्धान्मोक्षो बन्धमोक्षः। “पञ्चमी” इति योगविभागात् समासः। षष्ठीसमासो वा। येन प्रसन्नेन इति शेषः। गतो ज्ञातः। गत्यर्थानामवगत्यर्थत्वात्। चो यस्मादित्यर्थे। प्रसादमात्रस्य मोक्षसाधनत्वाभावात् सुशब्दः। अस्येशस्य जिज्ञासाऽस्य जीवस्य मुक्तिदा।
एतदुक्तं भवति जिज्ञासा तावन्न साक्षान्मोक्षसाधनत्वेनास्माकमभिमता, किन्तु सुप्रसन्नो भगवानेव। स चोत्कृष्टतया ज्ञातः सुप्रसन्नो भवति। उत्कर्षज्ञानं च जिज्ञासयेत्येवम्परम्परया। तत्र भगवतो मोक्षदातृत्वं तावत् प्रमाणैः समर्थितम्। प्रसन्न एव ददातीति, उत्कर्षज्ञानात् प्रसीदतीति, जिज्ञासयोत्कृष्टतया ज्ञायत इति च लोकत एव सिद्धम्। किं तत्र प्रमाणोपन्यासेन? अतो भगवज्जिज्ञासाया मोक्षहेतुत्वं प्रमितमिति मन्यते सूत्रकार इति। ननु स्थानान्तरेऽस्य सूत्रस्यान्यथा सङ्गतिरुक्ता। सत्यम्। सत्यां तस्यामियमपराऽत्रोक्तेति।
॥ मोक्षादिदस्य शास्त्रैकसमधिगम्यत्वात् नानुमानादिनाऽन्ये कल्पनीयाः॥
तृतीयसूत्रनिवर्त्यामाशङ्कामभिधाय तत्परिहारत्वेन तत् पठति मोक्षादीति।
मोक्षादिदत्वमीशस्य कथमेवावगम्यते।
इति चेच्छास्त्रयोनित्वाच्छास्त्रगम्यो हि मोक्षदः॥११॥
प्रधानं मोक्षदत्वं तत्साधनं सृष्ट्यादिकर्तृत्वं चेशस्यैवेति सम्बन्धः। कथमवगम्यते? न कथञ्चित्। अनुमानैस्तत्तदागमैश्चान्येषां तथाऽवगमादिति भावः। इति चेत् तत्रोक्तमिति शेषः।
कथमिदं सूत्रमेतदाशङ्काया निवर्तकमित्यतस्तद् व्याचष्टे शास्त्रगम्यो हीति। मोक्षग्रहणं सृष्ट्यादेरप्युपलक्षणम्। यस्मान्मोक्षादिदः पुरुषः शास्त्रमात्रस्य विषयः, अतो वेदादिकं यं तथाविधं प्रतिपादयति, स एव तथा प्रतिपत्तव्यो नानुमादिना कल्पनीय इति।
॥ मोक्षादिदातुः प्रत्यक्षानुमानपौरुषयागमगम्यत्वनिरासः॥
मोक्षादिदातुः शास्त्रैकसमधिगम्यत्वं कुतः? परिशेषादित्याशयवान् प्रत्यक्षगम्यत्वं तावद् दूषयति प्रत्यक्षेति।
प्रत्यक्षावसितेभ्यः स्याद् यदि मोक्षः कथञ्चन।
किमित्यनादिसंसारमग्नाः सर्वा इमाः प्रजाः॥१२॥
यस्मान्नियमतो दुःखहानिः प्रत्यक्षतो भवेत्।
धावन्त्येव तमुद्दिश्य राजाद्यमखिलाः प्रजाः॥१३॥
यदि मोक्षादिदाता प्रत्यक्षः स्यादिति यावत्। कथञ्चन तत्सेवादिना। तदा सर्वेऽपि मुक्ताः स्युरित्यर्थः। मोक्षदातुः प्रत्यक्षत्वे कुतः सर्वैर्मुक्तैर्भाव्यमित्यत आह यस्मादिति। यस्मात् पुरुषाद्धेतोः।
अमुमुक्षुत्वान्न धावन्तीत्याशङ्कानिवारणाय मोक्षस्वरूपं व्याख्यातम् दुःखहानिरिति। नहि कोऽपि दुःखी दुःखं न जिहासतीति सम्भवति। प्रत्यक्षतः प्रत्यक्षगम्यात्। राजाद्यमिति सम्भावनाय उक्तम्। दारिद्र्यदुःखं जिहासवो वदान्यं राजाद्यमिवेति वा।
अनुमानगम्यत्वं दूषयति अनुमेति।
अनुमागम्यतो मोक्षो यदि स्यादनुमैव हि।
दृष्टपूरुषवन्मोक्षदातृतां विनिवारयेत्।
तच्छास्त्रगम्य एवैको मोक्षदो भवति ध्र्ुवम्॥१४॥
यदि कश्चिन्मोक्षदातृत्वेनानुमीयत इत्यर्थः। अनुमैव पुरुषत्वादिका। अनुमानं सप्रतिपक्षत्वान्न तत्र भवतीत्यर्थः। आगमास्त्वाप्तेरनिश्चयादसमर्था एवेत्याशयवान् परिशेषमुपसंहरति तदिति। तत् तस्मान्मोक्षदः पुरुषो ध्र्ुवं केवलं शास्त्रगम्य एव भवेदिति योजना।
॥ परतन्त्रस्य मोक्षदत्वासम्भवात्, विष्णोरेव स्वतन्त्रत्वेन
वेदतात्पर्यविषयत्वाच्च स एव शास्त्रगम्यः॥
अस्त्वेवम्, तथाऽपि मोक्षदत्वेन शास्त्रगम्यत्वमन्येषां भविष्यति। तथा प्रतिभासादिति चतुर्थसूत्रस्य सङ्गतिं सूचयंस्तत्त्विति पदद्वयं व्याख्याति शास्त्रेति।
शास्त्रगम्यश्च नान्योऽस्ति मोक्षदत्वेन केशवात्।
मोक्षदो हि स्वतन्त्रः स्यात् परतन्त्रः स्वयं सृतौ।
वर्तमानः कथं शक्तः परमोक्षाय केवलम्॥१५॥
अन्याश्रयेण यद्येष दद्यान्मोक्षं स एव हि।
तेनाननुसृतो मोक्षं न दद्यादन्यवाक्यतः।
अतस्तदर्थमपि स ज्ञेयो विष्णुर्मुमुक्षुभिः॥१६॥
मोक्षदत्वेन शास्त्रगम्यश्च केशवादन्यो नास्ति। किन्तु स एव। कुत इत्यतः सौत्रं हेतुं व्याख्याति मोक्षदो हीति। स्वतन्त्र एव हि मोक्षदः स्यादित्यन्वयः। स्वातन्त्र्येण समन्वयश्च भगवत एव नान्येषाम्। यस्य च प्रतीयते श्रुत्यादौ, स एव भगवान् विष्णुरिति भावः।
परतन्त्रो मोक्षदः किं न स्यादिति चेत्, स किं स्वतन्त्रमनाश्रित्य स्वयमेव मोक्षं दद्यात्, उत स्वतन्त्रमन्यमाश्रित्य? आद्ये दोषमाह परतन्त्र इति।परतन्त्र एव। केवलं परानपेक्षया। यद्यसौ स्वतन्त्रमनपेक्ष्यैव स्वभक्तमोक्षाय शक्तः स्यात्, तर्हि स्वात्मानमपि मोचयेदिति न संसारी स्यादित्याशयः।
द्वितीयं दूषयति अन्येति। एषोऽवान्तरेश्वरोऽन्यस्य स्वतन्त्रस्य विष्णोराश्रयेण स्वभक्ताय मोक्षं दद्यादिति यद्युच्यते, तदा स स्वतन्त्रस्तेन मुमुक्षुणाऽननुसृतोऽसेवितोऽन्यस्यावान्तरेश्वरस्य मम भक्ताय मोक्षं देहीति प्रार्थनावाक्यमात्रेण मोक्षं नैव दद्यादित्यपि सम्भावितमेव। तथा लोके दर्शनादिति हिशब्दः। ततः किमित्यत आह अत इति। तदर्थमप्यवान्तरेश्वरान्मोक्षप्राप्त्यर्थमपि स स्वतन्त्रः। तथाच भगवज्जिज्ञासाया अपरिहार्यत्वाद् व्यर्थाऽवान्तरेश्वरस्य मोक्षदत्वकल्पनेति भावः।
॥ यमेवैषेत्यादिमोक्षदत्वप्रतिपादकश्रुतिसमन्वयादपि विष्णोरेव मोक्षदत्वेन शास्त्रगम्यत्वम्॥
प्रकारान्तरेण हेतुं व्याचष्टे यमेवेति।
यमेवैष इति श्रुत्या तमेवेति च सादरम्।
शास्त्रयोनित्वमस्यैव ज्ञायते वेदवादिभिः॥१७॥
अनेन “यमेवैष वृणुते तेन लभ्यः” इति श्रुतिमुपादत्ते। तमेव चेति श्रुत्या “तमेवं विदित्वाऽति मृत्युमेति” इति श्रुतिरनेनोपात्ता। “नान्यः पन्था विद्यते” इति वाक्यशेषेणाऽदरो गम्यते। मोक्षदत्वेन शास्त्रयोनित्वमस्य विष्णोरेव। अनेन श्रुतीनां सम्यक् सादरमन्वयः समन्वय इत्युक्तं भवति।
नन्वेतयोः श्रुत्योरेष इति तमिति च भगवानुच्यत इत्येतत् कुतः? प्रकरणादिपर्यालोचनया तदवधारणात्। तदिदमुक्तम् वेदवादिभिरिति। अत्र श्रुत्यन्तरमाह य एनमिति।
य एनं विदुरमृता इत्युक्तस्तु समुद्रगः।
तदेव ब्रह्म परममिति श्रुत्याऽवधारितः॥१८॥
“य एनं विदुरमृतास्ते भवन्ति” इति च श्रुत्येति पूर्वेण सम्बन्धः। मीमांसार्थमस्याः श्रुतेः पृथग् ग्रहणम्।
॥ श्रौतब्रह्मशब्दस्य विष्णुपरत्वसमर्थनम्॥
अत्रैनमित्युक्तो हरिरित्येतत् कुत इत्यत आह इत्युक्त इति। “य एनं विदुः” इति श्रुतौ मोक्षहेतुज्ञानत्वेनोक्तस्तु “यमन्तः समुद्रे कवयोऽवयन्ति” इति समुद्रग उक्तः। तच्च हरेर्लिङ्गमित्यर्थः।
प्रमाणान्तरमाह तदेवेति। इत्युक्त इति वर्तते। “तदेव ब्रह्म परमं कवीनाम्” इति श्रुत्या ब्रह्मत्वेनावधारितः।
एतदुक्तं भवति एनमित्युक्ते ब्रह्मपदश्रवणात् तस्य च भगवन्नामत्वाद् भगवानेवायमिति ज्ञायते। यद्यपि ब्रह्मपदस्यान्यत्रापि वृत्तिरस्ति, तथाऽप्यमुख्यैव। नचैवमत्र शक्यते गृहीतुम्। तदेवेत्यवधारणविरोधात्। इदं खल्वस्य मुख्यतो ब्रह्मत्वमाचष्टे। अन्यत्र ब्रह्मशब्दवृत्तिमात्रस्य प्रामाणिकत्वेन निषेधानुपपत्तेरिति।
युक्त्यन्तरमाह यत इति।
यतः प्रसूतेति ततः सृष्टिमाह ततो हरिः।
शास्त्रयोनिर्नचान्योऽस्ति मुख्यतस्त्विति गम्यते॥१९॥
“यतः प्रसूता जगतः प्रसूतिः” इति श्रुतिः, ततः “य एतम्” इत्युक्तात्, मूलप्रकृतेः सृष्टिमाह। नच मूलप्रकृतेः कारणत्वं परमपुरुषादन्यस्य सम्भवति। अतोऽप्ययं भगवानिति। एतेन मोक्षादिकर्तृत्वस्य श्रुतत्वत इत्युक्तमपि विवृतं वेदितव्यम्। द्वितीयं हेतुव्याख्यानमुपसंहरति तत इति। मुख्यत इति मोक्षदत्वेनेति यावत्।
॥ उपपत्त्यादिलिङ्गसमुदायाद् विष्णोरेव परममुख्यया वृत्त्या कृत्स्नशास्त्रप्रतिपाद्यत्वम्॥
विष्णोरिवान्येषामपि शास्त्रयोनित्वं प्रतीयत इति यदुक्तम्, तत्परिहारार्थत्वेनापि सौत्रं हेतुं व्याचष्टे शास्त्रेति।
शास्त्रयोनित्वमेतस्य ज्ञायते हि समन्वयात्।
समिति ह्युपसर्गेण परमुख्यार्थतोच्यते॥२०॥
अन्वय उपपत्त्यादिलिङ्गम्। “यतो वाचो निवर्तन्ते” इत्यादिश्रुतिभिर्ब्रह्मणोऽवाच्यत्वमाशय वाच्यत्वमीक्षत्यधिकरणे साध्यते। तदसङ्गतम्। प्राग् वाच्यताया अनुक्तत्वात्। शास्त्रयोनित्वस्य लक्षणादिनाऽपि सम्भवादित्यतोऽधिकरणं सङ्गमयितुं संशब्दं व्याख्याति समिति। परममुख्यार्थतोच्यते। सङ्कोचे कारणाभावात्।
॥ पूवसूत्रस्थसंशब्दार्थं मुख्यत्वं कार्स्त्न्यं चाऽक्षिप्य
समाधानाभिधानादीक्षत्यधिकरणस्याऽक्षेपिकी सङ्गतिः॥
ततः किमित्यत आह एवमिति।
एवं परममुख्यार्थो नारायण इति श्रुतेः।
निर्धारणाय नाशब्दमिति वेदपतिर्जगौ॥२१॥
एवं मोक्षादिदत्वेन नारायणः श्रुतेः परममुख्यार्थ इत्यस्यार्थस्य निर्धारणायेति सम्बन्धः। यस्मात् समित्युपसर्गेण परममुख्यार्थतोच्यते, एवं तस्मात् सङ्गतिसद्भावात् “नाशब्दम्” इति जगाविति वा।
॥ गतिसामान्यसूत्रे कृत्स्नशास्त्रविषयत्वमाक्षिप्य समाधानाभिधानम्॥
अत्राधिकरणे “गतिसामान्यात्” इति सूत्रम्। तत् प्राग् वाच्यतासमर्थनपरं न भवतीति न व्याख्यातम्। तस्येदानीं सङ्गतिमाह कथमिति।
कथं समन्वयो ज्ञेयः स्वल्पशाखाविदां नृणाम्।
संशब्दो द्व्यर्थः, मुख्यवृत्त्येति सर्ववेदानामिति च। तत्र द्वितीयार्थोऽत्राऽक्षिप्यते। अत एवैकाधिकरणत्वमेषां सूत्राणाम्। संशब्दार्थाक्षेपसमाधानस्यैकत्वात्। उपक्रमादिलिङ्गैजगज्जन्मादिकारणत्वेन परमेश्वरे सर्ववेदानां समन्वयो न ज्ञातुं शक्यः। कुतः? नृणां स्वल्पायुःप्रज्ञादिमतां स्वल्पशाखावेदित्वस्यैव सम्भवेन सर्ववेदज्ञानासम्भवात्।
॥ वेदानामनन्तत्वात् मनुष्याणां अल्पप्रज्ञादिमत्त्वेन सर्ववेदसमन्वयज्ञानासम्भवात्
विष्णोः मोक्षादिदत्वेन निर्णयाभाव इति पूर्वपक्षः॥
वेदानामपि स्वल्पत्वे शक्यत एव तत्समन्वयो ज्ञातुमस्मदादिभिरपीत्यत आह वेदा इति।
वेदा ह्यनन्ता इति हि श्रुतिराहाप्यनन्तताम्॥२२॥
“अनन्ता वै वेदाः” इति श्रुतिमनेनोपादत्ते। आद्यो हिशब्दः श्रौतवैशब्दार्थः। द्वितीयः श्रुतेः प्रसिद्धत्वं द्योतयति। अपिः समुच्चये। न केवलं पुरुषाः स्वल्पवेदविदः। किन्तु वेदा अप्यनन्ता इति। अनन्तता वेदानामिति शेषः।
सन्तु पुरुषाः स्वल्पविदः, वेदाश्चानन्ताः, तथाऽपि कथं समन्वयज्ञानमशक्यमित्यत आह अनन्तेति।
अनन्तवेदनिर्णीतिर्महाप्रलयवारिधेः।
उत्तारणोपमेत्यस्मान्न ज्ञेयोऽत्र समन्वयः॥२३॥
स्वल्पशाखाविदामिति वर्तते। महाप्रलयवारिधेरुत्तारणोपमेति गमकत्वात् समासः। देवदत्तस्य गुरुकुलमिति यथा। यो यद्वाक्यं स्वरूपतो न जानाति स तत्रोपक्रमाद्यनुसन्धाय वाक्यार्थमवधारयतीत्यसम्भावितमेतदिति भावः।
एतदुक्तं भवति विमताः पुरुषा न सर्ववेदसमन्वयज्ञानार्हाः, सर्ववेदाज्ञत्वात्; यो यद्वाक्यं न जानाति नासौ तत्समन्वयमपि जानाति, यथा सम्मतः। विमता न सर्ववेदवेदनार्हाः, अल्पप्रज्ञादिमत्त्वात्; यो यदपेक्षयाऽल्पप्रज्ञादिमान् नासौ तद् वेत्ति, यथा सम्मतः। वेदा वा नैतत्पुरुषवेद्याः, एतत्प्रज्ञाद्यतिक्रान्तत्वात्; यदेवं तदेवम्, यथा सम्मतमिति।
आक्षेपमुपसंहरति इत्यस्मादिति। अत्र विष्णौ। ततश्च शाखान्तरे प्रतिपाद्यान्तरशङ्कया नोक्तार्थावधारणं सम्भवतीति भावः।
॥ भगवतो व्यासस्य सर्वज्ञत्वेन सर्ववेदसमन्वयज्ञानित्वम्॥
एतत्परिहारार्थत्वेन सूत्रमवतारयति इत्याशङ्केति।
इत्याशङ्कापनोदार्थं स आह करुणाकरः।
ॐ गतिसामान्यात् ॐ॥१११०॥
अशक्योत्तारणत्वेऽपि ह्यागमापारवारिधेः।
निर्णीयते मयैवायं रोमकूपलयोदिना॥२४॥
आह “गतिसामान्यात्” इति सूत्रमिति शेषः। नन्वस्य सूत्रस्य कोऽर्थः? सर्वाभिः शाखाभिरुत्पाद्याया ब्रह्मावगतेरेकरूपत्वात् सर्वा अपि शाखाः परमपुरुषमेकमेव जगज्जन्मादिकारणत्वेन अवगमयन्तीति न क्वचिदप्यन्यथाप्रतिपादनं शङ्कनीयमिति चेत्, नन्वेतदेव वेदानामनन्तत्वेन ज्ञातुमशक्यत्वादुपक्रमादिभिस्तन्निर्णयो दूरे निरस्त इत्याक्षिप्तम्, पुनस्तदेवोच्यत इति किमनेन कृतं स्यादित्यतः सूत्रकृतोऽभिसन्धिमाह अशक्येति।मदन्यैरिति शेषः। हिशब्देन परोपन्यस्तं प्रमाणमभ्युपैति। उत्तारणं पारगमनम्। उपक्रमादिभिर्निर्णयनमिति यावत्। उदमुदकमस्यास्तीत्युदी। भूमविवक्षायामिनिः। समुद्र इत्यर्थः। रोमकूपे लयोदी यस्यासौ तथोक्तः। प्रलयसमुद्रसमानोऽपि वेदो मदीयज्ञानेऽन्तर्भवतीति भावः।
॥ वेदानामनिर्णेयत्वनिर्णेयत्वोक्तेः व्याहतत्वशङ्कायाः,
व्यासस्य रोमकूपलयोदित्वोक्तेरसङ्गतत्वशङ्कायाश्च परिहारः॥
एतदेव विवृणोति यद्यपीति।
यद्यप्यशेषवेदार्थो दुर्गमोऽखिलमानवैः।
मज्ज्ञानाव्याकृताकाशे प्राप्नोति परमाणुताम्॥२५॥
इति प्रकाशयन् विश्वपतिराह प्रमेयताम्।
निखिलस्यापि वेदस्य गतिसामान्यमञ्जसा॥२६॥
अव्याकृताकाशे परमाणुरिव मज्ज्ञानेऽन्तर्भवति। भूताकाशस्य परिमितत्वादव्याकृतग्रहणम्। विवरणाभावे पूर्वश्लोकोक्तं किञ्चिद् व्याहतम्, किञ्चिच्चासङ्गतं प्रतीयेत।
अभिप्रायमुपसंहरति इतीति। उक्तप्रकारेण निखिलस्यापि वेदस्य स्वेनाञ्जसा प्रमेयतां प्रकाशयन् सूचयन् गतिसामान्यमाह। नतु निरभिसन्धिर्येनोक्तदोषः स्यात्। विश्वपतिरिति सर्ववेदवित्त्वे प्रमाणम्। नहि पालनीयमविद्वान् पालको भवति। विश्र्वान्तर्गताश्च सर्वे वेदा इति।
एतदुक्तं भवति सूत्रकारेण सर्ववेदज्ञानासम्भवेन सर्ववेदसमन्वयाज्ञानं किं मानवादीनामुच्यते, उत सूत्रकर्तुर्मम? आद्येऽपि किं विशेषतः, अथ सामान्यतोऽपि? आद्योऽभ्युपगम्यत एव। द्वितीये तु वक्ष्यामः। (१०७४) न द्वितीयः, मम सर्वज्ञत्वेनासिद्ध्यादिप्राप्तेरिति।
॥ भगवतो व्यासादन्यस्य सर्ववेदसमन्वयज्ञानाभावः॥
एवं चेद् यदि कश्चिदन्यः सूत्रकारवद् विषयान्तरे गतिसामान्यं ब्रूयात्, तदा पुनरनिर्णय एवेत्यत आह को नामेति।
को नाम गतिसामान्यमनन्तागमसम्पदः।
ज्ञानसूर्यमृते ब्रूयात् तमेकं बादरायणम्॥२७॥
ज्ञानेन सूर्य इव ज्ञानसूर्यः। यथा सूर्यः स्वतेजसा विश्वस्य प्रकाशकः, तथाऽयं ज्ञानेनेति। “विना वातम्” इत्यादिप्रयोगदर्शनाद् विनायोग इव ऋतेऽपि द्वितीया भवत्येव।
इदमुक्तं भवति किं सर्वज्ञो विपरीतं गतिसामान्यं ब्रूयात्, उतापरः? नाऽद्यः, सर्वज्ञोक्त्योर्विरोधायोगात्। योगे वा द्वयोः सार्वज्ञ्यानुपपत्तेः। द्वितीये सम्प्रतिपन्नसर्वज्ञसूत्रकारवचनविरोधात् मिथ्यादृष्टिर्वा प्रतारको वाऽसौ स्यादिति कथमनिर्णय इति।
॥ अन्येषां सूत्रकृन्निर्णीतशाखादृष्टान्तेन सर्वशाखास्वपि ब्रह्मज्ञानस्यैकरूपत्वानुमानम्॥
अस्तु भगवतः सर्वज्ञत्वेन गतिसामान्यज्ञानम्, परस्य तु कथम्? यदर्थमिदं शास्त्रमित्यतः सूत्रस्य अर्थान्तरमाह अन्योऽपीति।
अन्योऽप्यल्पमतिः शाखाचतुष्पञ्चगतं वसु।
जानन्ननुमितत्वेन ब्रूयात् तस्य प्रसादतः॥२८॥
अल्पमतिरप्यन्यस्तस्य प्रसादतः शाखाचतुष्पञ्चगतं वसु जानन्ननुमितत्वेनानन्तागमसम्पदो गतिसामान्यं ब्रूयादिति योजना। यासां शाखानामुदाहरणेन सूत्रकृता परमेश्वरसमन्वयोऽभिहितः, तद् दृष्टान्तीकृत्य शाखात्वाद् विप्रतिपन्नशाखानामपि तत्परत्वानुमानसम्भवादन्येषामपि गतिसामान्यज्ञानं युक्तमिति भावः। अनेन गतिसामान्यानुमानादिति सूत्रं व्याख्यातमिति।
॥ “शाखाचतुष्पञ्चगतम्” इत्यस्य साधुत्वसमर्थनम्॥
ननु चतुष्पञ्चशाखागतमिति वक्तव्यम्। तद्धितार्थोत्तरपदसमाहारे चेति सङ्ख्याया उपसर्जनत्वात्। “कडाराः कर्मधारये” इत्युपसर्जनस्य परनिपातो भविष्यति। वर्गार्थौ वा चतुष्पञ्चशब्दौ। “प्रपञ्चो यदि विद्येत” इति यथा।
॥ उत्तमाधिकार्यपेक्षया प्रथमं व्याख्यानम्, तदन्यापेक्षया द्वितीयम्॥
इदमेवास्तु सूत्रव्याख्यानम्, श्रोतृप्रत्यायनाङ्गत्वात्। न पूर्वम्। शङ्कानिरासाहेतुत्वात्। नहि सूत्रकारः सर्वज्ञत्वात् सर्ववेदगतगतिसामान्यं वेत्तीत्येतावताऽन्येषां शङ्का निवर्तत इत्यत आह इति मुख्यतयेति।
इति मुख्यतयाऽशेषगतिसामान्यवित् प्रभुः।
प्रतिजज्ञे दृढं यस्माद् देवानामपि पूर्यते॥२९॥
इति प्रतिजज्ञ इति सम्बन्धः। मुख्यतयेत्यनुमानादिना विनाऽशेषवेदगतिसामान्यवित्। देवानामित्युत्तमाधिकारिणाम्। अपिः पदार्थे। शङ्केत्यर्थः। मधुनोऽपि स्यादिति यथा। पूर्यते निवार्यते। ये सूत्रकारस्य परमाप्तत्वं जानन्त्युत्तमाधिकारिणः, तेषां तदीयप्रतिज्ञामात्रेण शङ्का निवर्तत एवेति तान् प्रति पूर्वव्याख्यानम्। अन्यान् प्रति तु द्वितीयम्। तथा भाष्योक्तं गतिसामान्यश्रुतेरिति तृतीयं चेति भावः।
॥ समन्वयसूत्रेणाध्यायशेषस्य प्रपञ्च्यप्रपञ्चकभावलक्षणा सङ्गतिः॥
नन्वनया पञ्चाधिकरण्या वक्तव्यस्योक्तत्वात् किमध्यायशेषेणेत्यतः प्रपञ्च्यप्रपञ्चनरूपां सङ्गतिं दर्शयन्नाह अत इति।
अतो निखिलवेदानां सिद्ध एव समन्वयः।
इति सुज्ञापितार्थोऽपि पृथक् चाऽह समन्वयम्॥३०॥
अतीतप्रबन्धेनेत्यर्थः। पृथग् विस्तरेणाध्यायशेषेणेति शेषः। तत्र प्रथमपादे अन्यत्र प्रसिद्धानां नामात्मकानां शब्दानां समन्वयोऽभिधीयते। द्वितीयेऽन्यत्र प्रसिद्धानां लिङ्गात्मकानाम्। तृतीये तत्रान्यत्र प्रसिद्धानामुभयरूपाणाम्। चतुर्थेऽन्यत्रैव प्रसिद्धानामित्युक्तम्।
॥ अन्यत्रप्रसिद्धशब्दसमन्वयस्य उभयत्रप्रसिद्धशब्दसमन्वयापेक्षया
बहुसंविधानसाध्यत्वेन प्राधानत्वात् प्राथम्यम्॥
तमेतं क्रममुपपादयन्नाह तत्रेति।
तत्र प्रथमतोऽन्यत्र प्रसिद्धानां समन्वयः।
शब्दानां वाच्य एवात्र महामल्लेशभङ्गवत्॥३१॥
तत्र प्रथमाध्याये। प्रथमतः प्रथमपादे। शब्दानां नामात्मकानाम्। अत्र विष्णौ। महामल्लेशभङ्गेन तुल्यं वर्तते इति तथा। यथाऽनेकेषु मल्लेषु प्रत्यर्थितयाऽवस्थितेष्वपि भगवता कृष्णेन प्रधानत्वाच्चाणूरादिमल्लानामेवाऽदौ भङ्गो विहितः, तथेत्यर्थः। उभयत्र प्रसिद्धानां हि शब्दानां समन्वयेऽन्यत्र प्रसिद्धिनिवारणमात्रे यत्नो विधेयः। अन्यत्र प्रसिद्धानां तु भगवति प्रसिद्धिरप्युपपादनीयेति। तत एतेषां प्राधान्यम्।
॥ लिङ्गात्मकशब्दानामपि नामात्मकशब्देभ्य उक्तविधया प्राधान्यसद्भावात् प्राथम्यम्॥
लिङ्गात्मकाश्च धर्मवचना व्यवधानेनान्यबुद्धिं जनयन्ति। नामात्मकास्तु सत्त्ववचनाः साक्षादेवेति तत्समन्वये यत्नगौरवमस्तीति लिङ्गात्मकेभ्यो नामात्मकानां प्राधान्यमिति।
॥ अन्यत्रैव प्रसिद्धशब्दसमन्वयस्य उभयस्मात् प्राधान्येऽपि
तस्य सर्वाधिकारिकत्वाभावात् न प्राथम्यम् ॥
यदि प्राधान्यादन्यत्र प्रसिद्धानां नामात्मकानां शब्दानां समन्वयः प्रथमपादे वक्तव्यः स्यात्, तदा चतुर्थपादोदितस्यान्यत्रैव प्रसिद्धानां शब्दानां समन्वयस्येतोऽपि प्राधान्यात् प्राथम्यं भवेत्। अन्यत्र प्रसिद्धेरन्यत्रैव प्रसिद्धिर्बलीयसीत्यत आह इत इति।
इतोऽत्यभ्यधिकत्वेऽपि तुर्यपादोदितस्य तु।
महासमन्वये तस्मिन् नाधिकारोऽखिलस्य हि॥३२॥
ब्रह्मैवाधिकृतस्तत्र मुख्यतोऽन्ये यथाक्रमम्।
दुर्गमत्वाच्च नैवात्र प्राथम्येनोदितोऽञ्जसा॥३३॥
तुर्यपादोदितस्य समन्वयस्येतोऽत्यभ्यधिकत्वेऽप्यसावत्राध्याये प्राथम्येन नैवोदित इति सम्बन्धः। “तत्तु समन्वयात्” इति सङ्क्षेपेण तस्याप्यत्रोक्तत्वादञ्जसेत्युक्तम्। कुतो नोदितः? उत्सर्गस्यापवादविशेषसद्भावादिति तुशब्दः।
तमेवापवादहेतुं दर्शयति महासमन्वय इति। तर्हि न वक्तव्य एव, निरधिकारिकत्वात्। नहि गायमानो बधिरेषु गायतीत्यत उक्तम् ब्रह्मैवेति। नैकाधिकारिकं शास्त्रमित्यतोऽन्य इत्याद्युक्तम्। सर्वाधिकारिसाधारणमर्थमादावभिधायासाधारणं पश्चाद् वक्ष्यामीत्याशयः सूत्रकारस्य। तत्र साधारणे त्विदं तारतम्यं चिन्तितमिति। दुर्गमत्वाच्चेति हेत्वन्तरम्। प्रथमं बुद्धावनारोहादित्यर्थः।
एतदुक्तं भवति ब्रह्मादीनामेव तत्र यद्यपि मुख्याधिकारिता, तथाऽप्यस्मदादीनामीषदधिकारः अस्त्येव। नच मन्दानामसौ समन्वयः प्रथमं बुद्धिमधिरोहति। साधारणसमन्वयज्ञानेन वैदिकव्युत्पत्त्यनुरक्ता तु बुद्धिः क्रमेण तत्राप्यवतरतीति।
॥ अनन्दमयाधिकरणस्य प्राथम्ये निमित्तम्॥
ततः किमित्यत आह अत इति।
अतोऽन्यत्र प्रसिद्धानां शब्दानां निर्णयाय तु।
प्रवृत्तः प्रथमं देवस्तत्राऽनन्दादयो गुणाः।
ईशस्यैवेति निर्णीताः श्रुतियुक्तिसमाश्रयात्॥३४॥
प्राधान्यादतिप्राधान्यान्यस्योपपादितत्वाच्चेत्यर्थः। तुशब्दोऽवधारणे। तत्राऽनन्दमयाधिकरणस्य आद्यत्वे हेतुं सूचयन्नाह तत्रेति।तत्र समन्वयप्रपञ्चने। प्रथममित्यनुवर्तते। सर्वेषु हि शुभेषु मूर्धाभिषिक्ताः आनन्दविज्ञानादयः। अतो माङ्गिलक आचार्यः तच्छब्दसमन्वयमादावाहेति।
॥ अन्तःस्थत्वाधिकरणआकाशाधिकरणयोः क्रमे निमित्तम्॥
अन्तरधिकरणस्याऽकाशाधिकरणस्य चाऽनन्दमयाधिकरणसङ्गतत्वे समाने कुतः क्रम इत्यतस्तत्र हेतुं सूचयन्नन्तरधिकरणतात्पर्यमाह देवतेति।
देवतान्तरगाः सर्वे शब्दवृत्तिनिमित्ततः।
विष्णुमेव वदन्त्यद्धा तत्सङ्गादुपचारतः॥३५॥
अन्यदेवान् वदन्तीह विशेषगुणवक्तृतः।
विष्णुमेव परं ब्रूयुरेवमन्येऽप्यशेषतः॥३६॥
देवताः खलु जडेभ्यो मुख्याः। अतस्तद्वाचिनामाकाशादिजडवाचिभ्य उत्कर्षः। सर्वे शब्दा अद्धा वचनवृत्त्यैव नोपचारेण। कथम्? शब्दवृत्त्योर्योगरूढ्योर्निमित्तानां बहुलप्रयोगादीनां हरौ विद्यमानत्वात्।
तत् किमन्यत्र शब्दानां वृत्तिरेव नास्ति, येन विष्णुमेवेत्यवधार्यत इत्यत आह तत्सङ्गादिति।उपचारप्रकारश्च प्रागेव विवृतः। (३६३३६६,२७७) अक्षादिशब्दवदुभयत्र साम्येन प्रवृत्तिः किं न स्यादित्यत आह इहेति। इन्द्रादिशब्दा हि परमैश्वर्यादिगुणान् वदन्ति। ते च भगवत एवासाधारणा इति तमेव परं मुख्यं ब्रूयुः। इह देवतान्तरे। तथा नेति शेषः।
यद्वा इह देवेषु तत्सङ्गादिति पूर्वत्र सम्बन्धः। रूढिनिमित्तातिशयस्याप्येतदुपलक्षणम्। उत्तराधिकरणेष्वप्येवं क्रमनिमित्तादिकं स्वयमूहनीयमित्याशयवानाह एवमिति। विष्णुमेव परं ब्रूयुरिति वर्तते।
॥ प्रथमपादेन द्वितीयपादस्योपपाद्योपपादकभावलक्षणा सङ्गतिः॥
अन्यत्र प्रसिद्धानां नामात्मकानां शब्दानामनन्तत्वात् कथं पादपरिसमाप्तिरित्याशङ्कां निराकुर्वन् प्रथमपादार्थमनूद्य द्वितीयपादस्य सङ्गतिमाह इत्यन्यत्रेति।
इत्यन्यत्र प्रसिद्धोरुशब्दराशेरशेषतः।
ज्ञाते समन्वये विष्णौ लिङ्गैह्येष समन्वयः॥३७॥
तेषामन्यगतत्वे तु न स्यात् सम्यक् समन्वयः।
इत्येवाशेषलिङ्गानां ब्रह्मण्येव समन्वयम्॥३८॥
आह..................................।
समानन्यायसञ्चारविषयत्वादिति भावः। ज्ञाते प्रथमपादेन। शङ्का जायत इति शेषः। कथमिति। प्रायेण लिङ्गबलेन ह्येष नामात्मकशब्दसमन्वयोऽभिहितः। लिङ्गानां चान्यगतत्वं प्रतीयते। ततश्च विरुद्धत्वात् तैः प्रतीतः समन्वयः सम्य न स्यादेव। नहि कृतकत्वेन नित्यत्वज्ञानं सम्यगुत्पद्यते। इतिशब्दः शङ्कासमाप्तौ। तत्परिहारायान्यत्र प्रसिद्धानामशेषलिङ्गानाम्। आह द्वितीयपादे।
नन्वेवन्तर्हि यानि “अन्तस्तद्धर्मोपदेशात्” इत्यादौ समुद्रान्तःस्थत्वादीनि लिङ्गानि साधनत्वेन उक्तानि तेषामिह विचारः करणीयः। नचैवम्। किन्तु यान्युक्तानि न तानि विचार्यन्ते। यानि च विचार्यन्ते न तान्युक्तानि।
उच्यते सर्वश्रुतिगताः सर्वेऽप्यन्यत्र प्रसिद्धा नामात्मकाः शब्दा भगवद्विषया एव तत्रतत्र श्रुतैः सर्वैर्लिङ्गैरिति हि प्रथमपादस्यार्थः। तत्र यानि लिङ्गान्यसन्दिग्धानि तानि विहायेतराणि विचार्यन्त इति को विरोधः? अत एव “अशेषतः” इत्युक्तं प्राक्।
॥ तृतीयपादस्य पूर्वाभ्यामुपपाद्योपपादकभावलक्षणा सङ्गतिः॥
तृतीयपादस्य प्रथमद्वितीयाभ्यां सङ्गतिमाह उभयेति।
.....उभयगतत्वं च स्यादतो लिङ्गशब्दयोः।
इति संशयनुत्यर्थम् .....................॥३९॥
भगवत्तदितरविषयत्वम्। अतोऽन्यत्र प्रसिद्धानां भगवत्परत्वस्य समर्थनम्। लिङ्गात्मकानां च शब्दानाम्।
॥ तृतीयपादतात्पर्यम्॥
नन्वन्यवाचित्वनिरासोऽपि तत्रैव “नेतरः” इत्यादिना विहित एव। तत् कथं शङ्कोदयः? मैवम्। अन्यत्र तात्पर्याभावो हि नेतर इत्यादिना दर्शितः। शक्तिस्तूभयत्र स्यादेव। तर्हि त एव पुनर्विचार्याः। सत्यम्। तेष्वेव यत्रयत्र विचारप्राप्तिस्ते विचार्यन्ते। यदा यत्रानुपपत्त्यादीनां सञ्चारः सुगमः, तान् विहायान्यत्रोभयगतत्वं शङ्केतैवेति युक्तमुक्तम्। तथाच तत्त्वित्यवधारणानुपपत्तिरिति शङ्काशेषः। इत्याशङ्कानिवृत्त्यर्थं तृतीयपादमारब्धवानिति शेषः। इत्याहेति वक्ष्यमाणेन वा सम्बन्धः।
कथमियमाशङ्का तृतीये परिहृतेत्यतस्तात्पर्यमाह उभयत्रेति।
....................उभयत्र प्रतीतितः॥३९॥
शब्दानां वर्तमानानां सलिङ्गानां विशेषतः।
समन्वयो हरावेव यन्नैवान्यत्र मुख्यतः॥४०॥
शब्दा लिङ्गानि च यतो नैवान्यत्र स्वतन्त्रता।
अस्वतन्त्रेषु शब्दस्य वृत्तिहेतुर्न मुख्यतः॥४१॥
यतोऽतो यदधीनास्ते शब्दार्थत्वमुपागताः।
अत्यल्पेनैव शब्दस्य वृत्तिहेतुगुणेन तु॥४२॥
अयो यथा दाहकत्वं स एवेशः स्वतन्त्रतः।
मुख्यशब्दार्थ इति स्वीकर्तव्यो मनीषिभिः॥४३॥
इत्याह...................................।
हरौ तदितरत्र च। प्रतीतितो नतु वस्तुतो वर्तमानानां सलिङ्गानां शब्दानां नाम्नां लिङ्गानां च हरावेव विशेषतः परममुख्यया वृत्त्या तात्पर्येण च समन्वयः। कुत इत्यत आह यदिति। यद् यस्माद् वर्तन्त इति शेषः। एतदपि कुत इत्यत आह यत इति। स्वतन्त्रताऽस्तीति शेषः। स्वातन्त्र्याभावेऽपि कुतोऽन्यत्र शब्दानां मुख्यवृत्त्यभाव इत्यत आह अस्वतन्त्रेष्विति।
नन्वन्येषामस्वतन्त्रत्वात् तेषु मुख्यतः शब्दप्रवृत्तिहेतोर्गुणादेरभावान्मुख्यतः शब्दा न वर्तन्त इति चेत्। मा वर्तिषत। तथाऽपि विशेषतः समन्वयो हरावेवेत्येतत् कुत इत्यत आह अत इति। इतरस्य मुख्यार्थत्वाभावादित्यर्थः। भाव्यं खलु शब्दस्य मुख्यार्थेन। अन्यथा तदपेक्षस्यामुख्यस्य अनुपपत्तेः। तथाच द्वयोः प्रसक्तयोरेकस्य मुख्यार्थत्वानुपपत्तावितरस्य मुख्यार्थत्वमावश्यकमेव।
यदधीनास्त इत्यादिना युक्त्यन्तरमाह। ते भगवतोऽन्ये पदार्था भगवदपेक्षयाऽत्यल्पेनैव शब्दप्रवृत्तिहेतुना गुणादिना यस्मिन् भगवत्यायत्ताः सन्तः शब्दार्थत्वमुपगताः स भगवानेवेशो निरवधिकशब्दप्रवृत्तिनिमित्तवान् स्वतन्त्रत्वतश्च मुख्यशब्दार्थ इति हि स्वीकर्तव्यः। इतरेषु शब्दप्रवृत्तिनिमित्तान्यल्पान्येव तान्यपि भगवदधीनानि। भगवति तु निरवधिकान्यपराधीनानि चेत्येतदसिद्धमित्यत उक्तम् मनीषिभिरिति। श्रुत्यादिपरिचयवद्भिः। यो यदधीनः शब्दार्थः सोऽमुख्यः, इतरस्तु मुख्य इत्यत्र दृष्टान्तः अयो यथाऽग्न्यधीनं सद् दाहकत्वं दाहकशब्दार्थत्वमुपागतम्, अत एव दहतीति शब्दस्तस्मिन्नमुख्यः, अग्नौ तु मुख्यः, तथेत्यर्थः। अत्रेतरस्यामुख्यार्थत्वमनूद्यत एवेति न पुनरुक्तिः। इत्याह तृतीयपादेनेति शेषः।
॥ चतुर्थपादस्य पूर्वपादैः एककार्यत्वलक्षणा सङ्गतिः॥
चतुर्थपादस्य सङ्गतिं करोति एवञ्चेति।
......एवञ्च शब्दानां नारायणसमन्वये।
सिद्धेऽप्यशेषशब्दानां न कथञ्चन युज्यते॥४४॥
विरोधादवरत्वादेरपि प्राप्तिर्यतो भवेत्।
इति चेत् ..........................॥४५॥
एवञ्चेत्यस्यैव विवरणम् अतीतेन पादत्रयेण केषाञ्चिच्छब्दानां नारायणसमन्वये सिद्धेऽपीति। अशेषशब्दानां नारायणे समन्वयो न युज्यते। यः प्रतिज्ञातो दुःखिबद्धावरादिशब्दानां कर्मादिविषयाणां च कथञ्चन योगेन रूढ्या वा प्रवृत्त्यनुपपत्तेरिति शेषः। कथम्? यतोऽवरादिशब्दवाच्यत्वे भगवतोऽवरत्वादेर्दोषस्य प्राप्तिर्भवेत्। तस्याश्च सर्वप्रमाणविरोधात्। कर्मक्रमादिविरोधाच्चेति। इति चेत् तत्र प्रतिविहितं सूत्रकारेणेति शेषः।
॥ आनुमानिकाधिकरणतात्पर्यम्॥
कथमित्यतः प्रथमाधिकरणतात्पर्यमाह अवरत्वादीति।
.......अवरत्वादि द्विविधं ह्युपलभ्यते॥४५॥
अवरादिशब्दप्रवृत्तिनिमित्तमुपलभ्यते प्रमाणैः। हिशब्दस्तेषां प्रसिद्धिं द्योतयति। कथं द्विविधमित्यत आह परस्येति।
परस्यावरताहेतुर्यः स्वयं पर एव सन्।
सोऽपि ह्यवरशब्दार्थो यथा राजा जयी भवेत्॥४६॥
अन्योऽवरत्वानुभवी तयोः पूर्वोऽस्ति केशवे।
द्वितीयो जीव एवास्ति स्वतन्त्र्यान्नैव दूषणम्॥४७॥
हरेः .....................................।
स्वयं पर एव सन्निति न प्रवृत्तिनिमित्तकथनम्, किन्तु स्वस्यावरत्वाभावेऽपीति प्रदर्शनार्थम्। परस्मिन्नवरत्वादिधर्मनियन्तृत्वमेकं निमित्तमित्यर्थः। तस्य प्रमितत्वदर्शनम् यथेति। परगतस्य जयस्य राजाधीनत्वेन यथा राजा जयिशब्दवाच्यो भवेत्, तथेत्यर्थः। अवरत्वानुभवी अन्योऽवरशब्दार्थः। अवरत्वादिमत्त्वमपरं निमित्तमिति यावत्। एतच्च सुप्रसिद्धमिति न प्रमाणमुक्तम्।
ततः किं प्रकृत इत्यत आह तयोरिति। तयोः प्रवृत्तिहेत्वोर्मध्ये। तेनावरादिशब्दवाच्यत्वं चेति शेषः।
कुतः पूर्व एवाङ्गीक्रियते, न द्वितीय इत्यत आह द्वितीय इति।जीव इति जडस्याप्युपलक्षणम्। तथासतीश्वरत्वहानिः स्यादित्यर्थः।
अधिकरणफलमाह स्वातन्त्र्यादिति।परगतावरत्वादौ स्वातन्त्र्यस्यैव निमित्तत्वाङ्गीकाराद् हरेरवरत्वादिकं दूषणं न प्रसज्यत इति। एवमुत्तराधिकरणतात्पर्यमपि वक्तव्यम्।
॥ प्रथमाध्यायेन द्वितीयाध्यायस्य कार्यकारणभावलक्षणा सङ्गतिः॥
प्रथमाध्यायार्थानुवादेन द्वितीयाध्यायस्य सङ्गतिमाह एवमिति।
..........एवमशेषेण सर्वशब्दसमन्वये।
उक्ते विरोधहीनस्य स्यात् समन्वयता यतः।
अतोऽशेषविरोधानां कृतेशेन निराकृतिः॥४८॥
सर्वशब्दार्थविवरणम् अशेषेणेति। उक्ते सति द्वितीयेऽध्यायेऽशेषविरोधानां निराकृतिरीशेन कृतेति सम्बन्धः। विरोधहीनस्यैव समन्वयस्य।
॥ तृतीयाध्यायस्य अवसरप्राप्तिलक्षणा सङ्गतिः॥
तृतीयाध्यायस्य सङ्गतिमाह समन्वयेति।
समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णये।
किं मया कार्यमित्येव स्याद् बुद्धिरधिकारिणः॥४९॥
तदर्थयोरध्याययोरुपलक्षणमेतत्। वस्तुनिर्णये ब्रह्मनिर्णये। किं मया कार्यमिति। अयमर्थः यद्यपि ब्रह्मविचारः कर्तव्य इत्युक्तम्। कृतश्चासौ। तथाऽपि साधनफलविचारसहितस्य ब्रह्मविचारस्य कर्तव्यतयोक्तत्वात् कृतब्रह्मविचारस्याधिकारिणो यन्मया कार्यं साधनं तत् किं कथम्भूतमिति बुद्धिः स्यादिति। फलविषये कुत एवं बुद्धिर्न स्यादिति चेत् स्यादेव। किन्तु फलापेक्षया साधनस्य पूर्वभावित्वात् तद्विषयैवाऽदौ स्यात्। तदिदमुक्तमेवशब्देन। तदर्थं तृतीयोऽध्यायः प्रवृत्त इति शेषः।
॥ तृतीयाध्यायगतपादानां हेतुहेतुमद्भावलक्षणा सङ्गतिः॥
एतद्गतानां त्रयाणां पादानां प्रागुक्तामेव सङ्गतिं (१०६३) स्फुटीकरोति तत्रेति।
तत्र भक्तिविधानार्थमभक्तानर्थसन्ततौ।
उक्तायां भक्तिदार्ढ्याय प्रोक्तेऽशेषगुणोच्चये।
वक्तव्योपासना नित्यं कर्तव्येत्यादरेण हि॥५०॥
तृतीयेऽध्याये। भक्तिविधानार्थं भक्त्युत्पादनार्थं वैराग्यार्थमिति यावत्। अभक्तानां काम्यार्थकर्मिणां पापिनां द्वेषिणां च। उक्तायां प्रथमपादेन। अशेषगुणोच्चये परमेश्वरस्य प्रोक्ते द्वितीयेन। उपासनाऽस्मिन् पादे वक्तव्याऽवसरप्राप्ता।
॥ भक्त्यभावे उपासनासम्भवः॥
ननूपासनायां को भक्तेरुपयोगः, यतस्तदानन्तर्यमस्येत्यत आह नित्यमिति। यस्मादुपासना नित्यमादरेण कर्तव्या, आदरनैरन्तर्याभ्यामेव संस्कारातिशयस्योत्पादात्, आदरनैरन्तर्ये चोपासनायां नाभक्तस्य भवतः, इति तस्मादिदानीमुपासना वक्तव्येति सम्बन्धः।
॥ उपासनायाः शास्त्राभ्यासध्यानभेदेन द्वैविध्यम्॥
एवन्तर्ह्युपासनैव विचारणीया। सर्वशास्त्रपरिज्ञानं प्रथमाधिकरणे कस्माद् विचार्यत इत्यत आह सेति।
सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी।
ध्यानरूपा परा चैव .....................॥५१॥
या वक्तव्यतयाऽवसरप्राप्ता सा चोपासना द्विविधैव। नत्वेकरूपैव। कथम्? एका शास्त्राभ्यासस्वरूपिणी। परा च ध्यानरूपा। अतो युक्तः प्रथमाधिकरणस्यात्रान्तर्भावः। तथाऽप्ययं क्रमः कुतः? ध्यानस्य शास्त्राभ्याससाध्यत्वात्। तदिदमुक्तम् परेति। ध्यानसमाध्योरनतिभिन्नत्वाद् ध्यानशब्देन समाधिरपि गृह्यते।
॥ धारणादिषस्य ध्यानाङ्गत्वमेव, न स्वतन्त्रोपासनत्वम्॥
धारणाप्रत्याहारप्राणायामासनयमनियमानामप्युपासनाभेदानां सत्त्वात् कथं द्वैविध्यमित्यत आह तदङ्गमिति।
..................... तदङ्गं धारणादिकम्॥५१॥
तस्य ध्यानस्याङ्गमेव, नतु स्वतन्त्रमुपासनम्। योगशास्त्रे चैतत् स्पष्टमवगन्तव्यम्। शास्त्राभ्यासस्य ध्यानाङ्गत्वेऽपि स्वतन्त्रोपासनत्वं चास्ति। ब्रह्मसाक्षात्कारहेतुत्वात्। चित्तवृत्तिनिरोधाकत्वाच्च। यथोक्तम् “अथवा सततं शास्त्रविमर्शेन भविष्यति” इति।
॥ मायावाद्युक्तपादार्थनिरासः॥
किमतो यद्युपासनाऽवसरप्राप्ता, द्विविधा चेति। तत्राऽह तथेति।
तथोभयात्मकं चैव पादेऽस्मिन् बादरायणः।
आहोपासनमद्धैव विस्तराच्छ्रुतिपूर्वकम्॥५२॥
तथा तस्मादवसरप्राप्तत्वात्। अस्मिन्नेवेति सम्बन्धः। उपासनमेवेति वा। तेन परेषाम् “इदानीं तु प्रतिवेदान्तं विज्ञानानि भिद्यन्ते नवेति विचार्यते” इति पादार्थकथनं निराकरोति।
तथाहि किं भेदाभेदौ, विरोधाविरोधौ, उत विलक्षणत्वाविलक्षणत्वे। नाऽद्यः, गतार्थत्वात्। द्वितीये ब्रह्मणोऽखण्डत्वेन प्राप्त्यभावः। सगुणब्रह्मविषया प्राणादिविषया चेयं चिन्तेति चेत्, न। प्रकृतविषयप्रयोजनविरुद्धत्वेनाकर्तव्यत्वादिति। अद्धा उपयुक्तप्रमेयेण सह। अत एव विस्तरात्। अनेन केषाञ्चिदधिकरणानामनन्तर्भावशङ्का निराकृता भवति। श्रुतिग्रहणमुपलक्षणम्। अत्र सङ्गतिकथनप्रस्तावेऽपि केषाञ्चित् सूत्राणामर्थव्याख्यानं सङ्गतिसमर्थनार्थमेवेति न दोषः।
॥ तृतीयाध्यायप्रथमपादाधिकरणानां पूर्वपक्षसिद्धान्तयुक्तयः॥
एवं सङ्गतिमभिधायैतत्पादाधिकरणेषु पूर्वपक्षयुक्तीः सिद्धान्तयुक्तीश्च सङ्ग्रहेणाऽह पृथग्दृष्टिरित्यादिना।
पृथग्दृष्टिरशक्यत्वमनिर्णीतिः समुच्चयः।
विशेषदर्शनं कार्यलोपो नानोक्तिराशुता॥५३॥
विभ्रमोऽपाकृतिर्लिङ्गमनवस्था विशेषिता।
अप्रयोजनता चातिप्रसङ्गोऽदूरसंश्रयः॥५४॥
विशिष्टकारणं चेष्टा दृष्टवैरूप्यमुन्नतिः।
अनुक्तिरप्रयत्नत्वं दृढबन्धपराभवौ॥५५॥
पुंसाम्यं प्राप्तसन्त्यागः कारणानिर्णयो भ्रमः।
विशेषदर्शितालापौ गुणसाम्यं पृथग्दृशिः॥५६॥
अगम्यवर्त्मसन्धानमिष्टं फलमकल्पना।
शुद्धवैरूप्यमङ्गत्वमविशेषदृशिः क्रिया॥५७॥
युक्तयः पूर्वपक्षस्थाः सुज्ञेयत्वं विधिक्रिया।
माहात्म्यमल्पशक्तित्वं यथायोग्यफलं भवः॥५८॥
फलसाम्यं विशेषश्च गुणाधिक्यं प्रधानता।
यथाशक्ति क्रिया सन्धिः प्रमाणबलमानतिः॥५९॥
कारणं कार्यवैशेष्यं स्वभावो वस्तुदूषणम्।
प्रतिक्रियाविरोधश्च प्रतिसन्धिरनूनता॥६०॥
संस्कारपाटवं स्वेच्छानियतिर्वस्तुवैभवम्।
विशेषोक्तिरमानत्वं प्राधान्यं प्रीतिरागमः॥६१॥
सुस्थिरत्वं कृतप्राप्तिरनादिगुणविस्तरः।
साधनोत्तमता नानादृष्टिः शिष्टिरनूनता॥६२॥
अविघ्नत्वाविरोधौ च गुणवैशेष्यमागमः।
सिद्धान्तनिर्णये ह्येता युक्तयोऽव्याहताः सदा॥६३॥
अव्याहताः सदेति सिद्धान्तयुक्तित्वसमर्थनम्।
अथ सर्ववेदान्तप्रत्ययाधिकरणम्॥१॥
॥ यथाशक्त्यखिलवेदज्ञानस्य ध्यानाङ्गत्वसमर्थनम्॥
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्। अत्र ध्यानोपासनार्थिभिः किं स्वस्वशाखा एवाध्ययनश्रवणमननैर्ज्ञातव्याः, किंवा सर्वेऽपि वेदा इति संशये शाखाभेदस्य सुप्रसिद्धत्वादन्यथा तदनुपपत्तेः प्रथमपक्ष एव ज्यायानिति प्राप्ते सिद्धान्तितम् सर्ववेदान्तप्रत्ययमिति। तत्र सर्वशब्दोऽसङ्कुचितवृत्तिरिति प्रतीतिनिरासाय व्याचष्टे यथाशक्तीति।
ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ॥१॥
यथाशक्त्यखिलान् वेदान् विज्ञायोपासनं भवेत्।
विज्ञायावस्थितस्येत्यध्याहारात् समानकर्तृकतासिद्धिः। उपासनं कुर्वाणो भवेदिति वा। उपासनं कुर्वीतेति वा। भवेदित्यस्योत्तरवाक्येऽन्वयः। अत्र यथाशक्त्यखिलान् वेदान् विजानीयादित्येव वक्तव्यम्। तथाऽप्यत्रोच्यमानं सर्वपरिज्ञानं ध्यानोपासनाङ्गमिति दर्शयितुमेवमुक्तम्। ततश्च “परा” इत्युक्तं (१०८३) विवृतं भवति।
॥ चतुर्मुखस्यैकस्यैव सर्ववेदज्ञानयोग्यत्वम्॥
यथाश्रुत एवार्थोऽस्तु, किं विशेषणेनेत्यत आह तत्रेति।
तत्राखिलस्य विज्ञप्तिः सम्यग् ब्रह्मण एव हि॥६४॥
तदन्येषां यथायोगमखिलज्ञप्तिरिष्यते।
तावतोपासने योग्यो भवेदेवाखिलः पुमान्॥६५॥
तत्रोपासकेषु यस्मात् सम्यगखिलस्य वेदस्य विज्ञाप्तिर्ब्रह्मण एव युक्ता भवेन्नान्येषाम्, तस्मादन्येषां यथायोगं यथाशक्त्येवाखिलज्ञप्तिरेष्टव्या।
एतदुक्तं भवति सर्वाधिकारिसाधारणं तावदिदं सूत्रम्। चोदनाद्यविशेषादियुक्तिभिस्तदवगमात्। संशयपूर्वपक्षासङ्गतत्वप्रसङ्गाच्च। नच सर्वेषां सर्ववेदविज्ञानं सम्भवति। वेदानामनन्तत्वात्। अल्पप्रज्ञादिमत्त्वाच्च पुंसाम्। ततो युक्तमुक्तमिति।
यद्वा प्रथमवाक्य एव भवेदित्यनेनैवैषोऽर्थोऽभिहितः। यस्मादेवमेवोपपन्नं भवेदिति। ततः कस्य कीदृशी शक्तिरिति जिज्ञासायामिदं वाक्यम्। हिशब्दः प्रसिद्धौ। योगो योग्यता। ज्ञप्तिर्ज्ञप्तिशक्तिः।
॥ अल्पवेदज्ञानस्य ध्यानानङ्गत्वशङ्कापरिहारः॥
उपासनायोग्यतासम्पत्तये खल्वत्र सर्वविज्ञानमुच्यते। नचाल्पवेदज्ञस्य सा भवति। “सर्वैश्च वेदैः परमो हि देवो जिज्ञास्योऽसौ नाल्पवेदैः प्रसिद्ध्येत्” इत्यादिश्रुतेः। अतः सर्वशब्दो मुख्यार्थ एव व्याख्यातव्यः। अत एव यद्यप्यस्मदादीनामस्मिञ्जन्मनि सर्ववेदज्ञानमसम्भवि। तथाऽपि तादृशं जन्म कल्पनीयं यत्रेदं सम्भवतीत्यत आह तावतेति। यथाशक्ति विज्ञानमात्रेण।
अयमभिसन्धिः ध्यानोपासने वेदज्ञानस्य कथमुपयोगः? ध्येयाज्ञाने ध्यानायोगादिति चेत्, तर्हि सर्वेषां सर्ववेदार्थध्यानाभावस्य वक्ष्यमाणत्वान्न सर्ववेदज्ञानमुपयुक्तम्। सत्यम्। तथाऽप्यधिगतैकशाखस्य शाखान्तरेऽन्यथोक्तिशङ्कया ध्यानासम्भवात् सर्ववेदपरिज्ञानमावश्यकमिति चेत्, न। गतिसामान्यानुमानेनैव शङ्कानिरासस्योक्तत्वात्। अन्यथा परस्परविरोधेन वेदाप्रामाण्यापत्तेः। ततः श्रुतिर्यथाशक्तीत्येव व्याख्येयेति।
॥ उक्तार्थे प्रमाणोक्तिः॥
यथाशक्ति वेदज्ञानं भगवदुपासनोपयुक्तं न सर्ववेदज्ञानावश्यम्भाव इत्यत्र पुराणवाक्यमपि पठति महत्त्वस्येति।
महत्त्वस्य परं पारं विदित्वैव जनार्दनः।
स्तोष्यतामेति तुष्टत्वमिति नास्त्येव नारद॥६६॥
किन्तु निश्चलया भक्त्या ह्यात्मज्ञानानुरूपतः।
यः स्तोष्यति सदा भक्तस्तुष्टस्तस्य सदा हरिः॥६७॥
इत्यादिवाक्यसन्दर्भाद् यथायोग्याखिलज्ञता।
आत्मज्ञानानुरूपत्वं यथाशक्ति विचारणात्॥६८॥
महत्त्वस्य परं पारं विदित्वेति सर्ववेदज्ञत्वमुच्यते। वेदेन विना भगवन्महत्त्वस्य ज्ञातुमशक्यत्वात्। स्तोष्यतामिति ध्यानस्याप्युपलक्षणम्। समानन्यायत्वात्। नास्त्येवेति नियमनिषेधः। यथायोग्याखिलज्ञता ध्यानोपयोगिनीति विज्ञायत इति शेषः।
यथायोग्येति कथम्? अव्ययीभावस्य नपुंसकत्वेन यथायोग्यमिति भाव्यम्। सत्यम्। यथायोग्याखिलज्ञतेति समासोऽयमित्यदोषः। यद्वा यथा यादृशी योग्या तथैवेति भिन्ने एवैते पदे।
नन्वत्राऽत्मज्ञानमेवोपासनोपयोगित्वेनोच्यते। नतु यथाशक्तिज्ञानम्। अतो न प्रकृतोपयोगीदं वाक्यमित्यत आह आत्मेति। अत्रोपासनस्याऽत्मज्ञानानुरूपत्वं नाम यथाशक्ति वेदविचारणाद् भावित्वमेव। अन्यथा वाक्यस्यासङ्गतत्वप्रसङ्गादिति भावः। सर्वज्ञाननियमे निराकृते किन्त्वित्याशङ्कायां यथाशक्तिज्ञानं हि वक्तव्यम्। नत्वात्मज्ञानम्। नहि परज्ञानं प्रा निराकृतम्। तस्मादात्मज्ञानं नामाऽत्मयोग्यं ज्ञानमित्येव व्याख्येयमिति।
॥ स्वस्वशाखामात्रज्ञानाङ्गीकारे सर्ववेदाध्ययनविधायकवाक्यवैयर्थ्यप्रसङ्गः॥
कुतः सर्ववेदज्ञानमित्यतः “चोदनाद्यविशेषात्” इत्युक्तम्। तत्र शाखाभेदस्य सुप्रसिद्धत्वाच्चोदनादिकमपि विशेषनिष्ठं व्याख्यातव्यमित्यतो युक्त्यन्तरमाह सूत्रकारः “स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च” इति। तत्र हीत्यन्तं व्याचष्टे वेद इति।
ॐ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च ॐ॥३॥
वेदः कृत्स्नोऽधिगन्तव्यः स्वाध्यायाध्ययनं भवेत्।
इत्यादिवाक्यवैयर्थ्यमन्यथा न निवार्यते॥६९॥
अनेन “वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना” इति स्मृतिमुपादत्ते। स्वाध्यायाध्ययनं कर्तव्यं भवेदित्यनेन “स्वाध्यायोऽध्येतव्यः” इति श्रुतिम्। अन्यथा स्वस्वशाखामात्रज्ञानाङ्गीकारे।
एतदुक्तं भवति स्वाध्यायस्य स्वाध्यायविधेस्तथात्वेन सामान्यतः सर्ववेदाध्ययनविधायकत्वेन हेतुना सर्वज्ञानमङ्गीकरणीयम्। अध्ययनस्यार्थज्ञानपर्यन्ततास्थितेः। स्वस्वशाखामात्रज्ञानाङ्गीकारे चास्य विधेर्वैयर्थ्यापत्तेः। नच वाच्यम्, शाखाभेदस्य प्रसिद्ध्या स्वाध्यायपदमपि तथैव व्याख्येयमिति। स्मृत्यनुरोधेनैव श्रुतिव्याख्यानस्य न्याय्यत्वात्। स्मृतौ च कृत्स्नपददर्शनात्। शाखाभेदस्य अशक्तिनिमित्तत्वोपपत्तेरिति।
ननु श्रुत्यनन्तरं हिशब्देन स्मृतिः सूत्रकृतोपात्ता, तत् कथमत्र विपर्ययः? उच्यते आकाङ्क्षाक्रमेण सूत्रम्। व्याख्यानं तूपोद्घातप्रक्रिययेति न विरोधः। श्रुतिस्मृतिबलादेव यथाशक्ति सर्वविज्ञानस्यैव निःशङ्कताहेतुत्वं कल्प्यते। भूयोदर्शनं चानुमानाङ्गमिति सुप्रसिद्धम्।
॥ प्रभाकरेण अध्ययनस्य अध्ययनविधिप्रयुक्तत्वं निरस्य अध्यापनविधिप्रयुक्तत्वसमर्थनम्॥
आह नाध्ययनविधिप्रयुक्तमध्ययनम्। किन्त्वध्यापनविधिप्रयुक्तमेव। अध्ययनविधेर्नियोज्यरहितत्वात्। नह्यत्र “स्वर्गकामो यजेत” इतिवत् कश्चिन्नियोज्यः श्रूयते। नापि विश्वजिदादाविव कल्पयितुं शक्यते। अध्यापनविधिनैवाध्ययनसिद्धौ कल्पकाभावात्। नचाध्यापनविधिरपि नियोज्यरहित इति वाच्यम्। आचार्यकरणकामस्य तत्र नियोज्यत्वात्। “अष्टवर्षं ब्राह्मणमुपनयीत” इत्यात्मनेपदश्रवणात्। “सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः” इत्याचार्यकरणे नयतेरात्मनेपदविधानात्। तमध्यापयीतेत्युपनयनाध्यापनयोरेककर्तृकताप्रतीतेः। नह्यध्यापनमध्ययनेन विना भवतीति स्वसिद्धये पराक्षेपलक्षणेनोपादानेनाध्यापनविधिरेवाध्ययनं प्रयुङ्क्ते। किञ्चाध्ययने सति विधिज्ञानम्, ततश्चाध्ययनमितीतरेतराश्रयत्वं स्यात्। अतो नैतद्वाक्योदाहरणमत्र सङ्गतमिति।
॥ अध्यापनस्य नैमित्तकत्वात् अध्ययनस्य नित्यत्वात् तस्याध्यापनविधिप्रयुक्तत्वाभावः॥
उच्यते स्यादेवं यद्यध्यापनविधिप्रयुक्तमध्ययनं स्यात्। नचैवम्। अध्यापनस्य जीविकार्थत्वात्। “त्रीणि कर्माणि जीविका” इति वचनात्। अध्ययनस्य च नित्यत्वात्। “योऽनधीत्य द्विजो वेदान्” इत्यकरणे प्रत्यवायश्रवणात्। नच नित्यमनित्येन प्रयुज्यते।
॥ अध्ययनस्य अध्यापनविधिप्रयुक्तत्वे बाधकोक्तिः; परोक्तबाधकोद्धारश्च॥
किञ्चैकस्य माणवकस्याध्यापनेन चरितार्थत्वे माणवकान्तरस्यानध्ययनप्रसङ्गः। यो येनोपनीतः स तेनाध्यापनीयत इति चेत्, न। तर्ह्युपनायके परेतेऽध्ययनाभावः स्यात्। यत् पुनरितरेतराश्रयत्वमुक्तम्, तत् “प्रातः सन्ध्यामुपासीत” इत्यादावपि समानम्। अयमप्याचार्यस्यैव विधिः, “शौचाचारांश्च शिक्षयेत्” इत्यादेरिति चेत्, न। आचार्ये परेते तदभावापातात्। अतोऽध्ययनादिविधिं वृद्धाः कथञ्चिन्माणवकं बोधयन्तीत्यङ्गीकार्यमित्यलम्।
॥ देवादिभिरद्यापि श्रवणादीनामनुष्ठीयमानत्वात्, न स्वस्वशाखामात्रेण ज्ञेयत्वं ब्रह्मणः॥
“समाचारेऽधिकाराच्च” इत्येतद् व्याचष्टे अद्यापीति।
अद्यापि तेन देवाद्याः शृृण्वते मन्वते सदा।
ध्यायन्ति च यथायोगम्.................।
यतः सर्वविज्ञानमावश्यकम्, तेनैव हि कारणेन देवाद्या अद्यापि श्रवणमनने कुर्वन्ति, सदा ध्यायन्ति च। अन्यथा महामतीनां तेषामेकैकशाखाश्रवणादेरल्पीयसैव कालेन कर्तुं शक्यत्वेनाद्यापि तत्करणं न स्यादिति। यथायोगं यथाशक्तीति प्रत्येकं विशेषणम्। शृण्वत इत्यात्मनेपद उक्तम्। (६४१) समाचाराच्चेत्येवोक्ते देवादीनां वेदाधिकारित्वाभावात् कथमेतदित्यतो देवताधिकरणन्यायं मा विस्मार्षीरिति सूचयितुं सूत्रकृता “समाचारेऽधिकाराच्च” इत्युक्तम्।
॥ श्रवणमननयोः वस्तुनिर्णयपर्यन्तत्वम्॥
यदि ब्रह्मसाक्षात्कारवन्तोऽपि देवाद्या श्रवणाद्यनुतिष्ठन्ति, तर्हि तस्य निरवधिकत्वं प्रसक्तमित्यत आह तथाऽपीति।
.......... तथाऽप्या वस्तुनिर्णयात्।
श्रवणं मननं चैव कर्तव्यं सर्वदैव हि॥७०॥
यद्यपि सूत्रकारेण देवाद्याचारः प्रमाणीकृतः, तथाऽपि वस्तु परब्रह्मादिकम्। निर्णयो यथार्थः परोक्षो निश्चयः। प्रथमस्यैवशब्दस्या वस्तुनिर्णयादेवेति सम्बन्धः। वस्तुनिर्णयहेतुत्वात् श्रवणादेरिति हिशब्दार्थः।
॥ श्रवणमननयोः कालेयत्ताया शिष्ययोग्यताभिज्ञगुरूपदेशात् ज्ञायमानत्वम्॥
वस्तुनिर्णयपर्यन्तं श्रवणमनने कर्तव्ये इत्यसत्। निर्णीतेऽप्यर्थे पुनः कारणान्तरोपनिपातेन संशयाद्युत्पादस्य दर्शनेन वस्तुनिर्णयस्यावधारयितुमशक्यत्वादित्यत आह मतीति।
मतिश्रुतिध्यानकालविशेषं गुरुरुत्तमः।
वेत्ति तस्योक्तिमार्गेण कुर्वतः स्याद्धि दर्शनम्॥७१॥
मतिर्मननम्। श्रुतिः श्रवणम्। उत्तमः शिष्ययोग्यताभिज्ञः। कुर्वतः श्रवणादिकम्। दर्शनं ब्रह्मसाक्षात्कारः।
एतदुक्तं भवति ब्रह्मदर्शनार्थं हि श्रवणादिकम्। नच तद् यथाकथञ्चिदनुष्ठितं तत्साधनम्। किन्तु शिष्ययोग्यताभिज्ञगुरुप्रदानपूर्वकमेवेति वक्ष्यति। (११५५) अतस्तादृशो गुरुरेव श्रवणादिकालविशेषमुपदेक्ष्यति। यतः परं कारणशतोपनिपातेऽपि न संशयाद्युत्पादः स्यादिति।
॥ श्रवणाद्यनुष्ठानस्य अपरोक्षज्ञानात् पूर्वं तद्धेतुत्वम्, ज्ञानानन्तरं मौक्तानन्दाभिवृद्धिकारणत्वम्॥
देवाद्याः श्रवणादिकमद्यापि कुर्वन्तीति न युक्तम्। “स्याद्धि दर्शनम्” इति श्रवणादेस्तत्वदर्शनसाधनत्वस्योक्तत्वात्। देवादीनां च तत्वदर्शनस्यौत्पत्तिकत्वात्। यथोक्तम् “नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिताः” इत्यादि। नच प्राप्तसाध्यः साधनमनुतिष्ठतीत्यत आह श्रवणमिति।
श्रवणं दृष्टतत्वस्य मननं ध्यानमेव च।
विशेषानन्दसम्प्राप्त्या अन्यस्यैतानि दृष्टये॥७२॥
दृष्टतत्वस्यापि पुंसः श्रवणम्, मननम्, ध्यानं च विशेषानन्दसम्प्राप्त्यै युज्यत एवेति योजना। एवन्तर्हि श्रवणादेर्दर्शनसाधनत्वोक्तिर्व्याहन्यत इत्यत आह अन्यस्येति। अदृष्टतत्वस्यैतानि श्रवणादीनि दृष्टये भवन्ति। यथा खलु समुच्चयवादिनां ज्ञानात् पूर्वाणि कर्माणि ज्ञानार्थानि, ततः पराणि तु मोक्षार्थानि। यथाच सकामानि कर्माणि संसारकारणानि, निष्कामानि तु ज्ञानकारणानि। तथा श्रवणादीन्यदृष्टतत्वस्य ज्ञानार्थानीति न तदुक्तिव्याघातः। दृष्टतत्वस्य तु विशेषानन्दार्थानीति देवादीनां तदनुष्ठानं च युक्तम्। समाचारकथनं च यथाशक्ति वेदार्थश्रवणमननयोः कर्तव्यतामात्रोपोद्बलनाय कृतमिति नासङ्गतम्। विशेषानन्दं तु वक्ष्यामः। (१३४४, ११८२११८३)
॥ शिष्ययोग्यताभिज्ञगुर्वलाभे निर्णयज्ञगुरोः सकाशात् निर्णीतशास्त्रश्रवणादिकं कर्तव्यम्॥
शिष्ययोग्यताभिज्ञगुरूपदेशानुसारेण श्रवणादिकं कर्तव्यमित्ययुक्तम्। तादृशस्य गुरोर्दुर्लभत्वेन श्रवणाद्यभावापत्तेः। लभ्यमानोऽप्यसावनुष्ठितश्रवणादिनाऽऽध्यात्मिकशक्तिसम्पन्नेनैव शिष्येण लभ्यते नान्येन। तथाचान्योन्याश्रय इत्यत आह यदीति।
यदि तादृग् गुरुर्नास्ति निर्णीतश्रवणादिकम्।
तत्सिद्धान्तानुसारेण निर्णयज्ञात् समाचरेत्॥७३॥
द्विविधं शास्त्रम् निर्णीतम्, निर्णेतव्यं च। तत्राऽद्यं ब्रह्मसूत्रादिकं, द्वितीयं वेदादिकम्। तत्र निर्णीतस्य श्रवणादिकं समाचरेत्। सर्वज्ञानां सिद्धान्तानुसारेण यो निर्णयं जानाति तस्मात्।
इदमुक्तं भवति मुख्यस्य गुरोः प्रथममलाभेऽपि न श्रवणाद्यभावापत्तिः। अमुख्यादपि गुरोस्तदुपपपत्तेः। तत्र मुख्यवदमुख्यस्यातिगहनवेदादिव्याख्यानसामर्थ्याभावेऽपि निर्णीतव्याख्यानमुपपद्यत एव। नच निर्णीतशास्त्रस्यापि व्याख्यानविप्रतिपत्त्याऽभिप्रायो दुरधिगम इति वाच्यम्। सर्वज्ञप्रणीतोपायग्रन्थानुसारेणामुख्यस्यापि गुरोस्तदवगमसम्भवात्। एवञ्चामुख्ये श्रवणादावनुष्ठिते मुख्योऽपि गुरुर्लभ्यत इति।
॥ श्रवणादीनां कदाऽप्यत्याज्यत्वनियमः॥
सर्वज्ञस्य गुरोः श्रवणाद्यङ्गत्वे तदभावे श्रवणाद्यभाव एव कुतो नाङ्गीक्रियते? किमनेनामुख्येन श्रवणादिना? सर्वज्ञगुरुप्राप्तिस्तु पुण्योपचयेनापि भविष्यतीत्यत आह श्रवणादीति।
श्रवणादि विना नैव क्षणं तिष्ठेदपि क्वचित्।
अत्यशक्ये तु निद्रादौ पुनरेव समाचरेत्॥७४॥
सन्ति तावत् सर्वदा श्रवणादिकं कर्तव्यम्, क्षणमपि न त्याज्यमित्येवमर्थाः श्रुतिस्मृतयः “स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः” इत्याद्याः। तत्र च सर्वज्ञो गुरुरङ्गम्। तदलाभे तु “गुणे त्वन्याय्यकल्पनम्” इति न्यायेन यादृशतादृशमपि श्रवणादिकं कार्यमेवेतीति भावः।
नन्वेताः श्रुतय एवानुपपन्नार्थाः। अपरिहार्यनिद्राद्युपद्रवप्राप्तौ श्रवणादेः कर्तुमशक्यत्वात्। नह्याकाशरोमन्थनं शक्यविधानमित्यत आह अतीति। परिहर्तुमशक्ये निद्रादौ प्राप्ते तु पुनरेव तदपगमनानन्तरमेव श्रवणादिकं समाचरेत्। अयमभिप्रायः यथा “सायं प्रातरग्न्हिोत्रं जुहोति” इत्यादिविधयः सन्निपाताद्युपप्लवसम्भवेऽपि नानुपपन्नाः, तथा प्रकृतेऽपीति।
॥ निर्णयज्ञगुरोररप्यलाभे स्वापेक्षयोत्तमज्ञानिनः सकाशात् श्रवणादिकं कर्तव्यम्॥
निर्णयज्ञस्य गुरोरभावे किं श्रवणाद्यभाव एव, नेत्याह अभाव इति।
अभावे निर्णयज्ञस्य सच्छास्त्राण्येव सर्वदा।
शृणुयाद् यदि सज्ज्ञानप्राचुर्यमुपलम्भते॥७५॥
निर्णयज्ञस्य गुरोरभावेऽपि यादृशतादृशात् सर्वदा शृणुयात्। मन्वीत च। नहि गुणालाभे मुख्यपरित्यागो युक्त इति भावः। वेदादिश्रवणे सर्वज्ञो गुरुरपेक्षितः। तदितरश्रवणे तु निर्णयज्ञः सर्वज्ञकल्पः। द्वयोरभावेऽपि श्रवणादिकं चेदनुष्ठेयं तदाऽसच्छास्त्राणामिति प्रतीतिः स्यात्। अतः सच्छास्त्राण्येवेत्युक्तम्। यादृशतादृशात् शृणुयादित्यनेनातिप्रसक्तौ सत्यामाह यदीति। यदि तस्मिन् पुरुषे स्वापेक्षया सम्यग्ज्ञानादिप्राचुर्यमुपलम्भते, तर्हि ततः शृणुयात्। नत्वधमात्। वैयर्थ्यात्। नह्यदृष्टमात्रार्थं श्रवणादिकमिति भावः।
॥ एकस्य गुरोः सर्वव्याख्यानाशक्तौ बहुभ्योऽपि एकैकदेशश्रवणादिकं कर्तव्यम्॥
स्वतोऽधिकस्य पुरुषस्य प्रबन्धेन व्याख्यानासम्भवे किं श्रवणाद्यभाव एवेत्याकाङ्क्षायामाह महद्भ्य इति।
महद्भ्यो विष्णुभक्तेभ्यो यथाशक्ति च संशयान्।
छिन्द्यात् .....................................।
स्वतो महद्भ्यः। महत्त्वं च न सज्ज्ञानमात्रेण, किन्तु विष्णुभक्त्यादिगुणैश्चेत्युक्तम् विष्णुभक्तेभ्य इति। तादृश एव ह्यादरमुत्पादयन् व्याख्याति। सादरमेव च श्रवणादिकं फलायालम्। संशयान् अज्ञानविपर्ययांश्चेति श्रवणादिफलमुक्तम्। एकस्मात् प्रबन्धेन श्रवणाद्यसम्भवेऽपि बहुभ्यो महद्भ्यो यथाशक्ति यथासम्भवमेकैकदेशश्रवणादिकमपि कुर्यादेव। तेनापि संशयादिच्छेदस्य श्रवणादिफलस्य लाभादिति भावः।
॥ स्वोत्तमज्ञानिनोऽप्यलाभे सत्सिद्धान्तमहापयन् शिष्येभ्यो व्याख्यानं कर्तव्यम् ॥
स्वतोऽधिकाभावे कथं श्रवणादीत्यत आह स्वत इति।
स्वतोऽधिकाभावे स्वयमेव समभ्यसेत्।
ब्रूयादपि च शिष्येभ्यःसत्सिद्धान्तमहापयन्॥७६॥
अपिचावितरेतरयोगे। श्रुतावृत्तिप्रवचनाभ्यामभिनवोत्प्रेक्षोदयात् तेऽपि श्रवणादिफलं प्रसुवाते। सम्यक् श्रवणादिरहितो व्याचक्षाणः स्खलनेन प्रत्यवेयात्। तत् कथमुच्यते शिष्येभ्यो ब्रूयादिति? तत्राऽह सदिति। ब्रूयादिति सम्बन्धः। प्रामाणिकतयाऽभिमतोऽर्थः सिद्धान्तः। नतु प्रामाणिक एवेति नियमः। तथात्वे शब्दनित्यत्वं केषाञ्चित् सिद्धान्तः। केषाञ्चित् तदनित्यत्वमिति न स्यात्। द्वयोः प्रामाणिकत्वायोगात्। अयं तु न तथा। अपितु प्रामाणिक एवेत्यतः सदित्युक्तम्। स्वार्थिको णिच्। अजहदित्यर्थः।
यद्वा शिष्यैरहापयन्। सत्सिद्धान्तहानिरेव महतः प्रत्यवायस्य हेतुरिति वक्ष्यामः। (१०९५) क्षुद्रस्खिलतं त्वल्पीयस एव। नच तावता महाप्रयोजनव्याख्यानत्यागः। तथासति मृगभयाद् बीजानावापप्रसङ्गादिति भावः।
॥ सत्सिद्धान्तस्य भगवद्विषयकत्वेन परत्वम्,
 लक्ष्मीब्रह्मादिविषयकत्वेन अपरत्वमिति द्वैविध्यम्॥
कोऽसौ सत्सिद्धान्तो यो न हातव्यः? द्विविधः सत्सिद्धान्तः परापरभेदात्। प्रत्येकं द्विविधः वाचनिकः, आनुषङ्गिकश्च। तत्र वाचनिकं परं सत्सिद्धान्तं तावदाह अशेषेति।
॥ विष्णोः गुणपूर्णत्वम्, दोषदूरत्वम्, जगज्जन्मादिकारणत्वं च परः सत्सिद्धान्तः॥
अशेषगुणपूर्णत्वं सर्वदोषसमुज्झितिः।
विष्णोरन्यच्च तत्तन्त्रमिति सम्यग् विनिर्णयः॥७७॥
अन्यत् तत्तन्त्रमिति सकलजगज्जन्मादिकारणत्वमुच्यते। निर्णीयत इति निर्णयः। सम्यग् विनिर्णयो वाचनिकः परसिद्धान्तः। साक्षाद् ब्रह्मस्वरूपावधारणपरे जन्मादिसूत्रे खल्वभिहितोऽयमर्थः।
॥ विष्णोः स्वातन्त्र्यम्, सर्वभिन्नत्वम्, स्वाभिन्नत्वमित्यादिरानुषङ्गिकः परः सत्सिद्धान्तः॥
आनुषङ्गिकं परसिद्धान्तमाह स्वतन्त्रत्वमिति।
स्वतन्त्रत्वं सदा तस्य तस्य भेदश्च सर्वतः।
स्वतन्त्रत्वं स्वाधीनसत्त्वादिमत्त्वम्। तस्य विष्णोः। द्वितीयस्तस्येतिशब्द उत्तरत्र सम्बद्ध्यते। सर्वतो भेदश्चेति। प्रकृतिजीवजडेभ्योऽत्यन्तभिन्नत्वम्।
नन्वेतदपि “असम्भवस्तु सतः”, “नात्माऽश्रुतेः”, “पृथगुपदेशात्” इत्यादिनाऽभिहितमेव। तत् कथमानुषङ्गिकः सिद्धान्तः? सत्यम्। तथाऽपि प्रधानप्रमेयोपयोगितयोक्तत्वाददोषः। स्वगतभेदवर्जितत्वादेरुपलक्षणमेतत्। इति सम्यक् स्थितिरिति वक्ष्यमाणेनान्वयः।
॥ स्वातन्त्र्यादेः दोषदूरत्वादिसिद्ध्यर्थमङ्गीक्रियमाणत्वादानुषङ्गिकत्वम्॥
कथमस्यार्थस्याऽनुषङ्गिकत्वमित्यत आह अदोषत्वस्येति।
अदोषत्वस्य सिद्ध्यर्थं यदभेदे तदन्वयः॥७८॥
विष्णोरदोषत्वस्य सिद्ध्यर्थमङ्गीकार्योऽयमर्थ इति शेषः। उपलक्षणमेतत्। अशेषगुणपूर्णत्वस्य सकलजगज्जन्मादिकारणत्वस्य चेत्यपि द्रष्टव्यम्। अनेन कथं तत्सिद्धिरित्यत आह यदिति। यस्माज्जगताऽभेदे विष्णोर्दोषसम्बन्धः प्रसज्यते तस्मादिति पूर्वेण सम्बन्धः। अत्राप्यभेद इत्यस्वातन्त्र्यस्याप्युपलक्षणम्। तदन्वय इति च गुणपूर्त्याद्यभावस्यापि।
॥ जगज्जन्मादिकारणत्वमित्यत्र मुक्तनियामकत्वमपि विवक्षितम्॥
अन्यत् तत्तन्त्रमित्यन्यशब्दोऽमुक्तविषय इति प्रतीतिः स्यात्, तदर्थमाह तत्तन्त्रत्वं चेति।
तत्तन्त्रत्वं च मुक्तानामपि तद्गुणपूर्तये।
मुक्तानामपि भेदश्च ...............।
चशब्दो वक्ष्यमाणेन भेदेन सह समुच्चयार्थः। अङ्गीकार्यमिति शेषः। किमर्थमिदमङ्गीकार्यं जन्मादिसूत्रस्यामुक्तविषयतयाऽप्युपपत्तेरित्यत आह तदिति। नहि मुक्तानां तत्तन्त्रत्वेन विना तस्य निरर्गलमैश्वर्यं सिद्ध्यति। नच तदन्तरेण गुणपूर्तिर्भवतीति। स्यादेतत्। यदि मुक्ताः परमात्मनो भिन्नाः स्युः। नच तथा। तत् किं तत्तन्त्रत्वेनेत्यत आह मुक्तानामपीति। परमात्मनोऽत्यन्तभेदश्चाङ्गीकार्यः। अनेन “तस्य भेदश्च सर्वतः” इत्येतदपि विवृतं भवति।
॥ विष्णुमुक्तयोरभिन्नत्वस्य भिन्नाभिन्नत्वस्य च निरासः॥
किमर्थमित्यतः प्रयोजनं वक्तुं पीठमारचयति नहीति।
............... नहि भिन्नमभिन्नताम्।
गच्छद् दृष्टं क्वचित् तस्याप्यभावोऽनुभवोपगः॥।७९॥
पूर्वाभेदे दोषवत्त्वमीशस्येत्यतिभिन्नता।
नारायणेन मुक्तानामपि सम्यगिति स्थितिः।
भेदाभेदेऽप्यभेदेन दोषाणामपि सम्भवः॥८०॥
मुक्तानां परमात्मनाऽभेदो भवन्न तावत् प्राग् भिन्नानाम्। भिन्नस्याभेदावाप्तेः क्वाप्यदर्शनात्। न केवलमदर्शनम्, किन्तर्हीत्यत आह तस्येति। भिन्नमभिन्नतां गच्छतीत्यस्यार्थस्याभावोऽनुभवसिद्धोऽपि। ततः संसारेऽप्यभिन्नानामेव मुक्तावभेदो व्यज्यत इत्येव वक्तव्यम्।
तथैवास्त्वित्यत आह पूर्वेति। समर्थितं तावद् दुःखादिरूपोऽयं संसारः सत्य इति। (४७, ८८९) ततः संसारेऽपि जीवानां परमात्मना भेदे तस्य दोषवत्त्वं स्यात्। इतिशब्दो हेतौ। सम्यक् स्थितिः सत्सिद्धान्त आनुषङ्गिकः पर इति शेषः।
नन्वभिन्नता किमर्था, भेदाभेदोपपत्तेरित्यत आह भेदेति। भेदेन सहितोऽभेदो भेदाभेदः। “विप्रतिषिद्धं चानधिकरणवाचि” इति द्वन्द्वैकवद्भावो वा। अत्रापि पूर्वन्यायेन संसारेऽपि भेदाभेदावङ्गीकार्यौ। ततश्चाभेदेन दोषाणामपि सम्भवः। भेदेन तत्परिहारो भविष्यतीति चेत्, तर्हि किमजागलस्तनायितेनाभेदेनेति।
॥ महालक्ष्म्याः निर्दोषत्वम्, विष्ण्वैकाधीनत्वं च अपरः सत्सिद्धान्तः॥
इदानीमपरं सिद्धान्तमाह निर्दोषत्वमिति।
निर्दोषत्वं रमायाश्च तदनन्तरता तथा॥८१॥
तथा परमेश्वरवद् रमायाश्च निर्दोषत्वम्। यथोक्तम् “कामादितरत्र तत्र चाऽयतनादिभ्यः” “समना चासृत्युपक्रमादमृतत्वं चानुपोष्य” इति। निर्दोषत्वमित्युक्त्या पारतन्त्र्यमपि नास्तीति प्रतीतिनिरासार्थमाह तदिति। परमेश्वरानन्तरता तदधीनतेति यावत्। यद्वाऽनेनापरसिद्धान्तान्तरमाह एकस्माद् भगवत एवावरत्वमिति। तदप्युक्तम् “अस्यैव चोपपत्तेरूष्मा” इति।
॥ देवतातारतम्यमपि अपरः सत्सिद्धान्तः॥
सिद्धान्तान्तरमाह ब्रह्मेति।
ब्रह्मा सरस्वती वीन्द्रशेषरुद्राश्च तत्स्त्रियः॥८१॥
शक्रकामौ तदन्ये च क्रमान्मुक्तावपीति च।
सत्सिद्धान्त इति ज्ञेयो निर्णीतो हरिणा स्वयम्॥८२॥
मुक्तौ संसारेऽपि प्रोक्तात् क्रमात् तिष्ठन्तीत्यर्थः। अत्र द्वन्द्वनिर्दिष्टानां साम्यम्, अन्येषां तारतम्यमिति ज्ञेयम्। एतच्चोक्तम्”इयदामननात्” इति। उपलक्षणं चैतत्। प्रपञ्चसत्यत्वादिकमपि ग्राह्यम्। कुतोऽयमशेषगुणेत्यादिसत्सिद्धान्त इत्यत आह निर्णीत इति। हरिणा सूत्रकारेण स्वयं साक्षान्निर्णीतः, नतु बलात् सूत्रार्थतया कल्पितः। एतच्च तत्रतत्र दर्शितमेव।
॥ सत्सिद्धान्तहानेः तमःप्राप्तिरेव फलम्॥
सत्सिद्धान्तमहापयन्नित्युक्तम्। तद्धानौ को दोष इत्यत आह एतदिति।
एतद्विरोधि यत् सर्वं तमसेऽन्धाय केवलम्
अन्धं तमो विशन्तीति प्राह श्रुतिरतिस्फुटम्॥।८३॥
ज्ञातं सदित्यर्थः। विरोधिज्ञानमेव ह्यस्य त्यागः। अन्धाय भवतीति शेषः। केवलमिति न कदाऽपि सुखायेत्यर्थः। कुत एतदित्यत आह अन्धमिति। अनेन “अन्धं तमः प्रविशन्ति येऽविद्यामुपासते” इति श्रुतिमुपादत्ते। उक्तार्थस्य प्रामाणिकत्वं वक्ष्यते। (अनुपदम्) अतस्तद्विरुद्धप्रतीतिरविद्या भवत्येव। अतिस्फुटमित्यनेन परेषां व्याख्यानं पराचष्टे। तथाच वक्ष्यामः। (११४६)
॥ उक्तार्थे प्रमाणोपन्यासः॥
ननुच वस्तुतः प्रामाणिकः सत्सिद्धान्तः। प्रकृतस्य कथं प्रामाणिकत्वमित्यत आह इत्येवेत्यादिना सादरमित्यन्तेन।
इत्येव श्रुतयोऽशेषाः पञ्चरात्रमथाखिलम्।
मूलरामायणं चैव भारतं स्मृतयोऽखिलाः॥८४॥
वैष्णवानि पुराणानि साङ्ख्ययोगौ परावपि।
ब्रह्मतर्कश्च मीमांसेत्यनन्तः शब्दसागरः॥८५॥
अनन्ता युक्तयश्चैव प्रत्यक्षागममूलकाः।
प्रत्यक्षमैश्वरं चैव रमादीनामशेषतः॥८६॥
मुक्तानामप्यमुक्तानामेतमेवार्थमुत्तमम्।
अन्यावकाशरहितं प्रकाशयति सादरम्॥८७॥
इत्येवेत्युक्तप्रकारावधारणम्। एतमेवार्थमिति फरकृतधर्म्यवधारणम्। तेन व्यत्यासमपि वारयति। अशेषा इति श्रुतिभागस्य कर्मादिपर्यवसायित्वनिरासार्थम्। अथशब्दः समुच्चये। अखिलमिति जीवजननादिवाक्यानामप्युपादानार्थम्। मूलरामायणमेवेत्यवान्तररामायणानां व्युदासः। अखिला इति बहुवचनविषयविवरणार्थम्। इतरपुराणानां पाशुपतादिमूलत्वेनाप्रामाण्याद् वैष्णवानीत्युक्तम्। पराविति अर्वाचीनसाङ्ख्ययोगव्यावृत्तये। तयोरप्रमाणत्वात्। मीमांसा त्रिविधा। शब्दसागरः प्रकाशयतीति सम्बन्धः।
युक्तयश्च प्रकाशयन्ति प्रत्यक्षागममूलका एव। नत्वाभासाः। प्रत्यक्षं च प्रकाशयति। एवशब्देन ईश्वरप्रत्यक्षस्य प्राबल्यं सूचयति। कर्मकाण्डादीनामेतदर्थप्रकाशकत्वं कथमित्यत उक्तम् उत्तममिति। कर्मादेरुत्तामार्थत्वेऽप्युत्तमोऽर्थोऽयमिति भावः।
वेदादीनामन्यथाव्याख्यानं वारयति अन्यावकाशरहितमिति। क्रियाविशेषणमेतत्। सादरमिति तत्र तात्पर्यसद्भावमाचष्टे। एतदर्थे श्रुत्यादिकमन्यत्र पठितमेव द्रष्टव्यम्।
॥ दुःशास्त्रश्रवणस्य सर्वथा त्याज्यत्वम्॥
सत्सिद्धान्तमहापयन् सच्छास्त्राण्येव सर्वदा शृणुयादित्युक्तम्। तत्र सत्सिद्धान्तस्वरूपं निरूप्य, सच्छास्त्राण्येव सर्वदा शृणुयादित्येतद् विवृणोति एतदेव चेति।
एतदेव च सच्छास्त्रं दुःशास्त्रं तु ततः परम्।
सच्छास्त्रमभ्यसेन्नित्यं दुःशास्त्रं तु परित्यजेत्।
असंशयेन तत्वस्य निर्णये ब्रह्मदर्शनम्॥।८८॥
एतद् वेदादिकम्। ततः परं तद्विरुद्धं तदुदासीनं च। “ऋगाद्या भारतं चैव” इत्याद्यागमोऽत्र स्फुट एव। दुःशास्त्रं नाभ्यसेदिति वक्तव्ये परित्यजेदिति वचनं न केवलं तत्रोदासीनत्वम्, किन्तु हेयतया ज्ञानमपि भाव्यमिति ज्ञापयितुम्। अत्रच “असच्छास्त्राधिगमनम्” इति पातकेषु परिगणनं प्रमाणम्। स्फुटानि चाऽचार्येणान्यत्रात्रार्थे वाक्यान्युदाहृतानि।
॥ श्रवणमननयोः निदिध्यासनद्वारा ब्रह्मसाक्षात्कारकारणत्वम्॥
सच्छास्त्रमभ्यसेदिति श्रवणमननयोः कर्तव्यत्वमुक्तम्, तदयुक्तम्। निदिध्यासनेनैव ब्रह्मदर्शनोपपत्तेः। अन्यथा तद्वैयर्थ्यादित्यत आह असंशयेनेति। संशयशब्देन विपर्ययोऽपि लक्ष्यते। निर्णये सति निदिध्यासनेन ब्रह्मदर्शनं भवतीति योज्यम्।
एतदुक्तं भवति सत्यं निदिध्यासनं ब्रह्मदर्शनसाधनमिति। किन्तु तत्सिद्धये श्रवणमनने अपि कर्तव्ये। अवितथं ब्रह्मानुचिन्तनं हि निदिध्यासनम्। वितथानुचिन्तनस्य चतुर्थे निराकरिष्यमाणत्वात्। (१२७७) नचाविदितस्यानुचिन्तनं सम्भवतीति। तद्वेदनार्थं श्रवणमभ्यर्चनीयम्। श्रुते चार्थे लिङ्गाभासप्रतिभासेन संशयविपर्ययोदयेन वितथं तद् भवतीति तद्व्युसहेतुर्मननमप्येष्टव्यमिति।
॥ विवरणकृता श्रवणस्यैव साक्षात्कारणत्वमित्युपपादनम्॥
अन्ये पुनर्मन्यन्ते श्रवणमेव ब्रह्मापरोक्षज्ञानसाधनम्। मननानिदिध्यासने श्रवणं प्रति फलोपकार्यङ्गभूगे। असम्भावनाविपरीतभावनाख्यचित्तविक्षेपप्रतिबद्धं हि ब्रह्मापरोक्षज्ञानं नाविद्यानिर्मूलनस्येष्टे। मननादिकं च प्रतिबन्धं निवर्तयतीति।
॥ शब्दस्य साक्षात्कारणत्वाभावं व्युत्पाद्य तन्मतनिरासः॥
तदसत्। शब्दस्य साक्षात्कारकारणतायाः क्वाप्यदर्शनात्। ब्रह्मविषयशब्दवद् धर्मादिविषयस्यापि तथात्वापत्तेश्च। नच विशेषहेतुरस्ति, येन ब्रह्मविषयस्यैव तद्भावः, न धर्मादिविषयस्येति प्रतीमः। प्रत्यक्षलक्षणाक्रान्ततया शब्दस्य तत्रान्तर्भावश्चाऽपद्येत।
॥ चित्सुखेन “दशमस्त्वमसि’ इत्यादिवाक्यस्य साक्षात्कारकारणत्वप्रतिपादनम्॥
अथ मतम् दृश्यते तावद् “दशमस्त्वमसि’ इत्यादिवाक्यस्य साक्षात्कारकरणत्वम्। नच तत्रापि इन्द्रियमेव करणम्, न शब्द इति साम्प्रतम्। शब्दस्याप्यन्वयव्यतिरेकसिद्धत्वात्। अस्तु तर्हीन्द्रियमेव करणम्, शब्दस्तु सहकारीति चेत्, न। वैपरीत्यस्यापि सुवचत्वात्। तथाऽपि कुतो विनिगमनमिति चेत्। क्वचिद् बहलतमे तमसि क्वचिच्च लोचनविरहिणोऽपि वाक्याद् दशमोऽस्मीत्यपरोक्षप्रतीतिदर्शनादिति वदामः। धर्मादिविषयस्यापि शब्दस्यापरोक्षज्ञानसाधनत्वापादनं चासत्। वैषम्यात्। प्रकृतो हि शब्दोऽपरोक्षब्रह्मात्मविषयः। न तथाऽन्यः। अस्ति चास्यापरोक्षज्ञानसाधनत्वे प्रमाणम्। नान्यस्य। तथाहि विमतं शाब्दज्ञानमपरोक्षम्, अपरोक्षविषयत्वात्; सुखादिज्ञानवत्। अपरोक्षत्वं वेदान्तवाक्यजन्यज्ञानवृत्ति, अपरोक्षज्ञाननिष्ठात्यन्ताभावप्रतियोगित्वात्; ज्ञानत्ववदिति। नच विवाध्यासितः शब्दोऽपरोक्षज्ञानजनको न भवति, शब्दत्वात्, ज्योतिष्टोमादिवाक्यवदिति युक्तम्। दशमस्त्वमसीत्यादौ व्यभिचारात्। श्रूयते च “तद्धास्य विजिज्ञौ तमसः पारं दर्शयति” इत्युपदेशमात्रादेव अपरोक्षप्रमितिजन्म। अत एव ब्रह्मात्मविषयवाक्यान्यत्वेन प्रत्यक्षलक्षणं विशेषणीयमिति।
॥ प्रथमाक्षिसन्निकर्षानन्तरमेव दशमत्वप्रतीत्यनुत्पादात् न तस्याः प्रत्यक्षत्वम्॥
अत्रोच्यते यत्तावदुक्तं दशमस्त्वमसीत्यादिवाक्यादपरोक्षज्ञानजन्मोपलब्धमिति, तदसङ्गतम्। दशत्वसङ्ख्या खल्वपेक्षाबुद्धिजन्या तद्व्यग्या वेत्यतो नाऽपाततो रूपादिकमिव प्रत्यक्षेणोपलभ्यते। ततो दशानां पूरणो दशमोऽपि तथा। अतः प्रथमं शब्देन परोक्षज्ञाने ज्ञाते, अनन्तरं लब्धसहायेन प्रत्यक्षेणापरोक्षज्ञानं जायते। आशुभावादेकमेवापरोक्षं ज्ञानमित्यभिमानः। अन्धकारादौ तु वाक्यादुत्पन्नस्य ज्ञानस्यापरोक्षत्वं नास्त्येव।
॥ शब्दस्य अपरोक्षज्ञानसाधनत्वनिरासः॥
प्रतीतिकलहोऽयं निरवधिक इति चेत्। अत्रेदं वक्तव्यम् शब्दस्यापरोक्षज्ञानसाधनत्वं किं स्वभावः, किंवा अपरोक्षज्ञानसाधनत्वमस्याप्यागन्तुकम्? आद्ये सर्वेषामपि शब्दानां तथाभावः स्यात्। द्वितीये निमित्तं वक्तव्यम्। ब्रह्मात्मविषयत्वमिति चेत्। तर्हि दशमस्त्वमसीत्यादेरतथाभूतस्य नापरोक्षज्ञानसाधनत्वं स्यात्। अपरोक्षविषयत्वमिति चेत्, न। अपरोक्षज्ञानविषयत्वातिरिक्तस्यार्थे अपरोक्षत्वस्याभावात्। तत्रैतज्ज्ञानविषयत्वेन तदुक्तावितरेतराश्रयत्वम्। ज्ञानान्तराभिप्राये तु स्वर्गादयोऽपि केषाञ्चिदपरोक्षज्ञानविषया इत्यस्माकं तद्विषयः शब्दोऽपरोक्षज्ञानं जनयेत्। एकपुरुषाभिप्रायेऽपि प्रत्यक्षावगतेऽग्नौ धूमदर्शनेनापरोक्षज्ञानजन्मप्रसङ्गः। शब्दस्यैवम्भाव इति चेत्। तथाऽप्यग्नौ शब्देनापरोक्षज्ञानोत्पत्तिः स्यात्। अपरोक्षतया ज्ञायमाने तथेति चेत्, न। धर्मिमात्राभिप्राये प्रत्यक्षेणावगम्यमाने घटे शतपलपरिमितोऽयमिति शब्दस्यापरोक्षज्ञानकारणतापत्तेः। सप्रकाराभिप्राये तु प्रकृतेऽभावात्। नहि “तत् त्वमसि” इत्यादिवाक्यप्रतिपाद्यं ब्रह्मात्मैक्यमपरोक्षतयाऽवभासते। तथासति शब्दवैयर्थ्यापत्तेरिति। एतेनापरोक्षविषयत्वानुमानमपि परास्तम्।
यच्चापरोक्षत्वमित्यादि, तज्ज्योतिष्टोमादिवाक्येऽपि तथा प्रयोगसम्भवादाभाससमानयोगक्षेमम्। ज्योतिष्टोमादिवाक्यस्यापरोक्षत्वज्ञानासाधनत्वाभावे न किञ्चिद् बाधकमिति चेत्। सममेतद् वेदान्तवाक्येष्वपि। संसारस्याविद्यामयत्वादविद्यायाश्चापरोक्षज्ञानेन विना निबर्हणायोगाद् वेदान्तवाक्यस्यापरोक्षज्ञानसाधनत्वाभावे मोक्षाभावप्रसङ्ग इति चेत्, न। ज्ञाननिवर्त्यताया निरस्तत्वात्, चित्तैकाग्र्यरूपनिदिध्यासनस्यापरोक्षज्ञानसाधनत्वोपपत्तेश्च। मनसोऽपरोक्षज्ञानसाधनत्वं क्वापि नोपलब्धमिति चेत्। तत् किं शब्दस्योपलब्धम्? “यन्मनसा न मनुते” इति श्रुतिविरुद्धं तदिति चेत्, न। श्रुतेः “मनसैवेदमाप्तव्यम्” इति श्रुत्या सत्प्रतिपक्षत्वात्। चित्तैकाग्र्यस्यातरङ्गतापरेयं श्रुतिरिति चेत्। साऽप्यपक्वमनोविषयेति स्यात्।
॥ शब्दस्य अपरोक्षज्ञानसाधनत्वे श्रुतिविरोधः॥
किञ्च शब्दस्यापि ब्रह्मज्ञानसाधनत्वं “यतो वाचो निवर्तन्ते” इति श्रुतिविरुद्धं कथमङ्गीकार्यम्? “तद्धास्य विजिज्ञौ” इत्यादिश्रुतयस्तु परोक्षज्ञानेनापि सार्थकाः। परम्परया अपरोक्षज्ञानसाधनत्ववादिन्यो वा। स्पष्टं हि स्मृतयो वदन्ति
“श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ।
संशयं च पराणुद्य लभते ब्रह्मदर्शनम्” इति,
“श्रुणुयाद् यावदज्ञानं मतिर्यावदयुक्तता।
ध्यानं च यावदीक्षा स्यान्नेक्षा क्व च न बाध्यते” इति च।
एतेन धर्मादिवाक्येऽतिप्रसङ्गः, शब्दत्वानुमानं च समाहितं वेदितव्यम्। अत एव प्रत्यक्षलक्षणे विशेषणप्रक्षेपोऽपि निरस्तः, निर्निबन्धनत्वात्।
॥ श्रवणाङ्गमनननिदिध्यासनयोः प्रतिबन्धकनिवर्तकत्वकल्पनानिरासः॥
ये तु शब्द एवापरोक्षज्ञानजननाय प्रवृत्तोऽसम्भावनादिप्रतिबद्धो मनननिदिध्यासनाभ्यां प्रतिबन्धापगमे तज्जनयतीति मन्यते, ते प्रष्टव्याः प्रा मनननिदिध्यासनाभ्यां किमसौ किमप्यकृत्वा परस्तादपरोक्षज्ञानं जनयति, उत परोक्षज्ञानं कृत्वा ? नाऽद्यः, गृहीतसङ्गतेःशब्दाद् बोधोदयाभावस्य प्रमाणविरुद्धत्वात्। द्वितीयेऽपि विरम्य व्यापारापत्तिः। ततो वरं शब्दस्य तावतैव चरितार्थत्वकल्पनमित्येषा दिक्।
॥ श्रवणतज्जनितज्ञानतत्फलानां तारतम्योपेतत्वम्॥
यदुक्तं यथाशक्ति श्रवणमनने कर्तव्ये इति तदयुक्तम्। पुरुषशक्तीनां तारतम्यवत्त्वेन श्रवणादेरपि तारतम्यापत्तेः। नच तथाऽस्त्विति वाच्यम्। तत्साध्यस्य ज्ञानस्यैकविधत्वेन वैयर्थ्यप्रसङ्गात्। नच वाच्यम्, ज्ञातव्यस्य ब्रह्मणोऽपरिमितत्वात्, तत्तज्ज्ञानान्यपि तारतम्यवन्तीति। तत्फलस्य मोक्षस्य तारतम्यरहितत्वेन वैयर्थ्यापरिहारात्। न खलु बन्धविध्वंसस्य तारतम्यमुपपद्यत इत्यत आह सम्यगिति।
सम्यग्विषमविज्ञानतारतम्यानुसारतः।
फलं भवेत् तारतम्यात् सुखदुःखात्मकं नृणाम्।
सम्यक् चाधिकविज्ञानात् सुखाधिक्यं भवेन्नृणाम्॥८९॥
विषमं वैपरीत्यम्। ज्ञानमेव विज्ञानम्। ततो न पुनरुक्तिर्विरोधश्च। तारतम्यादिति तारतम्येनोपेतमित्यर्थः। सम्यग्विपरीतज्ञानयोस्तारतम्यमित्युक्ते परस्परमिति प्रतीतिः स्यात्। तन्निरासार्थमुक्तं विवृणोति सम्यक् चेति। सम्यगित्यव्ययं समीचीनादित्यर्थः। चशब्दोऽनुक्तसमुच्चयार्थः। मध्यमात् सम्यग्ज्ञानात् तथाविधं सुखं भवेत्। अल्पाच्च सम्यग्ज्ञानादल्पम्। एवमधिकान्मिथ्याज्ञानादधिकं दुःखमित्यादि। अत्र मिथ्याज्ञानतारतम्येन दुःखतारतम्यस्याभिधानं दृष्टान्तत्वेनोपयुज्यते। यद्वा दुःशास्त्रं तु परित्यजेदित्युक्तम्। तत्रात्यन्तपरित्यागार्थोऽर्थवादोऽयम्। न बन्धप्रध्वंसमात्रं मोक्षः, किन्तु सुखमपि। तस्य च तारतम्यमुपपद्यत इति भावः।
॥ यथाशक्त्यखिलवेदज्ञानार्थं श्रवणादेः कर्तव्यत्वोपसंहारः ॥
अधिकरणार्थमुपसंहरति अत इति।
अतो यथात्मशक्त्यैव श्रवणं मननं तथा।
कृत्वाऽथ कुर्वन्नपि वा निदिध्यासनमाचरेत्॥९०॥
नन्वत्राऽत्मशक्तिमनतिक्रम्य यथात्मशक्तीत्यव्ययीभावे सति, तस्य “अव्ययीभावश्च” इति अव्ययत्वात् “अव्ययादाप्सुपः” इति तृतीयाया लुका भवितव्यम्। यथात्मशक्त्यैवेति कथम्? उच्यते यथेति भिन्नं पदं सम्यग्वाचि। निवृत्तिमार्गः कथित आदौ भगवता यथेति, यथा श्रवणमित्यादिना च सम्बद्ध्यते। सादृश्यार्थं वा। आत्मशक्त्यैव श्रवणं मननं चाऽचरेत्। नतु सर्वशाखाविषयम्। नापि स्वशाखामात्रविषयम्। यथा च श्रवणं मननं चाऽत्मशक्त्यैव। निदिध्यासनमपि तथाऽऽचरेत्। तच्च श्रवणं मननं च कृत्वा कुर्वन् वेति।
यद्वा यथात्मशक्तीत्यव्ययीभावात् पर आशब्दः सम्यग्वाची। श्रवणमित्यादिना सम्बद्ध्यते। अथवा यथाशब्दस्याऽत्मशब्देनाव्ययीभावः, ततः शक्तिशब्देन कर्मधारयः। योग्यतानुसारिण्या शक्त्येत्यर्थः। अत्र यथात्मशक्त्यैव श्रवणं मननं तथाऽऽचरेदित्येतावतैवोपसंहारे कर्तव्येऽधिकमुच्यते यत्, तच्छ्रवणमननयोरुक्तस्य निदिध्यासनाङ्गत्वस्याप्युपसंहारार्थम्। कृत्वा अथवा कुर्वन्नपीति विशेषज्ञापनार्थं च। अयं च विकल्पो गुरूपदेशानुरोधेन व्यवतिष्ठते। अथवा पूर्वार्ध एवाधिकरणार्थोपसंहारः। तत्र आचरेदिति वक्ष्यमाणं सिंहावलोकनेन सम्बद्ध्यते। इति सिद्धमिति शेषः॥*॥ इति सर्ववेदान्तप्रत्ययाधिकरणम्॥१॥
अथ उपसंहाराधिकरणम्॥२॥
॥ उपासनस्यापि यथाशक्ति कर्तव्यत्वम्॥
उपसंहारोऽर्थाभेदाद् विधिशेषवत् समाने च। अत्र सर्ववेदोक्तान् गुणान् दोषाभावांश्र्चोपसंहृत्यैव परमात्मोपास्य इत्युक्तम्। इहापि सर्वशब्दो नासङ्कुचितवृत्तिः, उक्तन्यायादित्याशयवान् तात्पर्यमाह कृत्वेति। श्रवणं मननं तथेति वर्तते। यथात्मशक्त्यैवेति च। अनेन “प्राप्तेश्च समञ्जसम्” इत्यादीनां सूत्राणामपि तात्पर्यमुक्तं वेदितव्यम्। तथा “तन्निर्धारणार्थनियमः” इत्यादीनां प्रथमाधिकरणव्याख्यानेनेति॥*॥ इत्युपसंहाराधिकरणम्॥२॥
अथ अनुबन्धाद्यधिकरणम्॥३१॥
॥ यमादिपञ्चकस्य उपासनाद्यनङ्गत्वात् नानुष्ठेयत्वमिति पूर्वपक्षः॥
अनुबन्धादिभ्यः। योगशास्त्रे यमादिकमुपासनाङ्गतयोपदिश्यते। तत्र पूर्वपक्षवादी मन्यते यमानुष्ठानं तावदसत्। विष्णुभक्त्यादिगुणसम्पत्तिः, विषयसंसर्गादिदोषवर्जनं च यमशब्दाभिधेयम्। देशकालव्यवस्थाव्यवस्थया विनाऽनुष्ठेयस्य तथात्वात्। अहिंसादिपरिगणनं तु तत्प्रदर्शनार्थमिति हि योगानुशासनानि। तत्र यमानां किमुपासनोत्पत्तावुपयोगः, किंवा तत्फलज्ञानोत्पत्तौ? नाऽद्यः, विद्वेषिणामपि सततानुचिन्तनदर्शनात्। तन्मात्रत्वाच्चोपासनायाः। न द्वितीयः, भक्त्यादिसहितमेव उपासनं ब्रह्मसाक्षात्कारं जनयति नान्यथेत्यत्र प्रमाणाभावात्। किञ्च “द्वेषाच्चैद्यादयो नृपाः”, “वैरेण यन्नृपतयः” इत्यादौ द्वेषस्य तावन्मोक्षसाधनत्वं प्रतीयते। “दृष्ट्वैव तं मुच्यते नापरेण” इति मोक्षस्य दर्शनैकसाध्यत्वं च। तदुभयपर्यालोचनया द्वेषस्य दर्शनसाधनत्वमवगम्यते। एवं नियमासनप्राणायामप्रत्याहाराणामप्यङ्गता निरसनीयेति। तत्र समाधानमम्”अनुबन्धादिभ्यः” इति। तस्यार्थः भक्त्यादिभ्य इति। तत्र न ज्ञायते कः पक्षोऽङ्गीकृतः, कथञ्च तत्रोक्तदोषः परिहृत इति। अतो व्याचष्टे विषयेष्वित्यादिना।
॥ विष्णुभक्तिविषयसंसर्गत्यागरूपयमादिकं विना
उपासनाज्ञानोत्पत्त्यसम्भवात् तेषामवश्यानुष्ठेयत्वम्॥
ॐ अनुबन्धादिभ्यः ॐ॥५१॥
विषयेषु च संसर्गाच्छाश्वतस्य च संशयात्।
मनसा चान्यदाकाङ्क्षात् परं न प्रतिपद्यते॥९१॥
इति भारतवाक्यं हि तेनैतद्दोषवर्जितः।
सदोपासनया युक्तो वासुदेवं प्रपश्यति॥९२॥
विषयसेवनात्। शाश्वतस्य ब्रह्मणः। मोक्षादन्यद् विषयजातं प्रति। आकाङ्क्षादिति घञन्तः। परं ब्रह्म न प्रतिपद्यते न पश्यति। मिथःसमुच्चये चशब्दः। हिशब्दो यस्मादित्यर्थे। विषयसंसर्गादिदोषाणां ज्ञानविरोधित्वमाहेति शेषः। एतद्दोषवर्जित एव सदोपासनया युक्तो भवति। तथाविध एव सदोपासनया युक्तो वासुदेवं प्रपश्यतीति योज्यम्।
एतदुक्तं भवति उपासनोत्पत्तौ तावद् यमानामङ्गत्वं ब्रूमः। विषयसंसर्गादिमतो भक्तिरहितस्य सदोपासनानुपपत्तेः। नह्यन्यत्र व्यासक्तमनाः, तत्र स्नेहविधुरश्च तत् सन्ततं चिन्तयतीति युज्यते।
यदत्रोक्तं स्निग्धवत् क्रुद्धानामपि सन्ततानुचिन्तनं दृष्टमिति, तत् सत्यम्। तथाऽपि तदितरसंसर्गवर्जनादिकमङ्गीकार्यमेव। नच भगवति विद्वेषस्य कारणमस्ति। केषाञ्चिदाशयदोषवशाद् द्वेषसम्भवेऽपि न तथाविधमनुचिन्तनं ज्ञानसाधनं भवति। किन्तूक्तयमादिसहितमेवेति द्वितीयपक्षमपि स्वीकुर्मः। नच तत्र प्रमाणाभावः। भारतवाक्यस्य विद्यमानत्वात्। तत्रच विषयसंसर्गादिपदानां यममात्राभावोपलक्षणत्वादिति। भक्त्याद्यभावस्यापि दोषत्वेनैतद्दोषवर्जित इत्युक्तम्।
॥ भक्त्यभावविषयसंसर्गादिदोषाणां मोक्षप्रतिबन्धकत्वाद्
भक्त्यादीनां मोक्षसाधनत्वाच्च तेषामवश्यानुष्ठेयत्वम्॥
यमानामवश्यानुष्ठेयत्वे युक्तिमप्याह दोषा इति।
दोषा अनादिसम्बद्धास्ते मुक्तिपरिपन्थिनः।
सन्त्येव प्रायशः पुंसु तेन मोक्षो न जायते॥९३॥
ते विष्णुभक्त्यभावाद्या विषयसंसर्गाद्याश्च दोषा मुक्तिपरिपन्थिनः प्राचुर्येण पुरुषेष्वनादिसम्बद्धाः सन्त्येव। तेन कारणेन तेषां मोक्षो न जायते।
एतदुक्तं भवति मोक्षयोग्यानां मुमुक्षूणामपीदानीं तावन्मोक्षो न जायते। तत् कुत इति चिन्त्यम्। भगवत्प्रसादाभावादिति चेत्, सोऽपि कुतः? ज्ञानाभावादिति चेदसावपि कुतः? ध्यानाभ्यासासत्त्वादिति चेत्, न। विद्वेषिणां तत्सत्त्वेऽप्यसत्त्वस्य वक्ष्यमाणत्वात्। (११०६) अपिच ध्यानाभ्यासोऽपि कुतो नेति वाच्यम्। श्रवणाद्यभावादिति चेत्। तद्भावोऽपि न कुतः? अतो दोषा एव तत्तदुत्पत्तिं प्रतिबध्नन्तो मोक्षपरिपन्थिन इति ज्ञायते। नच दोषाणामागन्तुकानामनादिमोक्षाभावहेतुत्वं न सम्भवतीति साम्प्रतम्। प्रवाहतोऽनादित्वादिति। तथाचोक्तम् “दोषगृहीतगुणाम्” इति।
॥ मुक्तिप्रतिबन्धकदोषवत्त्वं संसारित्वव्यापकम्॥
स्यादेतत्। सन्ति केचित् संसारिणोऽपि रागादिदोषरहिता जीवा बालमुग्धादयः। तत् कथं दोषाणां मोक्षाभावहेतुत्वमित्यत आह सर्व इति।
सर्वे त एते जीवेषु दृश्यन्ते तारतम्यतः।
उदाहृतेष्वपि बालमुग्धादिजीवेषु त एते भगवद्भक्त्यभावाद्या दोषास्तावत् प्रत्यक्षानुमानाभ्यां दृश्यन्त एव। रागद्वेषादयोऽपि पुरुषेषु तारतम्यतः सन्ति। चतुर्विधा हि ते प्रसुप्ततनुविच्छिन्नोदारभेदेन। अतो बालादिषूदाराणां तेषामभावादभावाभिमानः। स्तन्यादिकामादेस्तेष्वपि दर्शनात्। तथाचाऽगमः “गर्भे बाल्येऽप्यपौष्कल्यात्” इत्यादिः। तदेवं सर्वेऽपि दोषाः सर्वेष्वपि प्रमिता इति युक्तमुक्तम्।
॥ ऋजूनामपि परमोत्साहवर्जनरूपदोषोऽस्ति॥
अथापि स्यात्। ऋजवो नाम हिरण्यगर्भपदप्राप्तियोग्याः सन्ति संसारिणः पुरुषाः। नच ते दोषिण इति युक्तम्। ऋजुत्वविरोधात्। ऋजवः समीचीना निर्दोषा इत्यनर्थान्तरम्। तत् कथमित्यत आह ऋजूनामिति।
ऋजूनामेक एवास्ति परमोत्साहवर्जनम्।
ऋजूनामपि मोक्षार्थं महोद्योगवर्जनं नाम दोषोऽस्तीत्यतो नोक्तमयुक्तम्। अन्यथा मोक्षविलम्बासम्भवात्। नचैवमृजुत्वविरोधः। यतोऽसावेक एव। दोषबाहुल्याभावाभिप्रायमृजुत्ववचनम्। अल्पस्वे निःस्वप्रयोगदर्शनादिति भावः।
॥ परमोत्साहवर्जनस्य गुणाल्पत्वरूपत्वात् न ऋजुत्वविरोधः॥
प्रकारान्तरेण विरोधं परिहरति स इति।
स गुणाल्पत्वमात्रत्वान्नर्जुत्वेन विरुद्ध्यते॥।९४॥
स परमोत्साहवर्जनं नाम दोषः। यद्यपि महोद्यमाभावो दोष एव, हेयत्वात्। तथाऽपि न रागादिरिव भावरूपः। नापि गुणाभावरूपः। किन्नाम। उत्साहलक्षणगुणाल्पतामात्रमित्यदोषोऽप्युच्यत इति नर्जुत्वेन विरुद्ध्यते।
॥ विष्णुभक्त्यादिरूपयमस्यावश्यानुष्ठेयत्वम्॥
किमतो यद्येवं दोषाः संसारहेतवो मुक्तिपरिपन्थिन इत्यत आह अत इति।
अतो विष्णौ परा भक्तिस्तद्भक्तेषु रमादिषु।
तारतम्येन कर्तव्या पुरुषार्थमभीप्सता॥९५॥
इदं च सर्वयमोपलक्षणम्। पुरुषार्थं मोक्षम्।
अयमत्र सङ्क्षेपः विष्णुभक्त्यभावाद्या विषयसंसर्गाद्याश्च दोषा मुमुक्षादिमता त्याज्याः। मोक्षादिविरोधित्वात्। यद् यद्विरोधि, तत् तदर्थिना त्याज्यं दृष्टम्। यथाऽऽरोग्यविरोध्यपथ्यं तदर्थिना। तथाच विष्णुभक्त्यादिकं कार्यमिति सिद्ध्यति। भावानुष्ठानेन विनाऽभावपरित्यागायोगादिति।
॥ विष्णौ सर्वोत्तमा, अन्येषु तारतम्येन च भक्तिः कर्तव्या॥
विष्णौ परा, अन्यत्र तारतम्येनेत्युक्तं विवृणोति स्वादर इति।
स्वादरः सर्वजन्तूनां संसिद्धो हि स्वभावतः।
ततोऽधिकः स्वोत्तमेषु तदाधिक्यानुसारतः॥९६॥
कर्तव्यो वासुदेवान्तं सर्वथा शुभमिच्छता।
न कदाचित् त्यजेत् तं च क्रमेणैनं विवर्धयेत्॥९७॥
आदरः स्नेहः। स्वभावतः संसिद्ध इत्युपकारादिकरणमनपेक्ष्यानादिसिद्ध इत्यर्थः। अन्यथा सुखिनैव मया भाव्यं न जातु दुःखिना इत्याशीर्न स्यादिति हिशब्दार्थः। ततः स्वविषयादादरादधिक आदरः साक्षात् स्वोत्तमेषु कर्तव्यः। एवं तेषान्तेषामाधिक्यानुसारतोऽधिकः कर्तव्यो वासुदेवान्तम्। वासुदेवे तु निरतिशयः। शुभं ध्यानादिकम्। एतच्चोपपादयिष्यते। (११६०, अनुपदं च)
सकृदनुष्ठेयासकृदनुष्ठेयसदानुष्ठेयभेदादङ्गमनेकविधम्। अयं तु कथमित्यपेक्षायामाह नेति। तं विष्ण्वाद्यादरम्। न केवलं न त्यजेत्, किन्तु कालक्रमेणैनं विवर्धयेच्च।
॥ स्वसमेषु स्नेहः, स्वाश्रितेषु कृपा च कार्या॥
स्वसमेषु स्वतोऽधमेषु च कथमित्यपेक्षायामाह समेष्विति।
समेषु स्वात्मवत् स्नेहः सत्स्वन्यत्र ततो दया।
कार्यैवमापरोक्ष्येण दृश्यते क्षिप्रमीश्वरः॥९८॥
कर्तव्य इति वर्तते। तत उत्तमसमेभ्योऽन्यत्राधमेषु सत्सु दया कार्या। यदि सत्स्वित्येवोच्येत तदोत्तमसमेष्वपि प्रसङ्गः। ततोऽन्यत्रेत्येवोक्तावसत्स्वपि प्रसक्तिः। ततो वर्गत्रयादन्यत्राज्ञेष्वौदासीन्यम्। विपरीतेषु वैपरीत्यं चेत्यपि योज्यम्। एवं क्रियमाणे यमानामुपासनोत्पत्तौ ज्ञानोत्पादे मोक्षातिशये चाङ्गत्वमिति सूचनाय पुरुषार्थमभीप्सता शुभमिच्छता दृश्यते क्षिप्रमीश्वर इति विचित्रोक्तिः। अत एवोपसंहारे त्रयस्यापि सङ्कीर्तनम्।
॥ विपरीतज्ञानादिरूपदोषाणां अन्धतमसफलकत्वात् सर्वथा त्याज्यत्वम्॥
दोषपरित्यागेऽप्यस्ति विशेषः। रागादयो हि संसारमातन्वते। विपरीतज्ञानादयस्तु नित्यं नरकं प्रापयन्तीत्यतो रागादितोऽतिशयेन त्याज्या इत्याशयवांस्तत्र श्रुतिमाह तदिति।
तत् तमोऽन्धं व्र्जेद् विष्णुसमत्वं योऽनुपश्यति।
रमाब्रह्मशिवादीनामपि मुक्तौ कथञ्चन॥९९॥
किमुताधिक्यदृष्टेस्तद्गुणाभावमतेरपि।
दोषवेत्तुरभेदस्य द्रष्टुर्द्रष्टुस्तथोभयोः॥१००॥
इत्याह सच्छ्रुतिः.................।
तत् प्रसिद्धम्। न केवलं संसारे किन्तु मुक्तावपि। कथञ्चन केनापि धर्मेण समत्वम्। रमाब्रह्मशिवादीनां विष्णोराधिक्यदृष्टेः पुरुषस्यान्धतमसावाप्तिर्भवतीति किमुतेति योज्यम्। विष्णोर्गुणाभावमतेः, विष्णोर्जीवैर्जडैश्चाभेदस्य द्रष्टुः। उभयोर्भेदाभेदयोः।
॥ यमादेः कर्तव्यत्वप्रतिपादनोपंसहारः॥
स्वपक्षसाधनमुपसंहरति तेनेति।
............. तेन सम्प्रोक्तगुणसंयुतः।
उपासीत हरिं दृष्ट्वा मुक्तिस्तेनैव जायते॥१०१॥
प्राक् सम्प्रोक्तैर्विषयसंसर्गवर्जनादिभिर्गुणैः संयुतः। यद्वा योगशास्त्रे सम्प्रोक्तैर्यमादिभिर्गुणैरङ्गैः संयुतः। तेनैव तथाविधेनैवोपासनेन हरिं दृष्ट्वा कर्माणि क्षपयतो मुक्तिर्जायते।
॥ विष्णुद्वेषादेः मोक्षसाधनत्वोक्तिप्रत्याख्यानम्॥
इदानीं यत् पूर्वपक्षिणोक्तम्, भगवद्द्वेषिणामपि पुराणे मुक्तिः कथ्यत इति, तन्निराकरोति द्वेषादिति।
द्वेषाद् यन्मुक्तिकथनं श्रुतिवाक्यविरोधि तत्।
रिपवो ये तु रामस्य विमुखत्वान्निरामिणः।
अभिद्रोहपदे नित्यमन्धे तमसि ते स्थिताः॥।१०२॥
हरिद्विषस्तमो यान्ति ये चैव तदभेदिनः।
तन्निर्गुणत्ववेत्तारस्तस्य दोषविदोऽपि च।
इत्यादिश्रुतिसन्दर्भाद् द्वेषिणस्तम ईयते॥१०३॥
तस्मादन्यथा व्याख्यातव्यमिति भावः। तत्प्रकारं च वक्ष्यति।(१२५२) किं तच्छ्रुतिवाक्यमित्यतो
“मा नः स्तेनेभ्यो ये अभि द्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः”
इत्येतदर्थतः पठति रिपव इति। रामो रमणं तदस्यास्तीति रामी भगवान् रामः, तस्मान्निष्क्रान्तास्तस्य विमुखा निरामिण इत्यर्थः। अत एव तस्य रिपवः। अभिद्रोहपद इत्यस्यैव व्याख्यानम्अन्धे तमसीति। नित्यं स्थिता भवन्तीति शेषोक्तिः। अनेन ये निरामिणो रिपवोऽन्नेषु भोगेषु जागृधुरभिकाङ्क्षावन्तः, तेऽभिद्रुहोऽभितो द्रोहस्य पदे स्थाने स्थातुं योग्या यतोऽतस्तेभ्यः स्तेनेभ्योऽस्मान्मा वोचः, नह्यस्मच्छ्रवणवान् दुःखमर्हतीति योजना सूचिता भवति। इदं च वायुं प्रति विद्यादेवताया वचनम्। तदभेदिनस्तस्य हरेर्जीवाद्यभेदवादिनः। कथमेतच्छ्रुतिविरोध इत्यत आह इत्यादीति।
॥ विष्णुद्वेषस्य मोक्षसाधनत्वाभावे स्मृत्युपन्यासः॥
स्मृतिविरुद्धं च द्वेषिणां मोक्षकथनमित्याशयवंस्ताः पठति हिरण्यकशिपुश्चेति।
हिरण्यकशिपुश्चापि भगवन्निन्दया तमः।
विविक्षुरत्यगात् सूनोः प्रह्लादस्यानुभावतः॥१०४॥
यदनिन्दत् पिता मह्यं त्वद्भक्ते मयि चाघवान्।
तस्मात् पिता मे पूयेत दुरन्ताद् दुस्तरादघात्॥१०५॥
निन्दां भगवतः शृण्वंस्तत्परस्य जनस्य वा।
ततो नापैति यः सोऽपि यात्यधः सुकृताच्च्युतः॥१०६॥
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्।
परं भावमजानन्तो मम भूतमहेश्वरम्॥१०७॥
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः॥१०८॥
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः।
तानहं द्विषतः क्रूरान् संसारेषु नराधमान्।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु॥१०९॥
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्॥११०॥
यो द्विष्याद् विबुधश्रेष्ठं देवं नारायणं प्रभुम्।
कथं स न भवेद् द्वेष्य आलोकान्तस्य कस्यचित्॥१११॥
यो द्विष्याद् विबुधश्रेष्ठं देवं नारायणं प्रभुम्।
मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः।
इत्यादिवाक्यसन्दोहाद् द्वेषिणस्तम एव तु॥।११२॥
विविक्षुर्वेशनसम्भावनाविषयः। “आशङ्कायामचेतनेषूपसङ्ख्यानम्” इति वचनात्। श्र्वा मुमूर्षतीति तथा। अत्यगात् तमः। मम पिता मह्यं मन्निमित्तं त्वामनिन्दत्। मयि मद्विषये चाघवानपराधवान्। तस्माद् विष्णुवैष्णवनिन्दापराधजादघान्नित्यनिरयात्। निन्दादिकं च द्वेषमूलमिति प्रसिद्धमेव। नरहरिं प्रति प्रह्लादस्य वाक्यमिदम्।
ततः स्थानात्। निन्दां शृण्वतो यदाऽधःपातः, तदा निन्दकस्य किमु ? मानुषीं मनुष्यसदृशीम्। ये मामवजानन्ति ते मोघाशादिमन्तो भवन्ति। तेषां सुखलेशोऽपि न भवति। आत्मपरदेहेषु प्रेरकत्वेन स्थितम्। संसरन्त्यत्रेति संसारा देहाः। तस्य विवरणमासुरीष्वेवेत्यादि। लोको जनः, तस्यान्तश्चण्डालादिः, तत्पर्यन्तस्य।
कथमेतत्स्मृतिविरोध इत्यत आह इत्यादीति। ज्ञायत इति शेषः। तमोऽपि निरुत्थानमिति तुशब्दः। अतो यमाद्यङ्गमवश्यानुष्ठेयमिति सिद्धम्॥*॥ इत्यनुबन्धाद्यधिकरणम्॥३१॥
अथ विद्याधिकरणम्॥२९॥
॥ व्युत्क्रमेण व्याख्याने निमित्तम्॥
विद्यैव तु निर्धारणात्। यद्यपीदमधिकरणं “अनुबन्धादिभ्यः” इत्यतः पूर्वम्, तथाऽप्युपासनास्वरूपावगमे सत्येव तत्साथर्क्यसमर्थनस्यावसरो नान्यथेति व्युत्क्रमेण व्याख्यातम्। तथाहि न भगवदुपासनं कर्तव्यम्, वैयर्थ्यात्। नच तत्साक्षात्कारार्थम्, तस्यापि व्यर्थत्वात्। नच मोक्षप्रयोजनोऽसाविति वाच्यम्। चार्वाकदिशा मोक्षस्यैवाभावात्। भावे वा जैनादिमतानुसारेण साधनान्तरसाध्यत्वादिति प्राप्ते, मोक्षसद्भावम्, तस्यापि भगवद्दर्शनसाध्यत्वं च साधयितुमिदमारभ्यते। यद्यपि समयपादे चार्वाकादिमतानि निराकृतानि, तथाऽपि मोक्षतत्साधनविषयदूषणविशेषव्युत्पादनार्थोऽयं प्रयत्नः।
॥ चार्वाकेण मोक्षाभावप्रतिपादनम्॥
तत्र चार्वाकमतं तावदनुवदति नैवेति।
नैव मोक्ष इति प्राहुर्लोकायतमते स्थिताः।
भोगः शरीरपर्यन्तं भस्मीभावस्ततो भवेत्॥११३॥
इति...................................।
एवशब्दः स्वरूपनिषेधद्योतनार्थः। अन्यथा पुरुषविशेषादिसम्बन्धेन निषेधोऽपि ज्ञायेत। तस्मादुपासनं व्यर्थमिति शेषः। तर्हि कः पुरुषार्थोऽस्तीत्यत आह भोग इति। स्रक्चन्दनादिविषयसुखानुभवो भोगः स पुरुषार्थोऽस्तीति प्राहुरिति सम्बन्धः। भोगश्चैहिक एव नतु स्वर्गादिगत इत्याह शरीरेति। शरीरपातपर्यन्तमित्यर्थः। कुतः स्वर्गापवर्गयोरसत्त्वमित्यत आह भस्मीभाव इति।ततः पातानन्तरं शरीरस्य भस्मीभावो भवेत्।
इदमुक्तं भवति शरीरपातोत्तरकालमात्मनः स्वर्गापवर्गौ वक्तव्यौ। आत्मा च न शरीरातिरिक्तोऽस्ति। शरीरं च पातोत्तरकालं नश्यत्येव। ततः कस्य तौ स्यातामिति। इति प्राहुरिति सम्बन्धः। शङ्कासमाप्तौ वेतिशब्दः।
॥ मोक्षाभाववादस्याप्रामाणिकत्वम्॥
तदेतत् प्रमाणाभावेन दूषयंस्तावत् पृच्छति तदिति।
.... तत् केन मानेन दृष्टं प्रत्यक्षवादिना।
नहि प्रत्यक्षमानेन मोक्षाभावोऽवसीयते॥११४॥
मोक्षो नैवास्तीति वाक्यार्थं तदिति परामृशति। केन मानेनेति। प्रत्यक्षेण वा तदितरेण वेत्यर्थः। दृष्टमवगतम्। द्वितीयस्तावच्चार्वाकेण नाङ्गीकर्तुं शक्यत इत्याशयवानाह प्रत्यक्षेति। प्रत्यक्षमेकमेव प्रमाणं नान्यदित्यभ्युपगच्छता। पूर्वेण सम्बन्धः।
आद्यं निराकरोति नहीति। अनुमानादिकं तावत् परस्य मानं न भवति। यच्च मानत्वेनाङ्गीकृतं प्रत्यक्षं तेनेति यावत्। मोक्षो हि नाम परमानन्दावाप्तिविशिष्टाऽऽत्यन्तिकी दुःखनिवृत्तिः। तदभावश्च एवमवगन्तव्यः “नास्ति कोऽपि पुरुषः परमानन्दानुभवी सर्वोऽपि दुःखी च” इति। नच पुरुषान्तरवर्तिनी सुखदुःखे, तदभावौ वा पुरुषान्तरप्रत्यक्षविषयाविति कथं मोक्षाभावः प्रत्यक्षेणावसीयेत इति हिशब्दार्थः।
॥ अस्मन्मते मोक्षसद्भावे योगिप्रत्यक्षं प्रमाणम्॥
मा भूत् प्रमाणाभावेन मोक्षाभावनिश्चयः। तत्सद्भावनिश्चयोऽपि दुर्घट एव। प्रमाणाभावात्। न तावत् तत्र प्रत्यक्षं प्रमाणम्। परपुरुषवर्तिनोः परमानन्ददुःखाभावयोः परप्रत्यक्षस्य सामर्थ्याभावात्। स्वनिष्ठस्तु तदभाव एव प्रत्यक्षेणेक्ष्यते। नापि प्रत्यक्षादन्यत्। तत्प्रामाण्यासिद्धेः। ततश्च साधकबाधकप्रमाणाभावादप्रतिपत्तिर्नित्यसंशयो वा मोक्षे स्यादिति नोपासनानुष्ठानं सम्भवतीति। मैवम्। प्रत्यक्षेण तावन्मोक्षनिश्चयोपपत्तेः।
ननूक्तमत्र प्रत्यक्षस्य तत्र सामर्थ्यं नास्तीति, तत्राऽह घटत इति।
घटते मुक्तिदृष्टिस्तु पुरुषेण महीयसा।
यद्यपि प्राकृतानां प्रत्यक्षं न मोक्षं गोचरयितुं क्षमते, तथाऽपि महत्तमपुरुषप्रत्यक्षेण मोक्षनिश्चयो युज्यत एव। तदीयप्रत्यक्षावगमश्च परेषां तद्वाक्येन भविष्यतीति भावः।
ननु “कर्तृकर्मणोः कृति” इति अत्र षष्ठ्या भवितव्यम्, कथं तृतीया? शेषविवक्षायां षष्ठी विहिता। नचात्र शेषविवक्षेति चेत्, न। अस्मिन् योगे शेषग्रहणस्य निवृत्तत्वात्। उच्यते हेतावेषा तृतीया, न कर्तरि करणे वा। महीयसा पुरुषेण हेतुना करणेन वा तदीयप्रत्यक्षेणेति यावत्। इतरेषां मुक्तिदृष्टिर्मुक्तिसद्भावनिश्चयो घटत इति। यद्वा मुक्तिविषया प्रत्यक्षदृष्टिर्घटते। कथम्? यतो महीयसा पुरुषेणेक्ष्यते मोक्ष इति वदाम इति योजना। अथवा क्रियमाणेति पदाध्याहारे न दोषः।
॥ चार्वाकाचार्यस्य सर्वाविशिष्टत्वाभ्युपगमात्
न तस्य मोक्षाभावदर्शनयोग्यत्वरूपविशेषवत्त्वम्॥
एवन्तर्हि मयाऽपि वक्तुं शक्यत एव। यद्यपि परपुरुषवर्ती मोक्षाभावोऽस्मदादीनां न प्रत्यक्षः, तथाऽपि महीयसः पुरुषस्य लोकायताचार्यस्य प्रत्यक्ष एव। तदवगमश्चास्माकं तद्वाक्येन भविष्यतीति। तथाच सत्प्रतिपक्षतया पुनरनिश्चय एवेत्यत आह नेतीति।
नेति वक्तुर्महत्त्वं तु कथञ्चन न विद्यते।
साधयन् सर्वसामान्यं कथमेव विशेषवान्॥११५॥
कस्मिन्नपि पुरुषे वर्तमानोऽनागतो वा मोक्षो नास्त्येवेत्यहं प्रत्यक्षेणेक्ष इति वक्तुस्त्विति सम्बन्धः। महत्त्वमेव न विद्यते कुतो महीयस्त्वमित्येवशब्दार्थो वा तुशब्दः। महत्त्वमिह बहुप्रकारमपेक्षितम्। इतरपुरुषाप्रत्यक्षार्थसाक्षात्कारित्वम्, तदुपयुक्तासाधारणधर्मवत्त्वम्, यथार्थवादित्वं चेति। तत्रैकप्रकारमपि न लोकायताचार्यस्य विद्यते। कुतस्तेन सत्प्रतिपक्षताशङ्का मोक्षवादिनां महापुरुषाणाम्?
कुत इत्यत आह साधयन्निति। धर्माद्यभावप्रतिपादनेन सर्वेषां पुंसां समानत्वं साधयन् लोकायताचार्यः कथमेवेतरेभ्योऽतिशयवान् भवति? न कथञ्चित्।
एतदुक्तं भवति पुरुषान्तराप्रत्यक्षस्य परपुरुषगतस्य मोक्षाभावस्य साक्षात्करणे लोकायताचार्यस्येतरेभ्यो विशेषेण भाव्यम्। अन्यथेतरेषामपि तत्प्रसङ्गात्। नचासावस्ति। तपसा योगेन वा जनितो धर्मविशेषस्तथा। स चेतरेषामिव स्वात्मनोऽपि नास्तीति तेनैव साधितम्। अतः कारणाभावादितरवत् तस्यापि परपुरुषवर्तिमोक्षाभावसाक्षात्करणं नास्त्येवेति निश्चीयते। तत एवाहं मोक्षाभावं साक्षात्करोमीति तदीयवचनमयथार्थमेव। भूतपरिणामविशेष एवातिशयोऽस्त्विति चेत्। स किं प्रत्यक्षोऽप्रत्यक्षो वा? नाऽद्यः, अनुपलम्भात्। यादृशतादृशस्य प्रकृतफलहेतुत्वे मानाभावात्। अन्यथाऽतिप्रसक्तेः। न द्वितीयः, अतीन्द्रियार्थं निराकुर्वता तेनैवेतरवदात्मन्यपि तदभावस्य साधितत्वादिति।
॥ अपरोक्षीकृतमोक्षाणां योगिनां सद्भावसमर्थनम्॥
यथा युष्माभिरभिधीयते नास्त्येव मोक्षाभावसाक्षात्कारी महापुरुष इति, तथा अहमपि वदामि नास्त्येवासौ महीयान् पुरुषो यः प्रत्यक्षेण मोक्षमीक्षेत, प्रमाणाभावादिति। तथाच पुनरनिश्चय एवेत्यत आह दृश्यन्त इति।
दृश्यन्ते पुरुषा लोके परावरविदोऽपि च।
अपरोक्षदृशो योगनिष्ठाश्चामलचक्षुषः॥११६॥
प्रत्यक्षं देवतां दृष्ट्वा तत्प्रसादाप्तभूतयः।
ज्ञानविज्ञानपारज्ञा निषिद्ध्यन्ते कथं नृभिः॥११७॥
न केवलमेक इति भावः। लोकेऽस्मिन्नेव भूमण्डले। ते च वसिष्ठादयः। तेषां महीयस्त्वमाह ज्ञानविज्ञानपारज्ञा इति। अत्र विषयिभ्यां विषयावुपलक्ष्येते। सामान्यविशेषाकारपारज्ञाः। न केवलं वर्तमानाशेषविदः, किन्नाम, परावरविदोऽपि। तत् किमनुमानादिना नेत्याह अपरोक्षदृशश्चेति। अस्मदादिभ्यः को विशेषस्तेषामित्यत उक्तम् योगनिष्ठाश्चामलचक्षुष इति। योगनिष्ठाजनितविशिष्टादृष्टेन दिव्यदृष्टयः। किं तेनैव ? नेत्याह प्रत्यक्षमिति। योगसामर्थ्येन परदेवतां साक्षादुपलभ्य तत्प्रसादासादितप्राकाश्याद्यैश्वर्यवन्तः। वसिष्ठादयो योगर्धिसम्पन्नया दिव्यया दृष्ट्या परपुरुषवर्तिनं मोक्षं साक्षात्कुर्वाणाः प्रत्यक्षेणैव दृश्यन्ते, अतो न मोक्षानिश्चय इति।
अस्मदादिभिरनुपलब्धत्वात् ते न सन्तीत्यत आह निषिद्ध्यन्त इति। नृभिरित्यनेन मन्दभाग्यैः परिमिताविविक्तदेशपरिचयवद्भिरिति सूचयति। नहि ते वणिग्वीथ्यां वर्तन्ते, येन युष्माभिरुपलभ्येरन्। अतो विप्रकर्षादनुपलभ्यमाना न निषेद्धुं शक्यन्त इति भावः।
॥ योगिनां महामाहात्म्यवत्त्वम्॥
ननु पुरुषस्वरूपमात्रे न विप्रतिपत्तिः। तेषां महीयस्त्वं तु कुत इत्यत आह दृश्यते चेति।
दृश्यते चातिमाहात्म्यं तेषामतिमहौजसाम्।
न केवलं पुरुषाः, किन्तु तेषामतिमाहात्म्यं महीयस्त्वं च दृश्यते। कथम्? अतिमहौजसाम्।
एतदुक्तं भवति दृश्यन्ते तावद् विन्ध्यस्थगनसमुद्रपानादीनि तेषामतिमहान्त्योजांसि। तानि च महैश्वर्यकार्याणि। नच कार्याणि विना कारणैर्भवितुमर्हन्ति। महैश्वर्येषु च सार्वज्ञ्यापरनामकं प्राकाश्यमिति तेषां महीयस्त्वसिद्धिरिति।
॥ योगिवाक्यस्य विप्रलम्भमूलकत्वनिरासः॥
ननु तदीयं मोक्षविषयं प्रत्यक्षं परेषां कुतः सिद्धम्? तद्वाक्यादिति चेत्, न। तेषां विप्रलम्भकत्वोपपत्तेरित्यत आह यदीति।
यदि तेऽपि निषिद्ध्यन्ते किं नोक्तिस्ते निषिद्ध्यते॥११८॥
विप्रलम्भो हि प्रयोजनमूलो भवति। नच तेषां प्रयोजनानुसन्धानं सम्भवति। आप्तसमस्तैश्वर्यत्वात्। प्रयोजनान्तरस्य चाप्रमितत्वात्। एवम्भूता अपि ते योगिनो यदि विप्रलम्भका इति निषिद्ध्यन्ते, तदीयं वाक्यं विप्रलम्भमूलत्वेन निराक्रियत इति यावत्, तदा ते त्वदभ्युपगता लोकायताचार्योक्तिः किं तथैव न निषिद्ध्यते? साऽपि विप्रलम्भमूलेति कल्पयित्वाऽनादरणीया स्यात्। अविशेषादिति यावत्।
एतेनैतदपि निरस्तम् विप्रकर्षवशादस्माभिरनुपलभ्यमाना अपि योगिनः, तन्माहात्म्यम्, तदीयं स्वप्रत्यक्षविषयं वाक्यं चास्माभिः कुतोऽवगन्तव्यम्? इतिहासपुराणेभ्य इति चेत्, न। तेषामप्रमाणत्वादिति। दोषदर्शनेन हि तेषामप्रामाण्यं कल्प्यम्। नच तत्र प्रमाणमस्ति। वाक्यत्वेनैव प्रामाण्यप्रतिषेधे लोकायताचार्योक्तेरपि तत्प्रतिषेधप्रसङ्गादिति।
॥ प्रत्यक्षनिश्चितप्रामाण्यकत्वाद् योगिवाक्यानां प्रामाण्यम्॥
न लोकायताचार्योक्तिर्विप्रलम्भशङ्कया निराक्रियते। प्रत्यक्षसंवादेन प्रामाण्यनिश्चयादिति चेत्, समं प्रकृतेऽपीत्याह यदुक्तेति।
यदुक्तवाक्यप्रामाण्यं प्रत्यक्षेणोपलभ्यते।
वरादयोऽपि तद्दत्ताः सदा सत्या भवन्ति हि॥११९॥
यैर्योगिभिरुक्तानां वाक्यानां प्रामाण्यं प्रत्यक्षेण प्रत्यक्षसंवादेनोपलभ्यन्ते तेऽपीति पूर्वेणान्वयः। कथमित्यत आह वरादयोऽपीति। तैर्योगिभिर्दत्ता वराः शापाश्च सदाऽव्यभिचारेण सत्या भवन्ति। हि यस्मात् तस्मादिति पूर्वेणैव सम्बन्धः। ते प्रसन्नाः सन्तस्तवेदं भद्रं भविष्यतीति वा, कुपिताः सन्तस्तवेदमभद्रं भविष्यतीति वा यदाहुस्तत् तथैव भवत् प्रत्यक्षेणोपलभ्यत इति।
स्यादेतत्। प्रत्यक्षयोग्यार्थे भवतु तत्संवादेन तदीयं वाक्यं प्रमाणम्, अतीन्द्रिये तु मोक्षादौ कथमिति। एवन्तर्हि लोकायताचार्यवचनमपि प्रत्यक्षयोग्यार्थे तत्संवादेन प्रमाणमस्तु। अतीन्द्रिये तु मोक्षाभावादौ कथमिति समानम्।
अथ मन्यसे प्रत्यक्षयोग्यार्थे तावत् तदीयं वचनं प्रत्यक्षसंवाद्येवोपलब्धम्। तेनातीन्द्रियार्थविषयेऽपि तत्र विश्वसिमः। लोके तथोपलम्भादिति। तदिदं प्रकृतेऽपि समानम्। तदिदमुक्तमनुक्तसमुच्चयार्थेनापिपदेन।
॥ मोक्षाभावसाधने प्रयोजनाभावात् चार्वाकोक्तेः वैयर्थ्यादप्रामाण्यम्॥
एवं सत्प्रतिपक्षतानिरासाय योगिनां मोक्षप्रत्यक्षवादस्य प्रामाण्यम्, अप्रामाण्यं च लोकायताचार्यस्य मोक्षाभावप्रत्यक्षोक्तेरुपपादितम्। हेत्वन्तरेणापि तदप्रामाण्यमुपपादयति अप्रामाण्यमिति।
अप्रामाण्यं तदुक्तेश्च वृथावाचाऽवसीयते।
नहि प्रयोजनं किञ्चित् परलोकनिवारणात्॥१२०॥
हेतुसमुच्चये चशब्दः। वृथावाचेति भावप्रधानो निर्देशः। वृथात्वादित्येवोक्ते तृणादिदर्शने व्यभिचारः स्यात्। तदर्थं वाग्ग्रहणम्। कथं लोकायताचार्योक्तेर्वृथात्वमित्यत आह नहीति। परलोकस्य मोक्षादेर्निवारणात् नास्तित्वप्रतिपादनाल्लभ्यं किञ्चित् प्रयोजनं नास्तीत्येतत् प्रसिद्धमेव।
तथाहि तदुक्तेरदृष्टं वा प्रयोजनं स्यात्, दृष्टं वा। न तावददृष्टम्, परलोकनिवारणात्। अदृष्टं हि स्वर्गादावुपभोग्यं वा स्यात्, देहान्तरेणेहैव वा। नाऽद्यः, स्वर्गादेः परलोकस्य परेण प्रतिषिद्धत्वात्। न द्वितीयः, देहात्मवादिनाऽस्याऽत्मनः परलोकस्य देहान्तरस्य निवारणात्। नापि दृष्टम्, प्रतिपादकप्रतिपाद्ययोरर्थकामलाभानुपलम्भादिति।
॥ लोकानां कामोपभोगोपरोधनिवृत्तिफलकधर्माद्यभावसाधनस्य अनर्थहेतुत्वम्॥
वैदिकानां धर्माधर्मव्यवस्थापकैर्वचनैरुपरुद्धकामभोगानां प्राणिनां धर्माद्यभावाप्रतिपादनेन कामोपभोगोपरोधनिवृत्तिरूपपरोपकारस्तावदाचार्यस्य प्रयोजनमस्ति। यद्यप्युपकारो न स्वरूपेण प्रयोजनम्, नाप्यदृष्टहेतुत्वेन, तथाऽप्युपकर्तारं प्रत्युपकुर्वन्त्येव। विनेयानां च कामोपभोगोपरोधनिवृत्तिरेवास्ति प्रयोजनम्। तत् कथं वृथात्वमित्यत आह वृथा वाचमिति।
वृथावाचं वृथा हन्याद् यदि तस्य किमुत्तरम्।
अत्र वृथावाचमिति साध्यनिर्देशः। एवमपि वृथावाक्त्वं न परिहार्यमिति। अदृष्टप्रयोजनरहितवाचमिति वा। यदि कश्चित् तमाचार्यं विनेयं वा वृथैव हन्यात्, तदा तं प्रति तस्य किमुत्तरम्? न किञ्चित्।
एतदुक्तं भवति न स्त एव धर्माधर्मौ, अतस्त्वया निरङ्कुशेन कामोपभोगः करणीय इत्याचार्येण बोधितोऽन्तेवासी तदीयकमनीयकान्ताद्यपहारार्थं तं हन्यादेव, तदाऽस्य का प्रतिक्रिया? उपकर्तुरपकारो महाप्रत्यवायहेतुरिति छान्दसोक्तेस्तेनैव त्याजितत्वात्। उपकर्तारं प्रत्युपकुर्वन्तीत्येतदपि धर्मादिवासनायां सत्यामेव। सा तु तेनैव निःशेषिता। अतो नास्त्येवाऽचार्यस्य प्रयोजनम्। प्रत्युत स्वजीवनहानिलक्षणोऽनर्थ एव। एवं विनेयानामप्यन्योन्यधनवनिताद्यपहाराय परस्परवधादावेव प्रवृत्तिः, नतु कामोपभोगावसरः। महताऽनर्थेनाऽक्रान्तोऽल्पीयान् कामोपभोगोऽनर्थ एवेति।
अस्त्वेवं लोकायताचार्योक्तेर्वृथात्वम्, अनर्थहेतुत्वं च। तथाऽप्यप्रामाण्यं कुत इत्यत आह स्वेति।
स्वजीवनविरोधाय वदन् किं नाम बुद्धिमान्॥१२१॥
स्वशब्दः परेषामप्युपलक्षकः। व्यर्थं चेति शेषः। व्यर्थानर्थहेतुवाक्त्वेन लोकायताचार्यस्य अप्रेक्षावत्त्वमनुमीयते। ततस्तद्वचनस्याप्रामाण्यमिति शेषः। उक्तश्चायमर्थः प्रयोजनाधिकरणे। (६०४)
॥ समर्थितार्थपिण्डीकरणम्॥
उक्तमर्थं बुद्ध्यारोहाय सङ्क्षिप्याऽह प्रामाण्यमिति।
प्रामाण्ये संशयः किं स्यात् तयोः पुरुषयोरपि।
स्वजीवनविरुद्धोक्तिरज्ञो दृष्टस्य चापि यः॥१२२॥
यश्चातीन्द्रियदेवोक्तिश्रोता दृष्टपरावरः।
अतीतानागतं सर्वं लोकानुभवमापयन्॥१२३॥
अत्र प्रामाण्यशब्देनाऽप्तत्वमुच्यते। किमित्याक्षेपे। अपिशब्दो गर्हायाम्। स्वेत्युपलक्षणम्। दृष्टस्य दर्शनयोग्यस्यापि बहोरर्थस्य। चशब्दो विशेषणसमुच्चये। देवोक्तीत्यतीन्द्रियान्तरस्याप्युपलक्षणम्। स्वोक्तं सर्वं प्रत्यक्षसंवादेन लोकानुभवं लोकाश्र्वासं प्रापयन्।
यः स्वजीवनविरुद्धोक्तित्वादिविशेषणो लोकायताचार्यः, यश्चातीन्द्रियदेवोक्तिश्रोतृत्वादिविशेषणो योगी, तयोरपि पुरुषयोः प्रामाण्ये संशयः स्यात् किम्? न स्यादेव। किन्त्वाद्यस्याप्रामाण्यमेव, द्वितीयस्य प्रामाण्यमेव निश्चीयत इति योजना।
एवं निमित्ताभावेनासम्भावितातीन्द्रियज्ञानस्य, कामुकत्वादिना सम्भावितविप्रलम्भस्य लोकायताचार्यस्य, योगर्धिसम्पदा सम्भावितसार्वज्ञ्यावाप्तसमस्तैश्वर्यवत्त्वादिनाऽत्यन्तासम्भावितवञ्चकत्वात् प्रत्यक्षसंवादिवचसो योगिनः प्रति, प्रतिपक्षत्वासम्भवे तद्वचनावगतेन तत्प्रत्यक्षेण मोक्षः सिद्ध्यतीत्युक्तम्।
॥ वेदाप्रामाण्यसाधकसंवादराहित्यहेतोर्भागासिद्धिः॥
इदानीं वेदेनापि तं सिसाधयिषुस्तत्प्रामाण्ये विप्रतिपन्नं प्रति किं संवादरहितत्वात् वेदस्याप्रामाण्यमुच्यते, उत वाक्यत्वादुन्मत्तवाक्यवत्, अथवोन्मत्तवाक्यादनिश्चितविशेषत्वात्, अथवा बाधितत्वादिति विकल्प्य, आद्येऽपि किं सर्वस्य संवादो नास्ति, उतैकदेशस्येति विकल्प्याऽद्यं निराचष्टे अत इति।
अतः प्रत्यक्षगम्यत्वाद् वेदमात्रस्य च स्फुटम्।
वैदिकानुष्ठानवतां तत्फलसिद्धेर्दृष्टत्वादित्यर्थः। प्रत्यक्षगम्यत्वात् प्रत्यक्षसंवादेन सिद्धत्वात्। प्रमाणसमुच्चये चशब्दः। वेदेन च मोक्षसिद्धिरिति। अनेन सर्वस्यापि वेदस्य प्रमाणान्तरसंवादो नास्तीत्येतदसिद्धम्। ऐश्वर्यादिसाधनतया योगादिकमुपदिशतो वेदभागस्य संवाददर्शनादित्युक्तं भवति। मोक्षप्रतिपादकानि च वेदवाक्यानि तत्रतत्रोदाहृतान्येव द्रष्टव्यानि। फलविसंवादोऽपि वेदस्य दृश्यत इति चेत्, न। तस्य कर्तृकर्मादिवैगुण्यहेतुतायाः प्रागुक्तत्वात्। (४६८) तदिदमुक्तम् स्फुटमिति।
॥ संवादरहितवेदभागदृष्टान्तेन कृत्स्नवेदस्याप्रामाण्ये प्रत्यक्षस्याप्रामाण्यप्रसङ्गः॥
आद्ये द्वितीयं दूषयति यदीति।
यद्यागमस्य नो मात्वमक्षजस्य तथा भवेत्॥१२४॥
यदि भागविशेषस्य संवादाभावेन कृत्स्नस्याप्यागमस्य नो मानत्वं अप्रमाणत्वमित्युच्यते, तर्हि अक्षजस्य प्रत्यक्षमात्रस्य तथा अप्रमाणत्वं भवेत्। अस्मत्सुखादिविषयस्य प्रत्यक्षस्य संवादाभावात्। यदिच संवादरहितस्यैव वेदभागस्य नो मानत्वमित्युच्यते, तदाऽस्मत्सुखादिविषयस्य प्रत्यक्षस्य अप्रामाण्यं भवेदेवेति। यद्यपि योगिप्रत्यक्षसंवादः प्रागुक्तः, (११११) तथाऽपि तदितरप्रमाणापेक्षया इदमुदितं वेदितव्यम्।
॥ प्रत्यक्षागमयोः स्वतः प्रामाण्यम्॥
स्यादेतत्। प्रत्यक्षं स्वत एव प्रमाणम्, तत्र किं संवादेनेत्यत आह यद्यक्षजस्येति।
यद्यक्षजस्य मात्वं स्यादागमस्य कथं न तत्।
यदि संवादेन विनाऽक्षजस्य स्वत एव प्रमाणत्वं स्यात्, तर्हि आगमस्य तत् स्वत एव प्रामाण्यं कथं न भवेत्? अविशेषाद् भवेदेव।
॥ वेदानां उन्मत्तवाक्यदृष्टान्तेन अप्रामाण्ये, प्रत्यक्षस्यापि रजतप्रत्यक्षदृष्टान्तेनाप्रामाण्यप्रसङ्गः॥
द्वितीयं निराकरोति यद्यागमस्येति। यदि वाक्यत्वमात्रेणोन्मत्तवाक्यवदागमस्य नो मानत्वमित्युच्यते, तर्ह्यक्षजत्वेन शुक्तिरजतादिविषयाक्षजवत् स्तम्भाद्यक्षजस्याप्यप्रामाण्यं स्यात्, अविशेषात्। निर्दोषत्वात् स्तम्भादिविषयमक्षजं प्रमाणमित्यत आह यद्यक्षजस्येति। यदि निर्दोषत्वात् स्तम्भादिविषयस्याक्षजस्य प्रमाणत्वं स्यात्, तर्ह्यागमस्यापि तत एव कथं न भवेत्? नह्यपौरुषेयस्य सदोषता सम्भवति। वेद इत्युपक्रमात् तथैव वक्तव्ये यदागमस्येति वदति, तदनेनैव न्यायेन पौरुषेयागमस्यापि प्रामाण्यं साधनीयमिति सूचयितुम्।
॥ तृतीयचतुर्थपक्षनिरासः॥
तृतीयं निराकरोति लोकेति।
लोकवाक्याद् विशेषश्चाव्यभिचारेण सिद्ध्यति॥१२५॥
उन्मत्तादिवाक्यात्। विशेषो वेदस्य। अव्यभिचारेण बाधराहित्येन। नहि वैदिकोऽर्थः प्रत्यक्षसिद्धः, येन तत् तत्र बाधकतयाऽवकाशं लभेत। एतेन चतुर्थोऽपि निरस्तः।
॥ अनुमानेनापि मोक्षसद्भावसमर्थनम्॥
तदेवं प्रत्यक्षागमाभ्यां मोक्षं साधयतेहामुत्र फलभोगवैराग्यवतां योगिनां प्रवृत्तिः सफला, प्रेक्षावत्प्रवृत्तित्वात्; सम्मतवदित्यनुमानमपि सूचितम्। अनुमानप्रामाण्यं च प्रागेव समर्थितम्। (६५१,५६५)
॥ किरणावल्युक्तमोक्षसाधनानुमानभङ्गः॥
अपरे पुरननुमिमते दुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वात्; दीपज्वालासन्ततिवदिति। तदसत्। सकलजीवगतदुःखसन्ततिपक्षीकारेंऽशे बाधितत्वात्। नित्यसंसारिणां केषाञ्चित् सत्त्वस्य तैरप्यङ्गीकृतत्वात्, समर्थयिष्यमाणत्वाच्च। (१२०६) तद्व्यतिरिक्तजीवगतदुःखसन्ततिपक्षीकारे तु तत्रैव व्यभिचारात्। पार्थिवपरमाणुरूपादिसन्ताने व्यभिचाराच्च। सर्वमुक्तिपक्षे फलमूलयोरभावेन सोऽप्यत्यन्तमुच्छिद्यत एवेति चेत्, न। सर्वमुक्तिपक्षस्यैव निराकरिष्यमाणत्वात्। (३४३८) कालक्षणसन्ताने व्यभिचाराच्च।
किञ्च दुःखसन्ततिशब्देन दुःखान्येवोच्यन्ते, उत तद्धर्मः कश्चित्? आद्ये सिद्धसाधनता। मोक्षमनङ्गीकुर्वताऽपि दुःखानां विनाशिताभ्युपगमात्। अत एवात्यन्तमित्युक्तमिति चेत्। कोऽस्यार्थः? किं सर्वाण्यपि दुःखान्युच्छिद्यन्त इति, उत निःशेषतयोच्छिद्यन्त इति, अथवा तत्र दुःखान्तरानुत्पादेनेति। न प्रथमः, सिद्धसाधनतानिस्तारात्, सर्वेषामपि दुःखानां परेणानित्यतायाः स्वीकृतत्वात्। अत एव न द्वितीयः, नहि दुःखं सावयवद्रव्यम्, येन सशेषमुच्छिद्यत इति शयेत। न तृतीयः, दृष्टान्तस्य साध्यविकलत्वात्। नहि दीपज्वालासन्ततिरेवमुच्छिद्यते। तत्रैव पुनर्ज्वालान्तरोदयसम्भवात्। न द्वितीयः, दुःखधर्मो हि जातिर्वा, तदन्यो वा। आद्येऽपसिद्धान्तः। जातेर्नित्यत्वाङ्गीकारात्। न द्वितीयः, आश्रयासिद्धेः। गुणेषु जातिव्यतिरिक्तधर्मानङ्गीकारात्। अङ्गीकारेऽप्यर्थान्तरता स्यात्। नहि दुःखधर्मस्य कस्यचिद् विनाशसिद्धौ मोक्षसिद्धिरिति।
॥ लीलावल्युक्तमोक्षसाधकानुमानभङ्गः॥
आत्मा कदाचिद् ध्वस्ताशेषविशेषगुणः, विभुत्वे सति कार्यविशेषगुणवत्त्वात्; महाप्रलयावस्थायामाकाशवदिति चासत्। सर्वात्मपक्षीकारे परमेश्वरात्मनि बाधात्, असिद्धेश्च। जीवात्मपक्षीकारेऽपि संसार्येकस्वभावानां जीवानां स्वयमेवोररीकृतत्वेन तत्र बाधात्। तदतिरिक्तजीवपक्षीकारे तत्रैवानैकान्त्यात्। जीवात्मनां विभुत्वाभावेनासिद्धेश्च।
आत्मत्वं कदाचिद् ध्वस्ताशेषविशेषगुणद्रव्यनिष्ठमिति प्रतिज्ञार्थ इति चेत्, न। तथासति हेतोरसिद्धिप्रसङ्गात्। जातित्वं हेतुरिति चेत्, न। पूर्वानुमानदोषापरिहारात्, घटत्वादावनैकान्तिकत्वाच्च।
अशेषविशेषगुणशून्यद्रव्यनिष्ठमिति प्रतिज्ञार्थ इति चेत्, न। सगुणानामेव द्रव्याणामुत्पादस्य समर्थितत्वात्। (६८७) विभुकार्यविशेषगुणवद्वृत्तिजातित्वस्य हेतुत्वान्न कोऽपि दोष इति चेत्, न। कार्यविशेषगुणवत्पदस्य वैयर्थ्यात्। तत्त्यागेऽप्यर्थान्तरत्वात्। अशेषविशेषगुणध्वंसो न मोक्ष इति वक्ष्यमाणत्वात्। (१३२९)
॥ श्रीवल्लभोक्तमोक्षसाधकानुमानभङ्गः॥
एतेन देवदत्तो देवदत्ताधर्मसमानकालीनदेवदत्तगतत्वानधिकरणदुःखध्वंसाधिकरणम्, दुःखित्वात् यज्ञदत्तवदिति विशिष्टव्यतिरेक्यनुमानमपि निरस्तम्। अर्थान्तरतापरिहारादित्यास्तां प्रपञ्चः।
॥ जैनेन धर्मज्ञानसमुच्चयस्य मोक्षसाधनत्वप्रतिपादनम्॥
इदानीं जैनोक्तमोक्षसाधनं दूषयितुमनुवदति अस्तीति।
अस्ति मोक्षोऽपि धर्मेण यथार्थज्ञानतोऽपि च।

यदिदं मोक्षास्तित्वं समर्थितम्, तत् साध्विति जैनाः प्राहुरिति सम्बन्धः। अङ्गीकृतश्चेन्मोक्षसद्भावः, तदा तत्साधनमपि किञ्चिदङ्गीकार्यमेव। तथाच का विप्रतिपत्तिरित्याशयवान् पृच्छति अपीति। किन्तर्हीत्यर्थः। उत्तरमाह धर्मेणेति। लभ्यत इत्याहुः। अपिचावितरेतरसमुच्चये। यद्यपि मोक्षं तत्साधनं चाभ्युपयन्ति जैनाः, तथाऽपि तद्विशेषे विप्रतिपद्यन्ते। यतः सम्यग्ज्ञानसम्यक्चारित्र्यसमुच्चयसाध्यं मोक्षमाहुरित्याशयः। सम्यग्दर्शनं यद्यपरोक्षज्ञानम्, तदा यथार्थग्रहणेनैव गृहीतम्। यदिच स्वसमयपरिपालनम्, तदा धर्मग्रहणेनेति पृथग्ग्रहणं व्यर्थमिति सूचयितुं द्वयोरेव ग्रहणम्।
॥ अनुमिताप्तत्ववज्जिनवाक्यं धर्मज्ञानसमुच्चयस्य मोक्षसाधनत्वे प्रमाणम्॥
धर्मज्ञानसमुच्चयसाध्यत्वं मोक्षस्य कथञ्चिदस्माभिरप्यङ्गीक्रियते। अतो विप्रतिपत्त्यन्तरं दर्शयति प्रामाण्यमिति।
प्रामाण्यमनुमायाश्च जिनस्याऽप्तत्वसाधने।
तद्वाक्यात् धर्मसज्ज्ञानविज्ञप्तिर्भवतीति च॥१२६॥
जिन आप्तः, अस्खिलतवाक्यत्वात्; इत्याद्यनुमायाः। चशब्दाज्जिनदर्शिनां वाक्यस्य च। तद्वाक्यात् जिनवाक्यात्। इति च जैनाः प्राहुः। अनुमानाद्यवगताप्तभावजिनवाक्यान्मोक्षसाधनसिद्धिमाहुः। नतु स्वतः प्रमाणाद् वेदादित्याशयः। मोक्षसाधनविषयां विप्रतिपत्तिं दर्शयितुमुपक्रम्य प्रमाणविप्रतिपत्तिप्रदर्शनमसङ्गतमिति चेत्, न। साधनज्ञापकस्यापि साधनत्वात्।
॥ अहिंसादिरेव धर्मः, आत्मविविक्तत्वादिरूपेण पुद्गलदर्शनं ज्ञानम्॥
धर्मज्ञानस्वरूपेऽपि विप्रतिपत्तिं दर्शयति धर्म इति।
धर्मोऽहिंसापरो नान्यो ज्ञानं पुद्गलदर्शनात्।
इति जैनाः.........................॥१२७॥
अहिंसा परा प्रधानभूता यस्मिन् स तथोक्तः। एतदस्माकमपि सम्मतमित्यत उक्तम् अन्यो हिंसासहितो यज्ञादिर्न धर्म इति। आत्मविविक्तत्वादिरूपेण पुद्गलस्य देहस्य दर्शनम्। यद्वा पुद्गलस्य आत्मनो देहादिविविक्ततया दर्शनम्। अत्रापि नान्यद् यत् सिद्धान्तिना विवक्षितमित्यनुवर्तते।
॥ जिनवाक्यस्य अनुमानेन प्रामाण्यसाधनायोगः॥
दूषयति कथमिति।
........कथं तत् स्यात् प्रमाणमनुमानतः॥१२७॥
तज्जिनवाक्यमनुमानेन प्रमाणमिति प्रतिपत्तव्यं कथं स्यात्? अनुमानेन वाक्येन च जिनस्याऽप्तत्वमवधार्याऽप्तवाक्यत्वानुमानेन मोक्षसाधनं धर्मं ज्ञानं च प्रतिपादयतो जिनवाक्यस्य प्रामाण्यावधारणं यदुक्तम्, तन्नोपपद्यत इत्यर्थः।
॥ निर्दोषविषयसन्निकृष्टनिर्दोषेन्द्रियं प्रत्यक्षम्॥
कुतो नोपपद्यत इत्यतो हेतुं वक्तुमुपोद्घातत्वेन प्रत्यक्षानुमानागमस्वरूपं क्रमेण तावदाह विषयानिति।
विषयान् प्रति स्थितं ह्यक्षं प्रत्यक्षमिति गीयते।
प्रत्यक्षशब्दानुसारादनुमेति प्रकीर्तिता॥१२८॥
आ समन्ताद् गमयति धर्माधर्मौ परं पदम्।
यच्चाप्यतीन्द्रियं त्वन्यत् तेनासावागमः स्मृतः॥१२९॥
विषयान्निर्दोषान् प्रति स्थितं तैः सन्निकृष्टमक्षमदुष्टमिन्द्रियम्। जातावेकवचनम्। यस्येन्द्रियस्य यो विषयोऽन्वयव्यतिरेकाभ्यामवगतः, तेनादोषेण सन्निकृष्टमदुष्टं तत् प्रत्यक्षमित्यर्थः। अनेन प्रादिसमासोऽयं नाव्ययीभाव इति सूचितम्। तथासति प्रत्यक्षस्येति षष्ठी न श्रूयेत। यद्यपि प्रतिस्थितमक्षं प्रत्यक्षम्, तथाऽपि योग्यतया विषयाणां सम्बन्ध इति हिशब्देनाऽचष्टे।
॥ प्रत्यक्षमागमं चानुसरन्मानं अनुमानम्॥
प्रत्यक्षशब्दानुसारात् प्रत्यक्षागमानुसारेणैव मानत्वम्। अनुसरणं च तद्गृहीतधर्म्यादिमत्त्वम्, तदबाधिताप्रतिबद्धविषयत्वं च। प्रकीर्तिताऽनुमेति शेषः। याऽनुमा प्रसिद्धा साऽस्मान्निमित्तादनुमेति प्रकीर्तिता। यद्यप्यनुसृता माऽनुमा, तथाऽपि सामर्थ्यात् प्रत्यक्षादिसम्बन्धः। अनुमानमूलाऽनुमाऽप्यन्ततः प्रत्यक्षादिमूलैवेत्युक्तं प्राक्। (९३७)
॥ आ गमनात् अतीन्द्रियादिसर्ववस्तुप्रत्यायकत्वात् आगमः॥
आ इत्यनुवादेन समन्तादिति व्याख्यानम्। सम्यक् चेत्यपि ग्राह्यम्। गमयति ज्ञापयति। करणे कर्तृत्वोपचारः। “ग्रहवृदृनिश्चिगमश्च” इत्यकर्तरि कारके भावे वा अपो विधानात्। अनुप्रमाणविषयं चेदं व्याख्यानं ज्ञातव्यम्। यच्च धर्मादिभ्योऽन्यदतीन्द्रियमपिशब्दादननुमितं च। तुशब्दोऽवधारणे। तेनैवेति सम्बद्ध्यते। यद्यप्या सम्यक् समन्तात् सर्वं गम्यते अनेनेत्यागमः, तथाऽपि प्रत्यक्षानुमानागतेऽर्थे तस्य वैयर्थ्यादतीन्द्रियमपीत्युक्तम्। तस्य विवरणम् धर्मेत्यादि। य आगमः प्रसिद्धोऽसौ।
॥ प्रत्यक्षादिशब्दप्रवृत्तिनिमित्तान्येव तल्लक्षणानि॥
निर्वचनमात्रमेवैतत् प्रत्यक्षादिशब्दानाम्। नच निर्वचनलभ्योऽर्थोऽतिव्याप्तिपरिहारेणावश्यम्भावीत्यस्ति नियमः। व्याघ्र्पर्ण्यादिष्वभावादिति न मन्तव्यमित्याशयवानाह एतेनेति।
एतेन कारणेनैव तत्तन्मानत्वमिष्यते।
स्वरूपं हि तदेतेषामन्यथासिद्धिमानतः॥१३०॥
तत्तन्मानत्वं प्रत्यक्षादीनां प्रत्यक्षादित्वं प्रत्यक्षादिशब्दवाच्यत्वमिष्यते प्रामाणिकैः। प्रत्यक्षादिषु प्रत्यक्षादिशब्दप्रवृत्तौ निमित्तमेवैतत्, नतु निर्वचनमात्रलभ्योऽर्थ इत्यर्थः। कुत इत्यत आह स्वरूपं हीति। तत् निर्दोषविषयसन्निकृष्टनिर्दोषेन्द्रियत्वादिकम्, एतेषां प्रत्यक्षादीनां स्वरूपं लक्षणं हि इत्यर्थः। लक्षणं हि शब्दप्रवृत्तिनिमित्तं भवति। एतदपि कुत इत्यत आह अन्यथेति। अन्यथासिद्धिश्च तन्मानं च। प्रकारान्तरेण प्रत्यक्षादिलक्षणानां निरूपयितुमशक्यत्वादित्यर्थः। तथाचोक्तम्। (४९१४९५)
॥ जिनवाक्यस्य आगमत्वेन प्रामाण्याभावः॥
ततः किं यद्येवं प्रत्यक्षादिस्वरूपमित्यत आह अत इति।
अतोऽनुमा कथं धर्मं पुद्गलं चापि दर्शयेत्।
अनुमेत्यनुमानावगतप्रामाण्यं जिनवाक्यमुच्यते। चापिशब्दावितरेतरसमुच्चये। दर्शयेत् प्रतिपादयेत्।
इदमुक्तं भवति जिनवाक्याद् धर्मादिसिद्धिरिति वदता किं प्रमाणमुक्तं भवति? आगम इति चेत्, न। सम्यक् प्रत्यक्षाद्यनधिगतार्थप्रतिपादकस्यैवाऽगमत्वात्। जिनवाक्यस्य च तदसिद्धेः। जिनो हि प्रमाणेनार्थमुपलभ्य वाक्यं प्रणीतवान्, अन्यथा वा? द्वितीये पौरुषेयस्य निर्मूलस्योन्मत्तवाक्यवत् सम्यक्त्वं दुर्लभम्। आद्ये प्रत्यक्षेणानुमानेन वाऽवगतौ तदनधिगतार्थतासम्भवः। वाक्यान्तरेण चेत्, अन्धपरम्परापत्त्या पुनरसम्यक्त्वमेव। एतेन विमतं प्रमाणम्, आप्तवाक्यत्वात्; जिन आप्तः, अस्खिलतवाक्त्वादित्यनुमानं जिनदर्शिनां वाक्यं च प्रत्युक्तम्। तथाहि आप्तत्वविषयं वाक्यं तावन्निर्मूलं चेदसम्यगेव। वाक्यान्तरमूलत्वेऽपि तथा। नच प्रत्यक्षं मूलम्। विषयान् प्रति स्थितस्याक्षस्य प्रत्यक्षत्वात्।
॥ जिनस्याऽप्तत्वसाधकानुमानस्य अनुमानत्वाभावः॥
नचाऽप्तत्वरूपापरचित्तवृत्तिरपरोक्षविषयतामश्नुते। अतोऽस्खिलतवाक्त्वाद्यनुमानमूलमित्येव वक्तव्यम्। नचैतदनुमानम्। प्रत्यक्षाद्यनुसरणेनार्थगमकस्यानुमानत्वात्। नचैतत् प्रकृतेऽस्ति। आप्तवाक्यत्वादित्यस्य हि यथाश्रुतार्थत्वे क्वचिदाप्तस्य विप्रलम्भकस्याज्ञस्य वाक्ये व्यभिचारः। आप्तिमूलवाक्यत्वादित्यभिप्राये विशेषणासिद्धिः। तत्वज्ञानादिलक्षणा खल्वाप्तिः। तत्र धर्मादिविषयं तत्वज्ञानं तावन्न जिनस्य प्रत्यक्षजन्यम्। विषयान् प्रति स्थितस्याक्षस्य प्रत्यक्षत्वात्। धर्मादेश्चाक्षाविषयत्वात्। तथात्वे वाऽन्येषामपि तदधिगतिप्राप्तेः। अत एव नानुमानजन्यम्। वाक्यान्तराभ्युपगमे त्वन्धपरम्परैव। एवमविप्रिलप्साऽपि दुरधिगमा।
॥ बाधितविषयं चाऽप्तत्वानुमानम्॥
अत एवाऽप्तत्वसाधकमनुमानं कालात्ययापदिष्टम्। आप्तेरुक्तविधया बाधितत्वात्। अन्येषामप्रत्यक्षेऽर्थेऽस्य प्रत्यक्षं प्रवर्तत इत्यतो न विरोध इति चेत्, न। पुरुषत्वादिना सत्प्रतिपक्षत्वात्। अस्खिलतवाक्यं च क्वचिद् वा, प्रकृते वा, सर्वत्र वा? नाऽद्यः, यः क्वचिदस्खिलतवागसौ विषयविशेष आप्त इति व्याप्त्यभावात्। न द्वितीयः, निर्धारणोपायाभावात्। फलप्राप्त्यनुमेयं खल्वेतत्। अत एव न तृतीयोऽपि।
यत्तु निःस्वेदत्वादिकं लिङ्गमुच्यते तत् तावत् सन्दिग्धासिद्धम्, औषधादिना सम्भवदन्यथासिद्धं च। नचायं मन्वादिवाक्येष्वपि प्रसङ्गः। अपौरुषेयतया मूलानपेक्षवेदमूलत्वात्। “यद्वै किञ्चन मनुरवदत् तद् भेषजम्” इत्यादिवेदेनैवाऽप्तत्वादिनिश्चयाच्च। अतः प्रत्यक्षादीनामुक्तलक्षणत्वाज्जिनतद्दर्शितप्रत्यक्षे, परोपन्यस्तानुमाने, जिनादिवाक्ये च तदभावादनुमानादिसिद्धाप्तभावजिनवाक्याद् धर्मादिसिद्धिरित्यसदिति।
॥ आत्मनः कायपरिमाणत्वाद्यानुपपन्नभाषित्वादपि जिनस्याऽप्तत्वासिद्धिः॥
न केवलं जिनस्यास्खिलतवाक्त्वं निश्चायकाभावादसिद्धम्, किन्तु स्खलनदशर्नादपीत्याशयेन आह स्वरूप इति।
स्वरूपेऽपुद्गलस्योक्ता दोषाः............।
विषयसप्तमीयम्। अपुद्गलशब्देन नञिवयुक्तन्यायेन पुद्गलाद् देहादन्यस्तत्सदृशश्चाऽत्मोच्यते, पुद्गलशब्देनैव वा। उक्ताः “एवं चाऽत्माकार्त्स्न्यम्” इत्यादिना। (८१६)
अयमर्थः जिनेन आत्मस्वरूपं शरीरपरिमाणं रूपवच्चोक्तम्। तत् प्राग् दूषितमिति स्खिलतवागसाविति। यद्यपि सप्तभङ्गिनयोऽपि तदुक्तो दूषितः, तथाऽपि मोक्षसाधनं यत् पुद्गलदशर्नमुक्तम्, तत्रैव स्खलनप्रदर्शनायेयमुक्तिः। नन्वेतदपि पूर्ववाक्येन सिद्धम्। सत्यम्। प्रपञ्चार्थ उत्तरप्रबन्ध इत्यदोषः।
॥ आत्मनः आनन्दरूपत्वानङ्गीकारादपि तस्य स्खिलतवाक्त्वम्॥
प्रकारान्तरेणाऽत्मस्वरूपे जिनवचनस्खलनं दर्शयति आनन्दमेवेति।
.......................... आनन्दमेव च।
न मन्यतेऽपुद्गलं स दुःखाभावः सुखं त्विति॥१३१॥
अत्राप्यपुद्गलपुद्गलशब्दाभ्यामात्मोच्यते। तत्वविद आत्मानमानान्दमेवाऽनन्देनात्यन्ताभिन्नं मन्यन्ते। स जिनस्तमानन्दमेव न मन्यते। भिन्नत्वादिना सप्तप्रकारं ब्रवीति। तत् सप्तभङ्गीनयनिरासेन “पुंस्त्वादिवत्” इत्यात्मनः सुखाद्यत्यन्ताभेदसाधनेन च निरस्तम्। अतश्च स्खिलतवागसाविति भावः।
॥ सुखस्य दुःखाभावरूपत्वाङ्गीकारादपि स्खिलतवाक्त्वम्॥
इतश्च तथेत्याह दुःखेति। तुशब्द आत्मव्यावृत्त्यर्थः। इतिशब्दो हेतौ। पूर्वेणैव सम्बन्धः। यस्मादात्मा भावः। सुखं तु दुःखाभावः। नच विरुद्धस्वभावयोरत्यन्ताभेदो दृष्टः। तस्मादात्मा न सुखात्यन्ताभिन्न इति जिनो ब्रूते। तच्चायुक्तमित्यतः स्खिलतवागसौ।
॥ तारतम्योपेतत्वात् सुखस्य भावरूपत्वमङ्गीकार्यम्॥
कुतस्तदयुक्तमित्यत आह मात्रेति।
मात्राभोगातिरेकेण सुखाधिकस्य दर्शनात्
मीयन्त इति मात्राः शब्दाद्या विषयाः। भोगोऽनुभवः। उपलक्षणं चैतत्। विषयभोगाल्पत्वेन सुखाल्पत्वदर्शनत्वादित्यपि ग्राह्यम्। सुखं भावः, तारतम्योपेतत्वात्; दुःखादिवदिति प्रमाणविरुद्धत्वात् सुखस्य दुःखाभावत्ववचनमयुक्तमित्यर्थः। सुखस्य तारतम्योपेतत्वसमर्थनाय, दर्शनादिति साक्षी तत्र प्रमाणत्वेन दर्शितः। यस्तु तत्रापि विप्रतिपन्नः, तं प्रत्यनिष्टप्रसङ्गं सूचयितुं मात्राभोगातिरेकेणेत्युक्तम्। यदि सुखं निरतिशयं स्यात्, तदा प्रेक्षावतां विषयभोगातिरेकोपादनं व्यर्थं स्यात्। दृश्यते च तदिति।
॥ सुखस्याभावरूपत्वे प्रमाणाभावः॥
ननु न सुखं तारतम्योपेतम्, किन्तु दुःखं भावभूतं तारतम्योपेतम्, तदभावश्च सुखम्। तद् यावद्यावन्निवर्तते तावत्तावत् सुखमिति प्रतीयते। नच प्रतियोगिरूपोपाधिनिमित्ता तारतम्योपलब्धिः, तात्त्विकं तदुपपादयितुमीष्टे। विषयभोगातिरेकोपादानं च दुःखातिरेकव्यावृत्त्यर्थम्। विषयभोगसाध्यत्वाद् दुःखाभावस्येत्यत आह सुखस्येति।
सुखस्याभावता केन नच स्यात् किं विपर्ययः॥१३२॥
भवेदेतत् प्रतीत्यादेरौपाधिकत्ववर्णनम्, यदि सुखस्याभावता प्रमाणेन सिद्धा स्यात्। सुखस्याभावता केन? न केनापि प्रमाणेन सिद्धेत्यर्थः। एवमेव प्रतीत्यादेरौपाधिकत्ववर्णने बाधकमाह नचेति। यदि निर्निबन्धनमेव सुखतारतम्यदशर्नादेरौपाधिकत्वं कल्प्यते, तदा सुखं भावरूपम्, दुःखं तदभावः। तत्र तारतम्यदर्शनं प्रतियोगिसुखोपाधिनिमित्तम्। सुखनिवृत्त्यर्थानि चाहिकण्टकादीनीति परोक्तविपयर्यश्च किं न स्यात्? स्यादेव। अतो द्वयोरप्यनुपलभ्यमानविशेषत्वात् स्वाभाविकतारतम्ययोर्भावत्वमङ्गीकर्तव्यमिति।
॥ वस्तुत्वहेतुना सुखस्याभावत्वसाधानयोगः॥
सुखमभावः, वस्तुत्वात्; सम्मताभाववदिति प्रमाणसद्भावात् कथं सुखस्याभावता केनेत्युक्तमिति चेत्। किमेवंवादिनो मते कश्चिद् भावो विद्यते, उत सर्वेऽप्यभावाः? आद्ये दोषमाह यदीति।
यदि भावोऽपि कश्चित् स्यात् तस्यैवाभावता कुतः।
वस्तुत्वेन सुखस्याभावतामनुमिमानस्य मते यदि कश्चित् पदार्थो भावोऽपि स्यात्, तर्हि तस्य सुखस्यैव अभावता कुतः? अपितु भावत्वेनाङ्गीकृतस्यापि पदार्थस्याभावता स्यात्। अन्यथा वस्तुत्वस्य तत्र व्यभिचारापत्तेः।
॥ सुखस्यान्योन्याभावलक्षणाभावत्वसाधने सिद्धसाधनता॥
ननु सर्वेऽपि पदार्था अभावा भवन्त्येवति नोक्तो दोषः। यद्यपि घटादीनामनादित्वाद्यापत्त्या प्राक्प्रध्वंसात्यन्ताभावत्वमनुपपन्नम्, तथाऽप्यन्योन्याभावत्वं युज्यत एव। घटे हि पटाद्यन्योन्याभावः प्रमाणसिद्धः। नचान्योन्याभावो धर्मिणोऽन्योऽस्ति। अतो घट एव पटाद्यन्योन्याभावः। एवं पटादयोऽपीति द्वितीयं शङ्कते यदि सर्वेऽपीति।
यदि सर्वेऽप्यभावाः स्युरन्योन्यमिति भावता।
अभावाभावतैव स्यात् किं नश्छिन्नं तदा भवेत्॥१३३॥
सर्वेऽपि पदार्था अन्योन्याभावाः स्युरिति यदि मन्यस इत्यर्थः। उत्तरमाह भावतेति।तदैवं सर्वपदार्थानामन्योन्याभावत्वव्युत्पादनेन नोऽस्माकं किं छिन्नं भवेत्? न किमपि। कथम्? यतोऽभावाभावता भावतैव स्यात्।
इदमुक्तं भवति सुखस्य वस्तुत्वेन साध्यमानमभावत्वं किं प्रागभावादित्रयान्यतमत्वम्, अथवाऽन्योन्याभावत्वम्, उत सामान्यम्? आद्ये प्रागुक्तदोषापरिहारः। द्वितीयतृतीययोः सिद्धसाधनम्। अस्माभिरपि सुखादीनां सर्वपदार्थानामन्योन्याभावतास्वीकारात्। नच भावत्वाङ्गीकारविरोधः। सुखं हि स्वान्योन्याभावदुःखान्योन्याभावः। अभावाभावश्च भाव एव। एवम्भूतं चाभावत्वं सुखस्य नाऽत्मस्वरूपतां विरुणद्धि। आत्मनोऽपि तथात्वादिति।
॥ अभावाभावस्य भावरूपत्वसमर्थनम्॥
अभावाभावता भावतैव स्यादित्युक्तम्। तदुपपादयितुं भावाभावस्वरूपं तावदाह भावत्वमिति।
भावत्वं विधिरूपत्वं निषेधत्वमभावता।
निषेधस्य निषेधोऽपि भाव एव बलाद् भवेत्।
प्रथमप्रतिपत्तिस्तु भावाभावनियामिका॥१३४॥
भावत्वं नाम विधिरूपत्वम्, अभावत्वं नाम निषेधत्वमिति योजना। शब्दप्रवृत्तिनिमित्तनिष्कर्षार्थं भावप्रत्ययः। अन्यथेन्द्रः पुरन्दर इतिवत् स्यात्।
ततः किमित्यत आह निषेधस्येति। यस्मादभावो नाम निषेधः, तस्मादभावस्याभाव इति निषेधस्यापि निषेध इत्युक्तं स्यात्। स च विधिरेव भवेत्। दर्शनबलात्। दृष्टो हि “नेयङुवानौ” इति निषेधस्यास्त्रीति निषेधो विधिः। वक्ष्यते चैतत्। (१२८५) विधिश्च भाव एवेत्युक्तम्। तस्मादभावाभावता भावतैवेति युक्तम्।
एवन्तर्हि द्रव्यादयो भावाः, प्रागभावादयोऽभावा इत्यन्यत्रोक्तनियमो न स्यात्। घटस्यापि न पट इति निषेधरूपतायाः प्रागभावस्यापि प्रमेय इति विधिरूपताया दर्शनादित्यतः प्रागुक्तं स्मारयति प्रथमेति। कृतव्याख्यानमेतत्। (५५७, ७४२)
॥ पुद्गलज्ञानस्य अचेतनत्वात् साक्षात् मोक्षसाधनत्वाभावः॥
एवं जिनस्य स्खिलतवाक्त्वप्रदर्शनेन तदुक्तस्य मोक्षसाधनस्याप्रामाणिकत्वमुक्तम्। युक्तिविरुद्धत्वं च दर्शयन्नात्मज्ञानस्य यन्मोक्षसाधनत्वमुक्तं तत् किं साक्षात्, उताऽत्मप्रसादद्वारेति विकल्प्य आद्यं तावन्निराकरोति नचेति।
नच पुद्गलविज्ञानं मोक्षदं भवति क्वचित्।
आत्मविज्ञानं मोक्षदं न भवति अचेतनत्वात्; पटवदिति शेषः। अस्य व्याप्तिमुपपादयति क्वचिदिति। नेति वर्तते। मोक्षदमिति च। तच्च भावप्रधानम्। नहि क्वचिदप्यचेतने मोक्षदत्वं दृष्टम्। येन व्याप्तिर्न स्यात्। कर्मणस्तथात्वं निराकरिष्यते। (११२७) ज्ञानं तु चैतन्यमेव न चेतनमिति प्रसिद्धमेव।
॥ पुद्गलस्यास्वातन्त्र्यात् तज्ज्ञानस्यापि मोक्षसाधनत्वाभावः॥
आत्मा ज्ञातः प्रसन्नो मोक्षं ददातीति द्वितीयं दूषयति अस्वातन्त्र्यादिति।
अस्वातन्त्र्यात् पुद्गलस्य ज्ञातोऽपि सुखदो नहि
ज्ञात आत्माऽपि सुखदो मोक्षदो न भवति। कुतः? पुद्गलस्याऽत्मनोऽस्वातन्त्रात्। हिशब्देन पटादौ व्याप्तिः स्फुटेति सूचयति। अस्वातन्त्र्यं चानुपदमेव ज्ञास्यते। आत्मनः सुखमात्रदानं नोपपद्यते। किमुतानन्तसुखमोक्षदानमिति सूचयितुं सुखद इत्युक्तम्।
॥ दुःखिज्ञानस्य दुःखनिवर्तकत्वासम्भवः॥
पक्षद्वयं हेत्वन्तरेण निराकरोति नहीति।
नहि दुःखिपरिज्ञानात् दुःखित्वं विनिवर्तते॥।१३५॥
आत्मज्ञानमात्यन्तिकदुःखनिवृत्तिहेतुर्न भवति, दुःखिज्ञानत्वात्; देवदत्तज्ञानवत्। जैनेनापि स्वात्मज्ञानमेव मोक्षसाधनमुच्यते नाऽत्मज्ञानमात्रम्। ईश्वरज्ञाने व्यभिचारनिरासाय दुःखीत्युक्तम्। तस्यापि साक्षान्मोक्षसाधनत्वाभावविवक्षायां ज्ञानत्वादित्येव वक्तव्यम्। यद्वाऽऽत्मा दुःखं निवर्तयितुमशक्तः, दुःखित्वात्; यो यदनर्थवान् नासौ तन्निवर्तने शक्तः, यथा दरिद्रो दारिद्र्यनिवर्तन इति तात्पर्यार्थः। दुःखित्वोक्त्याऽस्वातन्त्र्यं समर्थितम्, स्वातन्त्र्ये हि जातु न दुःखी भवेदिति।
॥ प्रकाशतमसोरिव ज्ञानदुःखयोर्विरुद्धत्वे ज्ञानोत्पत्त्यनन्तरमेव दुःखनिवृत्तिप्रसङ्गः॥
स्यादेतत्। नाऽत्मज्ञानं देवदत्तो गामिव मोक्षं ददाति। किन्तु प्रकाशोऽन्धकारमिव विरोधाद् दुःखं निवर्तयति। तत्र किमचैतन्यं करिष्यति? स्वात्मज्ञानमेव च स्वदुःखविरोधि नाऽत्मज्ञानमात्रमिति द्वितीयहेतुरप्यप्रयोजक इत्याशयाऽह यदीति।
यदि पुद्गलविज्ञानाददुःखी स्यात् कथञ्चन।
देहवानपि नादुःखी किं ज्ञानादुत्तरं सदा।
कथञ्चन दुःखात्मज्ञानयोर्विरुद्धत्वेन। तर्हि ज्ञानादुत्तरकालं देहवानपि सदा निरन्तरमदुःखी किं न स्यात्? स्यादेव।
एतदुक्तं भवति प्रकाशः खल्वन्धकारविरोधित्वात् तन्निवर्तयन्नुत्पत्त्यनन्तरमेव निवर्तयति, नतु विलम्बेन। विलम्बे विरोधस्यैवानिर्वाहात्। तथाऽत्मतत्वज्ञानं यदि दुःखाद्यनर्थविरोधित्वात् तन्निवर्त्याऽत्मानं मुक्तं कुर्यात्, तर्हि जिनादयस्तत्वज्ञानसम्पन्ना ज्ञानोत्पत्त्यनन्तरमेव मुक्ताः स्युः। नचैवम्। देहादिमत्त्वेनोपलम्भात्। तथाविधानां च दुःखादेरवर्जनादिति। इष्टापत्तिनिरासाय सदेत्याद्युक्तम्।
अयमत्र प्रयोगः दुःखादिकमात्मतत्वज्ञानविरोधि न भवति, बहुलं कालं तेन सह स्थितत्वात्; सम्मतवदिति। किञ्चाऽत्मतत्वज्ञानं न तावदामोक्षादेकम्, ज्ञानानां क्षणिकत्वदर्शनात्; तथाच यदनन्तरं मोक्षोऽभिलष्यते तज्जिनस्य चरमज्ञानं न मोक्षसाधनम्, आत्मज्ञानत्वात्; प्रथमादिज्ञानवत्। अन्यथा प्रथममेव मोक्षं साधयेदविशेषादिति।
॥ सिद्धान्ते ज्ञानानान्तरमपि संसारानुवृत्तावीश्वरेच्छा निमित्तम्॥
ननु भवद्भिरीश्वरज्ञानं मोक्षसाधनमभ्युपेयते। तत्रापि समानमिदं दूषणमित्यत आह ईशेति।
ईशक्लृप्त्यनुसारेण स्यात् कालादीशवादिनः॥१३६॥
ईशवादिनो मम मते तदिच्छाविशेषानुसारेण कालात् कञ्चन कालमतिवाह्य मुक्तिः स्यात्। अयमभिसन्धिः न वयमीश्वरज्ञानं मोक्षसाधनमाचक्ष्महे। किन्नाम। प्रसन्नः परमेश्वर एव। ज्ञानं तु प्रसादसाधनत्वान्मोक्षसाधनमिति गीयते। स च चेतनः कामपि कालकल्पनां करोति। अस्मिन् समयेऽमुं मुक्तं करिष्यामीति। तत्कल्पनानुसारेण भवत्येवासौ मुक्त इति न कश्चिद् दोषः। यथा ब्राह्मणस्य विद्याचरणादिना प्रसन्नोऽपि प्रभुश्चेतसा कल्पयति आगामिनि सूर्योपरागेऽस्मै गां दास्यामीति। स तदनुसारेण तस्माद् गां लभते, तथैवेति।
॥ धर्मस्यापि अचेतनत्वात् न साक्षान्मोक्षसाधनत्वम्॥
एवमात्मज्ञानस्य मोक्षसाधनत्वं निराकृत्य धर्मस्यापि तं निराचष्टे कर्मेति।
कर्महेतुत्वमपि तु निश्चैतन्यान्नहि क्वचित्।
कर्मणो हेतुत्वं कर्महेतुत्वं मोक्षं प्रति। यद्वा कर्महेतुत्वमिति बहुव्रीहिः। मोक्षस्येति शेषः। तुशब्दः अवधारणे। नैवेति सम्बन्धः। निश्चैतन्यात् कर्मणः। विमतं कर्म न मोक्षसाधनं भवति, अचेतनत्वात्; पटवदित्यर्थः। व्याप्तिमुपपादयति नहीति। नेत्युभयत्र सम्बद्ध्यते। नहि क्वचिदचेतने मोक्षसाधनत्वमावयोः सम्मतम्। येनात्र व्याप्तिर्न स्यादित्यर्थः।
॥ एकस्यैव कर्मणो मोक्षसाधनत्वे कर्मोत्पत्त्यन्तरमेव मोक्षप्रसङ्गः॥
नन्वचेतनत्वेऽपि विशिष्टं कर्मेदं मोक्षसाधनं किं न स्यादिति चेत्। किमामोक्षप्राप्तेः क्रियमाणमेकमेव कर्म, उतानेकानि? नाऽद्यः, क्रियाणामनेकत्वदर्शनात् प्रतिक्रियं कर्मोत्पत्तेः। एकत्वे च जातस्यैव जन्म वा, क्रियाणां वैयर्थ्यं वा, विरम्य व्यापारो वाऽऽपद्येत। अभ्युपगम्यैकत्वं बाधकमाह अशेषेति।
अशेषदुःखविलये नेदानीं कारणं यथा।
तथोत्तरं नचैव स्याद् दृष्टिपूर्वाऽनुमा यतः॥१३७॥
यथेदानीं प्रथमक्रियोत्तरकालं जातं कर्माशेषदुःखविलये मोक्षस्य कारणं न भवति, तथोत्तरकालं विवक्षितकालेऽपि मोक्षकारणं न स्यात्। कर्मत्वादिति शेषः। एकस्यापि कर्मणः कालभेदेन भेदात् पक्षसपक्षत्वं युज्यते। विपक्षे तूत्पत्त्यनन्तरमेव मोक्षं साधयेत्, अविशेषादिति।
॥ अनेककर्मणां मोक्षसाधनत्वे पूर्वकर्मवदन्तिमकर्मणोऽपि मोक्षसाधनत्वासिद्धिः॥
द्वितीयेऽपि बाधकं प्रमाणमाह अशेषेति। अत्रेदानीमितीदानीन्तनी कर्मव्यक्तिरुच्यते। उत्तरमित्यन्तिमा। अन्यत् समानम्। नचान्तिमकर्मव्यतिरिक्तानां कर्मणां मोक्षसाधनत्वमस्ति। तथासति तदनन्तरमेव मोक्षप्रसङ्गात्। नच पूर्वसहकृस्यान्तिमस्य कर्मणो मोक्षसाधनत्वं वाच्यम्। इयत्ताभावेन अनियतकारणकत्वापत्तेः। नहि ज्ञानोदयानन्तरमियतैव कालेनेयन्त्येव कर्माणि कृत्वाऽपव्र्ज्यत इति नियमः प्रमाणवान्। नच जैनैरिष्यते। जिनानां विषमकालत्वाभ्युपगमात्।
आभासोद्धारं करोति दृष्टीति। यस्मादियं दृष्टिपूर्वा प्रमाणगृहीतव्याप्त्यादिमती। ततोऽनुमा नत्वाभास इत्यर्थः।
॥ बन्धहानेः ईश्वरप्रसादसाध्यत्वसमर्थनम्॥
यदुक्तम्, “ईशक्लृप्त्यनुसारेण” इति तदसत्। ज्ञानादीश्वरप्रसादः, ततो मुक्तिरित्यत्र प्रमाणाभावादिति चेत्, न। श्रुतेः सद्भावात्। तत्प्रामाण्यस्य साधितत्वात्। (१३८,४६८) आभासानुद्धरन्नेव चानुमानमप्याह दृष्टीति।
शक्तस्यान्यस्य विज्ञानं तत्प्रीतिजनकं यदि।
तयैव बन्धहानिः स्यादिति किं नाम दूषणम्॥१३८॥
शक्तस्यान्यस्य विज्ञानं विशिष्टज्ञानं गुणोत्कर्षादिज्ञानमिति यावत्। तत्प्रीतिजनकमिति यद्यनुमीयते, यदिच तया तत्प्रीत्यैव बन्धहानिः स्यादित्यनुमीयते, तदा किं नाम दूषणम्? न किमपि। कुतः? यतो दृष्टिपूर्वा प्रमाणगृहीतव्याप्त्यादिमतीयमनुमेत्यर्थः।
अर्थमात्रमिदमुक्तम्। एषा तु प्रयोगप्रक्रिया संसारबन्धहानिः समर्थपुरुषान्तरप्रीतिनिबन्धना, बन्धहानित्वात्; राजप्रसादाधीनभृत्यनिगडबन्धहानिवत्। यश्चासौ पुरुषः स एवेश्वरः। विप्रतिपन्ना प्रीतिर्गुणोत्कर्षादिज्ञानजा, अनिजप्रीतित्वात्; राजप्रीतिवत्। कर्मादिना भवन्नीश्वरप्रसादोऽपि गुणोत्कर्षादिज्ञाने सत्येवेति न दोषः। यद्वेश्वरविषयं गुणोत्कर्षादिज्ञानं तत्प्रीतिजनकम्, गुणोत्कर्षादिज्ञानत्वात्; सम्मतवत्। नचेश्वरासिद्ध्या दोषः। प्रथमानुमानेन तस्य सिद्धत्वात्। तदिदमुक्तम् शक्तस्यान्यस्येति।
॥ बन्धहानेः स्वज्ञानसाध्यत्वपरप्रसादसाध्यत्वाभावसाधकानुमानभङ्गः॥
नन्वेतद्विपरीतमपि मयाऽनुमीयते। ततः सप्रतिपक्षतेति चेत्। किं विमता बन्धहानिः स्वज्ञाननिबन्धनेत्यनुमीयते उत परप्रसादनिबन्धना न भवतीति। आद्ये दोषमाह स्वज्ञानादिति।
स्वज्ञानाद् बन्धहानिस्तु दृश्यते कस्य कुत्रचित्।
दृश्यत इत्येतत् काक्वा न दृश्यत इति व्याख्येयम्। तथाच व्याप्त्यभाव इति भावः। द्वितीये तु बन्धहानित्वादे राजप्रसादाधीननिगडबन्धहान्यादौ व्यभिचारः। परप्रसादनिरपेक्षैव काचिद् बन्धहानिर्दृश्यते। तत्र भवतामपि व्यभिचार इति चेत्, न। पक्षतुल्यत्वात्। सर्वाऽप्यनिष्टनिवृत्तिरीश्वरप्रसादाधीनेति हि तत्वविदां पन्थाः।
॥ जैनमते अहिंसाया धर्मत्वे प्रमाणाभावः॥
यदुक्तं धर्मज्ञानयोर्मोक्षसाधनत्वे तदैव मोक्षः स्यादिति, तदसत्। कर्मणः प्रतिबन्धकस्य सद्भावात्। नहि प्रतिबन्धकवशात् कार्यमकुर्वाणो हेतुरहेतुर्भवति, अतिप्रसङ्गात्। अनेकविधं खलु कर्म। तत्र यद्यपि ज्ञानावरणादिकं ज्ञानादेव निवृत्तम्। तथाऽप्यायुरादिकारणमस्त्येवेति चेत्।
स्यादिदं प्रतिबन्धकसद्भावकल्पनम्, यदि “अहिंसादिरूपो धर्मः, शरीरपरिमाणत्वादिना आत्मज्ञानं च तत्वज्ञानम्, एते च धर्मज्ञाने मोक्षसाधने’ इत्येषोऽर्थः प्रमितो भवेत्। नचैवम्। एवमेव कल्यनेऽतिप्रसङ्ग इत्याशयवान् धर्मादिस्वरूपे तावत् प्रमाणं नास्तीत्याह अहिंसायाश्चेति।
अहिंसायाश्च धर्मत्वं केन मानेन गम्यते।
हिंसाया एव धर्मत्वमित्युक्ते स्यात् किमुत्तरम्॥१३९॥
चशब्दो ज्ञानसङ्ग्रहार्थः। यद्वा सप्तघटिकाभोजनादिसमुच्चयार्थः। ज्ञानविशेषस्य चोपलक्षणम्। जिनवाक्येनावगम्यत इति चेत्, न। तत्प्रामाण्यसाधकाभावस्योक्तत्वात्।
सत्प्रतिपक्षं च जिनवाक्यमित्याह हिंसाया एवेति। अत्रापि पूर्ववदुपलक्षणं ज्ञातव्यम्। जिनवाक्यादहिंसाया धर्मत्वं प्रतिपन्नस्य भिन्नकाचार्येण हिंसाया एव धर्मत्वमित्युक्ते किमुत्तरं स्यात्? न किमपि। तथाच न धर्मनिश्चयः स्यात्।
भिन्नकाचार्यो नाऽप्त इति चेत्। जिनोऽपि कथमाप्तः? सार्वज्ञ्यगुणोपेतत्वादिति चेत्। भिन्नकाचार्येऽपि तुल्यमेतत्। अप्रामाणिकास्तत्र ते गुणा इति चेत्। जिनेऽपि किं प्रमाणसिद्धाः? जिनदर्शिनां वचनेन तेषां तत्र सिद्धिरिति चेत्, न। समानमन्यत्रापि। भिन्नकाचार्यदर्शिनो भ्रान्ताः प्रतारका वेति चेत्। जिनदर्शिनोऽपि कुतो न तथेति।
॥ जैनाभिमतमोक्षसाधनानामप्रामाणिकत्वम्॥
इदानीं धर्मादेर्मोक्षसाधनत्वमप्यप्रामाणिकमित्याह धर्मस्येति।
धर्मस्य सुखहेतुत्वमपि केनावगम्यते।
हत्याया मोक्षहेतुत्वं कुतो मानान्निवार्यते॥१४०॥
सुखं मोक्षः। जिनवाक्येनावसीयत इति वदतः पूर्ववत् सत्प्रतिपक्षतेत्याह हत्याया इति। मोक्षहेतुत्वं केनचिदाचार्येणोक्तमिति शेषः। “हनस्त च” इत्यत्र सुपीति नानुवर्तते। ब्रह्महत्यादयस्तु षष्ठीसमासाः। अतो हत्येति साधुः। सन्ति खलु “अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति” इत्यादि श्रुतिमनुसृत्य हिंसात्मकस्य यागस्य मोक्षहेतुत्वं वदन्त इत्ययुक्तमेव जैनानां मोक्षसाधनमिति।
॥ शून्यज्ञानशून्यभावनयोः मोक्षसाधनत्वनिरासः॥
अधुना बौद्धाभिमतं मोक्षसाधनं निराकुर्वाणः शून्यवाद्युक्तं तावदपाकरोति नचेति।
नच शून्यपरिज्ञानाच्छून्यभावनयाऽपि च।
मोक्षः कथञ्च न भवेत् ...............॥१४१॥
शून्यमेव तत्वम्, समस्तं तत्राध्यस्तमिति परिज्ञानम्। तथैव शून्यभावनया शून्यध्यानेन। अपिचावन्योन्यसमुच्चये। मोक्षो न भवेदिति सम्बन्धः। कथञ्च नेत्यनेनेदमाचष्टे शून्यपरिज्ञानादिकं मोक्षसाधनमित्यत्र प्रमाणाभावात् “तयैव बन्धहानिः स्यात्” इत्युक्तप्रमाणविरोधाच्चेति। यद्वा शून्यपरिज्ञानादिकं किं स्वयमेव मोक्षं साधयति, किंवा शून्यप्रसादजननेन? नाऽद्यः, अचेतनत्वात्; पटवत्। न द्वितीयः, शून्यस्य प्रसादगुणानङ्गीकारात्। अन्यथा शून्यत्वव्याघातादिति।
॥ शून्यज्ञानस्य मोक्षसाधनत्वे ज्ञानोत्पत्त्यनन्तरमेव मोक्षप्रसङ्गः॥
स्यादेतत्। बन्धस्तावत् संवृतिनामकाज्ञाननिमित्तोऽध्यासः। संवृतिश्च विरोधिना शून्यज्ञानेन निवर्तते। ततस्तन्मूलो बन्धाध्यासोऽपीति किमचेतनत्वादिकं करिष्यति? नचैवं भावनावैयर्थ्यम्, असम्भावनाविपरीतभावनानिवृत्त्यर्थत्वादिति। मैवम्। बन्धस्याध्यस्तताया निरस्तत्वात्। (४७) अङ्गीकृत्य दोषमाह यदीति।
...................यदीदानीं कथं न सः॥१४१॥
शून्यपरिज्ञानादित्यादिकं सर्वमनुवर्तते। शून्यज्ञानेन कथञ्चनेति शङ्कितरीत्या मोक्षो भवेदिति यद्युच्यते, तर्हि स मोक्षः कथमिदानीं ज्ञानोदयानन्तरक्षणे न भवेत्? तदैव भवितव्यमित्याशयः। नहि प्रदीपस्य विरोध्यन्धकारनिवर्तने विलम्बोऽस्ति। अङ्गीक्रियन्ते च शून्यज्ञानसमनन्तरमपि संसरन्तः पुरुषाः परेण। असम्भावनाविपरीतभावनासद्भावाद् विलम्ब इति चेत्। ते किं संवृतिकार्ये, नवा? द्वितीये शून्यवदनिवृत्तिरेव। आद्ये संवृतौ निवृत्तायां कथं तदनिवृत्तिः? अन्यथा संवृत्यनिवृत्तिर्वा तदकार्यत्वमेतयोर्वा स्यात्। संवृतेरनिवृत्तौ च कथं ज्ञानविरोधित्वम्? पश्चादपि कथं निवृत्तिः?
॥ अस्मन्मते मोक्षस्य ईश्वरप्रसादसाध्यत्वाद् विलम्बोपपत्तिः॥
ननु यथा भवन्मते ज्ञानोदयानन्तरमपि संसारावस्थानम्, तथाऽस्मन्मतेऽपि किं न स्यादित्यतो वैषम्यमाह परेति।
परप्रसादनेच्छोस्तु विलम्बो नाम युज्यते।
पुमिच्छाधीनता नो चेद् विलम्बः किङ्कृतो भवेत्॥१४२॥
अनुष्ठितस्वकृत्यस्यापि तेन परप्रसादनेच्छोस्तु फलावाप्तौ विलम्बो नाम युज्यते। लोके तथा दर्शनात्। मोक्षस्य पुरुषान्तरप्रसादाधीनता नो चेदास्थीयते, केवलं शून्यज्ञानं बन्धविरोधित्वाद् बन्धं निवर्तयतीत्यङ्गीक्रियते, तदा ज्ञानोदयानन्तरं मोक्षस्य विलम्बः किन्निबन्धनो भवेत्? प्रतिबन्धकत्वेन कल्प्यमानस्य संवृतिकायर्त्वेन ज्ञानविरोधित्वात्। नहि प्रबोधानन्तरं स्वाप्नबन्धनिवृत्तेर्विलम्बोऽस्ति।
॥ कार्यमात्रस्य ईश्वरेच्छाधीनत्वात् औषधभक्षणानन्तरमपि विरेकादौ विलम्बोपपत्तिः॥
परप्रसादानपेक्षेष्वपि कार्येषु विलम्बोऽस्ति। त्रिवृन्मूलाभ्यवहरणादौ कृतेऽपि विरेचनादेविर्लम्बदर्शनात्। तत् कथमुच्यते पुमिच्छाधीनताभावे विलम्बो न भवेदिति। तत्राऽह अन्यत्रापीति।
अन्यत्रापि विलम्बास्तु स्युरीशेच्छानिमित्ततः।
अन्यथा कारणं चेत् स्यात् किं कार्यं नोपजायते।
कारणे सति कार्यस्य भावः सुनियतोऽस्य हि॥१४३॥
मोक्षादन्यत्र। एतावता कालेनेदं भवत्वितीशेच्छैव निमित्तम्, ततः। कुतोऽत्रेश्वरेच्छा निमित्तं कल्प्यत इत्यत आह अन्यथेति। ईश्वरेच्छाया अकल्पने कारणं स्याच्चेत् त्रिवृन्मूलादनादिमात्रं विरेकादेः कारणं यदि भवेत्, तदा तस्य सद्भावात् कार्यं विरेकादिकं कस्मान्नोपजायते? उपजायेतैव। कार्यानुदयेनैव सामग्रीवैकल्यं कल्प्यते। नच दृष्टस्य वैवैकल्यमत्रास्तीति परमेश्वरेच्छैव कल्प्या। नच धर्मवैकल्यं कल्पयितुं युक्तम्, उत्तरकालमपि कार्यानुदयप्रसङ्गात्। नहि तन्मध्ये कश्चिद् धर्मोऽनुष्ठीयते। विद्यमान एव प्रागलब्धवृत्तिर्धर्म इति चेत्। केयं वृत्तिर्नाम? किं कार्यकरणम्, उत सहकारिसाहित्यम्? नाऽद्यः, करणमेव कुतो नास्तीति विचार्यमाणत्वात्? द्वितीये तदेव सहकारीश्वरेच्छैवोच्यते। औषधस्य शरीराशयव्याप्त्यभावात् कार्यानुदय इति चेत्, न। तस्यापीश्वरेच्छामन्तरेणानुपपत्तेरिति।
किञ्च प्राप्तसाधनाभिमतानामपि मोक्षविलम्बे सामग्रीवैकल्यं वा प्रतिबन्धकसद्भावो वाऽन्यैर्वादिभिः कथञ्चिच्छक्यते वक्तुम्। नतु बौद्धेनेत्याशयवानाह कारणे सतीति। अस्य बौद्धस्य मते कारणे सति कार्यस्योत्पादः सुनियतः, नत्वन्येषामिवाप्रतिबद्धकारणसामग्र्यां सत्याम्। “समर्थस्य क्षेपायोगात्” इति तद्वचनादिति हिशब्दार्थः। अतः शून्यविज्ञानादिकं न मोक्षसाधनमिति सिद्धम्।
॥ विज्ञानैक्यज्ञानविज्ञानभावनयोः मोक्षसाधनत्वनिराकरणम्॥
विज्ञानवाद्युक्तं मोक्षसाधनं दूषयति विज्ञानेति।
विज्ञानवादिनश्चैव विज्ञानाद्वैतवेदनात्।
विज्ञानभावनाच्चैव मोक्षो न घटते क्वचित्॥१४४॥
द्वितैव द्वैतम्। स्वार्थिकोऽण्। न द्वैतमद्वैतम्। विज्ञानस्याद्वैतं विज्ञानाद्वैतम्। विज्ञानमेकमेव तत्वम्, न ततोऽन्यदस्तीति वेदनात्। विज्ञानभावनात् विज्ञानाद्वैतध्यानात्। आद्यश्चशब्दो वादिसमुच्चये। द्वितीयः साधनसमुच्चये। एवशब्दो नैव घटत इत्याद्यः सम्बद्ध्यते। द्वितीयस्तु साधननियमार्थः। विज्ञानवादिन इति तेनैव ताभ्यां साधनाभ्यां भवतीति प्रतिपादितः। सामर्थ्याद् विज्ञानाद्वैतवेदनादिकं विज्ञानवादिनोक्तं मोक्षसाधनं नैवोपपद्यत इत्यर्थः। यद्वा विज्ञानवादिन इति तेन प्रतिपादितात् विज्ञानाद्वैतवेदनादिकान्मोक्षो नैव घटते नैव सम्पद्यत इति योजना। कुत इत्यतः पूर्वोक्तं सर्वं स्मारयितुं क्वचित् काले ह्यसौ, नतु ज्ञानोदयोत्तरकाल एव भवतीत्युक्तम्।
॥ क्षणिकत्वज्ञानस्य मोक्षसाधनत्वनिरासः॥
वैभाषिकसौत्रान्तिकाभिमतं मोक्षसाधनं पराचष्टे अन्तरिति।
अन्तर्ज्ञानस्य बाह्ये च क्षणिकत्वस्य वेदनात्।
भावनाच्चोक्तमार्गेण मानाभावान्न मुच्यते॥१४५॥
शरीरान्तःस्थितस्य ज्ञानस्य। उपलक्षणमेतत्। विज्ञानवेदनासञ्ज्ञासंस्काराणां बाह्ये स्थितस्य रूपस्य च यत् क्षणिकत्वं तस्य वेदनात्। उक्तमार्गेण क्षणिकत्वेन। न मुच्यते पुरुषः। कुतः? अत्रार्थे मानाभावात्। अकृताभ्यागमकृतविप्रणाशादयो दोषाः स्फुटा एवेति नोक्तः।
॥ प्रकृतिपुरुषविवेकस्य साक्षात् मोक्षसाधनत्वोक्तिनिरासः॥
एवं वेदबाह्यमतानि निराकृत्य वैदिकानि निराकुर्वाणः साङ्ख्योक्तं मोक्षसाधनं तावदनुवदति प्रकृतेरिति।
प्रकृतेः पुरुषस्यापि विवेको मुक्तिसाधनम्।
इति साङ्ख्याः नचैतस्मिन् मानमीशप्रसादतः॥१४६॥
प्रकृतेरन्तःकरणादिरूपायाः पुरुषस्य स्वात्मनः विवेकः स्वरूपतो धर्मतश्च भेददर्शनं साङ्ख्याः प्राहुः। दूषयति नचेति। एतस्मिंश्चार्थे मानं नास्ति। कथं नास्ति?
“य एनं वेत्ति पुरुषं प्रकृतिं च गुणैः सह।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते”
“क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्”
इत्याद्यागमानां सत्त्वादित्यत उक्तम् ईशप्रसादत इति। ईशप्रसादेन विना केवलं प्रकृतिपुरुषविवेको मोक्षसाधनमित्यस्मिन्नर्थे मानं नास्तीत्यर्थः।
अयमभिसन्धिः भवत्येव प्रकृतिपुरुषविवेको मोक्षसाधनम्, किन्तु भगवत्प्रसादसाधनत्वेन। प्रकृतिपुरुषविवेके हि पुरुषस्य वैराग्यं सम्पद्यते। विरक्तस्य भक्त्यादिद्वारा भगवत्प्रसाद इति। तदर्थानि चैतानि वाक्यानि। निरीश्वरेण तु साङ्ख्येन साक्षान्मोक्षसाधनत्वं प्रकृतिपुरुषविवेकस्योच्यते। नच तस्मिन् विशेषे प्रमाणमस्तीति।
॥ ईश्वरप्रसादसाधनत्वादेव प्रकृतिपुरुषविवेकस्य मोक्षसाधनत्वम्॥
नन्वेतानि वाक्यानि प्रकृतिपुरुषविवेकस्य मोक्षसाधनत्वं तावत् प्रतिपादयन्ति। नच पारम्पर्यकल्पने कारणमस्ति। अत एतेषामेव साक्षात्साधनत्वे प्रामाण्यमित्यत आह श्रुतय इति।
श्रुतयः स्मृतयश्चैव यदेशस्य प्रसादतः।
वदन्ति नियमान्मुक्तिं तमृतेऽतः कुतो भवेत्॥१४७॥
“यस्य प्रसादात्” इत्याद्याः श्रुतयः। “अज्ञानां ज्ञानदो विष्णुः” इत्याद्याश्च स्मृतयः। एवशब्दस्य न प्राकृतपुरुषवाक्यानीत्यर्थः। यदा यस्मात्। नियमात् साधनान्तरव्यवच्छेदेन। “नापरेण”। “स एवैकः” इति वचनात्। तं प्रसादम्। भवेन्मुक्तिः। बलवद्बाधकसद्भावात्, लाङ्गलेन वयं जीवाम इतिवत् पारम्पर्यपरत्वमेव तेषां वाक्यानां युक्तमिति भावः।
॥ वैशेषिकपातञ्जलनैयायिकैः ईश्वरप्रसादस्य मोक्षसाधनत्वाङ्गीकारेऽपि स्वतन्त्रसाधनत्वानङ्गीकारात् तन्मतमयुक्तम्॥
वैशेषिकाद्युक्तं मोक्षसाधनं निराकरोति कणादेति।
कणादयोगाक्षपादा अपीशस्य प्रसादतः।
मुक्तिं ब्रुवाणा अप्याहुः.................।
योगशब्देन योगानुशासनस्य प्रणेता पतञ्जिलरुपलक्ष्यते। अनुपपन्नभाषिण इति शेषः। न केवलं साङ्ख्याद्या इत्यपेरर्थः।
नन्वेते त्रयोऽपीश्ववरप्रसादसाध्यां मुक्तिं ब्रुवते। तथाहि वैशेषिकेण यद्यपि द्रव्यादिपदार्थानां साधर्म्यवैधर्म्यतत्वज्ञानं निःश्रेयसहेतुरित्युक्तम्, तथाऽपि न साक्षात्। किन्तु धर्मद्वारैव। अन्यथा “यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः” इति सूत्रविरोधात्। नच धर्मोऽपि साक्षान्मोक्षहेतुः, अपितु ईश्ववरप्रसादसहकृत एव। यथोक्तम् “तच्चेश्वरचोदनाभिव्यक्ताद् धर्मादेव” इति। स्पष्टं च
“तुष्टेर्मोचयतो बद्धानातुष्टेर्बध्नतः पुनः।
कारागारमिदं विश्र्वं यस्य वन्दे तमीश्ववरम्” इति।
पतञ्जिलस्तु स्पष्टमाचष्टे “तपः स्वाध्यायेश्वरप्रणिधानादिक्रियायोगः” इत्यादि।
अक्षपादो यद्यपि प्रमाणादिषोडशपदार्थतत्वज्ञानान्निःश्रेयसाधिगम इत्याह, तथाऽपि प्रमाणादिपञ्चदशपदार्थतत्वज्ञानस्याऽत्मादिद्वादशविधप्रमेयतत्वज्ञानहेतुत्वमेव। “आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुखापवर्गास्तु प्रमेयम्” इति तुशब्दकरणात्। आत्मादिज्ञानमपि न साक्षान्मोक्षसाधनम्। किन्नाम। परमेश्वरप्रसादोपेतमेव।
“स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः।
यदुपास्तिमसावत्र परमात्मा निरूप्यते”
इति सम्प्रदायविद्वचनात्। अथ कथमनुपपन्नभाषिण इत्यत आह ईशस्येति। ईशस्य प्रसादतो मुक्तिं ब्रुवाणा अप्येते किञ्चिदयुक्तमाहुर्यतोऽतोऽनुपपन्नभाषिण इत्यर्थः।
तथाहि यद्यपि वैशेषिकैरीश्वरप्रसादोऽङ्गीकृतः, तथाऽपि धर्मसहकारित्वेनैव। “ईश्वरचोदनाभिव्यक्तात्” इति वचनात्। एवं पतञ्जिलरपि तपःस्वाध्यायादिसमानकक्ष्यतामेवेश्वरप्रणिधानस्याऽह। नैयायिका अप्यात्मतत्वज्ञानमेव मोक्षसाधनम्, ईश्वरप्रसादस्तु सहकारिमात्रमित्यास्थिताः। द्वितीयसूत्रे तथैव व्युत्पादितत्वात्। श्रुतिस्मृतयस्तु धर्मादिकं समस्तं साक्षात् परम्परया वा भगवत्प्रसादसाधनम्, भगवत्प्रसादस्त्वनन्यापेक्षः साक्षादेव मोक्षसाधनमित्याचक्षते
“सर्वं तदन्तराधाय मुक्तये साधनं भवेत्।
न किञ्चिदन्तराधाय विमोक्षायापरोक्षदृक्” इत्याद्याः।
अतः कथं नानुपपन्नवादिन इति।
॥ कर्मणां भोगमात्रनाश्यत्वस्याप्रामाणिकत्वम्॥
इतश्चानुपपन्नभाषिण इत्याह भोगादेव चेति।
............. भोगादेव च कर्मणाम्।
क्षयं प्राहुः कुतश्चैतत् प्रसन्ने जगदीश्वरे॥१४८॥
वैशेषिकादयस्तत्वविद इव ज्ञानात् पूर्वेषां कर्मणां ज्ञानादेव विनाशं न मन्यन्ते। किन्तु समाधिमहिम्नाऽपरिमितदेहव्यूहनिर्माणेनानन्तान्यपि विषमविपाकसमयान्यपि कर्माणि पिण्डीकृत्य तत्फलसुखदुःखभोगेनैव ज्ञानिनो विनाशयन्तीति प्राहुः। अतोऽप्यनुपपन्नभाषिण इत्यर्थः।

नन्वेतदसङ्गतम्, मोक्षसाधनविचारस्य प्रस्तुतत्वादिति। मैवम्। अविद्याकामकर्मादिलक्षणो हि बन्धः। अतस्तन्निवृत्तिर्मोक्ष इति कथं कर्मक्षयो न मोक्षः? वक्ष्यति च “कर्मक्षयस्तथोत्क्रान्तिः” इत्यादि। अतो मोक्षसाधनविषयैवेयं चिन्तेति।
तथा ब्रुवाणा अपि कथमनुपपन्नभाषिण इत्यतोऽस्यार्थस्याप्रामाणिकत्वादित्याह कुतश्चेति। ज्ञानिनोऽपि कर्मणां फलभोगेनैव क्षय इत्येतत् कुत एव प्रमाणात् प्रतिपत्तव्यम्? न कुतश्चित्।
॥ सिद्धान्ते साक्षात्कारजन्यभगवत्प्रसादस्य कर्मनाशहेतुत्वम्॥
अक्षीणकर्मणां मोक्षानुपपत्तेस्तत्क्षयहेतोश्चान्यस्याभावादत्यन्तसुखदुःखसञ्ज्ञानमेव तत्क्षयकारणमिति कल्प्यत इत्यत आह प्रसन्न इति। कुत एतदिति वर्तते। ज्ञानेन प्रसन्नो भगवानेवाभुक्तफलान्येव कर्माणि विनाशयतीत्यन्यथैवोपपत्तेः कुत एतत् कल्प्यत इत्याशयः। भगवानपि कथमदत्तफलकर्मक्षयस्येष्ट इति न शङ्कनीयम्। तदैश्वर्यस्य क्वाप्यप्रतिहतत्वादिति भावेनोक्तम् जगदीश्वर इति।
॥ भगवत्साक्षात्कारस्य कर्मनाशहेतुत्वे प्रमाणोक्तिः॥
सम्भावितमेवैतन्न तु प्रमितम्। तत् कथमन्यथैवोपपत्तिरित्यत आह भिद्यत इति।
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे॥१४९॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चास्य कर्माणि दृष्ट एवाऽत्मनीश्वरे।
इति श्रुतिपुराणादिवचनेभ्योऽन्यथागतेः॥१५०॥
हृदयग्रन्थिरविद्या। परा अप्यवरा यस्मात् स परावरः। आत्मन्याततगुणे जगदीश्वरे। आद्यं कठश्रुतिवचनम्। द्वितीयं भागवतवचनम्। आदिपदेन वक्ष्यमाणानीतिहासवचनानि गृह्यन्ते। अन्यथा फलभोगेन विनेश्वरप्रसादेनैव कर्मणां गतेरपगतेर्विनाशनिश्चयादन्यथैवोपपत्तिरिति।
नन्वत्र परमेश्वरे दृष्टे कर्माणि क्षीयन्त इत्युच्यते, नतु दर्शनेनेति। ततो भोगेनेति व्याख्यानेऽपि न विरोध इति चेत्, न। तथासति हृदयग्रन्थिभेदनसंशयच्छेदनयोरप्यन्यसाध्यतास्वीकारापातात्। दृष्ट एवेत्येवशब्दविरोधाच्च। भोगेन क्षयस्य सर्वसाधारण्याद् दर्शनविशेषणस्य वैयर्थ्याच्च।
अज्ञो न सर्वाणि कर्माणि भोगेन क्षेप्तुं क्षमते। बहुतरत्वाद् विषमविपाकसमयत्वाच्च। ज्ञानी तु समाधिसामर्थ्यात् कायव्यूहं निर्माय सर्वाणि समाहृत्य फलभोगेन विनाशयतीत्यतो विशेषणोपपत्तिरिति चेत्, कुत एषा कल्पना? उक्तार्थापत्त्यैवेति चेत्, न। अस्मदुदाहृतवचनानामन्यथाव्याख्यानस्थितौ अर्थापत्तिस्थितिः, तत्स्थितौ च वचनानामन्यथाव्याख्यानस्थितिरिति परस्पराश्रयापत्तेः। वचनानामन्यथाव्याख्याननिरासे सति अर्थापत्तिनिरासः, तन्निरासे सत्यन्यथाव्याख्याननिरास इति भवतामपि परस्पराश्रयापत्तिरिति चेत्, न। अवधारणादिना निरवकाशत्वस्योक्तत्वात्। “भिनत्ति कर्मसङ्घातं प्रसन्नो भगवान् हरिः” इत्यादीनामत्यन्तानवकाशानामन्यत्रोदाहृतत्वाच्च। अत एव “नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि” इत्यादिसामान्यवचनमज्ञानिविषयम्। ज्ञानिनामपि प्रारब्धकर्मविषयम्।
“आत्मनो वै शरीराणि बहूनि मनुजाधिप।
प्राप्य योगबलं कुर्यात् तैश्च सर्वां महीं चरेत्।
भुञ्जीत विषयान् कैश्चित् कैश्चिदुग्रं तपश्चरेत्।
संहरेच्च पुनस्तानि सूर्यस्तेजोगणानिव”
इत्यादिकं ज्ञानिनां प्रारब्धकर्मविषयम्। विशेषवचनबलेन प्रारब्धकर्मविनाशस्य वक्ष्यमाणत्वात्। (४११३) अत एव “ज्ञानादेवाशेषकमर्क्षये तदैव मुक्तिः स्यात्। नचैवम्। जीवन्मुक्तानामुपलब्धेः” इत्यनवकाशं चोद्यम्।
॥ कर्मणां फलभोगनाश्यत्वसाधकानुमानभङ्गः॥
विमतं कर्म फलभोगविनाश्यम्, कर्मत्वात्; सम्प्रतिपन्नकर्मवदित्यनुमानं तु कृतप्रायश्चित्तकर्मण्यनैकान्तिकम्। प्रायश्चित्तं न कर्मक्षयहेतुरित्येतदुत्तरत्र निराकरिष्यामः। (११७१) अकृतप्रायश्चित्तकर्मत्वं हेतुरिति चेत् किमिदं प्रायश्चित्तं नाम? पापनिवृत्त्यर्थत्वेन विहितो व्र्तविशेष इति चेत्। तर्हि महानुभावानामनुग्रहादिना विनष्टे कर्मणि व्यभिचारः। पापनिवृत्तिहेतुमात्रं प्रायश्चित्तं विवक्षितमिति चेत्, न। तथाऽपि महदवज्ञादिना विनष्टे पुण्ये व्यभिचारः। क्षयहेत्वन्तररहितकर्मत्वं हेतुरिति चेत्। ज्ञानस्यैव क्षयहेतोः सत्त्वेनासिद्धेः। ज्ञानं न कर्मक्षयहेतुतया विहितमिति चेत्, तत् किं विधिरेव हेतुत्वं गमयति? तथासति समाधेरपि कायव्यूहनिर्माणादौ हेतुत्वं न स्यात्। आर्थवादिकं फलमविरुद्धं स्वीक्रियत इति चेत्। समं प्रकृतेऽपि। नह्यत्र कश्चिद् विरोधोऽस्तीत्युक्तम्। अलौकिकत्वं तूभयत्रापि समानम्।
॥ कर्मणां भोगनाश्यत्वाङ्गीकारे कर्मक्षयाभावप्रसङ्गः॥
किञ्चास्मिन् मते न कदाऽपि कर्मक्षयः। भोगकालेऽपि पुनः करणात्। न करोतीति चासम्भावितम्। “नहि कश्चित् क्षणमपि” इत्युक्तत्वात्। क्रियमाणाऽपि प्रवृत्तिर्नादृष्टजननीति चेत्, न। श्रुतिस्मृतिविरोधात्। ज्ञानिनां ज्ञानसामर्थ्यात् तथेत्यन्यविषयं श्रुत्यादिकम्। “तद् यथा पुष्करपलाशे” , “ब्रह्माण्याधाय कर्माणि” इत्यादिश्रुतिस्मृतिबलादित्थं कल्प्यत इति चेत्। प्राक्तनकर्मस्वप्ययं प्रकारः कुतो नाभ्युपगम्यते? रागद्वेषयोरभावान्न प्रवृत्तिरदृष्टकारणम्। यथोक्तम् “न प्रवृत्तिः प्रतिबन्धाय हीनक्लेशस्य” इति। मैवम्। प्रामादिकब्रह्महननादीनामधर्महेतुत्वाभावप्रसङ्ग इत्यलम्।
॥ पशुपत्यादनां प्रसादस्य स्वातन्त्र्येण मोक्षसाधनत्वोक्तिप्रत्याख्यानम्॥
पाशुपताद्युक्तं मोक्षसाधनं निराकरोति नचेति।
नच पाशुपताद्युक्तशिवादीनामनुग्रहात्।
पाशुपतशब्देन चतुर्विधा अपि गृह्यन्ते। (८२३) आदिपदेन स्कान्दसौरादयः। द्वितीयेनाऽदिपदेन स्कन्दादयः। अनुग्रहान्मोक्षो भवतीति शेषः।
ननुच पाशुपताद्युक्तेति तावन्नानुग्रहस्य विशेषणम्। असामर्थ्येन समासानुपपत्तेः। तथासति पाशुपताद्युक्तादिति स्यात्। अत एव न मोक्षस्य विशेषणम्। तथासति पाशुपताद्युक्त इति भवेत्। शिवादिविशेषणत्वे तु वैयर्थ्यमिति।
उच्यते अस्तु तावदनुग्रहविशेषणम्। तत्र शिवादीनामनुग्रह इति समास एव। “षष्ठ्या आक्रोशे” इति षष्ठ्या अलुक्। “ज्ञात्वा शिवं शान्तिमत्यन्तमेति” इत्यादिश्रुतिविरोधपरिहारश्च तत्प्रयोजनम्। यः संसारधर्मैरीषदप्यस्पृष्टः परमशिवस्तत्प्रसादान्मुक्तिरिष्यत एव। यस्त्वज्ञानाद्युपेतः, तथा प्रमितः, तदनुग्रहान्मोक्षो नेत्युच्यत इति।
“मोक्षो ज्ञानं च क्रमशो मुक्तिगो भेद एव च।
उत्तरेषां प्रसादेन नीचानां नान्यथा भवेत्”
इत्यादिवाक्यविरोधपरिहाराय पाशुपताद्युक्तेत्यनुग्रहो विशेषितः। अङ्गीक्रियत एव शिवाद्यनुग्रहो भगवत्प्रसादसाधनभूतो मोक्षहेतुः, नतु पाशुपताद्युक्तः स्वतन्त्रसाधनभूत इति।
यद्वा पाशुपताद्युक्तेत्यपि भिन्नं पदम्। सुपां सुलुगिति पञ्चम्या लुक्। यद्वा प्रथमाया लुक्। मोक्षस्य चेदं विशेषणम्। तत्र वादिनिर्देशप्रयोजनं व्यक्तमेव।
यद्वाऽस्तु यथाश्रुतं शिवादीनामेव। ये शिवादयः पाशुपतादिभिः स्वातन्त्रेणोपास्या उक्ताः, तेषां तथोपासितानामनुग्रह एव नास्ति, प्रत्युत कोप एव। अतोऽनुग्रहान्मोक्षो दूरनिरस्त इति भावः।
॥ विष्णुप्रसादस्यैव मोक्षसाधनत्वेन पुरुषसूक्तोक्तत्वम्॥
कुतः शिवादीनामनुग्रहान्मोक्षो नेत्यत आह नान्य इति।
नान्यः पन्था इति ह्युक्तं पुरुषज्ञानतः श्रुतौ॥१५१॥
“तमेवम्” इति श्रुतौ “सहस्रशीर्षा पुरुषः” इति प्रकृतपुरुषज्ञानतोऽन्यनिषेधेनामृतत्वमुक्तं हि यस्मात् तस्मात् पुरुषोत्तमानुग्रह एव ज्ञानेनेरितो मोक्षहेतुर्न शिवाद्यनुग्रह इति।
॥ समुद्रशायित्वलिङ्गात् पुरुषसूक्तोक्तो विष्णुरेव, न पशुपत्यादिः॥
ननु पुरुषसूक्ते पशुपुरुष एव प्रतिपाद्यते न विष्णुः, तत् कथं विष्णुज्ञानस्य मोक्षसाधनत्वे मन्त्रोऽयमुदाहृतः? पशुपुरुषज्ञानमपि पशुपतेरनुग्रहे परमोपयोगीति मोक्षसाधनमुच्यते। “नान्यः” इति च न विरुद्धम्। साधनवत् साधनसाधनस्य परित्यागेऽपि फलानुदयादिति चेत्, किमेतत् पुरुषशब्दस्य विष्णौ शक्त्यभावात् कल्प्यते, तात्पर्यज्ञापकाभावाद् वा, बाधकसद्भावाद् वा? नाऽद्यः, नारायणानुवाके पुरुषशब्दस्य हरौ प्रयोगादित्याह सर्व इति।
सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि।
एवं पुरुषशब्दश्च प्रयुक्तोऽब्धिशये हरौ॥१५२॥
न केवलं पुरुषज्ञानतोऽमृतत्वमुक्तम्, किन्तु पुरुषशब्दश्च हरौ प्रयुक्तः। “विद्युतः पुरुषात्” इत्युक्तोऽपि पशुपुरुष एव किं न स्यादित्यत उक्तम् अब्धिशय इति। “अम्भस्यपारे”, “यमन्तः समुद्रे” इत्यस्मिन् पुरुषेऽब्धिशयत्वस्य श्रवणात्। “महोदधिशयोऽन्तकः” इत्यादिना तस्य विष्णुलिङ्गत्वावगमात्।
॥ समाधिकराहित्यलिङ्गादपि पुरुषशब्दस्य विष्णुपरत्वम्॥
इतश्चायं नारायणो न पशुपतिरित्याह न तस्येति।
न तस्येशे कश्चन तस्य नाम महद् यशः।
इति चाधिपतिस्तस्य प्रतिषिद्धः स्वयं श्रुतौ॥१५३॥
विश्वतः परमां नित्यं विश्र्वं नारायणं हरिम्।
इति सर्वाधिकत्वोक्त्या समोऽपि विनिवारितः।
समाधिकस्य राहित्यान्नोपचारपुमानसौ॥१५४॥
तस्य पुरुषस्य। ईशे ईष्टे, “व्यत्ययो बहुलम्” इति वचनात्। “अधीगर्थदयेषां कर्मणि” इति षष्ठी। महदिति यशश्चेति तस्य पुरुषस्य नाम। श्रुतौ नारायणानुवाके “न तस्य” इति वाक्येन तस्य पुरुषस्याधिपतिः स्वयं मुखत एव प्रतिषिद्धः। परमश्चासावश्चेति परमाः, तं परमाम्। लिङ्गव्यत्ययेन परममिति वा। विश्र्वं पूर्णम्। नारायणानुवाक एव “विश्वतः” इति श्रुतौ तस्य पुरुषस्य सर्वाधिकत्वोक्त्या समोऽपि विनिवारितः। नहि सर्वाधिकस्य समो युज्यते।
ततः किमित्यत आह समेति।समाधिकस्येति द्वन्द्वैकवद्भावः। असौ नारायणानुवाकोक्तः। उप समीपे चारो यस्यासौ प्रधानस्योपसर्जनभूत उपचारपुमान् पशुपुरुषो नेत्यर्थः। नारायणनामादिना हरिरेवायमिति शिष्यैरेव ज्ञातुं शक्यत इति नोक्तम्।
अधिपतिराहित्यसर्वाधिकत्वयोस्ततोऽवगतस्य समाधिकराहित्यस्य च पशावनुपपत्तेर्न तद्विषयोऽयं पुरुषशब्दः, किन्तु नारायणादिनाम्नाऽब्धिशयत्वादिलिङ्गेन च विष्णुविषय एवेत्यस्तु। न तावता पुरुषशब्दस्य विष्णौ वाचकत्वशक्तिः सिद्ध्यति। प्रयोगस्यामुख्यया वृत्त्याऽप्युपपत्तेरित्यत आह समेति। असौ विष्णुरुपचारेण पुरुषशब्दविषयो न भवति किन्तु मुख्यवृत्त्यैव। कुतः? मुख्यासम्भवे ह्युपचारः कल्प्यते। पुरुषशब्दस्य मुख्यार्थः पूर्णत्वम्। तच्च विष्णोरेव समाधिकराहित्याद् युज्यत इति।
॥ मुक्तामुक्तनियामकत्वादपि पुरुषसूक्तोक्तो विष्णुरेव॥
अस्त्वेवं पुरुषशब्दस्य विष्णौ वाचकत्वशक्तिः, तथाऽपि पुरुषसूक्ते ज्ञापकाभावात् तत्परत्वं नास्तीति द्वितीयं निराकरोति पुरुष एवेति।
पुरुष एवेदं सर्वं यद् भूतं यच्च भव्यम्।
उतामृतत्वस्येशानो यदन्नेनातिरोहति॥१५५॥
मुक्तामुक्तपरेशत्वमिति तस्याऽह सा श्रुतिः।
अमृतेशानवचनात् सर्वस्येशानतोदिता॥१५६॥
यद् भूतम्, यच्च भव्यम्, यच्च भवदमुक्तं विश्वमिदं सर्वं पुरुष एव, पुरुषाधीनमेव। यत एवमन्नेन अन्नमदनीयममुक्तवर्गमतिरोहति अतिक्रामति। अमुक्ताधिपतिरिति यावत्। तस्मादमृतत्वस्योत भावभवित्रोरभेदान्मुक्तवर्गस्यापीशानः। संसारे स्वाधीनं जगद् यदि मुक्तौ स्वाधीनत्वं जह्यात्, तदा प्रेक्षावान् न मोचयेत्। अतो मुक्तावपि तदधीनमेवेति सा श्रुतिः पुरुषसूक्तमन्त्रस्तस्य मुक्तामुक्तपरेशत्वमाह। तच्च “मुक्तानां परमा गतिः” इत्यादिना विष्णोरेवावगतम्, पशोस्त्वसम्भावितमेवेत्यतः पुरुषसूक्तं विष्णुपरमेवेति ज्ञायते।
॥ पुरुष एवेदं सर्वमिति सर्वाधिपतित्वमुच्यते, नतु सर्वात्मकत्वम्॥
ननुच “पुरुष एवेदं सर्वम्” इति पुरुषस्यात्र सर्वात्मकत्वमेवोदितम्, तत् कथं मुक्तामुक्तपरेशत्वमाह श्रुतिरिति। तत्राऽह अमृतेति।ईशानेति भावप्रधानो निर्देशः। उत्तरार्धे मुक्तेशानत्वस्योक्तत्वात् पूर्वार्धेऽमुक्तस्य सर्वस्येशानतैव उदिता ज्ञातव्या, नतु सर्वत्वम्। नहि कोऽपि वादी मुक्तौ भेदम्, अमुक्तौ अभेदमङ्गीकरोति। नापि युज्यते। अभिन्नस्य पश्चाद् भेदादर्शनात्।
॥ सर्वात्मकत्वस्य प्रतिपाद्यत्वे, उतशब्दवैयर्थ्यप्रसङ्गः॥
हेत्वन्तरमाह यदीति।
यदि सर्वत्वमुदितमुतेश इति तद् वृथा।
उतशब्दो वदेदेष हीशत्वस्य समुच्चयम्॥१५७॥
पूर्वार्धे यदि पुरुषस्य सर्वत्वमुदितं स्यात्, तत् तर्ह्युत्तरार्धेऽमृतत्वस्योतेशान इत्युतशब्दो वृथा स्यात्। तत् कथमित्यत आह उतशब्द इति। उत्तरार्धस्थ उतशब्दो यस्मादीशत्वस्य समुच्चयं वदेत्। अर्थान्तरस्यासम्भवात्। नच द्वयोरीशत्वयोरनुक्तौ तत्समुच्चयोक्तेरवकाशोऽस्ति। तस्मादुतशब्दो वृथैव इति।
॥ समाख्याश्रुतौ सर्वव्याप्तत्वप्रतिपादनाच्च न सर्वात्मकत्वमर्थः॥
युक्त्यन्तरमाह पुरुषेणैवेति।
पुरुषेणैवेदं व्याप्तमिति ब्राह्मणं चाऽह तं प्रति।
“पुरुष एवेदं सर्वम्” इति “पुरुषेणैवेदं सर्वं व्याप्तं आतृणादाकरीषात् सर्वं भगवानिति मिथ्यादृष्टिरेषा” इति शाखान्तरब्राह्मणं च तं मन्त्रं प्रति प्रवृत्तं तस्य मन्त्रस्य व्याख्यानरूपमेवमाह। अतश्च न सर्वत्वमर्थः। व्याप्तं वशीकृतम्। एतेन धर्मिसमुच्चयार्थ उतशब्द इत्यपि परास्तम्।
॥ सर्वत्वस्य महिमात्वोक्त्यन्यथानुपपत्त्याऽपि सर्वात्मकत्वं नार्थः॥
इतश्च सर्वेशत्वमेव पूर्वार्धार्थः, नतु सर्वत्वमित्याह एतावानिति।
एतावानस्य महिमेति महिम्नो वचो हि तत्॥१५८॥
इति वचनादिति शेषः। अस्य पुरुषस्यैतावान् महिमा यः पूर्ववाक्योक्त इत्युत्तरवाक्यबलात् “तत् पुरुष एवेदम्” इत्येतत् पुरुषस्य महिम्नो वाचकं वच इति तावज्ज्ञायते। ततश्च महिमाप्रतिपादकं यथा स्यात्, तथा व्याख्येयम्। नच सर्वात्मत्वं महिमा, अपकषर्हेतुत्वात्। किन्तु सर्वाधिपत्यमेव। नच तदतिरिक्तं महिम्नो वचनम्। सङ्कोचे कारणाभावात्।
॥ भागवतवचनबलादप्युक्तार्थसमर्थनम्॥
इतोऽप्येतदेवमित्याह सोऽमृतस्येति।
सोऽमृतमस्याभयस्येशो मर्त्यमन्नं यदत्यगात्।
इत्यमुक्ताधिपत्यं तु पूर्वार्धोक्तमनूद्य च।
उतामृतस्येश इति विधत्ते मुक्तिगेशताम्॥१५९॥
इति भागवतवचनादिति शेषः। अनूद्य यदन्नेनातिरोहतीति वचनेन हेतुतयेति शेषः। विधत्ते श्रुतिः।
अयमर्थः उत्तरार्धे तावदमुक्ताधिपत्यं हेतुत्वेनोपादाय मुक्ताधिपत्यं प्रतिजानीते श्रुतिरिति ज्ञायते। पुरुषसूक्तव्याख्यानप्रसङ्गे “सोऽमृतस्य” इति भागवतवचनेनोत्तरार्धस्य तथैव व्याख्यातत्वात्। अत एव “अन्नेन दिव्यभोगेन यदतिरोहति अधिरोहत्येधते तस्यामृतत्वस्य देवत्वस्येशानः” इति व्याख्यानमयुक्तम्। भावभवित्रोरेकत्वाभिप्रायेणामृतत्वस्येत्येतदमृतस्येति हि व्याख्यातम्। देवव्यावृत्त्यर्थमेव चाभयस्येत्युक्तम्। अन्नेनेति तृतीया च द्वितीयार्थेत्यभिहितम्। अन्नं च न प्रसिद्धमिति मर्त्यमित्युदितम्। सोऽयमुत्तरार्धार्थः पूर्वार्धस्यास्मद्व्याख्यान एव युज्यते। पूर्वार्धेऽमुक्ताधिपत्यं विहितम्। उत्तरार्धे तत् पूर्वार्धोक्तममुक्ताधिपत्यं हेतुत्वेनानूद्य पुरुषस्य मुक्तिगेशतां विधत्ते श्रुतिरिति। परकीयव्याख्याने तु परस्परव्याघातेनानुपपन्न एवेति।
एतेन “पुरुषशब्दस्य विष्णुविषयत्वे सर्वात्मकत्वं बाधकम्। नहि विष्णोः सर्वात्मकत्वं भवद्भिरप्यभ्युपगम्यते। पशोस्तु देहयोगवशाद् भूतत्वादिकं युज्यते” इति तृतीयपक्षोऽपि निरस्तः।
॥ पुरुषसूक्तस्य विष्णुपरत्वप्रतिपादनोपसंहारः॥
उपसंहरति अत इति।
अतो विष्णुपरिज्ञानादेव मुक्तिर्नचान्यतः।
परिज्ञानात् परिज्ञानोदितात् प्रसादात्। अन्यतः शिवादीनामनुग्रहात्।
॥ कर्मणां ज्ञानजन्यभगवत्प्रसादनाश्यत्वस्य श्रुत्या समर्थनम् ॥
पाशुपता अपि ज्ञानिनो भोगेनैव कर्मक्षयमाचक्षते। तदप्यनुपपन्नमित्याह तद् यथेति।
तद् यथेति श्रुतेश्चैव ततः कर्मक्षयो भवेत्॥१६०॥
“तद् यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हैवास्य सर्वे पाप्मनः प्रदूयन्ते” इति श्रुतेः। “इष्टकेषी कामालानां चिततूलभारिषु” इति ह्रस्वता श्रुतित्वान्न भवति। प्रोतं प्रविष्टम्। प्रदूयेत परितप्तं भवेद् भस्मीभवेत्। इति तन्निदर्शनं यथा। अस्य ज्ञानिनः। प्रदूयन्ते विनश्यन्तीत्यर्थः। चशब्दः पूर्वोदाहृतवाक्यसमुच्चयार्थः। तत एव विष्णुपरिज्ञानादेव।
॥ गीतावाक्यैरप्युक्तार्थसमर्थनम्॥
नन्वस्यां श्रुतौ ज्ञानिनः कर्मणां परितापः श्रूयते, नतु ज्ञानेन विनाश इति विवक्षितोऽर्थ इत्यतो भगवद्वाक्यसमाख्यामाह यथेति।
यथैधांसि समिद्धोऽग्न्र्भिस्मसात् कुरुतेऽर्जुन।
ज्ञानाग्न्ः॥ सर्वकर्माणि भस्मसात् कुरुते तथा॥१६१॥
सर्वधर्मान् परित्यज्य मामेकं शरणं व्र्ज।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः।
इत्यादि भगवद्वाक्यैारुक्तार्थश्चावसीयते॥१६२॥
यद्यप्यत्र ज्ञानस्य कारणत्वं स्फुटं प्रतीयते, तथाऽपि कर्मणां भस्मसात्करणं नाम मुख्यासम्भवात् किं कल्पनीयमिति न ज्ञायते, अतो वाक्यान्तरं पठति सर्वेति। धर्मानवैष्णवान्, काम्यार्थांश्च। शरणप्राप्तिश्च “सर्वोत्तमत्वविज्ञानपूर्वम्” इत्यादिनाऽन्यत्र भगवत्पादैरेव व्याख्याता। ततः प्रसन्नोऽहम्। मा शुचः। न शोचिष्यसि मुक्तो भविष्यसि। आदिपदेन “गतसङ्गस्य मुक्तस्य” इत्यादेः सङ्ग्रहः भगवद्वाक्यैश्चेति सम्बन्धः। “तद् यथा” इति श्रुतेरुक्तार्थः भगवद्वाक्यैरवसीयत इति वा।
॥ मीमांसकेन काम्यनिषिद्धकर्मत्यागसहितस्य नित्यनैमित्तिकर्मानुष्ठानस्य मोक्षसाधनत्वप्रतिपादनम्॥
भाट्टानां मोक्षसाधनमनुवदति नित्येति।
नित्यनैमित्तिकं कर्म कुर्वन्नन्यत् परित्यजन्।
मुच्यते संसृतेश्चैतदप्येतेन निराकृतम्।
नित्यं नाम यदकरणे प्रत्यवायः, ब्राह्मण्यादिकमेव च निमित्तमुपादाय विहितं तदुच्यते, यथा सन्ध्यावन्दनादि। नैमित्तिकं नाम यदकरणे प्रत्यवायः, पितृमरणाद्यागन्तुकं च निमित्तमुपादाय विहितं तदुच्यते, यथा पितृश्राद्धादि। अन्यत् काम्यं निषिद्धं च। तत्र यत्करणे फलम्, अकरणे न प्रत्यवायः, कामनानिमित्तं तत् काम्यम्, यथा ज्योतिष्टोमादि। प्रतिषिद्धं निषिद्धम्, यथा ब्रह्महत्यादि। उपात्तं च कर्म भोगेन क्षपयन्निति चशब्दार्थः।
अयमाशयः सुखदुःखतत्कारणरूपो हि संसारः। स च कर्मनिमित्त एव। नित्यनैमित्तिकयोरकरणे त्वधर्मप्रचयेन दुःखतत्साधनावाप्तिरस्य भवति। निषिद्धकरणेऽपि तथा। काम्यकरणे तु धर्मोत्पादनेन सुखतत्साधनावाप्तिर्जायते। मुमुक्षुस्तु नित्यं नैमित्तिकं च नित्यमेव करोति। परित्यजति च निषिद्धमिति न दुरितोपचयः। काम्यमपि परित्यजतीति न धर्मोपचयः। एवमनागतयोर्धर्माधर्मयोः अनुत्पादे, प्रागुपात्तौ च भोगेन क्षपयन् निर्बीजायाः संसृतेर्मुच्यत इति। यथोक्तम्
“मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः।
नित्यनैमित्तिके कुर्यात् प्रत्यवायजिघांसया” इति।
नच पञ्चमी कर्मविधाऽस्ति। यत्करणेऽकरणे वा धर्माधर्मोदयः स्यादिति।
॥ भगवत्प्रसादस्यैव स्वतन्त्रसाधनत्वम्, न कर्मानुष्ठानस्य॥
निराकरोति एतदपीति।एतेन “नान्यः पन्थाः” इति श्रौतेन भगवज्ज्ञानव्यतिरिक्तमोक्षसाधननिषेधेन। अपिच नित्यनैमित्तिककर्मणां नियमेन सम्यगनुष्ठानं तावदशक्यमेव। “चरन्ति देवा विहितं समस्तमर्धमेव मुनयो दशांशतो मनुष्याः” इत्यादिश्रुतेः। नापि निषिद्धाकरणं सम्भावितम्। प्रामादिकानां मानसवाचिककायिकानामपरिहार्यत्वात्। प्रायश्चित्तात् तत्क्षय इति चेत्, न। प्रायश्चित्तस्यापि सम्यगनुष्ठातुमशक्यत्वात्। पूर्वोपार्जितकर्मणां भोगेन क्षयस्त्वत्यन्तासम्भावित एव, अनन्तत्वादित्यलम्।
॥ वाद्यन्तरोक्तमोक्षसाधननिरासस्य उत्सूत्रितत्वशङ्कानिरासः॥
नन्वेतत् सर्वं सूत्रानुक्तं कस्माद् वर्ण्यत इत्यत आह विद्यैवेति।
विद्यैवेतीममेवार्थं स्वयमेवाऽह वेदरा॥१६३॥
“विद्यैव तु निर्धारणात्” इति सूत्रेण। स्वयमेव नत्वर्थतः।
॥ मायावादिव्याख्यानप्रत्याख्यानम्॥
“वाजसनेयिनोऽधीयते “षत्रिंशत्सहस्राण्यपश्यदात्मनोऽग्नीनर्कान् मनोमयान् मनश्चितः’ इत्यादि। तत्र संशयः किमेतेऽग्न्यः क्रियानुप्रवेशिनस्तच्छेषभूताः, उत स्वतन्त्राः केवलविद्यात्मका इति। क्रियामयस्याग्नेः प्रकरणात् तद्विषय एवायमुपदेश इति प्राप्तेऽभिधीयते विद्यात्मका एवैतेऽग्न्यो न क्रियाशेषभूताः। “ते हैते विद्याचित एव’ इति निर्धारणात्” इति परेषां व्याख्यानमसदेवेति भावेन उक्तम् इममेवार्थमिति। विफलत्वादस्याश्चिन्तायाः। पक्षद्वयेऽप्यभ्युदय एव ह्यस्य प्रयोजनम्। यस्तु नित्यानित्यवस्तुविवेकवान् शमदमादिसम्पन्नः सर्वभोगवैराग्योपेतो मुमुक्षुरथशब्देनोत्तरमीमांसायामधिकारी सूचितः स कथमेतासु फल्गुचिन्तासु प्रवर्तत इति।
॥ ज्ञानकर्मसमुच्चयस्य मोक्षसाधनत्वनिरासः॥
एवं सूत्रकृता पूर्वपक्षितानि मतानि निराकृत्येदानीं ये सूत्राणां वृत्तिकारा अन्यथा भाषन्ते तेषां मतानि निराकुर्वाणः समुच्चयनियमवादिनां मतं तावदपाकरोति विनेति।
विना कर्म न मोक्षः स्याज्ज्ञानेनेत्यपि सा श्रुतिः।
नान्यः पन्था इति ह्येव निवारयति सादरम्॥१६४॥
“संसारनिवृत्तिमात्रं केवलेन ज्ञानेन भवति। आनन्दवृद्धिस्तु कर्मसापेक्षेणैव ज्ञानेनेति भगवतः पन्थाः। यद् वक्ष्यति “सहकारित्वेन च” इति। अतो ज्ञानकर्मभ्यां मोक्ष इत्यनुक्त्वा कर्म विना केवलज्ञानेन न मोक्षः किन्तु कर्मसहितेनेत्युक्तम्” इत्येतदपि मतं सैव सूत्रगृहीतैव “नान्यः पन्थाः” इति श्रुतिः स्पष्टं निवारयति। “तमेवं विदित्वा” इति ज्ञानमात्रस्य मोक्षसाधनत्वमुक्त्वा पुनः “नान्यः पन्थाः” इति वचनादादरोऽवगम्यते। नच समुच्चयनियमे किमपि प्रमाणमस्ति। “अन्धन्तमः प्रविशन्ति” इत्यादीनामन्यार्थत्वात्। (८५०)
“यथाऽन्नं मधुसंयुक्तं मधु चान्नेन संयुतम्।
एवं तपश्च विद्या च संयुक्ते भेषजं महद्”
इत्यादीनां परोक्षज्ञानविषयत्वात्। अपरोक्षज्ञानविषेयत्वेऽप्यानन्दवृद्ध्यर्थत्वात्।
॥ मायावाद्युक्तस्य मुक्तेः परापरभेदेन द्वैविध्यस्य,
वैकुण्ठादिप्राप्तिरूपापरमुक्तेः अन्यथोपासनासाध्यत्वस्य च निराकरणम्॥
मायावादिनो वदन्ति द्विविधो मोक्षः, परापरभेदात्। तत्रापरो वैकुण्ठसत्यलोकादिप्राप्तिलक्षणः। परस्त्वविद्यास्तमये सत्यद्वैतब्रह्मावस्थानरूपः। प्रतीकादिविषयमन्यथोपासनं अपरस्य साधनम्। परस्य त्वेकत्वज्ञानमिति। तत्रान्यथोपासनस्य वैकुण्ठादिप्राप्तिसाधनत्वं तावदपाकरोति अन्यथेति।
अन्यथोपासनमपि तमेवमिति वादिनी।
निवारयत्यादरेण न प्रतीक इति प्रभुः॥१६५॥
एवं यथास्थितेनैव प्रकारेण नत्वन्यथेति वदन्ती श्रुतिरन्यथोपासनमपि पुरुषार्थसाधनं निवारयति। न केवलं परमपुरुषज्ञानव्यतिरिक्तपक्षान्। तमित्यनेन यथार्थज्ञानं लब्धमेव। सप्रकारस्य प्रकृतस्य परामर्शोपपत्तावेकदेशविषयत्वकल्पनानुपपत्तेः। तथाऽपि यदेवमिति वदति, तदादरसूचनार्थमिति।
परममोक्षविषयेयं श्रुतिरस्तु। अपरस्तु पुरुषार्थोऽन्यथोपासनेन भविष्यतीत्यत आह नेति। “न प्रतीके नहि सः” इति सूत्रकारोऽन्यथोपासनस्य सर्वथाऽप्यकर्तव्यत्वं वक्ष्यति। अतो न तत् पुरुषार्थलेशहेतुः।
॥ “न प्रतीके नहि सः” इति सूत्रस्याथान्तरकल्पने श्रुतिविरोधः॥
सूत्रस्यार्थान्तरं वक्ष्यामीति वदन्तं प्रति श्रुतिविरोधमाह अन्धमिति।
अन्धन्तमः प्रविशन्ति ये त्वविद्यामुपासते।
इति श्रुतिविरोधाच्च नान्यथोपासनं भवेत्।
पुरुषार्थसाधनमिति शेषः। श्रुतिस्त्वन्यत्र स्मृतिसम्मतिप्रदर्शनेन व्याख्याता।
॥ जीवब्रह्मैक्यज्ञानस्य मोक्षसाधनत्वप्रत्याख्यानम्॥
इदानीमेकत्वज्ञानस्य परमोक्षसाधनत्वं निराकरोति नचेति।
नचाप्येकत्वविज्ञानादुक्तन्यायेन मुच्यते॥१६६॥
चोऽवधारणे। एकत्वविज्ञानादपि पुरुषः संसारान्न मुच्यते। कुतः? उक्तन्यायेन “तमेवं विद्वान्” इति सहस्रशिरस्त्वादिमहामहिमोपेतस्य भगवतो ज्ञानममृतत्वसाधनमभिधाय “नान्यः पन्थाः” इति साधनान्तराभावस्योक्तत्वात्। “पुरुष एवेदं सर्वम्” इत्युक्तमेकत्वमेवंशब्देन परामृश्यत इति चेत्, न। उक्तन्यायेन तस्य वाक्यस्यैकत्वविषयताया अभावात्। “तद् यो यो देवानां प्रत्यबुद्ध्यते” इत्यादिश्रुतयस्तु “तद्गुणसारत्वात्” इत्युक्तन्यायेन नैक्यज्ञानस्य मोक्षसाधनतां वदन्ति।
किञ्चैक्यज्ञानमन्यथाज्ञानमिति “पृथगुपदेशात्” इत्युक्तन्यायेन सिद्धम्। मिथ्याज्ञानं चानर्थसाधनमित्युक्तम्।
॥ प्रकाशतमसोरिव अद्वैतज्ञानबन्धयोर्विरुद्धत्वाङ्गीकारात्
    तज्ज्ञानोत्पत्त्यन्तरमेव मुक्तिप्रसङ्गात् मायामते जीवन्मुक्त्यनुपपत्तिः॥
अपिचाद्वैतज्ञानस्य न तावद् यागादिवद् राजसेवादिवद् वा मोक्षसाधनत्वम्, किन्तु अविद्याविरोधित्वेन। विरोधिनाऽद्वैतसाक्षात्कारेणाविद्यायां निवृत्तायां तदुपादानको बन्धः स्वयमेव निवर्तत इति। तथाच साक्षात्कृताद्वैतानामुत्तरक्षण एव देहादिद्वैतदर्शनाभावः प्राप्नोति। अङ्गीक्रियते च जीवन्मुक्तिः। ज्ञानेनाविद्यायां निवृत्तायामपि तत्संस्कारेण द्वैतदर्शनानुवृत्तिर्भवतीति चेत्, न। संस्कारस्याविद्याकार्यत्वेऽवस्थानानुपपत्तेः। नह्युपादाने निवृत्ते कार्यमवस्थितं दृष्टम्। अन्यथा सत्यत्वप्रसङ्गः। ज्ञानोदयेऽप्यनिवृत्तस्य तस्य निवर्तकान्तराभावात् सर्वदाऽनिवृत्तौ न कदाऽपि द्वैतदशर्ननिवृत्तिः स्यात्। असङ्गस्याऽत्मनो विनैवाविद्यासम्बन्धेन संस्काराश्रयत्वं चायुक्तमेव।
एतेन प्रारब्धकर्मवशाद् द्वैतदर्शनानुवृत्तिरित्यपि निरस्तम्। ज्ञानेन निवृत्ताऽप्यविद्या दग्धपटन्यायेन किञ्चित् कालमवतिष्ठते। तेन द्वैतदर्शनानुवृत्तिर्घटत इति चेत्, न। आत्यन्तिकनिवृत्तौ कारणाभावेन द्वैतदर्शनानुपरमप्रसङ्गात्।
एतेन अविद्यालेशावस्थानपक्षोऽपि प्रतिक्षिप्तः। लेशश्च पटस्य तन्तुरिवावयवो वा स्यात्, प्रदेशो वा, धर्मो वा? नाऽद्यः, अकार्यत्वादविद्यायाः। न द्वितीयः। प्रदेशानङ्गीकारात्। प्रदेशिनो निवृत्तौ प्रदेशावस्थानासम्भवाच्च। न तृतीयः, धर्मिणोऽपगमे धर्मानपगमानुपपत्तेः।
॥ चित्सुखेन अविद्यायाः त्रिरूपत्वं कल्पयित्वा, अपरोक्षप्रतिभासविषयाकारकल्पकस्य तृतीयरूपस्यानिवृत्तत्वात् जीवन्मुक्त्युपपत्तिरिति प्रतिपादनम्॥
अथ मतम् “संसारमूलकारणभूताऽविद्या यद्यप्येकैव, तथाऽपि तस्याः सन्त्येव बहव आकाराः। तत्रैको बन्धस्य परमार्थसत्यत्वविभ्रमहेतुः, द्वितीयोऽर्थक्रियासमर्थवस्तुकल्पकः, तृतीयस्त्वपरोक्ष्यप्रतिभासविषयाकारकल्पकः। तत्राद्वैतस्य सत्यत्वाध्यवसायेन समस्तद्वैतसत्यत्वकल्पक आकारो निवर्तते। अर्थक्रियासमर्थप्रपञ्चोपादानं मायाकारस्तत्वसाक्षात्कारेण विलीयते। अपरोक्षप्रतिभासयोग्यार्थाभासजनकस्तु मायालेशो जीवन्मुक्तस्य निवृत्तः समाध्यवस्थायां तिरोहितोऽन्यदा देहाभासजगदाभासहेतुतयाऽनुवर्तते। प्रारब्धकर्मफलोपभोगावसाने तु निवर्तते” इति।
॥ अविद्याया बहुरूपत्वस्य अप्रामाणिकत्वम्॥
तदयुक्तम्। अस्याः कल्पनायाः निष्प्रमाणकत्वात्। “इन्द्रो मायाभिः पुरुरूप ईयते” इति श्रुतिरत्र प्रमाणमिति चेत्, न। अत्र पारमेश्वरशक्तिप्रतिपादनात्, ज्ञानबाध्यानिर्वाच्यमायाकारप्रतिपादनाप्रतिभासनात्। “तस्याभिध्यानाद् योजनात् तत्त्वभावाद् भूयश्चान्ते विश्वमायानिवृत्तिः” इति श्वेताश्वतरमन्त्रेऽपि भूयोभूयस्तस्मिन् मनसो योजनाद् यो जायते तत्वभावस्तत्वज्ञानं तस्मादुदितात् तस्य परमेश्वरस्याभिध्यानादनुग्रहात् कर्मक्षयान्ते विश्वबन्धकमायानिवृत्तिर्भवतीत्युच्यते, नत्वनिर्वाच्याविद्याकाराणां क्रमेण निवृत्तिर्बाधलक्षणा।
॥ अविद्यालेशस्यानुवृत्तत्वे निवर्तकाभावात् कदाऽप्यनिवृत्तिप्रसङ्गः॥
किञ्च योऽपि मायाकारोऽनुवर्तत इत्युच्यते तत्वज्ञानं तस्य विरोधि, नवा? आद्ये कथं न निवर्तते? द्वितीये ज्ञानेन न निवर्तेत। तथाच सत्यः स्यात्। कर्मक्षये सति निवर्तत इति वदता कर्मणां तत्कारणत्वमुक्तं स्यात्। अन्यथा तन्निवृत्तौ निवृत्तेरनुपपत्तेः।
॥ अविद्यालेशस्य कर्मक्षयानन्तरं निवृत्त्यभ्युपगमायोगः॥
अथ मन्यसे ज्ञानमेवाविद्यालेशस्य निवर्तकम्, किन्तु प्रबलेन प्रारब्धकर्मणा प्रतिबद्धं न निवर्तयति, फलभोगेन तु प्रतिबन्धके क्षीणे निवर्तयतीति। तदप्ययुक्तम्। निरुपादानकर्मावस्थानानुपपत्तेः। स एवाविद्यालेशः कर्मोपादानमिति चेत्, न। कर्मावस्थानेऽविद्यालेशावस्थानम्, तदवस्थाने च कर्मावस्थानमिति परस्पराश्रयत्वापत्तेः। उत्पत्त्यादाविवावस्थानेऽपि तस्य दोषत्वात्।
किञ्चास्यार्थस्य न किञ्चित् स्फुटं ज्ञापकान्तरमस्ति। ततो मा नाम भूदवस्थितावितरेतराश्रयत्वम्। ज्ञप्तौ तु भवत्येव। जीवन्मुक्त्यन्यथानुपपत्त्यैवैषोऽर्थः कल्प्यत इति चेत्, न। परमपुरुषानुग्रहेणैव मोक्ष इत्यस्य सकलश्रुतीतिहासपुराणादिसिद्धस्यार्थस्याङ्गीकारेणैव सर्वस्योपपत्तावस्याः कल्पनाया अनवकाशादिति।
॥ अधिकरणार्थपिण्डीकरणपूर्वमुपसंहारः॥
अधिकरणार्थमुपसंहरति इति सर्वमिति॥
इति सर्वं प्रतिज्ञाय सवैस्तर्कैः सदागमैः।
उपासीत हरिं नित्यं गुणैरेव स्वयोग्यतः॥१६७॥
नास्त्येव मोक्षः, सत्त्वे वा साधनान्तरसाध्य इत्येतदनुपपन्नम्। किन्नाम। निष्कामभगवदर्थश्रुत्यादिविहितकर्मानुष्ठानेन शुद्धान्तःकरणस्य रागादिदोषक्षये जातभगवद्भक्तेः श्रवणमनननिदिध्यासनाभ्यासवतः परमभागवतस्य भगवत्साक्षात्कारे जाते प्रसन्नो भगवानप्रारब्धानि कर्माणि विनाश्य भागवतधर्मप्रवृत्तये ज्ञानिनं कमपि कालं व्यवस्थापयन् तदर्थं प्रारब्धानि कर्माण्यवशेष्य तत्फलोपभोगे सति तान्यपि विनाश्य प्रकृतिबन्धान्मोचयतीति सर्वं प्रतिज्ञाय। गुणैरेव नतु “सोऽरोदीत्” इत्यादिना प्रतीतैरप्यगुणैरिति “समाने च” इति सूत्रखण्डस्यार्थमनुवदति। युक्तमिति शेषः। स्वयोग्यत एव नतु योग्यतातिक्रमेणेति “प्राप्तेश्च” इत्यादिसूत्रार्थानुवादः। प्रयोजनं चोत्तरेण सङ्गतिसूचनमिति।
॥ सर्ववेदोक्तसमस्तगुणक्रियोपेतानन्तरूपोपासकत्वं ब्रह्मणः, क्रियासङ्कोचेन वेदोक्तसमस्तगुणोपेतानन्तरूपोपासकत्वं सरस्वत्याः, गुणक्रियासङ्कोचेनानन्तरूपोपासकत्वं रुद्रस्य
गुणक्रियारूपसङ्कोचेनोपासकत्वं शक्रादीनामिति द्वादशाधिकरणतात्पर्यकथनम्॥
स्वयोग्यत इत्युक्तम्। तामेव योग्यतां विवृणोति ब्रह्मेति।
ब्रह्मा सर्वैगुणैश्चैव क्रियासामान्यतश्च गीः।
गुणसामान्यतो रुद्रो द्रव्यसामान्यतः परे॥१६८॥
ब्रह्मैवेति सम्बन्धः। सर्वैर्वेदोदितैः। चशब्दः क्रियाद्रव्यसमुच्चयार्थः। हरिमुपासीतेति वर्तते। वेदोक्तसमस्तगुणक्रियोपेततयाऽनन्तरूपं हरिमुपासितुं ब्रह्मैव योग्य इत्यर्थः। चस्त्वर्थः। सरस्वती तु क्रियासामान्यतः क्रियासङ्कोचेनोपास्ते। सकलवेदोक्तगुणोपेततयाऽनन्तरूपं हरिमुपास्ते। त्रिविक्रमत्वादिक्रियास्तु नित्यविक्रान्त्यादिष्वन्तर्भावयतीत्यर्थः। गुणसामान्यतः समस्तरूपाण्युपास्ते। गुणान् क्रियांश्च सङ्कोचयतीत्यर्थः। परे शक्रादयः। द्रव्याणि रूपाणि। गुणक्रियासङ्कोचस्तु सिद्ध एव।
॥ व्युत्क्रमेण व्याख्याने निमित्तम्॥
एतेन “समान एवं चाभेदात्” इत्यधिकरणतात्पर्यमुक्तं भवति। “विद्यैव तु निर्धारणात्” इत्यतः पूर्वमेवेदमधिकरणम्। तत् कुतो व्यत्यासेन व्याख्यानम्? उच्यते प्रकरणशुद्धौ प्रमेयं सुग्रहं भवतीत्यतः क्रमभङ्गः। तथाहि उपासनस्वरूपानिश्चये न कोऽपि विचारोऽवकाशं लभत इति तत्स्वरूपमादौ दर्शितम्। ततस्तस्य कर्तव्यता समर्थिता। अनन्तरं तदितिकर्तव्यताजिज्ञासायां योग्यतादिविचार इति॥*॥ इति विद्याधिकरणम्॥२९॥
अथ यावदधिकरणम्॥२०॥
॥ ब्रह्मादीनां संसारे मुक्तौ च योग्यतानुक्रमेणैवावस्थितिः॥
यावदधिकारमवस्थितिराधिकारिकाणाम्। एतद् “यथा यथा” इत्यादिना भाष्ये व्याख्यातम्। तदविस्पष्टम्। अधिकारविशेषस्य कारणत्वानभिधानात्। मुक्तावित्युक्त्या संसारे नैवमिति प्रतीतेः। आनन्दमात्रग्रहणाद् गुणान्तरव्यावृत्तिप्राप्तेः। धर्मिणामनिर्देशाच्च। अतः स्पष्टं व्याचष्टे अधिकारेति।
ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ॥३३॥
अधिकारविशेषेण भक्तिज्ञानसुखादिभिः।
विशेषो देवतादीनां मोक्षे चैव विशेषतः॥१६९॥
अधिकारो योग्यता। अत्र सामान्योक्त्या मुक्तौ संसारे चेति गम्यते। तर्हि “मुक्तौ” इति कस्मादुक्तमित्यत आह मोक्षे चेति। चस्त्वर्थः। विशेषस्तु मोक्ष एवेत्यन्वयः। संसारे विक्षेपवशाद् योग्यतानुसारित्वं किञ्चिद् विहन्यते। मोक्षे तदभावाद् योग्यतानुसार्येव नियमेन भक्त्यादिकं भवतीत्यतो मुक्तावित्युक्तमिति।
॥ मुक्तौ तारतम्याङ्गीकारे द्वेषेर्ष्यादिप्रसङ्ग इत्याशङ्का॥
एवन्तर्हि मुक्तानां परस्परं द्वेषेर्ष्यादिप्रसङ्गेन मुक्तत्वविरोधः स्यादित्याशङ्कापरिहारार्थं सूत्रम् “अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत् तदुक्तम्” इति। एतदप्यविशदम्। “दोषाभावसाम्यात्” इत्यत्र साम्यपदप्रयोजनादर्शनात्। “उत्तमेभ्योऽन्येषां भावात्” इत्यस्योत्पत्तेरिति प्रतीतेः। शिष्यवदिति चायुक्तम्। क्वचिच्छिष्यस्यापि गुरौ द्वेषादिदर्शनात्। अतो व्याख्याति नेति।
॥ मुक्तानां विषयलम्पटत्वाभावात्, मात्सर्यादिसर्वदोषशून्यत्वात्, स्वोत्तमप्रसादाभिव्यक्तज्ञानादिगुणवत्त्वाच्च,
मुक्तौ तारतम्याङ्गीकारेऽपि गुरौ सच्छिष्यस्येव न द्वेषेर्ष्यादिप्रसङ्गः॥
ॐ अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत् तदुक्तम् ॐ॥३४॥
न तावता विरोधोऽस्ति निर्दोषत्वात् समस्तशः।
अभासत्वात् परेषां तदवराणां च सर्वशः॥१७०॥
तावता परस्परमसाम्येन द्वेषादिप्रसङ्गेन मुक्तत्वविरोधोऽस्ति। साम्यशब्दस्यार्थः समस्तश इति। “उत्तमेभ्यः” इत्यस्य विवरणम् आभासत्वादिति। तदवराणां सर्वेषां पराभासत्वाच्चेति योजना। एतदेव विवृण्वन् दृष्टान्तं व्याख्याति यत इति।
यतोऽवराणां सर्वेऽपि गुणा सर्वाः क्रिया अपि।
नियमेनैव पूर्वेषां सुप्रसादनिबन्धनाः।
अतः सच्छिष्यवत् तेषां नैवेर्ष्यादिः कथञ्चन॥१७१॥
गुरौ सच्छिष्यस्येवेत्यर्थः। एतच्चोत्तरत्र स्फुटीकरिष्यत्याचार्यः। (११९८)
॥ वृत्तिकारैः मायावादिना च देवानां संसारावस्थानस्य
  प्रारब्धकर्मभोगावसानपर्यन्तत्वप्रतिपादकतया व्याख्यानम्॥
चिरन्तनास्तु वृत्तिकाराः सूत्रद्वयमिदमन्यथा व्याचक्षते विदुषां किं ज्ञानोदयानन्तरमेव मुक्तिः किंवा नेति संशये पूर्वमस्मिन् पक्षे सतीदमुच्यते। आधिकारिकाणां परमेश्वरदत्ताधिकारे वर्तमानानां विदुषामपि देवादीनां यावदधिकारं संसारेऽवस्थितिः, न तदैव मुक्तिः। तथा श्रुत्यादिषु दर्शनात्।
सत्यामपि साधनसम्पत्तौ यदि न मोक्षः, तदा न तेषां कदाऽपि मोक्षः स्यादित्याशङ्कापरिहाराय द्वितीयं सूत्रम्। ब्रह्मविदां न मोक्षाभावरूपो विरोधः। कुतः? सामन्यतद्भावाभ्यां सामान्यविशेषभावाभ्याम्। यद्यपि “क्षीयन्ते चास्य कर्माणि” इति सामान्यतः सर्वकर्मणां ज्ञानेन क्षयोऽभिहितः, तथाऽपि “तस्य तावदेव चिरम्” इति विशेषवचनात् प्रारब्धकर्मणामवशेषो गम्यते।
एतदुक्तं भवति अप्रारब्धानि कर्माणि निवर्तन्ते। प्रारब्धस्य तु भोगेनैव क्षयः। अतस्तत्फलभूते अधिकारे स्थित्वा तत्क्षये प्रव्र्जन्त इति।
मायावादिनस्तु प्रथमसूत्रस्यैवायं समस्तोऽर्थ इति वर्णयन्तः “अक्षरधियाम्” इत्येतदधिकरणान्तरं व्याचक्षते।
॥ एतदर्थस्य तदधिगमाधिकरणे वक्ष्यमाणत्वात्, अत्राप्युक्तौ पौनरुक्त्यप्रसङ्गः॥
तत्राऽद्यं मतं निराकरोति नचेति।
नच संसारिदेवानां कालेयत्तापरे इमे।
सूत्रे ह्यारब्धमात्रस्य भोगेनैव क्षयो ध्र्ुवः॥१७२॥
अनारब्धस्य भोगेन त्वितरे इति चोदितः।
पौनरुक्त्येन तेनैते उक्तार्थे इति निश्चयः॥१७३॥
संसारावस्थानस्य कालेयत्ता कालमर्यादा प्रारब्धकर्मफलभोगावसानरूपा सा परा उद्देश्या प्रतिपाद्या ययोस्ते तथोक्ते। कुतो नेत्यत आह हीति। यस्मादनारब्धस्य ज्ञानेनैव क्षयः, आरब्धमात्रस्य भोगेनैव क्षयो ध्र्ुव इत्येषोऽर्थः “अनारब्धकार्ये एव तु पूर्वे तदवधेः” इति सूत्रेण, “भोगेन त्वितरे क्षपयित्वाऽथ सम्पत्स्यते” इति च सूत्रेणोदितः। तस्मान्नेति सम्बन्धः। एवमुदितत्वेऽपि कुतो नेत्याशङ्कां परिहरन्नपव्याख्याननिरासस्य प्रयोजनमाह पौनरुक्त्येनेति।
एतेन मायावादिनामपि व्याख्यानं निरस्तम्। तात्पर्यभेदात् प्रपञ्च्यप्रपञ्चनभावाद् वा न पौनरुक्त्यमिति चेत्। स्यादेवम्। यद्यसङ्कीणं व्याख्यानान्तरं न स्यात्। तदिदमुक्तम् इति निश्चय इति॥*॥ इति यावदधिकरणम्॥२०॥
अथ इयदामननाधिकरणम्॥२१॥
॥ देवतातारतम्यनिरूपणम्॥
इयदामननात्। येषां ज्ञानयोग्यानामिदं मुक्तिसंसारयोस्तारतम्यं समर्थितम्, ते छन्दोगानामुपनिषदि नामवागादिक्रमेण प्राणान्ता उक्ताः। तत्र किं प्राण एवाधिकारितारतम्यस्यावधिः, उताधिकोऽप्यस्तीति संशये सतीयदेव देवतातारतम्यमिति सिद्धान्तितम्।
तत्र न ज्ञायते कास्ता नामाद्या देवता इति। कथञ्च पञ्चदशैव, अधिकानामपि भावादित्याशङ्कानिरासार्थं बृहत्संहितावचनमेव पठति उषा इति।
ॐ इयदामननात् ॐ॥३५॥
उषाः स्वाहा च पर्जन्यो मित्रोऽग्न्र्विरुणो विधुः।
प्रवहोऽनिरुद्ध इन्द्रोमे रुद्रो वाणी च मारुतः।
उत्तरोत्तरतस्त्वेते गुणैः सर्वैश्च मुक्तिगाः॥१७४॥
सूर्यधर्मौ यथा सोमो मनुर्दक्षो बृहस्पतिः।
शची रतिश्चानिरुद्धसमास्तारा च मित्रवत्॥१७५॥
सोमवच्छतरूपा तु प्रसूतिर्वह्निवद् विरा।
पर्जन्यवद् वारुणी च तथा सञ्ज्ञा च रोहिणी।
धार्मी च मित्रवत् त्वेव प्रावही परिकीर्तिता॥१७६॥
मित्रपर्जन्यमध्यस्थावश्विनौ विघ्नवित्तपौ।
भृगुरग्न्सिमो मित्रतन्मध्ये ब्रह्मपुत्रकाः॥१७७॥
वरुणाग्यन्तरा तत्र नारदः प्राय इन्द्रवत्।
कामः सुपर्णी चोमावद् वीन्द्रो रुद्रवदीरितः॥१७८॥
निर्ऋतिर्मित्रसदृशो विश्र्वामित्रः कसूनुवत्।
वैवस्वतो मनुश्चाश्विपश्चादन्ये ततोऽवराः॥१७९॥
च्यवनोचथ्यवैन्याश्च शशबिन्दुश्च हैहयः।
तद्वच्च विप्रराजन्यविशेषोऽत्रापि कश्चन॥१८०॥
तद्वत् प्रियव्र्तश्चापि तदन्याः शतदेवताः।
पर्जन्यमित्रान्तराले तदन्ये तु ततोऽवराः॥१८१॥
उषा अश्विनोर्भार्या। स्वाहाऽग्नेर्भार्या। पर्जन्यो मित्रश्चाऽदित्यौ। प्रवहो मरुत्। अनिरुद्धः कामसुतः। एते मुक्तिगा संसारगाश्च सर्वैर्गुणैरुक्तक्रमेणोत्तरोत्तरत एव वर्तन्त इत्यर्थः।
अधिकसद्भावशङ्कानिरासायैतेषां समानन्तरावस्थितांश्चाऽह सूर्येत्यादिना। तथेति शेषः। सूर्यधर्मौ सोमसमानौ। मन्वादयः पञ्चानिरुद्धसमानाः। मनुरत्र स्वायम्भुवो विवक्षितः। तारा बृहस्पतिभार्या। चस्त्वर्थः। मित्रेण तुल्यं वर्तत इति मित्रवत्।
शतरूपा स्वायम्भुवस्य पत्नी सोमवत्। सूर्यधर्मावित्यत्रैवेयं वक्तव्या। सत्यम्। पतीनामुक्तौ इदानीमासां प्रस्तुतत्वात् पृथगुक्तिः। प्रसूतिर्दक्षपत्नी वह्निवत्। विराडनिरुद्धभार्या पर्जन्यवत्। वरुणस्येयं वारुणी। पुंयोगे तु वरुणानीति स्यात्। “इन्द्रवरुण” इति स्मरणात्। सञ्ज्ञा सूर्यभार्या। रोहिणी सोमभार्या। धर्मस्येयं धार्मी। वारुणी, सञ्ज्ञा, रोहिणी, धार्मी च तथैव पर्जन्यवदेव। प्रवहस्येयं प्रावही तु मित्रवदेव प्रकीर्तिता।
अश्विनौ विघ्नपवित्तपौ मित्रपर्जन्यमध्यस्थाविति प्रत्येकं सम्बन्धः। एते चत्वारः परस्परं समा मित्रादधमाः, पर्जन्यादुत्तमा इत्यर्थः। भृगुरग्न्सिम इति वक्ष्यमाणस्यापवादः। ब्रह्मपुत्रा मरीच्याद्या मित्रतन्मध्ये मित्राग्न्योर्मध्ये। परस्परं समा मित्रादुत्तमा अग्नेरधमा इत्यर्थः।
तत्र तेषु ब्रह्मपुत्रेषु नारदो वरुणाग्न्यन्तरा वरुणादधमोऽग्नेरुत्तम इत्यर्थः। तथाच दक्षभृगुनारदानां पृथगुक्तत्वात् ब्रह्मपुत्रका मरीचाद्याः सप्तैव। प्रायग्रहणेनेषन्न्यूनः। सुपर्णी गरुडभार्या।
विश्र्वामित्रः कसूनुवत् ब्रह्मपुत्रैर्मरीच्याद्यैः समानः। वैवस्वतो मनुश्च कसूनुवदिति सम्बन्धः। स्वायम्भुवाद् वैवस्वताद् भगवदवतारात् तापसाच्चान्ये मनवः ततो वैवस्वतादवराः। तेऽश्विभ्यां पश्चात् पर्जन्यादुत्तमाः।
च्यवनाद्याश्च तद्वत्। एकादशमनुसमानाः। अत्रैतेष्वपि विप्रराजन्यत्वनिमित्तः कश्चन विशेषोऽस्ति। मुक्तावपि विप्रत्वादेर्भावात्। अत्र च्यवनोचथ्यौ विप्रौ, अन्ये राजन्याः। प्रियव्र्तोऽपि तद्वत् अवरमनुवदेव।
तदन्या उक्तेभ्योऽन्याः शतदेवताः सोमार्हदेवताः शतान्तरगताः पर्जन्यमित्रान्तराले। पर्जन्यादुत्तमा मित्रादधमा अश्विनोः समाना इत्यर्थः। तदन्ये उक्तेभ्योऽन्ये तु देवाः, ततः शतान्तर्गतदेवताभ्योऽवराः। अवरमनुसमाना इत्यर्थः।
॥ महालक्ष्म्याः प्राणादप्युत्तमत्वेऽपि तस्या नित्यमुक्तत्वात् अधिकारिवर्गे न ग्रहणम्॥
ननु महालक्ष्मीः प्राणादप्युत्तमाऽस्ति। तत् कथं प्राणावसानत्वमधिकारिणामित्यत आह एतेभ्य इति।
एतेभ्योऽधिका श्रीस्तु सदा मुक्ता विशेषतः।
तत्समो नास्ति परमो हरिरेव नचापरः॥१८२॥
संहितायां बृहत्यां तु स्वयं भगवतोदितम्।
तदेतखिलं प्राण आहङ्कारिक एव च
इन्द्रादनन्तरः............................॥१८३॥
यद्यपि श्रीरेतेभ्यो विशेषतोऽभ्यधिका, तथाऽपि सदा मुक्ता बन्धरहितेति नाधिकारिवर्गे गृह्यते। तस्याः समो नास्तीति स्वरूपकथनम्। एतेन “कामादितरत्र तत्र चायतनादिभ्यः” इत्यधिकरणस्य तात्पर्यमुक्तं भवति। परमो हरिरेव नचापर इत्यनेन “व्यतिहारो विशिंषन्ति हीतरवत्”, “सैव हि सत्यादयः” इत्यधिकरणद्वयस्य तात्पर्यमुक्तं वेदितव्यम्।
ननूपनिषदि नामाद्याः प्राणान्ताः पञ्चदशोक्ताः। अत्र चोषाः स्वाहेत्यादिना चतुर्दशैव तत् कथं न विसंवाद इत्यतो बृहत्संहितावचनेनानुक्तमेकं स्वयमाह प्राण इति। तैजसाहङ्कारादुत्पन्नः प्राणश्च अपरोऽस्ति। स चेन्द्रादनन्तर एवानिरुद्धादुत्तमो ज्ञातव्यः। परप्राणव्यावृत्त्यर्थमाहङ्कारिक एवेत्युक्तम्।
॥ उक्तदेवतातारतम्यस्य सङ्ग्रहेण निरूपणम् ॥
अयमत्र सङ्ग्र्रहः
पुष्करो नाम सर्वावरो देवः, “कलाभ्यश्चान्यदेवेभ्यः कर्म प्रत्यवरं यतः। कलाभ्यः पृथगुक्तं तत्
पुष्करः कर्म चोच्यते” इत्यन्यत्रोक्तत्वात्।
ततः शनैश्चरोऽधिकः, “पृथिव्यात्मा शनिश्च” इति वचनात्।
तत उषाः।
ततो बुधः, “उदकात्मको बुधश्च” इति वचनात्।
ततः स्वाहा।
ततः पर्जन्यः, वारुणी, सञ्ज्ञा, रोहिणी, धार्मी, विरा।
तत एकादश मनवः, च्यवनोचथ्यवैन्यशशबिन्दुहैहयप्रियव्र्तगयाः, अनुक्तदेवाश्च। “प्रियव्र्तो
गयश्चैव कर्मदेवसमौ मतौ” इत्यन्यत्रोक्तत्वात्।
ततोऽश्विनौ, विघ्नेशवित्तपौ, विष्वक्सेनश्च। “विष्वक्सेनो वायुजः खेन तुल्यः” इति वचनात्।
ततो मित्रः, निर्ऋतिः, तारा, प्रावही च।
ततो मरीचिः, अत्रिः, अङ्गिराः, पुलस्त्यः, पुलहः, क्रतुः, वसिष्ठः, विश्र्वामित्रः, वैवस्वतमनुश्च।
ततोऽग्निः, भृगुः, प्रसूतिश्च।
ततो नारदः।
ततो वरुणः।
ततश्चेन्द्रसूर्यधर्माः, शतरूपा च।
ततः प्रवहः।
ततोऽनिरुद्धस्वायम्भुवबृहस्पतिदक्षाः, शची, रतिश्च।
तत आहङ्कारिकः प्राणः।
तत इन्द्रकामौ।
तत उमा, सुपर्णी। उमात्मकत्वाच्छेषभार्या च।
ततो जाम्बवत्याद्या भगवन्महिष्यः ष। अन्यत्रोक्तत्वात्।
ततो रुद्रात्मकत्वाच्छेषश्च।
ततो भारती। तदात्मकत्वात् सरस्वती च।
ततो मुख्यवायुः। तदात्मकत्वाद् ब्रह्मा च।
ततो महालक्ष्मीः।
ततो भगवानिति॥*॥ इतीयदामननाधिकरणम्॥२१॥
अथ दर्शनभेदाधिकरणम्॥३२॥
॥ भगवत्साक्षात्कारस्यपि योग्यतानुसारित्वम्॥
प्रज्ञान्तरपृथक्त्ववद् दृष्टिश्च तदुक्तम्। एतद् व्याख्यातं भाष्ये “उपासनाभेदवद् दर्शनभेदः” इति। तदस्पष्टम्। दर्शनभेदे मूलकारणस्यानुक्तत्वात्। ततो व्याख्याति दृष्टिरपीति।
ॐ प्रज्ञान्तरपृथक्त्ववद् दृष्टिश्च तदुक्तम् ॐ॥५२॥
................... दृष्टिरपि योग्यानुसारतः॥१८३॥
नानाविधेति शेषः॥*॥ इति दर्शनभेदाधिकरणम्॥३२॥
अथ प्रदानाधिकरणम्॥२६॥
॥ सुप्रसन्नगुरुप्रदत्तविद्याया एव साक्षात्कारकारणत्वम्॥
प्रदानवदेव तदुक्तम्। अत्र प्रकृष्टं दानं प्रदानम्। प्रशब्दो न स्फुटं व्याख्यातो भाष्ये। अतः सूत्रार्थमाह सम्यगिति।
ॐ प्रदानवदेव तदुक्तम् ॐ॥४४॥
सम्यग् गुरुप्रसादश्च मुख्यतो दृष्टिकारणम्।
न केवलं श्रवणादि, किन्तु सम्यग् गुरुप्रसादश्च। सम्यक् प्रसादपूर्वकं गुरोर्यद् विद्यादानं तच्च भगवद्दृष्टेः कारणमित्यर्थः।
॥ व्युत्क्रमेण व्याख्याने निमित्तम्॥
 ननु “प्रज्ञान्तरपृथक्त्ववत्” इति सूत्रं “प्रदानवदेव” इत्यतः पश्चात्तनम्। तत् कुतो व्युत्क्रमः? उच्यते योग्यताचिन्तासङ्गतं तदिति प्रकरणशुद्धये पूर्वमेव व्याख्यातमिति न दोषः॥*॥ इति प्रदानाधिकरणम्॥२६॥
अथ गुरुप्रसादाधिकरणम्॥२७॥
॥ गुरुप्रसादस्य श्रवणादिस्वप्रयत्नादप्यतिशयेन बलवत्त्वम्॥
लिङ्गभूयस्त्वात् तद्धि बलीयस्तदपि। अत्र गुरुप्रसादस्य बलवत्त्वमुक्तम्। तदयुक्तम्। श्रवणादितो हि बलवत्त्वम्। तच्च प्रदानशब्दार्थान्तर्गतमेव। नहि स्वस्मादेव स्वयं बलीय इति सम्भवतीत्यतो व्याचष्टे सम्यगिति। मुख्यतः श्रवणाद्यपेक्षयाऽतिशयेन।
अयमभिसन्धिः प्रदानशब्देन हि सम्यग् गुरुप्रसादपूर्वकं दानं प्रकृतम्। तत्र सम्यग् गुरुप्रसादमात्रं तदिति अत्र परामृश्यत इति।
॥ श्रवणादीनामप्यवश्यानुष्ठेयत्वम्॥
“लिङ्गभूयस्त्वात्” इत्युक्तम्। यास्वाख्यायिकासु लिङ्गानि दृश्यन्ते तत्र गुरुप्रसादेनैव ज्ञानप्राप्तिश्रवणात् श्रवणादिकं न करणीयमिति शङ्का स्यात्, निवारयितुं “तदपि” इत्युक्तम्। तद् व्याख्याति श्रवणादि चेति।
ॐ लिङ्गभूयस्त्वात् तद्धि बलीयस्तदपि ॐ॥४५॥
श्रवणादि च कर्तव्यं नान्यथा दर्शनं क्वचित्॥१८४॥
कुत इत्यत आहनान्यथेति। अन्वयव्यतिरेकाभ्यां श्रुत्या च प्रमाणानामेव प्रमेयाधिगतिसाधनत्वनिश्चयादिति भावः। आख्यायिकास्वपि श्रवणादीनामनुक्तिमात्रम्। न पुनरभावोक्तिरस्ति॥*॥ इति गुरुप्रसादाधिकरणम्॥२७॥
अथ पूर्वविकल्पाधिकरणम्॥२८॥
॥ ज्ञानभक्त्यादिभिरुत्तमं गुरुं परित्यज्य ततो हीनमाश्रयतः नरकाद्यनर्थप्राप्तिः॥
पूर्वविकल्पः प्रकरणात् स्यात् क्रियामानसवत्। किं प्रथमप्राप्त एव गुरुः, उत तं परित्यज्य अन्योऽपि स्वीकर्तुं शक्यत इति संशये “गुरुमन्त्रपरित्यागी रौरवं नरकं व्र्जेत्” ति गुरुपरित्यागे दोषस्मरणात् प्रथमप्राप्त एवेति प्राप्ते विकल्प उच्यते। स हीनसमोत्तमेषु किंविषय इति न ज्ञायते। दोषस्मरणस्य का गतिरित्यतो व्यक्तं व्याख्याति गुणाधिकमिति।
ॐ पूर्वविकल्पः प्रकरणात् स्यात् क्रियामानसवत् ॐ॥४६॥
गुणाधिकं गुरुं प्राप्य तद्धीनं नाऽप्नुयात् क्वचित्।
क्वचित् प्रयोजनविशेषेऽपि। दोषस्मरणं तद्विषयमिति भावः।
॥ पूर्वस्माद् गुरोः परस्य उत्तमत्वे तत्स्वीकारे न विकल्पः, किन्तु स्वीकार्य एव॥
एवन्तर्हि सौत्रो विकल्पोऽधिकगुरुप्राप्तिविषयः किमिति नेत्याह विपर्ययस्त्विति।
विपर्ययस्तु कर्तव्यः सर्वथा शुभमिच्छता॥१८५॥
अधमगुरुपरित्यागेनोत्तमगुरुस्वीकार इत्यर्थः। अन्यथा दैवादादावल्पं गुरुं प्राप्तस्य शिष्यस्य प्रज्ञोत्कर्षवतो जातयोः संशयविपर्यासयोरज्ञानस्य च निवृत्तिर्न स्यात्। तदिदमुक्तम् शुभमिच्छतेति।
॥ अनुपदिशदुत्तमगुरुपरित्यागेन उपदिशदधमगुरुपरिग्रहः कर्तव्यः॥
एवन्तर्ह्यनुपदिशत उत्तमस्य त्यागेनोपदिशतोऽधमस्य स्वीकारोऽपि कर्तव्यः स्यात्। सत्यम्। प्रतिषेधवचनेन तत्रापोदितोऽयं न्यायः।
॥ पूर्वपाश्चात्यगुर्वोः समत्व एव विकल्पः, पूर्वानुज्ञया च परः स्वीकार्यः॥
तर्हि सौत्रस्य विकल्पस्य को विषय इत्यत आह सम इति।
समे विकल्प एव स्यात् पूर्वानुज्ञा च सर्वथा।
तदुत्तमगुरुप्राप्त्यै पूर्वानुज्ञा न मृग्यते॥१८६॥
पूर्वस्वीकृतेन गुरुणा समे गुरौ स्वयमेव प्राप्ते सति स्वीकारस्य विकल्प एव स्यात्। नतु नियमः। सम एवेति वा सम्बन्धः।
पिूर्वानुज्ञारहिततत्समान्यगुरुस्वीकारस्य नरकाद्यनर्थहेतुत्वम्॥
दोषस्मृतेर्विषयान्तरं च दर्शयितुमाह पूर्वेति। समगुर्वन्तरस्वीकारे पूर्वस्यानुज्ञा च सर्वथा भाव्या। विनाऽनुज्ञया समानपूर्वपरित्यागविषयं दोषस्मरणमिति भावः।
पूर्वानुज्ञा चेत्येतद् गुर्वन्तरप्राप्तिमात्रविषयमिति मन्दप्रतीतिनिरासायाह तदुत्तमेति। तदिति पूर्वप्राप्तस्य परामर्शः। तस्मादुत्तमस्य गुरोः प्राप्त्यै पूर्वस्यानुज्ञा न मार्गणीया।
॥ विद्याभिमानिदेवतानां शास्त्रप्रतिपाद्यविष्णोश्च प्रसादः बलीयो ज्ञानसाधनम्॥
गुरुप्रसादः सर्वथा भाव्य इति सूत्रकृतोक्तम्। तद् विद्यादेवतयोरपि प्रसादस्योपलक्षणमिति विवक्षुर्गुरुविद्यादेवतास्वरूपं तावदाह गुरुरिति।
गुरुर्ब्रह्माऽखिलानां च विद्या चैव सरस्वती।
देवता भगवान् विष्णुः सर्वेषामविशेषतः।
तत्प्रसादेन मुक्तिः स्यान्नान्यथा तु कथञ्चन॥१८७॥
येषान्तेषामिति विशेषं विहाय सर्वेषामेव। ततः किमित्यत आह तदिति। न केवलं गुरुप्रसादेन किन्तु विद्यादेवतयोरपीत्यर्थः। मुक्तिरिति ज्ञानादेरुपलक्षणम्।
॥ स्वोत्तमा गुरवः॥
साधारणं गुरुमुक्त्वाऽसाधारणानाह स्वोत्तमास्त्विति।
स्वोत्तमास्तु क्रमेणैव सर्वेषां गुरवः स्मृताः।
क्रमेणैवेति साक्षादुत्तमो गुरुः, ततोऽप्युत्तमो गुरुतर इत्यादि। एवं विद्याविशेषे तद्देवताविशेषोऽपि ज्ञातव्यः।
॥ चतुर्मुखस्य सर्वेषां प्रति विद्योपदेष्टृत्वरूपगुरुत्वसद्भावात् तस्य मुख्यगुरुत्वम्॥
नन्वस्तु विद्यात्वं विद्याभिमानित्वात् सरस्वत्यादीनाम्। देवतात्वं च विद्याप्रतिपाद्यत्वाद् विष्णोः। ब्रह्मणो गुरुत्वं तु कुतः? विद्योपदेष्टृत्वं हि गुरुत्वम्। नच सर्वान् प्रति ब्रह्मणस्तदस्तीत्यत आह उपदेश इति।
उपदेशो ब्रह्मणस्तु सर्वेषामेव मुक्तये॥१८८॥
इह जन्मान्तरे वा हिरण्यगर्भोपदेशेन विना न कस्यापि मुक्तिरित्यतस्तस्य गुरुत्वमुपपन्नम्। तदितरेषामप्युत्तमानां विद्यासम्प्रदायप्रवर्तकत्वाद् गुरुत्वम्, अप्रवर्तकानां त्वनुग्राहकत्वादिनेति॥*॥ इति पूर्वविकल्पाधिकरणम्॥२८॥
अथ ताद्विध्याधिकरणम्॥३४॥
॥ भक्तेः भगविदतमोक्षसाधनापेक्षयैव उत्तमत्वम्॥
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः। “भक्तिरेवैनं नयति” इत्यादिश्रुतेर्भक्तिरेव मोक्षादिसाधनम्, न परमात्मा। यथैकलव्यस्य गुरुभक्तिरेव विद्याप्राप्तिसाधनम्, न गुरुः, इत्येवं प्राप्ते इदमुक्तम्। तत्र भाष्यम् “प्रधानसाधनत्वाद् भक्तिः करणत्वेनोच्यते” इति। तत्र प्रकृतत्वाद् भगवदपेक्षयैव भक्तेः प्राधान्यमिति प्रतीतिः स्यात्, तां निवारयितुमाह साधनेभ्य इति।
ॐ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॐ॥५४॥
साधनेभ्योऽधिका भक्तिर्नैवान्यत् तादृशं क्वचित्।
मोक्षसाधनेभ्यो ज्ञानादिभ्यः। एतदपि तादृगेव भगवतोऽपि मोक्षसाधनत्वादित्यत आह नैवेति। क्वचिन्मुक्तौ ज्ञानादौ वा भगवतोऽन्यत् साधनं भक्तिसदृशं नैवास्तीत्यर्थः।
॥ भक्तिश्च तारतम्येनैव कर्तव्या॥
भक्तिरिति सामान्येनोक्तं न ज्ञायते, किंविषया कथञ्चेति। अत आह भक्तिश्चेति।
भक्तिश्चैव हरावेव मुख्याऽन्यत्र यथाक्रमम्।
स्वाधिका त्वेव सर्वत्र स्वोत्तमेषु क्रमेण च॥१८९॥
हरावेव मुख्या सर्वाधिका, न तथाऽन्यत्र। अन्यत्रापि यथाक्रममेव, नतु साम्येनाक्रमेण वेत्यर्थः। तदियत्तामाह स्वाधिकेति। साक्षात् स्वोत्तमे स्वाधिकैव कर्तव्या। अन्यत्र स्वोत्तमेषु तदुत्तमत्वक्रमेणेत्यर्थः। यद्यप्येषोऽर्थः प्रागुक्तः, (११०४) तथाऽपि तात्पर्यातिशयद्योतनाय पुनरुक्तः।
॥ मुक्तावपि भक्तिरानन्दरूपेण तिष्ठति॥
भक्तिः साधनं चेत्, मुक्तिप्राप्त्यनन्तरं नास्तीति प्रतीतिः स्यात्। फलप्राप्तौ साधननिवृत्तिदर्शनात्। तन्निवृत्त्यर्थमाह अनुवर्तते चेति।
अनुवर्तते च सा भक्तिर्मुक्तावानन्दरूपिणी।
तत्पूर्विकोपासनैवं कर्तव्या मुक्तये गुणैः॥१९०॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य तृतीयः पादः।
प्रेमविशेषो हि भक्तिर्नाम। उपकारकत्वज्ञानाज्जाता हि प्रेमा कृतमहोपकारे नितरां वर्धत इत्येव खलु युक्तम्, नतु हीयत इति। तदेतदस्तीत्यनुक्त्वाऽनुवर्तत इति वदता सूचितम्। तर्हि तस्याः फलमपि किञ्चित् स्यादित्यत आह आनन्दरूपिणीति। प्राक् कर्तव्यतया प्रकृता, अतः साधनरूपा। मुक्तौ तु स्वभावभूता आविर्भूतफलरूपैव। पादार्थमुपसंहरति तदिति। भक्तिपूर्वा। एवमिति योग्यतादेः परामर्शः। गुणैरुपेतस्य हरेः॥*॥ इति ताद्विध्याधिकरणम्॥३४॥
इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते
रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना।
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ
तृतीयेऽत्रोपासाविषयचरणः पर्यवसितः।
इति श्रीमद्ब्रह्मसूत्रानुव्याख्यानटीकायां
श्रीजयतीर्थमुनिविरचितायां श्रीमन्न्यायसुधायां
तृतीयाध्यायस्य तृतीयः पादः।