न्यायसुधा (जयतीर्थकृता)/तृतीयाध्यायस्य चतुर्थः पादः

विकिस्रोतः तः


ॐ तत् सत्
न्यायसुधा
॥ ज्ञानस्य मोक्षेतरफले स्वर्गादावपि सामर्थ्यप्रतिपादनार्थं पादारम्भः॥
“ज्ञानसामर्थ्यमस्मिन् पाद उच्यते” इति पादप्रतिपाद्यं भाष्येऽभिहितम्। सङ्गतिस्तु प्रागुक्तैव। (१०६३) ननुच ज्ञानस्य स्वातन्त्रेण मोक्षसाधनत्वं सामर्थ्यम्। तच्च “विद्यैव” इत्युक्तम्। किमपरमवशिष्यते यदर्थं पादारम्भः। उच्यते सिद्धे स्वतन्त्रस्यैव ज्ञानस्य मोक्षसाधनत्वे, विषयान्तरे तु समर्थ्यते। यद्यपि साधकेन मोक्षार्थमेवेदं साधितम्, तथाऽपि स्वभावबलायातं तत्सामर्थ्यमुपपद्यते। यथा दहनार्थमुत्पादितोऽपि दहनः स्वभाववशात् प्रकाशयत्यपीति।
अथ पुरुषार्थाधिकरणम्॥१॥
॥ अपरोक्षज्ञानस्य स्वोत्पत्तिक्षणादारभ्य प्रारब्धकर्मानतिरेकेण
योग्यतानुसारेण च सर्वपुरुषार्थहेतुत्वम्॥
पुरुषार्थोऽतः शब्दादिति बादरायणः। किं कर्मानुप्रवेशेन ज्ञानं मोक्षसाधनम्, किंवा स्वतन्त्रमेवेति संशये स्वतन्त्रस्यैव ज्ञानस्य मोक्षसाधनत्वमनेन समर्थ्यत इति केचिद् व्याचक्षते। तदसत्। “विद्यैव” इत्यत्रैवास्यार्थस्य समर्थितत्वात्। किन्तु ज्ञानं किं मोक्षमेव साधयति, उतान्यमपि पुरुषार्थमिति संशये ज्ञानिनां पुरुषान्तरे रागाभावान्मोक्षस्यैव साधकं ज्ञानमिति प्राप्ते सतीदमुच्यत इत्याशयवान् “पुरुषार्थोऽतः” इत्येतावद् व्याचष्टे एवमिति।
ॐ पुरुषार्थोऽतः शब्दादिति बादरायणः ॐ॥१॥
एवमुत्पन्ननिर्दोषभगवद्दर्शनात् सदा।
अपेक्षितफलप्राप्तिरारब्धस्यानतिक्रमात्।
देवर्षिमानुषादीनां तत्तज्जात्यनुसारतः॥१॥
अत इति ज्ञानपरामर्शो नोपपद्यते। पूर्वत्र प्राधान्येनोपासनस्यैव प्रकृतत्वादित्यत उक्तम् एवमुत्पन्नेति। न खलूपासनं स्वातन्त्र्येण प्रकृतम्। किन्नाम। भगवद्दर्शनार्थत्वेन। अतः साध्यतया तदपि प्रकृतमेवेति भावः। एवमुक्तरूपोपासनोत्पन्नात्। भगवतो निर्दोषत्वसङ्कीर्तनं तदुपपादनाय (१२१२) पातनिकार्थं ज्ञातव्यम्।
यद्वा भगवद्दर्शनादित्येवोक्ते, दैत्यादीनां यदवतारदर्शनम्, तस्यापि पुरुषार्थहेतुत्वं स्यात्। एवमुत्पन्नेत्यनेनैव तत्परिहृतमिति चेत्, न। तस्य प्रकृतताप्रदर्शन एव चरितार्थत्वात्। तन्न तेषां बिम्बदर्शनमिति चेत्। मा भूत्। तस्य मोक्षार्थत्वात्। अत्रतु पुरुषार्थान्तरस्य प्रस्तुतत्वात्। अतो निर्दोषाद् भगवद्दर्शनादित्युक्तम्। भगवद्ग्रहणेनाद्वैतज्ञानमत्र गृह्यत इति निराचष्टे। सदा ज्ञानोदयक्षणादारभ्य, “स्वोदयात् फलदं ज्ञानम्” इति वचनात्। अपेक्षितफलप्राप्तिर्भवतीति मोक्षमात्रं व्यावर्तयति।
नन्वेतदसत्। ज्ञानिनामप्यभिप्रायस्य कदाचिन्मोघत्वदर्शनादित्यत आह आरब्धस्येति। प्रारब्धकर्मणोऽतिक्रममविधायेति पूर्वेणैव सम्बन्धः। प्रारब्धप्रतिबद्धं हि ज्ञानं मोक्षमपि न करोति। अतस्तत्प्रतिबन्धकवशाज्ज्ञानिनामप्यभिप्राया मोघाः स्युः।
ज्ञानस्य पुरुषार्थहेतुत्वेऽपि विशेषोऽस्तीत्याह देवेति। जातिशब्देनात्र योग्यतोच्यते। अपेक्षितफलप्राप्तिर्भवतीति सम्बन्धः। एतेन “नाविशेषात्” इत्यस्यापि तात्पर्यमुक्तं भवति।
॥ दृष्टस्य पुत्रादेः अदृष्टस्य स्वर्गादेश्च कर्ममात्रसाध्यत्वमतं अधममानुषज्ञानिविषयं
दृष्टादृष्टयोः कर्ममात्रसाध्यत्वेऽपि अदृष्टे फले ज्ञानस्यातिशयाधायकत्वमतं मध्यममानुषज्ञानिविषयं
दृष्टादृष्टसर्वपुरुषार्थस्य ज्ञानशेषिकर्मसाध्यत्वमतं उत्तममानुषज्ञानिविषयम्॥
अत्र न ज्ञानं स्वतन्त्रमेव स्वर्गादिसाधनम्, किन्तु कर्मैव। ज्ञानं तु कर्मशेषत्वात् तत्साधनत्वेनोच्यते। शेषत्वं च कर्मणैव सिद्ध्यति, पुरुषार्थेऽतिशयाधायकत्वमिति “शेषत्वात् पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः” इत्यादिसूत्रैः पूर्वपक्षयित्वा “अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात्” इत्यादिना स्वतन्त्रस्यैव ज्ञानस्य स्वर्गादिसाधनत्वं पुनः सिद्धान्तितम्। तत्र पूर्वपक्ष्युपन्यस्तप्रमाणनिरासः स्फुटो भाष्ये। जैमिनिमतविरोधपरिहारस्तु कथमित्यत आह जैमिन्युक्तमिति।
जैमिन्युक्तं मानुषाणां तद्विशेषाश्च केचन।
ज्ञानशेषस्य कर्मण एव स्वर्गादिसाधनत्वं मानुषज्ञानिविषयम्। न केवलं जैमिन्युक्तम्, किन्तु “स्वर्गादयः कर्मणैव नान्येनेत्यपरे विदुः”,”अदृष्टमेव ज्ञानेन दृष्टं नैवोपलभ्यते। इति केचिद् विदः प्राहुः” इत्यादिनोक्तास्तद्विशेषा जैमिनिमतैकदेशा ये केचन तेऽपि मानुषाणाम्। कथमेतेषां जैमिनिमतैकदेशत्वमिति चेत्। स्वतन्त्रस्य ज्ञानस्य न स्वर्गादिसाधनत्वमित्येतावत्यंशे साम्यादिति ब्रूमः। मानुषा अप्युत्तममध्यमाधमभेदभिन्ना इति यथायोग्यं विचित्रमतविषया भवन्त्येव।
॥ ज्ञानस्य उत्सर्गतः सर्वपुरुषार्थहेतुत्वं भगवदभिमतम्,
    मानुषज्ञानिविषये अपवादस्तु जैमिन्याद्युक्त इति तन्मतयोरविरुद्धत्वम्॥
एवं जैमिनिमतविषयमुक्त्वा सूत्रकारमतविषयं दर्शयति सामान्यमिति।
सामान्यं भगवत्प्रोक्तं देवादीनां विशेषतः।
ज्ञानं सकलपुरुषार्थसाधनं भवतीति सामान्यमेव भगवता प्रोक्तम्। नतु पुरुषविशेषनिष्ठं ज्ञानमिति। अतः सामान्यविशेषनियतत्वान्नैतयोर्मतयोर्विरोधः।
॥ ज्ञानस्य सर्वपुरुषार्थहेतुत्वमतं देवादिविषयकम्॥
ननु सामान्येनापि क्वचिद् विशेषेऽवस्थातव्यम्। तदिदमपि क्वावतिष्ठत इत्यत आह देवादीनामिति। भगवन्मतं विशेषतोऽपवादैरपोदितं देवादिविषयं व्यवतिष्ठते। यद्यप्ययमर्थो लोकत एव सिद्धः, यदपवादविषयं परित्यज्य सामान्यं व्यवतिष्ठत इति, तथाऽपि मन्दप्रबोधनायाऽचार्यैरभिहितः।
॥ साधनान्तरमन्तरेण ज्ञानस्य सर्वपुरुषार्थहेतुत्वमिति भगवन्मतं प्रतिबन्धहीनदेवादिविषयकम्,
ज्ञानशेषिकर्मणां सर्वपुरुषार्थहेतुत्वमिति जैमिनिमतं प्रतिबन्धयुतदेवादिविषयकमिति चाविरेधः॥
प्रकारान्तरेण मतयोर्विषयभेदं दर्शयति बलवदिति।
बलवद्विरोधिसद्भावे जैमिन्याद्युक्तिरिष्यते॥२॥
अत्रापि सामान्यं भगवत्प्रोक्तमिति वर्तते। भगवता ज्ञानं सकलपुरुषार्थसाधनमिति सामान्येन उक्तम्। जैमिन्यादयस्तु बलवत्प्रतिबन्धककर्मसद्भावे ज्ञानस्य पुरुषार्थासाधनत्वमभिप्रेत्य न स्वतन्त्रज्ञानात् स्वर्गादिप्राप्तिर्भवतीत्युक्तवन्तः। ततश्च सामान्यविशेषविषयत्वान्न विरोधः। तथाचाप्रतिबद्धज्ञानविषयं भगवन्मतं व्यवतिष्ठते। यथोक्तम् “आरब्धस्यानतिक्रमात्” इति।
ननु नायं जैमिन्यादिमतस्य विषयो वक्तुं शक्यते। बलवद्विरोधसद्भावे कर्मणोऽपि स्वर्गादिसाधनत्वानुपपत्तेः। मैवम्। नहि यज्ज्ञानस्य प्रतिबन्धकं कर्म तत् कर्मणोऽपीत्यस्ति नियमः। लोकेऽन्यथा दर्शनात्। फलप्रतिबन्धककर्मसद्भावे कथमिति चेत्, तदा स्वर्गादिसाधनं कर्मैव नोत्पद्यते। उत्पन्नं वा प्रतिबद्धं तिष्ठतीति को विरोधः? नहि बलवद्विरोधिसद्भावे सर्वत्रैव जैमिन्याद्युक्तिरिष्यत इत्युक्तम्। इयं च व्यवस्था पूर्वव्यवस्थयोपस्कतर्व्या। अन्यथा विरोधापत्तेरिति॥*॥ इति पुरुषार्थाधिकरणम्॥१॥
अथ स्तुत्यधिकरणम्॥४॥
॥ उत्तमज्ञानिनां क्लृप्तानन्दादिगुणहानिरूपविकर्मलेपो नास्ति,
किन्तु प्रसक्तानन्दादिगुणहानिलक्षणलेपस्त्वस्ति॥
स्तुतयेऽनुमितिर्वा। अत्राधिकरणे ज्ञानिनः सदसत्प्रवृत्तिभ्यां विशेषसद्भावः समर्थ्यते। तथाच अज्ञानिसामान्यसमर्थनार्थस्यास्य न ज्ञानसामर्थ्यप्रतिपादनार्थेऽस्मिन् पादेऽन्तर्भावः सम्भवतीत्यतः अधिकरणस्य तात्पर्यमाह विकर्मेति।
विकर्मलेपो नैवास्ति सम्यग्दृष्टिमतां क्वचित्।
यद्यप्यत्र मुखतो ज्ञानिनां सदसत्प्रवृत्तिभ्यां विशेषसद्भावः प्रतिपाद्यते, तथाऽपि सम्यग्दृष्टिमतां क्वचिदपि विकर्मलेपो वक्ष्यमाणरूपो नैवास्तीत्यस्यार्थस्य फलतो लाभाद् युक्तोऽस्यान्तर्भावः। नह्यज्ञानिनां विकर्मलेपाभावोऽस्तीति भावः। यथोक्तम् “कामकारेण चैके” इति। विकर्मलेपाभावे कथमसत्प्रवृत्त्या विशेषसद्भावोऽङ्गीक्रियत इति चेत्। आनन्दादिगुणहानेर्विकर्मकर्तुर्विशेषस्य स्वीकारात्। अलेपस्तु ततोऽन्य इति वक्ष्यते। (११६८)
॥ चतुर्मुखस्य विकर्माभावादेव नाऽनन्दादिगुणहानिप्रसक्तिः,
तदितरदेवानां तु ईषद् विकर्म, अल्पा च गुणहानिः॥
किं सर्वेषामपि ज्ञानिनां विकर्मसम्भवो गुणहानिश्चास्तीत्यपेक्षायामाह गुणहानिश्चेति।
गुणहानिश्च नैवास्ति ब्रह्मणस्त्वविकर्मतः।
देवानामपि न प्रायः क्लृप्तस्य तु कथञ्चन॥३॥
ब्रह्मणस्तु सर्वथा विकर्म नास्ति। “न भारती मेऽङ्ग मृषोपलक्ष्यते” इत्यादिवचनात्। अविकर्मतो गुणहानिश्च नैवास्ति। हिरण्यगर्भेतरदेवानामपि प्रायो विकर्मगुणहानी न स्तः। ईषद् विकर्म, तन्निमित्ता गुणहानिश्चास्तीत्यर्थः।
॥ देवानां विकर्मकरणात् क्लृप्तगुणहानिर्न भवति, किन्तु प्रसक्तगुणहानिरेव॥
यदि देवानां विकर्म सम्भवति तेन चाऽनन्दादिगुणहानिः स्यात्, तदाऽयमस्मादेतावता न्यूनः, अस्मादेतावताऽधिकः, अनेन समान इति शास्त्रीयनियमो भज्येत। तथाच शास्त्रस्याप्रामाण्यं स्यात्। नच तदैव प्रतियोगिपरम्परा विकृतिः प्रमाणवतीत्यत आह क्लृप्तस्येति। हानिर्नेति वर्तते। यस्य देवस्य यावद्गुणत्वं क्लृप्तम्, तस्य तु कथञ्चन केनापि विकर्मणा हानिर्न भवतीत्यर्थः। तर्हि देवानां विकर्मणेषद्गुणहानिर्भवतीत्यस्य कोऽर्थ इत्यत आह प्राप्तेति।
प्राप्तह्रासो भवेत् क्वापि महता तु विकर्मणा।
तथाऽपि तत् क्लृप्तमेव तस्मान्न नियमोज्झितिः॥४॥
प्राप्तशब्देन प्रसक्तमुच्यते। देवानामल्पेन विकर्मणा न किञ्चिद्धीयते। क्वापि प्राप्तेन महता तु विकर्मणा प्राप्तस्यैव गुणस्य ह्रासो भवेत्। स्वयोग्यपरिपूर्तये यावत् साधनमनुष्ठेयम्, ततोऽतिरिक्तेन साधनेन अनुष्ठितेन यदानन्दादिकं प्रसक्तं तस्याभावो भवेत्।
॥ देवानां स्वयोग्यादधिकसाधनानुष्ठाने विकर्मापत्तिनियमः॥
यदि स्वयोग्यपरिपूर्त्यर्थं साधनारिक्तमपि साधनं देवैरनुष्ठीयते तदा तारतम्यनियमो भज्येत। यो हि देवोऽतिरिक्तसाधनमनुष्ठाय न महद् विकर्म करोति तस्योत्पत्तव्यमेव तेन गुणेन। ईश्वराराधनस्य वैफल्यानुपपत्तेः। नच तदैवान्येषां विक्रियायां प्रमाणमस्ति। ततश्च शास्त्रस्याप्रामाण्यमित्यत आह तथाऽपीति। यद्यपि देवैः स्वयोग्यपरिपूर्त्यर्थं साधनातिरिक्तमपि साधनमनुष्ठीयते। तथाऽपि तेषां तद्विघातं तद् विकर्म महत् क्लृप्तं नियतमेव,
“स्वाधिकाराधिको यत्नः कथञ्चिन्नोपपद्यते।
कथञ्चिदधिके यत्ने दोषः कश्चित् समापतेत्” इति वचनात्।
“क्लृप्तस्य तु कथञ्चन”, “तथाऽपि तत् क्लृप्तमेव” इत्युक्तम्। द्वयस्यापि साध्यमाह तस्मादिति। क्लृप्तहान्यभावादधिकानुष्ठाने विकर्मापत्तिनियमाच्च। श्रौततारतम्यनियमभङ्गो नास्तीत्यर्थः।
॥ चन्द्रस्य स्वोत्तमपत्नीगमनात् सुग्रीवस्य स्वोत्तमस्त्रीगमनाच्च प्रसक्तहानिरेवाऽभूत्, न क्लृप्तहानिः॥
उक्तार्थमुदाहरति चन्द्रेति।
चन्द्रसुग्रीवयोश्चैव स्वेच्चदारपरिग्रहात्।
प्राप्तहानिरभून्नैव क्लृप्तहानिः कथञ्चन॥५॥
चशब्दो यथेत्यर्थे। एवशब्दस्य प्राप्तहानिरेवेत्यन्वयः।
॥ मानुषादीनां विकर्मकरणात् क्लृप्तहानिरपि भवति॥
देवानां विकर्मणा प्रसक्तहानिरेव भवति, नतु क्लृप्तहानिरित्युक्तम्। तदतिरिक्तानां तु कथमित्यपेक्षायामाह ह्रासोऽपीति।
ह्रासोऽपि मानुषादीनामानन्दस्य विकर्मणा।
भवेन्मुक्तौ विशेषेण स्वोच्चानामपराधतः॥६॥
क्लृप्तस्यापीत्यपेरर्थः। आनन्दस्येत्युपलक्षणम्। ह्रासो नामानभिव्यक्तिः। सा चेश्वरेच्छाधीना। प्रकृत्याद्यावरणानामपास्तत्वात्। विकर्मस्वप्यधिकं निर्धारयन्नाह विशेषेणेति। स्वोत्तमविषयापराधाद् विशेषेणाऽनन्दह्रासो भवति।
॥ ज्ञानिनो विकर्मकरणात् अशुचित्वनरकप्राप्त्यादिरूपलेपाभावः तदधिगमाधिकरण उच्यते
अत्र तु ज्ञानिकृतविकर्मणः मोक्षविघातकत्वाभाव उच्यत इति न पौनरुक्त्यम्॥
स्यादेतत्। अत्राधिकरणे “कामकारेण चैके” इति सूत्रेण ज्ञानोत्तरकालं कृतेन विकर्मणा ज्ञानिनो लेपाभावोऽभिधीयते। तथा “उपमर्दं च” इति सूत्रेण ज्ञानात् पूर्वेषां कर्मणां ज्ञानेन विनाशः। एतदुभयं चतुर्थेऽध्याये “तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ” इति सूत्रेणोच्यते। तत् कथं न पुनरुक्तिदोष इत्यतस्तावत् “कामकारेण चैके” इत्यस्य पुनरुक्तिदोषं परिहरति ज्ञानोत्तरस्येति।
ज्ञानोत्तरस्य पापस्य चतुर्थेऽलेप उच्यते।
अशुचित्वादिकं चास्य न भवेदिति तत्फलम्।
अत्र ज्ञानफलस्यैव मुक्तेर्नियततोच्यते॥७॥
चतुर्थेऽध्याये “उत्तराघस्याश्लेषः” इत्यनेन ज्ञानोत्तरस्य पापस्यालेपः, तत्फलनरकादिप्राप्त्यभाव उच्यते। विषयान्तरमाह अशुचित्वादिकं चेति। अस्य ज्ञानिनस्तत्फलं ज्ञानोत्तरपापफलमशुचित्वासम्भाष्यत्वादिकं न भवेदिति चोत्तराघस्याश्लेष इत्यनेनोच्यते।
ततः किमित्यत आह अत्रेति। अत्र तृतीयेऽध्याये “कामकारेण चैके” इत्यनेन ज्ञानफलस्य मुक्तेर्नियतता। ज्ञानिना कृतानि पापानि ज्ञानफलं मोक्षं न विहन्तुमलमित्येषोऽर्थ उच्यते। अतो न पुनरुक्तिदोष इति।
॥ तदधिगमाधिकरणे ज्ञानेन सञ्चितकर्मणां विनाश उच्यते
अत्र तु ज्ञानेन प्रारब्धकर्मजन्यफलस्य उपमर्द उच्यते इति न पौनरुक्त्यम्॥
द्वितीयां पुनरुक्तिं परिहर्तुं “उपमर्दं च” इत्यस्य प्रतिपाद्यमाह प्रारब्धेति।
ॐ उपमर्दं च ॐ॥१६॥
प्रारब्धकर्मजस्यैव विषभक्षान्मृतेरिव।
प्राप्तस्याप्यनिवर्त्यस्य किञ्चिद्भुक्तस्य संविदा।
उपमर्द इह प्रोक्तः...........................॥८॥
चतुर्थेऽध्याये पूर्वाघस्य स्वरूपविनाशः कथ्यते। “अनारब्धकार्ये एव” इति वचनात्। इह तृतीयेऽध्याये तु “उपमर्दं च” इति सूत्रेण प्रारब्धकर्मजस्य फलस्यैव संविदोपमर्दः प्रोक्तः, नतु प्रारब्धस्य अप्रारब्धस्य वा कर्मणो नाश इति न पुनरुक्तिदोषः।
॥ अनिवर्त्यतया प्राप्तस्य किञ्चिद्भुक्तस्य प्रारब्धकर्मजन्यफलस्य ज्ञानविनाश्त्वम्॥
नन्वत्र प्रारब्धकर्मण इत्येव कस्मान्नोक्तम्? किं तज्जनितफलग्रहणेन? नैवं शयम्। “भोगेन त्वितरे” इति प्रारब्धस्य कर्मणो भोगविनाश्यत्वोक्तेः। संविद्विनाश्यत्वाङ्गीकारे तद्विरोधात्। ईषद्विनाशस्तु फलद्वारेणैव। कर्मणां निर्भागत्वात्। ननुच फलोपमर्दे कर्मोपमर्द एवोक्तोऽर्थतः स्यात्। तथाच “भोगेन” इति सूत्रविरोधस्तदवस्थ इत्यत उक्तम्किञ्चिद्भुक्तस्येति। न सर्वस्य प्रारब्धकर्मफलस्योपमर्दः संविदोच्यते। किन्नाम। किञ्चिद्भुक्तस्यातो न सूत्रविरोधः। कर्माणि ज्ञानिनं न तावत् स्वफलं भोजयन्ति, यावदज्ञानिनमिति भावः। यथोक्तम्। “नवै जनो जातु कथञ्चनाव्र्जेन्मुकुन्दसेव्यन्यवदङ्ग संसृतिम्” इति।
ननु “अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम्” इति प्रारब्धकर्मफलोपभोगस्यापरिहार्यत्वस्मरणात् कथमेतदित्यत उक्तम् अनिवर्त्यस्य प्राप्तस्यापीति। अपरिहार्यतया प्रसक्तस्यापीत्यर्थः। अनिवर्त्यस्यापीत्येतावत्येव वक्तव्ये प्राप्तस्येत्यनेन विरोधपरिहारं सूचयति।

अत्र दृष्टान्तमाह विषेति। यथा विषभक्षणान्मृतिरनिवर्त्यतया प्रसक्तैवा, न पुनरनिवर्त्यैव। विषहरमन्त्रौषधादिना निवृत्तेर्दर्शनात्। तथा प्रारब्धकर्मफलभोगोऽप्यनिवर्त्यतया प्रसक्त एव, नत्वनिवर्त्य एव। ज्ञानादिना निवृत्तेरुपपादयिष्यमाणत्वात्। (११७१) तथाच विषभक्षणान्मरणमवश्यं भावीति वचनवत् “अवश्यमनुभोक्तव्यम्” इति वचनस्याप्यर्थोऽवगन्तव्यः। उत्सर्गतः प्रारब्धकर्मफलानि भोक्तव्यान्येव। अपवादेन तूपमृद्यन्त इति।
॥ अधिकानामाधिक्येनोपमर्दः॥
किं सर्वेषां ज्ञानिनां प्रारब्धकर्मफलोपमर्दं एकविध एव, उत नानाविध इत्यपेक्षयामाह देवादीनामिति।
.....................देवादीनां यथाक्रमम्॥८॥
येषामधिकं ज्ञानं तेषामधिक इत्यादि। एतेन “नाविशेषात्” इति मध्ये पठितस्य सूत्रस्य पूर्वोत्तरत्र चोपयोग इत्युक्तं भवति।
॥ ज्ञानस्य सर्वप्रारब्धकर्मविनाशकत्वोक्तिनिरासः॥
प्रारब्धकर्मणां भोगेन विना न क्षयः, किन्तु ब्रह्मज्ञानेन फलह्रासो भवतीत्युक्तम्। तत्रैके मन्यन्ते अचिन्त्यो हि ब्रह्मज्ञानस्य महिमा। अतस्तत्सामर्थ्यादप्रारब्धानीव प्रारब्धान्यपि कर्माण्यभुक्तफलानि क्षीयन्ते। “नाभुक्तं क्षीयते कर्म” इत्यादिवाक्यानि त्वज्ञानिविषयाणि। ततश्च “ज्ञानाग्न्ः॥ सर्वकर्माणि” इति सर्वशब्दोऽप्यपीडितः स्यादिति। अन्ये तु परमेश्वरेच्छोपोद्बिलतानि प्रारब्धानि भोजयन्त्येव सर्वं स्वफलम्। न कश्चिदपि फलह्रासोऽस्तीति। तत्राऽद्यं मतं तावदपाकरोति सर्वात्मनेति।
सर्वात्मना त्वभोगो हि प्रारब्धस्यैव कर्मणः।
न ब्रह्मदर्शिनोऽपि स्यात्...................॥९॥
ब्रह्मदर्शिनोऽपि प्रारब्धस्य कर्मणः सर्वात्मना त्वभोगो न स्यादेव। विना भोगेन ब्रह्मज्ञानादेव प्रारब्धान्यपि कर्माणि क्षीयन्त इति मतमनुपपन्नमित्यर्थः। तथासति ब्रह्मविदां संसारावस्थानं न स्यात्। निर्बीजत्वात्। लोकानुग्रहार्थमेव विग्रहांस्ते बिभ्रतीति चेत्, न। शापादिनिमित्तानामापदामपि इतिहासपुराणेषु बहुलमुपलम्भात्। “तस्य तावदेव चिरम्” इत्यादिश्रुत्या चावगम्यते कर्मावस्थानमिति हिशब्दार्थः।
॥ प्रारब्धकर्मफलस्य सर्वात्मना ह्रासानङ्गीकारे प्रायश्चित्तविधीनां वैयर्थ्यप्रसङ्गः॥
द्वितीयं मतमपाकर्तुमाह फलेति।
.....................फलह्रासस्तु विद्यते॥९॥
सर्वात्मना फलह्रासो यदि नाऽरब्धकर्मणः।
स्यात् काम्यविधिवैयर्थ्यमित्युक्तनियमो भवेत्।
प्रारब्धस्य कर्मणा इति वर्तते। “ओमित्युच्चार्यान्तरिममात्मानमभिपश्योपमृद्य पुण्यं च पापं च काममाचरन्तो ब्रह्मानुव्र्जन्ति” इत्यागमादिति भावः।
यस्त्वागममप्रारब्धविषयं व्याख्याय प्रारब्धकर्मफलस्येषदपि ह्रासो नास्तीति ब्रूयात्, तं प्रत्याह सर्वात्मनेति। ईषदपीत्यर्थः। ब्रह्महत्यादिकर्मविपाकक्षयरोगादिनिवृत्त्यर्थाः प्रायश्चित्तविधयोऽत्र काम्यविधयो विवक्षिताः।
अयमत्रोत्तरक्रमः “ब्रह्महा क्षयरोगी स्यात्” इति स्मरणात् क्षयादिकं तावद् ब्रह्महत्यादेः फलम्। तत उत्पादितक्षयादिकं ब्रह्महत्यादिप्रारब्धमेव। तस्य च प्रारब्धकर्मफलस्य क्षयादेः प्रायश्चित्तकरणे निवृत्तिर्दृश्यते। तत् कथं प्रारब्धकर्मफलस्य सर्वथाऽप्यनुपमर्दः?
॥ प्रायश्चित्तकर्मणां विकर्मफलहेतुत्वसमर्थनम्॥
अथ मन्येत प्रायश्चित्तं न क्षयनिवृत्तिहेतुः, किन्तु भोगनिमित्तकर्मक्षय एवेति। तदा प्रायश्चित्तविधयो व्यर्थाः स्युः। गृहदाहेष्ट्यादिवत् प्रायश्चित्तानां नैमित्तिकत्वं भविष्यतीति चेत्, न। क्षयादिसंयोगेन विधीयमानानामेषां तद्विघातफलसम्भवे फलान्तरकल्पनानुपपत्तेः। किञ्चात्र नियतपश्चाद्भावित्वमसमाहितमेव। तदिदमुक्तम् काम्येति। तथाऽपि ब्रह्मज्ञानं न तदर्थं विहितमिति चेत्, न। फलश्रवणेनैव विधिकल्पनात्। अनेनैव न्यायेन प्रायश्चित्तानां कर्मक्षयहेतुत्वाभावोऽपि निरस्तः। तथासति प्रायश्चित्तविधीनां वैयर्थ्यापत्तेः। नैमित्तिकत्वपक्षस्य च दृष्टादृष्टहानोपादानप्रसङ्गेन निरस्तत्वात्।
अथ कर्मणो द्वयी शक्तिः। एका तावत् फलजननी, अपरा त्वसंव्यवहार्यत्वहेतुः। तत्र प्रायश्चित्तैः द्वितीयाऽपाक्रियत इति चेत्। एवन्तर्हि कर्मविपाकप्रायश्चित्तानामपीयमेव गतिरिति कथं नोपमर्दः? किञ्च न सर्वो रोगः सर्वं च दुरितमसंव्यवहार्यताहेतुरिति तत्र प्रायश्चित्तवैयर्थ्यमेव स्यात्। अपिच क्षयकुष्ठाद्युपहतोऽपि न प्रायश्चित्ताचरणमात्रेण संव्यवहार्यः। किन्तु क्षयाद्यपगम एवेति तत्कारणत्वमेव प्रायश्चित्तानामङ्गीकार्यम्। मरणान्तिकप्रायश्चित्तानामानर्थक्यं च स्यात्। श्राद्धादिव्यवहारसिद्ध्यर्थं तदिति चेत्, न। परिव्राजकानां तदभावापातादित्यलम्।
उपसंहरति इत्युक्तेति। इति शब्दस्तस्मादित्यर्थे। प्रारब्धकर्मणां भोगादेव क्षयः, तथाऽपि फलह्रासोऽपि विद्यत इत्युक्तनियमो भवेदुपपन्न इति शेषः।
॥ उक्तार्थस्य प्रामाणिकत्वम्॥
“एवमुत्पन्ननिर्दोष” इत्यादिनोक्तार्थे स्मृतिसम्मतिमाह एवमादीति।
 एवमाद्यपि सम्प्रोक्तं तन्त्रभागवते स्फुटम्॥१०॥
आदिपदेनैतदुपयुक्तमन्यत्। भाष्यादावुदाहृतैर्वचनैरपीत्यपेरर्थः। यद्वैवमादीत्येतदधिकरणप्रमेयं तदुपयुक्तं च गृह्यते। अपिपदेन प्रथमाधिकरणप्रमेयस्य समुच्चयः। अथवाऽधिकरणद्वयार्थ एवमादीत्यनेन गृहीतः। द्वितीयाद्यधिकरणार्थग्रहणायापिशब्दः।
॥ मुक्तानां तारतम्योपेतत्वप्रतिपादनम्॥
पुरुषार्थाधिकरणे स्तुत्यधिकरणे च ज्ञानफलस्य तारतम्यमभिहितम्। तत् सांसारिकफलस्य न विप्रतिपन्नमिति मुक्तिगतस्य साधयितुमुत्तरो ग्रन्थः। ये मोक्षे भेदमेव नाङ्गीकुर्वते, ये चाङ्गीकृत्यापि भेदम्, आनन्दादिकं नाभ्युपयन्ति न तान् प्रति तारतम्यसाधनस्यावकाशः। किन्तु भेदादिसाधनमेव कर्तव्यम्। करिष्यते च चतुर्थेऽध्याये। (१२८२; १३४१) ये पुनर्भेदमानन्दादिकं चाङ्गीकृत्यापि तारतम्यं न मन्यन्ते, तान् प्रत्ययं प्रयत्नः क्रियते। यावदधिकारमित्यधिकरणार्थस्यैवायं प्रपञ्च इति न दोषः।
॥ श्रुत्या मुक्तावानन्दतारतम्योपपादनम्॥
तत्र तावच्छ्रुत्या मुक्तावानन्दतारतम्यमुपपादयति तारतम्यमिति।
तारतम्यं फले नो चेद् ब्रह्मादीनां कथं श्रुतिः।
अवृजिनोऽकामहत इति मुक्तिं निगद्य च।
आनन्दतारतम्यं च तेषां ब्रूयात् पृथक् पृथक्॥११॥
ब्रह्मादीनां ज्ञानफले मुक्तिगामिन्यानन्दे यदि तारतम्यं नो भवेत्, तर्हि कथं “स यो ह वै मनुष्याणां राद्धः” इत्यादिना वाजसनेयिनाम्, “सैषाऽऽनन्दस्य मीमांसा भवति” इत्यादिका तैत्तिरीयाणां च श्रुतिस्तेषां ब्रह्मादीनामानन्दस्य तारतम्यं ब्रूयात्? सर्वेऽप्युत्तरोत्तरं शतगुणनन्दा इत्यनभिधाय पृथक् पृथगेव ब्रवीति। तेन तत्र तात्पर्यसद्भावश्चावगम्यते।
ब्रह्मादीनामानन्दस्य तारतम्यं श्रुतिर्ब्रवीति, मुक्तानां तु तत् साध्यत इति किं केन सङ्गतमित्यत उक्तम् अवृजिन इति। “यश्च श्रोत्रियोऽवृजिनोऽकामहतः” इत्याद्या। “श्रोत्रियस्य चाकामहतस्य” इति द्वितीया। यद्यपि श्रोत्रियत्वमपि मुक्तिज्ञापकमित्यन्यत्रोक्तम्, तथाऽपि बहुसंविधानसाध्यं तदिति न सङ्कीर्तितम्। मुक्तिं च निगद्य तेषां मुक्तानामानन्दतारतम्यं च ब्रवीति। चशब्दौ मिथः समुच्चये। तैत्तिरीयश्रुतिरप्यत्रोपलक्षितेत्युत्तरत्र ज्ञास्यते। (११८२)
॥ श्रुतेः संसारिमात्रपरत्वे अवृजिनाकामाहतशब्दयोरनुपपत्तिः॥
श्रुतिद्वयोक्तमानन्दतारतम्यं संसारविषयमेव न मुक्तिविषयमित्याशय परिहरति संसार एवेति।
संसार एव चेदेतत् तारतम्यं न मुख्यतः।
अकामहतशब्दार्थोऽवृजिनत्वं च नो भवेत्॥१२॥
एतच्छ्रुत्युक्तं तारतम्यं संसार इत्येवोक्ते सिद्धान्तिनो नानिष्टम्। मुक्तामुक्तविषयताया वक्ष्यमाणत्वात्। (श्लो३२) अत एवेत्युक्तम्। तस्यैव विवरणम् न मुख्यत इति। सप्तम्यर्थे तसिः। एतत् तारातम्यं संसार एव, नतु मुख्ये पुरुषार्थे मोक्षे इति चेदित्यर्थः। तर्ह्यकामहतशब्दार्थोऽकामहतत्वमवृजिनत्वं च नो भवेत्। युक्तमिति शेषः।
तथाहि “यश्च श्रोत्रियोऽवृजिनोऽकामहतः” इति श्रोत्रियस्य चाकामहतत्वादिकं किं प्रकृतानां संसारिणामेव विशेषणम्, उत संसार्यन्तरसमुच्चयार्थम्। नाऽद्यः, यतः सम्भवे व्यभिचारे च विशेषणमर्थवत्। नच ब्रह्मादयः केचिदश्रोत्रियत्वादिगुणाः सन्ति। येन व्यभिचारनिवारणार्थमेतत् स्यात्। नापि संसारिष्वकामहतत्वादिकं सम्भवति। अत एव द्वितीयोऽपि परास्तः।
ननु संसारिष्वप्यकामहतत्वादिकं कथञ्चित् सम्भवति। सत्यम्। मुख्यतो न सम्भवतीति ब्रूमः। नच विना बाधकेनामुख्याङ्गीकारो युक्तः। एतेन “अवृजिनोऽकामहत इति मुक्तिं निगद्य” इत्येतद् विवृतं भवति।
॥ आप्तकामत्वस्य मुक्तलक्षणत्वात्, तन्निमित्तकाकामहतत्वस्य संसारिष्वसम्भवः॥
कथमकामहतत्वादेः संसारिष्वसम्भव इत्यतोऽकामहतत्वस्य तावदुपपादयति कामस्येति।
कामस्य यत्राऽप्ताः कामास्तत्र माममृतं कृधि।
इति यल्लक्षणं मुक्तेः श्रुतिराह बलीयसी।
कामहतिः कुतोऽन्यत्र प्राप्तकामस्य सा भवेत्॥१३॥
यत्र लोके कामस्येच्छायाः कामा विषया आप्ताः पर्याप्ताः, तत्र माममृतं मुक्तं कृधि कुर्विति वायुं प्रति प्रार्थनम्। यद् यस्मादिति श्रुतिरित्याप्तकामत्वं मुक्तेर्लक्षणत्वेनाऽह। विशेषणस्येतरव्यावृत्त्यर्थत्वात्। निरवकाशत्वादिना बलीयस्याः श्रुतेरन्यथयितुमशक्यत्वात्। तस्मात् कामाहतिरकामहतत्वं मुक्तादन्यत्र कुतः सम्भवेत्? आप्तकामत्वस्य मुक्तलक्षणत्वेन श्रुत्युक्तत्वे तदेवं संसारिष्वसम्भवि स्यात्।
अकामहतत्वं तु कथमसम्भवीत्यत आह प्राप्तेति। सा कामहतिः। अकामहतत्वस्याऽप्तकामत्वं हेतुः। नच निमित्ताभावे नैमित्तिकस्य सम्भवोऽस्ति। तत्र निमित्तं चाऽप्तकामत्वं संसारिषु न सम्भवतीत्युक्तम्। ततो नैमित्तिकमकामहतत्वमपि तत्रासम्भवतीति।
॥ आप्तकामत्वाकामहतत्वयोर्निमित्तनैमित्तकत्वसमर्थनम्॥
आप्तकामत्वस्याकामहतत्वं प्रति निमित्तत्वं विवृणोति अप्रयत्नेनेति।
अप्रयत्नेन कामनामवाप्तिः सा यदा भवेत्।
तदैवाकामहतता कुत एवान्यथा भवेत्॥१४॥
साऽकामहततेति सम्बन्धः। याऽकामहतशब्दात् प्रतीयते सेत्यर्थः। अन्यथाऽप्रयत्नेन कामानामवाप्त्यभावे कुत एव कारणात् साऽकामहतता भवेत्? न कुतोऽपीत्यन्वयव्यतिरेकावुक्तौ।
एतदुक्तं भवति कामेनोपद्रवो हि कामहतता, तदभावश्चाकामहतता। कामनिमित्तोपद्रवाभावाश्चानायासेन तत्तद्विषयप्राप्तावेव भवति नान्यथेत्यनुभवसिद्धम्। अतः प्राप्तकामत्वाकामहतत्वयोः निमित्तनैमित्तिकभावो युक्त एवेति।
॥ संसारिणां कामरहितत्वासम्भवात्, तेषु कामाभावात् कामनिमित्तोपद्रवाभावरूपाकामहतत्वसाधनायोगः॥
नायमस्ति नियमः, यदाप्तकामस्यैव, कामनिमित्तोपद्रवाभावो नान्यथेति। कामाभावेऽपि तन्निमित्तोपद्रवाभावसम्भवादिति चेत्। किमनेनोक्तस्य व्यभिचारमात्रं चोद्यते, किंवा प्रकृतेषु संसारिष्वप्याप्तकामत्वाभावेऽप्यकामत्वेनाकामहतता सम्भवतीत्याशास्यते? नाऽद्यः, वक्ष्यमाणन्यायेन विशेषणप्रक्षेपात्। न द्वितीयः, ब्रह्मादयो न कामरहिता असुप्तामूढचेतनत्वात्; देवदत्तवदित्यनुमानविरोधादित्याशयवाननुमानस्य व्याप्तिमुपपादयति चेतनस्येति।
चेतनस्य त्वसुप्तस्य कुत्र दृष्टा ह्यकामता।
घटादौ व्यभिचारपरिहाराय चेतनस्येत्युक्तम्। सुप्तमुग्धयोस्तत्परिहारायासुप्तस्येति। अमुग्धस्येत्यपि द्रष्टव्यम्। ननु सुप्तौ मोहे च न चेतयत एव। अतश्चेतनस्येत्यनेनैव तद्व्यवच्छेदसिद्धेर्व्यर्थं विशेषणमिति। मैवम्। चेतनशब्देनाऽत्मत्वमात्रस्य विवक्षितत्वात्। चैतन्ययोगे हि विवक्षिते कामाभावाङ्गीकारसाहसादबिभ्यत् परश्चैतन्याभावमपि ब्रह्मादीनामङ्गीकुर्यादित्यसिद्धिः स्यात्। तदिदमुक्तं तुशब्देन। कुत्रेत्याक्षेपे। हिशब्दो यस्माद् व्याप्तिः सिद्धेति शेषः। नोपादेयमेव वा हेतावसुप्तत्वादिविशेषणम्। नच तथासति व्यभिचारापातः। सुप्त्यादावप्यात्मनः कामसद्भावात्। नचैवंसति “यत्र सुप्तो न कञ्चन कामं कामयते” इत्यादिश्रुत्याऽनुपलम्भेन च विरोधः। विद्यमानानामपि कामानां तदानीमव्यक्तत्वेन श्रौताभावव्यवहारस्यानुपलम्भस्य चोपपत्तेः।
॥ मुग्धसुप्तयोरपि कामवत्त्वसमर्थनम्॥
व्यक्तकामाभिप्रायेण प्राग् विशेषणमुपात्तमित्याशयवानाह अव्यक्तिरेवेति।
अव्यक्तिरेव कामानां न नाशो मोहसुप्तयोः॥१५॥
यत्कामः स्वापमाप्नोति तदेवोत्थापितः पुनः।
अवशेऽपि व्याहरति कुतः सुप्तावकामता॥१६॥
नाशोऽभावः। सुप्तं सुप्तिः। नपुंसके भावे क्तः। स्यादेतत्। सुप्त्यादौ कामसद्भावे सिद्धे युक्तमव्यक्तिकल्पनम्। स एव तु कुतः सिद्ध इत्यत आह यत्काम इति। मोहोऽत्रापि ग्राह्यः। व्याहरतीत्यतः परं यतस्तस्मादित्यध्याहार्यम्। यद् भोजनादिकं कामयमानो देवदत्तः स्वापादिकमाप्नोति, उत्थापितः पुनस्तदेव कदाचिद् व्याहरतीति तावदनुभवसिद्धम्। तस्माद् व्याहरणविशेषाच्च तस्य तदा तत्र कामोऽस्तीत्यनुमीयते। स च न तावदुत्थानानन्तरमुत्पन्नः। तदा देवदत्तस्यावशत्वात्। वस्तुदर्शनेऽनुमानादिनेष्टसाधनताज्ञाने च सति खलु कामोदयः स्यात्। नचावशस्यैषा कामसामग्री कल्पयितुं शक्यते, ततः प्राक्तन एव कामः सुप्तादौ सन्नतरोऽनुवर्तमानः पुनः सहकारिलाभक्रमेण व्यज्यत इत्येवाङ्गीकार्यम्। तथाचाऽह पतञ्जिलः “अविद्याक्षेत्रत्वमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्” इति। यत एवम्, तस्मात् कुतः सुप्त्यादावात्मनोऽकामता स्यात्?
॥ मुक्तानां कामवत्त्वप्रतिपादनम्॥
नन्वयं केवलो विशिष्टो वा चेतनत्वहेतुर्मुक्तेष्वनैकान्तिकः। तेषां कामाभावादित्यत आह सर्वेति।
सर्वकामानवाप्नोति ब्रह्मणा सह मुक्तिगः।
पर्येति तत्र जक्षंश्च क्रीडन् रतिमवाप्नुयात्॥१७॥
कामान्नी कामरूपी सन्निमाँल्लोकांश्च सञ्चरन्।
आस्ते गायन् साम मुक्त इत्यादिश्रुतिसद्बलात्॥१८॥
अकामः स्यात् कथं मुक्तः..................।
अनेन “सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता” इति श्रुतिमुपादत्ते। पर्येतीत्यनेन “स तत्र पर्येति जक्षन् क्रीडन् रममाणः” इति। जक्षन्निति वैदिकत्वात् साधुः। कामान्नीत्यनेन “इमाँल्लोकान् कामान्नी कामरूप्यमनुसञ्चरन्। एतत् साम गायन्नास्ते” इति। आदिपदेन “स एकधा भवति” इत्यादेः सङ्ग्रहः। बलात् कामसद्भावावगतेरिति शेषः। यद्यप्येताः श्रुतयो न साक्षान्मुक्तस्य कामसद्भावमाचक्षते। तथाऽपि सामर्थ्यात् तं गमयन्त्येव। तदिदमुक्तम् श्रुतिबलादिति। तच्च सामर्थ्यमव्यभिचरितमेव, नतु सम्भावनामात्रमिति सच्छब्देनाऽह।
तथाहि कामकर्मत्वाद्धि विषयाः कामाः। कर्मणि घञो विधानात्। तथाच “सोऽश्नुते सर्वान् कामान्” इत्यत्र सन्निधेस्तत्कामकर्मभूतान् विषयानश्नुत इत्युक्तं स्यात्। निष्कामस्य शिलासमस्य कामावाप्तिः कीदृशी स्यात्? पर्यटनादिकं च कामकार्यं न विना कामेन सम्भवति। स्त्रीभिर्निष्कामस्य रमणमत्यन्तासम्भावितम्। अन्नादीनां च कामत्वं काम्यतयैवेति पूर्ववत् कामावगतिः। यद्यपि “स यदि पितृलोककामो भवति” इत्याद्या विस्पष्टाः श्रुतयोऽत्र सन्ति, तथाऽपि शिष्यैर्न्यायमनुसन्धानैर्भाव्यमित्येतासामुदाहरणम्। मुक्तस्याकामत्वाभावान्नानैकान्त्यं हेतोरिति।
॥ मुक्तानामकामत्वपरश्रुतीनां मनोवृत्तिकामाभावार्थकत्वम् ॥
ननु मुक्तनां कामाभावेऽपि
“यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते”
इत्याद्या श्रुतिरस्ति। तत् कथं कामवत्त्वनिश्चय इत्यत आह कामा येऽस्येति।
..............कामा येऽस्य हृदि श्रिताः।
इत्यन्तःकरणस्थानां कामानां मोक्षमेव हि।
आह श्रुतिर्हृदीत्येव नचेद् व्यर्थं विशेषणम्॥१९॥
इति श्रुतिरित्यन्वयः। अन्तःकरणस्थानामेवेति च। नतु सर्वथाऽपीत्येवार्थः। हिशब्दो यस्मादित्यर्थे। तस्मादकामः स्यात् कथं मुक्त इति सम्बन्धः।
कुतः श्रुतेरर्थसङ्कोचः क्रियत इत्यत आह हृदीत्येवेति। नचेदेषा श्रुतीरुक्तरीत्या व्याख्यायेत, सर्वथाऽपि कामाभावपरेति व्याख्यायेतेति यावत्। तदा हृदि श्रिता इति कामानां विशेषणं व्यर्थमेव स्यात्, व्यावर्त्याभावात्। अतो विशेषणं प्रयुञ्जाना श्रुतिरन्तःकरणपरिणतानां कामानामेव मुक्तावभावः, अन्तःकरणस्यैवाभावात्, नतु सर्वेषां स्वरूपभूतानां कामानामवस्थानादित्येतमर्थं गमयतीति।
॥ कामद्वैविध्यस्य प्रतिपादितत्वात् न सर्वकामानां मनःपरिणामरूपत्वम्॥
भवेदेतत्। यदीदं विशेषणं स्यात्। नचैवम्, व्यावर्त्याभावात्। “एतत् सर्वं मन एव” इति श्रुत्या सर्वेषामपि कामानां मनःपरिणामत्वमेव, नत्वात्मधर्मः कामोऽस्तीत्यवगमात्। अतो “हृदि श्रिताः” इत्येतत् स्वरूपकथनमात्रमित्याशयेनाऽशय निषेधति हृद्येवेति।
हृद्येव तेषां श्रयणमिति पक्षो न भासते।
मुक्तानां कामितामाह पृथक् शाखासु यच्छ्रुतिः॥२०॥
अन्तःकरण एव। तेषां कामानाम्। भासते शोभते। कुतो न भासत इत्यत आह मुक्तानामिति।अन्तःकरणविधुराणामपीत्यर्थः। यद् यस्मात् तस्मान्न शोभत इति सम्बन्धः। श्रुतिः पूर्वोदाहृता।
नन्वेतदयुक्तम्। प्रागुदाहृतश्रुतेः प्रतिपक्षतयोद्भाविताया अस्याः श्रुतेस्तयैव बाधस्योच्चमानत्वात्। मैवम्। प्रागुदाहृतश्रुतेः प्रबलत्वेन बाधकत्वोपपत्तेः। तथाहि कामश्रुतिस्तावन्निरवकाशा। तदभावश्रुतिस्तूक्तरीत्या सावकाशा। विशेषणस्वरूपकथनत्वसन्देहेऽपि न निरवकाशत्वम्। “एतत् सर्वं मन एव” इत्यपि सावकाशश्रुतिरिति साङ्ख्याधिकरणेऽभिहितम्। (६३३) किञ्च कामश्रुतिः सर्वास्वपि शाखास्वस्ति। तथैवोदाहृतत्वात्। तदभावश्रुतिस्तु क्वचिदेवेति कथं न बाध्यबाधकभावः? तदिदमुक्तम् पृथक् शाखास्विति।
॥ अकामहतत्वस्य मुक्तलक्षणत्वोपसंहारः॥
“कामस्य यत्र” इत्यादिनोक्तमर्थमुपसंहरति अत इति।
अतोऽकामहतत्वं तु मुक्तानामेव मुख्यतः।
कामनिमित्तोपद्रवाभावस्याकामहतत्वस्याकामत्वाप्तकामत्वाभ्यामेवोपपत्तेरकामत्वस्य चेतनमात्रे असम्भवादाप्तकामत्वस्य च मुक्तलक्षणत्वेन तत्रैव सम्भवादमुक्तेष्वसम्भवादित्यर्थः। मुक्तानामेव धर्म इति सिद्धमिति शेषः।
॥ वृथा मुख्यार्थपरित्यागेनामुख्यार्थस्वीकारस्य दूषणम्॥
सत्यम्। मुख्यया वृत्त्याऽकामहतत्वं मुक्तेष्वेव सम्भवति, तथाऽपि कामनिमित्तबहुतरोपद्रवाभावाद् ब्रह्मादिष्वप्यमुख्यं युज्यत एव। अतः संसारिण एव श्रुतिप्रतिपाद्याः किं न भवन्तीति चेत्। किं मुख्यार्थपरिग्रहे बाधकसद्भावात् तत्परित्यागः क्रियते, किंवा वृथैव? नाऽद्यः, तदभावात्। बाधकाभासानां च निराकरिष्यमाणत्वात्। (११८१११८३) द्वितीयं दूषयति मुख्यार्थस्येति।
मुख्यार्थस्य वृथा त्यागो मायिनामेव भूषणम्॥२१॥
अपरीक्षका एव मायावादिप्रभृतयो विना बाधकेन मुख्यार्थं त्यजन्ति। वाच्यार्थपरमेश्वरपरित्यागेन निर्गुणलक्षणाङ्गीकारात्। नतु न्यायविद इति।
॥ अपापत्वम्, अदुःखत्वं च अवृजिनशब्दार्थौ॥
एवमकामहतत्वस्यामुक्तेष्वसम्भवमभिधायावृजिनत्वस्याप्यभिधास्यन्नवृजिनत्वं तावद् व्याख्याति अपापत्वमिति।
अपापत्वमदुःखत्वं चावृजिनत्वमिहोदितम्।
अप्रियं वृजिनं दुःखमकं तोद इतीर्यते॥२२॥
तत्कारणत्वात् पापं वा वृजिनं नाम कथ्यते।
इत्युक्तः स्वयमीशेन नामार्थः शब्दनिर्णये॥२३॥
इहोदितमवृजिनत्वं तावदपापत्वमदुःखत्वं चेति योजना। कुत एतदित्यत आह अप्रियमिति।दुःखमप्रियमित्यादिशब्दैरीर्यत इति सम्बन्धः। तत्कारणत्वाद् दुःखकारणत्वात्। “दधित्रपुसं प्रत्यक्षो ज्वरः” इति यथा। एतेन वृजिनशब्दो दुःखे मुख्यः। पापे तादर्थ्यात् ताच्छब्द्यमित्युक्तं भवति। अत एव वाशब्दः। नामार्थो वृजिननामार्थः। वृजिनशब्दस्य दुःखाद्यर्थत्वेऽवृजिनशब्दस्यादुःखाद्यर्थत्वं सिद्धमेवेति भावः।
॥ ज्ञानिनोऽपि प्रारब्धपापस्य, तन्निमित्तकदुःखस्य च सद्भावात् अवृजिनत्वं मुक्तलक्षणमेव॥
ततः किं यद्यपापत्वादिकमवृजिनशब्दार्थ इत्यत आह अपापत्वं चेति।
अपापत्वं च नैवास्ति यावत्संसारमस्य हि।
अप्रारब्धपापमस्त्येव दुःखं च ज्ञानिनोऽपि हि॥२४॥
चशब्दो वक्ष्यमाणसमुच्चयार्थः। अस्य जीवस्य। हिशब्दः संसारित्वादिति हेतुसूचनार्थः। “तद् यथा इषीकातूलम्” इत्यादिश्रुतेर्ज्ञानिनः पापाभावात् कथमेतदित्यत उक्तम् आरब्धेति। अनारब्धविषया श्रुतिरिति भावः। ज्ञानिनोऽप्यारब्धपापमस्त्येवेति सम्बन्धः। दुःखं चास्त्येव पापसद्भावादिति हिशब्दार्थः। तस्मादवृजिनत्वमपि मुक्तेभ्योऽन्यत्रासम्भवीति सिद्धम्।
॥ आनन्दतारतम्यश्रुतेः प्रकृतमनुष्यगन्धर्वपरतया व्याख्यानस्य दूषणम्॥
केचिदेतां श्रुतिं अन्यथा व्याचक्षते। “यश्च श्रोत्रियोऽवृजिनोऽकामहतः” इति “श्रोत्रियस्य चाकामहतस्य” इति च वाक्यं न मुक्तसङ्ग्रहार्थम्। किन्नाम। प्रकृतमनुष्यगन्धर्वादिविषयमेव। नच तत्रासम्भवः। “श्रोत्रियञ्छन्दोऽधीते” इति स्मरणाच्छ्रोत्रियशब्दस्य छन्दोऽधिगतिनिमित्तत्वात्। मनुष्यगन्धर्वादीनां च सर्वज्ञकल्पत्वात् प्रारब्धपापसद्भावेऽपि न ते तदा पापमाचरन्तीत्यवृजिना एवोच्यन्ते। विषयवैराग्योपेतत्वादकामहताश्च भवन्तीति। नच व्यावर्त्याभावेन वैयर्थ्यमिति युक्तम्। नहि वयं श्रोत्रियत्वादिकं विशेषेणत्वेन ब्रूमः। किन्तु मनुष्येभ्यो मनुष्यगन्धर्वाणां शतगुणानन्दत्वेऽभिहिते तत्र हेत्वाकाङ्क्षायामिदमुच्यते। एवं मनुष्यगन्धर्वेभ्यो देवगन्धर्वाणां शतगुणानन्दाभिधाने कुत इत्याकाङ्क्षायां श्रोत्रियत्वादिहेतुरुच्यते। एवमुत्तरत्रापि। नच वाच्यम्, सर्वेष्वपि विद्यमानं श्रोत्रियत्वादिकमानन्दातिशये कथं हेतुः स्यादिति। मनुष्यादप्यतिशयेन मनुष्यगन्धर्वः श्रोत्रियोऽवृजिनोऽकामहतश्च यतः। एवं पूर्वपूर्वनिर्दिष्टादप्यतिशयेनोत्तरोत्तरः श्रोत्रियत्वादिमान् यस्मादिति व्याख्यानादिति।
तदेतन्निराचष्टे तस्मादिति।
तस्मात्तस्मादकामत्वमिति चाश्रुतकल्पना।
अकामहत इत्युक्तेः श्रुतहानिरपि स्फुटा॥२५॥
चस्त्वर्थः। तस्मात्तस्मात् पूर्वपूर्वनिर्दिष्टादतिशयेनोत्तरोत्तरस्याकामत्वम्। उपलक्षणमेतत्। श्रोत्रियत्वादिकं चेति व्याख्याने त्वश्रुतकल्पनं स्यात्। तस्मादित्यतिशयेनेति चाश्रुतस्य कल्पनीयत्वात्। अन्यथा विवक्षितार्थस्यालाभात्।
दोषान्तरमाह अकामेति। श्रुतत्वादकामहत इत्युक्तेः परेण चाकाम इति व्याख्यातत्वाच्छ्रुतस्य हतशब्दस्य हानिरपि स्फुटाऽऽपद्यते। नहि हतशब्दस्य किञ्चित् प्रयोजनमस्ति। अतः श्रुताश्रुतत्यागोपादानप्रसङ्गादयुक्तमिदं व्याख्यानमिति।
॥ श्रुतेः पुरुषान्तरविषयपरत्वस्य दूषणम्॥
अपरे तु व्याचक्षते “यश्च श्रोत्रियः” इति, “श्रोत्रियस्य च” इति च न मुक्तविषयम्, नापि प्रकृतमनुष्यगन्धर्वादिविषयम्, किन्तु पुरुषान्तरविषयम्। तथाहि मनुष्येभ्यो मनुष्यगन्धर्वाणां शतगुणस्तावदानन्दः। यश्चापरः श्रोत्रियोऽवृजिनो मनुष्यगन्धर्वपदे कामरहितश्च, तस्यापि मनुष्येभ्यः शतगुणो मनुष्यगन्धर्वसमान एवाऽनन्दो भवतीत्येवं तेषु तेषु पदेष्वकामस्य तत्तत्समानानन्दत्वमत्रोच्यते। नच वाच्यम्, विरक्तानां सर्वत्र कामाभावात् कथमियं तारतम्योक्तिरिति। तदतिरिक्तपदेषु कामसद्भावस्य विवक्षितत्वात्। योयो यावदायासान्मुक्तोऽसावसौ तावदानन्दवानित्यर्थो ह्यत्र प्रतिपिपादयिषित इति। एतदपि श्रुतहानाश्रुतकल्पनाप्रसङ्गादेव निरस्तम्। अत्रापि हतशब्दस्य प्रयोजनाभावेन हातव्यत्वात्। तस्मिन् पद इत्यस्यान्यत्र सकाम इत्यस्य च कल्पनीयत्वात्। अधिकं दोषमाह कुत्रचिदिति।
कुत्रचित् कामिनः पुंसः कामाभावात् क्वचित्क्वचित्।
इन्द्रादिसुखभोगोऽस्तीत्यनुभूतिर्हि कुप्यति॥२६॥
कुत्रचिदिन्द्रादिपदव्यतिरिक्ते कामिनः पुंसः क्वचित्क्वचिदिन्द्रादिपदे कामाभावादिन्द्रादिसमानसुखानुभवोऽस्तीति व्याख्यानेऽनुभवविरोधः स्यात्। राज्यमकामयमानस्य राजसमानसुखानुभूतेरनुभवबाधितत्वस्य स्पष्टत्वात्। वैराग्यप्रशंसातो न तत्वं मार्गणीयमिति चेत्, न। निरवधिकानन्दस्वरूपोऽयमात्मा कामाद्युपद्रवावरणात्तु तथा न भासते, अतो यावद्यावत् कामक्षयः तावत्तावदानन्दोत्कर्षो दृश्यत इत्यस्यार्थस्य प्रदर्शनार्थमस्य प्रकरणस्यावतारितत्वात्। आनन्दोत्कर्षेऽत्र तु तात्पर्यम्, शतगुणत्वे तु न निर्भरः कार्य इति चेत्, न। देवपदाकामादिन्द्रपदाकामस्याऽनन्दविशेषादर्शनादिति।
॥ मुक्तामुक्तानन्दतारतम्यस्य श्रुत्यर्थत्वम्॥
तर्हि कः श्रुत्यर्थ इत्यत आह तस्मादिति।
तस्मादमुक्तसुखगं तारतम्यं पृथक् पृथक् ।
उक्त्वा यश्चेति मुक्तानां तारतम्यं सुखे श्रुतिः।
आहेति पेशलं तच्च चशब्दादेव गम्यते॥२७॥
अर्थान्तरप्रतीतेर्निरस्तत्वात्। अमुक्तमनुष्यादिसुखसम्बन्धितारतम्यं “ते ये शतम्” इत्यादिवाक्यैः पृथक् पृथगुक्त्वा “यश्च” इति “श्रोत्रियस्य च” इति च वाक्येन मुक्तानां मनुष्यगन्धर्वादीनां सुखे तारतम्यं श्रुतिरतिदेशेनाऽहेति व्याख्यानमेव पेशलम्।
॥ अस्मिन् व्याख्याने वाक्यभेदप्रसङ्गमाशय परिहारकथनम्॥
नन्वेवंसति वाक्यभेदो दोषः स्यात्। नैवम्। ज्ञापकसद्भावादित्याह तच्चेति। “यश्च” इति वाक्यस्य प्रकृतादन्यो विषय इत्येतच्च चशब्देनैव गम्यते। किमुतैकवाक्यतायामुक्तानुपपत्त्येत्येवार्थः। चशब्दो ह्ययं समुच्चयस्य द्योतकः प्रतीयते। देवदत्तो धनिको यज्ञदत्तश्चेति यथा। नचैकविषयतायामेवं युज्यते। नहि भवति वसिष्ठो ब्रह्मिष्ठोऽरुन्धतीपतिश्च तथेति प्रयोगः। विशेषणसमुच्चये चशब्दः किं न स्यादिति चेत्, न। मुख्यार्थे बाधकाभावेन त्यागायोगात्। वचनव्यत्ययश्चैकवाक्यतायां स्फुट एव। तथात्वे खलु “ते ये शतं कर्मदेवानामानन्दाः। स एक आजानजदेवानामानन्दः। ये श्रोत्रिया अवृजिना अकामहताश्च’ इति स्यात्। तथा “ते ये शता मानुषा आनन्दा स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियाणामकामहातानाम्’ इति भवेत्।
॥ बृहद्भाष्यविरोधपरिहारः॥
नन्वेवन्तर्हि कथं बृहदारण्यकवाक्यं भाष्ये मुक्तमात्रविषयं व्याख्यातम्? “यश्च” इति विशेषणसमुच्चयपरमुक्तम्? अयमभिप्रायो भाष्यकारस्य सर्वथा वाक्यद्वयमेवेदं भिन्नविषयम्। एकवाक्यताश्रद्धायामपि मुक्तमात्रविषयमस्तु। तत्रानुपपत्तीनामल्पत्वात्। नामुक्तमात्रविषयम्, अनुपपत्तिबाहुल्यादिति।
॥ बृहदारण्यकश्रुतौ राद्धसंसिद्धशब्दयोः मुक्तमनुष्यज्ञापकत्वम्॥
मानुषादिहिरण्यगर्भान्तानाममुक्तानां मुक्तानां चोत्तरोत्तरं शतगुणानन्दत्वं श्रुतिद्वयमाहेत्ययुक्तम्। मानुषानन्दनिर्देशे मुक्तज्ञापकाभावात्। नहि तत्राकामहतत्वादिकमन्यद् वा किमपि श्रूयते इत्याशङ्कां निराकुर्वन् श्रुत्यर्थं विवृणोति राद्ध इत्यादिनाऽभिवीक्षत इत्यन्तेन। तत्र तावत् बृहदारण्यके मनुष्यमुक्तस्य ज्ञापकं दर्शयति राद्ध इति।
राद्धः संसिद्ध इत्येव मुक्त एवावगम्यते।
“स यो मनुष्याणां राद्धः समृद्धो भवति” इत्युपक्रमवाक्ये राद्ध इति पदेन मुक्त एव गृह्यते, न अमुक्तः। कया वृत्त्या? अभिधयैव। नतूपचर्यते। येन मुख्यार्थानुपपत्त्यादिकं व्युत्पादनीयं स्यात्। कथम्? संसिद्ध इति।
एतदुक्तं भवति “राध साध संसिद्धौ” इति पठ्यते। राधधातोश्च “गत्यर्थाकर्मकश्र्लिषशीस्थासवसजनरुहजीर्यतिभ्यश्च” इत्यकर्मकत्वात् कर्तरि क्तः। ततो राद्धः संसिद्ध इत्युक्तं भवति। संसिद्धिश्च मुक्तिरेव, नित्यत्वेन दुःखासम्भिन्नत्वेन च समीचीनसिद्धित्वात्। नेतरा, अनित्यत्वेन दुःखसम्भिन्नत्वेन चासमीचीनत्वात्। नच मुख्ये सम्भवत्यमुख्यार्थोऽङ्गीकर्तुं शक्यत इति। एवं समृद्धशब्दोऽपि मुक्तस्यैव वाचकः। मुक्तिं विना सम्यगृद्धेरभावात्। “अन्येषामधिपतिः” इत्यादिकं तु मुक्तामुक्तसाधारणम्। यथाच मुक्ते सम्भवति तथोक्तं भाष्ये।
॥ तैत्तिरीयश्रुतौ युवसाधुयुवआशिष्ठदृढिष्ठबिलष्ठशब्दानां मुक्तमनुष्यज्ञापकत्वम्॥
इदानीं तैत्तिरीयश्रुतौ मुक्तमनुष्यज्ञापकं दर्शयन् “युवा स्यात्” इत्यादीनि पदानि व्याचष्टे साधुनेति।
साधुना विष्णुना युक्तो मुक्तः साधुयुवा मतः॥२८॥
यौवनं नित्यमेतस्य मुक्तस्येति युवा स च।
फलमध्यनस्याऽप्तं तेनाऽध्यायक ईरितः॥२९॥
निर्ह्रासानन्दसम्प्राप्त्या चाशिष्ठ इति गीयते।
स्थितस्यानन्यथाप्राप्तेर्दृढिष्ठ इति चोदितः॥३०॥
बिलष्ठश्च स्वभावेन मुक्तो भवति केवलम्।
तस्येयं पृथिवीत्यादि पूर्वभावव्यपेक्षया॥३१॥
निर्दोषो हि साधुरित्युच्यते। नच विष्णोरितरो निर्दोषोऽस्ति। अतः साधुना विष्णुनेत्युक्तम्। तृतीयान्ते साधुशब्द उपपदे “यु मिश्रण” इत्यस्मात् “अन्येभ्योऽपि दृश्यन्ते” इति क्वनिप्प्रत्यये कृते साधुयुवेति भवति। यद्वा “युजिर् योगे” इत्यस्येदं रूपम्। दृशिग्रहणसामर्थ्याद् धातोरन्तलोपः। तथाच भगवत्सामीप्यलक्षणमोक्षवानित्युक्तं भवति। युवशब्दादप्यतिशयेन साधुयुवशब्दो मुक्तस्य ज्ञापक इति क्रममतिलघ्याऽदौ व्याख्यातः। यद्यपि युवशब्दो यौवननिमित्तः, तथाऽपि मुख्यामुख्ययोर्मुख्ये सम्प्रत्यय इति नित्ययौवनमङ्गीकार्यम्। तच्चैतस्य मनुष्यस्य मुक्तस्यैष युज्यते न संसारिण इति हेतोर्युवा च स मुक्त एव।
आध्यायकशब्दो यद्यपि आङधिपूर्वात् “इ अध्ययने” इत्यस्मात् ण्वुलि प्रत्यये सति निष्पन्नः सम्यगध्ययनस्य कर्तारमाह, तथाऽप्यत्र पुरुषार्थप्रसङ्गादध्ययनस्यापुरुषार्थत्वादध्ययनफलप्राप्तेर्लक्षको वर्णनीयः। अध्ययनस्य फलं च तेन मुक्तेनैवाऽप्तम्। मुक्तेरेव तत्फलत्वात्। तेन कारणेन मुक्त एवाऽध्यायक ईरितः।
आ सम्यक् समन्ताच्च शमस्येत्याशः। अतिशयेनाऽश आशिष्ठः। सम्यक्त्वादि च ह्रासाभावादिकमेव। ततो निर्ह्रासस्य योग्यतानुसारेण पूर्णस्याऽनन्दस्य सम्प्राप्त्या कारणेन मुक्त एवाऽशिष्ठ इति च गीयते।
अविकारो हि दृढो नाम। अतिशयेन दृढो दृढिष्ठः। छान्दसत्वात् “र ऋ तो हलादेर्लघोः” इत्येतन्न भवति। मुक्त एव स्थितस्यान्यथाप्राप्तेः अतिशयेन निर्विकारत्वाद् दृढिष्ठ इति चोदितः।
बलमस्यास्तीति बली। अतिशयेन बली बिलष्ठः। अतिशयश्च स्वाभाविकत्वात्। स्वभावेन बिलष्ठश्च केवलं मुक्तो भवति। नामुक्तः। अतो बिलष्ठ इति स एवोच्यत इति।
॥ वित्तपरिपूर्णपृथवीपतित्वादिकममुक्तविषयम्॥
ननु मुक्तस्य “तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात्” इति वित्तपरिपूर्णपृथिवीपतित्वमुच्यमान कथं युज्यत इत्यत आह तस्येति। पूर्वभावोऽमुक्तत्वम्, मुक्तामुक्तमनुष्ययोर्विवक्षया हि “युवा स्यात्” इत्यादिकमारब्धम्। तत्र “युवा स्यात्” इत्यादिना मुक्तं प्रतिपाद्यामुक्तविवक्षया “तस्य” इत्यादिवाक्यं प्रवृत्तमित्यर्थः। अनेनैव न्यायेन “अन्येषामधिपतिः” इत्यादिकममुक्तविषयं प्रतिपत्तव्यम्।
॥ एकविषयताप्रतिभासानुपपत्तिशङ्कापरिहारः॥
नन्वेवं “युवा स्यात्” इत्यादेर्मुक्तामुक्तविषयताङ्गीकृतावेकविषयताप्रतीतिविरोध इत्याशङ्कानिरासायामुक्तेति वक्तव्ये पूर्वभावेत्युक्तम्। एक एव चेतनो युवादिशब्दैः प्रतिपाद्यते। तस्य चावस्थाभेदेन विशेषणानि व्यवस्थाप्यन्ते। तस्मादेकविषयताप्रतिभासो नानुपपन्न इति।
॥ संसारिमनुष्यादिसुखात् संसारिमनुष्यगन्धर्वादिसुखं शताधिकम्,
 मुक्तमनुष्यादिसुखात् मुक्तमनुष्यगन्धर्वादिसुखं शताधिकम्॥
एवं वाजसनेयश्रुतौ “स यो ह वै मनुष्याणाम्” इत्यादेः “सम्पन्नतमः” इत्यन्तस्य, तैत्तरीयश्रुतौ च “युवा स्यात्” इत्यादेः “पूर्णा स्यात्” इत्यन्तस्य मुक्तामुक्तपरत्ववर्णनेन “स मनुष्याणां परम आनन्दोऽथ ते ये शतं मनुष्याणामानन्दाः” इत्येतत् “स एको मानुष आनन्दः। ते ये शतं मानुषा आनन्दाः” इत्येतच्च मुक्तामुक्तविषयमिति सिद्धे तैत्तिरीयश्रुतिगतं “स एको मनुष्यगन्धर्वाणामानन्दः। श्रोत्रियस्य चाकामहतस्य” इत्येतावद् व्याचष्टे स एक इतीति।
स एक इति संसारगतमुक्त्वा सुखं पुनः।
श्रोत्रियस्येति वदति मुक्ताच्छतगुणात्मताम्॥३२॥
संसारगाच्च संसारगतस्यैव शताधिकम्।
मुक्तान्मुक्तस्य युक्तं स्याच्छ्रुत्युक्तमभिवीक्षतः॥३३॥
संसारगतं सुखमुक्त्वेति संसारिमनुष्यसुखाच्छतगुणं संसारिणो मनुष्यगन्धर्वस्य सुखमुक्त्वेत्यर्थः। मुक्ताच्छतगुणात्मतामिति मुक्तमनुष्यस्य सुखान्मुक्तमनुष्यगन्धर्वस्य शतगुणसुखात्मतां वदतीत्यर्थः। श्रुतिरिति शेषः। “स एकः” इति वाक्येन, “श्रोत्रियस्य” इति वाक्येन।
अनेनैव न्यायेन ते ये शतं मनुष्यगन्धर्वाणामानन्दा इत्यादिकं व्याख्येयमित्याशयवानाह संसारगादिति। संसारिमनुष्यगन्धर्वादिसुखादित्यर्थः। संसारगतस्य देवगन्धर्वादेः शताधिकं शतगुणाधिकं सुखमुक्त्वेति वर्तते। मुक्तान्मुक्तस्येति मुक्तमनुष्यगन्धर्वादिसुखाच्छतगुणं मुक्तदेवगन्धर्वादेः सुखं वदतीत्यर्थः। अनेन “ते ये शतम्” इत्युभयमेकोक्त्या परामृश्य “स एकः” इति “श्रोत्रियस्य” इति च यथायोग्यं पृथक् शतगुणानन्दत्वमुच्यत इत्युक्तं भवति।
अनयैव रीत्या “स एकः पितॄणाम्” इत्यादि वाजसनेयश्रुतिवाक्यमपि व्याख्येयम्। उपक्रमे मुक्तश्रवणादाजानजदेवादौ “यश्च श्रोत्रियः” इत्यादिना तच्छ्रवणान्मध्येऽपि यश्च श्रोत्रिय इत्यनुवर्तनीयम्। श्रुतिद्वयविसंवादस्तु भगवत्पादैरन्यत्र परिहृत इति।
श्रुतिद्वयव्याख्यानमुपसंहरति युक्तं स्यादिति। श्रुत्युक्तमभिवीक्षतोऽभिवीक्षमाणस्य सम्यग् विचारयतो मतेनैतदेव व्याख्यानं युक्तं स्यात्। अथवाऽभिवीक्षोऽभिवीक्षणं सम्यग् विचारः, तस्मादिदमेव श्रुत्युक्तं युक्तं स्यादिति।
॥ मनुष्याद्यपेक्षया देवादिषु साधानाधिक्यसद्भावात् साध्याधिक्यसिद्धिः॥
एवं श्रुत्या मुक्तौ तारतम्यमुपपाद्य युक्त्याऽप्युपपादयति युक्तं चेति।
युक्तं च साधनाधिक्यात् साध्याधिक्यं सुरादिषु।
नाऽधिक्यं यदि साध्ये स्यात् प्रयत्नः साधने कुतः॥३४॥
सुरादिषु मानुषादिभ्यः साध्याधिक्यं मुक्तिगतफलाधिक्यं साधनाधिक्याद्धेतोर्युक्तम्। अनुमितं चेत्यर्थः। देवादयो मानुषादिभ्योऽधिकमौक्तफलभाजः, तदपेक्षयाऽधिकतत्साधनवत्त्वादित्युक्तं भवति। विपक्षे बाधकाभावादप्रयोजकोऽयं हेतुरित्यत आह नाऽधिक्यमिति। सुरादिष्विति वर्तते। मानुषादिभ्य इति च। साधने साधनाधिक्ये। यदि देवादयो मानुषादिभ्योऽधिकमौक्तफलभाजो न स्युः, तदा तदधिकतत्साधनार्थप्रयत्नवन्तो न स्युः। अनधिकफलाय चाधिकं प्रयत्नमातिष्ठमाना न प्रेक्षावन्तो भवेयुरिति विपक्षे बाधकान्नाप्रयोजको हेतुः।
॥ साधानाधिक्यसाध्याधिक्ययोः कार्यकारणभावः॥
प्रमाणाभावात् स्वरूपासिद्धोऽस्त्वित्यत आह यत्नश्चेति।
यत्नश्च दृश्यते तेषां महानेव महात्मनाम्।
यत्र साधनबाहुल्यं साध्यबाहुल्यमत्र च।
दृष्टं नियमतो नो चेन्न यत्नं कुर्युरञ्जसा॥३५॥
महात्मनां महाफलभाक्त्वेनानुमेयानां तेषां देवादीनां मानुषादिभ्यो महान् यत्नोऽधिकं मोक्षसाधनानुष्ठानं च दृश्यत एव प्रमाणैः। तान्यपि वक्ष्याम इति भावः। (११८६,११८९) व्याप्तिमुपपादयति यत्रेति। यत्र पुरुषे यदपेक्षया साधनाधिक्यमस्ति, अत्र तदपेक्षया साध्याधिक्यं च नियमेन दृष्टम्। कर्षकवणिग्राजपुरुषादिषु लोके, वेदे चाग्न्याहितादिषु यो यदधिकसााधनवानसौ तदधिकसाध्यवानिति नियमेन तत्तत्प्रमाणैरुपलब्धमेवेत्यर्थः।
॥ साध्याधिक्यस्य साधनाधिक्याकारणकत्वे प्रेक्षावतां साधनातिशयानुष्ठानाभावप्रसङ्गः॥
यस्त्वग्न्याधानादिफलानां तारतम्यमजानानः कृष्यादिफले च धान्यादौ तारतम्यं कारणान्तरायात्तं न कृष्यादिसाधनतातारतम्याधीनमिति मन्यमानो दृष्टान्तेष्वपि विप्रतिपद्यते तं प्रत्याह नो चेदिति। यदि लोके वेदे च साधनाधिक्यात् साध्याधिक्यं नो भवेत्, तदा केऽप्यञ्जसा यत्नं साधनातिशयानुष्ठानं न कुर्युः, किन्तु सममेव कुर्युः। इतरथा प्रेक्षावन्तो न भवेयुः। नह्यग्न्याधानेन यावान् स्वर्गः, अश्वमेधेनापि तावत एव लाभेऽश्वमेधे कश्चित् प्रवर्तेत। प्रवर्तमानो वाऽबुद्धिमान् भवेत्। द्रोणवापमात्रकर्षणेन यावान् धान्यलाभः, तावत एव खारीवापकर्षणेन भावे न कश्चित् तत्र प्रवर्तेत। तथात्वे च मन्दः स्यात्। दृष्टं वृष्ट्यादिकमदृष्टं धर्मादिकं च साधनान्तर्भूतमेवेति न व्यभिचारः शङ्कनीयः।
॥ मोक्षफलस्य तारतम्योपेतत्वेऽनुमानानि॥
एवं मानुषादयो देवादिभ्योऽल्पमुक्तिफलभाजः, तदपेक्षयाऽल्पसाधनवत्त्वात्; यो यदपेक्षया अल्पसाधनवान् स ततोऽल्पफलवान् दृष्टः यथा सम्मतः। देवादयो मानुषान्ता मुक्तौ फलतारतम्यवन्तः, साधनतारतम्योपेतत्वात्; ये यत्साधनतारतम्यवन्तः ते तत्साध्यतारतम्यवन्तः, यथा सम्मताः। ब्रह्मादिमानुषान्तैरनुष्ठितानि मोक्षसाधनानि तारतम्यवत्फलवन्ति, तारतम्यवत्साधनत्वात्; सम्मतवत्। ब्रह्मादीनां मानुषान्तानां मोक्षफलानि तारतम्यवन्ति, तारतम्यवत्साधनसाध्यत्वात्; सम्मतवदित्यनुमानान्यप्यत्र द्रष्टव्यानि। अनुकूलतर्कादिकं च पूर्ववदूहनीयमिति।
॥ मुमुक्षुभिः कृच्छ्रेण साधनानुष्ठानात् न तस्य मुक्तवल्लीलात्मकत्वम्॥
स्यादेतत्। मुक्ता अप्युपासनं कर्म चानुतिष्ठन्तीति गुणोपसंहारपादे समर्थितम्। नचैकप्रकारमेव तेषामनुष्ठानमिति नियामकमस्ति। तथाच तेषामुपासनादितारतम्ये सत्यपि तत्प्रयुक्तफलतारतम्याभावादयुक्तान्येव सतर्काण्यनुमानानि। मुक्तैरनुष्ठितं साधनमेव न भवति, साध्याभावादिति चेत्। अमुक्तैरनुष्ठितस्याप्यधिकस्य तथात्वोपपत्तेः। अनुष्ठानं च मुक्तवल्लीलात्मकं भविष्यतीत्यत आह कृच्छ्रेणेति।
कृच्छ्रेण साधनादेव न मुक्तवदुदीर्यते।
मुमुक्षुभिः कृच्छ्रेणैव साधनानां साधनादनुष्ठानात् कारणान्मुक्तानामिव लीलयाऽनुष्ठानं न भवति। अनेन विशेषणप्रक्षेपादनैकान्त्यादि परिहृतम्। मुक्तानां कृच्छ्राभावाल्लीलावैलक्षण्यदर्शनादन्यथासिद्धिरप्यपास्ता। नहि कृच्छ्रवती लीला भवतीत्युक्तं भवति। कृच्छ्रेण मुमुक्षूणां साधनानुष्ठाने किं प्रमाणमित्यत आह उदीर्यत इति। एतदागमेनोदीर्यत इत्यर्थः।
॥ रुद्रइन्द्रसूर्यधर्मादीनां अतिकृच्छ्रेण साधनानुष्ठाने प्रमाणम्॥
तदागमं पठति दशकल्पमिति।
दशकल्पं तपश्चीर्णं रुद्रेण लवणार्णवे।
त्यक्त्वा सुखानि सर्वाणि क्लिष्टेन लवणाम्भसा॥३६॥
शक्रे ण वर्षकोटीश्च धूमः पीतोऽतिदुःखतः।
वर्षायुतं च सूर्येण तपोऽर्वाक्छिरसा कृतम्॥३७॥
सुदुःखेन सुखं त्यक्त्वा धर्मेणाऽकाशशायिना।
पीता मरीचयो वर्षसाहस्रमतिसादरम्॥३८॥
अतिकृर्च्छ्रेण कुर्वन्ति यत्नं ब्रह्मविदोऽपि च।
इत्येतदखिलं मोक्षविशेषाभावतः कथम्॥३९॥
कल्पो ब्रह्मणो दिवसः। पात्रादित्वान्नपुंसकत्वम्। “कालाध्वनोरत्यन्तसंयोगे” इति द्वितीया। यद्वा दशकल्पमिति बहुव्रीहिः। तपसो विशेषणम्।
सहस्रं परिमाणमस्येति साहस्रः सङ्घः। तदस्य परिमाणमित्यर्थे “शतमानविंशतिकसहस्रवसनादण्” इत्यणो विधानात्। अन्येऽप्यतिकृच्छ्रेण यत्नं कुर्वन्ति। किमैहिकफलार्थम्? नेत्युच्यते ब्रह्मविदोऽपीति। विषयवैराग्यमनेनोपलक्ष्यते। ब्रह्मज्ञानोत्तरसाधनानुष्ठानेन मोक्षतारतम्यस्योपरि साधयिष्यमाणत्वात् (१२४३) अत्र सामान्यमात्रं विवक्षितम्। इतिशब्दो वाक्यसमाप्तौ।
अनुमानमुपसंहरति एतदिति। एतदखिलं कृच्छ्रेण साधनानुष्ठानम्। विशेषो वैचित्र्यम्। सप्तम्यर्थे तसिः। कथं युज्यते? ततोऽनेन मोक्षविशेषः सिद्ध इति शेषः।
॥ मुक्तौ तारतम्यसद्भावे प्रमाणोपन्यासः॥
स्यादेतत्। मुक्तौ तारतम्यानुमानं कालत्ययापदिष्टम्। “परमं साम्यमुपैति” इत्यादिश्रुतिविरुद्धत्वादिति। मैवम्। श्रुतेः श्रुतिस्मृतिबाधितत्वेन बाधकत्वासम्भवादित्याशयवान् मोक्षतारतम्यवादिनीः श्रुतिस्मृतीस्तावत् पठति दैवीति।
दैवी सम्पद् विमोक्षाय निबन्धायाऽसुरी मता।
इति मोक्षविशेषश्च स्वयं भगवतोदितः॥४०॥
सम्पद् योग्यता। विमोक्षो विशिष्टमोक्षः। निबन्धो नीचस्थानेऽन्धे तमसि बन्धः। तादर्थ्ये चतुर्थी। चशब्द एवार्थे। भगवता स्वयमेवोक्त इति सम्बद्ध्यते। अन्यथा वीत्युपसर्गस्य वैयर्थ्यापत्तेः।
तमेवेति मुनीन् प्रति पृथोर्वाक्यम्।
तमेव यूयं भजताऽत्मवृत्तिभिर्मनोवचःकायगुणैः स्वकर्मभिः।
अमायिनः कामदुघाङ्घ्रिपङ्कजं यथाधिकारावसितार्थसिद्धये॥४१॥
तं विष्णुमेव। आत्मवृत्तिभिरित्यस्यैव विवरणम् मनोवचःकायकार्यैः स्वकर्मभिरिति। अमायिनश्छद्मरहिता निष्कामाः। यथाधिकारं योग्यतानुसारेणावसितस्य निश्चितस्यार्थस्य मोक्षस्य सिद्धय इति मोक्षतारतम्योक्तिः। अमायिन इत्युक्तत्वादर्थशब्देन मोक्षस्यैवोक्तेः।
अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः।
आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे॥४२॥
इत्यादीनि च वाक्यानि तारतम्यं विमुक्तिगम्।
व्यक्तं वदन्ति तत् केन साम्यं मुक्तेषु गम्यते॥४३॥
अक्षण्वन्तोऽक्षिमन्तः। “अनो नु” इति नु। कर्णवन्तः प्राप्तसमस्तेन्द्रियफलाः। परस्परं सखायो मुक्ताः। मनोजवेषु मनोजवः प्रज्ञातिशयः। बहुवचनमाद्यर्थे ज्ञानादिगुणेषु असमाः तारतम्योपेता बभूवुः। भगवत्सामीप्ये च तारतम्यमुच्यते। तेषु केचिदादघ्नास आस्यशब्दस्याऽऽभावः। आस्यं परिमाणमस्येत्यादघ्नममृतम्, तदेतेषामस्ति स्थानमित्यर्शआदिभ्योऽच्। आस्यपरिमाणे सुधानिधौ विहरन्त इति दूरत्वमुच्यते। यद्वा तरतमशब्द इव दध्नशब्दोऽप्रत्ययोऽप्यस्ति। ततश्चा सम्यग् दध्ना मग्ना इत्यर्थः। त्वे केचिदुपगताः कक्षं वनमुपकक्षाः। उशब्द एवार्थः। श्वेतद्वीपगतवनक्रीडारता एवेति मध्यत्वमुच्यते। “आञ्जसेरसुक्” इत्यसुक् । त्वे एके स्नात्वाः स्नातव्याः। कृत्यार्थे “तवैकेन् केन्यत्वन” इति त्वन्। ह्रदा इव गम्भीराः परमेश्वरं ददृश्रे ददृशुः। “इरयोरे”। अनेनातिसामीप्यमुच्यते। “श्रुत्वा विष्णुं कर्णफलम्” इत्यादिस्मृत्याऽस्य मन्त्रस्यैवं व्याख्यातत्वान्नार्थान्तरं कल्पनीयम्।
इत्यादीनि चेति चशब्देन प्रागुदाहृतकाण्वतैत्तिरीयश्रुतीः समुच्चिनोति। व्यक्तं निरवकाशम्। ततः किमित्यत आह तत् केनेति। तत् तस्मान्निरवकाशश्रुतिस्मृतिबाधितत्वात् केन न केनापि। यदुदाहृतं वाक्यं तन्न तत्परमितिभावः।
॥ “परमं साम्यमुपैति” इतिश्रुतेरर्थकथनम्॥
तर्हि कस्तस्यार्थ इत्यत आह दुःखादीति।
दुःखाद्यभावसाम्यं च साम्यवाक्यार्थ ईयते।
भक्त्यादिगुणसद्भावे ह्यतुलत्वं च भारते।
उक्तम्.................................॥४४॥
चशब्दोऽवधारणे परमानन्दसाम्यसमुच्चये वा। यथोक्तम् “दुःखाभावः परानन्दो लिङ्गभेदः समा मता” इति। किञ्च नेदमनुमानमुत्प्रेक्षितम्। किन्त्वागमसिद्धम्। तत्र कथं कालातीतशङ्केत्याशयेनाऽह भक्त्यादीति। तारतम्येन भक्त्यादिगुणसद्भावे सति भक्त्यादिसाधनगुणानां तारतम्येन हेतुनेति यावत्। अतुल्यत्वं मोक्षफलस्य। न केवलमस्माभिः किन्तु भारते चोक्तम्। हीति तद्वाक्यस्य प्रसिद्धतां सूचयति। यथा “सति हि गुणे प्रवदन्त्यतुल्यताम्” इति। सति साधौ गुणे भक्त्यादावतुल्ये सति फलस्याप्यतुल्यतां वदन्ति हीत्यर्थः।
॥ साधनतारतम्ये प्रमाणोपन्यासः॥
साधनतारतम्यं प्रमाणैर्दृश्यत इत्युक्तम्। कानि तानीत्यतः कृच्छ्रेणानुष्ठानं प्रदर्शयितुमुदाहृतं तावदेकं वाक्यम्। अन्यान्यपि सन्तीत्याह साधनेति।
.......साधनवैचित्र्यमपि सर्वत्र कथ्यते॥४४॥
दुर्ज्ञेयं घोररूपस्य त्रैलोक्यध्वंसिनः प्रभोः।
दैवतैर्मुनिभिः सिद्धैर्महायोगिभिरेव च॥४५॥
नित्ययुक्तैर्महाभागैर्विमोहक्लेशसाध्वसैः।
महोत्साहैर्महाधैर्यैः सत्त्वस्थैर्व्यवसायिभिः॥४६॥
अतीतानागतज्ञानप्रभवाप्ययवेदिभिः।
शौचस्वाध्यायसन्तोषतपःसत्त्वदयान्वितैः॥४७॥
किमु मर्त्यैर्भयभ्रान्तिध्वंसमोहरुजान्वितैः।
अल्पायुर्वीर्यधीसत्त्वव्यवसायश्रुतिव्र्तैः॥४८॥
साधकानां साधनवैचित्र्यं सर्वत्रापि ग्रन्थेषु। तानि वाक्यानि पठति दुर्ज्ञेयमिति। प्रभोर्नृसिंहस्य ध्यानचक्रं देवतादिभिर्दुर्ज्ञेयम्। कुतः? घोरं भयङ्करं रूपमस्येति तथोक्तः। त्रैलोक्यं ध्वंसितुं शीलमस्येति। एवशब्देन न सञ्ज्ञामात्रेण महायोगिनः किन्त्वर्थत एवेत्याह। तदेवोक्तम् नित्ययुक्तैरित्यादिना। सर्वदा ध्यानाद्युद्योगवद्भिः। भागो भाग्यमिन्द्रियजयादि। मोहो मिथ्याज्ञानम्। क्लेशा अविद्यायाः। साध्वसं विघ्नादिभयम्। न केवलं सदोद्युक्ताः किन्तु स चोद्योगो महानित्युच्यते महोत्साहैरिति। सत्त्वस्थैः सदा सत्त्वगुणप्रचुरैः। व्यवसायो निश्चयः। ज्ञानशब्देन ज्ञेयमुपलक्ष्यते। अतीतानागतानि ज्ञानानि, प्रभवाप्ययौ सृष्टिसंहारौ च वेत्तुं शीलमेषामिति तथोक्ताः। प्रभवाप्ययज्ञानस्य महाफलत्वात् पृथगुक्तिः। मर्त्यैर्दुर्ज्ञेयमिति किमु वक्तव्यम्। ध्वंसो मनोविशरणम्। मोहः अज्ञानम्। श्रुतिः श्रवणम्।
अत्र वैहायससंहितावाक्ये देवादिभ्यो मनुष्याणामल्पं साधनमिति स्फुटं प्रतीयते। मानुषत्वापगमानन्तरमाधिकं भविष्यतीति चेत्, न। मानुषत्वादेरनपगमस्यानन्तरमेव वक्ष्यमाणत्वात्। (१२०४)
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति।
ब्रह्मैव किञ्चिज्जानाति न तदन्यो हि कश्चन॥४९॥
“कस्तम्” इति श्रुतिर्यमवाक्यम्। सुरासुराणां सुखदुःखहेतुत्वान्मदामदः। अनेन यमस्यान्येभ्यो ज्ञानाधिक्यमुच्यते। ब्रह्मैवेत्यनेन ब्रह्मणः। अत एव मदन्य इति ब्रह्मादीन् विनेति व्याख्येयम्।
मुक्तानामपि सिद्धानां नारायणपरायणः।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामते॥५०॥
“मुक्तानाम्” इति भागवतवाक्ये मुक्तानां शरीराद्यभिमानरहितानां सिद्धानां ज्ञानिनां कोटिष्वपि नारायणपरायणः प्रशान्तात्मा सुदुर्लभः कश्चिदेव। नारायणायनाः शान्तात्मानस्तु सर्वेऽपीति स्फुटं साधनतारतम्यं प्रतीयते। अत्र विशेषणद्वयेन वैराग्यभक्ती कथ्येते।
इयं विसृष्टिर्यत आ बभूव यदि वा दधे यदि वा न।
यो अस्याध्यक्षः परमे व्योमन् त्सो अङ्ग वेद यदि वा न वेद॥५१॥
“इयं विसृष्टिः” इति मन्त्रस्यायमर्थः इयं प्रत्यक्षादिसिद्धा विविधा सृष्टिर्यतो हिरण्यगर्भादा समन्ताद् बभूव। यश्चास्य प्रपञ्चस्याध्यक्षोऽधिपतिः सोऽपि परमात्मानं परमे व्योमन् व्योम्नि हृदयाकाशे यदि वा दधे वा न तथा वेद यदि वा न। अङ्गेति कस्यचित् सम्बुद्धिः। इतरापेक्षयाऽऽधिक्येन ध्यायति जानाति च कार्त्स्न्येन तु न ध्यायति न जानाति चेति। व्योमन्निति सप्तम्या लुक् । यो अस्य सो अङ्गेति “प्रकृत्यान्तःपादमव्यपरः” इति प्रकृतिभावः।
यः स्वात्ममायाविभवं स्वयं गतो नाहं नभस्वांस्तमथापरे कुतः।
ब्रह्माऽपि यं वेत्ति नचेह सम्यगन्ये कुतो देवमुनीन्द्रमर्त्याः॥५२॥
यः स्वात्ममायेत्यादिषु भागवतवचनेषु कैमुत्योक्त्या ज्ञानतारतम्यमवगम्यते। यो भगवान् स्वात्ममायाया विभवं स्वरूपमहिम्नो विस्तरं स्वयमेव गतो ज्ञातवान्। ब्रह्मवाक्यमिदम्। यं हरिमिह जीवेषु।
नमस्तेऽमिततत्वाय ब्रह्मादीनां च सूतये।
निर्गुणाय च सत्काष्ठां नाहं वेदापरे कुतः॥५३॥
तत्वं स्वरूपम्। सूतिः करणम्। यस्य सत्काष्ठां सम्यग् दिङ्मात्रम्। ब्रह्मवाक्यमिदम्।
नाहं परायुर्ऋ षयो न मरीचिमुख्या जानन्ति यद्विरचितं खलु सत्त्वसङ्घाः।
यन्मायया मुषितचेतस ईश दैत्यमर्त्यादयः किमुत शश्वदभद्रवृत्ताः॥५४॥
“नाहं परायुः” इति शिववचनम्। यद्विरचितं यस्य चरित्रम्। ईशेति भगवत्सम्बुद्धिः।
अहं महेन्द्रो निर्ऋ तिः प्रचेताः सोमोऽग्न्रिीशः पवनोऽर्को विरिञ्चः।
आदित्यविश्वे वसवोऽथ साध्या मरुद्गणा रुद्रगणाः ससिद्धाः॥५५॥
अन्ये च ये विश्वसृजोऽमरेशा भृग्वादयोऽस्पृष्टरजस्तमस्काः।
यस्येहितं न विदुः स्पृष्टमायाः सत्त्वप्रधाना अपि किं ततोऽन्ये॥५६॥
“अहम्” इति यमवचनम्। ईहितं चेष्टितम्।
सर्वस्याऽदौ स्मृतो ब्रह्मा तस्माद् देवादनन्तरः।
जानाति देवप्रवरं भूयश्चातोऽधिकं नृप॥५७॥
सर्वस्य प्रपञ्चस्याऽदौ स्मृतः। आद्यतया प्रमितः। अतो ज्ञानिवर्गात्। भूयोऽधिकमतिशयेनाधिकम्।
न त्वामतिशयिष्यन्ति मुक्तावपि कथञ्चन।
मद्भक्तियोग्याज्ज्ञानाच्च सर्वानतिशयिष्यसि॥५८॥
“न त्वाम्” इति ब्रह्माणं प्रति भगवद्वाक्यम्।
यथा भक्तिविशेषोऽत्र दृश्यते पुरुषोत्तमे।
तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गभेदने॥५९॥
सायुज्यं समनुप्राप्ता अपि देवादयोऽखिलाः।
तारतम्याद्धि तिष्ठन्ति तारतम्यं हि साधने॥६०॥
अत्र संसारे। लिङ्गभेदने लिङ्गशरीरभङ्गे जाते सति।
मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्वतः॥६१॥
सिद्धये ज्ञानाय। यततामपि मध्ये केचित् सिद्धा भवन्ति। सिद्धानां मध्य इति योज्यम्। तत्वतः प्राचुर्येण। “एकं च तत्वतो ज्ञातुम्” इति यथा।
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः॥६२॥
नच तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः।
भविता नच मे तस्मादन्यः प्रियतरो भुवि॥६३॥
अध्येष्यते च य इमं धर्म्यं संवादमावयोः।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः॥६४॥
श्रद्धावनसूयश्च शृणुयादपि यो नरः।
सोऽपि मुक्तः शुभाँल्लोकान् प्राप्नुयात् पुण्यकर्मणा॥६५॥
“य इमम्” इति व्याख्यातुरध्येतुः श्रोतुश्च तारतम्यमुच्यते। व्याख्यानादिप्रााचुर्यं च प्रत्येकं मोक्षसाधनमित्यन्यत्रोक्तम्।
ध्यानेनाऽत्मनि पश्यन्ति केचिदात्मानमात्मना।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे॥६६॥
अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः॥६७॥
“ध्यानेन” इत्यस्य भगवत्पादकृतं गीततात्पर्यगतं व्याख्यानं द्रष्टव्यम्।
सुसूक्ष्मैरप्यशेषैश्च विशेषैः सह पश्यति।
स्वात्मानं भगवान् विष्णुः सर्वरूपोऽपि सर्वदा।
सर्वत्र चान्यदप्येवं तेनादृष्टं नहि क्वचित्॥६८॥
सर्वत्र सर्वदैवेशं पश्यत्येव रमाऽपितु।
नतु सर्वैर्विशेषैस्तं पश्यन्त्यप्यन्यतोऽधिकम्।
स्वात्मानमन्यच्चाशेषं पश्यत्येव हि सर्वदा॥६९॥
“सुसूक्ष्मैः” इत्यादिना सर्वेषां ज्ञानतारतम्यमुच्यते। स्वतोऽन्यद् विश्वमप्येवं पश्यति। अपितु किन्तु। तर्हि भगवत्समाना किमिति प्रश्र्नार्थः। अन्यतो ज्ञानिवर्गादधिकं पश्यन्त्यपि सर्वैर्विशेषैर्युक्तं तं नैव पश्यति। विष्णोः स्वस्माच्चान्यदशेषम्।
ब्रह्मा तु सर्वगं पश्येद् गुणानप्यन्यतोऽधिकम्।
नतु सर्वेषु कालेषु तथा पश्यत्यमुक्तिगः।
मुक्तस्तु सर्वदा पश्येत् सर्वगत्वेन चापितु॥७०॥
न रमावद् विशेषाणां दर्शनं शक्नुयात् क्वचित्।
स्वात्मानमन्यच्च सदा विशेषैरखिलैरपि॥७१॥
पश्यत्यञ्जस्तथा वाणी विशेषांस्तावतो नतु।
त्रैगुण्यात् परतः पश्येद् व्याप्तं शतगुणं हरिम्॥७२॥
अन्यतः सरस्वत्यादेरधिकं पश्येत्। ब्रह्मणोऽप्यवस्थाभेदेन विशेष उच्यते नतु सर्वेष्विति। तथा सर्वगतत्वेन सरस्वत्यादिदृष्टाधिकगुणत्वेन सर्वगतत्वेन चेति। चशब्देनोक्तगुणवत्त्वं समुच्चिनोति। तर्हि मुक्तस्य ब्रह्मणो रमासाम्यं किमिति प्रश्र्नः अपित्विति। दर्शनं कर्तुम्। अन्यद् भगवतः। यथा ब्रह्मा रमादृष्टान्न पश्यति तथा। यावन्तो ब्रह्मदृष्टास्तावतः।
गिरिशो गरुडश्चैव तमोमात्रगतं हरिम्।
पश्येद् विशेषानपि हि वाणीदृष्टान्न पश्यति॥७३॥
उमा सुपर्णी च महत्तत्वं यावत् प्रपश्यति।
रुद्रदृष्टान् विशेषांश्च नैव पश्येत् कदाचन॥७४॥
स्वरूपमन्यरूपं च मुक्ता देवाः समस्तशः।
जानन्तीन्द्रश्च कामश्च ब्रह्म यावदहङ्कृतिः॥७५॥
पश्यन्तो मनुदक्षाद्या बुद्धितत्वस्थितं हरिम्।
पश्यन्ति सोमसूर्यौ तु मनस्थं परमेश्वरम्॥७६॥
अन्ये भूतस्थितं विष्णुं देवाः पश्यन्ति सर्वदा।
बहुसाहस्रवर्षेण महत्तत्वे क्वचित् क्वचित्॥७७॥
अन्ये चैव यथायोगमण्डान्तर्वर्तिनं हरिम्।
श्वेतद्वीपपतिं चैव हृद्येवान्ये तु केचन।
कदाचिदेव तत्रापि केचित् पश्यन्ति केशवम्॥७८॥
तमोगुणमात्रगतमेवेति सम्बन्धः। पश्येदित्यादेः प्रत्येकं सम्बन्धः। अन्यरूपं स्वाधमरूपम्। बहुसाहस्रवर्षेणेति। बहुसहस्रवर्षानुष्ठितसाधनेन। क्वचित्क्वचिदिति महत्तत्त्वविभागानभिप्रैति। यथायोगमेव केचन श्वेतद्वीपपतिमेव। तत्रापि हृद्यपि।
परिमाणदर्शनवद् विशेषदर्शने तारतम्यं न विस्पष्टमुक्तमत आह उमेति।
उमा यावदनन्तांशान् पूर्वदृष्टेभ्य एव तु।
विशेषान् वासुदेवस्य पश्चादुक्ता विचक्षते॥७९॥
शक्रकामादयश्चैव विशेषान् ब्रह्मणि स्थितान्।
उमादिभिः प्रबुद्धेभ्यः शतांशानेव चक्षते॥८०॥
इत्यादि वेदस्मृतिगवचनेभ्यो यथार्थतः।
तारतम्यं च मुक्तानां साधनानां च दृश्यते॥८१॥
उमापर्यन्तं तु पश्चात् पश्चादुक्ताः पूर्वपूर्वैदृष्टेभ्यो दृष्टानामनन्तांशानेव वासुदेवस्य विशेषान् विचक्षते।शक्रकामादयश्चेति चस्त्वर्थः। एवशब्दस्योमादिभिरेवेत्यन्वयः। प्रबुद्धेभ्य इति पूर्ववत् षष्ठ्यर्थे। चक्षते पश्यन्ति।
उदाहृतानां वचनानां प्रयोजनमाह इत्यादीति। यथार्थत इति। न परमतानुवादरूपेणेत्यर्थः। मुक्तानां च साधनानां चेति योजना। साधनतारतम्यप्रतिपादनायोदाहृतेष्वेव केषुचिद् वाक्येषु मुक्तानां तारतम्यं प्रतीयते। तदपि प्रकृतत्वात् ग्राह्यमित्यर्थः।
॥ मोक्षे तारतम्याभावशङ्काया एव अनुपपन्नत्वम्॥
अस्तु मुमुक्षूणां साधनेषु तारतम्यम्, मा च भून्मोक्षे तारतम्यमित्याशङ्कायां प्राग् बाधकमुक्तम्। (११८४) इदानीं शङ्कैवैषा नोपपद्यते दूरे दूषणाभिधानमित्याह साध्येति।
साध्यसाधनवैरूप्यमदृष्टं केन कल्प्यते।
साध्यमविचित्रं साधनं विचित्रमिति साध्यसाधनयोर्वैरूप्यं केन बीजेन कल्प्यते शयते? न केनापि।
अयमभिसन्धिः पक्षे विपक्षत्वशङ्का खलु केनचिद् बीजेन स्यात्। निर्बीजं शङ्कमानो न लौकिको नापि परीक्षक इत्युन्मत्त इवोपेक्षणीयः। बीजं च व्यभिचारदर्शनं वा उपाधिदर्शनं वा तयोरन्यतरशङ्का वा। तत्राऽद्यं तावदिह नास्ति। तदिदमाह अदृष्टमिति।
नापि द्वितीयम्। पक्षे साध्यसद्भावस्य श्रुत्यादिसिद्धत्वेन यस्य कस्यचिदाशयमानस्यावश्यं साध्यव्यापकत्वाभावेनोपाधित्वासम्भवात्। पक्षेऽपि तद्वृत्तौ साधनव्यापकत्वात्। अत एवोपाधिशङ्काऽपि निरस्ता। ततो व्यभिचारशङ्काऽपि। उदाहृतवाक्यैर्व्याप्तेरुक्तत्वात्। अतो बीजाभावाच्छङ्कैवैषाऽनुपपन्नेति।
॥ साध्यसाधनयोर्वैरूप्याङ्गीकारे ईश्वरस्य वैषम्यनैर्घृण्यप्रसङ्गः॥
ईश्वरो मुमुक्षेभ्यो विचित्रं फलं ददाति, विचित्रसाधनैराराधितत्वात्, विचित्रसाधनान्यपेक्ष्य फलदातृत्वादित्यनुमानान्तरं हृदि निधायान्यथासिद्धिनिरासार्थं विपक्षे बाधकमाह वैषम्यमिति।
वैषम्यं निर्घृणत्वं च तेन स्यातां परस्य च।
तेन साध्यसाधनवैरूप्येण। द्वितीयश्चशब्दः प्रमाणान्तरसूचनार्थः। यदीश्वरोऽनुष्ठिताल्पसाधनाय अनुष्ठितमहासाधनसमानफलं दद्यात्, तदाऽसौ विषमः प्रसज्येत। यदि वाऽनुष्ठितमहासाधनाय अनुष्ठिताल्पसाधनसमानफलं दद्यात्, तदा निर्घृणः स्यादित्यर्थः।
॥ ईश्वरस्य वैषम्यनैर्घृण्ययोः सूत्रविरुद्धत्वादनिष्टत्वम्॥
ईश्वरस्य वैषम्याद्यापत्तिर्नानिष्टा। दुःखाद्यहेतुत्वादित्यत आह सापेक्षत्वादिति।
सापेक्षत्वादिति च तौ विद्याधीशेन वारितौ॥८२॥
अनेन “वैषम्यनैर्घृण्ये न सापेक्षत्वात्” इति सूत्रमुपादत्ते। तौ चेति सम्बन्धः। तौ वैषम्यनैर्घृण्यलक्षणौ दोषौ। यद्धि प्रमाणविरुद्धमप्रामाणिकं वा तदुच्यतेऽनिष्टमिति। वैषम्यादिकं चेश्वरस्य सूत्रकारेण वारितत्वात् प्रमाणविरुद्धमिति कथं नानिष्टम्? अङ्गीकृतसूत्रप्रामाण्यान् प्रत्ययं यत्न इति नासङ्गतिः। ये तु सूत्रप्रामाण्यमनङ्गीकृत्येश्वरस्य वैषम्याद्यापत्तेरिष्टत्वं मन्यन्ते। तान् प्रति वेदाप्रामाण्यहेतुत्वेन वैषम्यादेर्दोषत्वं सूचयितुं पुँल्लिङ्गनिर्देशः। अन्यथा प्रकरणात्ते वारिते इत्यवक्ष्यत्। नपुंसकप्रयोगेऽपि दूषणे इति शक्यते ज्ञातुमिति चेत्, न। ते वैषम्यनैर्घृण्ये इति निराकाङ्क्षत्वात्।
॥ ईश्वरस्य वैषम्यादिरहितत्वात् मुक्तौ तारतम्यसिद्धिः॥
प्रसङ्गस्य विपर्यये पर्यवसानमुपपादयति तारतम्यादिति।
तारतम्यात् साधनानां साध्यतादृक्त्वमीशतः।
अवैषम्यादिहेतुः स्यात् सदैव परमेश्वरे॥८३॥
साधनानां तारतम्यात् सदैव नियमेनेशतो भवतः साध्यस्य तारतम्यं परमेश्वरेऽवैषम्यादिहेतुः स्यात्। आपादकविपर्ययस्य खल्वापाद्यविपर्ययं प्रति निर्वाहकत्वे भवेत् प्रसङ्गस्य विपर्ययपर्यवसानम्। निरग्न्कित्वविपर्ययो हि निर्धूमत्वविपर्ययं घटयति। अस्ति चैतत् प्रकृत इति।
यद्वा कथं वैषम्यादि सूत्रकारेण वारितमित्यतः सापेक्षत्वस्य वैषम्याद्यभावेन सह हेतुहेतुमद्भावं व्युत्पादयति तारतम्यादिति। पूर्वैव योजना।
॥ ईश्वरस्य कर्मादिसापेक्षत्वे स्वातन्त्र्यहानिमाशय परिहारकथनम्॥
व्यर्थमिदं सूत्रकारस्य साधनसंस्कारपूर्वकर्मापेक्षाङ्गीकारेण वैषम्यादिनिवारणम्। फले तत्परिहारेऽपि साधनादौ परिहर्तुमशक्यत्वात्। तथाहि साधनादौ परमेश्वरस्य प्रयोजकत्वमिति नवा? नेति पक्षे परमेश्वरत्वहानिः। आद्ये निर्निमित्तं विचित्राणि साधनानि प्रयोजयतः कथं न वैषम्यादीत्यतोऽनुपपन्नस्य सूत्रस्य कथं बाधकत्वमिति। मैवम्। अस्याऽक्षेपस्य सूत्रकृतैव निरस्तत्वादित्याह स्वातन्त्र्य इति।
स्वातन्त्र्ये विद्यमानेऽपि साधनादौ परेशितुः।
अपेक्ष्यानादिवैचित्र्यं न दोष इति तद्वचः
नानादित्वादिति ह्युक्तमुपपद्यत इत्यपि॥।८४॥
स्वातन्त्र्यं प्रयोजककर्तृत्वम्। वैचित्र्यं साधनादेः। अपेक्ष्य प्रेरणादिति शेषः। दोषो वैषम्यादिः। तद्वचः सूत्रकृतो वचोऽस्ति।
नन्वेवं सर्वत्र सापेक्षस्य हरेः स्वातन्त्र्यहानिर्दोषः स्यादित्यत आह स्वातन्त्र्य इति। अयमपि दोषो नास्ति। कथम्? परेशितुः साधनादौ स्वातन्त्र्ये विद्यमानेऽपि स्वेच्छयाऽनादिवैचित्र्यमपेक्ष्य प्रेरकत्वमित्येतदर्थप्रतिपादकं तद्वचोऽस्ति यत इति।
किं तद्वच इत्यतः क्रमेण सूत्रद्वयं पठति नानादित्वादिति। तत्राऽद्यदोषपरिहाराय “न कर्माविभागादिति चेन्नानादित्वात्” इति सूत्रमनेनोपादत्ते। द्वितीयपरिहाराय “उपपद्यते च” इति।
॥ ईश्वरस्य तारतम्येन फलदातृत्वसाधकानुमानस्यादुष्टत्वसमर्थनम्॥
एवमनुमानस्यान्यथासिद्धिं निरस्य बाधकप्रतिरोधौ निराकरोति अपेक्ष्येति।
अपेक्ष्योपायवैषम्यमुपेयस्य तथा स्थितिः।
मया कया विरुद्धा स्याद् राजादावपि दृश्यते॥८५॥
तथास्थितिर्विषमता ईश्वरेण क्रियत इति साध्यमानेति शेषः। मया प्रमाणेन। कया? न कयाऽपि। “परमं साम्यम्” इत्यादेरन्यथाव्याख्यातत्वादिति भावः। अनुमानादेर्व्याप्तिप्रतिपत्तये दृष्टान्तमाह राजादाविति। प्रेक्षावति राजादौ सेवानुरूपफलदानं वैपरीत्यकर्तर्यप्रेक्षावति वैषम्यादिकं च दृश्यत इत्यर्थः।
॥ साध्यसाधनवैरूप्यकल्पनानिरासः॥
साध्यसाधनवैरूप्यकल्पने बाधकान्तरमाह त्याग इति।
त्यागो दृष्टस्य चादृष्टकल्पनेति सुदुष्करौ।
मायिभ्योऽन्येन केनापि तत् किमन्यैश्च वादिभिः॥८६॥
मायिनोऽत्रानुगम्यन्ते श्रुतहान्यश्रुतग्रहौ।
अप्यत्र मायिनां लिङ्गे तत् के दोषास्ततोऽधिकाः॥८७॥
सर्वत्र साध्यसाधनैकरूपस्य दृष्टत्वात् तद्वैरूप्यस्य क्वाप्यदृष्टत्वात् प्रकृतवैरूप्यं शङ्कमानस्य दृष्टत्यागोऽदृष्टकल्पना चेति दोषौ प्रसज्येते। नच स्यातां ताविति शक्यते वक्तुम्। प्रेक्षावता केनाप्यनङ्गीकृतत्वादित्याह सुदुष्कराविति। मायावादिनो दृष्टं प्रपञ्चस्य सत्यत्वादिकं त्यजन्ति। अदृष्टमनिर्वाच्यादिकं कल्पयन्ति। अतो मायिभ्योऽन्येनेत्युक्तम्। अस्य चोत्तरत्रोपयोगः। (उत्तरवाक्ये)
अन्यैरकृतमपि दृष्टत्यागादिकं कुर्वतां को दोष इत्यत आह तत् किमिति। तत् तर्हि। किमिति गूढाभिप्रायः प्रश्र्नः। अत्र दृष्टत्यागाद्यानुष्ठानविषये। अनुगम्यन्ते अनुस्रियन्ते।
एतदुक्तं भवति दृष्टत्यागादिप्रसङ्गेन मायावादिनो दूषयतां पुनरत्र दृष्टत्यागादिकं स्वयं कुर्वतां व्याहतिः स्यादिति।
साध्यसाधनयोर्वैरूप्यं शङ्कमानस्यानिष्टान्तरमाह श्रुतेति। उक्तविधया साध्यसाधनसारूप्यस्य श्रुतत्वादन्यथा चाश्रुतत्वादत्र वैरूप्याङ्गीकारे श्रुतहान्यश्रुतग्रहावपि स्याताम्। मायिनां लिङ्गे इति तयोर्विशेषणं प्रयुञ्जानस्योक्त एवाभिसन्धिः। मायावादिनो हि श्रुतं सार्वज्ञ्याद्युपेतं ब्रह्म परित्यज्य अश्रुतं निर्गुणमुपयन्ति।
दृष्टत्यागादिचतुष्टयं कुर्वतां बाधकान्तरमाह तदिति। तत् तत्र प्रकृतदोषेषु। ततो दृष्टत्यागादेः। अधिका बहिर्भूताः। दृष्टत्यागादिकं कुर्वाणेनान्यदपि प्रमितं त्याज्यं स्यात्। अदृष्टकल्पनादिकं च कुर्वताऽप्रामाणिकमन्यदपि कल्पनीयं भवेदिति भावः।
॥ द्वेषादिमत्त्वस्य दोषित्वव्याप्यत्वात् मुक्तानां च निर्दोषत्वात्
तेषां तारतम्योपतत्वेऽपि न द्वेषेर्ष्यादिप्रसङ्गः॥
स्यादेतत्। यदि मुक्तास्तारतम्योपेताः स्युस्तदा परस्परं द्वेषवन्तः स्युरिति प्रतिकूलतर्कं पराहतं मुक्ततारतम्यानुमानमित्यत आह निःशेषेति।
निःशेषगतदोषाणां बहुभिर्जन्मभिः पुनः।
स्यादापरोक्ष्यं हि हरेर्द्वेषेर्ष्यादिस्ततः कुतः॥८८॥
निःशेषेण गता अपगता दोषा येभ्यस्ते तथोक्ताः। पुनः श्रवणादिमतामिति शेषः। तेषां हरेरापरोक्ष्यमिति तान् प्रति हरेरापरोक्ष्यमित्यर्थः। “अनुबन्धादिभ्यः” इत्यत्र प्रतिपादितोऽयमर्थ (११०१) इति हिशब्दः। यस्मादित्यर्थे वा। द्वेषेर्ष्यादिदोषस्ततस्मात् कुतो मुक्तानाम्? नाऽपादयितुं शक्यत इत्यर्थः।
एतदुक्तं भवति ये तारतम्योपेताः, ते द्वेषादिमन्तो दृष्टाः, यथा लौकिकाः पुरुष इति खल्वत्र व्याप्तिरभिधातव्या। नचैवम्। लौकिकानां द्वेषादिमत्त्वे दोषित्वस्यैव प्रयोजकत्वात्। यत्र द्वेषादिमत्त्वं तत्र दोषित्वमिति व्याप्तेर्दर्शनात्। नच दोषित्वं मुक्तेषु सम्भवति। औपाधिका हि तेषु दोषा वक्तव्याः। स्वाभाविकानां शङ्कितुमशक्यत्वात्। तेच भगवत्साक्षात्कारोदयात् प्रागेव प्राचुर्येण गताः। साक्षात्कारेण च मूलघातं हताः। मुक्तौ चोपाधेरेवापगतत्वान्नेषदपि स्थातुमर्हन्ति। अतो व्यापकाभावाद् व्याप्यस्य अभाव इति।
ननु परेणापि न मुक्तेषु द्वेषादिमत्त्वं साध्यते, किन्त्वापाद्यत एव। ततस्तेभ्यस्तद्व्यावृत्तिसाधनमसङ्गत्वम्। मैवम्। तर्क मूलभूतव्याप्तावुपाधिः खल्वत्र कथितः। तस्य च पक्षाद् व्यावृत्तिः स्वव्यावृत्त्या विवक्षितधर्मव्यावर्तनशक्तिश्चाऽवश्यकेति तद्व्युत्पादनस्य क्रियमाणत्वात्। अत्र द्वेषेर्ष्यासन्तापपरेष्टप्रतिघातप्रयत्नेच्छा व्याप्याः। अविद्याहङ्काराद्या व्यापका इति विवेकः।
॥ दोषाणां द्वेषादिप्रयोजकत्वसमर्थनम्॥
दोषाणामेव द्वेषादौ प्रयोजकत्वमित्येतमर्थं परेणापि स्वीकारयितुं प्रतिबन्दीं गृह्णाति भवेयुरिति।
भवेयुर्यदि चेर्ष्याद्याः समेष्वपि कुतो न ते।
तप्यमानाः समान् दृष्ट्वा द्वेषेर्ष्यादियुता अपि॥८९॥
दृश्यन्ते बहवो लोके दोषा एवात्र कारणम्।
यदि निर्दोषता तत्र किमाधिक्येन दूष्यते॥९०॥
तारतम्येऽङ्गीकृते मुक्तानामीर्ष्यादयो यदि भवेयुर्यद्यापाद्यन्ते। तदा मुक्तेषु समेष्वङ्गीकृतेष्वपि कुतो न भवेयुः? यदि मुक्तास्तारतम्योपेताः, तदा द्वेषादिमन्तः स्युरिति वदता न द्वेषादिमन्तः, तस्मात् समा एवेति वाच्यम्। नच साम्यमप्यङ्गीकर्तुं शक्यते। यदि मुक्ताः समाः स्युस्तदा द्वेषादिमन्तः स्युरिति तत्राप्यनिष्टप्रसङ्गादित्यर्थः।
साम्ये कथं द्वेषादिप्रसङ्ग इत्यतः परप्रसङ्गवत् साम्यस्यापि द्वेषादिसाहचर्यं दृष्टमित्याह तप्यमाना इति। समसत्तामात्रं नाऽपादकेन विवक्षितम्। अतिप्रसङ्गात्। किन्तु समदर्शनमेवेत्याशयेनोक्तम् समान् दृष्ट्वेति। प्रतिबन्दीग्रहणस्य प्रयोजनमाह दोषा इति। दोषाणां समुदितानामेव कारणत्वमित्येकवचनम्।
एवमस्माभिः साम्यवादिनं प्रत्यतिप्रसङ्गेऽभिहिते तेनैतदेव वक्तव्यम् अत्र लोके दोषा एव द्वेषादेः कारणम्। अन्वयव्यतिरेकाभ्यां तन्निश्चयात्। नतु साम्यम्। सत्यपि साम्ये सखिष्वभावात्। असत्यपि क्वचिद् भावात्। नच मुक्तेषु दोषाः सन्ति। अतः साम्येऽपि न द्वेषादिप्रसङ्ग इति।
अतः किमित्यत आह यदीति। यद्येवं दोषाणामेव द्वेषादिकारणत्वम्। तत्र मुक्तेषु निर्दोषता चाङ्गीकृता, तदा आधिक्येन हीनाधिकभावेनाङ्गीकृतेन किं दूष्यते? न किमपि। साम्यमङ्गीकुर्वाणेनापि निर्दोषतयैव द्वेषादिप्रसङ्गो वारणीयः। तारतम्यमङ्गीकुर्वाणैरस्माभिरपि तथैव निराकरिष्यते। इयांस्तु विशेषः यत् तारतम्यं प्रमितम्, न साम्यमिति समुदायार्थः।
॥ सममुक्तान्तरदर्शनाभावात् मुक्तानां द्वेषाद्यभावे तत एव अरत्यादिकं चाङ्गीकार्यं स्यात्॥
शङ्कते यदीति।
यद्यन्यदर्शनाभावादीर्ष्यादिर्विनिवार्यते।
अदर्शनादरत्यादिः कथं तेन निवार्यते॥९१॥
भवेदेतद् यदि साम्येन प्रसक्तं द्वेषादिकं निर्दोषतया निवारयामः। नचैवम्। किन्नाम। समसत्तामात्रं हि न द्वेषादिकारणम्, अतिप्रसङ्गात्। अपितर्हि? समदर्शनम्। नच मुक्तः समं मुक्तान्तरं पश्यति, अतो न द्वेषादीति। एवन्तर्हि न तारतम्यसत्तामात्रं द्वेषादिकारणम्, किन्तु स्वतोऽधिकदर्शनमेव। नच मुक्तः स्वतोऽधिकं मुक्तान्तरं पश्यति। तस्मात् सत्यपि तारतम्ये न द्वेषादिप्रसङ्ग इति कुतो न सन्तोष्टव्यमिति परिहारोऽत्र शक्यते वक्तुम्। तथाऽपि नासौ तात्विक इत्यन्यदर्शनाभावमेव दूषयति अदर्शनादिति। एवमन्यदर्शनाभावेन द्वेषादिकं निवारयतया तेनादर्शनात् प्रसक्तमरत्यादिकं कथं निवार्यते? अरतिः सुखाभावः। आदिपदेन तन्द्री भयं च गृह्यते।
एतदुक्तं भवति स्यादयं परिहारो यदि मुक्तस्यान्यदर्शनाभावः सम्भवेत्। नचैवम्। मुक्तो हि न तावदचेतनः, अपसिद्धान्तप्रसङ्गात्। ततश्चेतनस्य सतोऽन्यदर्शनाभावेऽरत्यादिकं प्रसज्यत इति।
॥ अन्यदर्शनाभावस्य अरत्यादिहेतुतायाः सदृष्टान्तं समर्थनम्॥
ननु बहिर्मुखा एवान्यदर्शनाभावेऽरत्यादिकं प्राप्नुवन्ति, नच मुक्तास्तथा, अतो नारत्यादिप्रसङ्ग इत्यत आह ब्रह्मणोऽपीति।
ब्रह्मणोऽप्यरतिर्दृष्टा पूर्वमेकाकिनः श्रुतौ।
नैव रेमे स एकाकी तस्मान्न रमते क्वचित्।
द्वितीयमैच्छत् तेनासाविति श्रुतय ऊ दिरे॥९२॥
“ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः।
ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम्”
इत्येवं प्रमितस्यापीत्यर्थः। पूर्वम् आदिकाले। श्रुताविति जातावेकवचनम्। ताः श्रुतिरर्थतः पठति नैवेति। अनेन “स वै नैव रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छत्” इति वाक्यमुपादत्ते।
॥ अन्यदर्शनेच्छायाः अरत्यादिहेतुत्वात्, मुक्तानां च इच्छारहितत्वात् न तत्प्रसङ्ग इत्यस्य दूषणम्॥
स्यादेतत्। यद्यन्यदर्शनाभावमात्रमरत्यादेः कारणं स्यात्। नचैवम्। किन्त्वन्यदर्शनेच्छायां तदभावः। मुक्तस्य त्विच्छैव नास्त्यतोऽन्यदर्शनाभावेऽपि नारत्यादिकं प्रसज्यत इत्याशयाऽह यदीति।
यदीच्छा नैव तत्रास्तीत्येव तत् कल्प्यते मृषा।
श्रुत्युक्तनिर्दोषतैवं किं नाङ्गीक्रियते स्वयम्॥९३॥
तारतम्यं च कामं च श्रुतमेवातिहाय तु।
अश्रुता समता केन कल्प्यते युक्तिमानिना॥९४॥
तत् तत्र मुक्तौ। तत्र अन्यदर्शनविषये। इच्छा नैवास्तीति मृषैव कल्प्यते यदीति योजना। “भिद्यते हृदयग्रन्थिः” इत्यादिश्रुत्युक्ता। स्वयं साक्षाच्छ्रुत्युक्तेति सम्बन्धः। तर्हीति शेषः। तच्छब्दो वा तर्ह्यर्थः।
इदमुक्तं भवति मुक्तानां साम्यमङ्गीकृत्यान्यदर्शनाभावेन द्वेषादि परिहृत्यान्यदर्शनेच्छाभावेन चारत्यादिकं परिहरतोऽप्रामाणिकानेककल्पनं प्रामाणिकपरित्यागश्च स्याताम्। सामान्यदर्शनाभावेन अभावतदिच्छाभावानामप्रामाणिकत्वात्। तारतम्यादेः प्रामाणिकत्वात्। ततो वरं तारतम्यमङ्गीकृत्य द्वेषादिनिरासाय श्रौतनिर्दोषतास्वीकार इति। एतेन तारतम्यं साम्यं वाऽङ्गीकृत्य निर्दोषत्वेन द्वेषादिसमाधानं विधातव्यमिति सन्देहोऽपि निरस्तो वेदितव्यः।
उक्तमेव स्पष्टमाह तारतम्यं चेति। अन्यदर्शनं चेत्यपि ग्राह्यम्। “स यो मनुष्याणां राद्धः”, “कामस्य यत्राऽप्ताः कामाः”,”अक्षण्वन्तः कर्णवन्तः सखायः” इत्यादौ श्रुतम्। नह्यन्यदर्शनाभावे सख्यं सम्भवति। समतेत्यन्यदर्शनाभावेच्छाभावयोरप्युपलक्षणम्। युक्तिं मन्यत इति युक्तिमानी। युक्तौ बहुमानवता केनाप्येवं न कल्प्यत इत्यर्थः। प्रामाणिकपरित्यागाप्रामाणिकस्वीकारप्रसङ्गो हि तर्कापरनामिका युक्तिः।
॥ मुक्तानां समत्वे प्रमाणाभावः॥
ननु समताया अश्रुतत्वेऽपि नाप्रामाणिकत्वम्। नहि श्रुतिरेव प्रमाणमित्यत आह किं तदिति।
किं तन्मानं समत्वे ते मुक्तानामुपलभ्यते।
वृथाऽयमाग्रहः केन श्रुतहान्यश्रुतग्रहे॥९५॥
न किञ्चित् तच्छ्रुतेरन्यत्। अतः प्रमाणान्तराभावेऽश्रुतत्वेनाप्रामाणिकत्वमेव सिद्ध्यति। “यद्यन्यदर्शनाभावात्” इत्यादिनोक्तमुपसंहरति वृथेति। केन? न केनापि कारणेन। श्रुतहान्यश्रुतग्रह इति द्वन्द्वैकवद्भावः। श्रुतहानिसहितोऽश्रुतग्रह इति वा। विषयसप्तमीयम्। ततो न कार्य इति भावः।
॥ चेतनत्वहेतुना मुक्तानां तारतम्यवत्त्वसाधनम्॥
मुक्तानां तारतम्येऽनुमानान्तरमाह मोक्षेऽपीति।
मोक्षेऽपि तारतम्येतश्चेतनत्वाद् यथा पुरा।
इत्युक्त उत्तरं किं ते कल्पनामात्रवादिनः॥९६॥
तारतम्येनेतः प्राप्तः,तारतम्यवानिति यावत्। पुरा संसारे। नन्वत्र संसारे वर्तमानं कमपि पक्षीकृत्य अयं तारतम्येत इति साध्यते, तत्र च मोक्षेऽपीति सिद्धसाधनतापरिहाराय विशेषणमुपादीयत इति वा, मोक्षेऽपीत्यनेन मुक्तं पक्षीकृत्य तारतम्येत इति वा। मुक्तं पक्षीकृत्य तारतम्येत इति साध्यते, तत्र प्राचीनेन तारतम्येन सिद्धसाधनतापरिहाराय मोक्षेऽपीति विशेषणमुपादीयत इति वा, नाऽद्यः, तस्य नित्यसंसारित्वस्यापि सम्भवेन बाधापत्तेः। निश्चितमोक्षपुरुषविशेषपक्षीकारेऽपि दृष्टान्तस्य साध्यविकलत्वात्। नहि संसारी मुक्तिगततारतम्योपेतः। द्वितीये अपिपदवैयर्थ्यम्। प्राक्तनतारतम्योपेतत्वेन सिद्धसाधनता च। तृतीयेऽपि दृष्टान्तस्य साध्यविकलतैव। तारतम्योपेतत्वं च हीनाधिकसद्भावो वान्यतरसद्भावो वा। आद्ये परमेश्वरेऽनैकान्त्यम्। द्वितीये सिद्धसाधनता। मुक्तानामप्यमुक्तेभ्योऽधिकत्वस्य परेणाङ्गीकृतत्वात्। मुक्ताधिकत्वसाधने देवदत्ते व्यभिचारः, तत् कथमेतत्?
उच्यते मुक्तास्तदानीन्तनेन परस्परं तारतम्योपेताः, चेतनत्वात्; संसारिणो यथेत्ययमर्थोऽत्र विवक्षितः। तारतम्यं च कुतश्चिद्धीनत्वं कुतश्चिदधिकत्वमित्येतयोरन्यतरदिति नोक्तदोषः। सामान्यस्य च विशेषनिरासेनापाकरणे चातिप्रसङ्गः। यद्वा मुक्त्युत्तरक्षणवर्ती मुक्तः प्राग् यतोऽधिकत्वहीनत्वाभ्यामुपेतस्वरूपोऽभूत् इदानीमपि ताभ्यामुपेत इति प्रतिज्ञार्थो वर्णनीयः। सामान्यत एव व्याप्तिरभिधातव्येति।
आभासानुद्धरति इत्युक्त इति। उक्ते प्रयुक्ते। व्याप्तिपक्षधर्मत्वयोः प्रमितत्वान्न किमप्युत्तरमस्तीति भावः। बाधितविषयमनुमानमित्यत आह कल्पनेति। कल्पनामात्रेण वदतीति तथोक्तः। पूर्वेणैव सम्बन्धः। श्रुतीनामन्यार्थत्वात् प्रमाणान्तरस्य चाभावात् स्वोत्प्रेक्षयैव मुक्तनां तारतम्याभावं वदतस्तवोत्तरं किमिति।
॥ चेतनत्वहेतुना मुक्तानां सदुःखत्वसाधकत्वानुमानस्य बाधितत्वम्॥
यद्येवमनुमीयेत तदा मुक्ता दुःखाद्युपेताः, चेतनत्वात्; संसारिवदित्यप्यनुमीयेतेत्यतिप्रसङ्गपराहतमनुमानमित्यत आह नचेति।
नच दुःखादिकं कल्प्यं निर्दुःखत्वश्रुतेर्बलात्।
कल्प्यमनुमेयं मुक्तस्य। आदिपदेनापरिपूर्णानन्दत्वादेः सङ्ग्रहः। कुत इत्यत आह निर्दुःखत्वेति। अत्राप्यादिपदं ग्राह्यम्।
अयमभिसन्धिः समानयोगक्षेमत्वाभिप्रायेण खल्वयमतिप्रसङ्गो वाच्यः, नान्यथा, व्याप्त्यभावात्। नच प्रकृते तदस्ति। दुःखादिसाधकस्य निर्दुःखत्वादिकं प्रतिपादयन्त्या श्रुत्या बाधितत्वात्। श्रुतेरपौरुषेयत्वेन धर्मिग्राहकत्वेन चानुमानतो बलवत्त्वात्। तारतम्यानुमानस्य चाबाधितत्वादिति।
॥ मुक्तानां निर्दुःखत्वे श्रुत्युपन्यासः॥
एतदेव विवृण्वन् मुक्तस्य निर्दुःखत्वादि प्रतिपादयन्तीः श्रुतीस्तावत् पठित्वा तासां तात्पर्यमाह शोकमिति।
शोकं तरत्यात्मवेत्ता तीर्णः सर्वानदुःखभाक्॥९७॥
येनानन्द्येव भवति न शोचति कदाचन।
किल्बिषस्पृत् पितुषणिररं हित इहेश्वरः॥९८॥
यं यमन्तमभिप्रेप्सुः स सङ्कल्पाद् भवेदिह।
इत्यादिश्रुतयो मानं निर्दुःखत्वादिसम्पदि॥९९॥
अतो दुःखाद्यनुमया नावकाशोऽत्र लभ्यते।
तारतम्यानुमा तस्माद् भवेन्नातिप्रसङ्गिनी॥१००॥
श्रुतियुक्तिबलादेव तारतम्यं विभाव्यते।
मुक्तावपि ततः केऽत्र विरोधं कर्तुमीशते॥१०१॥
अनेन “तरति शोकमात्मवित्” इति श्रुतिमुपादत्ते। वेत्ता वेदिता। विचारणार्थस्य विन्दतेर्वा रूपमेतत्। तीर्णः सर्वानित्यनेन “तीर्णो हि तदा सर्वाञ्छोकान्” इति। अदुःखभागित्यनेन “नानानन्दं कञ्चिदुपस्पृशति” इति। येनेत्यनेन “तद् वै जैवं मनो येनानन्द्येव भवतीत्यथो न शोचति” इति। एवशब्देन शोकाभावे लब्धेऽपि यत् पुनः “न शोचति” इत्युक्तं तस्याभिप्रायः कदाचनेति। किल्बिषस्पृदित्यनेन
“सर्वे नन्दन्ति यशसाऽऽगतेन सभासाहेन सख्या सखायः।
किल्बिषस्पृत् पितुषणिर्ह्येषामरं हितो भवति वाजिनाय” इति मन्त्रम्।
परस्परं सखायः सर्वे मुक्ता आगतेन स्वागतेन यशसा यशस्वता। सभां सहत इति सभासहः। कर्मण्यण्। तेन सख्या परमेश्वरेण निमित्तेन नन्दन्ति। कथम्? हि यस्मादीश्वर एषां मुक्तानां किल्बिषस्पृत्। दुःखं न सहते। स्पर्धतेरर्थे स्पृधेति धात्वन्तरम्, ततः क्विप्। पितुषणिः अन्नस्य दाता। “अन्नं वै पितुः” इति श्रुतेः। “षणु दाने” अस्मादिकारप्रत्ययः। अरमत्यर्थम्। वाजिनायेन्द्रियाय हितो भवति। “इन्द्रियं वै वाजिनम्” इति श्रुतेः।
इह मुक्तविषये। यं यमित्यनेन “यं यमन्तमभिकामो भवति सोऽस्य सङ्कल्पादेव भवति” इति। अन्तं स्थानम्। इह मुक्तौ। निर्दुःखत्वादिसम्पदि मुक्तानाम्।
ततः किमित्यत आह अत इति। श्रुतिबाधितत्वादित्यर्थः। अत्र मुक्तेषु। मुक्ता दुःखाद्युपेता इति प्रतिज्ञायाः स्वव्याहतत्वाच्चेत्यपि द्रष्टव्यम्। ततोऽपि किमित्यत आह तारतम्येति। तस्माद् बाधाभावेन समानयोगक्षेमत्वाभावात्। मुक्ततारतम्यसाधनमुपसंहरति श्रुतीति। विभाव्यते सम्यगनुभूयते। के वादिनः? न केऽपि। अत्र मुक्ततारतम्यविषये॥*॥ इति स्तुत्यधिकरणम्॥४॥
अथ उभयलिङ्गाधिकारिकाधिकरणे॥५,६॥
॥ जीवानां नानाविधानादियोग्यतावत्त्वप्रतिपादनम्॥
सर्वथाऽपि तु त एवोभयलिङ्गात्। नचाऽधिकारिकमपि पतनानुमानात् तदयोगात्। अत्र प्रथमाधिकरणेऽनादिज्ञानयोग्यतावतामेव ज्ञानप्राप्तिर्नान्येषामित्युक्तम्। द्वितीये च देवतादिपदप्राप्तिरनादितद्योग्यतोपेतानामेव नेतरेषामित्यभिहितम्। सेयं जीवानां नानाविधानादियोग्यता प्रसिद्धैस्तैस्तैः कारणैरुत्कर्षापकर्षप्राप्तिर्भवतीति वदद्भिर्वादिभिर्नाभ्युपगम्यते, अतस्तां साधयितुमाह अनादीति।
अनादियोग्यतां चैव किलवाणीश्वरावधिम्।
को निवारयितुं शक्तो युक्त्यागमबलोद्धताम्॥१०२॥
न केवलं मुक्तानां तारतम्यमिति चार्थः। अनेन मुक्ततारतम्यस्यापीदं साधकमित्युक्तं भवति। अनादेः नित्यत्वात्। एवशब्दस्य क एवेति सम्बन्धः। किलवाणीश्वराववधी यस्याः सा तथोक्ता। योग्यतापकर्षपरम्परायाः किलरवधिः, तदुत्कर्षपरम्पराया वाणीश्वरः। उद्धतां अप्रतिहताम्।
॥ विमतः कालः, चतुर्मुखस्य यदन्यत आधिक्यं तेन युक्तः, कालत्वात्; यथा वर्तमानकालः॥
कथं युक्त्यागमसिद्धेत्यस्य आगमानां सावकाशत्वाभिमानेन युक्तावेव बहुमानवन्तं प्रत्यादौ तामाह ब्रह्मण इति।
ब्रह्मणोऽन्यत आधिक्ययुक्तः कालो विवादवान्।
कालो ह्ययं यथेत्यादि माऽनुमामानिनो भवेत्॥१०३॥
वर्तमानकाले ब्रह्मा सर्वाधिक इति सम्प्रतिपन्नम्। अतो विवादवान् विवादविषयः काल इत्युक्तम्। वर्तमानमहाकल्पव्यतिरिक्तोऽतीतोऽनागतश्च काल एतस्य ब्रह्मणो यदन्यत आधिक्यं तेन युक्तः। कालो हीति कालत्वादित्यर्थः। अयं वर्तमानः कालो यथा। आदिपदेनायं ब्रह्माऽतीतादिकालेऽप्यन्यतोऽधिकः, ब्रह्मत्वात्; तत्कालवर्तिब्रह्मवदित्यादेः सङ्ग्रहः। अनुमामानिनोऽनुमायां बहुमानवतो बोधाय प्रयोक्तव्या भवेत्। अनुमामानिनः प्रतीति वा। ब्रह्मगतेनाऽधिक्येन कालस्य सम्बन्धाभावात् कथमनुमानमिति चेत्, न। परम्परासम्बन्धेनानुमानप्रामाण्यवादिभिरयं कालो वेदव्यतिरिक्तेदानीन्तनत्वरहितपौरुषेयवानित्याद्यनुमानप्रवृत्तेरङ्गीकृतत्वात्। तदिदमुक्तम् अनुमामानिन इति। ब्रह्मणः पदाद्यभावकालेऽपि सर्वोत्कर्षसिद्धौ योग्यतैव सर्वोत्कृष्टानादिनित्या सिद्धा भवति।
॥ अन्यशब्देन विष्णुलक्ष्मीऋजुस्वव्यतिरिक्तसर्वेषां विवक्षा॥
स्यादेतत्। प्रमाणबाधितेयं प्रतिज्ञा। दृष्टान्तश्च साध्यविकलः। अन्यशब्दो ह्ययं प्रकरणात् ब्रह्मव्यतिरिक्तं सर्वमाह। तत्र हरेर्महालक्ष्म्या ऋजुभ्यश्चाऽधिक्यं ब्रह्मणः कालत्रयेऽपि नास्ति। हरेः श्रियश्च अधिकत्वेन ऋ जूनां समत्वेन प्रमितत्वादित्यत आह अन्यशब्द इति।
अन्यशब्दो हरिश्रीस्वसमेभ्योऽन्यविवक्षया।
प्रयुक्तो नैव दोषाय.......................॥१०४॥
स्वशब्देन ब्रह्मोच्यते। स चाऽवर्तनीयः। स्वश्च स्वसमाश्चेति। यदा वक्ता स्वविवक्षां स्वयमेव व्याख्याति काऽत्र प्रकरणाद्यपेक्षा? तदभावे तस्योपयोगात्। कथायां तु व्यक्तमेव वक्तव्यम्। अन्यथा प्रतिज्ञान्तरादीनामप्येवं परिहारप्रसङ्गात्। नैव दोषाय बाधादिहेतुर्नैव भवति।
॥ रुद्रादीनामप्यनादियोग्यतावत्त्वसाधनम्॥
उक्तन्यायमन्यत्राप्यतिदिशति रुद्रादिषु चेति।
................... रुद्रादिषु च युक्तितः॥१०४॥
अनयैव रीत्या रुद्रादिष्वपि साऽनादियोग्यता युक्त्या साधनीयेत्यर्थः। विमतः कालोऽस्य रुद्रस्येश्वरादिव्यतिरिक्ताद् यदाधिक्यं तेन युक्तः, कालत्वात्; एतत्कालवदित्यादि।
॥ मुक्तानां ब्रह्मापेक्षयाऽधिकत्वाभावः॥
ननु मुक्तास्तावत् सर्वेऽपि ब्रह्मणोऽधिकाः, तेषां मुक्तत्वात्, अस्य संसारित्वात्। अतोऽन्यशब्दव्याख्याने तेऽपि कुतो न गृह्यन्त इत्यत आह उत्तमत्वं त्विति।
उत्तमत्वं तु मुक्तानामपि न ब्रह्मणो भवेत्।
व्यक्तिः सुखस्य तु भवेन्नत्वाधिक्यं सुखस्य च॥१०५॥
अतस्तदग्रहेन दोष इति शेषः। तत् कथमित्यत आह व्यक्तिरिति। आद्यस्तुशब्दोऽवधारणार्थः। व्यक्तिरेवेति सम्बद्ध्यते। चशब्दो गुणान्तरसमुच्चयार्थ उभयत्रान्वेति। प्राग् विद्यमानस्यैव स्वरूपसुखादेर्मुक्तावविद्यावरणापायेन व्यक्तिरनुभवलक्षणा भवेत्, नतु किमप्यधिकमुत्पद्यते। तथासत्यनित्यत्वप्रसङ्गात्। नच ब्रह्मणः स्वरूपादितरेषां स्वरूपमधिकम्। नच निर्णिक्तं कांस्यमनिर्णिक्तात् सुवर्णादधिकं भवति। एतेन मुक्तत्वहेतुरपि प्रत्युक्तः।
॥ बलज्ञानादिभिर्ब्रह्मण एव मुक्तेभ्योऽधिकत्वम्॥
न केवलं मुक्तानां ब्रह्मणोऽधिकत्वं नास्ति, किन्तर्हीत्यत आह बलेति।
बलज्ञानाधिकत्वं तु तेभ्यो हि ब्रह्मणः सदा।
आधिक्यस्य त्वनित्यत्वे न किञ्चिन्मानमीयते॥१०६॥
गुणान्तरोपलक्षणमेतत्। सदा संसारे मुक्तौ च। एतेन समशब्देनापि तत्परिग्रहो निरस्तः। नन्वेवमनुमाने विमतः कालोऽस्य राज्ञः सम्प्रतिपन्नाधिक्येन युक्तः, कालत्वात्; सम्प्रतिपन्नकालवदित्यप्यनुमानप्रसङ्ग इत्यत आह आधिक्यस्येति। ब्रह्मण इति शेषः। अनित्यत्व इति सादित्वस्याप्युपलक्षणम्। तुशब्दो राजाद्याधिक्यस्य व्यावर्तकः। बाधकाभावाभावाभ्यां विशेषान्नातिप्रसङ्ग इति भावः।
॥ श्रुत्या उत्तमानां मोक्षयोग्यत्वस्य, मध्यमानां नित्यसंसारित्वस्य,
अधमानां तमोयोग्यत्वस्य च प्रतिपादनम्॥
एवं ब्रह्मादिजीवेष्वनादिनित्यां नानाविधां योग्यतां प्रसाध्येदानीमागमेनापि साधयन्नादौ तावत् श्रुतीः पठति शृण्वे वीर इति।
शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः।
एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान्॥१०७॥
परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेमिरेति।
अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति॥१०८॥
वीरोऽध्यवसितान्तगामी। इन्द्रः परमेश्वरः। उग्रमुग्रं सर्वान् दुष्टप्रकृतीन् दमयन् नित्यनरकं प्रापयन्, अन्यमन्यं सर्वान् सत्स्वभावानतिनेनीयमानः संसारं भृशमतिक्रामयन्। स्वयोग्यतातिरेकेणैधमानं द्वेष्टीत्येधमानद्वि। शृण्वे श्रूयते। कुत उभयस्य देवतासुरवर्गस्य राजा यतः। किञ्च मनुष्यान् विशः प्रजाश्र्चोष्कूयते नित्यं परिवर्तयति।
परा पूर्वेषाम्। अतीतमन्त्रे पूर्वेषां पूर्वनिर्दिष्टानामुग्राणां सख्या सख्यानि परावृणक्ति परित्यजति। अपरेभिरपरैः साधुभिः सह सख्यानि वितर्तुराणोऽतिशयेन त्वरमाण एति। अनानुभूतीः सम्यगनुभवरहितान् अवधून्वानोऽवमे संसारे वर्तयन्निन्द्रः पूर्वीः शरदोऽतीतान्संवत्सरांस्तीर्णो वर्तमानांश्च तर्तरीति। आगामिनश्च तरिष्यतीति।
अत्र मन्त्रद्वयेऽसुराणामनादितो भगवद्भजनाभावः, नित्यनरकावाप्तिश्च श्रूयते। देवानां सदा भगवद्भजनम्, मोक्षावाप्तिश्च। मनुष्याणां सर्वदा संसार इति।
॥ अधमानां मोक्षायोग्यत्वे श्रुतिः॥
दिवेदिवे सदृशीरन्यमर्धं कृष्णा असेधदप सद्मनो जाः।
अहन् दासा वृषभो वस्नयन्तोदव्र्जे वर्चिनं शम्बरं च॥१०९॥
दिवेदिवे। वर्षणाद् वृषभः परमेश्वरो दिवेदिवे सर्वदा सदृशीश्चेतनत्वमात्रेण कृष्णास्तमोमयीर्जाः प्रजाः कास्ता देवेभ्योऽन्यमर्धं स्वीयात् सद्मनोपासेधत् निवर्तयति। किञ्च दासौ दस्यू वस्नयन्ता जगच्छादयन्तौ वर्चिनं शम्बरं चोदव्र्जे जलराशौ समुद्रतीरेऽहन् हिंसितवानिति। अत्र दैत्यानां कदाऽपि न मोक्ष इति प्रतीयते।
॥ जीवानामुत्तमत्वाधमत्वयोः स्वाभाविकत्वे श्रुतिः॥
तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाऽप्येतर्हि
सुप्तो भूर्भुरित्येव प्रश्वसित्यभूतिरित्यासुरास्ते ह पराबभूवुः॥११०॥
तं भूतिरिति। तं परमेश्वरम्। भूतिरैश्वर्यरूपः। बभूवुर्मुक्ता इति शेषः। एतर्हीदानीं सुप्तः सुप्तस्थो वायुः। पराबभूवुर्नित्यनित्यं प्राप्ताः। अत्र देवासुराणां सम्यग्विपरीतोपासनाभ्यां मोक्षतमसोः प्राप्तिः श्रूयते। तेन देवत्वमसुरत्वं च सहजमिति ज्ञायते।
॥ उत्तमानां मुक्तियोग्यत्वस्य स्वाभाविकत्वे श्रुतिः॥
तद् यथा पेशस्कारी पेशसो मात्रामुपादायान्यन्नवतरं
कल्याणतरं रूपं तनुत एवमेवायमात्मेदं शरीरं निहत्याविद्यां
गमयित्वाऽन्यन्नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा
गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां भूतानाम्॥१११॥
तद् यथा। तद् वक्ष्यमाणं निदर्शनं यथा। पेशस्करी सुवर्णकारः पेशसः सुवर्णस्य मात्रामंशम्। अन्यदिव नवतरं प्रागननुभवात्। कल्याणतरं मलापकर्षात्। रूपं रुचकादिकम्। आत्मा परमात्मा। अन्येषां भूतानां मनुष्योत्तमानाम्। अत्र सुवर्णस्यैव यथा रुचिकादिभावः सुवर्णकारेण क्रियते न यस्यकस्यचिद् द्रव्यस्य, तथा मुक्तियोग्यानामेवेश्वरेण मुक्तत्वं क्रियते नान्येषामिति प्रतीयते।
॥ उक्तार्थे स्मृत्युपन्यासः॥
अधुनाऽत्रैव स्मृतीः पठति प्रयान्तीति।
प्रयान्ति परमां सिद्धिमैहिकामुष्मिकीं द्रुतम्।
या न प्राप्याऽसुरैः सर्वैरक्षय्या क्लेशवर्जिता।
न तां गतिं प्रपद्यन्ते विना भागवतान् नरान्॥११२॥
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्।
परं भावमजानन्तो मम भूतमहेश्वरम्॥११३॥
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः॥११४॥
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्॥११५॥
उभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्॥११६॥
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्॥११७॥
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता।
भवन्ति सम्पदं दैवीमभिजातस्य भारत॥११८॥
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्॥११९॥
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः।
तानहं क्रू रान् संसारेषु नराधमान्।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु॥१२०॥
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्॥१२१॥
द्विविधो भूतसर्गोऽत्र दैव आसुर एव च।
विष्णुभक्तिपरो दैवो विपरीतस्तथाऽऽसुरः॥१२२॥
देवानां परमो धर्मः सदा यज्ञादिकाः क्रियाः।
स्वाध्यायस्तत्ववेदित्वं विष्णुपूजारतिः स्मृतिः॥१२३॥
दैत्यानां बाहुशालित्वं मात्सर्यं युद्धसत्क्रिया।
नीतिशास्त्रप्रवेदित्वं शिवपूजारतिः स्मृतिः॥१२४॥
वर्णाश्रमाचारवत्त्वं स्वाध्यायो भक्तिरच्युते।
शिवे सूर्ये तथा देव्यां स्वभावो मानुषः स्मृतः॥१२५॥
अनादिवैष्णवा एव देवतास्तु स्वभावतः।
विपरीताः स्मृता दैत्याः सदैवानादिकालतः॥१२६॥
मानुषा मिश्रमतयो विमिश्रगतयोऽपि च।
इत्यादिवाक्यसन्दर्भैर्ज्ञायतेऽनादियोग्यता॥१२७॥
पुरा सत्ये युग इति प्रकृतानां देवतास्वभावानां प्रयान्तीत्यनेन मोक्षादिफलप्राप्तिमुक्त्वा या न प्राप्येत्यसुराणां न तां गतिमिति मनुष्याणां च कदाचित् तत्प्राप्तिर्नास्तीत्युच्यते। अवजानन्तीत्यनेन भगवदवज्ञादिलक्षणराक्षसादिस्वभाववतां कदाऽपि पुरुषार्थावाप्तिर्नास्तीति कथ्यते। प्रकृतिः स्वभावः। महात्मान इत्यत्र भगवद्भजनादिलक्षणदेवत्वं स्वभाव इति प्रतीयते। अभयमित्यनेनाभयादिलक्षणं देवत्वं दम्भादिलक्षणं चासुरत्वं स्वभाव एवेति ज्ञायते। मामात्मेत्यनेनासुरस्वभावानामन्धतमसावाप्तिपर्यवसानमभिधीयते।
द्विविध इति स्पष्टं देवासुरत्वयोः स्वभावत्वमाख्यायते। सर्गशब्दस्य स्वभाववाचित्वात्। द्विविध एवेति सम्बन्धः। सर्गाणां सुबहुत्वेऽपि “शुभाशुभफलाधिकौ। देवासुराख्यौ द्वावेव गन्धर्वाद्यास्तदन्तराः” इति वचनादवधारणोपपत्तिः। स्वभाव इत्येतद् देवानां दैत्यानामित्यत्रापि सम्बद्ध्यते। परमो धर्म इति यज्ञादिकानां क्रियाणां विशेषणम्। भगवदर्पणादिना परमधर्मरूपयज्ञादिकाः क्रिया इति। रतिः स्मृतिश्च विष्णोः शिवस्य चेति शेषः। बाहुशालित्वमित्यस्थाने बाहुबलप्रयोगोऽभिप्रेयते। युद्धसत्क्रिया युद्धकौशलम्। वर्णाश्रमेति तदनुष्ठानमात्रपर्यवसायित्वमाचष्टे। अच्युतादौ साम्येन भक्तिरित्यर्थः। अनादीति स्पष्टम्। अनादित्वादेव स्वभावतोऽनादिकालत इत्येतन्मानुषा इत्यनेन सम्बद्ध्यते। मिश्रमतयः सम्यगसम्यग्ज्ञानाः। विमिश्रगतयः सुखदुःखात्मकसंसारफलाः। देवादीनामप्येवं फलं ज्ञातव्यम्।
श्रुतिस्मृत्युदाहरणफलं दर्शयति इत्यादीति। सन्दर्भैरित्यतिबहूनि वाक्यान्यत्रार्थेऽन्यत्रोदाहृतानि द्रष्टव्यानीति सूचयति।
॥ चतुर्मुखादेः सर्वोत्कृष्टत्वरूपयोग्यताया अनादित्वाभावे इदानीमप्यनुपलब्धिप्रसङ्गः॥
उक्तानामनुमानानां व्याप्त्यवधारणाद्यर्थमागमानां चान्यार्थव्याख्याननिरासार्थमनुग्राहकं तर्कमाह यदीति।
यद्यनादिविशेषो न साम्प्रतं कथमेव सः।
विशेषः स्वरूपगतो योग्यतालक्षणोऽतिशयः। स विशेषः परिदृश्यमानोऽतिशयः।
एतदुक्तं भवति यदि हिरण्यगर्भस्यानादिः सर्वोत्कृष्टो योग्यतालक्षणो विशेषो न स्यात्, तदा साम्प्रतं दृश्यमानं सर्वोत्कृष्टत्वं न स्यात्। तस्यैतद्बीजत्वात्। कारणाभावे च कार्याभावस्य नियतत्वात्। अन्यथा सर्वेषामपि सर्वोत्कृष्टत्वापत्तेः। एवमन्यत्रापि वक्तव्यमिति।
॥ सर्वोत्कृष्टत्वादेर्योग्यताया अदृष्टजन्यत्वपक्षे, सर्वोत्कृष्टत्वहेतुविशिष्टादृष्टस्य
प्राक्तनतथाविधादृष्टानपेक्षत्वे अपसिद्धान्तः॥
ननु ब्रह्मादीनां योग्यतालक्षणानादिविशेषाभावेऽपि सादिनो विशिष्टादृष्टादेव सर्वोत्कृष्टत्वादिकं भविष्यति। तथाच स्मृतिः “स्वधर्मनिष्ठः शतजन्मभिः पुमान् विरिञ्चतामेति” इत्यादिकेति चेत्। अत्र वक्तव्यम् किं तद् विरिञ्चस्य सर्वोत्कर्षबीजं विशिष्टमदृष्टम्, ततः प्राक्तनतथाविधमदृष्टमनपेक्ष्यैव जायते, उतापेक्ष्येति। आद्यं दूषयति अदृष्टादेव चेति।
अदृष्टादेव चादृष्टं स्वीकृतं सर्ववादिभिः॥१२८॥
तानि तानि द्रव्यादीनि खल्वदृष्टोत्पत्तौ निमित्तानि श्रुतिस्मृतिभ्यामुपलभ्यन्ते। तत्सम्पत्तिश्चादृष्टनिमित्तैव। तस्मान्न केवलं फलम्। किन्नाम। उत्तरोत्तरमदृष्टं च पूर्वपूर्वादृष्टाद् भवतीति चार्वाकव्यतिरिक्तसर्ववादिभिः स्वीकृतम्। अतः सर्वोत्कर्षहेतोर्विशिष्टादृष्टस्य तथाविधप्राक्तनादृष्टानपेक्षोत्पत्तिकत्वाभ्युपगमेऽपसिद्धान्तः स्यात्। भवत्वन्येषां वादिनामित्थं सिद्धान्तः, मम तु सर्वोत्कर्षादिफलोत्पत्तावेव विशिष्टादृष्टापेक्षा, नतु तदुत्पत्तावपीति। यद्वा यद् विरिञ्चस्य सर्वोत्कर्षनिमित्तं विशिष्टमदृष्टम्, तस्य तथाविधादृष्टकार्यत्वेऽपि तस्य नादृष्टकार्यत्वमिति।
सर्वस्यापि प्रवाहस्य तथात्वे हि भवतामिष्टसिद्धिरिति वदन्तं प्रत्यतिप्रसङ्गमाह आकस्मिक इति।
आकस्मिको विशेषश्चेददृष्टे क्वचिदिष्यते।
सर्वत्राऽकस्मिकत्वं स्यान्नादृष्टापेक्षता भवेत्।
क्वचिद् विरिञ्चोत्कर्षहेतौ तद्धेतौ वाऽदृष्टे विशेषोऽतिशयो यद्याकस्मिकोऽदृष्टनिरपेक्ष एवेष्यते, यदि किमपि विशिष्टमदृष्टं तथाविधादृष्टनिरपेक्षमेवोत्पद्यते इत्यङ्गीक्रियत इति यावत्। तर्हि सर्वत्र फलादावप्यकस्मिकत्वमङ्गीकार्यं स्यात्, अविशेषात्।
आपाद्यं विवृणोति नेति। सर्वत्रेत्यनुवर्तते। यद्येवं न विव्रीयेत, तर्हि परेणादृष्टस्य निष्कारणताया अनङ्गीकृतत्वादसङ्गतोऽयं प्रसङ्गः स्यात्। एवेमेवाऽपादकमपि व्याख्येयमिति भावः।
अस्तु विरिञ्चोत्कर्षस्याप्यदृष्टानपेक्षतेति चेत्, न। प्राग्भवीयस्य दृष्टकारणकलापस्य नष्टत्वेन निष्कारणतापातात्। किञ्च विशिष्टो दृष्टकारणकलापोऽपि तस्य कुत इति वाच्यम्। निर्निमित्तश्चेदतिप्रसङ्गः। स्वभावनिमित्तश्चेत् सिद्धं नः समीहितम्। एतेन दृष्टव्यापारपरितुष्टादीश्वराद् विरिञ्चस्य सर्वोत्कर्षसम्पत्तिरित्यपि निरस्तम्। अनादियोग्यतापरिहारादिति।
॥ सर्वोत्कृष्टत्वहेतुविशिष्टादृष्टस्य अनादितथाविधादृष्टप्रवाहसापेक्षत्वे
योग्यताया अनादित्वमेव सिद्ध्यति॥
अस्तु तर्हि द्वितीयः पक्ष इति तत्राऽह अदृष्टाच्चेदिति।
अदृष्टाच्चेद् विशेषोऽयमनादित्वं कुतो न तत्॥१२९॥
भवतीति शेषः। विशिष्यत इति विशेषो विशिष्टमदृष्टमित्यर्थः। अयमिति विरिञ्चस्य सर्वोत्कर्षहेतुः। अनादित्वं तथाविधादृष्टपरम्परायाः। अनादियोग्यतावत्त्वमिति च। तत् तर्हि।
इदमुक्तं भवति यथा विरिञ्चस्य सर्वोत्कृर्षे कारणं विशिष्टमदृष्टं तथाविधपूर्वादृष्टहेतुकम्, तथा तदपि तदपीति स्वीकार्यम्। समानन्यायत्वात्। तथाचानादिविशिष्टादृष्टप्रवाहाश्रयत्वं तस्यैव कुत इत्यनुयोगस्य नान्यदुत्तरमनादेर्विशिष्टस्वभावात्। तत्तत्फलप्राप्त्युपाययोः प्रयत्नादृष्टयोरागन्तुकयोः बीजभूतोऽनागन्तुकस्वभावविशेष एवानादियोग्यतोच्यते। यथोक्तम् “स्वभावाख्या योग्यता या हठाख्या” इत्यादि। अतः सिद्धा ब्रह्मादिकिलपर्यन्तेषु जीवेष्वनादियोग्यतेति।
॥ भगवतो निर्दोषत्वसमर्थनम्, स्थानभेदाधिकरणेन गतार्थताशङ्कादिनिरासः॥
भगवान् निर्दोष इति यत् प्रागुक्तं (११६४) तत्समर्थनार्थमुत्तरो ग्रन्थः। ननु “न स्थानतोऽपि” इत्यादिनैव समर्थितमेतत्। सत्यम्। युक्त्यादिना प्राप्तं सदोषत्वं तत्रापाकृतम्। अत्र तु प्रत्यक्षप्राप्तमिति भेदात्। एतदपि तत्रैव कुतो न दूषितमिति चेत्। विश्र्वादिषु प्रत्यक्षस्याप्रवृत्तेः। प्रासङ्गिकं तु निराकरणं तत्र वा अत्र वा न कश्चिद् विशेषः। प्रागुक्तार्थप्रपञ्चश्चात्रानुभाष्यकृता क्रियते। मुक्ततारतम्यादेः प्रपञ्चनात्। अतोऽत्रैव निर्दोषताप्रपञ्चनं युक्तम्। किञ्चात्र ज्ञानस्वरूपनिरूपणं भविष्यति, तत्प्रसङ्गश्च ज्ञानपादे समुचितः। अपिच न भगवत्साक्षात्कारमात्रेणाशेषपुरुषार्थप्राप्तिः, किन्तु निर्दोषाद् भगवद्दर्शनादित्युक्तम्। (११६४) तच्चानेन निर्दोषभगवद्दर्शनमुपदर्शितं भवति। तर्हि तत्रैवायं ग्रन्थसन्दर्भः कुतो न निवेशित इति चेत्। देवदानवमानवस्वभावप्रपञ्चनस्यात्रोपयुक्तत्वेन तदानन्तर्योपपत्तेः। तथा वक्ष्यामः। (अनुपदम्)
॥ रामकृष्णादिभगवदवताराणां भिन्नत्वेन विद्धत्वादिना च दृष्टत्वात्
न भगवतो निर्दोषत्वमित्याशङ्का॥
इदमत्र शयते रामकृष्णादयो भगवदवतारा भगवताऽत्यन्ताभिन्ना इति तावत् समर्थितम्। (१००४) तेषां च परस्परं भेदस्तत्कालवर्तिनां पुरुषाणां प्रत्यक्षेण दृश्यते। नच ते देहवन्त इति चोक्तम्। (१०२९) ततो देहगत एव भेद इत्यनवकाशम्। ततश्च सर्वेषां स्वातन्त्र्यानुपपत्तेः केषाञ्चित् पारतन्त्र्यम्। एवमन्येऽपि भेदानुषङ्गिणो दोषा द्रष्टव्याः। समानन्यायत्वात्। वेधादिदोषाश्च प्रत्यक्षेणेक्ष्यन्त इति च न भगवतो निर्दोषत्वमिति।
॥ भगवद्रूपाणां भेदस्य उत्तमजीवप्रत्यक्षविषयत्वनिरासः॥
तत्र तावद् भेदस्य प्रत्यक्षसिद्धतां निराकर्तुमागमवाक्यं पठति नचेति।
नचान्यभेदवद् विष्णौ भेदस्तद्दर्शिनामपि।
दृश्यते प्रत्यभिज्ञैव बहुरूपेषु दृश्यते।
बहुत्वं च विशेषेण न भेदेन कथञ्चन॥१३०॥
चोऽवधारणे। अन्यभेदवदिति व्यतिरेकदृष्टान्तः। अन्येषां घटादीनां यथाऽनेकत्वातिरिक्तोऽन्योन्याभावलक्षणो भेदो दृश्यते, न तथेति। विष्णौ भेदो न दृश्यते इत्येवोक्तेऽनेकत्वस्यास्याप्यदर्शनं प्रतीयेत, तदर्थमिदं वचनम्। यद्वा यथा विष्णावन्यप्रतियोगिको भेदो दृश्यते, न तथा स्वप्रतियोगिक इति योजना। अन्यथा घटादिप्रतियोगिकोऽपि भेदो न दृश्यत इत्यपि प्रतीयेत। अथवाऽन्यप्रतियोगिकभेदवति विष्णावित्यैकपद्येन व्याख्येयम्। प्रयोजनं तूक्तमेव। विष्णौ रामकृष्णादिरूपे। अधुनातनैर्भेदो न दृश्यत इति परस्यापि सम्मतम्। अतस्तद्दर्शिनामपीत्युक्तम्। तृतीयार्थे षष्ठी। अवतारदर्शिभिरपीत्यर्थः। तद्दर्शिनां प्रत्यक्षेणापीति वा। स्वभावत एव जीवास्त्रिविधाः देवदानवमानवभेदात्। तत्र दैवं प्रत्यक्षं तावदवताराणां परस्परं न भेदं गोचरयतीति भावः।
॥ भगवद्रूपाणामभेदस्य उत्तमजीवप्रत्यक्षविषयत्वम्॥
न केवलमेतावत्। किन्तर्हीत्यत आह प्रत्यभिज्ञैवेति। उत्तमानां पुरुषाणां भगवतो बहुरूपेषु तदेवेदमित्यभेदविषया प्रत्यभिज्ञैव पुराणादौ दृश्यते। यथा जाम्बवतः स राम एवायं कृष्ण इति प्रत्यभिज्ञा। तथाच कुतो भेदज्ञानस्यावकाश इति भावः।
ननु बहुत्वं भेदेन विनाऽनुपपद्यमानं तमाक्षिपति। तथाच बहुरूपेषु प्रत्यभिज्ञा न सम्भवत्येव। सम्भवन्ती वा भ्रान्तिः स्यादित्यत आह बहुत्वं चेति। भगवद्रूपाणामिति शेषः। अन्यथोपपत्तिकुण्ठितार्थापत्तिर्न भेदं प्रमापयतीत्यर्थः। अन्यथाऽप्युपपत्तिपक्षे भेदसन्देहः स्यात्, सोऽप्यनिष्ट इत्यन्यथैवोपपत्तिं सूचयति न भेदेनेति। उपपद्यत इत्युभयत्र शेषः। कुतः? भगवद्रूपाणां भेदे निरवकाशप्रमाणाभावात्, तद्विरोधाच्च। तदिदमाह न कथञ्चनेति।
॥ भगवद्रूपाणां भेदस्य मध्यमजीवप्रत्यक्षविषयत्वनिरासः॥
एवमुत्तमानां पुंसां भवेदेकरूपदर्शनसमये रूपान्तरप्रतीतावसत्यां ततो भेदज्ञानमसम्भावितम्। प्रतियोगिज्ञानाभावे भेदज्ञानाभावस्य नियतत्वात्। सत्यामपि तथा विरोधिन्याः प्रत्यभिज्ञाया भावादित्युक्तम्। तथाऽपि मध्यमादिजनानां प्रत्यक्षं भगवद्रूपभेदे प्रमाणं भविष्यति। एकरूपदर्शनसमये रूपान्तरप्रतीत्यभावे भेददर्शनानुपपत्तावपि तद्भावे सम्भवत्येव। नच तेषामपि प्रत्यभिज्ञा भवद्भिरभ्युपेतं शक्यते, उत्तमत्वप्रसङ्गादित्यतो मध्यमानपेक्ष्य तावदाह प्रत्यभिज्ञा चेति।
प्रत्यभिज्ञा च येषां न तेऽपि तन्मुष्टबुद्धयः।
भेदं नैव प्रपश्यन्ति भेदमन्येभ्य एव च।
पश्यन्त्येवं हरिस्तेषां सन्दर्शयति नान्यथा॥१३१॥
एवं बृहत्संहितायां वचनम्.............।
चस्त्वर्थः। येषां तु मध्यमानां जनानां प्रत्यभिज्ञा भगवद्रूपेषु नास्ति, तेऽपि तत्र भेदं नैव पश्यन्तीति योजना। प्रत्यभिज्ञाभावे कारणम् तेन भगवता मुष्टाऽपहता दृष्टिरेषामिति। तेन बहुत्वेनेति वा। भगवदिच्छया तेषां योग्यतया चोपोद्बिलतं बहुत्वमुपलभ्यमानं प्रतीयामानेऽपि वस्तुनि विद्यमानस्याप्यभेदस्य ज्ञानं प्रतिबध्नाति। अत्र तन्मुष्टदृष्टयस्तेऽपीत्यस्यानुवादात् तन्मुष्टदृष्टित्वात् प्रत्यभिज्ञैषां नास्तीति लभ्यते।
भगवद्रूपे भेदं नैव पश्यन्तीत्युक्ते घटादिभ्योऽपि भेदं न पश्यन्तीति मन्दस्य प्रतीतिः स्यात्, तां निवारयितुमाह भेदमिति। अन्येभ्यो भेदं पश्यन्त्येव चेति योजना। ननु प्रतीयमानं वस्तुद्वयं भेदेन वा प्रतीयते, अभेदेन वा। भेदाभेदोदासीनतया तु प्रतीतिः कथमित्यत आह एवमिति। तेषां योग्यतयेति शेषः। अन्यथा “गतिबुद्धि” इत्यादिना कर्मसञ्ज्ञायां द्वितीया स्यात्। विभक्तिव्यत्ययो वा छान्दसः। अन्यथा भेदेनाभेदेन च दर्शयति। यथा खल्वख्यातिवादिनां सहकारिसामर्थ्याद् भेदाभेदौदासीन्येन वस्तुप्रतीतिः, यथा वाऽन्येषां शुक्तिकाशकलदर्शनानन्तरं व्यासक्तौ, तथा परमेश्वरशक्त्याऽत्रापि तथा प्रतीतौ को विरोधः?
॥ भगवद्रूपाणां भेदस्याऽनुमानिकत्वनिरासः॥
अधमजीवप्रत्यक्षस्य त्वन्या गतिर्भविष्यति। (१२१५) एवमीश्वररूपभेदे प्रत्यक्षं निराकुर्वताऽनुमानमपि निराकृतम्। बहुत्वस्यान्यथासिद्धेरुक्तत्वात्। तन्न्यायेन चाऽकारविशेषादीनामन्यथासिद्धत्वादिति। वचनमस्तीति शेषः।
॥ भगवद्रूपाणां भेदस्य आगमिकत्वनिरासः॥
मा भूद् भगवद्रूपभेदःप्रत्यक्षानुमानसिद्धः, आगमसिद्धस्तु भविष्यति। पुराणेषु तत्रतत्रान्यादिशब्दश्रवणादिति चेत्, न। “नेह नानाऽस्ति किञ्चन” इत्यादिवेदवाक्यविरोधात्। पुराणमेव वेदस्य किं न बाधकं भवतीत्यत आह नेति।
........................न पुराणगम्।
लोकदर्शनवाद्येव वेदरोधाय शक्नुयात्॥१३२॥
वचनमिति वर्तते। पुराणवचनं खलु लोकानां यद् भगवद्रूपेषु भेददर्शनं तदनुवादपरमेव। न वस्तुनिष्ठम्। उपक्रमादिना तथाऽवगमात्। वेदस्तु वस्तुतथात्वे तात्पर्यवान्। लिङ्गैः तथाऽध्यवसायात्। अतो न तत् तद्बाधनाय शक्नोति।
नन्वेतद् व्याहतम्। यत् प्राग् भगवद्रूपभेदविषयं प्रत्यक्षं नास्तीत्युक्तम्। इदानीं तु तदस्तीति। तस्यैवाभावे पुराणवचनस्य तदनुवादित्वानुपपत्तेः। मैवम्। बहुत्वाद्यनुमानाभासजनितभेददर्शनानुवादित्वोपपत्तेः।
॥ भगवद्रूपेषु भेदावगाहिनः अधमजीवप्रत्यक्षस्य
अभेदावगाह्युत्तमजीवप्रत्यक्षादिप्रमाणबाधितत्वादप्रामाण्यम्॥
किञ्चोत्तममध्यमानां भेदविषयं प्रत्यक्षं नास्तीत्यभिहितम्। अधमानां तु तदस्तीत्यधुनाऽङ्गीक्रियते। तर्हि तदेव भगवद्रूपभेदे प्रमाणं भविष्यतीत्यपि न वाच्यम्। उत्तमानामभेदविषयेण प्रत्यक्षेण बाधितत्वात्। नच तदेव नास्ति। प्रत्यभिज्ञैव बहुरूपेषु दृश्यत इत्यागमोक्तत्वात्। तथाच भीष्मवाक्यम्
“तमिममहमजं शरीरभाजां हृदि हृदि विष्ठितमात्मकल्पितानाम्।
प्रतिदृशमिव नैकधाऽक मेकं समधिगतोऽस्मि विधूतभेदमोहः” इति।
॥ अनिश्चितप्रामाण्यकप्रत्यक्षस्य निश्चितप्रमाण्यकप्रत्यक्षबाधकत्वाभावः॥
अथ भेददर्शनमेवाभेददर्शनस्य बाधकं कुतो न भवतीत्यत आह अपरीक्षितेति।
अपरीक्षितदृष्टिश्च परीक्षापूर्वदर्शनम्।
निषेद्धुं शक्नुयात् क्वापि देवदत्तादिदृष्टिवत्॥१३३॥
अपरीक्षिता परीक्षया प्रमाणत्वेनानिश्चिता। नेत्यस्यानुकर्षणार्थश्चशब्दः। परीक्षापूर्वः प्रामाण्यनिश्चयो यस्य दर्शनस्य तत् परीक्षापूर्वदर्शनम्। परीक्षापूर्वं दर्शनं प्रामाण्यनिश्चयो यस्य प्रत्यक्षस्येति वा। क्वापीत्यनेन नियममाह। तदनेन यत् परीक्षया न निश्चितप्रामाण्यं ज्ञानं न तन्निश्चितप्रामाण्यं ज्ञानान्तरं बाधत इति व्याप्तिरुक्ता। परीक्षाग्रहणं प्रामाण्यनिश्चयोपलक्षणमेव, नतु नियमार्थमित्युत्तरत्र स्फुटीभविष्यति। (१२२२ अनुपदं च)
अत्र दृष्टान्तमाह देवदत्तेति। यथा यज्ञदत्तादावनिश्चितप्रामाण्या देवदत्तादिदृष्टिर्न निश्चितप्रामाण्यां यज्ञदत्तादिदृष्टिं बाधते तथेत्यर्थः। ततः किं यद्येवं व्याप्तिरिति चेत्। भेददर्शनमनिश्चितप्रामाण्यम्, अभेददर्शनं तु निश्चितप्रामाण्यम्। अतो न तत् तस्य बाधकम्, किन्तु वैपरीत्यमेवेति वदामः।
॥ भेदाभेददर्शनयोः निश्चितानिश्चितप्रामाण्यकत्वसमर्थनम्॥
कुतो भेददर्शनमनिश्चितप्रामाण्यमित्यत आह नचेति।
नच निश्चितभेदस्य दर्शनेऽस्ति पुराणगम्।
वाक्यं क्वचिद्धि .......................॥१३४॥
चोऽवधारणे। क्वचित् प्रदेशे। हिशब्दो हेतौ। परमेश्वररूपभेदविषयं प्रत्यक्षं तावदस्माकं पुराणवाक्यादेव सिद्धम्। पुराणवाक्यं च केचिद् भेदं पश्यन्तीति वा प्रतिपादयतु, अनुवादकतया लिङ्गत्वेन वा। अतस्तत्प्रामाण्यनिश्चयस्तत एवान्वेष्टव्यः। नच भेददर्शनस्य प्रामाण्यं निश्चाययत् पुराणवाक्यमस्ति। अतः प्रमाणाभावान्न भेददर्शनस्य प्रामाण्यनिश्चय इति भावः।
प्रामाण्यनिश्चयो द्वाभ्यां प्रकाराभ्यां भवति अर्थतथात्वनिश्चयेन वा ज्ञानपरीक्षया वा। आद्याभिप्रायेणोक्तम् सत्यतया निश्चितभेदस्येति। द्वितीयाभिप्रायेण तु भेदस्यदर्शन इति समासः। “षष्ठ्या आक्रोशे” इत्यलुक् । निश्चितं परीक्षितं तु भेदस्य दर्शनं चेति तथोक्तम्। तत्र स्वाभिप्रायेणाऽक्रोशः पराभिप्रायेण निश्चितत्वमित्यविरोधः।
यदि पुराणवाक्यादेव निश्चितप्रामाण्यं भेददर्शनं न प्रतीयेत, तर्हि कीदृशं तत् प्रतीयत इत्यत आह सम्मुग्धमिति।
............... सम्मुग्धं दर्शनं तत्र गम्यते॥१३४॥
प्रमाणत्वाप्रामाणत्वाभ्यां सन्दिग्धम्। दर्शनं भेदस्य। तत्र पुराणवाक्ये। एतदुक्तं भवति पुराणवाक्यं भेददर्शनमात्रं गमयति। नतु तस्य प्रामाण्यमप्रामाण्यं वा। ततः प्रागभेददर्शनावगमात् तत्र प्रामाण्याप्रामाण्यसन्देह एव युक्तः। अवगते त्वभेददर्शने तस्याप्रामाण्यमेव निश्चीयते। पुराणवाक्यादेव तत्प्रामाण्यस्य निश्चितत्वात्। समधिगतोऽस्मीति संशब्दश्रवणात्। हृदि हृदि नैकधा स्थितमपीत्यनुमानानामाभासत्वस्योक्तत्वात्। “विधूतभेदमोहः” इति भेदज्ञानस्य मोहत्वाभिधानाच्चेति।
॥ भगवदवतारेषु वेधादिदर्शनस्य निर्दोषत्वग्राह्युत्तमजीवप्रत्यक्षबाधितत्वम्॥
एवं भगवद्रूपेषु भेदाभावः सिद्धः। तथा वेधादिदोषाभावश्च। प्रमाणाभावात्। नन्वस्ति तद्दर्शिनां प्रत्यक्षमत्र प्रमाणम्। मैवम्। महतां प्रत्यक्षेण वेधाद्यभावग्राहिणा बाधितत्वात्। इदमेव तस्य बाधकं किं न स्यादित्यत आह अपरीक्षितमेवेति।
अपरीक्षितमेवात्र वेधादिकमधीशितुः।
परीक्षादर्शने नैव दृश्यते केनचित् क्वचित्॥१३५॥
अत्र वेधादिदोषतदभावयोर्मध्ये। अधीशितुरत्रावतारेष्विति वा। दृश्यत इति सम्बन्धः। यद्वा वेधादिकमिति तद्दर्शनमुपलक्ष्यते। परीक्षया युक्तं दर्शनं परीक्षादर्शनम्। यद्वा परीक्ष्यत इति परीक्षा। “गुरोश्च हलः” इत्याकारप्रत्ययः। परीक्षा च तद्दर्शनं च तस्मिन्। दृश्यते वेधादिकं क्वचित्। दोषदर्शनमपरीक्षितं निर्दोषत्वदर्शनं तु परीक्षितमिति भावः।
॥ भगवतो वेधादिसर्वदोषाभावस्य ब्रह्मादिप्रत्यक्षविषयकत्वे श्रुतिः॥
ननु दोषाभावविषयं महतां प्रत्यक्षं तावत् कुतः सिद्धमित्यत आह निर्दोषमेवेति।
निर्दोषमेवं तं ब्रह्मा ददर्शाशेषरूपिणम्।
निर्दोषमेव रुद्रोऽद्रा निर्दोषं तं पुरन्दरः॥१३६॥
निर्दोषाण्यस्य रूपाणि दृष्टान्येवं सुरोत्तमैः।
अन्ये सदोषाः सर्वेऽपि निर्दोषो हरिरेकलः।
इति बक श्रुतेश्चैव सदोषं नास्य दर्शनम्॥१३७॥
अद्राक् अद्राक्षीत्। “अनित्यमागमशासनम्” इति वचनात्। पुरन्दरोऽद्राक्षीत्। अन्यैरपि सुरोत्तमैः। सदोषा दृष्टाः। तस्मान्निर्दोषो हरिरेक एव। चशब्दः श्रुत्यन्तरसमुच्चयार्थः। अस्य परमेश्वरस्य विषये महतां दर्शनं सदोषं दोषग्राहि नैव, किन्तु निर्दोषमेव गृह्णातीति।
॥ दोषदर्शनस्य बाधितत्वे, दोषाभावदर्शनस्य प्रमाणत्वे च श्रुत्युपन्यासः॥
दोषदर्शनमपरीक्षितं तदभावदर्शनं तु परीक्षितमेतत् कुत इत्यत आह अविद्ध इति।
अविद्धो विद्धवद् विष्णुरजातो जातवन्मृषा।
अबद्धो बद्धवच्चैव दर्शयत्यमितद्युतिः।
इति पैङ्गिश्रुतिश्चैव प्राह निर्दोषतां हरेः॥१३८॥
विद्धमिव विद्धवत्। छान्दसो द्वितीयान्ताद् वतिः। एवशब्दस्याविद्ध इत्यादिना सम्बन्धः। दर्शयत्यात्मानम्। पूर्वश्रुत्याऽप्ययमर्थोऽर्थात् सिद्ध्यतीति पैङ्गिश्रुतिश्चेत्युक्तम्। निर्दोषतामिति फलोक्त्या विवक्षितमर्थमुपलक्षयति।
अत्रैव स्पष्टां श्रुतिमुदाहरति अपरीक्षितेति।
अपरीक्षितदृष्ट्यैव सदोषो दृश्यते हरिः।
परीक्षादर्शने नैव दोषो दृश्यो हरेः क्वचित्।
इति पैङ्गिश्रुतिश्चाऽह प्रमाणं हि परीक्षितम्॥।१३९॥
आह दोषदर्शनस्यापरीक्षितत्वम्, निर्दोषतादर्शनस्य परीक्षितत्वं च। ततः किमित्यत आह प्रमाणं हीति। यत् परीक्षितं परीक्षया प्रमाणत्वेनावधृतं तदेव प्रमाणम्। अपरीक्षितं त्वापाततः सन्दिग्धम्। निश्चितविरोध्युपनिपाते त्वप्रमाणमेव। अतः परीक्षितेन निर्दोषतादर्शनेनापरीक्षितं दोषदर्शनमेव बाध्यते। नतु विपर्ययः। प्रामाण्यनिश्चये परीक्षोपयोगः प्रमाणसिद्ध इति हिशब्दः। तथाच वक्ष्यते। (१२२०)
॥ प्रामाण्यस्य परीक्षाधीनत्वेऽनवस्थाप्रसङ्गात् प्रभाकरादिभिः
प्रामाण्यस्य परीक्षानपेक्षत्वाभ्युपगमः॥
अत्र केचिदाहुः स्वत एव ज्ञानानां प्रामाण्यं गृह्यते, नतु परीक्षाधीनम्। सकलमपि ज्ञानं स्वप्रकाशम्, यथार्थं च। अतः स्वेनैव स्वयं स्वप्रामाण्यं च सिद्ध्यति, का तत्र परीक्षापेक्षेति। अन्ये तु ब्रुवते ज्ञानं तत्प्रामाण्यं चानुमानेनैव गृह्यत इति। अपरे तु वदन्ति ज्ञानं तत्प्रामाण्यं च साक्षिणैव ज्ञायत इति। यदिच स्वतःप्रामाण्यग्रहो न स्यात्, तर्हि न स्यादेव। तस्य परीक्षाधीनत्वेऽनवस्थाप्रसङ्गात्। अनुमानविशेषः खलु परीक्षा नाम। सा च स्वयं प्रमाणतया निश्चिताऽन्येषां ज्ञानानां प्रामाण्यावधारणाय प्रभवति नान्यथा। तत्प्रामाण्यावधारणं च परीक्षान्तरेणेति कथं नानवस्था स्यादिति।
॥ सिद्धान्ते वृत्तिज्ञानप्रामाण्यस्य परीक्षाधीनत्वस्य,
    साक्षिज्ञानप्रामाण्यस्य तदभावस्य चाङ्गीकारात् नानवस्थाप्रसङ्गः॥
तत्र प्रामाण्यग्रहस्य परीक्षाधीनत्वेऽनवस्थाप्रसङ्गं तावत् परिहरति नेति।
न परीक्षानवस्था स्यात् साक्षिसिद्धे त्वसंशयात्।
 प्रामाण्यग्रहणस्य परीक्षाधीनत्वाङ्गीकारेऽपीति शेषः। तत्र हेतुमाह साक्षीति। द्विविधं खलु ज्ञानम् अन्तःकरणपरिणामरूपम्, साक्षिरूपं चेति। तत्राऽद्याद् विशेष्टुं तुशब्दः।
एतदुक्तं भवति स्यादियमनवस्था यदि सर्वत्र परीक्षापेक्षा स्यात्। नचैवम्। सन्दिग्धे खल्वर्थे परीक्षाऽपेक्ष्यते, नत्वसन्दिग्धे। संशयश्च मनोवृत्तिविषये पानीयादौ भवति, न पुनः साक्षिसिद्धे सुखादौ। अतस्तावदेव परीक्षा यावत् साक्षिगृहीतेषु सुखादिष्ववतार इति कुतोऽनवस्थेति। प्रपञ्चितश्च अयमर्थोऽस्माभिः प्रकृत्यधिकरणे। (४२९४३०)
॥ मानसदर्शनस्य निर्दोषत्वनियमाभावः, साक्षिदर्शस्य तु निर्दोषत्वनियमः॥
मनोवृत्तिविषय एव संशयो न साक्षिसिद्ध इत्यत्र किं कारणमित्यत आह मानस इति।
मानसे दर्शने दोषाः स्युर्नवै साक्षिदर्शने।
मनः परिणतिरूपे दोषाः कारणतया सम्भाविताः स्युः। वैशब्दस्तुशब्दार्थे। अयमर्थः द्विविधो हि संशयो भवति एकस्तावदादित एव, यथा स्थाणुर्वाऽयं पुरुषो हेति। अपरस्तु निश्चयपृष्ठभावी, यथा स्थाणुवदयं प्रतीयते स्थाणुर्भवति नवेति। तत्राऽद्यो विशेषादर्शनादिदोषमूलः। द्वितीयोऽपि प्रथमज्ञानस्य दोषजन्यत्वशङ्कामूलः। दोषाश्च मानस एव दर्शने सम्भवन्ति। अतस्तत्संशयात्मकं वा जायते, निश्चयतया जातस्य विषये वा आहार्यः संशयो भवति। नतु साक्षिसिद्धे दर्शने दोषसम्भवः। अतो न तत्संशयात्मकम्, नापि तत्सिद्धेऽर्थे संशय इति।
॥ साक्षिज्ञानस्य निर्दोषत्वे निमित्तम्॥
मानसे दर्शने दोषाः सम्भवन्तीति स्फुटम्। साक्षिदर्शने न सम्भवन्तीत्येतत् कुत इत्यत आह सुदृढ इति।
सुदृढो निर्णयो यत्र ज्ञेयं तत् साक्षिदर्शनम्॥१४०॥
सुदृढो कदाऽपि बाधरहितः निर्णयोऽवधारणात्मकः प्रत्ययः। यत्रेति निपातो य इत्यर्थे।
इदमुक्तं भवति दोषास्तावज्ज्ञानस्य डोलायमानतादर्शनेन बलवद्बाधकोपनिपातेन वा कल्प्याः। यथोक्तम् “बलवत्प्रमाणतश्चैव ज्ञेया दोषा नचान्यथा” इति। साक्षिदर्शनं च निर्णयात्मकमेव भवति, नच बाध्यत इत्युपपादितं पृथगधिकरणे। (८८९) अतः प्रमाणाभावान्न तत्र दोषः सम्भवति।
॥ साक्षिसिद्धेषु इच्छादिषु कस्यापि संशयाभावः॥
साक्षिसिद्धेऽर्थे संशयो नास्तीत्युक्तं तदनुभवारूढं कर्तुं साक्षिसिद्धमर्थं तावदाह इच्छेति।
इच्छा ज्ञानं सुखं दुःखं भयाभयकृपादयः।
साक्षिसिद्धाः न कश्चिद्धि तत्र संशयवान् क्वचित्॥१४१॥
आदिपदेन प्रयत्नद्वेषावेतदभावाश्च गृह्यन्ते। ततः किमित्यत आह नेति। तत्र क्वचिदिति सम्बन्धः। न जातु मम सुखमस्ति न वेति संशयो नापि प्रतीयमानमिदं सुखं सदसद् वेति संशय इति हिशब्देनाऽह।
॥ बाधितदर्शनस्य मानसत्वनियमः॥
साक्षिदर्शनमबाधितमेवेति न युज्यते, शुक्तिरजतादौ बाधदर्शनात्। नहि प्रतीतिसमयमात्रवर्तिनि तत्रान्यज्ञानं सम्भवतीत्यत आह यदिति।
यत् क्वचिद् व्यभिचारि स्याद् दर्शनं मानसं हि तत्।
यद् दर्शनं क्वचिच्छुक्तिरजतादौ विषये व्यभिचारि बाधितं स्यात्, तच्चक्षुरादिकरणकं मनःपरिणतिरूपमेव न साक्षिरूपम्। कुत एतत्? मानसदर्शनस्य बाध्यत्वाङ्गीकारेऽनिष्टाभावात्। साक्षिणस्तु तथात्वे सर्वव्यवहारविलोपप्रसङ्गस्योक्तत्वात्। (८९४) तदिदमुक्तं हिशब्देन। सम्भवति चास्य मानसत्वम्, अन्यथाव्याख्यातिसमर्थनादिति। (८३९२)
॥ इन्द्रियलिङ्गशब्दकरणकमनोवृत्तिज्ञानप्रामाण्यनिश्चयस्य परीक्षाधीनत्वम्॥
मानसस्य दर्शनस्य दोषबाधसम्भवोऽभिहितः। कीदृशस्य तर्हि प्रामाण्यमित्यत आह मन इति।
मनश्चक्षुर्दर्शनादेरपि यत्रैव साक्षिणा।
प्रामाण्यं सुगृहीतं स्यात् तत् परीक्षितदर्शनम्॥१४२॥
मनश्चक्षुश्शब्दौ श्रोत्रादेरुपलक्षकौ। दर्शनं साक्षात्कारः। आदिपदेन लैङ्गिकशब्दज्ञानसङ्ग्रहः। इन्द्रियलिङ्गशब्दकरणकस्य मनोवृत्तेर्ज्ञानस्येत्यर्थः। निर्धारणे षष्ठी। सम्भावितदोषबाधस्यापीत्यपेरर्थः। यत्र ज्ञाने सुगृहीतं परीक्षया निश्चितं तत् परीक्षितदर्शनं प्रमाणमिति शेषः।
प्रत्यक्षागमज्ञानप्रामाण्यग्रहण एव परीक्षोपयोगः, धर्मिज्ञानानुमानोपमानुव्यवसायानां तु प्रामाण्यग्रहणं न परीक्षापेक्षमिति केचिन्मन्यन्ते। तन्निरासाय सर्वमानससङ्ग्र्रहार्थं मनश्चक्षुर्दर्शनादेर्मध्य इत्युक्तम्। अन्यथा यत्र ज्ञान इत्यादिकमेवावक्ष्यत्। तदेव प्रमाणमित्येतावता पूर्णे परीक्षितदर्शनमित्यनुवादेन सुगृहीतमित्येतद् विवृणोति।
॥ ज्ञानमात्रस्य स्वप्रकाशत्वात्, यथार्थत्वाच्च तत्प्रामाण्यस्य
परीक्षानपेक्षत्वमिति प्रभाकरमतस्य दूषणम्॥
एवं मानसप्रत्यक्षादिज्ञानप्रामाण्यग्रहस्य परीक्षाधीनत्वेऽपि साक्षिप्रामाण्यग्रहस्य तदनपेक्षत्वान्न परीक्षानवस्थेत्युक्तम्। तत्र किमनया द्विविधकल्पनया? साक्षिवत् प्रत्यक्षादिज्ञानस्यापि प्रामाण्यग्रहः परीक्षानपेक्ष एवोक्तविधया स्वतः किं न स्यादित्याशङ्कां परिहरति नेति।
न ज्ञानदृष्टिमात्रेण प्रामाण्यं तस्य दृश्यते।
ज्ञानस्य दृष्टिर्ज्ञानदृष्टिः। तस्य ज्ञानस्य। एतदुक्तं भवति वृत्तिज्ञानानां स्वप्रकाशत्वमेव तावदसत्, प्रमाणाभावात्। ज्ञानव्यवहारस्य साक्षिवेद्यत्वेनैवोपपत्तेः। इदमहं जानामीत्यनुभवस्य साक्षिरूपत्वात्। विमतं ज्ञानं न स्वप्रकाशम्, अनात्मत्वात्, कार्यत्वात्, अनित्यत्वात्, मनोरूपत्वात्; सुखादिवदित्यादिप्रमाणविरोधाच्च।
भवतु वा ज्ञानं स्वप्रकाशम्, तथाऽपि स्वरूपमात्र एव, नतु स्वधर्मे प्रामाण्येऽपि। तथाहि वेदवाक्यश्रवणे सति बाह्यस्य वाक्यार्थज्ञानमुत्पद्यते, नवा? न द्वितीयः, सत्यां सामग्र्यां कार्यानुदयानुपपत्तेः। अन्यथा मीमांसकस्यापि तदनुदयप्रसङ्गात्। आद्येऽपि तत् प्रकाशते, नवा? नेति पक्षेऽपसिद्धान्तः। प्रथमे तत्प्रामाण्यं प्रकाशते, नवा? नाऽद्यः, तन्निरासस्यानुपपत्तेः। ततो ज्ञानदृष्टिमात्रेण न ज्ञानप्रामाण्यं दृश्यत इति द्वितीय एवाङ्गीकार्यः। तथाच स्वप्रकाशज्ञानेनैव प्रामाण्यग्रह इति कथं स्यात्? अपौरुषेयत्वादियुक्तिभिः प्रबोधितो बाह्यः प्रतिपद्यते च तत्प्रामाण्यमिति कथं न परीक्षापेक्षत्वम्? अन्यथा वैदिकज्ञानप्रामाण्ये विप्रतिपत्तिरेव न स्यात्, ज्ञानस्वरूपवत्।
किञ्चैवंवादिनो मते शुक्तिरजतादिविभ्रमो न स्यात्। इदमनुभवस्य रजतस्मरणस्य च भेदाग्रहो हि विभ्रमः। तत्र प्रामाण्यवद् भेदस्यानुभवत्वस्मरणत्वयोश्च प्रकाशोऽवश्यम्भावीति कथं विभ्रमावकाशः? नहि प्रामाण्यस्य भेदादेश्च कश्चिद् विशेषोऽस्तीति।
॥ भट्टोक्तस्य ज्ञानप्रामाण्ययोरनुमेयत्ववादस्य दूषणम्॥
ज्ञानप्रामाण्ये सहैवानुमेये इत्यप्यसत्, ज्ञानस्यानुमेयत्वे प्रमाणाभावात्। तद्व्यवहारस्यान्यथैव उपपत्तेः। आशुतरविनाशिनो ज्ञानस्य जानामीति वर्तमानतया प्रतिभासानुपपत्तेश्च। अपरोक्षावभासविरोधाच्च। अनुमेयत्वेऽपि ज्ञानस्य न ज्ञानानुमितिमात्रेण प्रमाण्यं तस्य दृश्यते। तद्धि ज्ञाततया व्यवहारेण कार्येण वाऽनुमातव्यम्। नच तावता प्रामाण्यमनुमातुं शक्यते, व्यभिचारात्। ततो ज्ञाततादिमात्रेण प्रतीते ज्ञाने बाधाभावादिना प्रामाण्यमनुमेयम्। अन्यथा बाह्यानामपि वैदिकज्ञानप्रामाण्यानुमानप्रसक्तेः। प्रसक्तमप्यपोद्यत इति चेत्, तर्ह्यपवादनिरासाय परीक्षापेक्षावश्यम्भाविनीत्यागतम्। इदमेव चास्माभिरभिधास्यते, सर्वथा परीक्षानपेक्षेति तु न क्षम्यते।
॥ प्रामाण्यस्य परीक्षानिरपेक्षसाक्षिवेद्यत्वमतनिरासः॥
एतेन साक्षिवेद्यतापक्षोऽपि प्रतिक्षिप्तः। औपनिषदज्ञानदृष्टिमात्रेण बाह्यैस्तत्प्रामाण्यस्यादर्शनात्।
॥ ताकिकाणां धर्मिज्ञानअनुमानउपमानअनुव्यवसायव्यतिरिक्तप्रमाणानां
प्रामाण्यस्य परीक्षापेक्षत्वमतस्य दूषणम्॥
चतुर्थपक्षस्त्वतिमन्दः। अनुमानादिज्ञानदृष्टिमात्रेण तत्प्रामाण्यस्य चार्वाकादिभिरदृष्टत्वात्। विभागे मानाभावाच्च। धर्मिज्ञानादिप्रामाण्ये विगानाभावादिति चेत्, न। निरालम्बनादिमतदर्शनात्। उपपत्तिबाधितं तदिति चेत्, तर्हि स्वीकृताऽऽयुष्मतैव परीक्षापेक्षेत्यलं पल्लवेनेति।
॥ साक्षिज्ञानप्रामाण्यस्य परीक्षानपेक्षत्वे नियामकोक्तिः॥
एवन्तर्हि प्रत्यक्षादिवत् साक्षिणोऽपि प्रामाण्यं परीक्षापेक्षग्रहणमेवाङ्गीक्रियताम्। द्विधा कल्पनस्य अन्याय्यत्वादित्यत आह नियमेनेति।
नियमेन सुखाद्येषु प्रामाण्यं साक्षिगोचरम्॥१४३॥
दृश्यत इति वर्तते। साक्षी गोचरो यस्य तत् तथोक्तम्। गोचरत्वं चाऽश्रयतया विवक्षितम्। सुखादिविषयं यत् साक्षिगतप्रामाण्यं तन्नियमेन दृश्यते।
एतदुक्तं भवति यदि वृत्तिज्ञानानामिव साक्षिज्ञानस्यापि प्रामाण्यं तद्दर्शनमात्रेण न दृश्यते, तदाऽधिकमपि कारणं कल्पयामः। नचैवम्। सुखज्ञाने दृष्टे तत्प्रामाण्याज्ञानसंशयविपर्ययाणां कदाऽप्यदर्शनात्। कल्पकसद्भावे द्विधा कल्पनस्यादूषणत्वादिति।
॥ स्वप्रामाण्यस्य साक्षिणैव गृहीतत्वात् न प्रामाण्यग्राहकानवस्था॥
किञ्च साक्षिप्रामाण्यस्यापि परीक्षापेक्षग्रहणत्वेऽनवस्था च स्यात्। ननु प्रामाण्यग्रहणमभिलषता नानावस्थातो भेत्तुं युक्तम्। परीक्षानवस्थाभावेऽपि ग्राहकानवस्थाया दुष्परिहरत्वादित्यत आह स्वप्रामाण्यमिति।
स्वप्रामाण्यं सदा साक्षी पश्यत्येव सुनिश्चयात्।
साक्ष्येवेति सम्बन्धः। सदा सुनिश्चयादिति। परीक्षानपेक्षमेवेति यावत्। एतच्चानुभवान्यथानुपपत्तिभ्यां कल्प्यते।
॥ वृत्तिज्ञानानां परतःप्रामाण्यशङ्कानिरासः॥
नन्वेवंसति वृत्तिज्ञानानां परतः प्रामाण्यमुक्तं स्यात्। ज्ञानस्वरूपस्य साक्षिवेद्यत्वात्। प्रामाण्यस्य परीक्षागम्यत्वात्। तथाच “न विलक्षणत्वात्” इति यत् स्वतः प्रामाण्यमिष्टम्, तत् त्यक्तं स्यादित्यत आह ज्ञानस्येति।
ज्ञानस्य ग्राहकेणैव साक्षिणा मानतामितेः॥१४४॥
ज्ञानस्य ग्राहकेण साक्षिणैव ज्ञानस्य मानताया मितेः कारणात् स्वतःप्रामाण्यमिष्यत एवेति सम्बन्धः। भवेत् स्वतःप्रामाण्यत्यागो यदि ज्ञानमेव साक्षिवेद्यं न प्रामाण्यमिति ब्रूमः। नचैवम्। ज्ञानवत् तत्प्रामाण्यस्यापि साक्षिवेद्यत्वाभ्युपगमादिति।
॥ परीक्षा दोषाभावनिश्चयार्था, नतु प्रामाण्यग्रहणार्था॥
किमर्थं तर्हि परीक्षावश्यम्भावोऽभ्युपगम्यत इत्यत आह दोषेति।
दोषाभावे प्रमाणत्वं दोषाभावस्य साक्षिणा।
निश्चितत्वं क्वचिच्चैव स्वतः प्रामाण्यमिष्यते॥१४५॥
साक्षिणा निश्चितत्वमिति वक्ष्यमाणमिहापि योज्यम्। इति प्रामाण्यस्येति पदद्वयमध्याहार्यम्। ज्ञानं गृह्णन् साक्षी करणदोषाभावेऽस्य प्रामाण्यमित्येव प्रामाण्यं निश्चिनोति। नतु प्रमाणमेवेदमिति। ततः किमित्यत आह दोषाभावस्येति। परीक्षयेति शेषः। चोऽवधारणे। क्वचिदेव प्रयोजनवशाज्जिज्ञासायां जातायां परीक्षालाभे चेत्यर्थः। दोषाभावनिश्चयार्था परीक्षा, नतु प्रामाण्यग्रहणार्था। तत् पुनर्ज्ञानमिव साक्षिवेद्यमेव। अतो न स्वतः प्रामाण्यपरित्याग इति भावः।
॥ उक्तप्रक्रियाया अन्यथानुपपत्तिप्रमाणकत्वम्॥
स्यादेतद् यदीयं प्रक्रिया प्रमाणवती स्यात्, नच तदस्तीत्यत आह अत इति।
अतो न सर्वमानानां प्रामाण्यं निश्चितं भवेत्।
साक्षिणा निश्चितं यत्र तत् प्रामाण्यं स्वलक्षणम्॥१४६॥
अत एव हि सर्वेषां ज्ञानानां प्रामाण्यं प्रथमतो न निश्चितं भवेत्। किन्नाम। यत्र यदा परीक्षासहकृतेन साक्षिणा प्रामाण्यं निश्चितं भवति, तत् तदैव प्रामाण्यं स्वलक्षणं प्रामाण्यस्वरूपमप्रामाण्यविविक्तं प्रामाण्यं सिद्ध्यति।
इदमुक्तं भवति यदि साक्षी दोषाभावे प्रमाणमेतदिति प्रथमं सम्मुग्धं प्रामाण्यं गृहीत्वा पश्चात् जिज्ञासायां सत्यां परीक्षया प्रमाणमेवेत्यवधारयतीत्येषा प्रक्रिया नाङ्गीक्रियेत, तदाऽभ्यस्तविषयाणां शब्दादिना जातानां सर्वेषामपि ज्ञानानां प्रथममेव प्रामाण्यमवधार्येत। नचैतदस्ति। तेन जानीमोऽस्तीयं प्रक्रियेति।
॥ प्रतिपादितार्थपिण्डीकरणम्॥
उक्तमर्थं बुद्ध्यारोहाय सङ्क्षिप्याऽह नहीति।
नहि कश्चित् सुखाद्येषु संशयं कुरुते जनः।
नचैवाखिलमानानि निश्चिनोत्यखिलो जनः॥१४७॥
तस्मादनुभवारूढं किमर्थमपलप्यते।
दोषाभावादिकं चैव साक्षी सम्यक् प्रपश्यति॥१४८॥
यस्मात् सुखाद्येषु कश्चित् संशयं न करोति, यस्माच्चाखिलानि वृत्तिज्ञानानि दर्शन एव प्रमाणतया अखिलो जनो न निश्चिनोति, तस्मात् साक्षिप्रामाण्यं परीक्षानपेक्षेण साक्षिणैव गृह्यते। वृत्तिज्ञानानां तु तत्सापेक्षेणेत्यनुभवारूढं प्रमेयं किमर्थमपलप्यते? निर्निमित्तमपलपितुं न शक्यत इति।
“न परीक्षानवस्था स्यात्” इत्युक्तमुपसंहरति दोषाभावादिकं चेति। साक्ष्येवेति सम्बन्धः। स्वस्य परीक्षायाश्च दोषाभावं प्रामाण्यं च परीक्षानिरपेक्षः साक्ष्येव सम्यक् प्रपश्यति। तस्मान्न काऽप्यनवस्थेति।
॥ अपरीक्षितदर्शनस्य परीक्षितदर्शनबाध्यत्वोपसंहारः॥
“अपरीक्षितमेव” इत्यादिनोक्तमुपसंहरति तदिति।
तत् परीक्षितमानेन न दोषो विष्णवि क्वचित्।
तत् तस्मात् परीक्षितमेव मानम्। तेन च भगवति क्वचिदपि दोषो नास्तीति सिद्धम्। तद्विरोधादपरीक्षितं दोषदर्शनमप्रमाणमेवेत्यर्थः।
॥ अपरीक्षितदर्शनस्य प्रमाणत्वे शुक्तिरजतादीनामपि सिद्धिप्रसङ्गः॥
एवमपरीक्षितं दोषदर्शनं परीक्षितेन निर्दोषतादर्शनेन बाधितं न भगवतो दोषित्वं साधयितुं शक्तमित्युक्तम्। इदानीं तादृशस्यापि साधकत्वेऽतिप्रसङ्गं सूचयति अपरीक्षितेति।
अपरीक्षितदृष्टिस्तु कस्मिन्नर्थे न विद्यते॥१४९॥
शुक्त्यादीनां रजतत्वादावपि विद्यत एव। ततश्च तया तदपि सिद्ध्येदविशेषादिति भावः।
॥ भगवदवताराणां दोषग्राहिप्रत्यक्षस्य उपजीव्यागमविरुद्धत्वादप्रामाण्यम्॥
तदेवं दोषदर्शनं परीक्षितप्रत्यक्षविरोधादप्रमाणमित्यभिहितम्। “निरनिष्टो निरवद्यः” इत्याद्यागमविरोधाच्च। स्यादेतत्। प्राक् तत्त्वमस्याद्यागमस्य प्रत्यक्षविरुद्धत्वात् प्रतीतार्थे न प्रामाण्यमित्युक्तम्। (११६, ८८१) तत् कथं तद्विपरीतं प्रत्यक्षस्याऽगमविरोधेनाप्रामाण्यमिदानीमुच्यत इत्याशङ्कां परिहर्तुमाह तदिति।
तत् प्रत्यक्षविरुद्धार्थे नाऽगमस्यापि मानता।
उपजीव्यमक्षजं यत्र तदन्यत्र विपर्ययः॥१५०॥
यत्र यदाऽक्षजमागमस्योपजीव्यं तत् तदा प्रत्यक्षविरुद्धार्थे जात्या प्रबलस्याप्यागमस्य मानता नास्ति। तस्मादुक्तादुपजीव्योपजीवकभावादन्यत्र विपरीतोपजीव्योपजीवकभावे बाध्यबाधकभावस्यापि विपर्ययः। यदाऽऽगमः प्रत्यक्षस्योपजीव्यः, तदाऽऽगमविरुद्धार्थे प्रत्यक्षस्य न मानतेत्यर्थः।
॥ जीवैक्यपरतत्वमस्यादिवाक्यानां उपजीव्यप्रत्यक्षविरुद्धत्वादप्रामाण्यम्
    भगवदवताराणां दोषग्राहिप्रत्यक्षस्य उपजीव्यागमविरुद्धत्वादप्रामाण्यम्॥
ततः किमित्यत आह लौकिक इति।
लौकिके व्यवहारेऽत्र प्रत्यक्षस्योपजीव्यता।
अवतारादिदृष्टौ स्यादगमस्योपजीव्यता॥१५१॥
लौकिके प्रत्यक्षसिद्धजीवादिविषये ब्रह्मात्मकत्वादिबोधनरूपे व्यवहारे तत्त्वमस्याद्यागमेन क्रियमाणे अत्र आगमे आगमं प्रति प्रत्यक्षस्योपजीव्यता। अवताराणां विश्र्वादीनां च दोषदृष्टौ प्रत्यक्षादिकं प्रत्यागमस्योपजीव्यता स्यात्।
एतदुक्तं भवति प्राक् प्रत्यक्षविरोधेनाऽगमस्याप्रामाण्यमभिधायेदानीमागमविरोधेन प्रत्यक्षस्य अप्रामाण्याभिधानं न विरुद्धम्। नहि निर्विशेषणयोः प्रत्यक्षागमयोः परस्परं बाध्यबाधकभावोऽभिहितः। किन्तूपजीवकत्वेन बाध्यत्वम्, उपजीव्यत्वेन बाधकत्वात्। तच्च तत्रान्यथाऽत्रान्यथेति कथं विरोध इति।
अनेन दोषविषयप्रत्यक्षविरोधादागमस्यैवाप्रामाण्यं किं न स्यादिति चोद्यं गर्भस्रावेणैव गतम्। आगमस्योपजीव्यतया प्रत्यक्षतः प्राबल्यस्योक्तत्वात्।
॥ रामकृष्णादीनां विष्णुत्वज्ञानस्याऽगमसिद्धत्वात् आगमस्योपजीव्यत्वम्॥
कथं प्रत्यक्षं प्रत्यागमस्योपजीव्यत्वमित्यत आह आगमेनेति।
आगमेन हि विष्णुत्वं ज्ञात्वा दोषोऽत्र कल्प्यते।
नचेत् स्याद् दोषवानन्यः शास्त्रसिद्धं हि लक्षणम्॥१५२॥
अत्र विष्णौ। वस्तुतः कल्पनैवैषा न प्रमितिरिति भावेन कल्प्यत इत्युक्तम्। भवेदागमस्योपजीव्यत्वं यदि विष्णुत्वं ज्ञातव्यं भवेत्। तदेव न ज्ञातव्यमित्यत आह नचेदिति। यदि विष्णुत्वं रामकृष्णादौ न ज्ञातम्, दोषग्राहिणा प्रत्यक्षेण विष्णोरन्यो दोषवानिति गृहीतं स्यात्। नतु विष्णुर्दोषवानिति। नहि देवदत्ते देवदत्तत्वाज्ञाने देवदत्तोऽयमागत इत्याकारं ज्ञानमुत्पत्तुमर्हतीति।
॥ विष्णुत्वज्ञानस्य प्रत्यक्षत्वोक्तिनिरासः॥
तथाऽपि नाऽगमस्योपजीव्यत्वम्, यतः श्रीवत्सकौस्तुभादिलक्षणेन ज्ञास्यत इत्यत आह शास्त्रेति। श्रीवत्सादिकं लक्षणं विष्णुत्वेन व्याप्तमित्येतच्छास्त्रेणैव सिद्धम्। यद्यप्यस्मिन् पक्षे साक्षादागमो नोपजीव्यः, तथाऽप्यनुमानमूलव्याप्तिग्रहणाय तदुपजीवनमपरिहार्यमेवेति भावः।
ननु विष्णुत्वाज्ञाने विष्णोरन्यो दोषवानिति ज्ञानेन कुतो भाव्यम्? विष्णुत्ववत् तदन्यत्वस्याप्यज्ञातत्वादिति चेत्। एवन्तर्ह्यज्ञानं प्रसज्यत इत्याह कस्यचिदिति।
कस्यचिद् दोषवत्त्वं स्यादितिमात्रेऽक्षजं भवेत्।
न विष्णोर्दोषवत्त्वे हि प्रत्यक्षं वर्तते स्वतः॥१५३॥
इतिमात्रे एतावत्येव विषये। विष्णुर्दोषवानिति ज्ञानस्यानुत्पादप्रसङ्ग एव तात्पर्यमिति भावः। ननु यथा पटोऽयं छिन्नो दग्धो मिलन इति परानुपजीविना प्रत्यक्षेणैव गृह्यते, तथाऽऽगमादिकमनुपजीव्य प्रत्यक्षेणैव विष्णुर्दोषवानिति ज्ञास्यत इत्यत आह नेति। स्वतः परानुपजीवनेन।
अयमभिसन्धिः पटत्वमवयवसन्निवेशव्यग्यं प्रत्यक्षमेवेति युज्यते तथा ज्ञानम्। विष्णुत्वं तु समस्तगुणपरिपूर्णत्वजगज्जन्मादिकारणत्वलक्षणं न प्रत्यक्षम्। अतो न तथाविधं ज्ञानमुपपद्यते। यथा पञ्चपलपरिमितोऽयं पटो मिलन इति ज्ञानमिति।
अयं समुदयार्थः रामकृष्णादिदोषग्राहिणा प्रत्यक्षेण त्रेधोत्पत्तव्यम् विष्णुरयं दोषवानिति वा, विष्णोरन्योऽयं दोषवानिति वा, कश्चिदयं दोषवानिति वा। प्रकारान्तराभावात्। तत्र द्वितीयतृतीययोर्न विष्णोर्दोषवत्त्वे तदुद्भावयितुं शक्यम्। विष्णुर्दोषवानिति तेनानवगाहनात्। वस्तुवृत्त्याऽसौ विष्णुरेवेति चेत्। किं ततः? नहि वस्तुवृत्तिसहितं यत्किञ्चिज्ज्ञानं विवक्षितविशेषं साधयति, अतिप्रसङ्गात्। आद्ये विष्णुत्वं सर्वथा ज्ञातव्यम्। नचैतत् प्रत्यक्षवेद्यम्, नाप्यनुमेयमित्युक्तं शास्त्रयोनिसूत्रे। तस्माद् “देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः। आविरासीत्” इत्यागमेन वा, आगमावगतव्याप्तिकानुमानेन वाऽवगन्तव्यम्। ततः सर्वथा प्रत्यक्षस्याऽगमोपजीव्यत्वमङ्गीकार्यम्। सर्वोऽप्यागमस्तावदेकमेव वाक्यम्। सच सर्वरूपोपेतस्य विष्णोर्निर्दोषत्वं प्रतिपादयतीति तद्विरोधादप्रमाणमेव दोषविषयं प्रत्यक्षमिति।
॥ श्रुतिविरुद्धार्थे पुराणस्याप्रामाण्यम्॥
इतश्च तदप्रमाणमिति दर्शयितुमाह केचिदिति।
केचित् पश्यन्ति दोषानित्यत्रापि स्यान्नचाक्षजम्।
पौराणं वाक्यमेवात्र तच्छ्रुत्यैव विरुद्ध्यते॥१५४॥
न केवलं दोषेष्वित्यपिशब्दः। चशब्दोऽनुमानादिसमुच्चयार्थः।
प्रत्यक्षं भगवद्रूपाणां दोषित्वे प्रमाणमिति वदन् प्रष्टव्यः केचित् तत्कालवर्तिनः पुरुषा भगवद्रूपेषु दोषान् पश्यन्तीत्यत्रार्थेऽस्माकं किं प्रमाणम्? प्रत्यक्षम्, अनुमानम्, आगमो वेति। न तावत् प्रत्यक्षम्। परपुरुषवर्तिनि प्रत्यक्षे परेषां प्रत्यक्षायोगात्। दूरे कालभेदे। नाप्यनुमानं लिङ्गाभावात्। आगमोऽपि वेदः पुराणादिर्वा। नाऽद्यः, तस्यादर्शनात्। तस्माद् द्वितीय एवाङ्गीकार्य इत्याह पौराणमिति। अत्र भगवद्रूपदोषग्राहिप्रत्यक्षसद्भावे। वक्तव्यमिति शेषः।
ततः किमिति चेत्। तत् पुराणवाक्यं तद्दोषदर्शनं किं प्रत्यक्षलक्षणं प्रमाणतया मन्यते, उतापरीक्षितप्रमाणाप्रमाणभावप्रतीतिमात्रतया, अथाप्रमाणतया? आद्ये दोषमाह तदिति।
भगवद्रूपेषु दोषग्राहिणीं प्रतीतिं प्रमाणतया प्रतिपादयत् पुराणवाक्यं दोषसद्भावं मन्यत एव। नहि सम्भवति तद्ग्राहिणः प्रामाण्यमङ्गीकरोति नाङ्गीकरोति च तदिति। दोषसद्भावं मन्यमानं च तत् प्रागुदाहृतया श्रुत्यैव (१२२४) विरुद्ध्यत इति।
॥ श्रुतेः पुराणं प्रत्युपजीव्यत्वसमर्थनम्॥
पुराणवाक्यस्य श्रुतिविरुद्धत्वे को दोष इत्यत आह पुराणस्येति।
पुराणस्योपजीव्यश्च वेद एव नचापरः।
तद्विरोधे कथं मानं तत् तत्र च भविष्यति॥१५५॥
पौरुषेयेण खलु वाक्येन समूलेन भाव्यम्। यतः केनचित् कारणेन कश्चिदर्थं बुद्धिस्थीकृत्य वाक्यं प्रयुञ्ज्महे। अन्यथोत्पत्तेरेवासम्भवः। पुराणवाक्यस्य च वेद एव मूलं कुत इत्यत आह नचेति। अपरः पौरुषेयो ग्रन्थः। चशब्दः प्रत्यक्षागमादिसमुच्चयार्थः। पौरुषेयस्तावदागमो न पुराणस्य मूलम्, तस्यापि मूलापेक्षयामन्धपरम्परापातात्। नच प्रत्यक्षानुमाने, तदर्थस्य तदगोचरत्वात्। नाप्युत्प्रेक्षा। प्रतारकवाक्यवदप्रामाण्यप्रसङ्गात्। अतः परिशेषाद् वेद एव पुराणस्योपजीव्य इति सिद्धम्।
ततः किमित्यत आह तद्विरोध इति। उपजीव्यवेदविरोधे। तत् पुराणवाक्यम्। तत्र भागवतः सदोषत्वे। उपजीव्यविरुद्धस्योपजीवकस्याप्रामाण्यावश्यम्भावादिति चार्थः।
नन्वीश्वरप्रणीतानां पुराणानां तदीयं निजं ज्ञानमेव मूलम्, न वेदः। अनीश्वरप्रणीतानामपि योगिप्रत्यक्षमेव। अतो वेदविरोधेऽपि को दोषः? उच्यते वेदस्तावत् प्रमाणमेवेति निष्टङ्कितम्। (१३८, ४६८) नच प्रमाणयोर्विरोधोऽस्ति। वस्तुविकल्पप्रसङ्गात्। ततो वेदविरोधे निजज्ञानादिमूलत्वमेवापनीयते। तथाऽपि वेद एव पुराणस्योपजीव्य इति कथम्? अनीश्वरप्रणीतपुराणाभिप्रायेणेति न दोषः। अनीश्वरा हि स्वयं प्रतिभातेऽप्यर्थे आश्र्वासार्थं वेदमुपजीवन्ति। यथोक्तम् “यत् स्वयं प्रतिभातस्य संशयार्थं गुरोर्वचः” इति। यद्वेश्वरप्रणीतपुराणानामपि प्रामाण्यावधारणाय वेदसंवादोऽपेक्षितः। अन्यथा उत्प्रेक्षामूलत्वशङ्कनात् तदभिप्रायेण “पुराणस्योपजीव्य वेद एव” इत्युक्तम्।
॥ अपरीक्षितदर्शनस्याप्रमाणत्वम्॥
द्वितीयं दूषयति अपरीक्षितेति।
अपरीक्षितदृष्टिश्च कथमेवाक्षजं भवेत्।
यद्येवं देवदत्तादिभ्रमः किं नाक्षजं भवेत्॥१५६॥
अक्षजं कथमेव भवेदिति प्रत्यक्षं प्रमाणतयाऽभिलषितार्थे नोद्भावयितुं शक्यते। नहि प्रमाणत्वेन अनवधारितं प्रमाणत्वेनोद्भावयन् परीक्षकः स्यादिति भावः। विपक्षे बाधकमाह यद्येवमिति।प्रमाणत्वेनापरीक्षितमपि यदि प्रत्यक्षतोद्भाव्यत इत्यर्थः। देवदत्तादिभ्रम इति। यज्ञदत्तशुक्त्यादौ देवदत्तरजतादिभ्रम इत्यर्थः। बाधितत्वात् तन्नाक्षजं प्रमाणमिति चेत्। तत् किं बाधाभावमात्रं वस्तुव्यवस्थाहेतुः? तथात्वे निश्चायकप्रमाणवैयर्थ्यापत्तेः। अस्ति च प्रकृते वेदबाध इति। तथाच तृतीयपक्षः एवाङ्गीकार्यः। नचाप्रमाणतया निश्चितेन दोषसिद्धिरिति भावः।
॥ उपजीव्यविरोधेन उपजीवकस्य बाध्यत्वमिति नियमस्य व्यभिचरितत्वशङ्कानिरासः॥
उपजीव्यवेदविरोधादुपजीवकयोः प्रत्यक्षपुराणवाक्ययोरप्रामाण्यमित्युक्तम्। तदसत्। उपजीवकमुपजीव्यविरोधेन बाध्यत इति नियमाभावत्। दृश्यते ह्युपजीव्यस्यापीदं रजतमिति ज्ञानस्योपजीवकेन नेदं रजतमिति ज्ञानेन बाध इति चेत्। कथमत्रोपजीव्यजीवकभाव इति वक्तव्यम्। अप्राप्तस्य प्रतिषेधायोगात् प्राप्तिरूपमिदं रजतमिति ज्ञानमाद्यमुपजीव्यम्, प्रतिषेधात्मकं तु नेदं रजतमिति ज्ञानमुपजीवकमिति वा, असिद्धे धर्मिणि प्रतिषेधासम्भवाद् धर्मिज्ञानमाद्यमुपजीव्यम्, द्वितीयं तूपजीवकमिति वा? आद्ये समाधिमाह यावच्छक्तीति।
यावच्छक्ति परीक्षायामुपजीव्यस्य बाधने।
दोषो नाशोधिते दोष उपजीव्यत्वमस्त्वलम्॥१५७॥
परीक्षायां सत्यां प्रमाणतया प्रतीतस्येति शेषः। बाधने उपजीवकेन कृत इति शेषः। दोषोऽस्मदभिमतनियमभङ्गः स्यात्। उपजीव्येऽशोधिते परीक्षयाऽप्रमाणादविविक्ते उपजीवकेन बाधिते न दोषः। उपजीव्यत्वमस्त्वलमिति। प्रकृतोदाहरणे प्रथममुपजीव्योपजीवकभावमभ्युपैति। उपजीव्यत्वमित्युपलक्षणम्। उपजीवकत्वं चेत्यपि द्रष्टव्यम्। पूर्वोत्तरज्ञानयोरिति शेषः। अलंशब्दोऽवधारणे।
इदमुक्तं भवति अस्त्वेदं रजतं नेदं रजतमिति ज्ञानयोरुपजीव्योजीवकभावः, उपजीव्यस्य उपजीवकेन बाधश्च। तथाऽप्युपजीव्यविरोधेनोपजीवकं बाध्यत इति नियमभङ्गो नास्ति। अयं खल्वस्य नियमस्यार्थः परीक्षया शोधितमुपजीव्यं विरोध्युपजीवकं बाधते स्वयं तेन न बाध्यत इति। नतु यथाश्रुतः। अस्य तु तदा भङ्गः स्यात्, यदि परीक्षितमुपजीव्यं विरोधिनोपजीवकेन बाध्यं क्वचिदुपलभेमहि। नचैवम्। इदं रजतमिति ज्ञानं तु न शोधितम्। ततस्तस्मिन्नुपजीवकेन बाधिते न नियमभङ्गः। नहि निर्विशेषणस्य व्यभिचारे विशिष्टं व्यभिचरति, अतिप्रसङ्गात्। नच वाच्यम्, विशिष्टस्य प्रयोजकताकल्पनं निर्मूलमिति। उभयथाऽपि बाध्यबाधकभावदर्शनात्। विशेषणानपेक्षायामव्यवस्थापातात्।
ननु परीक्षायामङ्गीकृतायां तयैवालम्। परीक्षितेनापरीक्षितं बाध्यत इत्येतावतः क्वचिद् व्यभिचाराभावात् किमुपजीव्योपजीवकभावेन? उच्यते भवेदेवं यद्यात्यन्तिकीं परीक्षामत्राङ्गीकुर्मः। नचैवम्। किन्तु यावच्छक्ति परीक्षामेव। नच तावन्मात्रस्य बाधकत्वनियमोऽस्ति। यावच्छक्ति परीक्षितस्यापि बाधदर्शनात्। अतो युक्तं विशिष्टस्योपादानम्। आत्यन्तिकपरीक्षैव बाधकत्वोपयोगिनी भवतु, किमुपजीव्यत्वेनेत्यपि न वाच्यम्। तस्यापि सांव्यावहारिकत्वात्। यथोक्तम् “सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य” इति। प्रकृते तु वेदः परीक्षित उपजीव्यश्चेति।
॥ प्रकारान्तरेण व्यभिचारशङ्कानिरासः॥
द्वितीये परिहारमाह भ्रमेऽपीति।
भ्रमेऽप्यभ्रमभागोऽस्ति तन्मात्रमुपजीव्य हि।
बाधकज्ञानवृत्तिः स्यात्..................।
हीति वक्ष्यमाणमत्रापि सम्बद्ध्यते। यद्यप्येकमेवेदं रजतमिति ज्ञानम्, तथाऽपि विषयोपाधिवशाद् द्विभागम्। तत्र प्रकारे भ्रमत्वेऽपि स्वरूपेऽभ्रमत्वमेव। तत्र कदाऽपि बाधाभावात्। तथाऽन्येऽप्याहुः। “सर्वं ज्ञानं धर्मिणि प्रमाणम्, प्रकारे तु विपर्ययः” इति। भागाभ्युपगमादेव न विरोधचोदनावकाशः। ततः किमित्यत आह तन्मात्रमिति। अभ्रमभागमात्रम्। तेनैव धर्मिणः सिद्धेः। रजताकारस्य निषेध्यत्वेन धर्मित्वाभावादिति हिशब्दार्थः।
एतदुक्तं भवति अस्मिन् पक्षे यदुपजीव्यं न तदुपजीवकेन बाध्यते, यच्च बाध्यते न तदुपजीव्यमित्यतो नेदमस्मदीयनियमभङ्गस्योदाहरणमिति।
॥ ब्रह्मणः सर्वज्ञत्वावेदकश्रुतीनां जीवस्य दुःखित्वग्राहिप्रत्यक्षस्य च
सुपरीक्षितत्वात् नोपजीवकेन बाध्यत्वम्॥
अत्रान्तरे मायावादिनश्र्चोदयन्ति यदुक्तमुपजीव्यविरोधादद्वैतश्रुतीनामप्रामाण्यमिति, तदसत्। तत्राप्यस्य समाधानस्य सुखवत्त्वात्। तथाहि “यः सर्वज्ञः” इत्यादीनां तत्त्वमस्यादीनां च कथमुपजीव्योपजीवकभाव इति वक्तव्यम्। “सिद्धं तु निवर्तकत्वात्” इत्यादिवचनात्। तत्त्वमस्यादिवाक्यमैक्यविरोधिनां सार्वज्ञ्यादीनां दुःखादीनां च प्रतिषेधकमङ्गीकृतम्। नच प्राप्तिं विना प्रतिषेधोऽस्तीति प्राप्तिरूपं “यः सर्वज्ञः” इत्यादिकमुपजीव्यम्, तत्त्वमस्यादिकं तूपजीवकमिति वा, असिद्धे धर्मिणि प्रतिषेधानुपपत्तेर्धर्मिप्रतिपादकमाद्यमुपजीव्यम्, उपजीवकं चोत्तरमिति वा? आद्ये रजतज्ञानस्येव अपरीक्षितत्वादुपजीव्यस्यापि प्रथमस्योत्तरेण बाधे न काऽप्यनुपपत्तिः। द्वितीये शुक्तिस्वरूपमात्रमिव ब्रह्मस्वरूपमात्रमुपजीव्यं न सार्वज्ञ्यादिविशिष्टम्। तथाच यदुपजीव्यम्, न तदुत्तरेण बाध्यते। यद् बाध्यते सार्वज्ञ्यादिकम्, न तदुपजीव्यमिति न कश्चिद् विरोध इति।
अत्र परिहारद्वयमपि प्रतिषेधति नचैवमिति।
.................... नचैवं सुपरीक्षिते।
प्रसिद्धयोर्भ्रान्तिबाधयोरिवात्र समाधानं न वक्तुं शक्यते। वैषम्यादिति भावः। तत् कथमित्यतः प्रथमपक्षे तावद् वैषम्यं दर्शयति सुपरीक्षित इति। प्रथमप्रमाणे सुपरीक्षिते सति नचैवमिति सम्बन्धः।
एतदुक्तं भवति इदं रजतमिति ज्ञानमुपजीव्यमप्यपरीक्षितत्वादुपजीवकेन नेदं रजतमिति ज्ञानेन बाध्यते। उपजीव्योपजीवकन्यायस्य यावच्छक्ति परीक्षाविषयत्वादिति ह्यस्माभिरभिहितम्। अस्मन्न्यायेन च परेण प्रत्यवस्थीयते। नच तद् युक्तम्। “यः सर्वज्ञः” इत्यादीनां “अहं दुःखी’ इत्यादीनां च सुपरीक्षितत्वात्। उपपादितं खलु “यः सर्वज्ञः” इत्यादिश्रुतीनां तत्वावेदकत्वम्, (१८८,८८३, ९६५,९६८) साक्षिणश्च नियमेनाव्यभिचारित्वमिति। (८८९,१२१९)
॥ ऐक्यवाक्यानां धर्मिग्राहकविरोधस्यापरिहार्यत्वम्॥
द्वितीयपक्षे वैषम्यं दर्शयति सर्वमिति।
सर्वे तदुपजीव्यैव प्रमाणं वर्तते यतः॥१५८॥
यतः कारणात् तत् सर्वं सार्वज्ञ्यादिकमुपजीव्यैव “तत् त्वमसि” इत्यादिकं प्रमाणं प्रवर्तते, अतो नचैवमिति सम्बन्धः।
इदमुक्तं भवति यथा नेदं रजतमिति ज्ञानं पुरोवर्तिनः स्वरूपमात्रं धर्मीकृत्य प्रवर्तते, नतु रजतत्वविशिष्टम्, न तथा तत्त्वमस्यादिवाक्यं प्रवर्तितुमर्हति। किन्तु सर्वज्ञत्वादिविशिष्टं ब्रह्मस्वरूपं दुःखादिविशिष्टं जीवस्वरूपं च धर्मीकृत्यैव। तथाच धर्मिग्राहकविरोधोऽपरिहार्य इति। अत्र सर्वमिति सर्वज्ञत्वाद्यन्यतमस्योपलक्षणम्।
॥ ऐक्यवाक्यानां स्वरूपमात्रमुपजीव्य प्रवृत्तत्वे ऐक्यज्ञानानुपपत्तिः॥
ननु तत्त्वमस्यादिवाक्यमपि यदि स्वरूपमात्रमुपजीव्य प्रवर्तेत, तदा कीदृशो दोष इत्यत आह कथमिति।
कथं ब्रह्मेति तज्ज्ञेयं सर्वज्ञत्वादिलक्षणम्।
विहाय यस्मात्कस्माच्चित् स्वरूपस्यैव चेद् यदि॥१५९॥
उपजीव्यत्वमेतस्माद् व्यावृत्तं यावता भवेत्।
तावतैवोपजीव्यत्वं स्वरूपस्यैव न क्वचित्॥१६०॥
वाक्यद्वयमेतत्। तत्रैकस्यार्थः। धर्मान् विहाय स्वरूपस्यैवोपजीव्यत्वं चेत्, तर्हि तत् कथं ज्ञेयं यत् “तत् त्वमसि” इति बोध्यते।
एतदुक्तं भवति शब्देनानूद्य हि स्वरूपं “तत् त्वमसि” इति वक्तव्यम्। नच निर्धर्मकस्य प्रतिपादकः शब्दोऽस्ति। अतः स्वरूपमात्रस्य बुद्धावनारोहाद् बोधनमेवानुपपन्नमिति। न ब्रूमः स्वरूपमात्रस्य उपजीव्यत्वम्, किन्तु भेदकान् सर्वज्ञत्वादिधर्मान् विहाय तत्त्वादिना विशिष्टस्य। तथाच न कश्चिद् दोष इत्यतः शिष्टं वाक्यम्। यदि तत्त्वादिधर्मोपेतस्योपजीव्यत्वम्, तर्हि सर्वज्ञत्वादिकं विहाय यस्मात्कस्माच्चित् तत्त्वादेस्तद् ब्रह्मेति कथं ज्ञेयम्? यद्यप्यस्मिन् पक्षे नोक्तदोषः, तथाऽपि बोध्यस्य ब्रह्मास्मीति ज्ञानमनुपपन्नमेव। सर्वज्ञत्वादेर्ब्रह्मलक्षणत्वेन तदनुपादाने ब्रह्मणो बुद्धावनारोहात्। तत्त्वादेर्घटादिसाधारणत्वादिति भावः।
सर्वज्ञत्वादिपरित्यागेनोपजीवने बाधकमभिधाय विपर्यये पर्यवसानमाह एतस्मादिति। अपरथा ज्ञानासम्भवात्। यावता धर्मेण। तावतोपेतस्यैव।
ननु नेदं रजतमिति ज्ञानं यथा स्वरूपमात्रमुपजीव्य प्रवृत्तम्, तथेदमपि प्रवर्त्स्यति को दोष इत्यत आह स्वरूपस्यैवेति। उपजीव्यत्वमिति वर्तते। उक्तानुपपत्तेरेव दृष्टान्तोऽपि न सम्मत इत्यर्थः।
॥ तच्छब्दस्य व्यावृत्तब्रह्मोपस्थापकत्वपक्षेऽपि ऐक्यानुपपत्तिः॥
ननु “यत् सर्वज्ञम्, तत् त्वमसि’ इति न बोधनीयम्। किन्तु “तत् त्वमसि’ इत्येव। नचोक्तदोषः। तच्छब्दो ब्रह्म वदति। योग्यान्विताभिधायिनश्च शब्दाः। लक्षणं च ब्रह्मणाऽन्वेतुं योग्यम्। ततश्च तच्छब्देनैव व्यावृत्तस्य प्रतीतेरित्याशयवानाशङ्कते सर्वेति।
सर्वलक्षणयुक्तं च स्वरूपं यदि भण्यते।
अस्तु नो नैव हानिः स्यात् स्वपक्षश्चायमञ्जसा॥१६१॥
यस्मादन्वित एवार्थः शब्दानामपि सर्वशः।
विशेषसामान्यतया स्वरूपमखिलं भवेत्॥१६२॥
चशब्दोऽवधारणे। भण्यते तच्छब्देन इति यदि भण्यते इत्यावृत्त्या योज्यम्। सम्प्रतिपत्तिमुत्तरमाह अस्त्विति। यत् परेणोक्तं तदस्त्वित्यर्थः। प्रतिवाद्युक्तार्थाङ्गीकारे प्रतिज्ञाहानिः कथं न भवेदित्यत आह न इति। अनभिमतप्रमेयाङ्गीकारे हि प्रतिज्ञाहानिः स्यात्। अनेन चाङ्गीकृतेन नोऽस्माकं नैव हानिः स्यात्। परस्य धर्मिग्राहिविरोधो ह्यस्माभिरुच्यते। तत्परिहाराय परेण चेदमुदितम्। नचानेन तत् परिहृतम्। प्रत्युत दृढीकृतमिति भावः।
किं प्रकृतप्रमेयाविरोधित्वमात्रेणेदमङ्गीक्रियते, उत तथाभूतत्वेनेति जिज्ञासायामाह स्वपक्षश्चेति। अञ्जसेति नाभ्युपगममात्रेणेत्यर्थः। तदुपपादयति यस्मादिति। सर्वशोऽपीति सम्बन्धः। इत्येतत्, सूत्रसामर्थ्येन प्रागुपपादितमिति शेषः। (१०४७)
किञ्चास्मिन्नपि पक्षे ब्रह्मणो बुद्धावनारोहस्तदवस्थ एव। यतस्तदादिशब्दाः सामान्यत एव योग्यान्वितं ब्रुवते। सर्वज्ञादिशब्दा एव विशेषतः, तथाऽनुभवात्। नच सामान्यतोऽन्विताभिधायिना व्यावृत्तप्रतीतिरित्याशयवानाह विशेषेति। अखिलं योग्यान्वितं स्वरूपं विशेषसामान्यतया शब्दबोध्यं भवेत्।
अन्विताभिधानमात्रमङ्गीक्रियत एव। तच्चैकस्य पदस्य सामान्यत एव न विशेषत इति न बुद्धौ ब्रह्मारोहः। यदिच विशेषतः, तदा धर्मिग्राहिविरोधस्तदवस्थ एवेति समुदायार्थः। केचिन्मायावादिनोऽन्विताभिधानमङ्गीकुर्वते विज्ञानघनादय इति नाप्राप्तशङ्केयम्।
॥ व्यावर्तकधर्मैर्व्यावृत्तस्य उपजीव्यत्वमिति नियमस्य व्यभिचरितत्वशङ्कानिरासः॥
व्यावर्तकधर्मैर्व्यावृत्तस्यैवोपजीव्यत्वमिति यदुक्तम्, तन्नास्ति। बाधकज्ञानेषु तदभावात्। नच तत्रापि व्यावृत्तस्यैवोपजीव्यत्वं न स्वरूपमात्रस्येत्युक्तमिति वाच्यम्। पूर्वस्मिन् भ्रमज्ञाने व्यावृत्तत्वस्यैवासिद्धत्वात्। सिद्धौ च भ्रमत्वानुपपत्तेः। “तन्मात्रमुपजीव्य हि” इत्युक्तविरोधाच्चेत्यत आह पुरोवर्तित्वेति।
पुरोवर्तित्वपूर्वाणि देवदत्तादिकभ्रमे।
व्यावर्तयन्ति तद्रूपं चैत्रमात्राद् विनैव हि॥१६३॥
देवदत्तादौ यश्चैत्रादिभ्रमः, तत्र पुरोवर्तित्वपूर्वाणि विशेषणानि देवदत्तादिस्वरूपं देवदत्तत्वादेरविदितत्वाच्चैत्रमात्राद् विनैवापुरोवर्त्यादिभ्यो व्यावर्तयन्ति यस्मात् तस्माद् बाधकज्ञानं व्यावृत्तमेव उपजीवतीति नियमो नानुपपन्नः। नापि भ्रमानुपपत्तिः। आरोप्यव्यावृत्तेरनङ्गीकरणात्। तन्मात्रशब्देन चाऽरोप्यमात्रव्यावर्तनान्नोक्तविरोधोऽपीति भावः।
नन्वनेन नात्यन्तव्यावृत्तिरुपजीव्यत्वोपयोगिनी, किन्तु व्यावृत्तिमात्रमित्युक्तं भवति। तत् प्रकृतेऽप्यस्ति। तत्त्वादिना ब्रह्मणोऽपि व्यावृत्तत्वेनोपजीव्यत्वसम्भवादिति चेत्, न। तावन्मात्रेण बोध्यस्यापि ब्रह्मास्मीति ज्ञानानुपपत्तेरुक्तत्वात्।
॥ ब्रह्मणो निर्विशेषत्वाङ्गीकाराच्च व्यावृत्त्यसम्भवः॥
दोषान्तरं चाऽह ब्रह्मण इति।
ब्रह्मणो निर्विशेषत्वाद् व्यावर्तयति किं पुनः।
यस्मात्कस्माच्चिदप्यर्थात् तावच्चेत् सिद्धसाधनम्॥१६४॥
ब्रह्मणः पुनरिति सम्बन्धः। किं कर्तृ, ब्रह्म व्यावर्तयति, न किमपि। तत्त्वादीनामङ्गीकारेऽपि दोषमाह यस्मादिति। तत्त्वादिविशेषणेन यस्मात्कस्माच्चिदप्यर्थात् तत्त्वादिरहितात्। तावद् व्यावृत्तं चेदुपजीव्य त्वमसीति बोध्यते। तदेदं वाक्यं सिद्धसाधनं ज्ञातस्यैव ज्ञापकं स्यात्। बोध्येनास्य अर्थस्य प्रागेव विदितत्वात्। तथाचाशास्त्रं स्यात्।
॥ चिन्मात्रत्वादिना व्यावृत्तस्य ब्रह्मणः उपजीव्यत्वमित्येतस्य दूषणम्॥
मा भूत् तत्त्वादिना व्यावृत्तं ब्रह्मोपजीव्यम्। “विज्ञानमानन्दं ब्रह्म” इत्यादिश्रुत्या ब्रह्मलक्षणत्वेन उक्तेन चिन्मात्रत्वादिना तु भविष्यतीत्यत आह चिन्मात्रत्वं चेति।
चिन्मात्रत्वं च नैवेष्टमविशेषत्ववादिनः।
तावन्मात्रं यदीष्टं स्यात् सर्वर्ज्ञत्वं कुतो न तत्॥१६५॥
मात्रशब्देन चितः सर्वविषयत्वादिकं व्यावर्तयति। आनन्दत्वादेरप्युपलक्षणमेतत्। ब्रह्मण इति शेषः। चिन्मात्रत्वादिकं न ब्रह्मणो भिन्नम्, अतो निर्विशेषत्वाविरोधात् तदङ्गीक्रियत इत्यत आह तावन्मात्रमिति। तत् तर्हि तस्यापि श्रुतत्वादभिन्नत्वाच्चेति भावः। अभेदे कथं लक्षणत्वमिति चेत्। समं विज्ञानादावपि। उक्तश्च लक्ष्यलक्षणप्रकारो लक्षणसूत्र इति। (१९८)
॥ तत्वमस्यादिवाक्यानां चिन्मात्राभेदप्रतिपादकत्वे ज्ञातज्ञापनप्रसङ्गः॥
श्रुतत्वसाम्येऽपि चिन्मात्रत्वादिकमेव धर्मिणि निवेश्यते, अविरुद्धत्वात्। न सर्वज्ञत्वादिकम्, विरुद्धत्वात्। यथा नेदं रजतमिति ज्ञानेऽविरुद्धपुरोवर्तित्वाद्युपेतस्य धर्मित्वं न विरुद्धरजतत्वाद्युपेतस्य इत्यत आह चिन्मात्रेति।
चिन्मात्राभेदसाध्येऽपि सिद्धं तत् प्रतिवादिनः।
स्वाभेदाङ्गीकृतेरेव चित्त्वं स्वस्यापि यन्मतम्॥१६६॥
चिन्मात्रेणाभेदश्चिन्मात्राभेदः स साध्यः प्रतिपाद्यो यस्य तत् तथोक्तम्। तत्त्वमस्यादिवाक्ये चिन्मात्राभेदसाध्येऽङ्गीकृतेऽपि तद्वाक्यं सिद्धसाधनं भवेदित्यन्वयः। तत् कथमित्यत आह सिद्धमिति। तच्चिदैक्यं प्रतिवादिनो बोध्यस्य यत इति शेषः।
कथं सिद्धमित्यत आह स्वेति। स्वस्य स्वेनाभेदाङ्गीकृतेः। एवशब्दस्य सिद्धमिति पूर्वेण सम्बन्धः। स्वाभेदाङ्गीकृतौ चिदभेदः कथं सिद्ध इत्यत आह चित्त्वमिति। स्वस्य बोध्यस्य यद् यस्मान्मतं सम्मतम्।
एतदुक्तं भवति विरोधभयात् सर्वज्ञत्वादिविशिष्टं न धर्मीक्रियते इति वदता चिदानन्दरूपमपि न धर्मीकर्तव्यम्, ज्ञातज्ञापनप्रसङ्गात्। विरोध इव ज्ञातज्ञापनस्याप्यशास्त्रताहेतुत्वे विशेषाभावात्। चिन्मात्रं त्वदतिरिक्तं नास्तीति वाक्यार्थ इति चेत्, न। अप्रतिभासनात्। गत्यन्तराभावादित्थं कल्प्यत इति चेत्, न। सूत्रकृतैवार्थान्तरस्योक्तत्वात्। (८९७)
॥ सर्वज्ञत्वादीनां परसापेक्षत्वाद् ब्रह्मस्वरूपत्वाभावे ब्रह्मणश्चेतनत्वस्याप्यङ्गीकारायोगः॥
न विरोधभयाद् वयं सार्वज्ञ्यादिकं धर्मिणि न निवेशयामः। किन्तु सर्वज्ञत्वादिकं हि न ब्रह्मणो भिन्नम्, “नेह नाना” इत्यादिश्रुतिविरोधात्। नापि स्वरूपम्। तस्य वियदादिसर्वसापेक्षत्वात्। सर्वस्य च मिथ्यात्वात्। नहि तथाभूतस्य सत्यस्वरूपता सम्भवति। चिदानन्दादेस्तु ब्रह्मस्वरूपत्वे न काऽप्यनुपपत्तिरित्याशयवानाशङ्कते सर्वेति।
सर्वापेक्षतया सर्वज्ञत्वमित्येव तन्न हि।
इति चेच्चेतनत्वं च ज्ञत्वं न ज्ञेयवर्जितम्।
स्वज्ञेयत्वं च नैवासौ मन्यते सविशेषतः॥१६७॥
सर्वज्ञत्वं वर्तत इति शेषः। इतिशब्दो हेतौ। एवशब्दस्य तदेवेत्यनेन सम्बन्धः। नहि मिथ्येत्यर्थः। परिहरति चेतनत्वं चेति। यत् परसापेक्षं तन्न सदित्यङ्गीकारे ब्रह्मणश्चेतनत्वं च न स्यादित्यर्थः। कुत इत्यतो ल्युत्ययस्यानेकार्थत्वात् कर्तृवाचितां तावदुपादाय व्याचष्टे ज्ञत्वमिति। चेतनत्वं नाम तावज्ज्ञत्वमित्यर्थः।
ततः किमित्यत आह नेति। ज्ञत्वमिति वर्तते। किन्तु ज्ञेयसापेक्षमेव। ज्ञानक्रियां प्रति कर्तृत्वं खलु ज्ञत्वम्। सकर्मकक्रियावचनश्च जानातिः। अतः कर्मापेक्षक्रियाकर्तृत्वमपि सापेक्षमेव।
तथाऽपि कुतश्चेतनत्वं न स्यादिति चेत्। ज्ञस्य ब्रह्मणो ज्ञेयं स्वयमेव वा स्यात्, परं वा? नाऽद्य इत्याह स्वेति। चस्त्वर्थः। असौ मायावादी।
कुतो न मन्यत इत्यत आह सविशेषत इति। सविशेषत्वप्रसङ्गात्। प्रत्यक् पराग्भावलक्षणो हि कर्तृकर्मभावो नैकत्रैकस्य युज्यते। यदिच स्यात्, तदा भेदप्रतिनिधिना विशेषेण घटनीयः। अतो ब्रह्मणो ज्ञत्वज्ञेयत्वयोरङ्गीकारे विशेषोऽङ्गीकर्तव्यः स्यात्। निर्विशेषं च ब्रह्माङ्गीकृतमिति स्वज्ञेयत्वं न मन्यते। ततश्च परमेव ज्ञेयं वक्तव्यम्। तच्च मिथ्याभूतमिति कथं तदपेक्षं चेतनत्वं सत् स्यादिति। एवं ज्ञत्वस्य ज्ञानसापेक्षत्वमपि वक्तव्यम्।
॥ स्वरूपमात्रस्योपजीव्यत्वपक्षनिरासः॥
किञ्चैवं वदता स्वरूपमात्रमुपजीव्यमित्यपि वक्तुं न शक्यते। तस्यापि स्वशब्देन परापेक्षताप्रतीतेरित्याह स्वशब्दोऽपीति।
स्वशब्दोऽपि परापेक्षः तस्माद् व्यावृत्तिरेव हि।
स्वशब्दार्थ इति प्रोक्तः .....................॥१६८॥
परापेक्षः परापेक्षस्यार्थस्य प्रतिपादकः। कथमित्यत आह तस्मादिति। परस्मात्। हिशब्दो हेतौ। अर्थः प्रवृत्तिनिमित्तम्। इति प्रोक्तः शब्दशक्तिज्ञैः। स्वं च तद्रूपं चेति हि स्वरूपम्। रूपशब्दश्च स्वपरसाधारणः। तेन स्वस्मिन् प्राप्तेऽप्युच्यमानः स्वशब्दः परिसङ्ख्यान्यायेन परव्यावृत्तिमेव प्रतिपादयतीति ज्ञायते।
सत्यमेतदेवं व्याख्याने। नचैवमित्यत आह स्वरूपमिति।
..................... स्वरूपं नाम किं नचेत्॥१६८॥
न स्वरूपाभिधायि स्यात् वैयर्थ्यं स्वपदस्य यत्।
रूपशब्देन पूर्णत्वात् तच्च सामान्यतावचः॥१६९॥
अस्मादभिप्रेतं व्याख्यानं नचेदङ्गीक्रियते, तदा स्वरूपं नाम किम्, न किमपि। स्वरूपशब्दो निरर्थकः स्यादित्यर्थः।
रूपशब्दसमानार्थः स्वरूपशब्द इत्यतः कथमेतदिति चेदत्र वक्तव्यम्। स्वं च तद् रूपं चेति व्युत्पत्तिमङ्गीकृत्यैवमुच्यते, उताखण्ड एवायं शब्द इत्युपेत्य? आद्ये दोषमाह वैयर्थ्यमिति। यस्मादस्मिन् पक्षे स्वशब्दस्य वैयर्थ्यं तस्मात् स्वरूपं नाम किमिति सम्बन्धः। कुतो वैयर्थ्यमित्यत आह रूपेति। स्वरूपशब्दे यो रूपशब्दः, तेनैव रूपशब्दार्थाभिधानस्य पूर्णत्वात्। नहि रूपशब्दो रूपशब्दार्थं नाभिधत्त इति सम्भवति। अन्यथोत्पलनीलोत्पलशब्दावप्येकार्थो स्याताम्।
द्वितीयं निराकरोति तच्चेति। तद् रूपपदम्। चो यस्मादित्यर्थे। सामान्यतावचः सामान्याकारस्य वाचकम्। चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ्प्रत्ययः।
एतदुक्तं भवति प्रतीतिप्रमाणक एव शब्दार्थनिश्चय इति हि शाब्दाः। तत्र रूपशब्दः सामान्याकारस्याभिधायकः। सर्वेषां ततस्तत्प्रत्ययात्। स्वरूपशब्दश्चासाधारणाकारस्य। तस्मात् तत्प्रतीतेः। तस्मान्न तयोरेकार्थत्वमिति।
॥ चैतन्यस्य ज्ञानार्थकत्वात्, ज्ञानस्य ज्ञेयज्ञातृकरणसापेक्षत्वात्, ब्रह्मणो ज्ञानत्वादिधर्मप्रसक्तेश्च मायामते ब्रह्मणश्चैतन्याङ्गीकारायोगः॥
यदुक्तं चेतनत्वं ब्रह्मणो न स्यादिति, तदिष्टापादनम्। नहि वयं ब्रह्मणश्चेतनत्वमङ्गीकुर्मः। क्रियावेशलक्षणस्य कर्तृत्वस्य निर्विकल्पकेऽभावात्। किन्तु चैतन्यमेव ब्रह्म। तदर्था एव चेतनत्ववादा व्याख्यातव्या इत्यतश्चैतन्यमपि न परेण शक्याङ्गीकारमिति भावेन तद् व्याख्याति चेतनस्येति।
चेतनस्य स्वभावो हि चैतन्यमिति गीयते।
तस्माद् विशेषबाहुल्यं चैतन्यस्य विशेषतः॥१७०॥
भावः शब्दप्रवृत्तिनिमित्तम्। तस्यात्रानागन्तुकत्वं ज्ञापयितुं स्वशब्दः। इति हि गीयत इत्यनेन “गुणवचनब्राह्मणादिभ्यः कर्मणि च” इति स्मृतिं सूचयति। चेतनशब्दप्रवृत्तिनिमित्तं च ज्ञानम्। “चिती सञ्ज्ञाने” इति पाठात्। ततश्च ज्ञानं ब्रह्मेत्युक्तं भवति।
ततः किमित्यत आह तस्मादिति। यस्माच्चैतन्यं नाम ज्ञानम्, तस्माच्चैतन्यस्य ब्रह्मणो विशेषतोऽतिशयेन विशेषबाहुल्यं प्रसज्यते। ज्ञानं हि ज्ञेयज्ञातृकरणसापेक्षं भवति। ज्ञानत्वादिधर्माश्च अनिवार्याः। नच सविशेषं ब्रह्म परेणाङ्गीक्रियते। ज्ञेयादिकं च न स्वयम्, विरोधात्। परन्तु मिथ्येति तत्सापेक्षं ज्ञानं कथं सत् स्यात्?
॥ ज्ञानस्य ज्ञेयज्ञातृसापेक्षत्वसमर्थनम्॥
ब्रह्मणो ज्ञानत्वे ज्ञेयाद्युपेतता कुत इति चेत्, ज्ञानत्वात्, प्रसिद्धज्ञानवत्। नच ज्ञानत्वमसिद्धमिति युक्तम्। अङ्गीकारविरोधात्। व्याप्तिमुपपादयति नेति।
न ज्ञेयज्ञातृहीनं हि ज्ञानं नाम क्वचिद् भवेत्।
ज्ञेयज्ञानविहीनश्च ज्ञ इत्यत्र नच प्रमा॥१७१॥
यदुक्तं प्राग् ब्रह्मणश्चेतनत्वे ज्ञेयज्ञानोपेतत्वेन भाव्यमिति, तत्रापि ज्ञत्वात् सम्मतवदिति नियामकमभिप्रेतम्। प्रसङ्गात् तस्यापि व्याप्तिमुपपादयति ज्ञेयेति। आद्यश्चशब्दो ज्ञेयादिराहित्यज्ञत्वयोः समुच्चये। द्वितीयस्तु व्यभिचारद्वयसमुच्चये।
॥ ज्ञानस्य ज्ञेयाद्युपेतत्वानङ्गीकारे बाधकोक्तिः॥
ननु प्रसिद्धस्य ज्ञानस्य ज्ञेयाद्युपेतत्वेऽपीदं ब्रह्मस्वरूपं ज्ञानं तद्रहितं भवतु, किं बाधकमित्यत आह ज्ञातृज्ञेयेति।
ज्ञातृज्ञेयविहीनं च ज्ञानं चेद् भोक्तृभोज्यतः।
हीनं भोजनमेव स्यात् ताडनं कर्तृताड्यतः॥१७२॥
हीनमेवेति सम्बन्धः। कर्तृताड्यत इति ताडयितृताड्याभ्यां हीनं स्यादित्यर्थः। धात्वर्थोऽपि ज्ञानं यदि कर्तृरहितं स्यात्। आकाङ्क्षावशात् सकर्मकतया प्रतीयमानमपि च यदि निष्कर्मकं स्यात्, तदोक्तो बहुतरोऽतिप्रसङ्गः, विशेषाभावादिति। ज्ञविषयेऽप्येवं भोज्यभोजनविहीनो भोक्ताऽपि स्यादित्यादिरतिप्रसङ्गो वाच्यः। नहि सकर्मकक्रियायाः कर्ता क्रियादिरहितो युक्त इति।
॥ अकार्यस्य कारकानन्वितत्वाङ्गीकारे अकार्यस्य वेदस्यापि वाच्यवक्तृविहीनत्वप्रसङ्गः॥
ज्ञाता ज्ञेयमिति च कारकाभिधानमेतत्। कारकमुत्पादकमिति च पर्यायावेतौ। कार्यमेव चोत्पादकमपेक्षते। अकार्यं च ब्रह्माख्यं ज्ञानमिति न तस्य कर्त्राद्यपेक्षेत्याशयवान् शङ्कते नित्यत्वादिति।
नित्यत्वात् तादृशं च स्यादिति चेन्नित्यवागपि।
वाच्यवक्तृविहीना स्यान्नहि सा चैव तादृशी॥१७३॥
नित्यत्वमकार्यत्वस्योपलक्षणम्। अनित्यस्य भोजनादेर्भोक्त्त्राद्यपेक्षायामपीदं नित्यत्वात् तादृशं ज्ञात्रादिरहितं च स्यादित्यनेन व्यापकविरुद्धोपलब्ध्या व्याप्यविपर्ययः शङ्कितः। नोत्पादकमेव कारकम्। तथासत्यस्ति गगनमित्यादौ गगनादीनामकारकत्वप्रसङ्गात्। किन्तु धात्वर्थाश्रयः कर्ता, तद्विषयः कर्मेत्यादि।
आकाङ्क्षानाकाङ्क्षे एव च तदन्वितत्वानन्वितत्वयोः प्रयोजके, नतु कार्यत्वाकार्यत्वे। अत एव कश्विद् धात्वर्थः कर्माद्यन्वितः कश्चिन्नेति युज्यत इत्याशयवानाकाङ्क्षामप्रयोजकीकृत्य कार्यत्वाद्येव प्रयोजकीकुर्वाणस्यातिप्रसङ्गमाह नित्येति। अकार्यस्य कारकानन्वितत्वेऽकार्या वेदवाक् वाच्यवक्तृविहीना स्यात्। कार्यस्य च कारकान्वितत्वे कर्माद्यन्विततानियमोऽपि स्यादित्यपेरर्थः।
विपर्यये पर्यवसानमाह नहीति। सा तादृशी नैव हीति सम्बन्धः। द्वितीयप्रसङ्गस्य विपर्ययपर्यवसानं चशब्देनाऽह।
॥ वेदस्य सर्वदा वाच्यवक्तृसहितत्वसमर्थनम्॥
कथं न सा तादृशीत्यत आह द्रष्टार इति।
द्रष्टारो वेदवाचो हि सन्ति वाच्यानि चाञ्जसा।
नित्यो द्रष्टा च वाच्यश्च भगवानेव च स्वयम्॥१७४॥
नहि वक्तृविहीना च वाच्यहीनाऽपि वाक् क्वचित्।
ज्ञातृज्ञेयविहीनं च ज्ञानमेव न तद् भवेत्॥१७५॥
वक्तार इति वक्तव्ये द्रष्टार इत्युक्तमपौरुषेयत्वाविघातार्थम्। अञ्जसेति वाच्यसद्भावे न काचिदनुपपत्तिरित्युक्तम्। ननु सन्ति स्थितिसमये वेदवाचो वसिष्ठादयो द्रष्टारः, इन्द्रादयश्च वाच्याः। नतु महाप्रलय इत्यत आह नित्य इति। द्वौ च शब्दावन्योन्यसमुच्चये। तृतीयो यस्मादित्यर्थे वेदवाच इति वर्तते। हिशब्दः तस्मादित्यर्थेः। वाक् वेदवाक् । क्वचित् प्रलयेऽपि। यथा वेदवाग् वाच्याद्युपेताऽपि क्वचित् तद्रहिता, तथा ब्रह्मस्वरूपं ज्ञानं व्यवहारे ज्ञेयाद्यन्वितमपि परमार्थतस्तद्रहितं भविष्यतीति प्रत्याशां वारयितुमिदं वचनम्।
॥ उक्तार्थोपसंहारः॥
यस्मादेवं कार्यत्वादिकमप्रयोजकम्, किन्त्वाकाङ्क्षानिमित्तो नियतसम्बन्ध एव, तस्मान्नित्यवागिव नित्यमपि ज्ञानं ज्ञेयाद्युपेतमेवाङ्गीकार्यमित्युपसंहरति ज्ञातृज्ञेयेति। ननु वा न धात्वर्थः। अपितु धात्वर्थं प्रति कर्म। तत् कथमत्रोदाहरणम्? उच्यते आकाङ्क्षानिमित्तं प्रतिसम्बन्ध्यन्वितत्वं नित्यत्वेन न हीयत इत्येतावन्मात्रेण वागुदाहरणस्य गृहीतत्वान्न दोषः। वागित्युक्ते हि किंवक्तृका, किंवाच्या इत्याकाङ्क्षा भवत्येव। वर्णानामप्यर्थवत्त्वस्य स्थितत्वान्न नित्यत्ववाच्यवत्त्वयोर्व्यधिकरणत्वम्।
ज्ञस्यापि नित्यत्वेन ज्ञेयादिरहितत्वशङ्कैवमेव परिहार्येत्याह नहीति।
नहि नित्योऽपि वक्ताऽस्ति वाक्यवाच्यविवर्जितः।
ज्ञानज्ञेयविहीनश्च ज्ञोऽप्येवं नैव विद्यते॥१७६॥
नित्योऽपि वक्ता परमेश्वरो वाक्यवाच्यविवर्जितो नास्ति। यस्मात् तस्मादेवं नित्योऽपि ज्ञो ज्ञानज्ञेयविहीनो नैव विद्यते। शक्तिः कारकमिति पक्षस्य स्थितत्वान्नित्यो वक्तेति युज्यते। अनेनोभयत्र व्याप्त्यभावेन व्यापकविरुद्धोपलब्धिरसिद्धेत्युक्तं भवति।
॥ प्रपञ्चमिथ्यात्वस्य अप्रामाणिकत्वम्॥
मिथ्याभूतपरसापेक्षस्य सार्वज्ञ्यस्यापि मिथ्यात्वमङ्गीकुर्वाणस्य चेतनत्वाद्यभावप्रसङ्गोऽभिहितः। इदानीं प्रपञ्चमिथ्यात्वं चाप्रामाणिकमित्याह किञ्चेति।
किञ्च सर्वविलोपश्च केन मानेन गम्यते।
सर्वविलोपः सर्वस्य मिथ्यात्वम्। न तावत् प्रत्यक्षेण, तस्य सत्यताग्राहित्वात्। नाप्यनुमानेन, प्रत्यक्षबाधितस्य तस्य प्रामाण्याभावात्। नचाऽगमेन। प्रपञ्चमिथ्यात्वं प्रतिपादयतस्तस्याभावात् इत्याक्षेपार्थः।
॥ “नेह नाना’ इत्यादिवाक्यस्य सर्वमिथ्यात्वप्रतिपादकत्वासम्भवः॥
ननु “नेह नानाऽस्ति किञ्चन” इत्यागमस्य सद्भावात् कथं विश्वमिथ्यात्वे मानाभाव इति चेत्, अत्र पृच्छामः अत्र सर्वस्य मिथ्यात्वं प्रतिपादयति वाक्ये सर्वान्तर्गतत्वेनेदं वाक्यमेतद्वाक्यार्थश्च गृह्यते, नवेति। आद्यमनूद्य दूषयति सर्वेणेति।
सर्वेण सह तद्वाक्यमर्थश्च यदि गृह्यते।
तदभावेन सर्वस्य नापलापो भवेत् तदा॥१७७॥
न गृह्यते चेत् तन्न्यायादपलापो नहि क्वचित्।
उपपत्तिविहीनस्य वाक्यस्यार्थो न गम्यते॥१७८॥
तदभावेन वाक्यवाक्यार्थयोर्मिथ्यात्वेन कारणेन। वाक्याभावे प्रतिपादकाभावाद् वाक्यार्थस्य सर्वमिथ्यात्वस्याभावे च व्याघातात्।
द्वितीयमनूद्य दूषयति न गृह्यते चेदिति। क्वचिद् वियदादिविषयेऽप्यपलापो निषेधो न युज्यते। तन्न्यायाद् वाक्यादिन्यायात्।
अयमर्थः वाक्यवाक्यार्थौ कुतः सर्वस्माद् बहिष्क्रियेते इति वाच्यम्। अनुपपत्तेरिति चेत्। किमनुपपन्नं न प्रतिपादनीयम्? अद्धेति चेत्। एवन्तर्हि वियदादिमिथ्यात्वमप्यनुपपन्नत्वान्न प्रतिपादनीयमिति।
ननु वाक्योदाहरणे कृते नैवंविधं वाक्यमस्तीति वा, एषां पदानामत्र शक्तिर्नास्तीति वा, नास्य वाक्यस्यात्र तात्पर्यमस्तीति वा वक्तव्यम्। अनेन विकल्पनिराकरणेन तु किं कृतं स्यादित्यत आह उपपत्तीति। विहीनस्य विरुद्धस्य। अर्थस्तात्पर्यम्।
एतदुक्तं भवति न ब्रूमो वयं नास्तीदं वाक्यमिति। नाप्येषां पदानामत्र शक्तिर्नास्तीति। किन्त्वस्य वाक्यस्य प्रपञ्चमिथ्यात्वे तात्पर्यं नास्तीति। उपपत्तिविरोधाभावो हि प्रतीतार्थे तात्पर्यस्य ज्ञापकः। अत्र चास्त्युपपत्तिविरोध इति ज्ञापनाय विकल्प्य दूषणाभिधानं कृतमिति।
॥ उपपत्तिविरुद्धत्वात् “नेह नाना’ इत्यादेः प्रपञ्चमिथ्यात्वपरत्वाभावः॥
स्यादेतत्। उपक्रमोपसंहाराभ्यासापूर्वताफलार्थवादोपपत्तयः श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्याश्च तात्पर्यलिङ्गानि। तत्रोपपत्तिविरोधेऽप्यन्यैर्लिङ्गैरस्य वाक्यस्य प्रपञ्चमिथ्यात्वे तात्पर्यमवगम्यतामित्यत आह उपक्रमादिति।
उपक्रमादिलिङ्गानां बलीयो ह्युत्तरोत्तरम्।
श्रुत्यादौ पूर्वपूर्वं च ब्रह्मतर्क विनिर्णयात्॥१७९॥
उपक्रमादिलिङ्गानां मध्ये यद्यदुत्तरं तत्तद् बलीय इत्युपपत्तिरेव बलीयसी। श्रुत्यादौ लिङ्गसमूहे यद्यत् पूर्वं तत्तद् बलीय इति। तत्रापि लिङ्गशब्दोदितोपपत्तिरेव बलवती। ततो बलवद्विरोधे सतामन्येषां लिङ्गानां न तात्पर्यनिश्चायकत्वं युक्तम्। कुत एतदित्यत आह ब्रह्मतर्केति। ब्रह्मतर्काख्ये तर्क शास्त्रे तथा निर्णीतत्वात्। एतेनोपक्रमस्योपसंहारात् प्राबल्यं वदन्तो निरस्ताः। यथाचैतत्, तथोक्तं न्यायविवरणे।
॥ सर्वप्रमाणविरुद्धत्वाच्च “नेह नाना’ इत्यादेः न प्रपञ्चमिथ्यात्वपरत्वम्॥
इतश्च नाप्यस्य वाक्यस्य प्रपञ्चमिथ्यात्वे तात्पर्यमित्याह प्रत्यक्षमिति।
प्रत्यक्षमुपपत्तिश्च बहवश्चागमा यदा।
विरुद्ध्यन्ते नचार्थोऽस्ति यत्र लिङ्गविरोधिता॥१८०॥
स एवार्थः कथं ग्राह्य उपपन्नेऽविरोधिनि।
मुख्यार्थे विद्यमाने तु क्व सार्वज्ञ्यं निषिद्ध्यते॥१८१॥
सद् गगनमित्यादि प्रत्यक्षम्। तच्च साक्षिरूपत्वाद् बलवत्। उपपत्तिश्चार्थक्रियाकारित्वादिका। सा च व्याप्त्यादिमत्त्वाद् बलवती। आगमाश्च “विश्र्वं सत्यम्” इत्याद्याः। तेषां प्राबल्यव्युत्पादनाय बहव इत्युक्तम्। निरवकाशत्वाद्युपलक्षणमेतत्। यदा यस्मिन्नर्थेऽङ्गीकृते। यत्र यदर्थप्रतिपादनेऽर्थः प्रयोजनं च नास्ति। ब्रह्मणोऽद्वितीयतासिद्धिः प्रयोजनमिति चेत्, न। तस्या एवाप्रामाणिकत्वात्। आत्मनो मुक्तिसिद्धिरिति चेत्, न। दुःखसाधनताज्ञापनेन तत्सिद्धेः। अर्थग्रहणमुपलक्षणम्। उपक्रमादीनामप्यानुकूल्यं नास्तीति च द्रष्टव्यम्। न केवलं लिङ्गानुकूल्याभावः। किन्नाम। यत्र लिङ्गविरोधिता च। एतद्द्वयं ग्रन्थान्तरे तत्रतत्रोक्तं ज्ञातव्यम्।
तर्हि निरवकाशं वाक्यमप्रमाणं प्रसज्यत इत्यत आह उपपन्न इति। प्रत्यक्षादिप्रमाणोपक्रमादिलिङ्गाविरोधिनि तदानुकूल्योपपन्ने च भगवति स्वगतभेदाभावेऽर्थे वाक्यस्य सति स एवार्थः कथं ग्राह्यः?
“नेह नाना” इति वाक्यस्यापव्याख्याने निराकृते लब्धमाह मुख्यार्थ इति। प्रतिषेधस्य सङ्कोचे कारणाभावेन प्रपञ्चमिथ्यात्वं मुख्योऽर्थः। तस्मिन्नविद्यमाने तु सार्वज्ञ्यं न प्रतिषेद्धुं शक्यते। मिथ्यार्थसापेक्षतया हि तन्निषेद्ध्यम्। यद्वोपपन्न इत्यादिकमेकं वाक्यम्। उपपन्नेऽविरोधिनि च। अत एव मुख्यार्थे वाक्यस्य विद्यमाने सति। अनेन प्रपञ्चमिथ्यात्वासिद्धेः क्व सार्वज्ञ्यं निषिद्ध्यत इति योजना। सङ्गतिस्तूक्तसङ्गतिसमाहारेण द्रष्टव्या।
॥ उक्तार्थोपसंहारः॥
“सर्वं तदुपजीव्यैव” इत्यादिनोक्तमर्थमुपसंहरति अत इति।
अतः सर्वगुणैयुक्तं ब्रह्माङ्गीकार्यमेव हि।
अपलापोऽपि सर्वस्य न कथञ्चन युज्यते॥१८२॥
अङ्गीकार्यं धर्मितयेति शेषः। तथाचोपजीव्यविरोधस्तत्त्वमस्यादिवाक्यस्य दुर्वार इति हेरर्थः। स्यादेतत्। सार्वज्ञ्यादिगुणोपेतमेव ब्रह्म धर्मीकुर्मः, किन्तु तेषां मिथ्यात्वान्नोपजीव्यविरोधोऽद्वैतागमस्य। यथा यः पुरुषः स स्थाणुरित्यत्राऽरोपितेन पुरुषत्वेन व्यावृत्तं वस्तु धर्मीकृत्य प्रवृत्तावपि नोपजीव्यविरोध इत्यत आह अपलापोऽपीति। मिथ्यात्वाभिधानम्। अपिशब्दः पूर्ववाक्यार्थसमुच्चये। सर्वशब्देन प्रकृतं गुणजातमुच्यते। कथञ्चनेति प्रमाणाभावात्, श्रुत्यादिप्रमाणविरुद्धत्वाच्च। अप्राप्तेनानुवादत्वाभावस्य चोक्तत्वादित्यर्थः।
॥ जीवानां नानाविधानादियोग्यतायाः प्रमितत्वात् न जीवब्रह्मैक्योपपत्तिः॥
ननुच तत्त्वमस्यादिवाक्यमेव जीवब्रह्मणोरेकतां प्रतिपादयत् सार्वज्ञ्यादिगुणजातस्य मिथ्यात्वं गमयति। नहि तस्य सत्यत्वे जीवब्रह्मैकत्वमुपपद्यते। तत् कथं गुणानां मिथ्यात्वे प्रमाणाभाव इति चेत्, न। सिद्धे तत्त्वमस्यादिवाक्यस्य जीवब्रह्मैकत्वनिष्ठत्वे गुणानां मिथ्यात्वसिद्धिः, तत्सिद्धौ च तत्सिद्धिरिति परस्पराश्रयतादोषात्। दोषान्तरं चाऽह अनादीति।
अनादियोग्यता चोक्ता तेन ग्राह्यैव सर्वथा।
मुक्तानां तारतम्यं च मानैरुक्तैर्न चाल्यते॥१८३॥
यस्माज्जीवानामनादियोग्यतोक्ता प्रमाणैरुपपादिता, तेन कारणेन सा ग्राह्यैव सर्वथा।
एतदुक्तं भवति यदा देवमानवदानवरूपा तदवान्तरभेदरूपा च जीवानां योग्यताऽनादिनित्या प्रमिता, तदा का वार्ता जीवब्रह्मणोरेकत्वस्य? तथाच कथं तत्सिद्धये गुणानां मिथ्यात्वकल्पनमिति।
॥ मुक्तानामपि तारतम्यस्य प्रमितत्वात् न जीवब्रह्मैक्योपपत्तिः॥
अत्रैव हेत्वन्तरमाह मुक्तानामिति। मानैरुक्तैरिति मानानामुक्तत्वादित्यर्थः। न चाल्यते नान्यथयितुं शक्यते। यदा मुक्तावपि तारतम्यं प्रमितम्, तदा का जीवब्रह्मैक्यप्रत्याशा? कथञ्च तत्त्वमस्यादिवाक्यस्य तत्परत्वम्? यतो गुणानां मिथ्यात्वकल्पनं युक्तं स्यादिति।
॥ ज्ञानिकृतशुभाशुभकरणपरित्यागान्यथानुपपत्त्याऽपि मुक्तौ तारतम्यसिद्धिः॥
मुक्तानां तारतम्ये प्रमाणान्तरमाह ज्ञानिनोऽपीति।
ज्ञानिनोऽपि यतो नित्यं कुर्वन्ति शुभमेव हि।
तारतम्यं तु मुक्तौ च तेनैवाध्यवसीयते।
तारतम्यं नचेन्मुक्तौ कुतः कुर्युः शुभं पुनः॥।१८४॥
एवशब्देन पापं परिहरन्ति चेति सूचयति। तुशब्देन शुभाशुभकरणपरित्यागयोः तारतम्यं द्योतयति। हिशब्देन तत्र प्रमाणप्रसिद्धिम्। प्रमाणानि तु “दशकल्पम्” इत्यादीनि प्रागुदाहृतान्येव। तेनैवेत्यस्य प्रमाणस्य निरवकाशतामाह। प्रामोक्षसाधनानां तारतम्यान्मोक्षतारतम्यमुक्तम्। इदानीं तु ज्ञानेन निश्चितमोक्षाणामपि शुभाशुभकरणपरित्यागतारतम्यादुच्यत इति भेदः। विपक्षे बाधकमाह तारतम्यमिति। पुनरिति ज्ञानोत्तरम्। यदि ब्रह्माद्या तारतम्यवन्तो न स्युः, तदा ज्ञानमात्रेण मोक्षस्य प्राप्तप्रायत्वाज्ज्ञानोत्तरकालं शुभं न कुर्युः। अशुभं च न परित्यजेयुरित्यर्थः।
विपर्ययपर्यवसानमाह कृच्छ्रेणेति।
कृच्छ्रेणापि तपो ज्ञानं कर्माप्येते चरन्ति हि।
बिभ्यति स्माशुभान्नित्यं सकामाश्च शुभे सदा॥१८५॥
तपो ज्ञानं कर्मापीत्यनेन शुभमित्युक्तं भवति। ज्ञानमिति श्रवणादिकमुच्यते। कर्मेति यज्ञादि। एते ज्ञानिनः। कृच्छ्रेणापीत्यादिविशेषणानां फलमनुपदमेव ज्ञास्यते। सकामाश्च शुभे सदेत्येकस्य तपआदेश्चरणकाले तपआद्यन्तरं कामयन्त इत्यर्थः। तस्माज्ज्ञानोत्तरकालानुष्ठितेन विचित्रेण शुभेन विचित्रामानन्दवृद्धिं प्राप्नुवन्तीति शेषः।
॥ प्रत्यवायभयेन कृच्छ्रेण चानुष्ठानात् न ज्ञान्याचारास्य स्वाभाविकत्वम्॥
भवेदेतद् यदि ज्ञानोत्तरकालकृतानां शुभानां फलवत्त्वं स्यात्। नचैवम्। तेषां कर्मस्वनधिकारात्। अनधिकारिणा च कृतं विफलमिति प्रसिद्धमेव। अनुष्ठानं त्वन्यथाऽप्युपपद्यते। ते हि प्राग् ज्ञानोदयादादरनैरन्तर्याभ्यां शुभान्यनुष्ठितवन्तः, तत्स्वाभाव्यमापन्ना ज्ञानोदयानन्तरमप्यनुतिष्ठन्तीत्याशय परिहरति नचेति।
नच स्वभाव एवायं भयपूर्वप्रवृत्तितः।
कृच्छ्रेणाऽचरणाच्चैव शुभस्यैव पुनःपुनः॥१८६॥
अयं ज्ञानिनां शुभाचरणरूपः। अकरणे प्रत्यवायो भविष्यतीत्येवं भयपूर्वप्रवृत्तितः कृच्छ्रेणैव आचरणाच्च, शुभस्यैवेति प्रेक्षापूर्वमशुभपरित्यागेनेत्यर्थः। एतेन कृच्छ्रेणापीत्यादिविशेषणफलमुक्तं भवति। नहि स्वभावकृता प्रवृत्तिरेवं भवितुमर्हति।
॥ उक्तार्थसमर्थनम्॥
नन्वेते प्रागनुष्ठानकाले भयपूर्वं कृच्छ्रेणाशुभपरित्यागेनैवानुष्ठितवन्तः। अतः तत्स्वभावा एव संवृत्ता इदानीमपि तत्स्वाभाव्येन तथैव कुर्वन्तीत्यङ्गीकारे को दोष इत्याशयाऽह तादृशोऽपीति।
तादृशोऽपि स्वभावश्चेदज्ञस्यापि भवेत् तथा।
फलवत्त्वे प्रमाणं चेत् तत्र ज्ञस्य समं हि तत्॥१८७॥
भयपूर्वप्रवृत्त्यादिरूपोऽपि। ज्ञानिनस्तावदनुष्ठानेऽज्ञेभ्यो न विशिष्यन्ते। तत्र ज्ञानिनां शुभप्रवृत्तिः पूर्वतरपूर्वतमस्वभावबलायातैव, नतु फलवतीत्यङ्गीकुर्वाणं प्रति यदि कश्चिद् ब्रूयात् अज्ञानिनामपि शुभा प्रवृत्तिः पूर्वतरपूर्वतमस्वभावागतैव, नतु फलवती विशेषाभावादिति, तदा किंवाच्यमिति।
प्रतिबन्दीं मोचयितुमाशङ्कते फलवत्त्व इति। अज्ञानिनां कर्मणोऽस्तीति शेषः। साम्ये हि प्रतिबन्दीग्रहः। नच तदत्रास्ति। यतोऽज्ञानिकृतकर्मणां सफलत्वे “कर्मजं बुद्धियुक्ता हि” इत्यादिकं प्रमाणमस्ति। उपलक्षणं चैतत्। अधिकारिणश्चैते विधिगोचराश्चेत्यपि द्रष्टव्यम्। नह्येवंसति स्वभावकल्पनावकाशोऽस्तीति।
एवन्तर्हि ज्ञानिष्वपि न स्वभावकल्पना युक्तेत्याशयवानाह तत्रेति। तत्र कर्मणः फलवत्वे। तत् प्रमाणम्। अत्राप्यधिकारादिकमुपलक्षणीयम्।
॥ ज्ञानिकर्मणां फलवत्त्वे प्रमाणोपन्यासः॥
किं तत् प्रमाणमित्यतस्तद् दर्शयति निष्काममिति।
निष्कामं ज्ञानपूर्वं च निवृत्तमिह चोच्यते।
निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्॥१८८॥
शुभेनाऽनन्दवृद्धिः स्याद्ध्रासश्चैवाशुभेन हि।
ज्ञानिनोऽपि यतस्तेन कर्तव्यं शुभमेव तैः॥१८९॥
इह प्रवृत्तनिवृत्तयोर्मध्ये। अभ्येति अतिशयेनैति। आनन्दोद्रकसाहित्येन मुक्तो भवतीत्यर्थः। एतत्स्मृतिवाक्यार्थविवरणाय वाक्यान्तरं पठति शुभेनेति। ह्रासश्चाऽनन्दस्य। शुभमेव कर्तव्यमशुभं त्याज्यं च। अनेन विधिसद्भावोऽपि सिद्धः। ततोऽधिकारश्च।
अत्र श्रुतिमप्याह उपास्त इति।
उपास्ते स य आत्मानं क्षीयते नास्य कर्म ह।
अस्माद्ध्येवाऽत्मनो यद्यत् कामयेत् सृजते च तत्॥१९०॥
अविद्वान् बहुकर्माऽपि ह्यन्तवत् फलमाप्नुयात्।
यदेव विद्यया कुर्यात् तदेव ह्यतिवीर्यवत्।
इत्यादिवाक्यसामर्थ्यात् तारतम्यं विमुक्तिगम्॥१९१॥
अनेन “स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते अस्माद्ध्येवाऽत्मनो यद्यत् कामयते तत्तत् सृजत” इति श्रुतिमुपादत्ते। आत्मानं परमात्मानम्। लोकं सर्वाश्रयम्। उपास्ते कारणेन कार्योपलक्षणं पश्यतीत्यर्थः। स विद्वान् मुक्तो भूत्वा यद्यत् कामयते तत्तत् कर्मास्माद्ध्येवाऽत्मनोऽस्य आत्मनः प्रसादेन सृजते।
अविद्वानित्यनेन “यद्यप्यनेवंविन्महत् पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एव” इति श्रुतिमुपादत्ते। अनया चार्थाज्ज्ञानिकर्मणः साफल्यं सिद्ध्यति। उपरि चोपयोगो भविष्यति। (१२४६)
यदेवेत्यनेन “यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति” इति श्रुतिमुपादत्ते। विद्यया ब्रह्मसाक्षात्कारपूर्वकम्। उपनिषदा स्वयोग्यया। वीर्यवत्तरमधिकफलम्। इत्यादिवाक्यसामर्थ्यात् ज्ञानिकृतकर्मणां फलवत्त्वं तावत् प्रतीयते। ततस्तेषां वैचित्र्याद् विमुक्तिगं तारतम्यं च सिद्धमित्यर्थः।
॥ उदाहृतवाक्यानामुपासककर्मपरत्वशङ्कानिरासः॥
स्यादेतत्। नैतानि वाक्यानि ज्ञानिकर्मणां साफल्यं प्रतिपादयन्ति, “स य आत्मानम्” इत्यत्र तावदुपासककर्मणामक्षयफलत्वश्रवणात्। इतरत्र च ज्ञानविद्याशब्दयोः परोक्षज्ञानार्थत्वस्याप्युपपत्तेरित्याशङ्कां परिहरति नचेति।
नचात्रोपासकस्यैव फलमक्षयमुच्यते।
नहि ज्ञानं विना क्वापि फलस्याक्षयता भवेत्।
ज्ञानद्वारेण चेत् तस्य नास्मत्पक्षप्रतीपता॥१९२॥
अत्र वाक्येषु। फलं कर्मणाम्। तथा ज्ञानादिपदं परोक्षज्ञानार्थतया न व्याख्येयमित्यपि ग्राह्यम्। कुतो नेत्यत आह नहीति। ज्ञानं ब्रह्मसाक्षात्कारम्। क्वापि मोक्षेऽन्यत्र च। फलस्य कर्मणाम्।
इदमुक्तं भवति ब्रह्मसाक्षात्काररहितेनोपासकेन कृतानि कर्माण्यक्षयफलानि केन प्रकारेणेति चिन्त्यम्। किमक्षयं मोक्षं कुर्वन्तीति, उत स्वर्गादिकम्? नाऽद्यः, “नान्यः पन्थाः” इति श्रुतिविरोधात्। न द्वितीयः, “पुण्यचितो लोकः क्षीयते” इति स्वर्गादिफलानां क्षयित्वश्रवणात्। “अनेवंविन्महत् पुण्यं कर्म करोति”, “तदेव वीर्यवत्तरं भवति” इत्युदाहृतश्रुतिविरोधश्च पक्षद्वयेऽपि। तदेवमज्ञपक्षे वाक्यार्थानुपपत्तेरुपासकपदस्य ज्ञान्युपलक्षकत्वमेव युक्तम्। तथा “ब्रह्माभ्येति” इति श्रवणाज्ज्ञानपदस्य साक्षात्कारवाचित्वमेव युक्तमिति। अत एव वाक्यसामर्थ्यादित्युक्तम्। यद्यपि “पश्यन्नपीममात्मानम्” इत्याद्याः स्पष्टार्थाः श्रुतयोऽत्र सन्ति, तथाऽपि मीमांसार्थमेतासामुदाहरणम्।
नन्वज्ञपक्षेऽपि नानुपपत्तिः। उपासकेन कृतानि खल्वसङ्कल्पितफलानि कर्माणि ज्ञानमुपजनयन्ति। “कर्मणा ज्ञानमातनोति” इति श्रुतेः। ज्ञानेन मोक्षो भवतीत्यज्ञकृतकर्मणामपि ज्ञानद्वारेण अक्षयफलत्वोपपत्तेरित्याशयाऽह ज्ञानेति। कर्मफलस्याक्षयतेति वर्तते। तस्य परकृतव्याख्यानस्य। अस्मत्पक्षप्रतीपता मुक्ततारतम्यविरोधिता। प्रत्युत तदनुकूलतैव। मुक्तौ तारतम्यमसहमानेन खल्वेवमन्यथा व्याख्यानं क्रियते तन्मुक्ततारतम्यमेव साधयति। कर्माणि हि जिज्ञासवो विचित्राणि कुर्वन्ति। तैश्च जायमानेन ज्ञानेन विचित्र एव मोक्षो भावनीयः। पूर्वोक्तादेव हेतोरिति। तदेवं स्वमतविरोधिपरानुकूलमन्यथाव्याख्यानं न कार्यमेव। तथाचास्मद्व्याख्याने स्थिते प्रकृतं युक्तमिति।
॥ ज्ञानोत्तरकर्मणां मौक्तानन्दवृद्ध्यर्थत्वप्रतिपादनम्॥
अस्तु वाऽन्यथाव्याख्यानं युक्तम्। ततश्चैतेषां वाक्यानां प्रकृतासाधकत्वम्। एवमपि ज्ञानोत्तरकर्मणो मोक्षान्तर्गतफलहेतुतायाः प्रमाणान्तरेण सिद्धेर्मुक्ततारतम्यं न हातुं शक्यमित्यभ्युपगमवादेन आह ज्ञानोत्तरस्येति।
ज्ञानोत्तरस्यैवमपि ह्यक्षयत्वं नचान्यथा।
पूर्वभाविशुभानां हि ज्ञानेनैव कृतार्थता॥१९३॥
प्रारब्धानां तु भोगेन तज्ज्ञानोत्तरकर्मणाम्।
मुक्तावनुप्रवेशः स्यादन्यथा तत्कृतिर्नहि॥१९४॥
कर्मणोऽक्षयत्वमक्षयमोक्षानुप्रवेशिफलत्वं सिद्ध्यति। कथमित्यत आह नचेति। प्रकारान्तराभावात्। परिशेषप्रमाणादिति यावत्। एतेन ज्ञानोत्तरस्य कर्मणः साफल्येऽपि तस्य फलस्य मोक्षानुप्रवेशितायां प्रमाणाभावान्न मोक्षतारतम्यसिद्धिरित्यपि प्रत्युक्तम्।
परिशेषमेव दर्शयति पूर्वेति। ज्ञानिकृतेषु कर्मस्वेता विधास्तावत् सम्भवन्ति। ज्ञानार्थत्वं वा, भोगार्थत्वं वा, व्यर्थत्वं वेति। तत्र ज्ञानिकर्मणां ज्ञानार्थत्वं तावन्नोपपद्यते। पूर्वभाविशुभैरेव ज्ञानस्य कृतत्वात्। तत्र हेतुः पूर्वभावीति। ज्ञानात् पूर्वभाविनां शुभानां यस्माज्ज्ञानेनैव कार्येण कृतार्थता नान्येन। तेषां कार्यान्तराभावात्। ज्ञानार्थत्वाभावे वैयर्थ्यं स्यादित्यर्थः। पूर्वजातं प्रति पश्चाद्भाविनः कारणत्वायोगाच्च। नापि भोगार्थत्वम्। प्राचीनप्रारब्धकर्मभिरेव भोगस्य जायमानत्वात्। तत्र हेतुः प्रारब्धानां च कर्मणां भोगेनैव कृतार्थतेति। पूर्ववत् तात्पर्यम्। वैयर्थ्यनिरासहेतुरन्यथेति। ज्ञानिकर्मणां व्यर्थत्वे तदनुष्ठानं न स्यात्। नहि प्रेक्षावन्तो व्यर्थं कुर्वन्ति। करणस्वाभाव्यादिति चेत्। उबद्धिपूर्वताप्रसङ्गात्। लोकसङ्ग्र्रहार्थमिति चेत्, न। तत्प्रयोजनस्यापि वाच्यत्वात्। ईश्वरवदिति चेत्, न। मुक्तावपि प्रसङ्गात्। परिशेषफलकथनम् तत् तस्माज्ज्ञानोत्तरकर्मणां मुक्तावनुप्रवेशो मुक्तिगतानन्दवृद्ध्यर्थत्वं स्यादिति।
॥ विहितस्य निष्कामस्य च कर्मण एव ज्ञानहेतुत्वम्॥
पूर्वभाविशुभानि ज्ञानार्थानीत्युक्तम्। तत्र सर्वेषां ज्ञानार्थतायां प्रसक्तायां विशेषमाह ज्ञानादिति।
ज्ञानात् पूर्वाणि कर्माणि शुभानि ज्ञानसिद्धये।
अकाम्यानि निषिद्धानि ज्ञानरोधाय भुक्तये॥१९५॥
ज्ञानात् पूर्वाण्यकाम्यान्येव शुभानि कर्माणि पुण्यकर्माणि ज्ञानसिद्धये भवन्ति, नतु काम्यानि। शुभानीति विशेषणस्य कृत्यमाह निषिद्धानीति। ज्ञानानुत्पादः, उत्पन्नस्याप्यभिभवो वा ज्ञानरोधः। भुक्तये दुःखस्य। एवं काम्यस्यापि विनियोगो ज्ञातव्यः। एतच्च चतुर्थे व्युत्पादनीयम्।(१२९२)
॥ नित्यनैमित्तककर्मणामपि ज्ञानार्थत्वम्॥
ननु यथाऽकाम्यानि शुभानीति च विशेषणमुपादीयते, तथा नित्यनैमित्तिकव्यतिरिक्तानीत्यपि विशेषणमुपादेयम्। नित्यादेरपि प्रत्यवायपरिहारार्थत्वेन ज्ञानकारणत्वाभावादित्यत आह योग्यताया इति।
योग्यताया बलाद् यच्च शुभबाहुल्यमादितः।
ज्ञानबाहुल्यमेवैतत् कुर्यान्नान्यस्य कारणम्॥१९६॥
योग्यता ब्राह्मणत्वादिरूपा पितृमरणादिरूपा च। आदितो ज्ञानात् पूर्वं कृतम्। अन्यस्य प्रत्यवायमात्रपरिहारस्य। “आध्यानाय प्रयोजनाभावात्” इत्यत्रास्यार्थस्य समर्थितत्वान्नेह हेतुरुक्तः। अत्र योग्यताया बलाच्छुभमादितः कृतमेतच्च ज्ञानमेव कुर्यादिति च वक्तव्ये यदुभयत्र बाहुल्यग्रहणं कृतं तत् तस्य नास्मत्पक्षप्रतीपतेत्युक्तप्रपञ्चनार्थमिति।
॥ मोक्षसाधनप्रकरणे ज्ञानशब्दस्य माहात्म्यज्ञानपूर्वकस्नेहपरत्वम्॥
अत्र “पुरुषार्थोऽतःशब्दात्” इत्यादिना ज्ञानस्य मोक्षसाधनत्वमुक्तम्। अत्र च कर्मतारतम्याज्ज्ञानतारतम्यम्, ज्ञानतारतम्यान्मोक्षतारतम्यमिति वदता च सूचितम्। ज्ञानपदं चावबोधमात्रस्य प्रतिपादकमिति प्रतीतिनिरासार्थमाह ज्ञानस्येति।
ज्ञानस्य भक्तिभागत्वाद् भक्तिर्ज्ञानमितीर्यते।
अस्मिञ्छास्त्रे यत्रयत्र ज्ञानस्य मोक्षसाधनत्वमुच्यते तत्रतत्र ज्ञानमिति पदेन भक्तिर्गीयते लक्ष्यते। कुतः सम्बन्धात्? ज्ञानस्य भक्तिभागत्वात्। माहात्म्यज्ञानस्नेहसमुदायो हि भक्तिरित्युक्तम्। (३४) ततो ज्ञानं भक्तेर्भाग एकदेशः। तथाचैकदेशैकदेशित्वलक्षणात् सम्बन्धादित्युक्तं भवति। एकदेशेनैकदेशिलक्षणा च दशामात्रं दत्तमित्यादौ प्रसिद्धैव।
प्रकारान्तरमाह ज्ञानस्यैवेति।
ज्ञानस्यैव विशेषो यद् भक्तिरित्यभिधीयते॥१९७॥
यद् यदा ज्ञानस्यैव विशेषः स्नेहादिसाहित्यलक्षणो धर्मो भवति, तदा स पिण्डो भक्तिरित्यभिधीयते। एतदुक्तं भवति ज्ञानं स्नेहश्च भक्तेरंशौ। तत्रैकेनांशेनांशान्तरस्योपलक्षणम्। तथाचाजहल्लक्षणया भक्तिरेव सिद्ध्यतीति।
॥ एकदेशेन एकदेशान्तरस्योपलक्षणे दृष्टान्तोक्तिः॥
एकदेशान्तरेणैकदेशान्तरस्योपलक्षणे दृष्टान्तमाह परोक्षत्वेति।
परोक्षत्वापरोक्षत्वे विशेषौ ज्ञानगौ यथा।
स्नेहयोगोऽपि तद्वत् स्याद् विशेषो ज्ञानगोऽपरः॥१९८॥
यथा ज्ञानस्य परोक्षत्वापरोक्षत्वलक्षणौ द्वौ धर्मौ। तत्र “तमेवं विद्वान्” इति परोक्षज्ञानस्य मोक्षसाधनत्वेऽभिहिते परोक्षत्वेनापरोक्षत्वं लक्ष्यत इत्यर्थः। दार्ष्टान्तिकं दर्शयति स्नेहयोगोऽपीति। स्नेहश्चासौ योग उपायश्चेति स्नेहयोगः। स्नेहेन योगः सम्बन्धः इति वा। तत एकदेशेनैकदेशान्तरलक्षणा च स्यादिति शेषः।
॥ अस्य रूढलक्षणत्वात् न प्रयोजानापेक्षा॥
लाक्षणिकप्रयोगे सूत्रकारस्य किं प्रयोजनमित्यत आह इत्यभिप्रायत इति।
इत्यभिप्रायतः प्रायो ज्ञानमेव विमुक्तये।
वदन्ति श्रुतयः.......................॥१९९॥
द्विविधलक्षणाभिप्रायेण श्रुतयः “तरति शोकमात्मवित्” इत्याद्याः।
इदमुक्तं भवति द्विविधा लक्षणा भवति, रूढारूढभेदात्। तत्र द्वितीयायां प्रयोक्तुः प्रयोजनानुसन्धानेन भाव्यम्। नत्वाद्यायामभिधातुल्यायाम्। इयं च रूढलक्षणा। श्रुतिषु प्रायिकव्यवहारदर्शनात्। अतः किं प्रयोजनान्वेषणेनेति।
॥ ज्ञानभक्तिशब्दयोः सहप्रयोगे ज्ञानशब्दः मुख्यार्थः, भक्तिशब्दश्च स्नेहमात्रपरः॥
भक्तिशब्दो माहात्म्यज्ञानपूर्वकस्य स्नेहस्य वाचक इत्युक्तम्, तथा ज्ञानशब्दो भक्त्यर्थ इति। तदुभयमप्यनुपपन्नम्। भक्तिज्ञानाभ्यां मोक्षो भवतीत्यपि दर्शनात्। तत्र भक्तिशब्दस्योक्तार्थत्वे ज्ञानग्रहणवैयर्थ्यात्। तस्य तत्रान्तर्भूतत्वात्। ज्ञानपदस्य चोभयार्थत्वे भक्तिग्रहणवैयर्थ्यादित्यत आह सोऽयमिति।
..............सोऽयं विशेषोऽपि ह्युदीर्यते॥१९९॥
भक्तिर्ज्ञानमिति क्वापि....................
क्वापि भक्तिर्ज्ञानमिति पदाभ्यां सोऽयं स्नेहलक्षणो बोधलक्षणश्च विशेषोऽप्युदीर्यते। नतूक्त एवार्थ इति नियमः, तस्मान्नानुपपत्तिः। यत्र भक्तिज्ञाने सहोच्येते, तदा पुनरुक्तिप्रसङ्गाद् भक्तिपदं स्वार्थैकदेशत्यागेन स्नेहांशस्य लक्षकम्, नतु मुख्यार्थनिष्ठम्। ज्ञानपदं चानुपपत्त्यभावान्मुख्यार्थमेव नतु लक्षकमिति भावः।
॥ द्वेषस्य मोक्षसाधनत्वनिरासः॥
ननु विना स्नेहाज्ज्ञानमात्रेण यदि मुक्तिरनुपपन्ना स्यात्, तदा ज्ञानपदस्य लक्षकत्वमाश्रयणीयम्। नचैवम्। पुरुषार्थस्य भक्त्येकसाध्यत्वे प्रमाणाभावात्। द्वेषिणामपि शिशुपालादीनां मोक्षदर्शनाच्च। द्वेषिणः स्निग्धा इत्यस्य च विप्रतिषिद्धत्वात्। अतोऽनुपपन्नं लक्षणाश्रयणमित्यतो द्वेषस्य मोक्षसाधनत्वं तावन्निराकरोति नहीति।
...............नहि द्वेषयुता दृशिः।
पुरुषार्थाय भवति सर्वश्रुतिविरोधतः॥२००॥
अत्र द्वेषस्य पुरुषार्थसाधनत्वं निषिद्ध्यते। दृशिरिति तु प्रसङ्गादुक्तम्। ज्ञानस्याऽवश्यकतामुपादाय स्नेहनिरासाय हि परः प्रत्यवस्थितः। कै मुत्यार्थं वा। माहात्म्यज्ञानमपि न द्वेषयुक्तं मोक्षहेतुः। किमुत केवलो द्वेष इति। यथोक्तम् “नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम्” इति।
॥ भक्तेः नित्यसुखरूपमुक्तिकारणत्वम्, द्वेषस्य नित्यदुःखरूपमुक्तिकारणत्वम्॥
द्वेषस्य मुक्तिसाधनत्वाङ्गीकारे कथं सर्वश्रुतिविरोध इत्यतस्तावदेकां श्रुतिं पठति चेतनस्येति।
चेतनस्य द्वयं भोग्यं संसारो मुक्तिरेव च।
संसारस्त्रिविधस्तत्र स्वर्गो मध्यमधस्तथा॥२०१॥
मुक्तिश्च द्विविधा तत्र सुखं नित्यं तथाऽपरम्।
नित्यदुःखमिति ज्ञेयं साधनं संसृतावपि।
काम्यं कर्म निषिद्धं च साज्ञानमिति निश्चयः॥२०२॥
द्वेषो भक्तिश्च मुक्तौ तु मुक्तिद्वयविधायकम्।
इति पैङ्गिश्रुतेर्द्वेषो नैव सन्मुक्तिकारणम्॥२०३॥
जीवजातस्य। द्वयमेव। तत्र मुक्तिसंसारयोर्मध्ये। मध्यं मानुषत्वम्। अधो नरकादि। नित्यं सुखमेकं मुक्तित्वेन ज्ञेयम्। तथा नित्यदुःखमपरमिति ज्ञेयम्। संसृतौ संसृतिविषये, साधनमपि द्वेषो भक्तिश्चेति योग्यतया सम्बन्धः। विधायकं कारकम्। नित्यसुखरूपा सन्मुक्तिः। इति ज्ञायत इति शेषः।
सन्मुक्तिकारणत्वस्याप्रतिषेधात् कथमेवमुच्यत इत्यत आह असदिति।
असन्मुक्तेः कारणं च मुक्तावित्यत्र केशवः।
मुक्तिशब्दोदितो मोक्षे स्वभक्तानां करोति यत्॥२०४॥
नित्यदुःखस्वरूपाया मुक्तेः कारणत्वेन तावद् द्वेष उक्तः। तेन सन्मुक्तिकारणं न भवतीति ज्ञायते, विरोधादिति। नन्वस्यां श्रुतौ मुक्तिविषयौ भक्तिद्वेषौ सदसन्मुक्तिकारणत्वेनोच्यते। विष्णुविषयौ तु प्रकृतौ। अतः किं केन सङ्गतमित्यत आह मुक्ताविति। मुक्तावित्यत्र सप्तम्यन्ते पदे मुक्तीति प्रातिपदिकेनोदितः। केवलं मुक्तिशब्दोदित इत्युक्ते मुक्तिद्वयेत्यत्रापि प्राप्तिः। अतो मुक्तावित्यत्र इत्युक्तम्। केन निमित्तेन आह मोक्षमिति। “मुच्लृ मोक्षणे” इत्यस्मात् “स्त्रियां क्तिन्” इति क्तिन्प्रत्ययः। सच बहुलग्रहणात् कर्तर्यपि भवति। यद्वा करोतीति करणे कर्तृत्वोपचारः। मुच्यतेऽनेनेति मुक्तिरिति करणे क्तिन्प्रत्ययः।
॥ द्वेषस्य मुक्तिसाधनत्वे विष्णोर्गुणपूर्णत्वे वेदानां महातात्पर्याभावप्रसङ्गः॥
द्वेषस्य मोक्षसाधनत्वाङ्गीकारे युक्तिविरोधं चाऽह द्वेषतोऽपीति।
द्वेषतोऽपि विमुक्तिश्चेन्महातात्पर्यरोधनम्।
भक्त्या प्रसन्नतो देवान्मुक्तिरित्येव तद्गुणान्।
वदन्ति श्रुतयः सर्वाः पुराणान्यागमा अपि॥२०५॥
यदि द्वेषेण मुक्तिः स्याद् वक्तव्यो दोषसञ्चयः।
न केवलं भक्त्या किन्तु द्वेषतोऽपि विशिष्टा मुक्तिश्चेदङ्गीक्रियते, तदा, यत् सर्वश्रुत्यादीनां भगवद्गुणोत्कर्ष एव महातात्पर्यम्, तद् विरुद्धमापद्येत। कथमित्यत आह भक्त्येति। अन्येऽप्यागमाः। श्रुत्यादयो मुक्तिप्रयोजनाः, परमेश्वरगुणविषयाश्चेति तावत् प्रसिद्धम्। तत्र सम्बन्धोऽयमेव। यद् भगवत एव जीवानां मुक्तिः। सा च प्रसन्नादेव। प्रसादश्च भक्त्यैव। भक्तिश्च गुणज्ञानादेव इत्येवं श्रुत्याद्यास्तद्गुणान् वदन्तीति। तथाच कथं द्वेषतो मुक्त्यङ्गीकारे न महातात्पर्यविरोधः।
॥ भक्तिद्वेषयोरुभयोरपि मोक्षसाधनत्वे गुणदोषयोरुभयोरपि वक्तव्यत्वप्रसङ्गः॥
भक्तेर्मोक्षसाधनत्वमनेन गम्यते। नच तदस्माभिरपाक्रियते। किन्तु भक्तिवद् द्वेषस्यापीत्यत आह यदीति। तदा द्वेषोत्पादनार्थमिति शेषः। नचैवम्। गुणमात्रप्रतिपादनस्य प्रतिपादितत्वात्। ततो मोक्षार्थं प्रवृत्तो वेदादिर्गुणानेव प्रतिपादयन् मोक्षस्य भक्तिमात्रसाध्यत्वमभिप्रैतीति गम्यत इति भावः।
॥ “द्वेषाच्चैद्यादयो नृपाः’ इत्येतेषां वाक्यानां गतिकथनम्॥
ननु “द्वेषाच्चैद्यादयो नृपाः” इत्यादीनि द्वेषस्यापि मोक्षसाधनतां प्रतिपादयन्ति वाक्यानि सन्ति। तत् कथं द्वेषस्य मुक्तिसाधनत्वाभाव इत्यत आह स्मर्तव्य इति।
स्मर्तव्यो भगवान् नित्यमित्यर्थेनैव हि क्वचित्।
द्वेषादिव गुणानाह पुराणे क्रु द्धवाक्यवत्॥२०६॥
यथा क्रु द्धः पिता पुत्रं मरेत्याक्षेपपूर्वकम्।
प्रोक्तस्यान्यस्य कृत्यर्थं वदत्येवं पुराणगम्॥२०७॥
वाक्यम्...............................।
पुराणे क्वचित् प्रदेशे। भगवान् नित्यं स्मर्तव्य इत्यभिप्रायेणैव द्वेषान्मुक्तिमाहेव पुराणकृदिति सम्बन्धः। तस्मान्नोक्तविरोध इति हेरर्थः।
इदमुक्तं भवति पुराणवाक्यं द्वेषस्य मुक्तिसाधनत्वं प्रतिपादयदिवाऽपाततो यद्यपि प्रतीयते, तथाऽपि तन्न तदभिप्रायम्। किन्तु मुमुक्षुणा भगवान् सर्वदा स्मर्तव्य इति तस्याभिप्रायः। यथा
“वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः।
अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत्”
इत्यत्र नाकार्यकरणे तात्पर्यम्, किन्तु सर्वथा भर्तव्यत्वे, तथेहापीति। गुणानाहेति तात्पर्यान्तरम्। चैद्यादीनां द्वेषतो मुक्तिं प्रतिपादयद् वाक्यं भगवतः कृपालुत्वादीन् गुणानाहेति। शापादिना द्वेषिणोऽपि चैद्याद्यास्तात्कालिकद्वेषमनिरूप्य पूर्वतनीं भक्तिमेवापेक्ष्य भगवता मोचिताः। अहो कृपालुत्वम्, निर्विकारत्वम्, सत्यसङ्कल्पत्वं च तस्येत्यत्र तात्पर्यं तेषां वाक्यानामित्यर्थः।
द्विविधानि वाक्यानि “वैरेण यं नृपतयः” इत्यादीति स्मरणप्रधानानि तेषां प्रथमा गतिः। “द्वेषाच्चैद्यादयः” इत्यादीनि द्वेषप्रधानानि तेषां द्वितीयेति हृदयम्।
प्रथमव्याख्याने लौकिकदृष्टान्तमाह क्रु द्धवाक्यवदिति। क्रु द्धवाक्यस्य यथा न प्रतीत एवार्थे प्रामाण्यम्, किन्त्वन्यत्र, तथैवेत्यर्थः। एतद् विवृणोति यथेति। मरेति प्रकृत्यन्तरस्यैतद् रूपम्। “जीव वा मर वा साधो व्याध मा जीव मा मर” इति प्रयोगदर्शनात्। आक्षेपो निन्दा। स्वेन प्रोक्तस्य अन्यस्य कार्यस्य। पिता किञ्चित् पुत्रं प्रति विधत्ते इदं कुर्विति। स तु श्रमादिभीरुरकुर्वाण एवावतिष्ठते। तदा क्रु द्धः पिता ब्रवीति अरे जाल्म ! वैधवेय! म्र्यिस्वेति। तस्य वाक्यस्य यथा न पुत्रमरणविधाने तात्पर्यम्, किन्तु स्वविहितकरणे। तथाच द्वेषेण स्मरणे मुक्तिर्भवतीति पुराणवाक्यस्यापि न द्वेषस्य मुक्तिसाधनत्वे तात्पर्यम्, किन्तु स्मरणस्य कर्तव्यतायामिति। इयं च व्यञ्जनावृत्तिरिति केचित्। तात्पर्यवृत्तिरित्यपरे। वाक्यलक्षणानुमानं चेत्याचार्याः।
॥ उदाहृतवाक्यस्य प्रातीतिकार्थत्वे श्रुत्यादिविरोधः॥
प्रतीत एवार्थः किं न स्यादित्यत आह श्रुतीति।
.....श्रुतिविरोधेन स्वविरोधेन चाञ्जसा।
बह्वागमविरोधाच्च न द्वेषान्मुक्तिवाचकम्॥२०८॥
तमो द्वेषेण संयान्ति भक्त्या मुक्तिं तथैव च।
विष्णौ विष्णुप्रसादेन विलोमत्वेन चाञ्जसा।
इति षाुण्यवचनमप्युक्तार्थनियामकम्॥।२०९॥
पुराणगं वाक्यमिति वर्तते। श्रुतयोऽतीतपादेऽत्र चोदाहृताः। (११०६, १२५०) यत्र द्वेषस्य मुक्तिसाधनत्वमुच्यते तत्रैव तद्विरुद्धमुच्यत इति स्वविरोधः। सोऽपि “हिरण्यकशिपुश्च” इत्यादिभागवतवाक्यानां पठितत्वात् प्रदर्शित एव। अञ्जसा मुख्यया वृत्त्या। द्वेषान्मुक्तिं प्रतिपादयन्न भवति।
आगमविरोधं दर्शयति तम इति। विष्णौ भक्त्या जातेन विष्णुप्रसादेनैव मुक्तिं संयान्ति। तथा विष्णौ द्वेषेण जातेन विलोमत्वेन विष्णुकोपेनाञ्जसा तमः संयान्तीति योजना। चशब्दौ समुच्चयार्थौ। उक्तार्थनियामकं विष्णुभक्तिरेव मुक्तिसाधनम्, न द्वेष इत्यस्यार्थस्य नियामकम्। एतद्वाक्यसमाख्यया “चेतनस्य” इति श्रुतौ मुक्तावितिशब्दो विष्णोर्वाचक इति सिद्ध्यति। तथाच द्वेषो भक्तिश्च इत्येतद् द्वयं सन्मुक्तेः, केवलो द्वेषस्त्वसन्मुक्तेः कारणमित्यन्यथाप्रतीतिरपास्ता भवति।
॥ महातात्पर्यविरुद्धत्वाच्च द्वेषवाक्यस्य न प्रतीतार्थपरत्वम्॥
इतश्च नैतद् वाक्यं प्रतीतार्थपरमित्याह महातात्पर्येति।
महातात्पर्यरोधेन कथं वाक्यं प्रमाणताम्।
याति .................................॥२१०॥
मोक्षप्रयोजनानां सर्वागमानां भगवद्गुणेष्वेव यन्महातात्पर्यम्, तदन्यथानुपपत्त्या भक्तिरेव मुक्तिसाधनं न द्वेष इत्यवगम्यते। अतो महातात्पर्यविरोधेन च द्वेषवाक्यं प्रतीतार्थे कथं प्रमाणतां याति?
ननु श्रुत्यादीनां कथं प्राबल्यम्? येन तद्विरोधादिदं वचनं स्वार्थात् प्रच्याव्यते। उच्यते श्रुतेः श्रुतित्वादेव प्राबल्यम्। स्ववाक्यस्य निरवकाशत्वात्। अत एव तत्रोक्तम्अञ्जसेति। इतरागमानां च बहुत्वेन। अत एव बह्वागमेत्यभिहितम्।
॥ महातात्पर्यशब्दार्थकथनपूर्वकमुक्तार्थसमर्थनम्॥
महातात्पर्ययुक्तेर्वाक्यतः प्राबल्यमुपपादयिुतमाह सर्वेति।
....... सर्वार्थरूपं हि महातात्पर्यमिष्यते॥२१०॥
सर्वेषां शास्त्राणामनन्यार्थतया यदेकार्थप्रतिपादकत्वं तद्रूपमित्यर्थः। कथमिदं लभ्यते? अर्थशब्दो मुख्यं प्रतिपाद्यमाह। “सत एव पदार्थस्य” इति यथा। स चैकवचनान्तः। तेन च तत्प्रतिपादकत्वं लक्ष्यत इति। कथमयं महातात्पर्यशब्दार्थ इत्यत आह वाचकत्वं हीति।
वाचकत्वं हि तात्पर्यं यदर्था अखिला रवाः।
सोऽर्थः कथं परित्याज्य एकशब्दस्य संशये।
अतो विज्ञानभक्तिभ्यां पुरुषार्थः परो भवेत्॥२११॥
तत् परं प्रतिपाद्यं यस्य तत् तत्परम्। तस्य भावस्तात्पर्यमित्येवं वाचकत्वं प्रतिपादकत्वं हि तात्पर्यमुच्यते। तस्य च महच्छब्देन विशेषणे योग्यतयैषोऽर्थो महातात्पर्यशब्दस्य भवतीति भावः। ततः किमित्यत आह यदर्था इति। योऽर्थो येषां ते यदर्थाः। रवा आगमाः। एकशब्दस्य संशये एकवाक्यसम्बन्धिनि संशये सत्येकं सन्दिग्धं विरुद्धार्थं वाक्यमादायेत्यर्थः।
एतदुक्तं भवति सर्वाणि वाक्यानि सम्भूयानन्यार्थतया यमेकमर्थं प्रतिपादयन्ति, तद्विरुद्धार्थं प्रतिपादयत् तदवान्तरवाक्यं यदुपलभ्यते सावकाशं च तन्महावाक्यार्थविरोधादन्यथा क्रियते, नतु तद्विरुद्धो महावाक्यार्थस्त्यज्यत इति तावत् प्रसिद्धम्। महावाक्यस्य प्रधानत्वादुपक्रमादिभिर्निश्चितार्थत्वाच्च। अवान्तरवाक्यस्याप्रधानत्वात् सन्दिग्धार्थत्वाच्च। प्रकृते तु भक्तिरेव मुक्तिसाधनम्, न द्वेष इति सर्वैर्वाक्यैः सम्भूय प्रतिपादितोऽर्थः। अर्थाक्षिप्तस्यापि प्रतिपाद्यस्येव तदर्थत्वात्। द्वेषान्मुक्तिं प्रतिपादयदेकं तदवान्तरवाक्यं सावकाशं चोक्तप्रकारेण। तस्मादिदमेव बाध्यत इति।
द्वेषस्य मुक्तिसाधनत्वनिराकरणमुपसंहरति अत इति। माहात्म्यज्ञानस्नेहाभ्यामेव, नतु द्वेषेण इत्यर्थः। मोक्ष इति वक्तव्ये परः पुरुषार्थ इति वदता ज्ञानादिकमपि द्वेषिणां न भवतीति सूचितम्। ज्ञानादेरपि धर्माद्यपेक्षया परपुरुषार्थत्वात्।
॥ भक्तेर्मुक्तिसाधनत्वे प्रमाणोपन्यासः॥
एवं द्वेषस्य मुक्तिसाधनत्वं निराकृत्येदानीं भक्तेः परमपुरुषार्थसाधकत्वे प्रमाणं नास्तीति यदुक्तं तन्निरासाय प्रमाणान्याह यस्येति।
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः॥२१२॥
भक्त्या ज्ञानं ततो भक्तिस्ततो दृष्टिस्ततश्च सा।
ततो मुक्तिस्ततो भक्तिः सैव स्यात् सुखरूपिणी॥२१३॥
भक्त्या प्रसन्नो भगवान् दद्याज्ज्ञानमनाकुलम्।
तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया॥२१४॥
नाहं वेदैर्न तपसा न दानेन नचेज्यया।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा॥२१५॥
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप।
इत्यादिवाक्यतश्चैव सोऽयमुक्तार्थ ईयते॥२१६॥
यथा देवे तथा गुराविति। यथा देवे देवयोग्या, तथा गुरौ गुरुयोग्येत्यर्थः। अनेन ज्ञानस्य भक्तिसाध्यत्वमुच्यते। भक्त्या ज्ञानमित्यनेन ज्ञानादेः। ज्ञानं परोक्षनिश्चयो जायते। ततो ज्ञानात् पक्वा भक्तिर्भवति। ततो दृष्टिः, ततश्च सा परिपक्वा भक्तिः। ततो मोक्षानन्तरं भक्तिरवतिष्ठते। सा सुखरूपिण्येव स्यात्, न फलवती। भक्त्या प्रसन्न इत्यनेनापीदमेवोच्यते। ज्ञानाभावे भक्त्यभावादनाकुलमित्युक्तम्। तयैव पक्वया। एतया परिपक्वया। वैदैरिति भक्तिरहितश्रवणादिभिरित्यर्थः। न विद्यतेऽन्यो विषयो यस्याः साऽनन्या।
“यादृशी तत्र भक्तिः स्यात् तादृश्यन्यत्र नैव चेत्।
अनन्यभक्तिः सा ज्ञेया विष्णावेव च सा भवेत्”
इतिच स्मृतिः। “विवक्षितस्तु सन्धिर्भवति” इति वचनाच्छक्य अहमिति युज्यते। तत्त्वेन याथार्थ्येन ज्ञातुम्। इत्यादिवाक्यतश्चेति चशब्देन “चेतनस्य द्वयम्” इत्यादीनि पूर्वोदाहृतवाक्यानि समुच्चिनोति। वाक्यत एव, नत्वर्थात्।
॥ अनुमानेन भक्तेर्मुक्तिसाधनत्वप्रतिपादनम्॥
अनुमानेनाप्युक्तमर्थं साधयति नचेति।
नच प्रसादमाप्नोति द्वेषाद् भक्त्या तमाप्नुयात्।
इति दृष्टानुसारित्वमप्यस्मिन्नर्थ ईयते॥२१७॥
भगवद्द्वेषाद् भगवत्प्रसादं नैवाऽप्नोति। भगवद्भक्त्या तं भगवत्प्रसादं प्राप्नुयादित्यस्मिन्नर्थे दृष्टानुसारित्वं प्रत्यक्षदृष्टव्याप्तिकानुमानानुसारित्वमपीयते ज्ञायते।
एतदुक्तं भवति भगवत्प्रसादादेव मोक्ष इति तावन्निष्टङ्कितम्।(३३) भगवत्प्रसादो भगवद्द्वेषसाध्यो न भवति, भगवत्प्रसादत्वात्; यो यत्प्रसादो नासौ तद्द्वेषसाध्यः, यथा गुरुप्रसादः। यद्वा भगवद्द्वेषो भगवत्प्रसादसाधनं न भवति, भगवद्द्वेषत्वात्; यो यद्द्वेषः स तत्प्रसादसाधनं न भवति, यथा गुरुद्वेषः। अथवा भगवान् स्वद्वेषिणि न प्रसीदति, प्रेक्षावत्पुरुषत्वात्; देवदत्तवत्। यद्वा भगवद्द्वेषी भगवत्प्रीतिविषयो न भवति, भगवद्द्वेषित्वात्; यो यद्द्वेषी नासौ तत्प्रीतिविषयः, यथा सम्प्रतिपन्न इति द्वेषस्य प्रसादसाधनत्वेऽपास्ते मुक्तिसाधनत्वमेवापास्तं भवति।
तथा भगवत्प्रसादो भगवद्भक्तिसाध्यः, भगवत्प्रसादत्वात्; यो यत्प्रसादः स तद्भक्तिसाध्यः, यथा गुरुप्रसादः। यद्वा भगवद्भक्तिः भगवत्प्रसादसाधनम्, भगवद्भक्तित्वात्; या यद्भक्तिः सा तत्प्रसादसाधनम्, यथा गुरुभक्तिः। अथवा भगवान् स्वभक्ते प्रसीदति, प्रेक्षावत्पुरुषत्वात्; सम्मतवत्। यद्वा भगवद्भक्तो भगवत्प्रीतिविषयः, भगवद्भक्तत्वात्; यो यद्भक्तोऽसौ तत्प्रीतिविषयः, यथा गुरुभक्त इति भक्तेः प्रसादसाधनत्वे सिद्धे मुक्तिसाधनत्वमेव सिद्धं भवतीति।
॥ भगवति विरुद्धगुणसमावेशाङ्गीकारवत् “द्विष्टोऽपि प्रसीदति’ इत्यङ्गीकार्यमित्याशङ्कानिरासः॥
नन्वलौकिके भगवति लोकदृष्टान्तेनैवमनुमानं न युज्यते। अन्यथाऽणुत्वादिनियमस्याप्यनुमानापत्तेः। अतो लोकविलक्षणो द्विष्टोऽपि प्रसीदतीत्यङ्गीकारे न बाधकमिति शङ्कामागमवाक्येन परिहरति य इति।
ये पृथग् विहिता विष्णोर्गुणा वेदेन सादरम्।
त एव दृष्टवैलोम्यादङ्गीकार्या नचापरम्।
अन्यद् दृष्टानुसारेण वासुदेवेऽपि गृह्यते॥।२१८॥
पृथग् लोकवैलक्षण्येन, सादरं तात्पर्येण, दृष्टवैलोम्याद् दृष्टवैलोम्यमनादृत्य। अपरं वेदानुक्तं लोकविलक्षणं गुणजातं नैवाङ्गीकार्यम्। किन्तु वेदोक्तादणुत्वमहत्त्वयौगपद्यादेरन्यद् गुणजातम्। गुणा इत्यस्य प्रयोजनमुच्यते दोषाभावा इति।
दोषाभावाश्च ये वेदैरुदिता अविहाय तान्।
अनुक्ता अपिच ग्राह्या महातात्पर्यशक्तितः।
एवं बृहत्संहितावाक् सिद्धान्तो हि तदीरितः॥२१९॥
चस्त्वर्थः। लोकविलक्षणा अविलक्षणाश्चेति शेषः। महातात्पर्यशक्तित इति। सर्वथाऽपि दोषो भगवति नास्तीत्यत्र सामान्यतः सर्वशास्त्राणां तात्पर्यस्य निर्णीतत्वादित्यर्थः। वेदानुक्तस्याप्रामाणिकार्थस्य ग्रहणमयुक्तमित्याशङ्कामनेन निराचष्टे। विशेषतोऽनुक्तावपि सामान्यतः सिद्धेरिति भावः। तत् तस्मादीरितोऽर्थः सिद्धान्तः प्रामाणिकः। यद्वा बृहत्संहितेरितोऽर्थो हि सिद्धान्त इति तत्र बहुमानमुत्पादयति।
॥ वैष्णवभक्तिसहितविष्णुभक्तेरेव मोक्षसाधनत्वम्॥
एवं भक्तेरेव मोक्षसाधनत्वमुपपादितम्। भक्तिश्च केवलं भगवद्विषयैवेति प्रतीतिमपाकर्तुमाह तारतम्येनेति।
तारतम्येन तद्भक्तेष्वपि भक्तिर्विनिश्चयात्।
कर्तव्यैषाऽपि तद्भक्तिर्लोकवेदानुसारतः॥२२०॥
यो हि भक्तः प्रधाने स्यात् तदीयेष्वपि भक्तिमान्।
दृश्यतेऽसौ नियमतो विपरीतो विपर्यये॥२२१॥
न केवलं विष्णौ किन्तु तद्भक्तेषु रमादिष्वपि, विनिश्चयात् सर्वथा, सा च क्रियमाणा तारतम्येनैव। कुत इत्यत आह एषाऽपीति। यतस्तद्भक्तेषु क्रियमाणैषाऽपि भगवद्भक्तिरेव, अतस्तद्विषयेऽपि भक्तिः कर्तव्या। एतदुक्तं भवति विष्णुभक्तिस्तावत् कर्तव्येत्युपपादितम्। सा च तद्भक्तभक्त्यैव साङ्गा नान्यथेति।
एतदपि कुत इत्यत आह लोकेति। लोकशब्देन लोकसिद्धव्याप्तिमदनुमानमुच्यते। वेदशब्देन आगममात्रम्। लोकानुसारितां दर्शयति यो हीति। प्रधाने राजादौ। विपर्यये तदीयभक्तिराहित्ये। विपरीतः प्रधानभक्तिरहितः। नियमेन दृश्यते। अनेनान्वयव्यतिरेकावुक्तौ।
तथाचायं प्रयोगः विमतो भगवद्भक्तभक्तिमान् भवेत्, भगवद्भक्त्या पुरुषार्थभाक्त्वात्; यो यद्भक्त्या पुरुषार्थभागसौ तद्भक्तभक्तो दृष्टः, यथा सम्मतः। यश्च यद्भक्तभक्तो न भवति, नासौ तद्भक्त्या पुरुषार्थभाक्, यथा सम्मत इति।
॥ उक्तनियमस्य व्यभिचरितत्वशङ्कानिरासः॥
ननु दैत्यादयो ब्रह्मादिषु भक्तिमन्तोऽपि तद्भक्तेष्विन्द्रादिषु भक्तिरहिता दृश्यते। ततो व्यभिचार इत्यत आह व्यभिचार इति।
व्यभिचारो यदि क्वापि भक्तिह्रासोऽपि कल्प्यते।
भक्तिदोषो ह्यसौ यन्न तद्भक्तेष्वपि भक्तिमान्॥२२२॥
यदि क्वापि परेण व्यभिचारश्र्चोद्यते, तदाऽस्माभिरत्र पुरुषे भक्तिह्रासः कल्प्यते विफलभक्तित्वमुच्यते। तथाच विपक्षे विशिष्टस्य हेतोरभावान्न व्यभिचार इत्यर्थः। कुत एवं कल्प्यत इत्यत आह भक्तीति। तद्भक्तेष्वपि भक्तिमान्नेति यदसौ प्रधानभक्तेरेव दोषो हि। तेन प्रधानभक्तिरेव दुष्टा न फलायालमिति प्रसिद्धम्। हिरण्यगर्भादिभिर्दैत्यादिभ्योऽमरत्वादिकं सच्छलमेव दीयते, मृषा न भवतीति पुराणेषु सुप्रसिद्धमेवेति। वेदानुसारित्वं तूत्तरत्र प्रदर्शयिष्यते। (१२५९)
॥ वैष्णवेषु तारतम्येनैव भक्तेः कार्यत्वम्॥
तद्भक्तभक्तिः कर्तव्येत्येतदनुमानेनोपपाद्य सा च तारतम्येन कार्येत्येतदनुमानेन साधयति तारतम्येनेति।
तारतम्येन तेष्वद्धा भक्तिर्दृष्टानुसारतः।
विष्णुप्रसादानुसारात् कार्या दोषस्तदन्यथा॥२२३॥
स्वप्रीत्यनुसृतौ प्रीतिर्लोकेऽप्यद्धैव दृश्यते।
तारतम्यपरिज्ञानमप्येतेनैव साधनम्॥२२४॥
तेषु तद्भक्तेषु क्रियमाणा भक्तिरद्धा सर्वथा तारतम्येन कार्या। कुतः? दृष्टानुसारतः। तारतम्येनेत्यस्यैव विवरणम् विष्णुप्रसादानुसारादिति। यस्मिन्नधिको विष्णुप्रसादः, तस्मिन्नधिकेत्यादि। तदन्यथा साम्येन वैपरीत्येन च करणेऽनर्थो भवति।
दृष्टानुसारत इत्युक्तं दर्शयति स्वेति। अत्र स्वशब्देन राजादिः कथ्यते। तत्प्रीत्यनुसारेण तस्य यस्मिन् यथा प्रीतिः, तदनुसारेण भक्तिकरणे सति तस्मिन् भक्ते तस्य राजादेः प्रीतिरद्धा नियमेनैव दृश्यते। अयमत्र प्रयोगः ईश्वरः स्वप्रीत्यनुसारेण स्वभक्तेषु भक्तेः प्रसीदति। प्रेक्षावत्पुरुषत्वात्; राजवदिति।
अनेन प्रमेयान्तरमपि सिद्धमित्याह तारतम्येति। एतेनैव भगवद्भक्तेषु रमाब्रह्मादिषु तारतम्येनैव मुक्तिः करणीयेति समर्थितेनैव देवतातारतम्यपरिज्ञानं यत् प्रागुक्तं (११५२)तदपि मोक्षस्य साधनमिति सिद्धम्। नह्यविदिते तारतम्ये तारतम्यानुरोधेन मुक्तिकरणं सम्भवति। अनेनैव प्रकारेणानुमानसम्भवादिति वाऽतिदेशार्थः।
॥ उक्तार्थे प्रमाणोपन्यासः॥
भगवत्प्रसादतारतम्यानुसारेण तदीयेषु मुक्तिः कार्येत्यत्राऽगममप्याह लक्ष्मीति।
लक्ष्मीविरिञ्चवाणीशगिरिजेन्द्रा गिराम्पतिः।
सूर्यादयश्च क्रमशो भगवत्प्रीतिगोचराः।
तेषु भक्तिः क्रमेणैव कार्या नित्यं मुमुक्षुभिः॥२२५॥
सर्वेऽपि गुरवश्चैते पुरुषस्य सदैव हि।
तस्मात् पूज्याश्च नम्याश्च ध्येयाश्च परितो हरिम्।
इति षाुण्यवचनादप्येषोऽर्थोऽवसीयते॥२२६॥
हरिभक्तिः क्रमेणैव तदीयेषु हरिस्मृतिः।
हरिस्तुतिस्तत्स्मृतिश्च तत्सुतिर्हरिपूजनम्॥२२७॥
तत्पूजा विहितात्याग इति मुक्तेः क्रमेण हि।
नियमात् साधनान्येव नित्यसाध्यानि चाखिलैः॥।२२८॥
इति प्रवृत्तवचनं साधनस्य विनिर्णये।
प्रवृत्ते पञ्चरात्रे हि साधनस्य विनिर्णयः॥।२२९॥
तेन भगवत्प्रीतिक्रमेणैव। तिष्ठतु क्रमस्तेषु भक्तिकरणमेव कुतः? भगवत्प्रीतिगोचरत्वादेव। कारणान्तरं चोच्यते सर्वेऽपीति। गुरुत्वं विद्याप्रवर्तकत्वेन प्रसिद्धमेव। पूज्याश्चेत्यादिना भक्तेरेव प्रपञ्चनम्। हरिं परितो नतु पृथक् । वेदानुसारत इति यदुक्तम्, तदप्यनेन दर्शितं भवति।
क्रमेणैव तदीयेषु भक्तिस्तत्स्मृतिरित्यादौ तच्छब्देन तदीया उच्यन्ते। क्रमेणैवेति सम्बद्ध्यते। क्रमेणेति हरिविषयाणि भक्त्यादीनि मुख्यसाधनानि तदीयविषयाणि त्वमुख्यसाधनानीत्यर्थः। मुक्तिसाधनत्वादखिलैर्मुमुक्षुभिर्नित्यसाध्यानि। साधनस्य विनिर्णय इति साधनविनिर्णयाख्येऽवान्तरप्रकरणेऽस्तीत्यर्थः। एतदेव विवृणोति प्रवृत्त इति। पञ्चरात्रे प्रवृत्तं नामावान्तरो ग्रन्थः। तत्रापि साधनस्य विनिर्णयो नाम प्रकरणमस्तीत्यर्थः।
॥ अनुमानैरुक्तार्थसमर्थनम्॥
उक्तार्थेष्वनुमानान्तराण्याह हरीति।
हरिद्वेषो न शुभदः सद्द्वेषत्वाद् यथा गुरोः।
क्रमाद् भक्तिर्हरिप्रीतिकारणं तत्प्रियोपगा।
भक्तिर्यतो यथा स्वस्मिन्नित्याद्या युक्तिरत्र च॥२३०॥
सद्द्वेषत्वात् उत्तमपुरुषद्वेषत्वात्। वैष्णवैर्दैत्यादिषु क्रियमाणे द्वेषे व्यभिचारं वारयितुं सदित्युक्तम्। गुरोर्द्वेषः। प्रागद्वेषस्य भगवत्प्रसादसाधनत्वाभावे सामान्यव्याप्तिमाश्रित्य भगवद्द्वेषत्वं हेतुरुक्तः, अत्र तु शुभमात्रसाधनत्वाभावे विशेषव्याप्तिमेवाऽश्रित्य सद्द्वेषत्वमिति महान् भेदः।
क्रमाद् भक्तिरिति। क्रममनुसृत्य रमादिषु भक्तिर्धर्मिणीत्यर्थः। तत्प्रियानुपगच्छति विषयीकरोतीति तत्प्रियोपगा भक्तिर्यत इति। हरिप्रियविषयभक्तित्वादित्यर्थः। तत्प्रियानुपगच्छति विषयीकरोतीति तत्प्रियोपगा। या यत्प्रियविषया भक्तिः, सा तत्प्रीतिकारणम्। यथा स्वस्मिन् भक्तिः। अत्र स्वशब्देन देवदत्त उच्यते। यथा राजप्रिये देवदत्ते भक्ती राजप्रीतिकारणमित्यर्थः। इह क्रमादिति प्रतिज्ञायां विशेषणप्रक्षेपेण भगवद्भक्तभक्तेः कर्तव्यत्वं तत्तारतम्यस्य चाऽवश्यकत्वं सिद्ध्यति।
यद्वाऽनेन प्रयोगद्वयं सूचयति। भागवतभक्तिर्भगवत्प्रीतिकारणम्, भगवत्प्रियभक्तित्वादिति। भगवान् रमादिषु तारतम्योपेतभक्त्यैव प्रसीदति, तारतम्येनैव तद्विषयप्रीतिमत्त्वादिति च। युक्तिश्चेति सम्बन्धः। अत्र प्रागुक्तेऽर्थे।
किं सामान्यव्याप्त्या, विशेषव्याप्तिरप्यस्तीत्याशयेन प्रयोगान्तरमुच्यते प्राधान्येति।
प्राधान्यतारतम्यानुसारिणी भक्तिरुत्तमा।
प्रीतिदैव हरेर्यस्माद् भक्तिः सा स्वोपगा यथा॥२३१॥
इति वा..............................।
उत्तमत्वतारतम्यानुसारिणी रमादिषु भक्तिर्हरेः प्रीतिदैव। यस्मात् सोत्तमा भक्तिः, शास्त्रविहितभक्तित्वादित्यर्थः। स्वोपगा सा विष्णुविषया भक्तिर्यथेत्यर्थः। इति वा अनुमातव्यमिति शेषः। अत्रापि पूर्ववद् विशिष्टसाधनात् पृथक् प्रयोगद्वयेन वा साध्यद्वयसिद्धिः॥*॥ इत्युभयलिङ्गाधिकारिकाधिकरणे॥५,६॥
अथ फलश्रुत्यधिकरणम्॥७॥
॥ देवानां स्वातन्त्र्यतारतम्यानुसारेण साधकानुष्ठितज्ञानादिफलयोग्यत्वम्॥
स्वामिनः फलश्रुतेरित्यात्रेयः। ज्ञानं महाफलकारणमिति पुरुषार्थाधिकरणे प्रतिपादितम्। ज्ञानोत्तरमनुष्ठितं वर्णाश्रमकर्म, शमदमादिकं चाऽनन्दातिशयकारणमिति स्तुत्यधिकरणे। तदेतज्ज्ञानकर्मादिफलं किं प्रेरकत्वाद् देवानां भवति, उत कर्तृत्वाद् देवदत्तस्येति संशये प्रथमसूत्रेण देवानामेवेति पूर्वपक्षयित्वा, “आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते” इत्येकदेशिमतेन सिद्धान्तमभिधाय “सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत्” इति परमसिद्धान्तोऽभिहितः। तत्र देवानां ज्ञानादिफलमिति पूर्वपक्षांशो ग्राह्य एव। अवधारणमात्रमेव त्याज्यम्। अतः पूर्वपक्षसूत्रार्थं विवृणोति ज्ञानेति।
ॐ स्वामिनः फलश्रुतेरित्यात्रेयः ॐ॥४४॥
........ज्ञानकर्मादिफलं चैषु क्रमोपगम्।
स्वातन्त्र्यतारतम्येन फलं हि फिलनां भवेत्॥२३२॥
फलं च देवानां भवतीति शेषः। भवच्चैषु देवेषु क्रमोपगं क्रमेणैवोपगच्छति। देवदत्तेनानुष्ठितस्य ज्ञानादेः फलं देवानां भवतीत्येका प्रतिज्ञा। भवच्च तत् क्रमेणैव, नतु साम्येन वैपरीत्येन वेति द्वितीया। तत्राऽद्यायां हेतुं सूचयन् द्वितीयमुपपादयति स्वातन्त्र्येति। फिलनां फलभाजां, स्वातन्त्र्यतारतम्येन स्वाम्यतारतम्यानुसारेणैव हि फलेन भाव्यम्। नतु साम्येन वैपरीत्येन वेत्यर्थः। ब्रह्मादयः तारतम्येनैव फलवन्तः, तत्र तारतम्येनैव स्वातन्त्र्यादित्युक्तं भवति। अनेन प्रथमप्रतिज्ञायां स्वातन्त्र्यहेतुः सूचितो भवति,यः सूत्रे स्वामिपदेनोक्तः। यद्यपि फलप्राप्तौ तारतम्यं न सूचितम्, तथाऽपि फलप्राप्तावुक्तस्य स्वामित्वहेतोः सामर्थ्येन प्राप्तमिति तदप्युपपादितम्।
॥ देवानां जीवानुष्ठिताशुभफलायोग्यत्वे निमित्तम्॥
यदि स्वातन्त्र्याद् देवदत्तानुष्ठितज्ञानादिफलं देवानां स्यात्, तर्हि तदनुष्ठितमिथ्याज्ञानादिफलमपि प्रसज्येत, अविशेषादित्यत आह अशुभं त्विति।
अशुभं त्वशुभेऽप्येषां स्वातन्त्र्यात् प्रीतितो हरेः।
आज्ञया चान्यगं नैव भोगाय भवति क्वचित्॥२३३॥
अन्यगमशुभं त्वेषां देवानां क्वचिदपि भोगाय न भवति। कुतः? हरेः प्रीतितोऽशुभेऽप्येषां स्वातन्त्र्याद् भगवत्प्रसादेन मैतदस्मान् प्रापदिति निवारणे तेषां सामर्थ्यसद्भावात्। मैतदेतान् प्रापदिति हरेरेवाऽज्ञया च। अन्यगमिति वदता स्वगतं तु भवतीति सूचितम्। अनेनासति निवारणकारण इति स्वामित्वहेतुर्विशेषतो भवति।
॥ उक्तार्थे प्रमाणोपन्यासः॥
यदुक्तमविशेषादिति, तदसिद्धम्। व्यवस्थापकश्रुतिसद्भावादित्याह पुण्यमेवेति।
पुण्यमेवामुमाप्नोति न देवान् पापमाप्नुयात्।
इत्यादिश्रुतयो मानमुक्तेऽर्थे युक्तयोऽपराः॥२३४॥
उपासनाधर्मफलं यतो देहान्तरे स्थितिः।
वासुदेवाज्ञया चैव पूर्वकर्मानुसारतः॥२३५॥
प्रेरयन्ति हि ते जीवान् पुण्यपापेषु नित्यशः।
अरागद्वेषतश्चैव कथं दोषानवाप्नुयुः॥२३६॥
हर्याज्ञाकरणादेव पुण्यमेभिरवाप्यते।
हरिपूजेति चोद्देशात् कथं न शुभमाप्नुयुः॥२३७॥
अतो यथाक्रमं धर्मज्ञानयोः फलमञ्जसा।
सर्वप्राणिगतं देवाः प्राप्नुवन्त्या विरिञ्चतः॥२३८॥
अनेन “पुण्यमेवामुं गच्छति न ह वै देवान् पापं गच्छति” इति श्रुतिमुपादत्ते। अमुं सप्तान्नविद्योपासनेन प्रेरकतया परपुरप्रवेशिनं परकृतं पुण्यमेवाप्नोति, न पापम्। कुतः? देवो ह्यसौ जातो। नहि देवान् पापं प्राप्नोतीत्यर्थः। उक्तेऽर्थे शुभमेव भवति नाशुभमित्यर्थे।
व्यवस्थापकान्तरमाह युक्तय इति। अपराः पूर्वोक्ताभ्याम्। उक्तेऽर्थे मानमिति सम्बन्धः। कास्ता युक्तय इत्यतस्ता दर्शयितुमागमवाक्यं पठति उपासनेति। यतः कारणाद् देहान्तरे स्थितिः परपुरं प्रविश्य तत्र पुण्यप्रापप्रेरणम्, देवानां भगवदुपासनाजनितधर्मफलम्। अतः कथं पापादिकं प्रेरयन्तोऽपि दोषानवाप्नुयुः? नहि सात्त्विको धर्मो दुःखपर्यवसायी। तत्वव्याघातादित्यर्थः। परपुरे देवानां पापादिप्रेरणं न दुःखहेतुः, सात्त्विकधर्मफलत्वात्, तत्वज्ञानवदित्युक्तं भवति।
किञ्च ते देवा वासुदेवाज्ञयैव, नतु स्वेच्छया, तत्तत्कृतपूर्वकर्मानुसारत एव। अत एवारागद्वेषतो रागद्वेषौ विनैव नित्यशो जीवान् पुण्यपापेषु प्रेरयन्ति हि यस्मात् तस्मात् कथं दोषानवाप्नुयुः? प्रभोराज्ञायाऽपराधानुसारेण चोरशासकराजपुरुषवदिति भावः। पापादिप्रेरणेन देवानामशुभं न भवतीत्येव केवलं न, किन्तु हर्याज्ञानुष्ठानाज्ज्योतिष्टोमाद्यनुष्ठातृभिरिवैभिर्दैवैः पुण्यमेवाऽप्यते। किञ्च स्वविहितपरप्रेरणे हरिपूजेयमिति चोद्देशात् कथं देवा न शुभमाप्नुयुः?
अत इत्युपसंहारः। धर्मज्ञानयोरेवेति योज्यम्। प्राप्नुवन्तोऽप्या विरिञ्चतो यथाक्रमं प्राप्नुवन्तीत्यपूर्वोक्तिर्नोपसंहारः।
॥ उत्तमदेवानां स्वाधमदेवानुष्ठितज्ञानादिफलयोग्यत्वम्॥
अन्यगतं ज्ञानादिफलं देवाः प्राप्नुवन्ति। देवगतं तु कथमित्यपेक्षायामुक्तम् देवा इति।
देवा एव हि देवानां विशिष्टा विनियामकाः।
ब्रह्मा त्वखिलदेवानां नराणां च नियामकः।
अतः सर्वगुणानेष प्राप्नोत्यधिकमन्यतः॥२३९॥
देवानामपकृष्टानाम्। अतस्तदीयज्ञानादिफलं तेषां भवतीति शेषः। ब्रह्मा त्विति आ विरिञ्चत इत्युक्तस्य विवरणम्। देवादिग्रहणमुपलक्षणम्। अधिकमिति क्रियाविशेषणम्।
॥ देवानां तारतम्येण फलप्राप्तौ निमित्तम्॥
भवत्वन्यगतज्ञानादिफलप्राप्तिर्देवानाम्। तत्रापि तारतम्ये को हेतुरित्यत उक्तम् द्रव्येति।
द्रव्यस्वातन्त्र्यविज्ञानप्रयत्नैरधिकं फलम्।
देवानामन्यगं चापि तेषु हि ब्रह्मणोऽधिकम्॥२४०॥
बृहत्तन्त्रोदितं वाक्यं हरिणा फलनिर्णये।
लोकेऽप्येतादृशगुणैः फलाधिक्यं हि दृश्यते॥।२४१॥
द्रव्याणि इन्द्रियादीनि, तेषु स्वातन्त्र्यं द्रव्यस्वातन्त्र्यम्। विज्ञानप्रयत्नौ धर्माद्युत्पादनिमित्ते। अधिकैरिति शेषः। चशब्दोऽनुक्तसमुच्चयार्थः। मध्यमैर्द्रव्यस्वातन्त्र्यादिभिर्मध्यमम्। अल्पैरल्पमिति। तेष्वपि देवेषु निरवधिकद्रव्यस्वातन्त्र्यादिमत्त्वादिति हिशब्दार्थः। फलनिर्णय इति तत्रापि प्रकरणविशेषोक्तिः।
द्रव्यस्वातन्त्र्याद्यतिशयात् फलातिशय इत्युक्तस्य व्याप्तिं दर्शयति लोकेऽपीति। एतादृशगुणैरित्यधिकैर्द्रव्यस्वातन्त्र्यादिभिः समुदितायां कृषौ, यस्याधिकं क्षेत्रादिद्रव्यस्वातन्त्र्यम्, यस्य चाऽवापादौ ज्ञानप्रयत्नाधिक्यं तस्य फलाधिक्यं दृश्यत इत्यर्थः। एवं मध्यमाल्पयोरप्युदाहर्तव्यम्। अनेन स्वातन्त्र्यतारतम्येनेत्युक्तमुपपादितं भवति।
॥ पापप्रेरकासुराणामपि तारतम्येणैव तत्फलयोग्यत्वम्॥
प्रसङ्गात् पापादिफलं प्रेरकाणामसुराणां तारतम्येन भवतीत्याह एवञ्चेति।
एवञ्च किलपूर्वाणामसुराणां महत् फलम्।
अशुभेषु सदैव स्यान्मिथ्याज्ञानादिकेषु हि॥२४२॥
शुभाशुभफलं देवा असुराश्च समाप्नुयुः।
क्रमेणैव यथाशक्ति यथा ये ये प्रयोजकाः॥२४३॥
प्रेरका अपि पापानां न देवाः पापमाप्नुयुः।
इति प्रकाशिकायां हि प्रोवाच हरिरञ्जसा॥२४४॥
महाप्रेरकाणां महदित्यादीत्यर्थः। अशुभेष्वशुभनिमित्तम्। हिशब्देन स्वातन्त्र्यं हेतुमाह। एवमिति देवदृष्टान्तम्। असुराणां चेति सम्बन्धः।
प्रागुक्तेऽर्थेऽत्र च प्रमाणान्तरमाह शुभेति। यथासङ्ख्येन शुभाशुभफलम्। यथाशक्तीति क्रमेणैव इत्यत्र युक्तिः। तस्य विवरणम् ये ये यथा प्रयोजकाः, तथा तथेति। प्रेरका इत्यस्य पूर्ववच्छङ्कापरिहारश्च।
॥ साधनानुष्ठातुरपि फलयोग्यत्वम्॥
एवं प्रपञ्चेन पूर्वपक्षमुक्त्वा सिद्धान्तसूत्रतात्पर्यमागमवाक्येनाऽह यद्यपीति।
ॐ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॐ॥४५॥
ॐ सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॐ॥४६॥
यद्यप्येवं सुराणां च दैत्यानां च महत् फलम्।
शुभाशुभेभ्य एवञ्च कर्तुश्च स्याद् यथोदितम्॥२४५॥
एवमुक्तप्रकारेण। यद्यपि शुभाशुभेभ्यो ज्ञानादिभ्यो भवत् फलं सुराणां च दैत्यानां च भवतीत्युपपादितम्। एवञ्च तथाऽपि कर्तुर्देवदत्तादेरपि फलं स्यादेव। आगमेऽप्यस्यार्थस्य प्रकृतत्वाद् यद्यपीत्यादि युज्यते।
एतदुक्तं भवति देवासुराणां शुभाशुभफलमित्येतावदभ्युपगम्यते, प्रमितत्वात्। तेषामेवेति तु न क्षम्यते। किन्तु कर्तुरपि भवतीति। कर्तुः फलाङ्गीकारे “यदु किञ्चेमाः प्रजाः” इति सावधारणश्रुतिविरोधः, आत्रेयादिवचनविरोधश्च स्यादित्यत उक्तम् महदिति। देवादीनां महत् फलं कर्तुस्त्वल्पम्। अल्पस्य चासत्त्वविवक्षया बहुलमुपलब्धेति भावः। कुतः कर्तुः फलाङ्गीकार इत्यत आह यथोदितमिति। श्रुतिस्मृतिसद्भावादित्यर्थः। ताश्च भाष्यादावुदाहृता द्रष्टव्याः।
॥ अनुमानेनापि शुभाशुभफलप्राप्तियोग्यत्वसमर्थनम्॥
युक्तिमप्याह तस्मादिति।
तस्मान्निरयमानुष्यस्वमुक्त्युपभोगिनः।
मानुषोत्तममारभ्य देवास्तु निरयं विना॥२४६॥
असुरास्तु विना मुक्तिं तमोऽन्धमपि चाऽप्नुयुः।
इति तत्वविवेकोक्तं स्वयं भगवतो वचः॥२४७॥
कर्तुः शुभाशुभफलसद्भावादेव मानुषोत्तममारभ्य देवपर्यन्ता दैत्यपर्यन्ताश्च निरयाद्युपभोगिन इति युज्यते नान्यथेत्यर्थः। उक्तस्यापवादमाह देवास्त्विति। अन्यफलोपभोगिनः। न केवलमसुराणां मुक्त्यभावः, किन्त्वन्धन्तमोऽपि चाऽप्नुयुः।
एतदुक्तं भवति मनुष्योत्तमास्तावन्निरयमानुष्यस्वर्गमुक्तीः प्राप्नुवन्ति। देवाश्च मानुष्यस्वर्गमुक्तीः। असुराश्च स्वर्गमानुष्यनिरयान्धतमसानि। नच निरयादीनि निर्निमित्तानि। नच स्वकृतपापादीनि विना निमित्तमस्ति। तस्मात् कर्तुरप्यस्ति शुभाशुभफलप्राप्तिरिति ज्ञायते। अन्यथा निरयाद्यभावप्रसङ्गात्। नच वाच्यम्, सुरासुराणां कर्तृत्वप्रयुक्तफलाभावेऽपि प्रेरणानिमित्तफलसद्भावान्मुक्त्याद्युपपत्तिरिति। देवानां मानुष्यप्राप्तेरयोगात्। दैत्यानां स्वर्गादिप्राप्तेरनुपपत्तेः। सर्वथा मनुष्याणां निरयादिप्राप्तेरसम्भवादिति। तदिदमुक्तम् मानुषोत्तममारभ्येति। मनुष्योत्तमानामादित्वोक्त्या, निरयाद्यनेकफलोक्त्या च। वचोऽस्तीति शेषः॥*॥ इति फलश्रुत्यधिकरणम्॥७॥
अथ अनाविष्काराधिकरणम्॥९॥
॥ ज्ञानोपदेशकगुरूणामष्टगुणत्वादिक्रमेण ज्ञानफलयोग्यत्वम्॥
अनाविष्कुर्वन्नन्वयात्। ज्ञानदानं किमाविष्कारेण कार्यम्, उतानाविष्कारेणेति संशये पूर्ववदत्रापि पूर्वपक्षमत्यन्तहेयत्वाभावात् प्रपञ्चेनाऽह ज्ञानदा अपीति।
ज्ञानदा अपि चाऽचार्या विशेषात् फलमाप्नुयुः।
मुक्तावष्टगुणं शिष्याद् गुरुराप्नोति शोभनम्।
तद्गुरुर्द्विगुणं तस्मात् सार्धं तावत् ततोऽपरे॥२४८॥
देवाः सहस्रगुणितं क्रमात् तस्माद् यथोत्तरम्।
ब्रह्मा महौघगुणितमेवं फलविनिर्णयः॥२४८॥
इत्याह भगवाञ्छास्त्रे गुरुवृत्ताभिधे स्वयम्।
युक्तं च तन्न गोदाता गोमात्रफलमाप्नुयात्॥२४९॥
न केवलं शिष्याः, किन्तु ज्ञानदा आचार्या अपि ज्ञानफलमाप्नुयुः। तच्च विशेषाच्छिष्यादप्यतिशयेन। आचार्या इत्यनेनैव सिद्धे ज्ञानदा इति वचनं ज्ञानदानेनेति ज्ञापनार्थम्। चशब्देन परमाचार्यादिसङ्ग्र्रहः।
कुत एतदित्यत आह मुक्ताविति। शिष्यात्, शिष्यस्य यच्छ्रवणफलं ततोऽष्टगुणं गुरुर्ज्ञानदानेन आप्नोति। तद्गुरुर्गुरोर्गुरुस्तस्माद् गुरुफलाद् द्विगुणं फलमाप्नोति, सन्तानकारणत्वात्। ततः परमगुरोरपरे गुरवः स्वशिष्यफलापेक्षया सार्धं तावत्, अध्यर्धं फलमाप्नुवन्ति। यथोत्तरं तस्मात् क्रमादित्यध्यर्धप्राप्तिक्रमाद् देवा ज्ञानप्रवर्तकत्वात् सहस्रगुणितम्। यथोत्तरं तस्मात् क्रमादिति ब्रह्मा महौघगुणितमित्यनेनापि सम्बद्ध्यते। सहस्रमहौघशब्दावुपलक्षणार्थो। परम्पराया अनियतत्वात्।
॥ ज्ञानदातुस्तद्ग्रहीतुरप्यधिकफलवत्त्वे युक्तिः॥
आगमसिद्धेऽत्रार्थे युक्तिरप्यस्तीत्याह युक्तं च तदिति। प्रतिग्रहीतुः शिष्यस्य ज्ञानफलादप्याचार्यस्य ज्ञानदानफलमधिकमित्येतद् युक्तिसिद्धं च। तां युक्तिं सूचयति नेति। प्रतिग्रहीतुर्हि गोमात्रफलम्। गोदाता न गोमात्रफलवान् भवति। किन्तु महाफलं स्वर्गादिकं च प्राप्नोति। यथैतत्, तथा प्रकृतेऽपीत्यर्थः। अयमत्र प्रयोगः ज्ञानदाता दत्तवस्तुफलादप्यधिकदानफलवान् पुरुषार्थहेतुवस्तुदातृत्त्वात्; गोदातृवदिति।
॥ श्रोतुः अध्येतुः व्याख्यातुश्च उत्तरोत्तरमधिकफलवत्त्वपरगीतावाक्येनाप्युक्तार्थसमर्थनम्॥
ज्ञानफलादप्याचार्यस्य ज्ञानदानफलमधिकमित्यत्र भगवद्गीतासंवादमाह य इममिति।
यं इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः॥२४९॥
नच तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः।
भविता नच मे तस्मादन्यः प्रियतमो भुवि।
इत्याह भगवान्........................॥२५०॥
अध्येष्यत इत्युत्तरवाक्यमत्र पठनीयम्।
॥ आविष्कारेऽयोग्यानामपि ज्ञानप्राप्त्याऽनर्थप्राप्तिसम्भवात्
सभाचत्वरादिषु आविष्कारमर्कुवन्नुपदेशं कुर्यात्॥
यत एवं ज्ञानदानं तत्सम्प्रदायप्रवर्तनं च महाफलम्। अतो बहूनां ग्रहणायाऽविष्कारेण ज्ञानदानं कार्यमिति प्राप्ते सिद्धान्तमाह एवमपीति।
ॐ अनाविष्कुर्वन्नन्वयात् ॐ॥४९॥
.................एवमपि पात्रमपेक्ष्यते॥२५०॥
सत्यं ज्ञानदानमुक्तप्रकारेण महाफलम्। तथाऽपि नाऽविष्कारेण कार्यम्, कुत इत्यत आह पात्रमिति। दानफलेनेति शेषः। पात्रे क्रियमाणं खलु दानं फलायालम्। नापात्रे। प्रत्युत प्रत्यवायस्यैव हेतुः। आविष्कारेण ज्ञानदाने चायोग्यानामपि तत्प्राप्तिर्भवति। सा च प्रतिषिद्धेति भावः॥*॥ इत्यनाविष्काराधिकरणम्॥९॥
अथ ऐहिकमुक्तिफलाधिकरणे॥१०,११॥
ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात्। एवं मुक्तिफलनियमस्तदवस्थावधृतेस्तदवस्थावधृतेः। अधिकरणद्वयस्य तात्पर्यं सङ्क्षेपेणाऽह एवमेवेति।
ॐ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ॥५०॥
ॐ एवं मुक्तिफलनियमस्तदवस्थावधृतेस्तदवस्थावधृतेःॐ॥५१॥
एवमेवाविरोधेन प्रारब्धस्यैव कर्मणः।
ज्ञानं दृष्टफलं प्रोक्तं मुक्तिश्चैवेह लभ्यते॥२५१॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य चतुर्थः पादः।
प्रारब्धस्य कर्मणोऽविरोधेनैव ज्ञानं दृष्टफलं प्रोक्तमिति प्रथमाधिकरणतात्पर्यम्। दृष्टं च तत्फलं चेति दृष्टफलम्। श्रवणादिसम्पूर्त्यनन्तरमेव ज्ञानमुत्पद्यते। यदि प्रारब्धकर्मप्रतिबन्धकं नास्ति। तस्मिंस्तु सति तदवसान इति। एवमेव मुक्तिश्चैवेह लभ्यत इति द्वितीयस्य। यस्मिन् देवे ज्ञानमुत्पन्नं तत्पातानन्तरमेव मुक्तिर्लभ्यते प्रारब्धकर्मप्रतिबन्धाभावे। तद्भावे तु तदवसान इति॥*॥ इत्यैहिकाधिकरणम्, मुक्तिफलाधिकरणं च॥१०,११॥
इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते
रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना।
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ
तृतीयाध्यायेऽस्मिंश्चरमचरणः पर्यवसितः॥*॥
इति श्रीमद्ब्रह्मसूत्रानुव्याख्यानटीकायां
श्रीजयतीर्थमुनिविरचितायां श्रीमन्न्यायसुधायां
तृतीयाध्यायस्य चतुर्थः पादः।