न्यायसुधा (जयतीर्थकृता)/चतुर्थाध्यायस्य प्रथमः पादः

विकिस्रोतः तः


ॐ तत् सत्
न्यायसुधा
यदीयचरणाम्भोजच्छायामाश्रित्य निर्वृताः।
नन्दन्ति सततं मुक्ताः संश्रये तं श्रियः पतिम्॥
॥ अध्यायप्रतिपाद्यस्य, आद्याधिकरणसप्तकप्रतिपाद्यस्य च निरूपणम्॥
“फलं निगद्यतेऽस्मिन्नध्याये” इति भाष्यम्। फलनिरूपणस्येदानीं का सङ्गतिरित्यत आह समन्वयेति।
अनुव्याख्यानम्
समन्वयाविरोधाभ्यां सिद्धे वस्तुनि साधने।
विचारितेष्वशेषेषु साधनेषु विशेषतः॥१॥
नित्यशः कार्यमत्यन्तमवश्यम्भावि साधनम्।
चिन्त्यते प्रथमं तत्र ........................॥२॥
समन्वयाविरोधाभ्यां प्रथमद्वितीयाध्यायप्रतिपादिताभ्यां परब्रह्मादिरूपे वस्तुनि सिद्धे सति साधने साधनविषये तृतीयाध्याये अशेषेषु मोक्षसाधनेषु विचारितेषु सत्सु फलप्रतिपादनस्यावसरप्राप्तिः। जिज्ञासितेष्वर्थेष्वन्येषां विचारितत्वादस्यैवावशिष्टत्वात्। अतो मोक्षलक्षणं फलमत्राध्याये निगद्यते इति वाक्यशेषः।
पादचतुष्टयप्रतिपाद्यम्, सङ्गतिं च लाघवायैकत्रैव वक्ष्यति।(१२९८) ततश्च फलविषयेऽस्मिन्नध्याये कर्मनाशाख्यं फलं प्रथमपादे निगद्यत इत्युक्तं भवति। तस्यापवादमाह विशेषत इति । तत्र चतुर्थस्य प्रथमपादे। प्रथमं कैश्चित् सूत्रैः साधनमेव चिन्त्यते। कथम्? विशेषतः परमादरेण, नित्यशो नैरन्तर्येण च कार्यमिति। कुतः? यतो मोक्षसिद्धावत्यन्तमवश्यम्भावि।
इदमुक्तं भवति तृतीयेऽध्याये यानि साधनानि विचारितानि तेष्वेव केषाञ्चित् परमादरनैरन्तर्याभ्यामनुष्ठेयत्वमत्राऽदौ प्रतिपाद्यते। तथाऽनुष्ठान एव मोक्षस्य भावात्, अन्यथाऽभावात्। एतज्ज्ञापनायैव तृतीय इदमनुक्त्वाऽत्रेदमुच्यते। तत्रानुक्त्या हि ततो वैलक्षण्यं ज्ञायते, फललक्षणे चोक्त्या फलान्तरङ्गत्वम्। अध्यायादिव्यवस्था च प्रायिकत्वादुपपद्यत इति।
अथ आवृत्त्यधिकरणम्॥१॥
॥ असकृद्गुरूपदेशान्यथानुपपत्त्या श्रवणावृत्तेः कर्तव्यतासमर्थनम्॥
आवृत्तिरसकृदुपदेशात्। अधिकरणोत्थानकारणं दर्शयति श्रवणादीति।
ॐ आवृत्तिरसकृदुपदेशात्ॐ॥१॥
................. श्रवणादिसकृत्क्रिया॥२॥
आवृत्तिर्वेति सन्देहे कर्तव्याऽऽवृत्तिरेव हि।
उपदेशोऽतत् त्वमसीत्यादिर्ह्यसकृदेव यत्॥३॥
प्रथमम्, तत्र इति वर्तते। “श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” इति दर्शनार्थं श्रवणादिकं विधीयते। तस्य श्रवणादेर्ज्योतिष्टोमादिवत् सकृत्क्रिया वा, व्रीह्यवघातादिवदावृत्तिर्वेति सन्देहे सति। उपलक्षणमेतत्। सकृत्क्रियेति पूर्वपक्षे च सतीत्यपि ग्राह्यम्। इदमधिकरणमारभ्यत इति शेषः। पूर्वपक्षबीजं च न्यायविवरणे स्पष्टमवगन्तव्यम्।
सूत्रं व्याख्याति कर्तव्येति। श्रवणादीनामिति वर्तते। हिशब्दः “अतत् त्वमसि” इत्युपदेशस्य प्रसिद्धत्वं द्योतयति। यदि हि शिष्येणाऽवृत्तिर्न कर्तव्या, तदा गुरोरसकृदुपदेशोऽनर्थकः स्यात्, तेन ज्ञायते कर्तव्या श्रवणावृत्तिरिति।
॥ रुद्रादिपदयोग्यजीवानुष्ठितश्रवणाद्यावृत्तिनिरूपणम्॥
अनेन श्रवणावृत्तेः कर्तव्यता सिद्धा। त्रयाणामप्यावृत्तिं साधयत् “लिङ्गाच्च” इति सूत्रं पठित्वा तदभिप्रेतानि लिङ्गान्यागमवाक्येनैव दर्शयति लिङ्गादित्यादिना।
ॐ लिङ्गाच्च ॐ॥२॥
लिङ्गाल्लातव्यतः पूर्वमृजोर्ब्रह्मत्वतः शतात्।
शुश्रावोग्रतपा नाम योग्यो रुद्रपदस्य यः॥४॥
सार्धं परार्धं विष्णोस्तु गुणान् भक्त्या सदोद्यतः।
तत्त्रिभागमुपासां च चक्रे सम्भृतमानसः॥५॥
दशमन्वन्तरं शक्रपदयोग्यो गरुत्मतः।
पदयोग्यात् सुमनसः सुनन्दो नाम चाशृणोत्।
उपासां चक्र उद्युक्तो मन्वन्तरचतुष्टयम्॥६॥
सूर्याचन्द्रमसोश्चैव पदयोग्यौ सुतेजसौ।
सुरूपः शान्तरूपश्च मन्वन्तरचतुष्टयम्।
अशृण्वतां सुमनसो मन्वन्तरमुपासताम्॥७॥
ततः प्रोक्तास्तु ते सर्वे भक्त्योग्रतपआदयः।
अपश्यन् परमं विष्णुं तत्प्रसादैधिताः सदा।
इत्युक्तं विष्णुना साक्षाद् ग्रन्थे सत्तत्त्वसञ्ज्ञिते॥८॥
लातव्य आदातव्यः शिष्यैरुपासितव्यः, तस्मात्। ब्रह्मत्वत इति षष्ठीबहुवचनान्तात् तसिः। ब्रह्मत्वानां शतात् पूर्वमिति ॠजोर्विशेषणम्। यस्यैतस्माद् ब्रह्मकल्पादारभ्य ब्रह्मकल्पानां शते गते ब्रह्मत्वं भविष्यति तस्मादिति यावत्। सार्धं परार्धमित्यत्यन्तसंयोगे द्वितीया। तत्त्रिभागं तस्य श्रवणकालस्य तृतीयभागं कालम्। उपासां मनननिदिध्यासनरूपाम्। सम्भृतमानस इति उपासितव्य एवार्थे धृतचित्तः।
दश मन्वन्तराणि यस्मिन् काले स तथोक्तः। गरुत्मतः पदयोग्यादिति। गरुत्मतो यत् पदं तत्र योग्यादित्यर्थः। सुतेजसावेव सुप्रज्ञावेव नतु मन्दौ। अशृण्वतां अशृणुताम्। “व्यत्ययो बहुलम्” इति द्विविकरणता। सुमनस एव। मन्वन्तरं मन्वन्तरावच्छिन्नं कालम्। उपासतामुपासाताम्। छान्दसो वर्णविकारः।
॥ श्रवणाद्यावृत्तिस्वरूपनिरूपणम्॥
नन्वत्र श्रवणादिकालबाहुल्यमेव प्रतीयते, न पुनरावृत्तिः। श्रुतस्यैव वाक्यस्य पुनः श्रवणमित्यादिरूपा हि सेति। मैवम्। एकेन वाक्येनावगतस्य तत्वस्य पुनःपुनस्तेनान्येन वाऽवगतिः श्रवणावृत्तिः। एवमेकया युक्त्याऽनुसंहितस्य भूयोभूयस्तयाऽन्यया वाऽनुसन्धानं मननावृत्तिरित्यभिप्रेतत्वात्।
नन्वेवञ्चेत् “सर्ववेदान्तप्रत्ययम्” इत्यनेनैव गतमेमत्। सत्यम्। तस्यैवात्यन्तावश्यकत्वप्रदर्शनाय पुनरारम्भ इत्युक्तमेव। एवमुत्तरत्रापि द्रष्टव्यम्॥*॥ इत्यावृत्त्यधिकरणम्॥१॥
अथ आत्मोपगमाधिकरणम्॥२॥
॥ विष्णोरात्मशब्दवाच्यत्वप्रतिपादनम्॥
आत्मेति तूपगच्छन्ति ग्राहयन्ति च। एतत् सूत्रं व्याख्यातुमात्मशब्दार्थं तावदाह आत्मेति।
आत्मेति नाम कथितं साक्षान्नारायणस्य हि।
आत्मा ब्रह्म महांस्तारः परमेशः शुचिश्रवाः॥९॥
विष्णुर्नारायणोऽनन्त इति श्रीपतिरीर्यते।
इति पैङ्गिश्रुतिश्चैव तथैव परमश्रुतिः॥१०॥
ओमात्मा भगवान् विष्णुरात्मानन्दोऽक्षरः स्वरा।
विश्वत्राता नृसिंहोऽजो नारायण उरुक्रमः॥११॥
अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान्।
दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान्
इति भागवते चैव तस्मादात्मा जनार्दनः॥१२॥
यस्मादात्मेति नाम साक्षात् मुख्यया वृत्त्या नारायणस्य कथितम्। मुख्ये च सम्भवत्यमुख्यं न युज्यते। तस्मादत्र सूत्रेऽपि आत्मा जनार्दनः आत्मशब्दोदितो जनार्दन इति वक्ष्यमाणेनान्वयः। किं तदात्मशब्दस्य भगवन्नामत्वकथनमित्यत आह आत्मेति। इति नामभिःपैङ्गिश्रुतिरात्मशब्दं भगवन्नामत्वेनाऽह। चशब्दः श्रुत्यन्तरसमुच्चयार्थः। श्रुतिरेव नतु मानुषप्रणीतमभिधानमित्येवशब्दः। तेन “क्षेत्रज्ञ आत्मा पुरुषः” इत्यादिविरोधो नाऽशङ्कनीयः। ओमात्मेति परमश्रुतिः। आत्मानन्देति समस्तमेकं नाम।
“अनसूया” इति भागवते चाऽत्मशब्दस्य भगवत्येव प्रयोगोऽस्ति। तथैवेति तत्र प्रकृतेन समुच्चयार्थम्। जज्ञे जनयामास। अन्तर्णीतणिजर्थो वाऽत्र जनिः। आत्मेशब्रह्मसम्भवान् विष्णुशिवब्रह्मसम्भवान्। सह भवन्तीति सम्भवाः। अत्र दत्तदूर्वाससौ विष्णुशिवावेव। सोमो ब्रह्मणा सहभूतः। तद्धर्मोऽन्ययोरप्युपचारादुच्यते। छत्रिण इति यथा।
॥ यस्माज्ज्ञानिन आत्मत्वेनोपासते, जानन्ति, उपदिशन्ति च तस्माद् विष्णुः आत्मत्वेनोपास्यः॥
अस्त्वात्मशब्दो विष्णुपरः, तथाऽपि कः सूत्रार्थ इत्यत आत्मेतीति प्रतिज्ञांशं व्याख्याति तस्मादिति।
ॐ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॐ॥३॥
तस्मादुपास्यो विष्णुरिति ज्ञातव्यः सज्जनैः सदा।
तथैवोपासते सन्तस्तथैवोपदिशन्ति च॥१३॥
यस्मादात्मशब्दो विष्णुपरः, तस्मात्। अयं प्रतिज्ञार्थः आत्मा विष्णुः आत्मेति सज्जनैः सदा ज्ञातव्य उपास्यो ध्येयश्चेति। हेत्वंशं व्याचष्टे तथैवेति। अनेनाऽत्मेति शब्दस्याऽवृत्तिः, तुशब्दश्च अवधारणार्थ इत्युक्तं भवति। सतामेवोपासनोपदेशौ भाष्योदाहृताभ्यां श्रुतिभ्यां सिद्धौ। उपगच्छन्तीत्येतज्ज्ञानार्थम्, उपासनार्थं च। तत्र ज्ञानार्थत्वं स्पष्टमित्येक एवार्थो व्याख्यातः। अत एव प्राक् ज्ञातव्य उपास्यश्चेत्युक्तम्।
॥ अत्मत्वोपास्तिर्नाम स्वामित्वोपास्तिः॥
नन्वनेन विष्णुर्विष्णुरित्युपास्य इत्युक्तं भवति। ततश्च किमनेन कृतं स्यात्? नह्यविष्णुत्वेनोपास्तिरत्र प्रसक्तेत्यत आहआदानेति।
आदानार्थत्वतश्चायमात्मशब्दः पतिं वदेत्।
स्वामी मे विष्णुरित्येव नित्यदोपास्यमञ्जसा॥१४॥
अयं सूत्रगत आत्मशब्दः पतिं च वदेत्। कथम्? आदानार्थत्वत आदानकर्तृत्वार्थत्वात्। आपूर्वात् दाञः “आतो मनिन्” इति मनिन्प्रत्ययः, आकारलोपः, दस्य तश्च, निर्वचनत्वात्। तथाचोक्तम् “यच्चाऽप्नोति यदादत्ते” इत्यादि। पतिर्हि स्वीयतया भृत्यानादत्ते।
ततः किमित्यतः सूत्रार्थं विवृणोति स्वामीति। अत्र सूत्रे द्वावात्मशब्दौ। एकोऽनुवादार्थः, द्वितीयो विध्यर्थः। आत्मा आत्मेत्युपास्य इति द्वावपि विष्णुविषयौ। तत्राऽद्योऽविवक्षितावयवार्थः सञ्ज्ञात्वेन वर्तते। द्वितीयो विवक्षितावयवार्थः स्वामिनं वदति। तथाचाऽत्मा विष्णुरात्मेति स्वामीति उपास्य इति सूत्रार्थो भवतीत्यर्थः। अञ्जसा परमादरेण।
॥ स्वामित्वोपासनस्यात्यावश्यकत्वे प्रमाणोक्तिः॥
नन्वेतत् “आनन्दादयः प्रधानस्य” इत्यनेनैव गतम्। सत्यम्। सर्वथोपास्यत्वस्य ज्ञापनाय पुनर्वचनम्। तदिदमुक्तम् नित्यदैवाञ्जसेति। अस्य सर्वथोपास्यत्वे किं प्रमाणमित्यत आह स्वामीति।
स्वामी विष्णुरिति ध्यानं विशेषणविशेष्यतः।
कर्तव्यं सर्वथैवैतन्न कथञ्चन विस्मरेत्
इति सत्तत्त्ववचनं षाुण्यवचनं परम्॥१५॥
मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च।
इति ध्येयः सर्वदैव भगवान् विष्णुरव्ययः॥१६॥
विशेषणविशेष्यत इति। स्वामित्वं विशेषणम्, विष्णुर्विशेष्य इति विशेषणविशेष्यभावेनैव। नतु तटस्थं स्वामित्वं निर्गुणस्य विष्णोरुपलक्षणमित्येवमित्यर्थः। कथञ्चन आधिव्याधिसत्त्वेऽपि। परम् उपरितनम्। मम स्वामीत्यनेन प्रसक्तमल्पत्वं निवारयति सर्वस्येति॥*॥ इत्यात्मोपगमाधिकरणम्॥२॥
अथ प्रतीकाधिकरणम्॥३॥
॥ विष्णुप्रतीकयोरैक्योपास्तिनिरासः॥
न प्रतीके नहि सः। “मनो ब्रह्मेत्युपासीत” इत्यादिश्रुतिप्राप्तं मनःप्रभृतिप्रतीकानां ब्रह्मत्वेन उपासनमत्र प्रतिषिद्ध्यते। तत्र प्रतीक इत्यधिकरणसप्तमीति प्रतीतिः स्यात्। प्रतीकाधिकरणस्य चोपासनं ब्रह्मणो युक्तमेव। अतोऽन्यथा प्रतिज्ञां व्याख्याति प्रतीकेति।
ॐ न प्रतीके नहि सः ॐ॥४॥
प्रतीकविषयत्वेन न कार्या विष्णुभावना।
प्रतीकं नैव विष्णुर्यन्मिथ्योपासा ह्यनर्थदा॥१७॥
इत्थम्भूतलक्षणे तृतीया। “इदं मनआदिकं विष्णुः’ इत्येवंरूपोपासना न कार्येत्यर्थः। “न हि सः” इति हेतुं व्याचष्टे प्रतीकमिति। यद् यस्मात् प्रतीकं ब्रह्मणः प्रतिमात्मकं मनःप्रभृति स विष्णुर्नैव तस्मादिति पूर्वेणान्वयः।
नन्वसङ्गतोऽयं हेतुः। प्रतीकस्य विष्णोश्चाभेदाभावो ह्यभेदस्य तत्प्रमितेश्च निवारकः, नत्वभेदभावनामात्रस्येत्यत आह मिथ्येति। नहि स विष्णुः प्रतीकम्। अतस्तयोरभेदभावना मिथ्योपासना। सा चानर्थस्यैव हेतुः। अतो न कर्तव्येत्येवं हेतुहेतुमद्भावः सूत्रकृतोऽभिप्रेतः, न पुनः साक्षात्। अतो नासङ्गतिः।
॥ श्रुत्यादिभिः मिथ्योपासनस्यानर्थसाधनत्वप्रतिपादनम्॥
मिथ्योपासनस्यानर्थहेतुत्वं कुत इत्यतस्तदुपपादनपूर्वकमिममेव सूत्राभिप्रायं स्पष्टमाचष्टे योऽन्यथेत्यादिना भगवान् प्रभुरित्यन्तेन।
योऽन्यथा सन्तमात्मेशमन्यथा प्रतिपद्यते।
किं तेन न कृतं पापं चोरेणाऽत्मापहारिणा॥१८॥
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते।
किं तेन न कृतं पापं चोरेणेशापहारिणा॥१९॥
योन्यथैव स्थितं विष्णुमन्यथा प्रतिपद्यते।
किं तेन न कृतं पापं चोरेण ब्रह्महारिणा॥२०॥
स्वात्मानं प्रतिमां वाऽपि देवतान्तरमेव वा।
चेतनाचेतनं वाऽन्यद् ध्यायेद् यः केशवस्त्विति।
किं तेन न कृतं पापं चोरेणेशापहारिणा॥२१॥
योऽन्यद् विष्णुरिति ध्यायेज्जानीयाद् वा हरिं तथा।
अन्धे तमसि मज्जेत् स यत्र नैवोत्थितिः क्वचित्॥२२॥
योऽन्यद् विष्णुरिति ध्यायेद् विष्णुरन्यदिति स्म वा।
अन्यथाध्यानदोषेण सोऽन्धे तमसि मज्जति॥२३॥
योऽन्यद् विष्णुरिति ध्यायेद् विष्णुरन्यदिति स्म वा।
महातमसि मग्न्स्य तस्य नैवोत्थितिः क्वचित्॥२४॥
यत्किञ्चिदन्यथासंस्थमन्यथा ध्यातमञ्जसा।
ध्यातुर्महादोषकरं किमु सर्वेश्वरो हरिः॥२५॥
यत्किञ्चिदन्यथासंस्थमन्यथा ध्यातमञ्जसा।
महादोषकरं विष्णुः किमु सर्वेश्वरेश्वरः॥२६॥
यत्किञ्चिदन्यथा संस्थमन्यथा ज्ञातमञ्जसा।
अनर्थकारणं लोके किमु सर्वेश्वरेश्वरः॥२७॥
न किञ्चिदन्यथा ज्ञेयं ध्येयं वा तेन कुत्रचित्।
किमु सर्वोत्तमो विष्णुर्ज्ञेयो नीचतया क्वचित्॥२८॥
तस्माद् वस्तु यथारूपं ज्ञेयं ध्येयं च सर्वदा।
कारणं पुरुषार्थस्य नान्यथा भवति क्वचित्॥२९॥
इति श्रुतिपुराणोक्तिबलतो न प्रतीकता।
ध्येया विष्णोः क्वचिद् यस्मान्मिथ्याज्ञानमनर्थदम्॥३०॥
इत्यभिप्रेत्य नहि स इत्याह भगवान् प्रभुः।
प्रतीकसंस्थितत्वेन ध्येयो विष्णुर्नचान्यथा॥३१॥
अन्यथा सन्तं प्रतीकभिन्नत्वादिप्रकारं सन्तम्। आत्मनां जीवानाम् ईशम्। अन्यथा प्रतीकत्वादिना। प्रतिपद्यते जानाति ध्यायति च। चोरत्वस्यैव विवरणम् आत्मापहारिणेति। अभेदे खल्वेकावशेषः स्यात्। तत्र प्रतीकावशेषे ध्याते स्फुटं परमात्मापहारित्वम्। प्रतीकप्रविलयेऽप्यैश्वर्यापलापात् परमात्मापहारित्वमेव। आत्मानं परमात्मानम्।
एतानि त्रीणि वाक्यानि विष्णोः प्रतीकताध्याने बाधकानि। प्रतीकस्य विष्णुत्वध्याने तु न बाधकमित्यतः स्वात्मानमिति वाक्यं पठितम्। योऽन्यदिति त्रीण्युभयार्थे। यत्र पतितस्य। अन्यथाध्यानमेव दोषोऽन्यथाध्यानदोषः।
यत्किञ्चिदित्यादीनि प्रथमार्थ एव कैमुत्यार्थानि। यत्किञ्चिद् गङ्गोदकादिकमन्यथा संस्थं पवित्रं सत् अन्यथाऽपवित्रं ध्यातं ध्यातुरञ्जसा महादोषकरम्, किमु सर्वेश्वरो हरिरपकृष्टतया ध्यातः। तेन अनर्थप्रसङ्गेन।
इति श्रुतिपुराणोक्तिबलतो मिथ्याज्ञानमनर्थदं प्रतीयते यस्मात् तस्माद् विष्णोः प्रतीकता न ध्येयेति परम्परया हेतुहेतुमद्भावमभिप्रेत्य भगवान् सूत्रकारः “नहि सः” इति हेतुमाह। अतो नासङ्गतिरित्यर्थः। (१२८९) वक्ष्यमाणप्रकारेण द्विरूपस्यापि ध्यानस्य साम्याद् बलत इत्युक्तम्। ध्यानस्यापि ज्ञानविशेषत्वात् सङ्कीणोक्तिः।
॥ प्रतीकाधिष्ठातृत्वेनोपास्यत्वं श्रुत्यर्थः॥
एवन्तर्हि “मनो ब्रह्म” इत्यादिश्रुतीनां कोऽर्थ इत्यत आह प्रतीकेति। “व्यत्ययो बहुलम्”, “सप्तसु प्रथमा”, “षु द्वितीया”, इत्यादिस्मरणाद् विभक्तिव्यत्ययेनाधिकारणर्थतया श्रुतयो व्याख्येया इति भावः॥*॥ इति प्रतीकाधिकरणम्॥३॥
अथ ब्रह्मदृष्ट्यधिकरणम्॥४॥
॥ विष्णोः पूर्णत्वोपास्तेरत्यावश्यकत्वप्रतिपादनम्॥
ब्रह्मदृष्टिरुत्कर्षात्। अत्र ब्रह्मदृष्टिः कर्तव्येत्युच्यते। कुत्रेत्याकाङ्क्षायां सन्निधानात् प्रतीक इति प्राप्नोति। तच्च योग्यताविरहान्निराकृतम्। अतः साकाङ्क्षं प्रतिज्ञावाक्यं व्याख्याति ब्रह्मेति चेति।
ॐ ब्रह्मदृष्टिरुत्कर्षात् ॐ॥५॥
ब्रह्मेति च सदा ध्येयो भगवान् विष्णुरञ्जसा।
उत्कृष्टो ब्रह्मशब्दार्थः पूर्णत्वं ब्रह्मता यतः॥३२॥
अत्र चशब्दं प्रयुञ्जानेनाऽत्मेत्यनेन व्यवहितेनाप्यस्य योग्यतयाऽन्वयः, आत्मशब्दश्च प्रथमान्तः प्रकृतः सप्तम्यन्तेन चेहार्थः, अर्थवशाद् विभक्तिविपरिणामः, अतः सप्तम्यन्तोऽत्रानुवर्तत इति सूचितम्। भगवान् विष्णुर्ब्रह्मेति ध्येय इति तात्पर्यकथनम्, नाक्षरार्थः। नन्वेतद् “भूम्नः क्रतुवज्ज्यायस्त्वम्” इत्यनेनैव गतमित्यतः सदाऽञ्जसेत्युक्तम्।
“उत्कर्षात्” इति हेतुः। तत्र न ज्ञायते कस्योत्कर्ष इति। अतो व्याचष्टे उत्कृष्ट इति। यत इति वक्ष्यमाणमिहापि सम्बद्ध्यते। उत्कर्षादुत्कर्षस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्वादिति सूत्रकृतोत्कर्षस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्वमुक्तम्। अनुव्याख्यानकृता तूत्कर्षवान् ब्रह्मशब्दाभिधेय इत्यभिहितम्। फलस्त्वेक एवार्थः।
कथमुत्कर्षो ब्रह्मशब्दप्रवृत्तिनमित्तमित्यत आह पूर्णत्वमिति। वृद्ध्यर्थाद् बृहतेः “अन्येभ्योऽपि दृश्यन्ते” इति मनिन्प्रत्ययः। दृशिग्रहणसामर्थ्याद् धातोरमागमश्च। वृद्धिः पूर्णत्वमित्येक एव अर्थः। ब्रह्मता ब्रह्मशब्दप्रवृत्तिनिमित्तम्। पूर्णत्वमेव चोत्कर्षः। हेतुहेतुमद्भावश्च भाष्य एव समर्थितः।
॥ पूर्णत्वस्य सर्वथोपास्यत्वे प्रमाणम्॥
ब्रह्मत्वस्य सर्वथा ध्येयत्वे किं प्रमाणमित्यत आह आधिव्याधीति।
आधिव्याधिनिमित्तेन विक्षिप्तमनसोऽपि तु।
ध्येयैव ब्रह्मता नित्यं विष्णोर्भक्त्या निरन्तरम्।
इति प्रकाशिकायां च वचनं विष्णुनेरितम्॥३३॥
आधिव्याधीति द्वन्द्वैकवद्भावः। तच्च तन्निमित्तं च, तेन। “कृत्यानां कर्तरि वा” इति षष्ठी। चशब्देन भाष्योदाहृतानि वचनानि समुच्चिनोति।
॥ मायावादिना ब्रह्मणो जीवत्वेन प्रतिपत्तव्यतापरतया प्रथमसूत्रव्याख्यानम्॥
“आत्मेति तूपगच्छन्ति ग्राहयन्ति च”, “न प्रतीके नहि सः”, “ब्रह्मदृष्टिरुत्कर्षात्” इति त्रिसूत्रीमेकेऽन्यथा व्याचक्षते। तथाहि परमात्मा किमहमिति ग्रहीतव्यः, किंवा मदन्य इति संशये नाहमिति ग्राह्य इति प्राप्तम्। कुतः? अपहतपाप्मत्वादिगुणो हि परमात्मा। तद्विपरीतगुणश्च शारीरः। अतः कथं तयोरभेदो भवेत्? ईश्वरस्य च संसार्यात्मत्वे ईश्वराभावः, ततः शास्त्रानर्थक्यम्। संसारिणोऽपीश्वरत्वेऽधिकार्यभावात् शास्त्रानर्थक्यमेव। प्रत्यक्षादिविरोधश्च।
एवं प्राप्ते ब्रूमः आत्मेत्येव परमेश्वरः प्रतिपत्तव्यः। तथाहि परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैवैनमुपगच्छन्ति “त्वं वाऽहमस्मि भगवो देवते अहं वै त्वमसि देवते” इति। तथाऽन्येऽपि “अहं ब्रह्मास्मि” इत्येवमादय आत्मत्वोपगमा द्रष्टव्याः। ग्राहयन्ति चाऽत्मत्वेनैवेश्वरं वेदवाक्यानि। “एष त आत्मा सर्वान्तरः”, “तत् त्वमसि” इत्यादीनि। “अथ योऽन्यां देवतामुपास्ते” इत्यादिका श्रुतिरपवदति च भेददर्शनम्।
यत्तूक्तं विरुद्धगुणयोरन्योन्यात्मत्वं न सम्भवतीति, तदसत्। विरुद्धगुणताया मिथ्यात्वात्। नचेश्वराभावप्रसङ्गः। नहीश्वरस्य संसारित्वं प्रतिपाद्यते। किन्तर्हि? संसारित्वापोहेनेश्वरत्वम्। नचाधिकार्यभावः, प्रत्यक्षादिविरोधश्च। प्राक् प्रबोधात् संसारित्वाभ्युपगमात्। तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्य। प्रबोधे तु प्रत्यक्षाद्यभाव एव। तथासत्यद्वैतश्रुतेरप्यभावप्रसङ्ग इति चेत्। इष्टमेवैतत्। तस्मात् “आत्मेत्येवेश्वरे मनो दधीत’ इति प्रथमसूत्रार्थः।
॥ जीवप्रतिमैक्योपास्तिनिषेधपरतया द्वितीयसूत्रव्याख्यानम्॥
“मनो ब्रह्मेत्युपासीत” इत्येवमादिषु प्रतीकोपासनेषु संशयः किं तेष्वप्यात्मग्रहः कर्तव्यः, नवेति। किं तावत् प्राप्तम्? तेष्वप्यात्मग्रह एव युक्तः। कस्मात्? ब्रह्मण आत्मत्वात्, प्रतीकानामपि ब्रह्मविकारत्वात्, ब्रह्मत्वे सत्यात्मत्वोपपत्तेरिति।
ब्रूमः न प्रतीकेष्वात्ममतिं बध्नीयात्। नहि स उपासकः प्रतीकानि यत्तान्यात्मत्वेनाऽकलयेत्। यत् पुनर्ब्रह्मविकारत्वात् प्रतीकानां ब्रह्मत्वं ततश्चाऽत्मत्वमिति, तदसत्। प्रतीकाभावप्रसङ्गात्। विकारस्वरूपोपमर्देन हि नामादिजातस्य ब्रह्मत्वमेवाऽश्रितं भवति। स्वरूपोपमर्दे च नामादीनां कुतः प्रतीकस्वरूपत्वम्, आत्मग्रहो वा? किञ्च यथा रुचकस्वस्तिकयोर्नेतरेतरात्मत्वम्, द्वयोरपि विकारत्वात्। तथा प्रतीकात्मनोरपि। सुवर्णात्मनेव ब्रह्मात्मनैकत्वे प्रतीकाभावप्रसङ्गमवोचाम। अतो न प्रतीकेष्वात्मदृष्टिः कर्तव्येति द्वितीयसूत्रार्थः।
॥ आदित्यादीनां ब्रह्मत्वोपासनस्य विधायकतया तृतीयसूत्रव्याख्यानम्॥
तेष्वेवोदाहरणेष्वन्यः संशयः किमादित्यादिदृष्टयो ब्रह्मणि कार्याः, किंवा ब्रह्मदृष्टिरादित्यादिष्विति। सामानाधिकरण्यस्योभयथोपपत्तेः। तत्रानियमः, नियमकारिणः शास्त्रस्याभावात्। अथवा आदित्यादिदृष्टय एव ब्रह्मणि कर्तव्याः। एवं हि ब्रह्मोपासितं भवति। ब्रह्मोपासनं च फलवदिति प्राप्ते ब्रूमः
ब्रह्मदृष्टिरेवाऽदित्यादिषु स्यात्। कस्मात्? उत्कर्षात्। एवमुत्कर्षेणाऽदित्यादयो दृष्टा भवन्ति। तथाच लौकिको न्यायोऽनुगतो भवति। क्षत्तरि खलु राजदृष्टिः क्रियते, नतु राज्ञि क्षत्तृदृष्टिः। विपर्यये प्रत्यवायप्रसङ्गात्। यत्तु फलवत्त्वाय ब्रह्मोपासनं युक्तमिति, तदयुक्तम्। आदित्याद्युपासनस्यापि फलवत्त्वोपपत्तेः। ब्रह्मैव च सर्वाध्यक्षत्वात् फलं दास्यति। इदमेव च ब्रह्मोपासनं यदादित्यादिषु तद्दृष्टिः प्रतिमादिष्विव विष्ण्वादीनामिति तृतीयसूत्रार्थ इति।
॥ आत्मशब्दस्य जीवपरत्वे सूत्रकारस्य स्ववचनविरोधप्रसङ्गः॥
तत्रतावत् प्रथमसूत्रस्यापव्याख्यानं दूषयति नेति।
नाऽत्मेति सूत्रमीशस्य जीवत्वप्रतिपादकम्।
आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत्।
स्वशब्दात् प्राणभृच्चैव नोक्त इत्येव वेदरा॥३४॥
यद्यात्मशब्दो जीवेऽपि कथं स विनिवारयेत्।
आत्मशब्दोदितस्तस्माद् विष्णुरेव नचापरः॥३५॥
अत्र प्रतिपत्तिर्नाम प्रमितिरेव परस्याभिमता। प्रतीकदर्शनमित्याशय निराकरणात्। अतो जीवत्वेन प्रतिपत्तव्यत्वस्य प्रतिपादकमिति, जीवत्वस्य प्रतिपादकमिति चैक एवार्थः। कुतो नेत्यतः पदार्थज्ञानपूर्वकत्वाद् वाक्यार्थज्ञानस्य प्रथमं पदार्थं निराकरोति आत्मशब्दमिति। “स्वशब्दादेव प्राणभृच्च नोक्तः’ इति वेदराडेवाऽत्मशब्दं हेतुं कृत्वा जीवं न्यवारयद् यतः, तस्मादात्मशब्दोदितो विष्णुरेव नचापरो जीव इति योजना।
एतदुक्तं भवति भवेदयं सूत्रार्थो यद्यात्मशब्दो जीववाची भवेत्। नचैवम्। सूत्रकारवचनसामर्थ्यादेव तस्य तद्वाचित्वाभावावगमात्। तथाहि “यस्मिन् द्यौः” इति वाक्यमुदाहृत्य किमत्र द्युभ्वाद्यायतनत्वेन प्रधानमुच्यते, उत जीवः, किंवा परमात्मेति संशये, प्रधानादौ प्राप्ते सिद्धान्तितम् “द्युभ्वाद्यायतनं स्वशब्दात्” इति। स्वशब्दात् “तमेवैकं जानथ आत्मानम्” इति द्युभ्वाद्यायतने आत्मशब्दश्रवणाद् द्युभ्वाद्यायतनं परमात्मैवेति। ततः “नानुमानमतच्छब्दात्” इति प्रधानं निराकृत्य जीवनिराकरणार्थं सूत्रितम् “प्राणभृच्च” इति। तत्र चशब्दो नेत्यस्य, स्वशब्दादिति हेतोश्चानुकर्षणार्थः। ततश्चाऽत्मशब्दाज्जीवोऽपि नेत्यर्थः। यदेवमात्मशब्दं हेतुं कृत्वा जीवं निवारितवान् सूत्रकारः, तदन्यथानुपपत्त्या जानीमः सूत्रकारस्याऽत्मशब्दो न जीववाचीत्यभिप्रेतमिति। तथाच कथं स्वाचरितविरुद्धमिदानीमाचरेदिति।
एतदेव विशदयति यदीति। जीवेऽपि वर्तत इति सूत्रकृतोऽभिप्रेतमिति शेषः। तर्हि कथं सूत्रकारो जीवमात्मशब्देन विनिवारयेत्? नहि गन्धवत्त्वेन घटो निवारयितुं शक्यते। अथवा यद्यात्मशब्दो जीवेऽपि वर्तेत, तदा स आत्मशब्दः कथं जीवं निवारयेत्? प्रत्युत प्रतिपादयेदिति योजना।
॥ अत्मादिशब्दानां मुख्यवृत्त्या विष्ण्वेकवाचित्वे आगमोदाहरणम्॥
आगमवाक्यमप्यत्र पठति आत्मेति।
आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम्।
न वदन्ति यतो नाऽप्ता क्वापि तैर्गुणपूर्णता।
नारायणाध्यात्मगतमिति यद् वैष्णवं वचः॥३६॥
अन्यान्न वदन्ति। कुतः? यत आत्मादिशब्दाः पूर्तिवाचिनः। तैरन्यैः। गुणपूर्णता क्वाप्यवस्थायां न प्राप्ता। यत्किञ्चित्पूर्णतार्थत्वे चामुख्यार्थतापात इति। आत्मशब्दोऽप्यापूर्वात् तनोतेर्मनिन्प्रत्यये टिलोपे च सति निष्पन्नः पूर्णतावचनः। यद् यस्मादेवं वचोऽस्ति तस्मादपीति पूर्वेणैवान्वयः।
॥ जीवब्रह्मैक्यस्य सूत्रकृदभिमतत्वे बाधकोक्तिः॥
इदानीं वाक्यार्थं दूषयति यदीति।
यदि जीवेशयोर्वेदपतिरैक्यं च मन्यते।
आत्मशब्दं कथं तस्मान्निवारयति युक्तितः॥३७॥
मन्यते तत्र सूत्रे। तदा तस्मात् जीवादात्मशब्दं कथं निवारयति? कुत्र निवारितवानित्यत उक्तम् युक्तित इति। जीवनिराकरणयुक्तित्वेनोक्तत्वादिति यावत्।
इदमुक्तं भवति आत्मशब्दश्रवणाद् द्युभ्वाद्यायतनं न जीव इत्यात्मशब्दं जीवनिवारणे हेतुं वदता सूत्रकारेणाऽत्मशब्दो जीवान्निवारित इति गम्यते। नायं पुरुषः, विषाणित्वादिति यथा। नहि तत्रस्थेन तन्निरासो युज्यते। नायं गौः, विषाणित्वादित्यपि प्रसङ्गात्। प्रथमसूत्रे च द्युभ्वाद्यायतनं परमेश्वरो न जीव आत्मशब्दादित्यात्मशब्दस्य परमेश्वरे वृत्तिरभ्युपगता। अन्यथा तेन तत्साधनानुपपत्तेः। तत्र यदि जीवेश्वरावेकमेव तत्वमिति सूत्रकारस्य मतं स्यात्, तदा तेनाऽत्मशब्दस्तत्रैव वर्तते, न वर्तते चेत्युक्तं भवति। नच व्याहतं सूत्रकारो भाषत इति युक्तम्। तस्मान्न जीवेश्वरैक्यं तस्य मतमिति गम्यत इति। उपलक्षणं चैतत्। “द्युभ्वाद्यायतनं परमेश्वरः’, “न जीवः’ इति प्रतिज्ञाद्वयं च व्याहतमित्यपि द्रष्टव्यम्। सूत्रान्तरविरोधं चाऽह भेदस्येति।
भेदस्य व्यपदेशं च स्थितिं चादनमेव च।
भेददार्ढ्ये हेतुमाह सतात्पर्यं जगत्पत्तिः॥३८॥
यदि जगत्पतिः सूत्रकारो जीवेश्वरयोरैक्यं मन्यते, तर्हि कथं स एव “भेदव्यपदेशात्” इति भेदस्य व्यपदेशं च “स्थित्यदनाभ्यां च” इति स्थितिं चादनं च सतात्पर्यं जीवेशभेदं दृढयितुं हेतुमाह। भेदस्य प्रागपि प्रतिपादितत्वाद् (११२१, १२२०) दार्ढ्य इत्युक्तम्। अत्राप्यनेकप्रमाणोपन्यासात् सतात्पर्यमिति।
॥ जीवब्रह्मभेदस्य भ्रान्तिसिद्धत्वोक्तिनिरासः॥
न कोऽप्ययं विरोधोऽस्ति। परमार्थतो जीवेशयोरेकत्वेऽपि हि व्यावहारिकभेदोऽस्ति तदपेक्षया तानि सूत्रणि। इदं तु परमार्थापेक्षयेति व्यवस्थोपपत्तेरित्याशयेन शङ्कते व्यावहारिकेति।
व्यावहारिकभेदश्चेत्क्वासावव्यावहारिकः।
अत्र व्यावहारिकशब्देन भ्रान्तिसिद्धोऽभिप्रेयते। प्राक् प्रबोधादित्युक्तानुवादत्वात्। जीवेश्वरभेदो भ्रान्तिसिद्ध इति वदन् प्रष्टव्यः। किमयमेव भेदो भ्रान्तिसिद्धः, किंवा भेदमात्रमिति। नाऽद्यः, अपसिद्धान्तात्। द्वितीये दोषमाह क्वेति। भ्रान्तेरभ्रान्तिपूर्वकत्वात्। जीवेश्वरभेदस्य भ्रान्तिकल्पितत्वे क्वचित् सत्यो भेदोऽङ्गीकर्तव्यः।क्वासौ? न क्वापि। कुत्रापि भेदस्य सत्यत्वानङ्गीकारे जीवेशभेदारोपोऽपि न सम्भवतीति भावः।
॥ भेदमात्रस्य भ्रान्तिसिद्धत्वोक्तौ व्याघातप्रसङ्गः॥
स्यादेतत्। नास्त्येव कोऽपि भेदः सत्यः। तथाऽपि जीवेशभेदभ्रान्तिरुपपद्यते। भ्रान्तिर्हि संस्कारमपेक्षते। संस्कारश्च ज्ञानमात्रम्। अतः पूर्वपूर्वभ्रमसंस्कारादुत्तरोत्तरभ्रान्त्युत्पादः। अनादिश्चायं संसार इति। मैवम्। भेदमात्रस्य मिथ्यात्वे प्रमिते खलु तद्बलादेषा कल्पनोपपद्यते। नचैवम्। सर्वोऽपि भेदो भ्रान्त इति हि प्रतिज्ञैव तावद् व्याहता, दूरे प्रमाणोपन्यास इत्याशयवान् सोपपत्तिकं तावत् पृच्छति व्यावहारिकमिति।
व्यावहारिकमित्येव वचनं व्यावहारिकम्
उत नेति विकल्पे तुयदि स्याद् व्यावहारिकम्॥३९॥
तस्यापि बाध्यता चेत् स्याद्भेदः स्यात् पारमार्थिकः।
अव्यावहारिकत्वं चेद् भेदोऽयं सत्यतां गतः॥४०॥
भेदमात्रमिति शेषः। तिष्ठतु तावदन्यदित्येवार्थः। इति विकल्पे तु पक्षद्वये सम्भवति कं पक्षमवलम्बस इति शेषः। अत्र सर्वत्र वचनशब्देन तदर्थो लक्ष्यते। “सर्वोऽपि भेदो भ्रान्तिकल्पितः’ इति वाक्यार्थो भ्रान्तिकल्पितः, अथ परमार्थ इति प्रश्र्नार्थः। आद्यं शङ्कते यदीति। एतद् वचनमिति वर्तते। अत्रापि पृच्छामो वाक्यार्थोऽयं बाध्यः, नवेति। नेति पक्षे भ्रान्तिकल्पितोऽपि न भवेत्। कुत्रापि कदाऽपि केनाप्यबाध्यस्य भ्रान्तिकल्पितत्वे ब्रह्मणोऽपि तथात्वापत्तेः।
प्रथमं शङ्कते तस्येति। तस्य वचनस्य न केवलं भ्रान्तिकल्पितत्वम्, किन्तु बाध्यताऽपि स्याच्चेदित्यर्थः। दूषयतिभेद इति। “सर्वोऽपि भेदो भ्रान्तः’ इति वाक्यार्थस्य भ्रान्तत्वे बाध्यत्वे च सकलो भेदः पारमार्थिकः स्यात्।
द्वितीयमाशङ्कते अव्यावहारिकत्वमिति। तस्य वचनस्येति वर्तते। निराकरोति भेदइति। तिष्ठतु तावदन्यः। वाक्यार्थस्य सत्यत्वे तस्य ब्रह्मणश्च यो भेदः, यश्च पदार्थानामसत्यत्वे वाक्यार्थस्य सत्यत्वानुपपत्तेः पदार्थानां परस्परं वाक्यार्थाद् ब्रह्मणश्च भेदः, स तावत् सत्यतां गतः। उभयथाऽपि वाक्यार्थो व्याहत इत्यर्थः।
॥ भेदमात्रस्य भ्रान्तत्वे बाध्यत्वे च सर्वभेदानां सत्यत्वाङ्गीकारप्रसङ्गः॥
“सर्वोऽपि भेदो भ्रान्तः’ इति वाक्यार्थस्य भ्रान्तत्वे बाध्यत्वे च सर्वस्यापि भेदस्य सत्यता स्यादित्युक्तम्। तत् कुत इत्यतस्तदुपपादनाय व्याप्तिं तावदाह एकस्येति।
एकस्यासत्यतायां हि द्वयोरेव विरुद्धयोः।
अन्यस्य सत्यतैव स्यादिति केन निवार्यते॥४१॥
असत्यं नोक्तमित्युक्ते सत्यमुक्तमिति प्रजाः।
जानन्त्युक्तं तु नो सत्यमित्युक्तेऽसत्यतामपि॥४२॥
यौ द्वावेव विरुद्धौ तयोर्मध्ये एकस्यासत्यतायां सत्यामन्यस्य सत्यता स्यादेवेति व्याप्तिः केन निवार्यते? उपाधिव्यभिचारयोरभावान्न केनापि। पुरोवर्तिनः पुरुषत्वेऽसति स्थाणुत्वमेव भवतीति नियमो नास्ति, वल्मीकत्वस्यापि सम्भवात्। अतो द्वयोरेव विरुद्धयोरित्युक्तम्। द्वयोरिति विशेषणस्य असमर्थतापरिहाराय विरुद्धग्रहणम्। यः पदार्थो द्वयोरेव विरुद्धयोरेकस्यासत्त्ववानसावन्यस्य सत्त्ववानित्युक्तं भवति।
निदर्शनमाह असत्यमिति। आप्तेनोक्तमसत्यं नेत्युक्ते सति, उक्तं सत्यमिति प्रजा जानन्ति। तथा विप्रलम्भकेनोक्तं सत्यं नो इत्युक्ते तु तस्यासत्यतामपि जानन्ति। सत्यत्वासत्यत्वयोर्द्वयोरेव विरुद्धता। तत्र आप्तोक्तेऽर्थेऽसत्यतायामसत्यां सत्यतायाः सत्त्वम्, अनाप्तोक्ते च सत्यतायामसत्यामसत्यतायाः सत्त्वं च प्रसिद्धमित्यर्थः। इत्युक्त इति प्रमितत्वोपलक्षणम्। प्रजा जानन्तीत्यनेन आविपालाङ्गनमेषा व्याप्तिः सिद्धा, न केवलं परीक्षकाणामिति सूचयति।
॥ घटतदभावयोरेकदैव एकत्रैव मिथ्यात्वायोगः॥
ननु स्वप्नेऽत्र घट इति दृष्ट्वा नात्र घट इत्यपि पश्यति। तत्र घटः तदभावश्च द्वयमपि मिथ्या। अतो व्याप्तिभङ्ग इत्यत आह नेति।
न स्वप्नेऽपि द्वयं मिथ्यातत्रैकं सत्यमेव हि।
भावाभावावुभौ तत्र कथं मिथ्या भविष्यतः॥४३॥
तत् किं द्वयमपि सत्यमित्यत आहतत्रेति। तत्र घटतदभावयोः मध्ये। यदाऽभावस्यासत्यता, तदा घटः सत्य एव। यदाच घटस्यासत्यता तदाऽभावः सत्य एवेत्यर्थः। तस्मान्न व्याप्तिभङ्ग इति हिशब्दार्थः। कुतो न द्वयमपि मिथ्येत्यत आह भावेति। यो यस्याभावः, यश्च यस्याभावस्य प्रतियोगी तावुभावप्येकत्रैकदैव न मिथ्येति व्याप्तेः। स्वप्नेऽपि घटतदभावौ कथं तथा भविष्यत इति भावः।
॥ एकत्रैव एकदैव भावाभावयोर्मिथ्यात्वोक्तेर्व्याहतत्वम्॥
व्याहतं च भावाभावयोरुभयोरसत्त्ववर्णनमित्याशयेनाऽह भावस्य हीति।
भावस्य हि निषेधे तु नाभावस्य निषेधनम्।
स्ववाचोऽसत्यता चेत् स्यात् तस्माद् भेदस्य सत्यता।
तस्माज्जीवेशयोर्भेद उक्तन्यायेन गम्यते॥।४४॥
हिशब्दो हेतौ। भावस्य निषेधे कृते तु अभावस्यैव विहितत्वात्। पुनर्नाभावस्य निषेधनं कर्तुं शक्यते व्याघातात्। एवमभावस्य निषेधे कृतेऽभावाभावो भाव एव तद्व्याप्तो वेति भावस्य विहितत्वात् पुनर्न भावस्य निषेधनं युक्तम्, व्याहतत्वादिति।
अस्त्वेवं व्याप्तिः, ततः किमित्यत आह स्ववाच इति। स्वशब्देन प्रतिवाद्युच्यते। तद्वागर्थस्य सकलभेदमिथ्यात्वस्य। तस्माद् व्याप्तिसद्भावात्। मिथ्यात्वं सत्यत्वं च द्वौ विरुद्धधर्मौभेदे। तयोः मिथ्यात्वेऽसति सत्यत्वं सत् स्यादेव। उक्तव्याप्तिबलादित्यर्थः।
प्रकृतमुपसंहरति तस्मादिति। भेदमिथ्यात्वासम्भवाज्जीवेशयोः पारमार्थिकभेद एवोक्तन्यायेन द्युभ्वादिसूत्रैर्गम्यते। तथाच तद्विरोधान्नेदमभेदं प्रतिपादयति सूत्रमिति सिद्धम्। श्रुतयस्तु प्रागेव सम्यग् व्याख्याताः।(८९७) विरुद्धगुणसत्यता चोपपादिता।(११६,८८९) प्रत्यक्षादीनामतत्वावेदकत्वमपि निराकृतम्।(४८, ९७२) श्रुतिमिथ्यात्वस्यानिष्टत्वं च समर्थितमिति (५२) उक्त एव सूत्रार्थः।
॥ विष्णुप्रतीकयोरैक्योपास्तिनिषेध एव सौत्रप्रतिज्ञार्थः, न जीवप्रतीकैक्योपास्तिनिषेधः॥
एवं प्रथमसूत्रस्यापव्याख्यां प्रत्याख्याय द्वितीयस्यापि प्रत्याख्याति एतस्मादिति।
एतस्मादात्मशब्दोऽयं परमात्माभिधा भवेत्।
प्रतीकविषयत्वेन विष्णुदृष्टिर्न तद् भवेत्॥४५॥
एतस्मादुक्तन्यायादात्मेति सूत्रगतोऽयमात्मशब्दः परमात्माभिधा परमात्मन एवाभिधायकस्तावद् भवेत्। ततः किमित्यत आह प्रतीकेति। तत् तस्मात् पूर्वसूत्रगतस्याऽत्मशब्दस्य परमात्मवाचित्वात् “न प्रतीके” इति प्रतिज्ञावाक्यस्य प्रतीकविषयत्वेन विष्णुदृष्टिः कर्तव्या न भवेदित्येवार्थः।
इदमुक्तं भवति “न प्रतीके” इत्यत्र तावदात्मेतीत्यनुवर्तनीयं पूर्वसूत्रात्। अन्यथा प्रतिज्ञावाक्यस्यापरिपूर्णत्वात्। पूर्वसूत्रे चाऽत्मशब्दो विष्णुविषय इति समर्थितम्। तथाच प्रतीकविषयाया विष्णुदृष्टेरेवायं प्रतिषेधो व्याख्येयः। “न प्रतीकेषु जीवमतिं बध्नीयात्” इति तु प्रतिज्ञाव्याख्याने प्रकृतपरित्यागः, अप्रकृतस्वीकारश्च प्रसज्येयातामिति।
॥ प्रतीकविषयत्वेनोपासनस्य निषेधः, प्रतीकसंस्थितत्वेनोपास्यत्वमुभयमपि सूत्रार्थः॥
“मनो ब्रह्म” इत्यादिश्रुत्यर्थत्वेन यत् प्रतीकसंस्थितत्वेनेत्युक्तम्, तदपि नोत्सूत्रितम्। किन्तु प्रतीक इति सप्तम्यन्तं पदमावर्तते। तत्राऽद्यं विषयसप्तम्यन्तं नेत्यनेन सम्बद्ध्यते। द्वितीयमधिकरणसप्तम्यन्तं श्रुतिव्याख्यानम्। उभयत्राऽत्मेतीति पदद्वयं पूर्वसूत्रादनुवर्तत इत्याशयवान् प्रसङ्गाद् द्वितीयं व्याख्याति प्रतीक इति।
प्रतीके विष्णुरित्येव तस्मात् कार्या ह्युपासना।
यस्मात् प्रतीकविषयत्वेन विष्णुदृष्टिः कर्तव्या न भवेत् तस्मादिति श्रुत्यर्थ इति शेषः। हिशब्देन प्रथमादिविभक्तेः सप्तम्यर्थवाचित्वं शाब्दिकानां प्रसिद्धमिति द्योतयति।
॥ जीवप्रतीकैक्योपास्तेरप्रसक्तत्वाच्च न तन्निषेधः सूत्रार्थः॥
इतश्च नायं प्रतिज्ञार्थ इत्याह नचेति।
नच विष्णुः प्रतीकं यत् तस्मात्.............॥४६॥
यस्माद् विष्णुः प्रतीकम्, चशब्दाज्जीवश्च न भवति; तस्मात् प्रतीकेष्वात्मेति जीव इत्युपासना न प्रसक्ता इति शेषः। अयमर्थः प्राप्तौ सत्यां हि प्रतिषेधो वक्तव्यः। नच प्रतीकेषूपासकस्याऽत्मदृष्टिः प्रसक्ता, प्रसञ्जकाभावात्। यत्तु प्रसञ्जकमुक्तं ब्रह्मण आत्मत्वम्, प्रतीकानां च ब्रह्मविकारत्वम्, तदुभयमप्रामाणिकम्, प्रमाणविरुद्धं च। नह्यत्यन्ताभासेन प्रसक्तिर्भवति, अतिप्रसङ्गात्। ततः प्रसक्त्यभावात् प्रतिषेधोऽनर्थक इति।
॥ सूत्रे जीवस्य तच्छब्दपरामृष्टत्वोक्तिनिरासः॥
“नहि सः” इति हेतुव्याख्यानं दूषयति नच विष्णुः प्रतीकं यत् तस्मादिति। तच्छब्दो हि प्रकृतपरामर्शे वर्तते। प्रकृतश्चाऽत्मा। आत्मशब्दश्च विष्णुवाच्येवेति समर्थितम्। (१२७४, १२८२) तथाच हि यस्मात् स विष्णुः प्रतीकं नैव तस्मादित्येवार्थः सम्पद्यते। “न हि स उपासकः प्रतीकानि” इति व्याख्याने तु प्रकृतपरित्यागेनाप्रकृतपरामर्शः प्रसज्यत इति।
॥ मायावादीयद्वितीयतृतीयसूत्रव्याख्यानयोः परस्परविरुद्धत्वम्॥
इदानीं “ब्रह्मदृष्टिः” इति सूत्रस्यापव्याख्यानमपाकरोति नाऽत्मेति।
................... नाऽत्मेत्युपासना॥४६॥
इति पक्षो यदा ब्रह्मदृष्टिश्चात्र विरुद्ध्यते।
स नेति युक्तिस्तत्रापि समेत्युक्तविरुद्धता॥४७॥
नाऽत्मेत्युपासनेत्येकदेशोत्कीर्तनेन “न प्रतीके नहि सः” इति समग्रसूत्रार्थमनुवदति। “प्रतीकेष्वात्मेति जीव इत्युपासना न कार्या। नहि स उपासकः प्रतीकानि” इति पक्षो यदा इत्येवं पूर्वसूत्रव्याख्यानं यदा, तदाऽत्र प्रतीकेषु ब्रह्मदृष्टिश्च विरुद्ध्यते। चशब्दोऽपव्याख्याननिराससमुच्चये।
एतद् विवृणोति स इति। प्रतीकानामात्मत्वेनोपासनस्याकर्तव्यत्वे त्वया या तादात्म्याभावलक्षणा स नेति युक्तिरभिहिता सा तत्रापि ब्रह्मप्रतीकयोरपि समेति हेतोः प्रतीकेषु ब्रह्मदृष्टिः कर्तव्येति सूत्रे व्याख्यायमाने सति उक्तयुक्तिविरुद्धता भवतीति।
एतदुक्तं भवति प्रतीकेषु ब्रह्मदृष्टिः कर्तव्येति सूत्रव्याख्यानमसत्। प्रतीकं ब्रह्मतया नोपास्यम्, अब्रह्मत्वात्; यद् यन्न भवति, न तत् तत्त्वेनोपास्यमिति युक्तिविरुद्धत्वात्। नचेयं युक्तिरप्रमा। प्रतीकानामात्मत्वेनोपासनस्याकर्तव्यतायां पूर्वसूत्रे परेणैवोपन्यस्तत्वात्। अन्यथाऽनैकान्त्येन तत्रापि साधिका न स्यात्। नच ब्रह्मप्रतीकयोरभेदः, ब्रह्मणः सत्यत्वात्, प्रतीकानां कल्पितत्वात्। पारमार्थिकभेदाभावस्तावदस्तीति चेत्, तर्हि जीवप्रतीकयोरपि स नास्तीत्यसिद्धिः स्यादिति।
॥ उत्कर्षप्राप्त्यभावे सति अतत्वस्य हेतुत्वे आत्मत्वेनोपासनस्यानिराकार्यत्वप्रसङ्गः॥
स्यादेतत्। “नहि सः” इति न निर्विशेषणो हेतुः सूत्रकारस्याभिमतः, येन ब्रह्मदृष्टिः प्रतीकेषूक्तयुक्तिविरुद्धा स्यात्। किन्तूपास्यस्योत्कर्षप्राप्त्यभावे सतीत्यनेन विशिष्टः। प्रतीकानां ब्रह्मत्वेनोपासने तूत्कर्षप्राप्तिरस्ति। अतोऽतद्भावेऽप्युपासना कार्येति युज्यत इत्यत आह यदीति।
यद्यप्युत्कर्षमात्रेण ह्यतद्भावेऽप्युपासना।
उत्कर्ष आत्मनोऽपि स्याच्चेतनत्वादचेतनात्।
तस्मादतत्वं नोपास्यमिति वेदविदां मतम्॥४८॥
आद्योऽपिशब्दोऽतिप्रसङ्गसमुच्चयार्थः। हिशब्दस्योत्तरार्धेनान्वयः। यदि विशिष्टहेतुं व्याख्याय प्रतीकानामतद्भावेऽब्रह्मत्वेऽप्युत्कर्षप्राप्तिमात्रेण ब्रह्मत्वेनोपासनाऽङ्गीक्रियते, तदाऽऽत्मत्वेनापि तदुपासनमङ्गीकार्यम्, नतु निराकार्यम्। कुत इत्यत आह उत्कर्ष इति। यस्माद् ब्रह्मवदात्मनोऽपि प्रतीकादुत्कर्षोऽस्ति। कथम्? आत्मनश्चेतनत्वात्। अचेतनं खलु प्रतीकम्। तस्याऽत्मत्वेनोपासनायामुत्कर्षप्राप्तिः स्यादिति।
अतिप्रसङ्गस्य विपर्ययपर्यवसानमाह तस्मादिति। यस्माद् विशिष्टहेतौ व्याख्यायमाने पूर्वसूत्रे असिद्धिः स्यात्। तत एव प्रतीकेषु ब्रह्मोपासनवदात्मोपासनं च प्रसज्येत। तस्मादतत्वं यद् यन्न भवति तत् तत्त्वेन नोपास्यमिति सामान्यमेव सूत्रकारस्याभिमतम्। नतु विशेषणप्रक्षेपः। तथाच ब्रह्मदृष्टिरिति प्रतिज्ञा स्वोक्तयुक्तिविरुद्धैवेति। अत्र व्याप्तेर्निर्विशेषत्वाभिधानस्य हेतोर्निर्विशेषणत्व एव तात्पर्यम्, स्पष्टत्वार्थं तु व्याप्त्यभिधानमिति ज्ञातव्यम्।
॥ प्रतीकानां ब्रह्मत्वध्यानस्य फलहेतुत्वे, ब्रह्मणः प्रतीकताध्यानेनानर्थस्यापि प्रसङ्गः॥
एवं प्रतिज्ञाव्याख्यानमपाकृत्य उत्कर्षादिति हेतुव्याख्यानमपाकरोति उत्कर्षादिति।
उत्कर्षाद् ब्रह्मताध्याने यदि स्यात् फलमञ्जसा।
ब्रह्मणो नीचताज्ञानादनर्थः किं न जायते॥४९॥
ब्रह्मताध्याने प्रतीकानामुत्कर्षादुत्कर्षस्य दृष्टत्वादञ्जसा फलं पुरुषार्थरूपं फलं यदि स्यात् तदा तदेव ब्रह्मणो नीचताध्यानमिति तस्मादनर्थः किं न जायते? जायत एवेति समव्ययफलत्वादकार्यमेव इदमिति।
॥ अचेतनस्य ब्रह्मताध्यानस्यानर्थमात्रहेतुत्वम्॥
अभ्युपगम्येदं समव्ययफलत्वमुक्तम्। वस्तुतस्तु न पुरुषार्थः किन्त्वनर्थ एवेत्याह अचेतनस्येति।
अचेतनस्य ब्रह्मत्वध्याने तुष्टिर्नहि क्वचित्।
नीचस्य स्वात्मताध्यानात् कुप्यति ब्रह्म लोकवत्॥५०॥
तुष्ट्यभावाच्च न पुरुषार्थलाभस्ततः। क्वचिदित्यनेन यदचेतनं तदुपचिकीर्षालक्षणतुष्टिरहितमिति व्याप्तिं सूचयति। नीचस्य प्रतीकस्य स्वात्मताध्यानाद् ब्रह्म कुप्यति। ततश्चानर्थं प्रयच्छति। तत्र दृष्टान्तो लोकवदिति। यथा लोके शिलादिकं राजत्वादिना चिन्तितं न प्रसीदति, नापि पुरुषार्थं प्रयच्छति। यथाच राजा चण्डालत्वेन ध्यातः कुप्यति, अनर्थं च ददाति तथेत्यर्थः। अनेन प्रतीकानामचेतनत्वेऽपि ब्रह्मैव सर्वाध्यक्षत्वात् फलं दास्यतीति च प्रत्युक्तम्। तस्यानेनोपासनेन कुपितत्वात्।
॥ द्विरूपस्य ध्यानस्य फलतः साम्योक्तिः॥
न वयं ब्रह्मणि प्रतीकत्वोपासनं ब्रूमः। येन ब्रह्म कुपितमनर्थं प्रयच्छेत् किन्तु प्रतीके ब्रह्मत्वोपासनम्। ततः पुरुषार्थप्राप्तिरित्यत आह चण्डाल इति।
चण्डालो नृप इत्युक्ते नृपश्चण्डाल इत्यपि।
को विशेषः परिज्ञाते नृपेण स्यात् कथञ्चन॥५१॥
चण्डालमुद्दिश्य “चण्डालो नृपः’ इत्युक्ते तथा नृपमुद्दिश्य “नृपश्चण्डालः’ इत्युक्ते नृपेण परिज्ञाते सत्यनर्थप्राप्तौ कथञ्चन को विशेषः स्यात्? न कथञ्चित् कोऽपि। अत्रोक्तशब्देन ध्यानमुपलक्ष्यते। अज्ञातोपासनो राजा नानर्थं करोतीति नृपेण परिज्ञात इत्युक्तम्। तथाच प्रतीकं ब्रह्मेत्युपासने ब्रह्म प्रतीकमित्युपासने च सम एवानर्थ इति वाक्यशेषः।
॥ उक्तार्थसमर्थनम्॥
ननु क्षत्तरि राजदृष्टिः फलवती, राज्ञि क्षत्तृदृष्टिरनर्थहेतुर्दृष्टा। तत् कथमुभयस्य साम्यमुच्यत इति चेत्, न। तत्र दृष्टेरभावात्। उक्तिमात्रं तूपचारेण। सिंहो देवदत्त इति यथा। दृष्टौ तु तत्राप्यनर्थसाम्यमेवेत्याशयेनाह पुरत इति।
पुरतो नरदेवस्य चण्डालो यदि पूज्यते।
राजवत् किं न कोपः स्याद् राज्ञो लोकेऽभिपश्यति॥५२॥
राज्ञस्तु पुरतः प्रोक्ते चण्डाले नृप इत्यपि।
आत्मानं स इति प्रोक्तमितिवद्व्येव कुप्यति॥५३॥
राजा यथा पूज्यते तथा। तदा राज्ञः कोपो न स्यात् किम्? लोकेऽभिपश्यति सतीति कोपातिशयप्रदर्शनार्थम्। पूजया दर्शनमुन्नीयत इत्यतः पूज्यत इत्युक्तम्।
न केवलं दृष्टेरुन्नायिकायां पूजायामेव राजकोपः किन्तु तादृश्यामुक्तावपीत्याह राज्ञस्त्विति।नाज्ञाता प्रोक्तिः कोपजननीत्यतो राज्ञस्तु पुरत इत्युक्तम्। चण्डाले नृप इति प्रोक्तेऽपि प्रकर्षेण न मयोपचारेणोच्यते, अपितु वस्तुत एवेत्युक्तेऽपि राजा कुप्यत्येव हि। आत्मानं प्रति हि स चण्डाल इति प्रोक्तं प्रकर्षेणोक्तमितिवदित्यत्र यथा तथैवेत्यर्थः। पूजैव कोपकारणं न दर्शनमित्याशङ्कानिरासाय विवेकार्थमयं श्लोकः।
॥ ब्रह्मणः प्रतीकत्वेन, प्रतीकस्य बह्मत्वेन वा उपासने दोषसाम्यम्॥
एवमुद्देशविधानोक्त्या द्वैरूप्यमङ्गीकृत्य फलतः साम्यमुक्तम्। इदानीं तदपि नास्तीत्याह अभेदेनेति।
अभेदेनैतयोर्ध्याने को विशेषो वचस्यपि।
अयं राजा त्वमित्युक्ते चण्डालेऽथ नृपेऽपि च।
चण्डाल इति तु प्रोक्ते सममेव हि दूषणम्॥५४॥
एतयोर्ब्रह्मप्रतीकयोरभेदेन ध्यानेऽङ्गीकृते न केवलमनर्थसाम्यम्, किन्तु वचस्यपि को विशेषः? वचनद्वयार्थोऽप्यविशिष्ट एवेत्यर्थः। अत्रैव दृष्टान्तमाहअयमिति। व्यक्तिभेदेन दूषणपरिहारः स्यादित्यतोऽयमित्युक्तम्। दूषणं नीचत्वलक्षणम्।
द्वयोरभेदेन ध्याने दूषणं सम्भवत्येव। नचैवम्। प्रतीकस्य हि ब्रह्मत्वं भाव्यते। नतु ब्रह्मणः प्रतीकत्वमित्यत आह ध्यात इति।
ध्यातेऽप्येकस्य तद्भावे तद्भावोऽन्यस्य किं न तत्।
नचैव तदविज्ञातं सर्वज्ञब्रह्मणा क्वचित्॥५५॥
तत् तयोर्ब्रह्मप्रतीकयोरेकस्य प्रतीकस्य तद्भावे ब्रह्मभावे ध्याते सत्यन्यस्य ब्रह्मणस्तद्भावः प्रतीकभावः ध्यातो न किम्।
एतदुक्तं भवति भवेदयं परिहारो यदि प्रतीकस्य स्वरूपोपमर्देन तस्य ब्रह्मत्वमुपास्यमिति पक्षः स्यात्। नचैवम्। प्रतीकाभावप्रसङ्गस्य परेणैवोक्तत्वात्। भेदाभेदाभिप्रायेणायं परिहार इत्यपि नास्ति। नहि घटो मृदभिन्नः, मृद् घटाद् भिन्नेति भेदाभेदौ। किन्नाम। परस्परम्। तस्मादनुपमर्दितस्वरूपस्य प्रतीकस्य ब्रह्मत्वे ध्याते ब्रह्मणोऽपि प्रतीकत्वं ध्यातमेवेति युक्तमुक्तमिति।
नन्वस्मिन्नुपासने ब्रह्मणा ज्ञातेऽनर्थः स्यात्, नत्वज्ञाते। अतस्तथोपासनं करिष्यत इत्यत आह नचैवेति। तत् उपासनम्। ब्रह्मणोऽज्ञाने “सर्वाध्यक्षं ब्रह्मैव फलं दास्यति” इत्यपि रिक्तं वचः स्यात्।
॥ उक्तार्थोपसंहारः॥
ननु श्रुतिविहितमाचरता कथं ब्रह्मकोपेनानर्थप्राप्तिरित्याशङ्कां परिहरन्नपव्याख्याननिराकरणमुपसंहरति तस्मादिति।
तस्मादपेशलं सर्वमन्यस्य ब्रह्मतावचः।
तस्माद् यथोक्तमार्गेण ब्रह्मोपास्यं मुमुक्षुभिः॥५६॥
सर्वमिति श्रुतिसूत्रव्याख्यानरूपम्। एतेन सालग्रामादौ विष्ण्वादिप्रतिपत्तिरपि परास्ता वेदितव्या। सूत्रव्याख्यानमुपक्रम्यापव्याख्यानदूषणमसङ्गतमित्यतः स्वोक्तदार्ढ्यार्थमिति भावेनाऽह तस्मादिति। परकीयव्याख्यानस्य दूषितत्वात्। यथोक्तमार्गेण अस्मदुक्तं सूत्रार्थमनतिक्रम्य वर्तमानेन मार्गेण॥*॥ इति ब्रह्मदृष्ट्यधिकरणम्॥३॥
अथ तदधिगमाधिकरणम्॥८॥
॥ ब्रह्माधिगमे जाते तत्प्रसादात् उत्तराघस्याश्लेषः, पूर्वाघस्य विनाशश्च भवतः,
“एवंविदि पापं कर्म न श्र्लिष्यते’ “अस्य सर्वे पाप्मानः प्रदूयन्ते’ इत्यश्लेषविनाशव्यपदेशात्॥
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात्। निवृत्ता साधनचिन्ता। प्रतिबन्धकानां पूर्वोत्तराणामनन्तकर्मणां भावान्न ज्ञानिनोमोक्षः सम्भवतीत्याशङ्कानिरासाय कर्मनाशाख्यं ज्ञानफलमिदानीं निरूप्यते। तत्र ज्ञानसामर्थ्येनैव कर्मक्षयो भवतीति प्रतीतिं निराकर्तुं सूत्रतात्पर्यमाह तथेति।
ॐ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॐ॥१३॥
तथोपास्याञ्जसा दृष्टं ब्रह्म पापं च भस्मसात्।
करोति निखिलं पूर्वं पाश्चात्यस्याप्यसङ्गताम्॥५७॥
करोति................................।
तथा उक्तप्रकारेण। अञ्जसा आदरनैरन्तर्याभ्यमुपास्य दृष्टम्। ज्ञानात् पूर्वं निखिलं पापम्, चशब्दादनिष्टं पुण्यं च। पाश्चात्यस्य पापस्य, अनिष्टपुण्यस्य च। अनेन “अतोऽन्यदपीत्येकेषामुभयोः” इति सूत्रतात्पर्यमुक्तं भवति।
॥ मायावादिव्याख्याननिरासः॥
इतरस्याप्येवमसंश्लेषः पाते तु। इदं सूत्रं केचित् “ब्रह्मविद एवाघस्येव पुण्यस्याप्यशेषो विनाशो भवति। शरीरपाते प्रत्यासन्ने सति” इति व्याचक्षते। तदसत्। “अतोऽन्यदपि” इत्यस्य पुनरुक्तताप्रसङ्गात्। व्यख्यानव्याख्येयभावस्य चानन्यगतित्वात्। पूर्वसूत्र एवाघपदस्थाने कर्मपदप्रक्षेपेणोपपत्तौ सूत्रान्तरारम्भवैयर्थ्यात्।
॥ ज्ञानीतरस्य ब्रह्मद्वेषिणः तमःपाते आसन्ने सति मिथ्याज्ञानद्वेषादिपरिपूर्तौ सत्यां प्रस्तुता
घादितरस्य पुण्यस्यापि एवं ज्ञानिपापस्येव उत्तरपुण्यस्याश्लेषः, पूर्वपुण्यस्य विनाशश्च भवतः॥
अस्माकं तु “अग्न्हिोत्रादि” इत्यादिसूत्राणि पुण्येऽपि विभागसूचनार्थानि। ज्ञानोत्तरं पुण्यार्जनस्य अभावादश्लेषशब्दो विनाशार्थो व्याख्यातव्यः। तथाच प्रकृतपरित्यागोऽप्रकृतस्वीकारश्चेत्याशयवानन्यथा सूत्रतात्पर्यमाह तद्द्विषश्चेति।
ॐ इतरस्याप्येवमसंश्लेषः पाते तु ॐ॥१४॥
..... तद्द्विषश्चैवं पुण्यनाशोऽप्यसङ्गता।
यदेव विद्ययेत्यत्र पूर्वोक्ताद्धि विशिष्यते॥५८॥
ब्रह्मद्विषश्च। एवं ज्ञानिवत्। द्वेषपरिपूर्तेः पूर्वस्य पुण्यस्य नाशो भवति, उत्तरस्यासङ्गताऽपि। अत्र सूत्रम् “यदेव विद्ययेति हि” इति। तत् पुनरुक्तम्। एतदर्थस्य “तच्छ्रुतेः” इति सूत्रेण प्रागुक्तत्वादित्यत आह यदेवेति। अत्रोक्तं प्रमेयमिति शेषः। अतो पुनरुक्तिदोष इति हेरर्थः। वक्ष्यमाणोऽर्थविभागः प्रकरणवशात् प्रसिद्ध इति वा।
॥ ज्ञानिकृतमल्पमपि पुण्यं महत्तममन्तं च भवति॥
कथं विशिष्यत इत्यतः पूर्वसूत्रतात्पर्यं तावदाह पूर्वमिति।
ॐ यदेव विद्ययेति हि ॐ॥१८॥
पूर्वं स्वर्गादिलब्ध्यर्थं वीर्यवत्त्वेन चोदितम्।
कर्म विद्यायुतंपश्चान्मोक्षे वीर्यप्रदं त्विति॥५९॥
स्वर्गादीति मोक्षेतरपुरुषार्थग्रहणम्। उत्तरसूत्रतात्पर्यमाह पश्चादिति। पश्चात्त्विति सम्बन्धः। विद्यायुतं कर्मेति वर्तते। वीर्यप्रदं आनन्दातिशयप्रदम्। इति चोदितमिति सम्बन्धः।
॥ ज्ञानी द्वेषी च इतरे प्रस्तुतानारब्धादन्ये पुण्यपापे भोगेन नाशयित्वा
अथ तन्नाशानन्तरमेव ब्रह्म वा तमो वा सम्पत्स्यते प्राप्नोति॥
सकलकर्मक्षये तदैव मुक्तिः स्यात्। नचैवम्। जीवन्मुक्तानामुपलम्भादित्याशङ्कापरिहारायोक्तं सूत्रकारेण “अनारब्धकार्ये एव तु पूर्वे तदवधेः” इति। तर्हि प्रारब्धकर्मभावात् कथं मोक्ष इत्याशय पुनः सूत्रितम् “भोगेन त्वितरे क्षपयित्वाऽथ सम्पत्स्यते” इति। एतदपि न ब्रह्मविन्मात्रविषयमित्याशयवान् व्याचष्टे तत इति।
ॐ भोगेन त्वितरे क्षपयित्वाऽथ सम्पत्स्यतेॐ॥१९॥
ततो भोगेन पुण्यं च क्षपयित्वेतरत् तथा।
ब्रह्मद्वि ब्रह्मदर्शी च तमोमोक्षाववाप्नुतः॥५९॥
अनारब्धक्षयानन्तरम्। इतरत् पापम्।
॥ ब्रह्मादीनां प्रारब्धभोगकालः॥
प्रारब्धकर्मणामनन्तत्वे भोगेन क्षयो न शक्यत इत्याशङ्कामागमवाक्येन परिहरति ब्रह्मणामिति।
ब्रह्मणांशतकालात्तु पूर्वमारब्धसङ्क्षयः।
ब्रह्मणस्त्वेव तावत्त्वं पञ्चाशद् ब्रह्मणस्तथा॥६०॥
रुद्रस्य विंशदेव स्यादिन्द्रस्यार्कादिके दश।
अन्येषां ब्रह्ममात्रस्य त्वन्त आरब्धसङ्क्षयः॥६१॥
ब्रह्मणैव सहातश्च परं नारायणं व्र्जेत्।
इति सत्तत्ववचनं स्वयं भगवतोदितम्॥६२॥
 इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य प्रथमः पादः।
ब्रह्मणामिति षष्ठ्या अलुक्। तस्य कालो ब्रह्मणां शतकालः, तस्मात्। तत्समाप्तेः पूर्वमेव सर्वेषां ज्ञानिनामारब्धसङ्क्षयो भवति। अस्यैव विवरणम् ब्रह्मणस्तु तावत्त्वमेव ब्रह्मकल्पानां शतेनैव कर्मक्षयवत्त्वम्। ब्रह्मण इति जातावेकवचनम्। पञ्चाशतां ब्रह्मणां पूर्वकालाद् रुद्रस्याऽरब्धसङ्क्षयः। तथाशब्दः समुच्चये। विंशतिपर्यायो विंशच्छब्दः। ब्रह्मणां विंशतिरेव तदवच्छिन्न एवेन्द्रस्य प्रारब्धकर्मसङ्क्षयकालः। अर्कादिके अर्कादीनां दश ब्रह्मणः, तदवच्छिन्नः कर्मक्षयकालः। ब्रह्ममात्रस्य एकस्यैव ब्रह्मणः। अतः परं प्रारब्धकर्मसङ्क्षयानन्तरमपि ब्रह्मणा सहैव नारायणं व्र्जेत्॥*॥ इति तदधिगमाधिकरणम्॥८॥
इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते
रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना।
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ
चतुर्थेऽध्यायेऽस्मिन् प्रथमचरणः पर्यवसितः॥*॥
इति श्रीमद्ब्रह्मसूत्रानुव्याख्यानटीकायां
श्रीजयतीर्थमुनिविरचितायां श्रीमन्न्यायसुधायां
चतुर्थाध्यायस्य प्रथमः पादः।