न्यायसुधा (जयतीर्थकृता)/चतुर्थाध्यायस्य द्वितीयः पादः

विकिस्रोतः तः


ॐ तत् सत्
॥ देवानां देहलयः, तदितरेषां देहादुत्क्रान्तिश्च पादप्रतिपाद्ये॥
न्यायसुधा
द्वितीयपादप्रतिपाद्यप्रदर्शनपरं भाष्यम् “देवानां मोक्षः, उत्क्रान्तिश्चास्मिन् पाद उच्यते” इति। तत्र देवानामित्येतद् यदि मोक्षोत्क्रान्तिभ्यां सम्बद्ध्यते, तदा देवेभ्योऽन्येषां सशरीराणामेवावस्थानमिति प्राप्नोति। अन्यत्र वा तच्छरीररपरित्यागप्रकारश्चिन्तनीयः। अचिन्तने वा कारणं वाच्यम्। यदिच मोक्षेणैव सम्बद्ध्यते, तदा देवानां मोक्ष इतरेषामुत्क्रान्तिश्चेत्युक्तं भवति। मोक्षश्च प्रकरणवशाद् देहादिति गम्यते। तथाच प्रथमपादे “कर्मनाशाख्यं फलमस्मिन् पाद उच्यते” इति यथा सामान्येनोक्तम्, तथाऽत्राप्युत्क्रान्तिरस्मिन् पाद उच्यत इति वक्तव्यम्। किमनेन विभागेन कृतं स्यादित्यत आह देवानां चेति।
अनुव्याख्यानम्
देवानां च मनुष्याणामेतावत् सममेव हि।
उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः॥१॥
यदतीतपादे चिन्तितं (१२९२) कर्मनाशाख्यं फलमेतावद् देवानां मनुष्याणां च सममेव। कर्मनाशाभावे तत्फलानुवृत्तेरावश्यकत्वात्। मनुष्यशब्दो देवव्यतिरिक्तान् लक्षयति। तस्मात् सामान्येन पूर्वपादप्रतिपाद्यमुक्तम्। एतत्पादप्रतिपाद्या देहादुत्क्रान्तिः, तृतीयपादप्रतिपाद्योऽर्चिरादिमार्गश्च देवानां न प्रायेण भविष्यतः, अतो विभागेनोक्तिर्युक्तेति। अनेन “मार्गो गम्यं चास्मिन् पाद उच्यते” इत्येतद् भाष्यमपि देवव्यतिरिक्तानां मार्गः सर्वेषां गम्यं चेति व्याख्येयमिति सूचितं भवति। स्फुटं चैतद् वक्ष्यति “उत्क्रान्तमार्गश्च विमुक्तगम्यम्” इति। (१३६२)
॥ पादचतुष्टयप्रतिपाद्यस्य तत्सङ्गतेश्च प्रदर्शनम्॥
भवत्विदं प्रतिपाद्यम्, एतत्प्रतिपादने का सङ्गतिरित्यतः प्रसङ्गात् पादचतुष्टयस्यापि सङ्गतिमाह कर्मेति।
कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोगश्चतुष्टयम्।
फलं मोक्ष इति प्रोक्तः क्रमात् पादेषु चोदितः॥२॥
तथाशब्दः समुच्चये। उत्क्रान्तिशब्देन देवतदितरसाधारणश्चरमदेहनाशो लक्ष्यते, मार्गशब्देन ब्रह्मप्राप्तिश्च। इतिशब्दो भोग इत्यतः परं योज्यः। क्वचित् पाठः “प्रोक्तम्’ इति, “उदितम्’ इति च। तत्र यथास्थान एव इति शब्दः। आद्ये मोक्षानुवादेन फलचतुष्टयात्मकत्वं विधेयम्। द्वितीये तु विपर्ययेण। क्रमादित्येतदावर्तनीयम्।
ततश्चायमर्थः फलं खल्वत्राध्याये निरूपणीयम्। फलं च मोक्षः। स च कर्मक्षयादिचतुष्टयात्मकः। आत्यन्तिकानिष्टनिवृत्तीष्टप्राप्त्योरत्रैवान्तर्भावात्। कर्मक्षयादयश्च क्रमाद् भवन्ति। ज्ञानोदयानन्तरमेव हि कर्मक्षयः, क्षीणकर्मणश्र्चोत्क्रान्तिः, उत्क्रान्तस्य च स्वयोग्यमार्गेण गतस्य ब्रह्मप्राप्तिः, ततो भोग इति। तस्मादेतेषु पादेषु क्रमादेवोदिता इत्यन्तर्भावलक्षणा चाऽनन्तर्यलक्षणा च सङ्गतिरिति।
॥ देवतामुक्तिप्रकारः॥
देवानां मार्गो नास्तीत्युक्तम्। तत् किं यत्र स्थितास्तत्रैव मुक्ता भवन्तीत्यत आह स्रष्टृष्वेवेति।
स्रष्टृष्वेव च सृज्यानां प्रवेशो ब्रह्मणो लये।
देवानां मार्ग उद्दिष्टोनार्चिरादिर्नचोत्क्रमः॥३॥
स्रष्टुस्तु ग्रासभूतस्य देहस्तत्र लयं व्र्जेत्।
यतः सृज्यस्य देवस्य नैवोत्क्रान्तिस्ततो भवेत्॥४॥
क्वचिदस्रष्टृष्वपीति चशब्दः। तथाच न्यायविवरणे। ब्रह्मणो लये प्रत्यासन्ने सति प्रवेशार्थं तदभिसर्पणमेव मार्गगमनमित्यर्थः। तर्हि देवानां मार्गो नास्तीत्युक्तस्य को विषय इत्यत आह नेति। देवानां देहादुत्क्रमो नास्तीत्युक्तम्। तत् कुतः? सदेहानामेवावस्थानप्रसक्तेरित्यत आह नचेति। अत एवेत्युपस्कर्तव्यम्। चशब्देन सदेहानामवस्थानं समुच्चिनोति।
एतदेव विवृणोति स्रष्टुस्त्विति। देहश्चेतनाधिष्ठित एव। तत्र स्रष्टरि। उत्क्रान्तिः शरीरात्। चेतननिष्क्रमणात् प्रागेव सृज्यानां देहः स्रष्टृषु विलीयत यत इत्यर्थः। स्रष्टृषु लये निमित्तम् स्रष्टुः ग्रासभूतस्येति। देहस्त्विति सम्बन्धः।
॥ अर्चिरादिविनाशानन्तरं देवानां देहलयात् तेषां मार्गाभावः॥
देवानामर्चिरादिमार्गो नास्तीत्युक्तम्। तत् कुत इत्यतः, यत् पुरा मार्गान्तरमुक्तम्, तत एवैतत् सिद्धमित्याशयवान् तदनुवादेन युक्त्यन्तरमाह लयाच्चेति।
लयाच्चैवार्चिरादीनां लोकानामपि सर्वशः।
कथं मार्गो भवेत् तेषां विशतामुत्तरं स्वतः॥५॥
देवतामुक्तेः प्रागेवेत्यर्थः। अर्चिरादीनां लोकानामिति व्यधिकरणे षष्ठ्यौ। सर्वेषामपि भवेदर्चिरादिरिति शेषः। स्वत उत्तरं विशतामित्युक्तानुवादः।
॥ देवानां मानुषत्वे क्वचिदुत्क्रान्त्यादिसद्भावेऽपि न तदा मुक्तिः॥
ननु प्रायेणेत्युक्तत्वात् कदाचिद् देवानामुत्क्रान्तिमार्गावङ्गीकार्यौ। तत्रोक्तयुक्तिविरोध इत्यत आह जातानामिति।
जातानां मानुषे लोके देवानां तु कदाचन।
उत्क्रान्तिमार्गौ भवतो न तदा मुक्तिरिष्यते॥६॥
यद्यपि भवतः, तथाऽपि न तदा मुक्तिरिष्यते। किन्तु ब्रह्मणा सहैव। अतो नोक्तयुक्तिविरोधः। एतदुक्तं भवति उत्क्रान्तिमार्गसामान्यमपेक्ष्यैव प्रायेणेत्युक्तम्। नतु मुक्तिकालीनावुत्क्रान्तिमार्गौ। तस्य च व्यावर्त्यावमोक्षकालीनौ। युक्तिस्तु मुक्तिविषयेति न विरोध इति।
॥ देवानां तदितरेषां च परब्रह्मप्राप्तिप्रकारः॥
किं देवानामेव ब्रह्मणा सह मुक्तिः? अन्येषामपीति ब्रूमः। तर्हि “भेजे खगेन्द्रध्वजपादमूलम्” इत्यादिविरोध इत्यत आह अन्येषामपीति।
अन्येषामपि साक्षात्तु मुक्तिः प्राप्यापि तं हरिम्।
सहैव ब्रह्मणा भूयादिति शास्त्रस्य निर्णयः॥७॥
क्ष्माम्भोनलानिलवियन्मनइन्द्रियार्थभूतादिभिः परिवृतः प्रतिसञ्जिघृक्षुः।
अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं परं स्वमनुभूय परः स्वयम्भूः॥८॥
एवं परेत्य भगवन्तमनुप्रविष्टा ये योगिनो जितमरुन्मनसो विरागाः।
तेनैव साकममृतं पुरुषं पुराणं ब्रह्मप्रधानमुपयान्त्यगताभिमानाः॥९॥
भगवन्तमनुप्राप्ता अपितु ब्रह्मणा सह।
परमं मोक्षमायान्ति लिङ्गभङ्गेन योगिनः॥१०॥
प्राप्ता अपि परं देवं सहैव ब्रह्मणा पुनः।
आनन्दव्यक्तिमायान्ति पूर्णां लिङ्गस्य भङ्गतः॥।११॥
इति श्रुतिपुराणोक्तिबलाद् विज्ञायते च तत्।
भोगस्तु सर्वदेवानां नरादीनां च विद्यते॥१२॥
साक्षान्मुक्तिः लिङ्गशरीरभङ्गलक्षणा। प्राप्यावस्थितानामपीति योज्यम्। तमिति वैकुण्ठादिस्थम्। “छन्दस्युभयथा” इति अनाशीर्विषयस्यापि लिङ आर्धधातुकत्वाद् भूयादिति साधु। इतीश्वराशीरिति वा। अस्मिन् पक्षे साध्यमादौ पृथग् वाच्यम्। तस्य निमित्तम्, ज्ञापकं चानेनोच्यत इति।
“इति शास्त्रस्य निर्णयः” इत्युक्तमेव विवृणोति क्ष्मेति। भूतानामादिर्भूतादिः। क्ष्मादिपदैः पञ्चानां महाभूतानाम्, मनसः, दशानामिन्द्रियाणाम्, पञ्चानां विषयाणाम्, भूतादिपदोपलक्षितस्य त्रिविधस्याप्यहङ्कारस्याभिमानिनो देवा उच्यन्ते। अव्याकृतं परमेश्वरम्। यर्हि यदा। गुणत्रयस्याऽत्मा अभिमानी। परं परसङ्ख्योपेतम्। परः क्ष्मादिभ्यः। एवं तदा। भगवन्तमिति तदीयं लोकम्। अगताभिमाना अगतजीवभावाः। परमं मोक्षमित्यस्यैव विवरणम् लिङ्गभङ्गेनेति। इत्थम्भूतलक्षणे तृतीया। यद्वा लिङ्गभङ्गेन निमित्तेन परमं मोक्षमानन्दाविर्भावमायान्तीति व्याख्येयम्। तच्चेति चशब्देन स्रष्टृष्वेवेत्युक्तं समुच्चिनोति। श्रुत्यादिकं भाष्योदाहृतं ग्राह्यम्।
॥ कर्मक्षयभोगौ सर्वेषाम्, उत्क्रान्तिमार्गौ देवेतरेषाम्॥
ननु यथा द्वितीयतृतीयपादप्रतिपाद्यमुत्क्रमादिकमसाधारणं तथा चतुर्थपादोदितो भोगः किमसाधारणः, किंवा प्रथमपादोदितकर्मक्षय इव साधारण इत्यपेक्षायामाह भोगस्त्विति। असाधारण्ये प्रमाणाभावादिति भावः।
॥ भाष्योक्तार्थस्पष्टीकरणम्॥
अस्मिन् प्रथमभाष्ये “देवानां मोक्षः” इति प्रथमनिर्देशः कृतः, तस्य तात्पर्यमाह तत्रेति।
तत्र प्रवेशो देवानामुत्तरोत्तरतः क्रमात्।
उच्यतेदेहगानां च वृत्तीनामेवमेव तु॥१३॥
तत्र द्वितीयपादे। प्रथममिति शेषः। उत्तरोत्तरतः उत्तरोत्तरेषु। अतः प्रथममसौ निर्दिष्ट इति।
॥ सूत्रेषु वारुण्यादिशब्दान् वागादिशब्दप्रयोगे निमित्तम्॥
नन्वयुक्तमेतत्। “वाङ्मनसि” इत्यादिसूत्रेषु देवानामश्रवणात्। अथ वागादिशब्दास्तदभिमानिनामुपलक्षका इति मतम्, तदा सति वाचके लाक्षणिकप्रयोगस्य प्रयोजनं वाच्यम्। यद्वा वाचका एवेति पक्षः, तथाऽपि प्रसिद्धशब्दपरित्यागेनाप्रसिद्धपदप्रयोगे प्रयोजनं वक्तव्यमेवेत्यत आह देहेति। बाह्यतत्वव्यावृत्त्यर्थं देहगानामित्युक्तम्। वर्तते देह एताभिरिति वृत्तयो जडा वागाद्याः। यथा मुच्यमानानां देवानामेवमेव देहगानां तदभिमतानां वागादीनामुत्तरोत्तरेषु मरणकाले लयो भवतीत्येतदपि प्रसङ्गाज्ज्ञापयितुं वागादिपदप्रयोग इति भावः। वागादिशब्दा देवानां वाचका एवेति तुशब्देन सूचयति।
॥ मोक्षस्वरूपकथनम्, तत्र वादिनां विप्रतिपत्तौ निमित्तोक्तिश्च॥
भवेदेवं पादार्थः सङ्गतिश्च। यदि “भगवज्ज्ञानभोगाभ्यां निवृत्तसमस्तानिष्टकर्माणः, स्वोत्तमप्रवेशेन ब्रह्मनाड्योत्क्रमेण वा परित्यक्तदेहाः, स्वोचितेनार्चिरादिना वा पथा वैकुण्ठलोकवासिनं भगवन्तं हिरण्यगर्भेण सह प्राप्ता भिन्नलिङ्गशरीराः विध्वस्तप्रकृतयोऽत्यन्तनिवृत्तानिष्टाः सम्यगाविर्भूतानन्दादिगुणा भगवत्समीप एव तमुपासीनाः, स्वरूपेण वा लीलागृहीतविग्रहैर्वा सङ्कल्पमात्रसाध्यान् दिव्यभोगांस्तारतम्येन भुञ्जाना न कदाचित् पुनरावर्तन्ते’ इत्येतन्मोक्षस्वरूपं “कर्मक्षयस्तथोत्क्रान्तिः” इत्यादिनोक्तं निश्चितं स्यात्। नचैवम्। तैस्तैः वादिभिरन्यथा मोक्षस्वरूपस्य वर्णितत्वात्। विप्रतिपत्तौ च संशयस्य ध्र्ुवत्वादित्यत आह तत्रेति।
तत्र मोक्षस्वरूपं तु वादिनः प्रतिभाश्रयात्।
नाना वदन्तिपुंसां हि मतयो गुणभेदतः॥१४॥
पृथक्पृथक् प्रजायन्तेतमसैवान्यथा मतिः।
रजसा मिश्रबुद्धित्वं सत्त्वेनैव यथा मतिः॥।१५॥
तत्र तथा सति सूत्रकारेणोक्तलक्षणे मोक्षे श्रुत्यादिप्रमाणैरुपपादिते सति, वादिनस्तु प्रतिभाश्रयात् स्वोत्प्रेक्षामात्रेण नाना वदन्ति। अतः प्रमाणमूलत्वादस्याप्रमाणमूलानामुत्प्रेक्षामात्रयोनीनां वादानां च साम्याभावान्न संशयावकाशः।
॥ सत्त्वरजस्तमोगुणानां यथार्थमिश्रअयथार्थबुद्धिजनकत्वम्॥
ननु यदि तथातथा प्रमाणानि सन्ति, तर्हि तत्तद्वादिनां तादृशानि ज्ञानानि कुतो न जायन्ते? प्रमाणाभासैर्विमोहितास्त इति चेत्, तत्वज्ञाभिमता अपि कुतस्तैर्न विमूढाः? दोषदर्शनादिति चेत्। इतरेऽपि कुतो न दोषान् पश्यन्ति, प्रमाणैस्तत्वज्ञानोदयोऽपि समान इत्यतो मूलकारणमाह पुंसां हीति। गुणभेदो गुणविशेषः। हिशब्देन “ज्ञानं कर्म च कर्ता” इत्यादिप्रमाणप्रसिद्धिं द्योतयति।
एतद् विशदयति तमसैवेति। मिश्रज्ञानेऽन्यथात्वं सम्यक्त्वं चास्तीत्यतोऽन्यथैवेत्युक्तम्। यथेति भिन्नं पदं सम्यग्वाची। तमोगुणः प्रमाणेषु चेतःप्रवृतिं प्रतिबद्ध्याऽभासानां दोषानाच्छाद्य विपरीतज्ञानमप्युत्पादयतीत्यादि द्रष्टव्यम्।
॥ मुक्तलक्ष्मीभगवदज्ज्ञानानां गुणजन्यत्वाभावादिः॥
सम्यग्ज्ञानं सत्त्वगुणेन भवतीत्युक्तम्। तस्य मुक्तेषु तावदपवादमाह गुणेति।
गुणातीता विमुक्तानां मतिः शुद्धचितिर्यतः।
सम्यगेवाथ नित्या चतत्तन्माहत्म्ययोगतः॥१६॥
बहुला चातिविशदास्पष्टा चैव श्रियो मतिः।
महाशुद्धचितित्वेनततोऽप्यतिमहाचितिः॥।१७॥
अशेषोरुविशेषणामतिस्पष्टतया दृशिः।
नित्यमेकप्रकारा च नारायणमतिः परा॥१८॥
सूर्यप्रभावदखिलं भासयन्ती निरन्तरा।
निर्लेपा वीतदोषा च नित्यमेवाविकारिणी॥१९॥
यद्यपि विमुक्तानां मतिः सम्यगेव, अथापि गुणातीता सत्त्वजन्या न भवति। कुतः? शुद्धचितिः नित्या च यतः। जडं हि कुतश्चिज्जायते न चेतनम्। तथाऽनित्यमेव न नित्यम्। दैत्यानां स्वरूपज्ञानेष्वविद्यमानं सम्यक्त्वं तर्हि कथमित्यतः शुद्धेत्युक्तम्। स्वाभाविकदोषरहितेत्यर्थः। स्वरूपोपाधिगत दोषनिबन्धं हि दैत्यानां ज्ञानानामसम्यक्त्वम्। करणनिमित्तो ज्ञानानां विषयनियमः, वैशद्यभेदश्च। तत्र यदि मुक्तानां ज्ञानं नित्यम्, तर्हि निर्विषयं वा स्यात्, सर्वविषयं वा। एवं वैशद्येऽपीति। तत्राऽह तत्तदिति। तेषान्तेषां माहात्म्यं योग्यतारूपं तदेव योगो निमित्तं ततस्तदनुसारेण बहुलार्थविषयिणी, अतिविशदा च।
श्रीदेव्यामप्युक्तस्यापवादमाह स्पष्टा चेति। श्रियो मतिश्च सम्यक्त्वेऽपि गुणातीतेति सम्बन्धः। महाशुद्धचितित्वेनेति पूर्ववदेव तत्र हेतुः। महच्छब्देन कदाऽपि बाह्यदोषसम्बन्धो नास्तीत्युच्यते। स्पष्टैवेति मुक्तमतेरप्यतिशयेन विशदेत्यर्थः। एतदपि पूर्ववद् व्याख्येयम्।
भगवञ्ज्ञानेऽप्यपवादमाह ततोऽपीति। नारायणमतिश्च सम्यक्त्वेऽपि परा गुणेभ्य इति शेषः। तत्र पूर्ववदेव हेतुः। ततः श्रियोऽप्यतिशयेन महाशुद्धचितिः। विशिष्यन्त इति विशेषाः पदार्थाः। अशेषाणामुरूणामनन्तानां विशेषाणां दृशिर्विषयीकारिणी। अतिस्पष्टतयाऽशेषपदार्थविषयेत्येतदपि बहुला चातिविशदेतिवद् व्याख्येयम्। दृशिः साक्षात्कार इति वा। नित्यमेकप्रकारेत्युत्पत्तिविनाशरहितेत्ययमपि गुणातीतत्वे हेतुः।
केचिदेकमेवेश्वरज्ञानमित्यास्थिताः। अपरे त्वनेकानीति। तद्विवेकार्थमुक्तम् निरन्तरा निर्भेदेति। तर्हि किं तेषु पदार्थेषु ज्ञातेषु विक्रियते नेत्याह नित्यमविकारिण्येवेति। कथन्तर्हि तत्तद्विषयीकरणमित्यत उक्तम् सूर्येति। यथा सूर्यप्रभा स्वयं निर्विकाराऽपि तांस्तान् प्राप्तान् विषयान् प्रकाशयति तथेयमपीत्यर्थः। अत्रच विशेष एव निर्वाहकः। अत एवैकेत्यनुक्त्वा निरन्तरेत्युक्तम्। निर्लेपा वीतदोषा चेति शुद्धत्वव्याख्यानम्। लेपः कर्मसम्बन्धः। महच्छब्दव्याख्यानं पूर्ववत्। यद्वा नित्यमेवेति तदर्थमत्रापि योज्यम्। परा स्वतन्त्रेत्यतिशब्दस्य व्याख्यानत्वेनापि व्याख्येयम्। अत एव “तत्तन्त्रत्वाच्च” इति वक्ष्यति।
॥ लक्ष्मीचतुमुखज्ञानयोः भगवज्ज्ञानतो वैलक्षण्यम्, सादृश्यं च॥
एतानि विशेषणानि लक्ष्मीज्ञानेऽप्यतिदिशति विशेषानिति।
विशेषांस्तद्गतांस्त्यक्त्वा प्रायस्तल्लक्षणा श्रियः।
तथैव स्पष्टताभावात् तत्तन्त्रत्वाच्च केवलम्।
न तादृशीब्रह्मणस्तु प्राय एवं श्रियो यथा॥२०॥
तद्गतान् भगवद्गतान्। तानि लक्षणानि यस्याः सा तथोक्ता। श्रियो मतिः प्रतिपत्तव्येति शेषः। भगवद्गताशेषविशेषविषयीकारित्वं विहायान्यधर्मवती ज्ञातव्येत्यर्थः। प्राय इत्युक्तस्य तात्पर्यमाह तथैवेति। यथा भगवन्मतेर्निरतिशयस्पष्टत्वं तथैव। केवलं तत्तन्त्रत्वात् भगवन्मात्राधीनत्वात्। अत्र केवलमिति स्वरूपकथनम्। पराधीनत्वादित्येव हेतुः। तादृशी भगवन्मतिसदृशी। अतः प्राय इत्युक्तमिति भावः।
लक्ष्मीमतिविशेषणानि मुक्तब्रह्ममतावतिदिशति ब्रह्मणस्त्विति। ब्रह्मणस्तु मतिः श्रियो यथा एवं प्रायः, तथा वैशद्याद्यभावात् प्राय इत्युक्तम्। केवलमित्युक्त्यभावाच्च। अत एव तत्र तदुक्तम्।
॥ मुक्तज्ञानस्य समुद्रतरङ्गवत् सङ्कोचविकासवत्त्वम्, संसारिज्ञानस्य उत्पत्त्यादिमत्त्वम्॥
ब्रह्मण इति विशिष्याभिधाने को हेतुरित्यत आह मुक्तानां त्विति।
मुक्तानां तु तदन्येषां समुद्रतरलोपमा।
अग्न्ज्विालावदेव स्यात् सृतिगानां दृशो भवः॥२१॥
विशेषबलेन वृद्धिह्रासवतीत्यर्थः। यथोक्तम् “अवृद्धिह्रासरूपत्वम्” इत्यादि। मुक्तग्रहणस्य तात्पर्यमाह अग्नीति। अग्न्ज्विालाया अग्नेरिव संसारिणां दृशोऽन्तःकरणाद् भव उत्पत्तिरेव स्यात्, नतु व्यक्तिमात्रम्।
॥ वादिभिः मोक्षस्वरूपस्यान्यथा प्रतिपादने निमित्तम्॥
भवत्वेवं ज्ञानानां गुणनिमित्तं नानाविधत्वम्। प्रकृते तु किमित्यत आह एवंविधेष्विति।
एवंविधेषु ज्ञानेषु तमसा मुष्टदृष्टयः।
खद्योतसदृशात्यल्पज्ञानत्वादन्यथादृशः।
वदन्ति वादिनो मोक्षं नानामतसमाश्रयात्॥२२॥
ज्ञानेष्वेवंविधेषु सत्सु मुष्टदृष्टयोऽपहृतसम्यग्ज्ञानाः। सम्यग्ज्ञानाभावेऽन्यथादृक्त्वमपि नोपपद्यते। अधिष्ठानसामान्यज्ञानस्य भ्रान्त्युपयोगित्वादित्यत उक्तम् खद्योतेति। यथाऽन्धतमसे खद्योता अपि भयहेतवः, तथा विपर्ययबहुलमल्पं सम्यग्ज्ञानमपि तामसमेव। यथोक्तम् “अतत्वार्थवदल्पं च” इति। नानामतसमाश्रयान्नाना वदन्तीति योजना। ज्ञानानां गुणवशादनेकविधत्वोपपत्तेस्तमसाऽऽवृता वादिनः प्रमाणावधीरणात् सम्यग्ज्ञानविकला आभासादरणादधिष्ठानसामान्यज्ञानवत्त्वाच्च विपरीतज्ञानिनो मोक्षं नानाविधमाचक्षत इत्यर्थः। कारणैकत्वान्मिथ्याज्ञानेनाप्येकविधेन भाव्यमिति चेत्, न। सहकारिवैचित्र्याद् वैचित्र्योपपत्तेः। तदिदमुक्क्तम् नानामतसमाश्रयादिति। मतानां च प्रवाहेण अनादित्वमुक्तम्। (६१३) मूलकारणे तमोगुणेऽपि वैचित्र्याच्च। अत एवोक्तम् गुणभेदत इति।
॥ जैनेन सन्ततोर्ध्वगमनस्य मोक्षत्वप्रतिपादनम॥
समधिगतमेतत् नानाविधेषु मोक्षवादेष्वेकः प्रमाणमूलः, अन्ये मिथ्याज्ञानमूला इति, नतु विशेषः, अतः पुनः संशय एवेत्यतः परमतानां सर्वेषां हेयत्वं दिदर्शयिषुरादौ तावज्जिनोदितं मोक्षस्वरूपमनुवदति आश्रित्येति।
आश्रित्य प्रतिभामाह जिनस्तत्रातितामसीम्।
ज्ञानात् कर्मक्षयान्मोक्षो भवेद् देहाख्यपञ्जरात्॥२३॥
पञ्जरोन्मुक्तखगवदलोकाकाशगोचरः।
नित्यमूर्ध्वं व्र्जत्येव पुद्गलो हस्तपादवान्॥२४॥
इति................................।
तत्र तेषु वादिषु। वेदप्रामाण्यस्यानङ्गीकारादतितामसीमित्युक्तम्। किमाहेत्यत आह ज्ञानादिति। ज्ञानात् केषाञ्चित् कर्मणां क्षयो भवति। केषाञ्चिद् भोगात्। ततः कर्मक्षयात् पक्षिणः पञ्चरादिव आत्मनो देहान्मोक्षो भवेत्। देहावस्थानस्य कर्मनिमित्तत्वात्।
ततः कथं वर्तत इत्यत आह पञ्जरेति। यथा पञ्जरोन्मुक्तः खग ऊर्ध्वं व्र्जति, एवमेवोर्ध्वं व्र्जति। अयं तु विशेषः अलोकाकाशो गोचरो यस्य स तथोक्तः। नित्यमेवेति च। देहपरिमाणस्य आत्मनो देहाभावे परिमाणाभावप्राप्तावुक्तम् हस्तपादवानिति। चरमदेहस्य यः सन्निवेशः, तथाभूत इत्यर्थः। इत्याहेति सम्बन्धः।
॥ अनुमानेन जैनोक्तमोक्षस्य सदुःखत्वसाधनम्॥
अनूदितं दूषयति तदिति।
....... तत् केन मानेन मोक्षरूपं प्रदर्श्यते।
गतिरूर्ध्वा च दुःखेता गतित्वाल्लौकिकी यथा।
इत्युक्ते चानुमानैकशरणस्य किमुत्तरम्॥२५॥
प्रदर्श्यते परं प्रति जिनेन। यद्यप्यनन्तचतुष्टयावाप्तिर्मुक्तस्योच्यते जिनेन, तथाऽपि सा सम्प्रतिपन्नत्वान्नानूदिता, नापि दूषिता। कथमुक्तमोक्षस्वरूपमप्रामाणिकमिति चेत्। न तावदत्र प्रत्यक्षमस्ति। नाप्यागमः। तदीयागमस्यास्माभिरनङ्गीकारात्। वेदादेश्च परेणानङ्गीकृतत्वात्। अतः केवलं किञ्चिदनुमानं वक्तव्यम्, तत्राऽह गतिरिति। चश्ब्दोऽनुक्तसमुच्चयार्थः। तेन विप्रतिपन्नेति प्रतिज्ञायां सिद्ध्यति। हेतौ च चेतनाश्रितेति। तेनाचेतनगतौ बाधः, देवदत्तगतौ सिद्धार्थत्वम्, अचेतनगतौ व्यभिचारश्च न सम्भवति। दुःखेनेता प्राप्ता दुःखेता। प्राप्तिश्च न साध्यसाधनभावलक्षणा। तथासति देवदत्तस्य सुखार्थायां मन्दगतौ व्यभिचारापातात्। दूरत्वस्य चानियतत्वात्। तीव्र्त्वस्याप्यपरिनिष्ठितत्वात्। किन्तर्हि? समानकालीनेन दुःखेन सहैकधिकरणत्वलक्षणा। कदाचिद् देवदत्तः दुःखेन विनाऽपि गच्छति, तत्र व्यभिचार इति चेत्, न। देवदत्तस्य कदाऽपि निर्दुःखताया अनङ्गीकारात्। आध्यात्मिकादिष्वन्यतमेन महताऽल्पेन वाऽयं खलु सदा संविलतः। चेतनशब्देन जाग्रतोऽभिधानान्न सुप्तिगतौ व्यभिचारः। सुखार्थाऽपि गतिरल्पं दुःखमुत्पादयतीत्यभ्युपगम्य दुःखसाधनत्वं च साध्यम्। लौकिकी देवदत्तादिगतिः। इति च प्रत्यनुमाने केनचिदुक्ते, एकं च तच्छरणं चैकशरणम्, अनुमानमेकशरणं यस्यासौ तथोक्तः। अन्यथा “पूर्वकालैक” इत्येकशब्दस्य पूर्वनिपातः स्यात्।
॥ उक्तानुमाने अनूर्ध्वगतित्वस्योपाधित्वशङ्का, तन्निरासश्च॥
प्रत्यनुमानस्योत्तरं शङ्कते अनूर्ध्वेति।
अनूर्ध्वगतिता तत्र यद्युपाधिःखगस्य च।
दूरोर्ध्वगमने दुःखमिति साध्यानुगो न सः॥२६॥
तत्र देवदत्तगतेर्दुःखेतत्वेऽनूर्ध्वताविशिष्टं गतित्वं प्रयोजकं न गतित्वमात्रमिति यदि ब्रूयादित्यर्थः। पक्षेतरोऽयं कस्माच्छङ्कित इति चेत्, न। लक्षणसम्पत्तौ तदुपाधित्वस्योक्तत्वात्। (५१९) निराकरोति खगस्येति। तदा वदाम इत्यादावुपस्कर्तव्यम्। खगस्य पारावतादेर्दूरोर्ध्वगमने च दुःखमस्तीति हेतोः स उपाधिः साध्यानुगः साध्यव्यापको न भवतीत्यतोऽनुपाधिः।
इदमुक्तं भवति किमयं केवलसाध्यव्यापकोऽभिमतः, किंवा साधनावच्छिन्नसाध्यव्यापकः? न प्रथमः, अधर्मे साध्यसद्भावेऽप्यनूर्ध्वताविशिष्टगतित्वस्याभावेन साध्याव्यापकत्वात्। न द्वितीयः, खगस्य दूरोर्ध्वगतौ गतित्वावच्छिन्ने दुःखेतत्वे सत्यप्यनूर्ध्वगतित्वस्याभावात्। अनेनोर्ध्वगतित्वाभावः, अनूर्ध्वगतित्वं केवलसाध्य उपाधिरित्यपि प्रत्युक्तमिति।
दूरग्रहणं खगस्य दुःखं व्यञ्जयितुम्। तदा हि तस्मिन् दुःखकार्याणि दृश्यन्ते। प्रत्यागमनसमयवर्तिदुःखकार्याणि तानीति चेत्, न। ऊर्ध्वं गच्छत्येव तद्दर्शनात्।
॥ प्रत्यनुमानस्य सोपाधिकत्वमदोषः॥
मा भूदयमुपाधिः शरीरवृत्तित्वं तु भविष्यति। देवदत्तगतौ यद् दुःखेतत्वं तत्र न गतित्वं प्रयोजकम्। किन्नाम। शरीरवृत्तित्वम्। नचेदं साध्याव्यापकम्। यद् दुःखेतं तच्छरीरिवृत्तीत्यस्य व्यभिचारादर्शनादित्यतः सर्वोपाधिसाधारणं दूषणमाह प्रतिसाधनेति।
प्रतिसाधनरूपस्य नानुमानस्य दूषणम्।
उपाधिःप्रतिरूपं हि साधनं तन्नचापरम्॥२७॥
जिनोक्तानुमानानां प्रतिसाधनं खल्वस्माभिरुपन्यस्तम्। प्रतिसाधनरूपस्यानुमानस्य चोपाधिर्न दूषणम्। अतोऽत्रोपाध्युद्भावनमेवासङ्गतं किं तद्दूषणगवेषणेन? पूर्वोपाधेस्त्वङ्गीकारेण दूषणमभिहितमिति। कुतो नेत्यत आह प्रतिरूपं हीति। यदुपाधिर्नाम दूषणं तत्प्रतिरूपं साधनम्, नत्वनैकान्त्यादिकम्। हिशब्दो यस्मादित्यर्थे।
एतदुक्तं भवति उपाधिस्तावत् प्रतिपक्षोन्नायकः नेतरथा दूषणम्। ततः प्रतिपक्षस्योपाधिमुद्भावयता प्रतिपक्ष एवोद्भावितो भवति। प्रतिपक्षश्च साधनाय प्रवृत्तं प्रतिबध्नाति न पुनः किञ्चित् साधयति। प्रथमेनैव प्रतिबद्धत्वात्। अतः प्रतिपक्षस्य प्रतिपक्षोऽकिञ्चित्करत्वान्न दूषणम्। अत एवोपाधिरपीति।
॥ शरीरवृत्तित्वस्य साधनव्यापकत्वादनुपाधित्वम्॥
ननु पक्षादिप्रविभागोत्तरकालमुपाधिः प्रतिपक्षस्योन्नायको भवत्येव। प्राक् तु ततोऽव्याप्तेरुन्नायकः। अतस्तदपेक्षया शरीरवृत्तित्वमुपाधिर्भवत्वित्यतोऽभ्युपगम्य दूषयति अथापीति।
अथापि सशरीरत्वं चात्रोपाधिर्नवै भवेत्।
गतित्वं यत्र देहित्वमिति यत् साधनानुगम्॥२८॥
यदि कयाचिद् विवक्षया प्रतिपक्षस्याप्युपाधिरुच्यते, तथाऽपि सशरीरत्वं शरीरेण सह वर्तमानत्वं शरीरसमानाश्रयत्वं शरीरवृत्तित्वमिति यावत्। न केवलमनूर्ध्वगतित्वमिति चशब्दः। अत्रास्मदुक्तानुमाने। वैशब्दोऽवधारणे। कुतो न भवेदित्यत आह गतित्वमिति। यत्र गतित्वं विशिष्टं तत्र देहित्वं देहेन सम्बन्धः पूर्वोक्तः देहिवृत्तित्वमिति यावत्। इति प्रकारेण शरीरवृत्तित्वं साधनानुगं साधनस्य विशिष्टगतित्वस्य व्यापकं यद् यस्मादित्यर्थः।
॥ दूषणानुमानेऽपसिद्धान्तस्यादोषत्वम्॥
स्यादेतत्। यत्किञ्चिद्गतिपक्षीकारे बाधादिप्रसङ्गात् मुक्तानां गतिः पक्षीकरणीया। तस्या दुःखेतत्वसाधने भवतामपसिद्धान्तः स्यात्। भवद्भिरपि मुक्तानां निर्दुःखत्वस्याभ्युपगतत्वात्। तथा या गतिः सा दुःखेतेति व्याप्तिं वदता ईश्वरस्यापि दुःखमङ्गीकरणीयम्। अन्यथा तत्र व्यभिचारापत्तेः। ततोऽप्यपसिद्धान्त एव। शरीरवृत्तित्वस्य साधनव्यापकताऽङ्गीकारे गतिमत्त्वादीश्वरस्यापि शरीरित्वमङ्गीकार्यम्। ततश्चापसिद्धान्त एवेत्यत आह आगमेति।
आगमाननुसारित्वे प्रसङ्गोऽयं यतस्ततः।
नापसिद्धान्तता दोषःप्रसङ्गे यदि सा भवेत्।
तदैवातिप्रसङ्गः स्यान्न प्रसङ्गः क्वचिद् भवेत्॥।२९॥
यतो वेदादिकमागममननुसृत्य मोक्षस्वरूपानुमानेऽतिप्रसङ्गोऽयमस्माभिरुक्तः यदि वेदादिनिरपेक्षस्त्वमेवमनुमिमीषे तदैवमपि कस्मान्नानुमिनुया इति। ततः कारणादपसिद्धान्तता दोषो न भवति।
प्रसङ्गेऽप्यपसिद्धान्तमुद्भावयन्तं बोधयितुमाह प्रसङ्ग इति। सा अपसिद्धान्तता। भवेद् दोष इति शेषः। कथमतिप्रसङ्ग इत्यत आह नेति। इतिशब्दोऽत्रान्तेऽध्याहार्यः। सर्वेष्वपि प्रसङ्गेष्वपसिद्धान्तस्य कथञ्चिदुद्भावयितुं शक्यत्वादिति भावः। एतेन मुक्तानां सततोर्ध्वगतिः सिद्धा चेद् बाधः, अन्यथाऽऽश्रयासिद्धिरित्यपि परास्तम्। परसिद्धाश्रये प्रतिपक्षस्य प्रसञ्जनात्।
॥ लोकाकाशगतित्वस्यापि साधनव्यापकत्वादनुपाधित्वम्॥
उपाध्यन्तरमाशङ्कते लोकेति।
लोककाशगतित्वं चेदुपाधिःसाधनानुगः।
सोऽपीत्युक्ते वदेत् किं सतस्माद् वेदोदितो भवेत्॥३०॥
मोक्षः.................................।
अत्र लोकाकाशसम्बन्धित्वमेवोपाधिः। साध्यव्यापकत्वात्। गतित्वं तु स्वरूपकथनम्। दूषयति साधनेति। या गतिः सा लोकाकाशसम्बन्धिनीति सोऽप्युपाधिः साधनमनुगच्छति व्याप्नोति। मुक्तगतावुपाधेरभावान्नेति चेत्, न। तत्रापि गतित्वेन तत्साधनात्। एतेन शरीरिवृत्तित्वस्यापि साधनव्यापकत्वं समर्थितं वेदितव्यम्। तदिदमुक्तम् इत्युक्ते वदेत् किं स इति। स्वाभिमते मोक्षे प्रमाणमुपदर्शयन्नुपसंहरति तस्मादिति। जिनोक्ते मोक्षस्वरूपे प्रमाणाभावात्।
॥ विष्णुकृतस्यापि बौद्धमतस्याग्राह्यत्वे निमित्तम्॥
उक्तदोषातिदेशेन बौद्धोक्तमपि मोक्षं दूषयति एवमिति।
...एवं स्वयं विष्णुर्यद्यपीशो ह्यशेषवित्।
चकार सौगतमतं मोहायैव चकार यत्॥३१॥
असुराणामयोग्यानां वेदमर्गे प्रवर्तताम्।
अतोऽसुराधिकारत्वान्न ग्राह्यं तन्मतं क्वचित्॥३२॥
यथाऽप्रामाणिकत्वाज्जैनमतं न ग्राह्यम्, एवं तन्मतं सौगतमतमपि क्वचिद् ग्राह्यं न भवति। ननु परमाप्तेन बुद्धरूपिणा विष्णुना कृतमिदं कथं न ग्राह्यमित्यत उक्तम् स्वयमिति। यद्यपि सौगतमतं स्वयं विष्णुश्चकार, तथाऽपि न ग्राह्यमिति सम्बन्धः। ईश इति करणपाटवमभ्युपैति। अशेषविदिति तत्वज्ञानम्। अभ्युपगमे कारणं प्रमाणप्रसिद्धिं हिशब्देनाऽह।
तर्हि कुतो न ग्राह्यमित्यत उक्तम् मोहायैवेति। यद् यस्मादसुराणां मोहायैव तच्चकार। अतोऽसुराधिकारत्वान्न ग्राह्यम्। अधिक्रियन्तेऽस्मिन्नित्यधिकारः। असुराणामधिकारोऽसुराधिकारः, तस्य भावस्तत्त्वम्, तस्मात्। असुराः कुतो मोहनीया इत्यत उक्तम् अयोग्यानामिति। वेदमार्ग इति पूर्वेण उत्तरेण च सम्बद्ध्यते।
एतदुक्तं भवति यद्यपि भगवान् बुद्धः पटुकरणः, तत्वज्ञानवांश्च श्रुत्यादिसिद्धः। ग्रन्थकरणादेव विवक्षुश्च। नैतावताऽप्याप्तः, विप्रलम्भकत्वात्। यथोक्तम्
“ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम्।
बुद्धो नाम्ना जिनसुतः कीकटेषु भविष्यति”
इति। अतस्तदुक्तं मोक्षस्वरूपं हेयमेवेति।
॥ बौद्धमतस्य चत्वारः प्रभेदाः॥
एवं सामान्यतो दूषितं बौद्धमतं विशेषतो निराकर्तुं तद्भेदानाह चतुरिति।
चतुष्प्रकारं तच्चोक्तं शून्यं विज्ञानमेकलम्।
अनुमेयबहिस्तत्वं तथा प्रत्यक्षबाह्यगम्॥३३॥
इति.................................।
व्याख्यातृमतिभेदादिति भावः। कथमित्यत आह शून्यमिति। एकलमद्वितीयं शून्यमेव तत्वमित्येकं मतम्। एकं विज्ञानमेव तत्वमित्यपरम्। अनुमेयं बहिस्तत्वं ज्ञानव्यतिरिक्तं यस्मिंस्तत् तथोक्तम्। अस्त्येव ज्ञानव्यतिरिक्तमपि तत्वम्, किन्तु तदनुमेयमिति सौत्रान्तिकमतमन्यदित्यर्थः। तथाशब्दः समुच्चयार्थः। प्रत्यक्षं बाह्यगं यस्मिंस्तद् वैभाषिकमतं चैकमित्येवं चतुष्प्रकारमिति।
एतेषु शून्यवादिनोऽतितामसाः। प्रमितसकलवस्त्वपलापात्। ततो ज्यायांसो विज्ञानवादिनः। रूपाद्यपलापेऽपि विज्ञानमात्राङ्गीकारात्। ततः सौत्रान्तिका बाह्यार्थाभ्युपगमात्। तस्य चानुमेयत्वाभ्युपगमेन वैभाषिकेभ्यः कष्टाः। ततो वैभाषिकाः। बाह्यार्थमभ्युपगम्य तस्य यथायथं प्रत्यक्षादिगम्यताभ्युपगमादित्येतज्ज्ञापयितुमनेन क्रमेणोद्देशः कृतः।
॥ शून्यवाद्युक्तशून्यत्वापत्तिरूपमोक्षस्वरूपानुवादः॥
तत्र शून्यवाद्युक्तं मोक्षमनुवदति तत्रेति।
... तत्र तु ये शून्यं वदन्त्यज्ञानमोहिताः।
ते मोक्षं तादृशं ब्रूयुर्निःशङ्कं मायिनो यथा।
न किञ्चिन्मुक्त्यवस्थायामात्माऽऽत्मीयमथापि वा॥३४॥
तेषु चतुर्षु। ये शून्यमेव तत्वं वदन्ति ते मायिनो यथाभूतं मोक्षमाचक्षते तादृशमेव ब्रूयुः। इयांस्तु विशेषः मायिनो वेदः प्रमाणमित्यभिमानात् “परमं साम्यमुपैति”, “सोऽश्नुते सर्वान् कामान्” इत्यादेर्वेदाच्छङ्कमानास्तस्यान्यथा व्याख्यानं विधाय स्वाभिमतं मोक्षं प्रतिपादयन्ति। शून्यवादिनस्तु वेदप्रामाण्यानभ्युपगमादुच्छृङ्खलमेवेति। तदिदमुक्तं निःशङ्कमिति। अज्ञानेति तमोगुणो लक्ष्यते। अज्ञानकारणत्वात्। “प्रमादमोहौ तमसो भवतोऽज्ञानमेव च” इति वचनात्। तेन मोहिताः।
एवं सामान्येनोक्तं स्पष्टमाचष्टे न किञ्चिदिति। किञ्चिदित्यस्यैव विवरणम् आत्माऽप्यथवाऽऽत्मीयमिति। आत्मेति ज्ञानमुच्यते। आत्मीयमिति ज्ञेयम्। तदुभयमपि मोक्षे नास्ति।
॥ एकात्मवादिमतरीत्या संसारमोक्षस्वरूपादिनिरूपणम्॥
शून्यवादोऽपि द्विविधः एकात्मवादः, अनेकात्मवादश्चेति। तत्र प्रथम एव मुख्यसिद्धान्तः। मन्दानां तु बुद्धावारोहाय तु द्वितीयोऽवतारितः। तदुभयसाधारणमुक्त्वा विशेषं विवक्षुरादावाद्यमाह एकस्मिन्निति।
एकस्मिन् संसृतेर्मुक्ते न किञ्चिदवशिष्यते।
तत्संवृत्यैव भेदोऽयं चेतनाचेतनात्मकः।
दृश्यते संसृतेर्ध्वंसे निर्विशेषैव शून्यता॥३५॥
न सत्त्वं नैव चासत्त्वं शून्यतत्वस्य विद्यते।
न सुखत्वं न दुःखत्वं न विशेषोऽपि कश्चन॥३६॥
निर्विशेषं स्वयम्भातं निर्लेपमजरामरम्।
शून्यं तत्वमसम्बाधं नानासंवृतिवर्जितम्॥३७॥
अशेषदोषरहितं मनोवाचामगोचरम्।
मोक्ष इत्युच्यतेऽसद्भिर्नानासंवृतिदूषितम्॥।३८॥
संसृत्यवस्था विज्ञेया संवृत्यैव विशिष्यते।
स्थितया ध्वस्तया चैव संसृतिर्मोक्ष इत्यपि॥३९॥
किञ्चत् चेतनमचेतनं च। एकमुक्तौ कुत एतदित्यत आह तदिति। तस्यैकस्यैवाऽत्मनः संवृत्या अज्ञानेनैवायं परिदृश्यमानश्चेतनाचेतनात्मकः, भिद्यत इति भेदः पदार्थसमूहो दृश्यते। नतु परमार्थः, नाप्यनेकाज्ञानकल्पितः। अतस्तस्यैकस्यैवाऽत्मनः संवृतेर्ध्वंसे जाते सति शून्यतैव पारमार्थिकी विशिष्यत इति युक्तमेवेति। निर्विशेषेति शून्यस्य स्वरूपसङ्कीर्तनम्। संवृतेर्ध्वंस एव मोक्ष इति वक्ष्यति। निर्विशेषत्वमेव विवृणोति न सत्त्वमिति। सत्त्वं परसामान्यादिरूपम्। असत्त्वमभावप्रतियोगित्वम्। किं बहुना कश्चनापि विशेषो न विद्यते।
ननु मोक्षस्तावदसन्न भवति। सदा संसारापत्तेः। अतः सता मोक्षेण सविशेषं शून्यमित्यत आह निर्विशेषमिति। शून्यं तत्वमेवासद्भिर्मोक्ष इत्युच्यते। नतु शून्यातिरिक्तो मोक्षोऽस्ति। अतो न तेन सविशेषत्वम्। तर्हि सर्वदा मोक्षभावाच्छून्यभावनादेर्वैयर्थ्यमित्यतो निर्विशेषमित्याद्युक्तम्। स्वयम्भातमित्यस्यैव विवरणम् मनोवाचामगोचरमिति। निर्लेपं धर्माधर्मरहितम्। अजरं च तदमरं च अजरामरम्। सम्बाधो वस्त्वन्तरोपमर्दः। असम्बाधमद्वितीयमिति यावत्। दोषाः कामादयः। न केवलं शून्यं मोक्षः, किन्तु नानासंवृतिवर्जितत्वाद्युपलक्षितम्। उपलक्षणनिष्पत्तये च भावनाद्युपयोग इति। अज्ञाननिवृत्त्याद्युपलक्षितं शून्यमेव मोक्ष इत्येतत् कुत इत्यत आह नानेति। नानासंवृतिभिः दूषितं शून्यमेव संसारावस्था विज्ञेया यतोऽतस्तद्विपरीतं शून्यमेव मोक्ष इति युक्तम्।
एतदुक्तं भवति शून्यं तत्वं स्वतो निर्विशेषमेकमेव। तस्य परमसूक्ष्मस्य वाङ्मनसातीतस्य स्वप्रकाशस्याऽवरणविक्षेपाद्यनेकशक्तिमत्या मूलसंवृत्या कर्तृत्वभोक्तृत्वशक्तिमदहङ्कारोपाधिवशात् किञ्चित् स्थूलता जायते, ततः सद्द्वितीयत्वेन सविशेषतायां स्थूलता सम्पद्यते। ततो मनोवचनगोचरत्वे जाते विधिनिषेधगोचरत्वेन सलेपत्वम्। रागादिदोषसंसर्गश्च। ततो देहेन्द्रियान्तःकरणविषयसम्बन्धे स्थूलतरता भवति। ततो ममकारवतो दुःखादिमत्त्वे स्थूलतमत्वमित्येवं संवृत्या तत्कार्यत्वात् संवृतिसञ्ज्ञकैरहङ्कारादिभिश्च संविलतं शून्यमेव संसारः। भावनाप्रकर्षादिना मूलसंवृतौ ध्वस्तायां तत्कार्यप्रवाहे च विलीने तदुपलक्षितं शून्यमेव मोक्ष इति।
शून्यमेव चेन्मोक्षः, संसारश्च। तदा मोक्षसंसारशब्दयोः पर्यायत्वमित्यादिकमापद्यते इत्येतदपि चोद्यमनेनैव परिहृतमित्याशयवानाह संवृत्यैवेति। यद्यपि शून्यमेव संसारो मोक्षश्च। तथाऽपि संसृतिरिति मोक्ष इत्यपि विशिष्यत एव। कथम्? स्थितया च ध्वस्तया च संवृत्यैव। उपलक्षणभेदादर्थभेदे सति न शब्दपर्यायत्वादिकमिति भावः।
॥ अनेकात्मवादिमतानुवादः॥
एवमेकात्मवादमुपन्यस्यानेकात्मवादं दर्शयति केचिदिति।
केचित् तेष्वन्यथा प्राहुःसंवृत्यैव त्वनेकधा।
अवच्छिन्नं महाशून्यं नानापुद्गलशब्दितम्॥४०॥
यस्य शून्यैकरसताज्ञानात् सा त्वपगच्छति।
स पुद्गलत्वनिर्मुक्तो महाशून्यत्वमेष्यति।
संवृत्या यस्त्ववच्छिन्नो दुःखान्यनुभवत्यलम्॥४१॥
इति...............................।
तेषु शून्यवादिषु। अन्यथा एकात्मवादिमतात्। कथमित्यत आह संवृत्यैवेति। तुशब्देनैकात्मवादम्, स्वाभाविकानेकात्मवादम्, उपाधिकृतानेकात्मवादं च व्यावर्तयति। संवृत्या नानाभूतया संवृत्याऽवच्छिन्नमेव, नतु स्वभावतः। संवृतेस्तत्कृतावच्छेदानां च मिथ्यात्वान्नानापुद्गलशब्दितमित्युक्तं भवतीति शेषः।
ततः किमित्यत आह यस्येति। तत्रानेकेष्वात्मसु यस्याऽत्मनस्तु शून्यैकरसताज्ञानात् शून्याद्वितीयताज्ञानात् सा संवृतिरपगच्छति, मूलसंवृतिर्व्यावृत्ता भवति, अन्या नश्यति, स पुद्गलत्वात् कर्तृत्वादिरूपान्निर्मुक्तो महाशून्यत्वमेष्यतीव। यस्तु संवृत्याऽवच्छिन्न आत्मा स पुद्गलभावेन दुःखान्यलं परमार्थबुद्ध्यैवानुभवति। इति प्राहुरिति सम्बन्धः।
॥ शून्यवादमायावादयोः साम्यम्, शून्यवाद्यभ्युपगता संवृतिरेव मायावादिनां माया॥
शून्यवाद्यभिमतमोक्षनिरासेन मायावाद्यभिमतोऽपि निरस्तो भविष्यतीत्याशयेन यदुक्तं मायिनो सिद्धान्तसाम्यं (८०७, श्लो३४) तदुपपादयति एवमिति।
.. एवं मायिनश्चाऽहुरेकजीवत्ववादिनः।
बहुजीवमताश्चेतिमाया तेषां तु संवृतिः॥४२॥
एकजीवत्ववादिनो बहुजीवमताश्चेति द्विविधमायिनश्चैवं द्विविधशून्यवादिवदेव मोक्षस्वरूपमाहुः। एको जीवो यस्मिंल्लोके स तथोक्तः, तस्य भावस्तत्त्वम्, तद् वदन्तीत्येकजीवत्ववादिनः। बहवो जीवा यस्मिंस्तत् तथोक्तं बहुजीवमतं येषां ते बहुजीवमताः।
ननु शून्यवादिनः संवृतिनिबन्धनः संसारः, तन्निवृत्तिश्च मोक्ष इत्याचक्षते। मायावादिनस्तु मायाहेतुकोऽयं संसारः,तन्निवृत्तिश्च मोक्ष इति। अतो वैषम्यमित्यत आह मायेति। या शून्यवाद्यभ्युपगता संवृतिः सैव तेषां मायिनां माया। अनाद्यनिर्वाच्यत्वलक्षणस्याऽवरणविक्षेपादेः कार्यस्य चैकत्वादिति भावः।
॥ बौद्धानां शून्यमेव मायावादिनां ब्रह्म॥
शून्यवादिनः शून्यं तत्वमाहुः, मायावादिनस्तु ब्रह्म। अतोऽतिवैषम्यमित्यत आह निर्विशेषत्वेति।
निर्विशेषत्ववाचैव शून्यं ब्रह्मेति नो भिदा।
सच्चित्सुखादिकं चैव किं कुतोऽखण्डवादिनः॥४३॥
शून्यं ब्रह्मेति चैतयोर्भिदा नो विद्यते। कुतः? निर्विशेषत्वस्य वाचैव द्वाभ्यां द्वयोर्निर्विशेषत्वेन उक्तत्वात्। वैधर्म्यं खलु वस्तुनो भेदकम्। तच्चात्र नास्तीति द्वयोरपि सम्मतम्। अतः शब्दभेदमात्रं न वस्तुभेद इति।
॥ मायामते सत्यत्वादीनां ब्रह्मलक्षणत्वानुपपत्तिः॥
अथ मतम् “सत्यं ज्ञानमनन्तं ब्रह्म”, “विज्ञानमानन्दं ब्रह्मैव” इति श्रुत्यैव सत्यादिलक्षणं ब्रह्म सर्वतो व्यावर्तितम्, तत् कथं शून्यं ब्रह्मेति नो भिदेत्युच्यते इति। सत्यम्। सदादिलक्षणैर्ब्रह्म श्रुत्या सर्वतो व्यावर्तितमिति। तत्तु मायावादिमते नोपपद्यत इत्याशयवानाह सदिति। सदादिकं च किमेव न किमपीत्यर्थः।
तथाहि सदादिकं किं ब्रह्मस्वरूपम्, उतान्यत्? आद्ये न लक्ष्यलक्षणभावः, अनेकपदवैयर्थ्यं च। न द्वितीयः, अखण्डवादित्वात्। यथा भवतां सत्यत्वादिकं ब्रह्मस्वरूपमपि तल्लक्षणम्, तथा ममापि किं न स्यादिति चेत्, न। अस्माभिर्विशेषशक्त्या तन्निर्वाहाङ्गीकारात्। परेण तु कुतो निर्वाह्यमेतत्? मयाऽपि विशेषोऽङ्गीक्रियत इति चेत्, न। अखण्डवादित्वात्।
॥ असत्त्वादिव्यावृत्त्यादेः सत्यादिपदार्थत्वम्, ब्रह्मशून्यविशेषणत्वं च उभाभ्यामङ्गीक्रियते॥
यद्यपि सत्यादिपदप्रतिपाद्यवस्तुनि न भेदः, तथाऽपि व्यावर्त्यानामसत्त्वादीनामस्त्येव। अतस्तद्व्यावृत्तिप्रयोजनानि तद्वाचीनि वाऽनेकानि पदानि ब्रह्मणि वर्तन्त इत्यभ्युपगमात् कथमस्मन्मते श्रुत्यर्थानिर्वाह इत्यत आह व्यावर्त्येति।
व्यावर्त्यमात्रभेदस्तु विद्यते शून्यवादिनः।
अनृतादेरपोहं तु स्वयमेव हि मन्यते॥४४॥
व्यावर्त्यमात्रभेदस्त्वित्येकदेशोत्कीर्तनेन सकलमप्युक्तमुपलक्षयति। एषा प्रक्रिया समस्ता शून्यवादिनोऽपि मतेऽस्त्येवातो नैतयाऽपि ब्रह्मशून्ययोर्भेदो वक्तुं शक्यते।
शून्यवादिनोऽपि विद्यत इति किमपादनेनोच्यते। नेत्याह अनृतादेरिति। सत्यादिपदार्थत्वेन शून्यविशेषणत्वेन चेति शेषः। मन्यते शून्यवादी। अपोहपदार्थवादिनो बौद्धा इति प्रसिद्धमेवेति हिशब्देनाऽह। “जाड्यसंवृतिदुःखान्तपूर्वदोषविरोधि यत्” इति प्रसिद्धं च।
॥ ब्रह्मशून्ययोर्निर्विशेषत्वाङ्गीकारादेवाविशेषत्वसिद्धिः॥
आस्तां तावद् ब्रह्मशून्ययोर्विशेषप्रतिपादनम्। निर्विशेषयोर्विशेषोऽस्तीति प्रतिज्ञैव तावदेषा नाङ्गं धत्ते। व्याहतत्वादिति भावेनाह निर्विशेषत्वत इति।
निर्विशेषत्वतो नैव विशेषो ब्रह्मशून्ययोः।
नैव प्रतिज्ञातुं शक्यत इति शेषः।
॥ मायावादिना वेदानामतत्वावेदकत्वाङ्गीकारात् वेदप्रामाण्यादिविषयेऽपि उभयोः साम्यम्॥
ननु मायावादिना वेदस्य प्रामाण्यम्, स्वतःप्रामाण्यम्, नित्यत्वं चाङ्गीकृत्य वेदवाक्यनिर्वाहोऽयं कृतः। शून्यवादी तु वेदप्रामाण्यमेव नाङ्गीकुरुते। तत् कथमुक्तं व्यावर्त्यमात्रेति। तत्राऽह प्रामाण्यादीति।
प्रामाण्यादि च वेदस्य फलतः सममेव हि॥४५॥
अतत्वावेदकं यस्मात् प्रमाणं तेन कथ्यते
अतत्वावेदकत्वं यदप्रामाण्यं सतां मतम्॥४६॥
शब्दमात्रेण विषमम्, अर्थस्तु द्वयोरपि सम एव। तस्माद् वाक्यार्थनिर्वाहोऽपि सम इत्युक्तमुपपन्नम्। वेदवाक्यपुरस्कारस्तु मायावादिनां छद्ममात्रम्, प्रमेयं तु समानमेवेति भावः। कथं फलतः समानमित्यत आह अतत्वावेदकमिति। वेद इति वर्तते। सर्वमपि प्रमाणमिति वा। तेन मायावादिना। कथ्यते “अविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि च” इत्यादाविति शेषः।
अतत्वावेदकत्वेऽङ्गीकृतेऽपि कुतः सममित्यत आह अतत्वावेदकत्वमिति। यद् यस्मात्। सतां विदुषाम्। नानाविधानि लक्षणानि प्रणयन्तोऽपि परीक्षका अतत्वावेदकव्यावृत्तये प्रयतन्त एव। “अनुभूतिः प्रमाणम्” इति वदताऽप्यतत्वावेदकाभावाभिमानेनैव प्रयत्नः कृतः। न पुनरतत्वावेदकस्यापि प्रामाण्याभिप्रायेण। अतो मायावादिनाऽभ्युपगतं वेदप्रामाण्यं नामाप्रामाण्यमेव। प्रामाण्याभावे च तत्स्वतस्त्वं दूरोत्सारितम्। नित्यत्वव्युत्पादनं च व्यर्थमेवेति।
॥ ब्रह्मज्ञानैकनिवर्त्यार्थप्रतिपादकत्वस्यातत्वावेदकत्वे वेदानां दीर्घभ्रान्तिजनकत्वादप्रामाण्यमेव॥
नन्वतत्वावेदकत्वेऽपि यस्य विषयो ब्रह्मज्ञानात् प्रागेव बाध्यते, तदप्रमाणम्। यस्य तु विषयो ब्रह्मज्ञानेनैव बाध्यः, तदतत्वावेदकं प्रमाणमिति विभागः। वेदविषयस्तु ब्रह्मज्ञानेनैव बाध्यते। अतस्तस्य प्रामाण्यमित्याशयेनाऽशङ्कते दीर्धेति।
दीर्घभ्रान्तिकरी चेत् स्यादतत्वावेदकप्रमा।
रज्जुसर्पादिविज्ञानादप्याधिक्यादमानता।
स्यादागमस्यानिवर्त्यमहामोहप्रदत्वतः॥४७॥
या दीर्घभ्रान्तिकरी साऽतत्त्वावेदकप्रमेति यदि मतं स्यादित्यर्थः। किमिदं लोकवृत्तमनुसृत्योच्यते, किंवा स्वसङ्केतमात्रेण? आद्ये दोषमाह रज्ज्विति। आगमस्य वेदस्य। कुतः? अल्पेन कालेनानिवर्त्यत्वाद् यो महान् मोहः, तत्प्रदत्वतः। अप्रामाण्ये विशेषाभावेऽपि तद्धेतुकानर्थातिशयाभिप्रायेण आधिक्यादित्युक्तमिति भावः।
॥ अल्पकालानिवर्त्यभ्रान्तिहेतोः प्रामाण्याङ्गीकारे चन्द्रप्रादेशताज्ञानादेरपि प्रामाण्यप्रसङ्गः॥
द्वितीये अतिप्रसङ्गमाह तलेति।
तलनैल्यादिविज्ञानमाकाशे मानतां व्र्जेत्।
छत्राकारत्वविज्ञानं चन्द्रप्रादेशतामतिः॥४८॥
तलमिन्द्रनीलं तस्य नैल्यमिव नैल्यं तलनैल्यम्। आदिपदार्थं स्वयमेव भाष्यकृद् विवृणोति छत्रेति। आकाश इति वर्तते। मानतां व्र्जेदिति सर्वत्र सम्बद्ध्यते। अल्पकालानिवर्त्यभ्रान्तिहेतोः प्रामाण्यसङ्केतं कुर्वता एतेषामपि प्रामाण्यसङ्केतः करणीयः, अविशेषात्। ब्रह्मज्ञाननिवर्त्यविषयत्वमाश्रित्यायं सङ्केतः क्रियते, नत्वल्पकालानिवर्त्यभ्रान्तिहेतुत्वमिति चेत्,न। ब्रह्मज्ञाननिवर्त्यविषयत्वोक्त्याऽप्यस्यैवार्थस्य मायावादिना विवक्षितत्वात्। अन्यथा “न खलु नाग इति नग इति वा पदात् कुञ्जरं गिरिं वा प्रतिपद्यमाना भवन्ति भ्रान्ताः” इति वर्णदैर्ध्यादिज्ञानं कथमुदाहरेत्? किञ्चैवंविधं वेदप्रामाण्यं शून्यवादिनाऽप्यङ्गीकृतमेवेति कुतोऽयं विशेषः?
॥ तत्वमस्यादिमहावाक्यप्रतिपाद्यं ब्रह्मणो निर्विशेषत्वं शून्यवादिना शून्यस्याप्यङ्गीकृतम्॥
न सर्वस्यापि वेदस्य मायावादिनाऽतत्वावेदकत्वमुच्यते। किन्नाम। विधिप्रतिषेधविषयस्य। अद्वितीयं तत्वं प्रतिपादयतः “तत् त्वमसि” इत्यादेर्महावाक्यस्य, निर्विशेषं सच्चिदानन्दात्मकं तत्पदार्थं प्रतिपादयतो “यत् तदद्रेश्यमग्राह्यम्”, “सत्यं ज्ञानम्” इत्यादेरवान्तरवाक्यस्य च तत्वावेदकत्वमङ्गीक्रियत एव। नचैवं शून्यवादिनेति। अतः कथं साम्यमित्यतः शून्यवादिनाऽप्येवमेवाङ्गीक्रियते, तत्वावेदकत्वं हि न विषयविसंवादाभावातिरिक्तं किञ्चिदस्ति; वाक्यद्वयार्थस्य चाविसंवादः शून्यवादिनाऽप्यङ्गीक्रियत एवेत्याशयवान् महावाक्यार्थाङ्गीकारं तावद् दर्शयति निर्भेदत्वं त्विति।
निर्भेदत्वं तु शून्यस्य तेनाप्यङ्गीकृतं सदा।
तेन शून्यवादिनाऽपि। सदेत्यनेन स्वयमेव नास्मदापादनेनेति सूचयति।
॥ अवान्तरवाक्यार्थस्यापि शून्यवाद्यङ्गीकृतत्वम्॥
अवान्तरवाक्यार्थाङ्गीकारोऽपि द्वयोः समान इति दर्शयन् निर्विशेषत्वं तावदुभयसम्मतमित्याह सत्त्वेति।
सत्त्वासत्त्वादिधर्माणामभाव उभयोर्मतः॥४९॥
नहि सत्प्रतियोगित्वं शून्यत्वं तेन चेष्यते।
नच दुःखविरोधित्वादन्या ह्यानन्दतेष्यते॥५०॥
मायिना शून्यपक्षेऽपिज्ञानं जाड्यविरोधि च।
धर्माः केऽपि न सन्त्येव को विशेषस्ततस्तयोः॥५१॥
तत्वस्येति शेषः। उभयोर्मायावादिशून्यवादिनोर्मतः सम्मतः। सत्यत्वमपि शून्यवादिनाऽङ्गीक्रियत इत्याशयेन। शून्यं नाम असत् तस्य सत्त्वं कथमित्यत आह नहीति। सत्प्रतियोगित्वं सद्विरोधित्वमसत्त्वम्। तेन च शून्यवादिनाऽपि। निर्विशेषत्वाभिप्रायेण शून्यमित्युच्यते, नासत्त्वाभिप्रायेण। तत्वमित्यङ्गीकारादिति भावः।
आनन्दताऽपि शून्यवादिनाऽभ्युपगम्यत इति वक्तुं मायावाद्यभ्युपगतानन्दतां तावदनुवदति नचेति। दुःखविरोधित्वमेवाऽनन्दत्वम्, नतु धर्मरूपं किमपीत्यर्थः। हिशब्देन “अनृतजडविरोधि” इत्यादितत्प्रसिद्धिं सूचयति।
ततः किमित्यत आह शून्येति। तत् समानमिति शेषः। “जाड्यसंवृतिदुःखान्तपूर्वदोषविरोधि यत्” इत्यादितद्वचनात्। ज्ञानत्वाङ्गीकारं दर्शयति ज्ञानमिति। ज्ञानं च जाड्यविरोधिस्वरूपमेवोच्यते मायिना। तच्छून्यवादिनोऽपि समानमित्यर्थः।
स्यादेतत्। मायावादिना ब्रह्मणो निर्विशेषत्वादिकमङ्गीक्रियते शून्यवादिना तु शून्यस्य। तत् कथं साम्यमित्यतः, मैवम्, ब्रह्मशून्ययोर्भेदाभावस्योक्तत्वादित्याह धर्मा इति। ततो व्यावर्तकाभावात् तयोर्ब्रह्मशून्ययोः को विशेषः किङ्कृतो भेदः स्यात्?
॥ अद्वैतस्य सूत्रकृत्सिद्धान्तत्वोक्तिप्रत्याख्यानम्॥
 ननूक्तविधमद्वैततत्वं सूत्रकारस्य सिद्धान्त एव। तत् कथं दूषणाय तदनुवादः क्रियत इत्यत आह एतादृशानामिति।
एतादृशानां पक्षाणां दूषणं प्रभुणा कृतम्।
स्वपक्षसाधनेनैवनाभाव इति चोक्तितः॥५२॥
शून्यपक्षसदृशपक्षाणाम्। कथम्? तद्विरुद्धस्य स्वपक्षस्य साधनेनैवार्थात्। एतदुक्तं भवति नाद्वैतं सूत्रकारस्य सिद्धान्तः, तेन तस्य दूषितत्वात्। “पृथगुपदेशात्” इत्यादिना तद्विरुद्धार्थस्य साधितत्वात्। नहि तस्य दुष्टतामननुसन्दधत् तद्विरुद्धं साधयतीति सम्भवतीति। न केवलमर्थाद् दूषणं कृतम्, किन्तु “नाभाव उपलब्धेः” इत्याद्युक्तितोऽपीत्याह नाभाव इति।
॥ आत्मविनाशस्य मोक्षत्वाङ्गीकारे मोक्षस्यापुरुषार्थत्वप्रसङ्गः॥
एवं सप्रभेदं शून्यवाद्यभिमतं मोक्षमनूद्य साधारणदोषेण तावद् दूषयन् यः शून्यवादिना “प्रदीपस्येव निर्वाणं विमोक्षस्तस्य भाविनः” इत्यात्मविनाशो मोक्ष उक्तः, तं दूषयति आत्मेति।
आत्माभावे पुमर्थः क इष्टस्याऽत्माऽवधिर्यतः।
मोक्ष इति वक्ष्यमाणं सिंहावलोकनेनेहापि सम्बद्ध्यते। आत्मनोऽभावे विनाशे सति मोक्षः कः किंसम्बन्धी पुमर्थः?
एतदुक्तं भवति आत्मविनाशलक्षणो मोक्षः किमात्मनः फलम्, उतानात्मनः? नाऽद्यः, तस्य अभावात्। नहि फिलनोऽभावे फलमुपपद्यते। धर्मादिषु तथा दर्शनात्। न द्वितीयः, आत्मनाशे अनात्मनोऽप्यभावात्। भावेऽप्यपुरुषार्थत्वप्रसङ्गात्। अनात्मनस्तेनोपकाराभावाच्चेति।
नन्वात्मन एवायम्। धर्मादिवदभ्युदयत्वाभावादसमानकालताऽप्युपपद्यत इत्यत आह आत्मेति। मोक्षः कः पुमर्थः पुमर्थो न भवेदित्यर्थः। तत्र हेतुमाह इष्टस्येति। इष्टोत्कर्षपरम्परायाः पर्यन्तो यतः सर्वमात्मार्थतयेष्टम्। आत्मा त्वनन्यार्थतया। इष्टमात्रस्य वित्तादेर्विनाशं पुरुषो नार्थयते, किमुतेष्टतमस्याऽत्मनः।
यद्वाऽऽत्माभावे सति मोक्षः कः पुमर्थः, किमिष्टावाप्तिरूपः, अथानिष्टनिवृत्तिरूप इत्यर्थः। नाऽद्यः। तत्र हेतुः इष्टस्येति। सर्वस्याप्यात्मेतरस्येष्टस्याऽत्माऽवधिराश्रयो यतः। आत्मार्थं हि सर्वमिष्टम्। स चेत् न स्यात्, तदा कस्यायं पुरुषार्थः स्यादित्यर्थः।
न द्वितीयः। तत्र हेतुः इष्टस्येति। अनिष्टनिवृत्तिरपि पुरुषार्थो भवन्ती तदा स्याद् यदीष्टं न विहन्यात्। तद्विघातेऽपि वा यदि महतोऽनिष्टस्य विघातिनी स्यात्। तथा लेके दर्शनात्। नहि कश्चिन्महदिष्टं विनाश्य अल्पानिष्टनिवृत्तिं कुर्वाणः प्रेक्षावानुपलभ्यते। आत्मा च सर्वतोऽपीष्टतमः। तद्विघातेन भवन्त्यनिष्टनिवृत्तिः कथं पुरुषार्थो भवेत्? रोगादिपीडिता उद्बन्धादिनाऽऽत्मविनाशं कुर्वन्तो दृश्यन्त इति चेत्, न। रोगाद्यायतनदेहपरित्यागेनाऽत्मानं निर्दुःखीकर्तुमेव तेषां प्रवृत्तेः। निर्दुःखो भूयासमिति हि सर्वस्याऽशीः। नतु न भूयासमिति। देहात्मविवेकज्ञानविधुरास्त्वात्मनाशायैव प्रयतन्त इति चेत्, न। तेषामप्रेक्षावत्त्वेनानुदाहार्यत्वात्। उपपादितं चैतत्, यत् पशवोऽपि देहात्मविवेकज्ञानवन्त इति। (९८१)
॥ घटशून्यत्वात्मशून्यत्वयोरविशेषात् घटशून्यत्वस्यैव मोक्षत्वात् साधनानुष्ठानवैयर्थ्यप्रसङ्गः॥
ननु दुःखात्यन्तनिवृत्तिस्तावदवश्यमेष्टव्या। सा च कारणनिवृत्त्यैव भवति, नान्यथा। कारणं च दुःखस्याऽत्मैव। अधर्मार्जनात्, आधारत्वाच्च। तत् कथमात्मनाशेन शून्यभावापत्तिर्नेष्यत इति चेत्। मैवम्। नह्यात्मैव दुःखकारणम्। किन्तु जागर एव भावात् सुप्तावभावादन्वयतिरेकाभ्यां शरीरेन्द्रियविषयवेदनादिकमपि। ततो ज्ञानभोगाभ्यां कर्मणि क्षीणे निर्बीजस्य देहादेरनुत्पादे सामग्नीवैकल्येन दुःखानुत्पादस्य सम्भवात् किमात्मनाशकल्पनया? कुतो विनिगमनमिति चेत्। सर्वस्याप्यात्मार्थत्वात्। आत्मनश्चात्यन्ताभ्यर्हितत्वादिति ब्रूमः। विप्रकृष्टव्ययेन हि साध्यासिद्धौ सन्निकृष्टव्ययं प्रेक्षावन्तः कुर्वन्ति। तस्मात् “आत्मार्थे पृथिवीं त्यजेत्” इति न्यायेन दुःखं जिहासताऽऽत्मावधिकस्यैव कारणस्य मोक्ष एष्टव्यो नत्वात्मनोऽपीति युक्तमुत्पश्यामः। तदेतत् सूचयन् विपक्षे बाधकमाह यदीति।
यदि नाऽत्मावधिर्मोक्षो मोक्षः स्याद् घटशून्यता
कल्पितत्वाद् विशेषाणांमायिनोऽपि समं हि तत्॥।५३॥
यदि अस्मदभिमतप्रकारेणाऽत्मावधिर्मोक्षो न भवेत्। आत्मव्यतिरिक्तानां दुःखकारणानां देहादीनामेव निवृत्तिः, आत्मनस्तु स्वरूपेणावस्थानमिति पक्षो यदि न स्यादित्यर्थः। आत्मनोऽपि शून्यतापत्तिर्यदि स्यादिति यावत्। तदा घटशून्यताऽपि देवदत्तस्य मोक्षः स्यात्। तथाच साधनानुष्ठानवैयर्थ्यम्। घटशून्यतायाः पारिव्राज्यादिकारणानपेक्षत्वात्।
ननु कुतोऽयं प्रसङ्गः? अविशेषादिति चेत्, न। आत्मशून्यता घटशून्यतेति भवद्भिरेव विशेषस्य उक्तत्वादित्यत आह कल्पितत्वादिति। न खल्वत्र शून्यताशब्देनाभावोऽभिधीयते। “भावार्थप्रतियोगित्वं भावत्वं वा न तत्वतः। यस्य” इत्याभिधानात्। किन्तु नष्ट आत्मा घटश्च। तौ चाप्रामाणिकौ। नच तथाविधयोर्विशेषाः प्रामाणिकाः सम्भवन्ति। नहि तुरगशृङ्गं शशशृङ्गं च व्यावर्तकधर्मवती इति सम्भवतः। तस्मादात्मशून्यता घटशून्यतेति व्यवहर्तृभिः केवलं व्यवाहारार्थं विशेषाः कल्पिता इत्यङ्गीकार्यम्। तथाच नाविशेषोऽसिद्ध इति।
दूषणातिदेशार्थं प्राङ्मतसाम्यमुपपादितम्। अतः शून्यवादिनां दूषणं मायावादिनामतिदिशति मायिनोऽपीति। तदिति “आत्माभावे” इत्यादिनोक्तं समस्तं परामृशति।
॥ मायावाद्यभिमतमोक्षस्यापि आत्मविनाशरूपत्वम्॥
स्यादेतत्। नाऽत्मनाशो मायावादिनोच्यते। येनेष्टनाशादपुुरुषार्थत्वं मोक्षस्य स्यात्। नापि शून्यतापत्तिः। यतो घटशून्यताऽपि मुक्तिर्भवेत्। किन्नाम। जीवभावापगमेन ब्रह्मभावाविर्भावः। ब्रह्म च परमानन्दात्मकमिति भवत्येव तद्भावः पुरुषार्थ इति।
मैवम्। कोऽयं जीवभावो नाम? कश्च ब्रह्मभावः? यद्यविद्याकामकर्मादिबद्धत्वं जीवत्वम्, परमानन्दभोक्तृत्वं च ब्रह्मत्वमित्यभिधीयते, तदाऽनुज्ञया वर्तामहे। नचैवं परस्य पन्थाः। यदेतत् कर्तृत्वभोक्तृत्वशक्त्युपेतं साकारं देहादिव्यतिरिक्तं रूपमहमिति साक्षिसिद्धं तदपगमस्य परेणेष्टत्वात्। इदमेव च रूपं परमेष्टमनुभूयत इति कथं नोक्तदोषः? आनन्दरूपतोपपादनाय परेणाप्यस्यैव रूपस्य परमप्रेमास्पदताया उपपादितत्वात्। नह्येतस्माद् रूपाद् विविक्तं किमपि निराकारं रूपमनुसन्धाय मा न भूवं भूयासमिति लोक आशास्ते। चक्षुषी निमील्य तथेति वदतस्तु कः प्रतिमल्लः? संविलतरूपे तदप्यस्तीत्यत इयमाशीरिति चासत्। तस्य सर्वथाऽप्यबुद्धिस्थत्वात्। आशासनं च साकारमेव। निराकरस्य तदनुपपत्तेः। नचान्यस्यान्यस्मिन् निरुपाधिकः प्रेमा सम्भवतीतीदमेवेष्टतमम्। एवन्तर्हि देहादिसहितत्वस्यापीष्टत्वात् तन्नाशेन भवतामपि मोक्षस्यापुरुषार्थत्वं स्यादिति चेत्, न। परमेष्टलाभहेतोरल्पेष्टनाशस्यापि पुरुषार्थत्वेन लोके दृष्टत्वात्। ब्रह्मभावश्च न शून्यभावाद् भिद्यत इत्युपपादितम्। (१३१३) आनन्दरूपता च वाङ्मात्रमित्युक्तमेव।(१३१६)
किञ्चाऽनन्दत्वमपि न पुरुषार्थः। नहि कश्चिदानन्दो भूयासमित्याशास्ते। किन्तु तमनुभूयासमिति। नचानुभाव्यत्वं परेणेष्यते। अनुभवितुरन्यस्याभावात्। स्वस्मिन् कर्मकर्तृभावानभ्युपगमात्।
अपिचाऽनन्दत्वं प्राक् सिद्धमिति न पुरुषेणार्थनीयम्। प्रागविद्यावृतं न प्रकाशते पश्चादविद्यावरणापगमे प्रकाशतेऽतो नैवमिति चेत्, न। प्रागपि स्वरूपस्य स्वयम्प्रकाशमानताभ्युपगमात्। तन्मात्रस्य चाऽनन्दस्याप्रकाशानुपपत्तेः। प्रकाशमानोऽप्यानन्दो न विशदः प्रकाशत इति चेत्, न। निर्विशेषत्वात्। वैशद्यावैशद्ययोश्च विशेषनिबन्धनत्वात्। यद्धि सह विशेषैः प्रकाशते तद् विशदमुच्यते। यत्तु साधारणधर्मैः सह तदविशदमिति। अविद्यावरणापगमे प्रकाश इति च कोऽर्थः? किं प्रतीयत इति, उत प्रत्येतीति। नोभावपि, अनङ्गीकारात्। प्रदीपः प्रकाशत इति कोऽर्थ इति चेत्। भावस्वरूपवान् वर्तत इति न किञ्चिदेतत्। तदिदं सूचितं हिशब्देन।
॥ घटशून्यतायाः सविशेषत्वादमोक्षत्वे आत्मशून्यताया अपि सविशेषत्वेन मोक्षाभावप्रसङ्गः॥
ननु निर्विशेषां शून्यतां मोक्षमाचक्ष्महे। तल्प्रत्ययोऽपि हि व्यवहारार्थमेव उपादीयते, नतु कमपि धर्मं प्रतिपादयति। घटशून्यता तु सविशेषा, घटेन विशेषितत्वात्। तत् कथमतिप्रसङ्ग इति चेत्, न। विवक्षिताया अपि शून्यताया एवमेवाऽत्मशून्यतेत्यात्मना विशेषितत्वेन सविशेषत्वदर्शनादमोक्षत्वप्रसङ्गात्।
॥ आत्मशून्यताया सविशेषत्वानङ्गीकारे बाधकोक्तिः॥
अथैवमात्मशून्यताया विशेषे दृश्यमानेऽपि केनचिदभिसन्धिना निर्विशेषतोच्यते, तत्राऽह दृश्यमान इति।
दृश्यमाने विशेषेऽपि यदि चेदविशेषता।
घटाभावेऽविशेषः स्यात् पाश्चात्यश्चेदनागतः॥५४॥
मोक्षत्वेनाभिमतस्य शून्यभावस्येति शेषः। चेच्छब्दः स्यादित्यर्थे। भावशब्दः कर्तृसाधनः। एवन्तर्हि घटशून्यताऽपि तेनैवाभिसन्धिना निर्विशेषा स्यादित्यतिप्रसङ्गतादवस्थ्यमिति। पूर्वपक्षिणोऽभिसन्धिमुद्घाटयति पाश्चात्यश्चेदिति। आत्मशून्यभावः। पाश्चात्यो विशेषरहित इति चेदित्यर्थः। पाश्चात्यत्वं चात्र व्यवहारापेक्षया।
ततश्चैतदुक्तं भवति इदानीं निरूपणसमये व्यवहारार्थं कल्पितेनैव विशेषेणाऽत्मशून्यभावः सविशेष इवाऽभाति। अक्रियमाणे तु निरूपणे स्वरूपेण निर्विशेष एवेति।
सिद्धान्तिनोऽभिसन्धिमुद्घाटयति अनागत इति। एवन्तर्हि घटशून्यभावोऽपि निरूपण एव सविशेषो दृश्यते। निरूपणमनागतोऽप्राप्तस्तु निर्विशेष एवेत्यस्माभिरपि शक्यते वक्तुमित्यर्थः।
॥ आत्मविनाशस्य मोक्षत्वसाधकानुमानस्य सत्प्रतिपक्षत्वम्॥
किञ्चोक्तरूपे शून्यवादिमायावादिभ्यामुत्प्रेक्षिते मोक्षे न किञ्चित् प्रमाणमस्ति। तथाहि न तावदत्र प्रत्यक्षं प्रमाणम्। प्रत्यक्षाविषयत्वादस्यार्थस्य। नाप्यागमः। वेदाद्यागमस्य शून्यवादिना प्रमाणत्वेनानभ्युपगमात्। तदीयागमस्यास्माभिरनङ्गीकृतत्वात्। मायावादिनं प्रति तु वक्ष्यामः। (श्लो५६) तस्मादात्मशून्यता पुरुषार्थः, दुःखनिवृत्त्युपयोगित्वात्; शरीरादिशून्यतावदित्यनुमानमेव वक्तव्यम्। यथोक्तम्
“न तैर्विना दुःखहेतुरात्मा चेत् तेऽपि तादृशाः।
निर्दोषं द्वयमप्येवं वैराग्यं च द्वयोस्ततः” इति।
तदिदं सत्प्रतिपक्षतया नानुमानमित्याह न मोक्ष इति।
न मोक्षो विमतो यस्माददेहो घटशून्यता।
यथेत्युक्ते वदेत् किं स योऽनुमामात्रमानकः॥५५॥
विमतः शून्यभावो ब्रह्मभावो वा न मोक्ष इति प्रतिज्ञा। यस्माददेह इति हेतुः अदेहत्वादिति। घटशून्यता यथेति दृष्टान्तः। योऽनुमामात्रमानकः स इत्युक्ते किं वदेदित्यनेनोक्तविधया प्रमाणान्तराभावं तत एव स्वानुमानस्याबाधितविषयत्वं च सूचयति।
॥ मायामते श्रुतेरप्रमाणत्वात् न तया प्रत्यनुमानबाधः॥
अत्राऽह मायवादी नेदं प्रत्यनुमानं मानम्। विदेहावस्थैव मोक्ष इति श्रुतिसद्भावेन कालातीतत्वात्। किञ्च श्रुत्यैव ब्रह्मभावाविर्भावो मोक्ष इत्युक्तत्वात् किमनुमानेनेति। तत्राऽह नचेति।
नच मायी वदेदत्र पूर्वोक्तेनैव वर्त्मना।
अमानत्वाच्छ्रुतेस्तस्य नचादेहत्ववादिनी॥।५६॥
श्रुतिः काचित्........................।
अत्रानुमानविषये श्रुतिमालम्ब्य दूषणं न वदेत्। तथाऽत्र स्वाभिमते मोक्षे श्रुतिं प्रमाणं नैव वदेदित्यर्थः। कुत इत्यत आह पूर्वेति। तस्य मायावादिनो मते श्रुतेरमानत्वात्। कथम् “प्रामाण्यादि च वेदस्य” इत्यादिना पूर्वोक्तेनैव वर्त्मना।
ननु न सर्वो वेदोऽतत्वावेदकः। किन्तु विधिनिषेधात्मक एव। अतथाभूतास्तु वेदान्तास्तत्वावेदका इति चेत्, न। “सर्वधर्मोज्झितस्यास्य किं शास्त्रेणाधिगम्यते” इत्यादिना पूर्वोक्तेनैव वर्त्मनाऽत्र तत्वे श्रुतेरमानत्वात्। अस्तु वा कथञ्चित् श्रुतिः प्रमाणम्। तथाऽपि नास्मदनुमानस्य तद्बाध इत्याह नचेति। मुक्ताविति शेषः। तथा तदभिमतमोक्षवादिनीत्यपि ग्राह्यम्।
॥ अशरीरश्रुतेः प्राकृतदेहराहित्यमर्थः, नत्वदेहत्वम्॥
“अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ इत्यादिश्रुतिसद्भावात् कथमदेहत्ववादिनी श्रुतिर्नास्तीत्युच्यत इत्यत आह अदेहत्वमिति।
...............अदेहत्वमप्राकृतशरीरता।
मोक्षे भोगं यतो ब्रूते जक्षन् क्रीडन्निति श्रुतिः॥५७॥
यदस्यां श्रुतावदेहत्वमुच्यते तत् प्राकृतशीरराहित्यमेव। नतु सर्वथाऽप्यदेहत्वम्। प्राकृतशब्देन जडमुपलक्ष्यते। तद्राहित्यं च चतुर्थपादोदितप्राकरेण ज्ञातव्यम्। एवं “ब्रह्म वेद ब्रह्मैव भवति” इत्यादिश्रुतिराशय व्याख्यातव्या च।
अशरीरत्वश्रुतेः कुतोऽर्थसङ्कोचः क्रियत इत्यत आह मोक्ष इति। “स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वा” इति श्रुतिर्मोक्षे स्त्र्यादिभोगं ब्रूते। नचाशरीरस्यासौ सम्भवतीत्यतः सङ्कोच इत्यर्थः।
॥ परोक्तानुमानभङ्गः, शून्यमायामतयोः प्रेक्षावदनुपादेयत्वम्॥
परकीयानुमानस्य प्रतिपक्षान्तरमाह निर्दुःखत्वादिति।
निर्दुःखत्वान्न तन्मोक्षः प्रतिपन्नं यथेति च।
अनुमा दूषणं किं स्याद् वादिनोः शून्यमायिनोः॥५८॥
दुःखं दुःखादभिन्नत्वान्मोक्षोऽपि स्यादसंशयम्।
भेदे सद्द्वैततैव स्यादित्याद्यमितदोषतः।
हेयं मायामतेनैव सह शून्यमतं बुधैः॥५९॥
तत् शून्यत्वम्, ब्रह्मत्वं वा मोक्षो न भवति, निर्दुःखत्वात्; प्रतिपन्नं घटशून्यत्वं यथेति चानुमायाः किं दूषणं स्यात्? न किमपि। शून्यशब्देन तदङ्गीकारवान् लक्ष्यते। शून्यश्च मायी चेति द्वन्द्वः। यद्वा शून्यं च माया चेति द्वन्द्वः। ते विद्यते ययोरिति व्रीह्यादिलक्षण इनिः। तत्रच तदन्तविधिरिष्यते।
प्रतिपक्षान्तरमाह दुःखमिति। मोक्ष इति शून्यं ब्रह्म चोच्यते। प्रतिवादिभ्यां तथाऽभ्युपगतत्वात्। स मोक्षो दुःखात्मा स्यात्, दुःखादभिन्नत्वात् दुःखप्रतियोगिकभेदशून्यत्वात्; प्रसिद्धदुःखवत् इत्यर्थः। शून्यब्रह्मणोर्दुःखत्वे तद्भावापत्तिर्न पुरुषार्थ इति सिद्ध्यति। अपिशब्दः प्रतिपक्षान्तरसमुच्चयार्थः। असंशयमिति व्याप्तेर्निश्चितत्वमाचष्टे। दुःखप्रतियोगिकभेदाभावः कुत इत्यत आह भेद इति। दुःखाच्छून्यब्रह्मणोरिति शेषः। तथाचापसिद्धान्त इति भावः।
किञ्च दुःखापायस्याऽत्मनाशेन विना देहादिनाशेनापि सम्भवादन्यथासिद्धिश्चानुमानस्य। शरीरादिशून्यताऽपि न दुःखध्वंसोपयोगित्वात् पुरुषार्थः। किन्नाम। आत्मनो निर्दुःखतां प्रति हेतुत्वात्। नहि दुःखं नश्यत्विति कश्चिदाशास्ते। अपितर्हि? निर्दुःखः स्यामिति।
ननु शून्यभावो ब्रह्मभावो वा भवतां सिद्धश्चेदपसिद्धान्तः, नचेदाश्रयासिद्धिरिति चेत्, न। परानुमानेऽप्यात्मशून्यतायाऽसिद्धत्वेनाऽश्रयासिद्धेः। इयांस्तु विशेषः यत् परप्रसिद्धिमात्रेण प्रतिपक्षः सम्भवतीति।
ननु भोगश्रुतिः सगुणमुक्तिविषयाऽस्त्विति चेत्, न। “परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते” इत्युक्तिविरोधात्। निर्दुःखत्वान्मोक्षो न भवतीति विरुद्धमिति चेत्। परमेष्टस्याऽत्मनो नाशः पुरुषार्थ इति कथं न विरुद्धम्?
अथ सतो दुःखाद् भेदे सद्द्वैतता स्यात्। दुःखं तु मिथ्येति चेत्, न। अनुभवविरोधादेरुक्तत्वात्। बहुजीववादिनं प्रति नान्तिमानुमानमिति न कुचोद्यावकाशः। तदेतत् सर्वमभिसन्धायोपसंहरति इत्यादीति। सहैवेति सम्बन्धः।
॥ विज्ञानवाद्युक्ताद्वितीयज्ञानत्वापत्तिरूपमोक्षस्वरूपनिरासः॥
विज्ञानवाद्यभिमतं मोक्षस्वरूपमप्युक्तदूषणातिदेशेन दूषयति एवमिति।
एवं विज्ञानवादोऽपिज्ञानमात्रविशेषतः।
तस्यापि भङ्गुरत्वादिविशेषमपहाय हि।
अद्वैततामतं साक्षादुक्तदोषस्ततो भवेत्॥६०॥
शून्यवादिमायावाद्यभिमतमोक्षवद् विज्ञानवाद्यभिप्रेतोऽपि मोक्षो हेय इत्यर्थः। ननु विज्ञानवादिनो विज्ञानं तत्वमाहुः। तस्यापि क्षणिकत्वम्, स्वकर्मकप्रकाशकत्वलक्षणं स्वप्रकाशत्वं च। नचैवं पूर्वकावित्यतो वैषम्यात् कथमतिदेश इत्यत आह ज्ञानेति। ज्ञानमात्रं चासौ विशेषश्च ज्ञानमात्रविशेषः। तमिति द्वितीयार्थे तसिः। यस्मात् ज्ञानमात्रविशेषं तस्य ज्ञानस्य भङ्गुरत्वादिविशेषमप्यपहाय विज्ञानवादोऽप्यद्वैततामतं ज्ञातव्यम्। न विद्यते द्वैतं यस्य तत्वस्य तदद्वैतम्।तस्य भावोऽद्वैतता। तस्या मतमद्वैततामतम्। ततः कारणादुक्तदोषोऽपि समो भवेत्।
इदमुक्तं भवति अस्तु विज्ञानवादस्य पूर्वस्मात् कश्चिद् विशेषः, तथाऽपि स प्रकृतानुपयोगित्वान्नाऽदरणीयः। मोक्षस्वरूपं तु प्रकृतं समानम्। प्रतिपन्नं जीवभावं विहायाद्वितीयविज्ञानत्वापत्तिः मुक्तिरिति विज्ञानवादिनाऽप्यङ्गीकृतत्वात्। अतो युक्त एवातिदेश इति।
यद्वा ज्ञानमात्रविशेषं तस्य भङ्गुरत्वादिविशेषं चापहाय विज्ञानवादोऽपि साक्षादद्वैततामतं ज्ञातव्य इत्यनेनेदमभिप्रैति न कश्चिद् विज्ञानवादस्य पूर्वाभ्यां विशेषः। ज्ञानमिति विशेषस्य शब्दमात्रत्वेन हेयत्वात्। नहि ज्ञानत्वं नाम धर्मोऽभ्युपगम्यते परेण। भङ्गुरत्वादिकं तु तेनैव कल्पितमित्युक्तत्वाद् हेयमेव।(८०९) नतु वस्तुतो मतभेदहेतुः। यथोक्तम् “तत्र सन्ततिभेदश्च” इत्यादि। अतो युक्तोऽतिदेश इति। अतिदेशप्रकारस्तु स्पष्ट एव।
॥ कालत्वहेतुना मोक्षकालस्य अद्वितीयज्ञानवत्त्वाभावसाधनम्॥
अनुमानान्तरमपि तन्निरासार्थमाह काल इति।
कालो न केवलज्ञानी कालत्वात् प्रतिपन्नवत्।
एतयाऽनुमया रोधान्न तादृङ्मोक्षरूपता॥६१॥
मोक्षकालोऽद्वितीयज्ञानवन्न भवतीत्यर्थः। प्रतिपन्नवत्, वर्तमानकालवत्। रोधाद् विरोधात्। तादृक् मोक्षरूपं यस्यात्मनोऽसौ तादृङ्मोक्षरूपः। तस्य भावस्तत्ता। ज्ञानातिरिक्तस्य कल्पितत्वाद् वर्तमानकालोऽपि केवलज्ञानीति चेत्, न। मुक्तिसंसारयोरविशेषापत्तेः। यस्तु विशेषोऽङ्गीक्रियते तदभाव एवानेन साध्यते।
॥ उक्तानुमाने आश्रयासिद्धिशङ्कानिरासः॥
ज्ञानव्यतिरिक्तं किमपि नास्तीति मते कालोऽपि नास्त्येव। अतः किमाश्रयाऽनुमानप्रवृत्तिरित्यत आह यदिति।
यदि कालोऽपि नेत्याह कदेति प्रश्न उत्तरम्।
किं वक्ष्यति यदाऽवस्थां वदेत् सा पक्षतां व्र्जेत्॥६२॥
आह विज्ञानवादी। तदा, कदा कालो नेति प्रश्र्ने परेण कृते सति किमुत्तरमसौ वक्ष्यति? निरधिकरणस्याभावस्य निरूपयितुमशक्यत्वात् कालो नेत्येतदपि दुर्निरूपमापद्येतेत्यर्थः। मोक्षावस्थायां कालो नेत्युत्तरं वक्ष्यामीत्याशयाऽह यदेति। वदेत् कालाभावाधिकरणत्वेनेति शेषः। तर्हि सा मोक्षावस्था पूर्वानुमाने पक्षतां व्र्जेत्। पक्षशब्देन तदेकदेशो धर्मी लक्ष्यते। मोक्षावस्था न केवलज्ञानवतीति प्रतिज्ञास्यत इत्यर्थः।
॥ अवस्थात्वहेतुना मोक्षावस्थाया अद्वितीयज्ञानवत्त्वाभावसाधनम्॥
एवन्तर्हि कालत्वादिति हेतुः स्वरूपासिद्धः स्यादित्यत आह अवस्थात्वादिति।
अवस्थात्वादिति ह्येव हेतुःसाऽपि कदेति च।
पृष्टे कालश्च वक्तव्यो नाकालत्वं ततो भवेत्॥६३॥
यदाऽवस्था पक्षीक्रियते तदाऽवस्थात्वादित्येव हि हेतुरुच्यते न कालत्वादित्यतो नोक्तदोषः। एवं संसारावस्थैव दृष्टान्तीक्रियत इति न दृष्टान्तदोषोऽपीति वाच्यम्। प्रथमोक्तपक्षहेतुदृष्टान्तानां त्यागे प्रतिज्ञाहानिः स्यादिति चेत्। मैवम्। कालाभावस्यावस्थामधिकरणं वदता न किञ्चिदात्महितमाचरितम्। अनुमानान्तरविरोधस्यापरिहार्यत्वात्। नहि प्रतिवादिनिग्रहमात्रेण विरुद्धं तत्वं व्यवतिष्ठते।
॥ कालाभावस्याप्रामाणिकत्वम्॥
मा हि भूत् कस्मिंश्चिदनुमाने सद्दूषणद्वयेन दूषितेऽधिकत्वेन च प्रतिवादिनि निगृहीते तस्य सदनुमानत्वमिति प्रदर्शनार्थमेवानुमानान्तरमुपन्यस्तम्। वस्तुतस्तु कालाभावमेव निराकुर्म इत्याशयवानाह साऽपीति। मोक्षावस्थां कालाभावस्याधिकरणत्वेन वदता सा मोक्षावस्थाऽपि कदेति केनचित् पृष्टे भावनापरिपाकोत्तरकाल इत्यवस्थाधिकरणत्वेन काल एव वक्तव्यः। नह्येवं कदाऽपि न प्रष्टव्यमिति नियामकमस्ति। ततः कालस्य सर्वथाऽपरिहार्यत्वादकालत्वं कालाभावो न भवेत्। तथाच तदाश्रयेण प्रथमानुमानमपि प्रवर्त्स्यतीति।
॥ कालस्वरूपानभ्युपगमे साक्षिविरोधः॥
ननु कालाभावादाश्रयासिद्धमाद्यानुमानम्। यदत्रोक्तं कदेति, तदसत्। प्रतियोग्यधिकरणमेव ह्यभावस्याधिकरणम्। नच कालस्य कालोऽधिकरणम्। येन तदभावः कालाधिकरणः स्यात्। अतः कदेति प्रश्न एवानुपपन्नः। किमुत्तरेणेति चेत्। एवन्तर्हि कालविशेषमधिकरणत्वेनानुपादाय कालं निषेधता सामान्यनिषेध एव कृतः स्यात्। ततः किमित्यत आह नेति।
न काल इति सामान्यनिषेधे कालगप्रमा।
निरुणद्धि समश्चायं त्रयाणामुक्तवादिनाम्॥६४॥
कालो नेति सामान्यतो निषेधे क्रियमाणे हि कालस्य स्वरूपमेव निषिद्धं स्यात्। तथाच कालं गच्छति विषयीकरोतीति कालगा प्रमा साक्षी विरुणद्धि। स हि पूर्वोत्तरकोटिरहिततया कालसद्भावं गृह्णातीति।
॥ एकजीववादिभिरपि मोक्षे कालस्यानभ्युपगमात् तेषामप्ययं दोषः॥
न केवलमयं साक्षिविरोधो विज्ञानवादिनः। किन्नाम? पूर्वाभ्यां सह त्रयाणां चेत्याह समश्चेति। उक्ताः प्रत्युक्ताः। ननु कथं शून्यवादिमायावादिनोरयं साक्षिविरोधः? ताभ्यां कालाभावस्यानभ्युपगतत्वात्। यथाहि लोकेऽनेकेषु मायामयान् गजतुरगादीन् पश्यत्सु यस्य कारणविशेषेण मायाऽपगच्छति स एव तान् न पश्यति। अन्ये तु पश्यन्त्येव। तथा द्वैतदर्शनकारणमज्ञानं यस्यापगतं स एव तन्न पश्यति। अन्येषां तु कालादिप्रपञ्चदर्शनमनुवर्तत एवेति खलु ताभ्यामभ्युपेतमित्यत आह एकेति।
एकजीवत्वपक्षे तु कालाभावादियं प्रमा।
कुपिताकालमाधाय द्वैतमेवोपपादयेत्॥६५॥
सत्यमेवं बहुजीववादिनः शून्यवादिनो मायावादिनश्च मतम्। नच तयोरस्माभिः साक्षिविरोधोऽभिहितः। किन्तर्हि? एकमुक्तिरेव सर्वमुक्तिः, एकस्मिन् मुक्ते न किञ्चिदवशिष्यत इत्येकजीववादपक्षे तु मुक्तौ कालाभावाभ्युपगमादियं प्रमा साक्षिरूपा कुपिता विरोधिनी भवत्येव।
शून्यवादिमायावादिनौ प्रति साक्षिविरोधाभिधानमसङ्गतम्। कालाभावाभ्युपगमेऽपीदानीं तस्य अप्रस्तुतत्वादित्यत आह कालमिति। इयं प्रमेति वर्तते। आधाय उपपाद्य।
अयमभिसन्धिः अद्वितीयस्य शून्यस्य ब्रह्मणो वाऽवस्थानं मुक्तिरिति तावदेकजीववादिभ्यां ताभ्यामभिधीयते। तत्र वयं ब्रूमः कालसद्भावान्नाद्वैतत्वमुपपाद्यत इति। तत्र परः कालोऽपि नास्तीति वदति, तदा साक्षिविरोधोऽभिधीयत इत्येतां सङ्गतिमाश्रित्यातिदेशः कृतः, नत्वाश्रयासिद्धिप्रसङ्गेनेति।
॥ कालत्वहेतुना मोक्षकालस्य प्रपञ्चवत्त्वसाधनम्॥
वादित्रयसाधारणमनुमानान्तरमाह विमत इति।
विमतः प्रपञ्चवान् कालः कालत्वात् प्रतिपन्नवत्।
इति चान्यानुमैकत्वं जीवस्य विनिवारयेत्॥६६॥
कालः प्रपञ्चवानित्युक्ते सिद्धसाधनता स्यात्। अतो विमत इत्युक्तम्। मोक्षकाल इत्यर्थः। तस्य स्पष्टीकरणाय काल इत्युक्तम्। कालाभावस्यानुपदमेव निरस्तत्वान्नाऽश्रयासिद्धिः। प्रपञ्चो वियदादिः। प्रतिपन्नो वर्तमानकालः। पूर्वोक्तमेवेदं कुतः पुनरुच्यत इत्याशङ्कानिरासायोक्तम् अन्याऽनुमा चेति। यद्यपि द्वयोर्धर्म्यादिकं प्रयोजनं च समानम्। तथाऽपि पूर्वमद्वैतनिषेधमुखेन प्रवृत्तम्। इदं तु प्रपञ्चविधिमुखेनेति भेदः। जीवस्य मुक्तस्य।
॥ उक्तदोषातिदेशेन कालैकत्वशब्दैकत्वशिवैकत्ववाद्युक्तमोक्षस्वरूपनिरासः॥
उक्तातिदेशेनाद्वैतमतान्तराणि दूषयति कालेति।
कालशब्देश्वरैकत्वमतान्यप्येवमेव हि।
निराकृतानितेषां च समत्वात् पक्षदोषयोः॥६७॥
यद् यदनुविद्धं प्रतीयते तत् तत्राऽरोपितम्, यथेदमाकारे रजतम्। कालानुविद्धं च समस्तं प्रतिभाति। तस्मात् तत्रैवाऽरोपितम्। स एव तु परमार्थः। अतस्तन्मात्रवस्थानं मुक्तिरिति कालैकत्ववादिनः। एवमेव शब्दैकत्ववादिनो वैयाकरणाः प्राहुः। यथा
“न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते”
इति। शैवैकदेशिनः स्वागममाश्रित्येश्वरैकत्वमाहुः। कथं निराकृतानीत्यत आह तेषां चेति। तेषां शून्यवादिप्रभृतीनां एतेषां च पक्षस्तावत् समान एव। शून्यादिशब्दभेदस्याप्रयोजकत्वात्। प्रतिपन्नस्वरूपजीवविनाशादेः सर्वैरभ्युपगतत्वात्। अतः परमेष्टनाशेनापुरुषार्थत्वमित्यादिदोषोऽपि समान एवेति। अनुमानं तु प्रत्यक्षविरोधादिना दुष्टमेव। तथाऽऽगमोऽपीति स्फुटत्वान्नोक्तम्।
॥ वैभाषिकसौत्रान्तिकोक्तमोक्षस्वरूपानुवादः, तन्निरासश्च॥
वैभाषिकसौत्रान्तिकाभिमतं मोक्षं निरूपयति ज्ञानमिति।
ज्ञानं स्वरसभग्येव नित्यसन्तानमिष्यते।
बौद्धाभ्यामपराभ्यां तुतत्राप्युक्तानुमा रिपुः॥६८॥
मोक्षो न शुद्धविज्ञानसन्तानी कालगत्वतः।
प्रतिपन्नो यथेत्येतदनुमानं तदुत्तरम्॥६९॥
अनुमानानि सर्वाणि प्रतिसाधनयोगतः।
निषिद्धान्युक्तभग्यैवश्रुतयश्चास्मदुक्तिगाः॥७०॥
एवशब्देन विषयसम्बन्धं व्यावर्तयति। इष्यते मुक्तौ। अयमर्थः ज्ञानमेवाऽत्मा। तच्च ज्ञानं स्वाभावेनैव भङ्गुरम्। अत एव क्षणिकम्। तत्सन्तानस्तु नित्यः। तस्यानादिवासनावशाद् यो विषयोपरक्तस्योत्पादः स संसारः। भावनाप्रकर्षवशेन वासनायामुत्सन्नायां यो विषयोपप्लवं विना शुद्धस्यैव उदयः स मोक्षः इत्युभयसमानम्। सौत्रान्तिकास्तु संसारे साकारत्वं मुक्तौ निराकारत्वं च विशेषमाहुरिति। निराकरोति तत्रापीति। विमतः कालो न निर्विषयैतञ्ज्ञानसन्ततिमान्, कालत्वात्; इदानीन्तनकालवदित्यादिरुक्ता उक्तसरूपाऽनुमा रिपुर्विरोधिनीत्यर्थः।

अनुमानान्तरमाह मोक्ष इति। शुद्धविज्ञानसन्तानी निर्विषयचित्सन्तानसम्बन्धी, कालगत्वतः कालसम्बन्धित्वात्। प्रतिपन्नः संसारः। तदुत्तरं तत्पक्षस्य दूषणम्। अप्रामाणिकश्चायं मोक्षः। पूर्ववत् प्रत्यक्षागमयोरभावात् केवलानुमानानि वाच्यानि। तत्राऽह अनुमानानीति। उक्तभग्यैव प्रतिसाधनसम्बन्धेन।
श्रुतिविरुद्धत्वेन कालात्ययापदिष्टानि चेति भावेनाऽह श्रुतयश्चेति। उच्यत इति उक्तिः। अस्मदुक्तिं गच्छन्ति प्रतिपादयन्तीत्यस्मदुक्तिगाः। अस्मदभिमतमेव मोक्षस्वरूपं प्रतिपादयन्तीत्यर्थः। श्रुतिप्रामाण्यं तु प्रागेव समर्थितमिति। (१३८, ४६८)
॥ साङ्ख्यनैयायिकवैशेषिकैः मोक्षस्य सुखादिरहितत्वप्रतिपादनम्॥
साङ्ख्याद्यभिमतं मोक्षमनुवदति साङ्ख्येति।
साङ्ख्यनैयायिकाद्याश्च प्राहुर्मोक्षं च निःसुखम्।
इच्छाद्वेषप्रयत्नादेरपि सर्वात्मना लयम्॥७१॥
तत्राऽहुः............................।
आद्यग्रहणेन वैशेषिका उच्यन्ते। यथा पूर्वेऽनुपपन्नभाषिणः, तथैतेऽपीति ज्ञापनार्थश्चशब्दः। कुत एवं प्राहुरित्यत आह इच्छेति। तत्र मुक्ताविच्छाद्वेषप्रयत्नादेरपि लयमाहुः। सुप्तिप्रलयवैलक्षण्यं दर्शयितुं सर्वात्मनेत्युक्तम्। निवृत्तजातीयस्य तस्मिन्नेवाऽत्मनि पुनरनुत्पादः सर्वात्मना लयः। आदिपदेन बुद्धिदुःखधर्माधर्माणां शरीरेन्द्रियाणां च ग्रहणम्।
ततश्चायमाशयः न तावन्मुक्तस्य सुखमनादीत्युपपद्यते। संसारेऽपि तत्प्रतिभासप्रसङ्गात् प्रतिभासत एवेति चेत्, न। प्रतिभासमानस्यानादितायां साधनोपादानवैयर्थ्यापत्तेः। अव्यक्तत्वात् संसारे न प्रतिभासते, व्यक्तत्वात्तु मुक्तौ प्रतिभासत इति चेत्, न। अव्यक्तिर्हि प्रतिभासाभावः, व्यक्तिश्च प्रतिभासः। ततश्चाप्रतिभासान्न प्रतिभासते, प्रतिभासनाच्च प्रतिभासत इत्युक्तं स्यात्। किञ्च प्रतीतिकारणान्तःकरणसद्भावे संसारे न प्रतीयते। मुक्तौ तु तदपगमे प्रतीयत इति सुभाषितम्। आवृतत्वान्न प्रतीयत इति चेत्, न। मूर्तत्वाभावेनाऽवरणानुपपत्तेः। तदनिरूपणाच्च। सुखमिव तत्प्रतीतिरप्यनादिश्चेत् किमावरणकृत्यम्? विषयविषयिभावः प्रतिबद्ध्यत इति चेत्, न। निर्विषयायाः प्रतीतेरनुपपत्तेः। सुखतत्प्रतीत्योरनादितायां प्रमितायामेव चैषा कल्पना युक्ता। नच तत्र प्रमाणं पश्यामः। ततः सुखस्य तत्प्रतीतेश्च मुक्तावुत्पत्तिरेव वक्तव्या। साऽपि न सम्भवति। कारणाभावात्। शरीरे सति तदाश्रयेन्द्रियसद्भावः, तैरर्थालोचनम्, ततः पूर्वानुभूतसारूप्येणेष्टानिष्टसाधनत्वानुमानम्, तस्मादिच्छाद्वेषौ, ताभ्यां प्रयत्नः, ततश्चेष्टसाधनोपादानम्, अनिष्टसाधनहानं च, ततः सुखोत्पादः, तदनन्तरं तत्प्रतीतिरित्येष दृष्टकारणक्रमः। अदृष्टं च सर्वत्र विजयते। नचैष कारणप्रवाहो मुक्तावस्ति। तस्मात् सुखरहित एव मोक्षः।
॥ मोक्षस्य निःसुखत्वेऽपि दुःखनिवृत्तिरूपत्वात् पुरुषार्थत्वम्॥
कथमयं पुरुषार्थ इति चेत् शरीरम्, षडिन्द्रियाणि, षषियाः, षबुद्धयः, सुखम्, दुःखं चेत्येकविंशतिभेददुःखात्यन्तनिवृत्तित्वादिति ब्रूमः। दुःखनिवृत्तिः पुरुषार्थ एव न भवति, तदीयपुरुषार्थत्वस्य सोपाधिकत्वात्। सुखं दुःखाभावे सत्येव भवतीति सुखार्थं दुःखाभावो मृग्यते नतु स एव पुरुषस्य समीहित इति चेत्, न। विपर्ययस्यापि सद्भावात्। भोजनादिसुखे सत्येव बुभुक्षादिदुःखं निवर्तत इति दुःखनिवृत्त्यर्थमेव भोजनादिसुखं मृग्यते न पुनस्तदेव पुरुषस्य समीहितमिति कल्प्यते। क्वचिद् दुःखनिवृत्त्यभावेऽपि सुखस्येष्यमाणत्वदिति चेत्, न। दुःखनिवृत्तेरपि क्वचित् सुखाभावेऽपीष्यमाणत्वात्। दुःखनिवृत्तौ सत्यां सुखमेव भविष्यतीत्यभिसन्धिस्तावदस्तीति चेत्। सुखावस्थायां नियतो दुःखविरहो भवतीत्यभिसन्धेस्तत्रापि सद्भावात्। तस्माद् यद्यपि दुःखाभावे सुखम्, सुखे च दुःखाभावो नियतः। तथाऽपि परस्परं निरपेक्षमेव पुरुषार्थत्वमनयोः। इच्छाया असङ्कीर्णविषयत्वादिति।
भवति दुःखहानिः पुरुषार्थः, किन्त्वनुभूयमानतया। नहि विषादिजन्यमोहावस्थायां दुःखनिवृत्तिरिति तत्र प्रेक्षावन्तःप्रवर्तन्ते। तस्मान्मोक्षे दुःखहानेरननुभूयमानत्वान्न पुरुषार्थत्वमिति चेत्, न। पुत्रादिवियोगजन्यदुःखहानिमिच्छतां केषाञ्चिद् विषशस्त्रोद्वन्धनादावपि प्रवृत्तिदर्शनात्। प्रेक्षावन्तो नैवं कुर्वन्तीति चेत्, न। पुरुषार्थत्वाविरोधात्। नहि परदारेषु शास्त्रनिषेधाङ्कुशवारिताः प्रेक्षावन्तो नाभिवर्तन्त इति न तत्र कामः पुरुषार्थः। अपित्वल्पीयः सुखं महीयाननर्थ इति निवृत्तिः। तथा विषादावपि प्रवृत्तस्य शास्त्रे गर्हितत्वादल्पीयाननर्थो निवर्तते महीयान् प्रवर्तत इति न ते प्रवर्तन्ते। इयमेव हि प्रेक्षा यत् पुुरुषार्थेऽपि शास्त्रलोकविरोधपरामर्शः। स्वरूपेणेष्यमाणतामात्रनिबन्धनत्वात् पुरुषार्थतायाः। अत एव यत्र लोकशास्त्राविरोधः, तत्र व्याध्यादिपरिपीडिताः प्रयागवारिपातानशनादिनाऽपि देहं त्यजन्तः प्रेक्षावन्तोऽपि दृश्यन्ते। न क्वचिद् दुःखनिवृत्तिमनुभविष्यामीति तत्साधने प्रवर्तन्ते। अपितु दुःखं हास्यामीति। अपिच दुःखनिवृत्तेरनुभूयमानतामात्रं विवक्षितम्, दुःखनिवृत्ति सत्ताऽपि वा। आद्यश्चेत् तुष्यतु दुर्जनः। चरमे जन्मन्यनुभूयत एव। समाधिभावादात्यन्तिकी दुःखनिवृत्तिरप्यनागताऽवर्तमानाऽप्यचिरमनुभूयत एव। द्वितीये तु प्रसक्तकण्टकादिहेतुकदुःखनिवृत्तेरपुरुषार्थत्वप्रसङ्गः। सर्वदाऽननुभूयमानत्वात्। तथात्वे वा विषयान्तरसञ्चाराभावप्रसङ्गः। निवृत्तेः सर्वदा तादवस्थ्यात्। तस्मात् सुखरहितो मोक्षः पुरुषार्थ इति।
॥ मोक्षस्य निःसुखत्ववादः श्रुतिविरुद्धत्वादप्रामाणिकः॥
निराकरोति नैतदिति।
........नैतदप्यत्र शोभनं श्रुतयो यतः।
महानन्दं च भोगं च नियमेन वदन्ति हि॥७२॥
अत्र मुक्तौ। एतत् सुखराहित्यमतमपि न शोभनम्। कुत इत्यत आह श्रुतय इति। अत्रेति वर्तते। भोगं तदनुभवम्। नियमेन अविगानेन। हीति श्रुतीनां प्रसिद्धतामाचष्टे। ताश्र्चोदाहरिष्यन्ते। (१३४४)
॥ प्रियास्पृष्टिश्रुत्या मुक्तौ प्राकृतसुखाभाव एवोच्यते, नतु सर्वात्मना सुखाभावः॥
ननु “अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः” इति मुक्तस्य दुःखवत् सुखस्यापि हानिः श्रूयते। तथा “न प्रेत्य सञ्ज्ञाऽस्ति” इति ज्ञानाभावश्च। तत् कथमेतदित्यतः सुखास्पृष्टिश्रुतिं तावद् व्याचष्टे प्राकृतेति।
प्राकृतप्रियहानिस्तु प्रियास्पृष्टिरितीर्यते।
अस्यां श्रुतौ प्राकृतं यदन्तःकरणपरिणतिरूपं प्रियं तद्धानिरेव प्रियास्पृष्टिरिति शब्देन प्रतिपाद्यते। नतु सर्वथा सुखाभावः।
॥ दुःखमात्रस्य अनिष्टत्वात्, मोक्षस्य अनिष्टनिवृत्तिरूपत्वात् न तत्र दुःखाभ्युपगमप्रसङ्गः॥
एवन्तर्ह्यप्रियास्पृष्टिरप्येवं विभागेन व्याख्यातव्या, विशेषाभावात्। तथाच मोक्षे दुःखसद्भावप्रसक्तिरित्यत आह अप्रियमिति।
अप्रियं प्रतिकूलं तदविशेषेण शब्दितम्॥७३॥
यस्मात् सकलमप्यप्रियं दुःखं प्रतिकूलं मुमुक्षोरनपेक्षितम्, तत् तस्मादप्रियमत्राविशेषेण शब्दितम्। एतदुक्तं भवति सर्वात्मनाऽनिष्टनिवृत्तिर्मोक्ष इति तावदविवादं सर्ववादिनाम्। दुःखं तु यादृशतादृशमप्यनिष्टमेव। अतो न तद् विभागेन व्याख्यातुं युक्तमिति।
यद्वा येन न्यायेन प्रिये विभागः क्रियते तदविशेषश्चेदप्रिये स्यात्, तदा तदपि विभागेन व्याख्यातव्यं भवेत्। नचैवम्। सामस्त्येव प्रियहानिरनिष्टा। अनिष्टप्राप्तौ च मोक्षस्यापुरुषार्थत्वं स्यादित्यतो हि प्रिये विभागः कल्प्यते। तथाच वक्ष्यामः। (१३३३) नच सामस्त्येव दुःखहानिरनिष्टा। सर्वस्यापि दुःखस्य अनिष्टत्वेन तद्धानेरिष्टत्वात्। तर्हि सर्वस्यापि सुखस्येष्टत्वात् प्राकृतसुखहानिरपि नाङ्गीकरणीयेति चेत्, न। तस्य दुःखानुषक्तत्वेन विषसम्पृक्तमधुवदननिष्टपक्षनिक्षेपादिति भावः।
॥ अप्राकृतदुःखस्य उत्तमजीवसम्बन्धितया अप्रमितत्वाच्च मोक्षे न तदभ्युपगमप्रसङ्गः॥
इतश्च नाप्रियं प्राकृतत्वेन विशेषणीयमित्याह नास्तीति।
नास्ति ह्यप्राकृतं दुःखं सतो जीवस्य कुत्रचित्।
अप्राकृते दुःखे सति तद्व्यावृत्तये प्राकृतमिति विशेषणीयं स्यात्। सतो मुक्तियोग्यस्य जीवस्य अप्राकृतं दुःखं नास्ति, प्रमाणाभावात्। अतो व्यर्थं विशेषणमिति। कुत्रचिच्छ्रुतौ चोक्तमिति शेषः।
॥ मोक्षसुखस्य अप्राकृतत्वसमर्थनम्॥
एवन्तर्ह्यप्राकृतस्य सुखस्याप्यप्रमितत्वात् तत्रापि विशेषणप्रक्षेपेण व्याख्यानमयुक्तमित्यत आह प्रियमिति।
प्रियं स्वरूपमेवास्य बलानन्दादिवाक्यतः॥७४॥
“बलमानन्द ओजश्च सहो ज्ञानमनाकुलम्।
स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद् विभोः”
इति श्रुतिवाक्यादस्य सतो जीवस्य प्रियं स्वरूपमेवेत्यवगम्यते। स्वरूपं चाप्राकृतम्। अतस्तद्व्यवच्छेदाय विशेषणप्रक्षेपेण व्याख्यानं युज्यते। एतेन सुखस्योत्पत्तिमत्त्वे यो दोषोऽभिहितः, सोऽनङ्गीकारपरास्तो वेदितव्यः। स्वरूपत्वेनानादित्वस्योक्तत्वात्। यदत्रोक्तं तदप्यसत्। आवृताः सन्तो व्यज्यन्त इति श्रुतत्वात्। आवरणं च मायाविद्यादिसमाख्याता प्रकृतिरेव। नच विशदश्रुतिसिद्धेऽर्थे काचिदनुपपत्तिः। ज्ञानस्य स्वरूपत्वेनानादित्वेऽप्यविद्यया विषयविषयिभावः प्रतिबद्ध्यते। नचोक्तदोषः। आत्मस्वरूपादौ तस्याप्रतिबद्धत्वात्।
॥ मुक्तौ प्राकृतसुखाभावः, अप्राकृतसुखसद्भावः, दुःखमात्राभावश्च श्रुत्यर्थः॥
उक्तमर्थं सङ्क्षिप्याऽह हेयत्वादिति।
हेयत्वादप्रियस्यैव प्रियहानेरनिष्टतः।
न समस्तप्रियाभावो मोक्षे प्रोक्ते तु युज्यते॥७५॥
अप्रियस्य दुःखस्य हेयत्वादेवेत्येवशब्देन सर्वथेति सूचयति। “अशरीरं वाव सन्तम्” इत्यस्यां श्रुतौ प्रोक्ते मोक्षे समस्तप्रियाभावो न व्याख्यातुं युज्यते। कुतः? प्रियहानेरनिष्टत्वतः। किन्तु प्राकृतत्वविशेषणप्रक्षेपेणेति तुशब्दः। अप्रियहानं त्वविशेषेण व्याख्येयमित्युपस्कर्तव्यम्। तत्र हेतुः अप्रियस्य सर्वथा हेयत्वादिति। उपलक्षणं चैतत्। सतो जीवस्याप्राकृतदुःखाभावाच्चेत्यपि द्रष्टव्यम्।
॥ अधमजीवानां दुःखस्वरूपत्वेऽपि तेषां मुक्त्यभावात् न मुक्तौ दुःखाभ्युपगमः॥
ननु सज्जीवस्याप्याप्रियं स्वरूपभूतमप्राकृतमस्ति। तत् कथमेतदित्यत आह अप्रियस्येति।
अप्रियस्य स्वरूपत्वमसुरेष्वेव हि श्रुतम्।
असुरा नैवमेवं च नैवं चाखिलमानुषाः।
इति...................................॥७६॥
असुराश्च न मोक्षयोग्या इति भावः। तां श्रुतिमर्थतः पठति असुरा इति। अनेन”नित्यानन्दो नित्यज्ञानो नित्यबलः परमात्मा। नैवमसुराः। एवमनेवं च मनुष्याः” इति श्रुतिमुपादत्ते। नित्यत्वोक्त्या स्वरूपत्वं सिद्धम्। वृत्तीनामनित्यत्वात्। परमात्मा परमेश्वरः। सज्जीव इति वा। नैवमिति एतद्विरुद्धस्वभावा इत्यर्थः। एवमनेवं चेति उभयस्वभावा इत्यर्थः। असुरा नैवम्, अखिलमानुषा एवं च नैवं चेति योजना। इति श्रुतमिति सम्बन्धः।
॥ मुक्तौ सुखसद्भावानङ्गीकारे तस्या अपुरुषार्थत्वप्रसङ्गः॥
अप्रियहानावपि सङ्कोचः क्रियतामित्यतिप्रसङ्गं निवारयतैव सामान्यतः श्रुता प्रियास्पृष्टिः कुतो विशेषेऽवस्थाप्यत इत्याशङ्काऽपि परिहृता। नियामकस्य सूचितत्वात्। तदेव नियामकं विस्पष्टमाचष्टे आत्मेति।
आत्मप्रियहानाय को यतेत च बुद्धिमान्॥७६॥
आत्मा च तत् प्रियं चेति आत्मप्रियम्। आत्मनः प्रियमिति वा। तदिच्छति चेति चशब्दः। यदि प्रियास्पृष्टिरविशिष्टा स्यात्, तदा न कश्चित् प्रेक्षावान् मोक्षमिच्छेत्। नापि तदर्थं प्रयतेत। यद्यपि द्वेषवशात् परकीयसुखहानादाविच्छादिकं सम्भवति, तथाऽपि न कश्चिद् बुद्धिमानात्मनः सुखहानमिच्छति, तदर्थं प्रयतते वा। वृत्तिरूपसुखस्यानिष्टभूयिष्ठत्वात् तत्त्यागायेच्छादिकं युज्यते। स्वरूपसुखं तु निष्कण्टकं कस्मात् त्याज्यम्? नच तन्नास्ति, श्रुतिसिद्धत्वात्। कारणैक्यनिमित्तो हि सुखस्य दुःखानुषङ्गः। नचाऽत्मसुखस्य कारणमस्ति। अशक्यं चाऽत्मसुखहानम्। नचाशक्यविषयेच्छाप्रयत्नौ बुुद्धिमतः सम्भवतः। आत्महानं खलु विनाशलक्षणम्, अनुत्पादलक्षणं च न सम्भवति, नित्यत्वात्। नापि वियोगलक्षणम्, परेषां मते विभुत्वात्। अस्माकं स्वात्मनि क्रियाविरोधात्। नाप्यज्ञानलक्षणम्, स्वप्रकाशत्वात्। तदेवं बाधकसद्भावात् प्रियास्पृष्टिर्विशेषनिष्ठैव व्याख्येया। तथाच “अशरीरं वाव सन्तम्” इति श्रुत्युक्तोपपत्तिः श्र्लिष्यत इति।
॥ “न प्रेत्य सञ्ज्ञाऽस्ति” इति श्रुत्या मुक्तानां मानुषैरपरोक्षतोऽज्ञेयत्वमुच्यते,
नतु तेषां ज्ञानाभावः॥
एवं सुखास्पृष्टिश्रुतिं व्याख्याय ज्ञानाभावश्रुतिं च व्याख्याति सञ्ज्ञेति।
सञ्ज्ञा नास्तीत्यपि ह्यस्य नामुक्तज्ञेयतेति हि।
धर्मानुच्छित्तिमेवास्य यतो वक्त्युत्तरश्रुतिः॥७७॥
श्रुतिर्वक्तीति वक्ष्यमाणमात्रापि सम्बद्ध्यते। “न प्रेत्य सञ्ज्ञाऽस्ति” इत्यपि श्रुतिरस्य मुक्तस्य अमुक्तज्ञेयता नास्तीत्येव वक्ति। नतु मुक्तो न जानातीति। एको हिशब्द एवार्थः। द्वितीयस्तु स्वोक्तार्थस्य शब्दशक्त्यनतिक्रमं सूचयति।
तथाहि प्रेत्य मरणानन्तरं सञ्ज्ञा ज्ञानं नास्तीति तावच्छ्रौतोऽर्थः। तत्र प्रकरणवशात् प्रेत्येत्येतत् मरणविशेषमोक्षानन्तरमिति व्याख्येयम्। ज्ञानं तु मुक्तसम्बन्धि प्रतिषिद्ध्यमानं तत्कर्तृकमेवेति कल्पने न नियामकं पश्यामः। अतस्तत्कर्मकस्यैव ज्ञानस्यायं प्रतिषेधो विज्ञायते। सर्वथाऽज्ञेयानां चासत्त्वं प्रसज्यत इत्युक्तज्ञेयतानिषेध इति कल्प्यते। अमुक्तानामप्यस्मदादीनामपरोक्षज्ञानस्यायं प्रतिषेधः। नारदादिभिरापरोक्ष्येण, अस्मदादिभिश्च शास्त्रेण तञ्ज्ञानात्। अत एव संशब्दप्रयोग इति।
ननु साधारणे वाक्ये मुक्तविषयस्य ज्ञानस्यायं प्रतिषेधः, नतु तत्कर्तृकस्येति कुतः कल्प्यत इत्यत आह धर्मेति। यतः कारणात् “अयमात्माऽनुच्छित्तिधर्मा” इत्युत्तरश्रुतिरस्य मुक्तात्मनो धर्मानुच्छित्तिमेव वक्ति। न विद्यते उच्छित्तिर्येषां ते तथोक्ताः। अनुच्छित्तयो धर्मा यस्यासावनुच्छित्तिधर्मेति। तस्मादेवं व्याख्यात इति।
॥ “अनुच्छित्तिधर्मा” इत्यस्यान्यथाव्याख्यानमाशय तन्निरासः॥
स्यादेतत्। अनुच्छित्तिधर्मेत्येतत् सङ्ख्यादिधर्माणामनुच्छित्तिं वक्तीत्यपि शक्यते वक्तुम्। यद्वा उच्छित्तेरभावोऽनुच्छित्तिः सा धर्मो यस्यासावनुच्छित्तिधर्मेति। तत् कथमेतन्नियामकमित्याशङ्कानिरासायाऽदित एव वाक्यं व्याचष्टे आशयेति।
आशयास्य ज्ञानहानिं मैत्रेय्या मोहमाह माम्।
भवानित्युक्तवत्या हि नाहं मोहं वदामि ते।
इत्युक्त्वा याज्ञवल्क्यो हि स्वरूपानाशमूचिवान्॥७८॥
“विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य सञ्ज्ञाऽस्ति” विज्ञानमूर्तिरयमात्माऽनादिरपि चरमे जन्मन्येतेभ्यो भूतेभ्यः समुत्थाय भूतात्मकशरीरोत्पत्तिनिमित्तमेव उत्पन्नव्यवहारविषयो भूत्वा पुनस्तानि भूतान्यन्वेव तन्नाशनिमित्तमेव नित्योऽपि विनश्यति। विनष्टव्यवहारविषयो भवति। अपव्र्ज्यत इति यावत्। ततः प्रेत्य मोक्षानन्तरमस्य मुक्तस्य सञ्ज्ञा ज्ञानं नास्तीत्यविशदं याज्ञवल्क्यवाक्यं श्रुत्वा अस्य मुक्तस्य ज्ञानहानिमाशयानेन वाक्येन भवान् मां प्रति यदाह मुक्तो न जानातीति तन्मोहकमेवेत्यर्थमुक्तवत्या चोदित इति शेषः। याज्ञवल्क्यः “नवा अरेऽहं मोहं ब्रवीमि” इत्यनेन ज्ञानोपदेशाय प्रवृत्तोऽहं परमप्रियायै ते मोहं न वदामीति प्रतिज्ञामुक्त्वा कथमित्याशङ्कायाम् “अविनाशी वा अरेऽयमात्मा” इत्यात्मस्वरूपस्य अनाशमूचिवान्।
यद्वा आशयेति णिजन्ताल्ल्यप्। याज्ञवल्क्यः सम्मुग्धेन वचसाऽस्या मैत्रेय्या ज्ञानहानिमाशयोचिवानिति योजना। तस्यास्तथा शङ्का जातेत्यत्र किं मानमित्यत्रोक्तम् मोहमाह मां भवानित्युक्तवत्या हीति। वचनलिङ्गेनाऽशङ्काऽवगम्यत इत्यर्थः। अयमर्थः स्पष्ट एव श्रुताविति द्वितीयो हिशब्दः।
ज्ञानविनाशवचनं मोहकमित्याक्षेपे स्वरूपानाशोऽसङ्गतः कथमुक्त इत्यत आह ज्ञानरूपस्येति।
ज्ञानरूपस्य विज्ञाननाशस्तन्नाश एव यत्।
इतिशून्यमतोच्छित्त्यैपुनरानन्दपूर्वकान्।
धर्मानाहाप्यनुच्छिन्नान्ताकिकैर्विनिवारितान्॥७९॥
यद् यस्मात् ज्ञानरूपस्तावदात्मा, तस्य च विज्ञाननाशो नाम तन्नाश एव। नचाऽत्मनाशोऽस्ति। तथासति मुक्तेरपुरुषार्थत्वप्रसङ्गात्। अतो न ज्ञाननाशोऽस्ति। अत एव न मद्वचनं तदर्थम्, किन्त्वमुक्तानां मुक्तविषये सञ्ज्ञा नास्ति, मुक्तानामेव वा वृत्तिरूपा सञ्ज्ञा नास्तीत्यादिरेव मद्वचनार्थ इत्यभिप्रायवान् स्वरूपानाशमूचिवानिति सम्बन्धः।
अस्त्वेवं सङ्गतिः, तथाऽपि ज्ञानं न नश्यतीति साक्षादनुक्त्वैवं वचनं किमर्थमित्यत आह शून्येति। न केवलमत्र प्रमेयनिरूपणमात्रार्थं प्रवृत्तो याज्ञवल्क्यः, किन्तु परीक्षया। अत एव न प्रेत्य ज्ञायत इति विशदमनुक्त्वा शङ्कोत्पादनाय “न प्रेत्य सञ्ज्ञाऽस्ति” इति साधारणं वाक्यमाह। परीक्षा च स्वानभिमतनिरासरूपा। अत एवमुत्तरे दत्ते शून्यमतस्याऽत्मनाशलक्षणस्य निरासोऽपि कृतो भवतीति तदर्थं स्वरूपानाशमूचिवान्।
यदर्थमादितो वाक्यं व्याख्यातं तदिदानीमनुच्छित्तिधर्मेत्येतद् व्याचष्टे पुनरिति। स्वरूपानाशमुक्त्वा पुनरपि मुक्तस्याऽनन्दपूर्वकान् धर्माननुच्छिन्नानाह याज्ञवल्क्यः। स्वरूपानाशोक्त्यैव धर्मानुच्छित्तिसिद्धौ पुनरुक्तिरियमित्यत उक्तम् आनन्दपूर्वकानिति। वाक्योपक्रमे विज्ञानघन एवेति विज्ञानस्याऽत्मस्वरूपत्वमुक्तं न पुनरानन्दपूर्वकाणाम्। अतः स्वरूपानाशोक्त्या विज्ञानाविनाश एव सुज्ञानो नाऽनन्दाद्यविनाशः। अतस्तेऽपि विज्ञानवदात्मस्वरूपभूता एव नोच्छिद्यन्ते इत्यर्थप्रतिपत्त्यर्थमिदं वाक्यमिति।
तात्पर्यान्तरं सूचयति ताकिकैरिति। उक्तमेतत् परीक्षायां प्रवृत्तो याज्ञवल्क्य इति। अतः स्वरूपाविनाशमङ्गीकृत्य ये ताकिका बुद्धिसुखादीन् धर्मान् मुक्तस्य विनिवारयन्ति तेऽप्यसमीचीनवादिन इति ज्ञापनायेदं वाक्यमिति न पौनरुक्त्यदोषः।
ननु स्वरूपाविनाशोक्त्या धर्माविनाशोऽपि सिद्ध एव। सत्यम्। स्वमतरीत्या तत्। ताकिकास्तु न ज्ञानसुखादीनामात्मस्वरूपत्वं मन्यन्ते। अतः किमिदानीं मोक्षप्रसङ्गे तेषामात्मस्वरूपत्वोपपादनेन? आत्मस्वरूपप्रक्रियायां तदपि वक्तव्यमित्याशयेनानुच्छित्तिरेवोक्तेति।
इदमत्राऽकूतम् अनुच्छित्तिधर्मेति यदि सङ्ख्यादिधर्माणामनुच्छित्तिरुक्ता स्यात्, तदाऽसङ्गतमिदं वाक्यमापद्येत। ज्ञानविनाशवचनं मोह इत्याक्षेपे सङ्ख्याद्यविनाशकथनस्य सङ्गत्यदर्शनात्। यदिच स्वरूपाविनाशोऽनेनोक्त इति स्यात्, तदा तस्य पूर्ववाक्येनैवोक्तत्वात् पुनरुक्तिदोषः स्यात्। अस्मत्पक्षे त्वस्ति सर्वेषां वाक्यानामुक्तरीत्या साफल्यम्। तस्माज्ज्ञानानन्दादिगुणानामेवानुच्छित्तिमाहेदं वाक्यमिति गम्यते। तद्बलाच्च “न प्रेत्य सञ्ज्ञाऽस्ति” इत्येतदपि उक्तार्थमेवेति।
॥ मुक्तस्य विषयभोगमभिधात्र्या श्रुत्या उक्तार्थसमर्थनम्॥
इतश्चैतदुक्तार्थमेवेत्याह मात्रेति।
मात्रासंसर्गमप्याह तथामाध्यन्दिनश्रुतिः।
यथा धर्मानुच्छित्तिमाह तथा मीयन्त इति मात्रा रूपादयो विषयाः, तेषां संसर्गमुपभोगलक्षणमप्यस्याऽह “मात्रासंसर्गस्त्वस्य भवति” इति वाक्येन। ततो न ज्ञानविलोपो व्याख्यातुं शक्यते। नेदं वाक्यं श्रुतावुपलभ्यत इत्यत उक्तम् माध्यन्दिनश्रुतिरिति। मैत्रेयीयाज्ञवल्क्यसंवादरूपमिदं प्रकरणं काण्वमाध्यन्दिनश्रुत्योः समानम्। इदं तु वाक्यं यद्यपि काण्वश्रुतौ नास्ति, तथाऽपि माध्यन्दिनश्रुतावस्त्येवेति।
॥ मुक्तौ विषयभोगाभावमतस्य श्रुतिनिषिद्धत्वम्॥
इतोऽपि सञ्ज्ञा नास्तीति वाक्यमुक्तार्थमेवेत्याह आचिक्षेपेति।
आचिक्षेप मतं तच्च यस्मिन् न विषयादनम्॥८०॥
श्रुुतिरिति वक्ष्यति। “यत्र हि द्वैतमिव भवति” इत्यादिरुत्तरा श्रुतिर्यस्मिन् मते मुक्तस्य न विषयादनं रूपादिविषयभोगो नास्तीत्यभ्युपगमः, तन्मतमाचिक्षेप निन्दितवतीति। ततश्च न तद् वाक्यं मुक्तस्य ज्ञानाभावं प्रतिपादयति। नहि ज्ञानरहितस्य घटकल्पस्य विषयसंसर्गो वा, तदभावनिन्दा वोपपाद्यते। कथमाचिक्षेपेति चेत्। उच्यते यत्र यदि द्वैतं भवति तत् तर्ह्येव इतर इतरं पश्यतीत्यादिना व्याप्तिमभिधाय हिशब्देन तस्याः प्रमितत्वं चोक्त्वा, यत्र यदितु अस्याऽत्मनोऽपेक्षितं सर्वमात्मैवाभूत् स्वव्यतिरिक्तं न स्यात् तत् तर्हि केन साधनेन कमर्थं पश्येत्? न केनापि किञ्चिदित्यनिष्टप्रसङ्गोऽभिधीयते।
एवन्तर्हि यदि मुक्तौ द्वैतं न स्यात्, तदा रूपदर्शनादिकं न भवेदिति तकितं भवति। तथाच द्वैताभावमतमनयाऽऽक्षिप्तम्, न विषयभोगाभावमतमित्यत आह घ्राणादीति।
घ्राणादिभोगाभावस्य त्वनिष्टत्वहृदा श्रुतिः।
घ्राणादिना गन्धादेर्भोगो घ्राणादिभोगः। केन कमिति करणस्य कर्मणश्र्चोक्तत्वात्। तुशब्दो विशेषार्थः। हृदाऽभिप्रायेण। पूर्वेणैव सम्बन्धः।
सत्यमेतत् शून्यमतम्, ताकिकमतं च निराकृत्याद्वैतमतमनया श्रुत्या निराक्रियत इति। तच्च विषयभोगाभावप्रसञ्जनेन। प्रसञ्जनीयं च तद् भवति यदनिष्टम्। अतोऽद्वैतमते घ्राणादिभोगाभावे प्रसञ्जयन्ती श्रुतिस्तस्यानिष्टत्वमभिप्रैतीति गम्यते। अनिष्टं च तदुच्यते यदप्रामाणिकं प्रमाणविरुद्धं च। अतो विषयभोगाभावनिन्दा श्रुत्यभिप्रायव्याप्ता भवत्येवेति।
॥ “यत्र हि” इत्यत्र श्रुतविषयभोगाभावस्य प्रसञ्जकत्वोपपादनम्॥
भवेदेवमर्थापत्त्या विषयभोगाभावनिन्दावगमो यद्यत्राद्वैतमते विषयभोगाभावः प्रसञ्जनीयः स्यात्। नचैवम्। अपितर्हि? वस्तुस्थितिकथनमेतत्। तथाहि अयमात्मा अविनाशी अत एवानुच्छित्तिस्तस्य धर्मः। मुक्तौ मात्राभिरसंसर्गस्तस्य भवति। कुतः? यत्र हि संसारे द्वैतमिव भवति तत् तत्रेतर इतरं पश्यतीत्यादि। यत्र तु मुक्तावस्य सर्वमात्मैवाभूत् स्वव्यतिरिक्तं किमपि नास्ति, तत्र केन कं पश्येन्न केनापि न किमपि इत्यद्वैतिनः। तत्राऽह येनेति।
येनेदमखिलं वेद विज्ञातरं स्वमेव च।
केन तं च विजानीयादित्यनिष्टं च सर्वथा॥८१॥
येनेदमखिलं वेद तं च केन विजानीयात् विज्ञातारं च केन विजानीयादित्यनेन “येनेदं सर्वं विजानाति तं च केन विजानीयात्”, “विज्ञातारमरे केन विजानीयात्” इति वाक्यद्वयमुपादत्ते। विज्ञातारमित्येतत् स्वमेवेति व्याचष्टे। प्रथमवाक्यविषयं तूत्तरत्र वक्ष्यति। (१३३८) इति वाक्यद्वयोक्तं विष्णुज्ञानराहित्यं स्वज्ञानराहित्यं च।
एतदुक्तं भवति अत्रान्ते येनेदमिति वाक्यद्वयं श्रूयते। तदर्थः परमेश्वरज्ञानाभावः स्वज्ञानाभावश्च तावदनिष्टो न वास्तवः। ततस्तत् प्रसङ्गकथनमेवेति ज्ञायते। तत्साहचर्यात् “केन कं पश्येत्” इत्यादिकमपि प्रसञ्जनमेव न वस्तुस्थितिकथनमिति ज्ञातव्यमिति।
॥ जीवब्रह्मणोरज्ञेयत्वनिराकरणम्॥
नन्वीश्वरस्तावत् सर्वथाऽप्यविज्ञेय एव। “यतो वाचः” इत्यादिश्रुतेः। जीवात्मा च न स्वविज्ञानी। एकस्यां क्रियायामेकस्यैव कर्तृकर्मभावस्य विरुद्धत्वात्। अतः परमेश्वरज्ञानाभावः स्वज्ञानाभावश्च कथमनिष्ट इत्यतः परमेश्वरस्य सर्वथाऽप्यविज्ञेयत्वं तावन्निराकरोति नेति।
नाखिलज्ञापको विष्णुरज्ञेयो नियमेन हि।
तञ्ज्ञानार्थं हि वेदानामखिलानां प्रवर्तनम्॥८२॥
प्रत्यक्षमात्मविज्ञानाविरोधानुभवादपि।
न स्वविज्ञानितायां च विरोधः कश्चनेयते॥८३॥
अत्राखिलज्ञापक इत्यनेन “येनेदम्” इति वाक्यार्थमनूद्य विष्णुरिति तस्य विषयो दर्शितः। प्रागव्याख्यातत्वात्। विष्णुं विनैतद्वाक्यार्थस्यासम्भवात्। हिशब्दस्तावदर्थे। विष्णुर्नियमेन सर्वथाऽप्यज्ञेय इति तावन्न भवति। कुत इत्यत आह तदिति। “सर्वे वेदाः” इत्यादेरिति शेषः। विष्णोः सर्वथाऽप्यज्ञेयत्वेऽखिलवेदवैयर्थ्यप्रसङ्गात् “यतो वाचः” इत्यादिकमन्यथा व्याख्येयमिति भावः।
एवं परमात्मनो ज्ञेयत्वमुपपाद्य जीवात्मनः स्वज्ञानमुपपादयति प्रत्यक्षमिति। क्रियाविशेषणमेतत्। आत्मविज्ञानं चाविरोधश्चेति द्वन्द्वः। अविरोधश्च प्रसङ्गादात्मविज्ञान एव। तयोरनुभवः। स च प्रत्यक्षरूपः तस्मात्। अपिपदेन श्रुत्यादिग्रहणम्। स्वविज्ञानितायां जीवस्य कश्चन विरोधो नेयते। न काऽप्यनुपपत्तिः प्रतीयते। आत्मविज्ञानानुभवस्तावत् मामहं जानामीति साक्षिरूपः प्रसिद्ध एव। यथा घटमहं जानामीत्यत्र न काचिदनुपपत्तिः प्रतीयते, किन्त्वनुपलम्भसनाथेन साक्षिणाऽनुपपत्त्यभाव एव साक्षात्क्रियते, तथा तदविशिष्टे मामहं जानामीति ज्ञानेऽपि। श्रुतयोऽपि “अहमित्येव यो वेद्य” इत्याद्याः। यदिचाऽत्मा न स्वात्मानं जानीयात् तदा ममेदमिष्टसाधनमित्यादिज्ञानाभावात् तथाविधेच्छाप्रयत्नयोरप्यभावात् सर्वप्रवृत्तिनिवृत्तिविलोपप्रसङ्गः। स्वप्रकाशत्वं ज्ञानाश्रयतया प्रकाशमानत्वं च न स्वज्ञानातिरेकेणोपपद्यत इति।
॥ एकस्यामेव क्रियायां कतृकर्मणोरभेदस्याविरुद्धत्वोपपादनम्॥
छिदादिषु कर्तृकर्मणोर्भेददर्शनात् तदेकत्वाभ्युपगमो विरुद्ध इति यदुक्तम्, तन्निराकरोति कर्तृकर्मेति।
कर्तृकर्मविरोधश्च नित्यानुभवरोधतः।
कथमेव पदं गच्छेद् विरोधोऽदृष्टबाधनम्॥८४॥
एकस्यां क्रियायां कर्तृकर्मत्वयोर्विरोधः कर्तृकर्मविरोधः। नित्यानुभवः उक्तसाक्ष्यनुभवः। पदं आस्पदम्। प्रकृत इति शेषः।
अयमाशयः उक्तमेतल्लिङ्गपादे। यत् कर्तृकर्मणोर्भेद इत्यौत्सर्गिकोऽयं न्यायः। अपवादे सति अभेदोऽपि भवतीति। अत्र च मामहं जानामीति साक्ष्यनुभवविरोधान्नायमस्य न्यायस्य विषयः। किन्तु यत्रादृष्टबाधनं प्रमाणविरोधाभावस्तत्रैवायं विरोधः प्रवर्तते। यथाऽङ्गुल्यगे्रणाङ्गुल्यग्रस्पर्शने। यथा वाऽसिधारयाऽसिधाराच्छेदन इति।
॥ मुक्तानां स्वज्ञानानङ्गीकारे प्रमाणविरोधः॥
अस्त्वेवमीश्वरस्य ज्ञेयत्वम्, जीवस्य च स्वज्ञानित्वम्, तथाऽपि मुक्तौ तज्ज्ञानाभावः कथमनिष्ट इति चेत्। उच्यते
“नाऽत्मानं न परांश्चैव न सत्यं नापि चानृतम्।
प्राज्ञः किञ्चन संवेत्ति तुर्यं तत् सर्वदृक् सदा”
इति श्रुतौ सुप्तस्य स्वज्ञानमीश्वरज्ञानं न नास्तीत्यभिधाय मुक्तस्य तु तदस्तीत्युच्यते। अतस्तदभावः प्रमाणविरुद्ध इति कथं नानिष्टः?
॥ मुक्तानां विषयभोगसद्भावे श्रुत्युपन्यासः॥
न केवलमेवमनिष्टप्रकरणाद् विषयभोगाभावस्यानिष्टत्वं गम्यते, किन्तु विषयभोगस्यापि श्रुतिसिद्धत्वाच्चेत्याह स इति।
सोऽश्नुुते सर्वकामांश्च कामान्नी कामरूप्यथ।
इत्यादिश्रुतयश्र्चोक्तमर्थमेव वदन्ति हि॥८५॥
अथ मुक्तेरनन्तन्तरमिति श्रुतिद्वयस्योपक्रमे सम्बद्ध्यते। उक्तमेवार्थं मुक्तस्य विषयभोगसद्भावम्। अत एव मात्राभिरसंसर्ग इति व्याख्यानमसदेवेति।
॥ “द्वैतमिव” इत्यत्रत्यस्य इवशब्दस्यार्थकथनम्॥
स्यादेतत्। “यत्र हि द्वैतमिव भवति” इति इवशब्देन द्वैताभावः प्रतिपाद्यते, तत् कथं द्वैताभावेऽनिष्टप्रसङ्गाभिधानमेतदित्यत आह अस्वातन्त्र्यादिति।
अस्वातन्त्र्यादिवेत्युक्तं न द्वैताभावतः क्वचित्।
आत्मैवाभूदिति ह्यस्मादविशेषप्रसङ्गतः॥८६॥
द्वैतस्यास्वातन्त्र्यमभिप्रेत्य द्वैतमिवेत्युक्तम्। नतु द्वैताभावमभिप्रेत्य। कुतः? क्वचिदभिधानादाविवशब्दस्याभाववाचितानुक्तेरित्यर्थः। अस्वातन्त्रं चात्र स्वरूपमात्रमुक्तम्।
इवशब्दस्याभावार्थत्वे बाधकं चाऽह आत्मैवेति। इवशब्दस्याभावार्थत्वे “द्वैतमिव भवति” इत्यस्य द्वैतं नास्तीत्यर्थः स्यात्। “यत्र त्वस्य सर्वमात्मैवाभूत्” इत्यस्य तावद् द्वैताभावोऽर्थः स्फुट एव। ततस्तस्मादस्य विशेषो न भवेत्। तथाच द्वैताभावे इतर इतरं पश्येत्, द्वैताभावे केन कं पश्येदिति वाक्यद्वयार्थः प्रसज्येत। ततश्च उन्मत्तवाक्यता श्रुतेरापद्यत इति।
॥ इवशब्दस्य अस्वातन्त्र्यार्थत्वे प्रमाणम्॥
नन्विवशब्दस्यास्वातन्त्र्यवाचित्वं कुत इत्यत आह अस्वातन्त्र्येति।
अस्वातन्त्र्योपमाभेदभेदेष्विव उदीरितः।
शब्दतत्व इति प्रोक्तं मैत्रेय्युक्तोत्तरं च किम्॥।८७॥
अभेदभेदेति प्रतियोगिद्वयोपलक्षणम्। इवान्त एकस्मिन्नुक्ते तत्प्रतियोगी द्वितीयोऽपि लभ्यत इत्यर्थः। नन्वस्माकमुपमायामेवेवशब्दः। द्वैताभावस्त्वर्थसिद्धः। यथा गौरिव गवय इत्युक्ते गवयस्य गोत्वाभावोऽवगम्यत इति चेत्, तर्हि द्वैतसदृशं किं तदिति वाच्यम्। कल्पितं द्वैतमिति चेत्, न। तस्य सत्ताभावेन भवतीत्यनुपपत्तेः। भवनमपि तस्य काल्पनिकमिति चेत्। एवन्तर्हि यदि द्वैतदर्शनं स्यादिति स्यात्। तथाच “इतर इतरं पश्यति” इत्येतदपि तदेवेति न हेतुहेतुमाद्भावोऽवकल्पत इति।
॥ श्रुतेरन्यथाव्याख्याने बाधकोक्तिः॥
“न प्रेत्य सञ्ज्ञाऽस्ति” इति वाक्यस्य मुक्तो न जानातीत्येवार्थमङ्गीकृत्याविनाशीत्यादिवाक्यान्यन्यथा व्याकुर्वतो बाधकमाह मैत्रेयीति। “न प्रेत्य सञ्ज्ञाऽस्ति” इति वाक्यं श्रुत्वा मैत्रेय्योक्तम् “अत्रैव मा भवान्” इत्यादि। तत् तावन्नाहृदयं निर्दलाक्षेपकरणेऽसुज्ञत्वप्रसङ्गात्। ततः “प्रज्ञानघनः” इत्यात्मनो ज्ञानस्वरूपत्वमभिधायेदानीं ज्ञानाभावं वदतस्तव वाक्यं मोहकमित्यभिप्रायः कल्प्यः, अपुरुषार्थत्वप्रसङ्गो वा। यथोक्तम्
“सञ्ज्ञानाशो यदि भवेत् किं मुक्त्या नः प्रयोजनम्।
मोहं मां प्रापयामास भवानत्रेति चोदितः” इति।
अन्यथाव्याख्याने मैत्रेय्युक्तं निरुत्तरं प्रसज्येत। नह्येतैर्वाक्यैः स्ववचनव्याघातः परिहृतो नापि पुरुषार्थता समर्थितेति।
॥ मोक्षस्य सुखादिरहितत्वेऽपुरुषार्थत्वप्रसङ्गः॥
एवं साङ्ख्यनैयायिकाद्यभिमतस्य मोक्षस्याप्रामाणिकत्वमभिधाय, यदुक्तम्, मोक्षस्यापुरुषार्थत्वप्रसङ्ग इति तत् प्रपञ्चयति सुखादीति।
सुखादिधर्महानौ तु मुक्तेः किं च प्रयोजनम्।
यद्यर्थो दुःखहानिः स्यादनर्थः सुखनाशनम्॥८८॥
सुखादिधर्महानौ मुक्तित्वेनाङ्गीकृतायामिति शेषः। तुशब्दः स्वपक्षाद् विशिनष्टि। परस्याऽपाद्यमानो दोषः स्वमते नास्तीत्याशयः। मुक्तेरिति सम्बन्धमात्रे षष्ठी। किमाक्षेपे। चशब्दोऽप्रामाणिकत्वेन समुच्चयार्थः। प्रयुज्यते प्रवर्त्यते पुरुषोऽनेनेति प्रयोजनम्। मुक्तेः प्रयोजनं किमिति। मुक्त्यर्थे पुरुषं प्रवर्तयत् किमपि नास्तीत्यर्थः।
द्विविधं प्रयोजनम् इष्टावाप्तिः, अनिष्टनिवृत्तिश्च। तत्र यद्यपि मुक्तिरिष्टप्राप्तिरूपा न भवति, तथाऽप्यनिष्टनिवृत्तिरूपा भवत्येव। अतः पुरुषेणार्थ्यत इत्याशङ्कते यदीति। दुःखहानिरूपा मुक्तिः पुरुषस्यार्थोऽर्थनीयः स्यादिति यदि ब्रूषे। अत्रोच्यते भवत्यनिष्टनिवृत्तिः पुरुषार्थः। मुक्तिश्च समस्तदुःखहानिः, तथाऽपि न पुरुषार्थः कथमित्यत आह अनर्थ इति। सुखनाशरूपोऽनर्थोऽप्यस्ति यतः।
इदमुक्तं भवति केवलस्य दुःखस्याऽत्यन्तिकी निवृत्तिर्भवति पुरुषार्थः, इयं तु दुःखवत् सुखस्याप्यात्यन्तिकी निवृत्तिरिति कथं पुरुषार्थः? अनिष्टनिवृत्त्याशया प्रवृत्तौ इष्टनिवृत्तिभिया निवृत्त्यापत्तेः। दुःखशबलसुखहानौ सुखशबलदुःखोपादानप्राप्तेश्च।
यदत्रोक्तम्
“यस्य दुःखमुपादेयं तस्य हेयं किमुच्यताम्।
हेयहीनस्य का मुक्तिः केन चाप्युपदिश्यते” इति।
तदिदमसङ्गतम्। नहि वयं दुःखस्योपादेयत्वमुपपादयामः। किन्तु समव्ययफलत्वेन विनिगमने कारणाभावान्न प्रवृत्त्युपपत्तिरिति ब्रूमः। यथोक्तम्
“असत्यानि दुरन्तानि समव्ययफलानि च।
अशक्यानि च वस्तूनि नाऽरभेत विचक्षणः” इति।
अङ्गीकृत्यैव समव्ययफलत्वमुक्तम्। वस्तुतस्तु आयादपि व्ययो गरीयानित्याह तयोश्चेति।
तयोश्च दुःखहानाद्धि सुखनाशोऽधिको भवेत्।
प्राप्यापि दुःखं सुमहत् सुखलेशाप्तये जनः।
यतते सुखहानौ हि को मोक्षाय यतेत् पुमान्॥८९॥
सुखदुःखहानयोर्मध्ये। नहि राजादयो राज्याद्यपगमे दुःखहानेन सुखहानव्यथां समादधति। ततो निवृत्तिरेव मुक्तेरिति भावः। यत्र निवर्तमानं दुःखमल्पीयः, सुखं तु महत्, तत्रैवमेतत्। इह तु महद् दुःखं निवर्तते, सुखं त्वल्पीयः। तत् कथं न पुरुषार्थत्वम्? यथोक्तम् “यस्तु घनतरदुःखतिमिरनिरन्तरात् संसारकान्तारात् सुखखद्योतिकासु द्योतमानास्वपि बिभेति, तं प्रत्ययं निरस्ततस्करतया सुगमो मार्ग उपदर्शितः” इति। तत्राऽह प्राप्यापीति। यतो जाङ्घिकादिर्जनः सुमहद् दुःखं प्राप्यापि सुखलेशाप्तये यतते, तस्मादल्पस्यापि सुखस्य हानौ महतोऽपि दुःखस्य मोक्षाय कः पुमान् यतेत? न कोऽपि।
अभ्युपगमवादश्चायम्। नहि सांसारिकमुखस्य दुःखापेक्षयाऽल्पत्वं प्रमितम्। कस्मिंश्चन जन्मन्ययं दरिद्रो भवति. कस्मिंश्चित् सार्वभौमः, कदाचिन्नरकमनुभवति, कदाचित् स्वर्गम्। या च मोक्षशास्त्रेषु सांसारिकसुखनिन्दा, सा निरस्तसमस्तदुःखं मोक्षगतं परमानन्दमपेक्ष्याल्पत्वाभिप्रायेणेति।
॥ अल्पसुखार्थमपि महादुःखस्यानुभूयमानत्वम॥
महादुःखहानादल्पं सुखं गरीय इत्येतत् प्रकारान्तरेणोपपादयति अल्पाच्चेति।
अल्पाच्च सुखनाशाद्धि बिभेत्यतितरां जनः।
महच्च दुःखमाप्नोति सुखनाशनिवृत्तये॥९०॥
हानस्याल्पत्वं प्रतियोग्यल्पत्वनिमित्तम्। हानस्यापि सुखस्य नाशादिति यावत्। सुखनाशनिवृत्तय इति। प्रसक्तस्य सुखनाशहेतोर्निवृत्तय इत्यर्थः। उदाहरणानि तु लोके स्पष्टान्येव। कथंन्तर्हि मधुविषसम्पृक्तान्नपरित्याग इति चेत्। बहुतरसुखहानिप्राप्तेरिति ब्रूमः। अन्यथा परेणापि व्यवस्थायाः कर्तव्यत्वात्।
स्यादेतत्। द्विविधाः पुरुषाः रागिणो वीतरागाश्च। तत्र रागिणः सुखार्थं दुःखमप्यनुभवन्ति। ते हि मधुविषसम्पृक्तमप्यन्नं मधुतयाऽऽपातरमणीयं विषविषङ्गात्तु मारयतु, मा वा मीमरत्, उपयुंक्ष्महे तावदापातसुखम्, को हि हस्तगतं पादगतं करोतीति विचिन्त्योपभुञ्जते। वीतरागास्त्वापत्तिमालोचयन्तः स्वर्गमपि कुपितभोगिफणामण्डलच्छायाप्रतिम इत्यपजहतीत्यत आह नचेति।
नच रागनिमित्तं तद्वीतरागा अपि स्फुटम्।
नारदाद्याः सुखार्थाय सहन्ते दुःखमञ्जसा।
युद्धादिदर्शनं यस्मात् सुदुःखेनापि कुर्वते॥।९१॥
यदेन्द्रवैरोचनयोर्ब्रह्मास्त्राभ्यां सुतापिताः।
अपि नैवाजहुर्युद्धरसात् ते नारदादयः।
इति स्कान्दवचस्तस्मात् सुखाभावाय को यतेत्॥९२॥
यदेतदुक्तम् “प्राप्यापीत्यादि तद् रागनिमित्तम्, मुमुक्षवस्तु वीतरागास्तस्मात् सुखमनादृत्य दुःखध्वंसायैव यतन्ते’ इति तच्च नेत्यर्थः। कुत इत्यत आह वीतेति। स्फुटमिति नारदादीनां वीतरागत्वं श्रुत्यादिप्रसिद्धमित्यर्थः। अञ्जसेति श्रवणादल्पाय सुखरूपार्थायेति योज्यम्। यस्मादिति वक्ष्यमाणमिहापि सम्बद्ध्यते।
एतत् कुत इत्यत आह युद्धादीति। सुखार्थायेति वर्तते। नारदाद्या इति च। आदिपदेन दूरगमनादिसाध्यं स्वयंवरदर्शनं च गृह्यते। एतदपि कुत इत्यत आह यदेति। नैवाजहुः युद्धदर्शनम्। युद्धरसाद् युद्धदर्शनानिमित्तात् सुखात् कारणात्। यदाशब्दस्य पूर्वत्रोत्तरत्र वा सम्बन्धः। यस्मादिति अत्रापि सम्बद्ध्यते।
इदमत्राऽकूतम् अत्र रागशब्देन किं सुखेच्छाऽभिप्रेता, उत लक्षणयाऽविवेकः? आद्ये सत्यमेतत्। किन्तु मुमुक्षवोऽपि रागिण एव। रागिणां कथं मुक्तिरिति चेत्, द्वेषिणामपि कथम्? दुःखद्वेषाद्धि ते दुःखं जहति। अस्थाने द्वेषो बन्धक इति चेत्। रागोऽपि तथेति समानम्। किञ्च दुःखोच्छेदे रागः परेणापि स्वीकार्यः। न दुःखद्वेषोऽसौ किन्तु निर्वेद एवेति चेत्। तर्हि न सुखरागोऽसौ अपितु श्रद्धैवेति वदामः। द्वितीये तु नारदादयो निदर्शनम्। तेऽपि तदाऽविवेकिन इति चेत्, कथमेतद् विज्ञातं लौकिकवैदिकोत्तरप्रज्ञेनेति। नच रागेत्यादिनोक्तमुपसंहरति तस्मादिति। वीतरागोऽपीति शेषः।
॥ मुक्तस्य सुखानुभ्यपगमे दुःखाभ्युपगमप्रसङ्गः॥
एवं परनिरूपिते मोक्षे दुःखाभावमभ्युपेत्य तत्र प्रवृत्त्यभावप्रसङ्गोऽभिहितः। इदानीं तु दुःखाभावोऽपि नोपपद्यत इत्याह विमत इति।
विमतो दुःखयुग् यस्माच्चेतनः सन् सुखोज्झितः।
प्रतिपन्नो यथेत्येव चानुमा केन वार्यते॥९३॥
मुक्तत्वेन पराभ्युपगतोऽत्र पक्षः। दुःखयुगित्यापाद्यम्। यस्माच्चेतनः सन् सुखोज्झित इत्यापादकम्। घटादौ व्यभिचारनिरासाय चेतनः सन्नित्युक्तम्। अत्र चेतन इत्यात्मत्वोपलक्षणमिति नाऽपादकासिद्धिः। स्वर्गवासिष्वनैकान्त्यपरिहाराय सुखोज्झित इति। ईश्वरस्यापि सुखसाधनान्न तत्र व्यभिचारः। प्रतिपन्नो नारकी यथा। एवशब्दः प्रतिज्ञया सम्बद्ध्यते। नचेयं साधनानुमा येन बाधादिकस्य अवसरः, किन्तु प्रसङ्गानुमैव। तदिदमाह इत्यनुमा केन वार्यत इति। यदि मुक्तः सुखी न स्यात्, तदाऽनात्मा वा दुःखी वा स्यात्; सम्मतवदित्यादयोऽपि अतिप्रसङ्गा द्रष्टव्याः।
॥ मुक्तानां सुखाद्युपेतत्वे प्रमाणोपन्यासः॥
यदुक्तं प्राक् “श्रुतयो यतः” इति, (१३३०) तदिदानीं प्रपञ्चयति सर्वेति।
सर्वश्रुतिपुराणेषु सुखभावोक्तितस्तथा।
मुक्तौ न ग्राह्यमेवैतत् सुखाभावमतं बुधैः॥९४॥
सोऽनानन्दाद् विमुक्तः सन्नानन्दी भवति स्फुटम्।
निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः।
परमानन्दमाप्नोति यत्र कामोऽवसीयते॥९५॥
न विष्णुसदृशं दैवं न मोक्षसदृशं सुखम्।
न वेदसदृशं वाक्यं न वर्णोङ्कारसम्मितः॥९६॥
यत्राऽनन्दाश्च मोदाश्च मुदः प्रमुद आसते।
कामस्य यत्राऽप्ताः कामास्तत्र माममृतं कृधि॥९७॥
इति श्रुतिपुराणानि तत्रतत्र वदन्ति हि।
अतो मोक्षे सुखाभाव इति यत्किञ्चिदेव हि॥९८॥
तथाशब्दः समुच्चये। तानि श्रुत्यादीन्युदाहरति स इति। अनेन “सोऽनानन्दाद् विमुक्त आनन्दी भवति” इति श्रुतिमुपादत्ते। आनन्दस्य स्वभावसिद्धत्वाद् भवतीति कथमित्यतः स्फुटमित्युक्तम्। अनानन्दात् दुःखात्। निर्गुण इति भागवते भगवद्वाक्यम्। यत्र परमानन्दे प्राप्ते कामः स्पृहाऽवसीयते। अवसानं गच्छति। न विष्णुसदृशमित्येतदपि पुराणवाक्यम्। यत्र लोके। आनन्दादिशब्दाः सुखविशेषाणां वाचकाः। कामस्य कामाः इच्छाया विषयाः। आप्ताः पर्याप्ताः। कृधि कुर्विति वायुं प्रति प्रार्थनम्। “श्रुशृणुपृकृवृभ्यश्छन्दसि”। श्रुत्योर्मध्ये पुराणपठनं तस्य श्रुतिकल्पत्वप्रदर्शनार्थम्।
उदाहृतानां श्रुत्यादीनां फलमुपसंहरति इति इति श्रुतीति। तत्रतत्र प्रदेशे वदन्ति मुक्तस्य सुखम्। आद्यो हिशब्दो यस्मादित्यर्थे। द्वितीयः प्रसिद्धौ। यत्किञ्चिदेव फल्ग्वित्यर्थः।
॥ मुक्तानां सुखाभावसाधकस्य देहराहित्यहेतोरसिद्धत्वव्युत्पादनम॥
यच्च साङ्ख्यादिभिरुक्तं सुखाभावोपपादनाय शरीराहिराहित्यं मुक्तस्य, तत् स्वरूपसुखस्योक्तत्वाद् वैयर्थ्येनापास्तम्। असिद्धं च तदित्याशयेनाऽह शिर इति।
शिरःकराद्यभावश्च न मुक्तस्य भवेत् क्वचित्।
श्रुतयश्च पुराणानि मानमत्र बहूनि च॥९९॥
न केवलं सुखाद्यभाव इति चशब्दः। जीवन्मुक्तौ शिरःकरादिभावः, न परममुक्तावित्यतः क्वचिदित्युक्तम्। कुत इत्यत आह श्रुतयश्चेति। शिरःकराद्यभावो नेत्युपस्थापितं शिरआदिभावं अत्रेति परामृशति। अन्त्यश्र्चो यस्मादित्यर्थे। सन्तीति शेषः। अशरीरत्वादेर्गतिश्र्चोक्तेति च चार्थः।
॥ मुक्तानां देहवत्त्वप्रतिपादकागमोदाहरणम्॥
तत्र तावत् स्फुटार्थत्वात् पुराणमादावुदाहरति न वर्तत इति।
न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं नच कालविक्रमः।
न यत्र माया किमुतापरे हरेरनुव्र्ता यत्र सुरासुरार्चिताः॥१००॥
श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः।
सर्वे चतुर्बार्हव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः॥१०१॥
प्रवालवैदूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम्।
भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानाविलभिर्महात्मनाम्॥१०२॥
विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्राविलभिर्यथा नभः।
श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः॥१०३॥
ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु।
ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्वः॥१०४॥
कामान्नरूपी चरतीतिपूर्वश्रुत्या पुराणोक्तिभिरप्यदोषः।
देहः स्वरूपात्मक एव तेषां मुक्तिं गतानामपि चेयते हि॥१०५॥
यत्र लोके। सत्त्वशब्दोऽनेकार्थः, क्वचित् प्रकृतिपरिणामविशेषस्य वाचकः, क्वचित् साधुत्वस्य। तत्र सत्त्वं च न विद्यत इत्युक्ते न ज्ञायते कस्य प्रतिषेध इति। अतस्तयो रजस्तमसोर्मिश्रं सहचरितमित्युक्तम्। रजआदिप्रकरणाज्ज्ञास्यत इति चेत्। श्रुत्यभावे प्रकरणाद्यन्वेषणात्। रजःप्रभृतीनामवृत्तिर्नाम बन्धकतया व्यापाराभावः। कालविक्रमः कालसामर्थ्यकृतो भावविकारः। माया प्रकृतिः। अपरे महदादयो न वर्तन्त इति किमुत वक्तव्यम्। हरेरनुव्र्ता यत्र वर्तन्ते। असुराः साधवः सन्ति।
अवदाता निर्मलाः। सुपेशसः सुरूपाः। उन्मिषन्मणिप्रवेकनिष्काभरणाः रश्मिमद्रत्नप्रवरहाराभरणाः। रुक् प्रभा। वर्चो बलम्। हरेरनुव्र्ता इत्यनेन सम्बन्धः।
यो लोक एवंविधानां महात्मानां लसद्विमानाविलभिः परितो विराजते। केचित् प्रवालवर्चस इत्यादि। परिस्फुरत्कुण्डलमौलयश्च ते मालिनश्चेति विग्रहः। यद्वा परिस्फुरन्त्यश्च ताः कुण्डलमौलिमालाश्चेति कर्मधारयं विधाय पश्चादिनिरुत्पाद्यः। विद्योतमानाः प्रमदोत्तमाः यासु विमानाविलषु ताः तथोक्ताः, ताभिः। यद्वा विद्योतमानाभिः प्रमदोत्तमाभिर्भ्राजिष्णुभिरिति व्यधिकरणत्वेन योजना। प्रमदोत्तमा विद्युतः। विमानावलयः अभ्रावलयः। रूपिणी प्रत्यक्षा। मानं पूजाम्। बहुधा स्थिताभिः विभूतिभिः स्वमूर्तिभिः। एवम्भूतं लोकं सन्दर्शयामासेति पूर्वेणान्वयः।
(८७०) कामान्नरूपी चरतीत्यनेन “कामरूप्यनुसञ्चरन्” इति श्रुतिमुपादत्ते। उदाहृतवाक्यानां फलमाह इतिपूर्वेति। इत्येषा पूर्वा यस्याः सा तथोक्ता। देहित्वे दुःखादिप्रसक्त्या मुक्तत्वव्याघात इत्यत उक्तम् अदोष इति। दोषाहेतुः कथमित्यत उक्तम् स्वरूपात्मक एवेति। जीवस्वरूपमेव आत्मा स्वरूपं यस्यासौ तथोक्तः। किं जीवन्मुक्तानामित्यत उक्तम् तेषामपि च मुक्तिं गतानामिति। पुराणवाक्ये हि श्यामावदाता इत्यादिना देहः प्रतीयते। न वर्तत इत्यत्र च प्रकृत्याद्यभावोक्त्या परममुक्तित्वम्, देहस्य च स्वरूपत्वं तत एवादोषत्वम्। श्रुतावृगुच्चारणादिना देहित्वम्।
॥ मुक्तानां देहवत्त्वसाधकमनुमानोपन्यासः॥
अत्र अनुमानमप्याह शिर इति।
शिरःकारद्यैरपि मुक्तिभाजो युक्ता यतस्ते पुरुषा इदानीम्।
यथेति पूर्वा अनुमाश्च जीवस्वरूपमङ्गादियुगावयन्ति॥१०६॥
यतस्ते पुरुषा इति। आत्मत्वादित्यर्थः। इदानीं यथेति। अस्मदादिवदित्यर्थः। ईश्वरादीनां पक्षतुल्यत्वान्न दोषः। पूर्वग्रहणेन मुक्तिर्देहिनिष्ठा, जीवावस्थात्वात्; संसारवदित्यस्य ग्रहणम्। जीवस्वरूपं मुक्तजीवस्वरूपम्। अङ्गं शरीरम्। आदिपदेनेन्द्रियाणि। आवयन्तीति करणे कर्तृत्वोपचारः। आपयन्तीति क्वचित् पाठः।
॥ भास्कराद्यभिमतब्रह्मैक्यत्वलक्षणमोक्षस्वरूपनिरासः॥
एवं साङ्ख्यादिमतमपाकृत्येदानीं ये प्राग् भिन्नस्य भिन्नाभिन्नस्य वा जीवस्य मुक्तौ परब्रह्मणाऽत्यन्तैक्यं भवतीति मन्यन्ते तेषां मतमपाकरोति नेति।
न ब्रह्मरूपत्वममुष्य देहिनो मुक्तावपि स्यात् प्रमया कथञ्चित्।
स ब्रह्मणा सहितोऽशेषभोगान् भुङ्क्ते तथोपेत्य सुखार्णवं तम्॥१०७॥
यत् तत् परं ज्योतिरुपेत्य जीवो निजस्वरूपत्वमवाप्य कामान्।
भुङ्क्ते स देवः पुरुषोत्तमोऽज आत्मेति चोक्तो गुणपूर्तिहेतोः॥१०८॥
सेतुः स देवोऽखिलमुक्तिभाजामुतामृतस्येष्ट इहेशिता यत्।
इत्यादिवाक्यैर्भगवद्वशः सन् भुङ्क्तेऽखिलान् मुक्तिगतोऽपि भोगान्॥१०९॥
कथञ्चित् प्रमयेति केनापि प्रमाणेनेत्यर्थः। श्रुतीनां प्रागन्यथा व्याख्यातत्वात्। यद्वा कथञ्चित् केनापि साधनेन न स्यात्। कुतः? प्रमया मुक्तावपि भेदे प्रमाणसद्भावादित्यर्थः।
तत् प्रमाणं पठति स इति। अनेन “सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता” इति श्रुतिमुपादत्ते। तथाशब्दः श्रुतिसमुच्चये। उपेत्येत्यनेन “एतमानन्दमयमात्मानमुपसङ्क्रम्य” इति। उपेत्य तथाऽशेषभोगान् भुङ्क्त इति वा। यत्तदित्यनेन “परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति जक्षन् क्रीडन् रममाणः”, “परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्य त एष आत्मा” इति श्रुतिद्वयम्। यः परं ज्योतिरुपसम्पद्यते स एवोत्तमपुरुष आत्मेति चान्यथाप्रतीतिरर्थतः श्रुती पठतैव निराकृता। पराक्रान्तं चात्र सूत्रकृतैव “अन्यार्थश्च परामर्शः” इति। गुणपूर्तिहेतोरित्यात्मशब्दव्याख्यानं पुरुषोत्तमत्वस्य चोपपादकम्। सेतुरित्यनेन “अमृतस्यैष सेतुः” इति। उतेत्यनेन “उतामृतत्वस्येशानो यदन्नेनाति रोहते” इति।
उदाहृतवाक्यफलं दर्शयति इत्यादीति। इति ज्ञायत इति शेषः। भगवद्वश इत्युपलक्षणम्। तत्समीपं प्राप्त इत्यपि ग्राह्यम्। अद्वैतिनो भोगं न मन्यन्त इत्यतः सोऽप्यत्र वर्णितः।
॥ कालस्य जीवब्रह्मभेदसम्बन्धित्वाभावसाधकानुमानम्॥
अत्रानुमानमप्याह कालोऽपीति।
कालोऽप्यसौ नैक्ययुतः परेण जीवस्य कालो यत एष यद्वत्।
इत्यादिका अप्यनुमाः प्रमाणं मुक्तौ च जीवस्य परत्वरोधे॥११०॥
असौ मोक्षसम्बन्ध्यपि, जीवस्य परेण यदैक्यं तद्युतो न भवतीत्यर्थः। कालो यतः कालत्वात्। एष यद्वत् संसारकालवत्। अनुमा अपि। मुक्तावपि जीवस्य परब्रह्मत्वनिवारणे प्रमाणमस्ति, किं तत् अनुमा इति योजना। ये प्रागत्यन्तभिन्नस्य मुक्तावैक्यं वदन्ति तेषामैक्यमिति परत्वमिति च यथाश्रुतं व्याख्येयः। तथाच न दृष्टान्तदोषः। जीवशब्दश्च निष्कृष्टव्यक्तिविषयो वर्णनीयः। अन्यथा पुनर्दृष्टान्तदोषापत्तेरिति।
॥ अनुमानान्तरेण जीवब्रह्मभेदसाधनम्॥
स्वकीयमादिपदं व्याकुर्वन्ननुमानान्तरमाह कथञ्चेति।
कथञ्च यः पूर्वमसौ न पश्चाद् भवेत् स एवेत्यपि युक्तिमेति।
यतो न दृष्टं यदभून्न पूर्वं पश्चात् तदासेति कुतश्च किञ्चित्॥१११॥
यो जीवः पूर्वं संसारेऽसौ परमात्मा न भवति, असौ पश्चान्मुक्तौ स परमात्मैव भवेदित्येतत् कथं युक्तिमेति? अनुपपन्नमित्यर्थः। अत्रापि पूर्ववन्मतभेदेन व्याख्यानं कर्तव्यम्। अत एव स एवेत्यवधारणम्। प्रयोगस्तु प्रागेव दर्शितः।(५७१) अपिशब्दोऽनुमानसमुच्चये।
अस्य व्याप्तिमुपपादयति यत इति। यतः कारणात् यत्किञ्चिद् घटादिकं वस्तु पूर्वं यद् घटादिकं नाभूत्, येन सता वस्त्वन्तरेणैकीभूतं न भवतीति यावत्। तत् पश्चात् कुतश्चित् कारणात् तदा स तेनैक्यमापन्नमित्येतन्न दृष्टम्। नच दृश्यते नापि द्रक्ष्यते। तस्मादिति पूर्वेण सम्बन्धः। एतेनादधिभूतस्य क्षीरस्य पश्चाद् दधिभावदर्शनाद् व्यभिचार इत्यसङ्गतम्।
॥ यादवप्रकाशाद्युक्तमोक्षस्वरूपनिरासः॥
एवं भास्करादिमतमपाकृत्य ये यादवप्रकाशादयः स्वभावत एव परमात्मना भिन्नाभिन्नो जीवः, तस्य संसारे भेद एव व्यक्तः, अभेदस्त्वविद्यादिनाऽऽवृतो वर्तते, मुक्तौ तु द्वावपि व्यक्तौ भवत इत्याचक्षते तेषां मतमधुना निराकरोति नचेति।
नचैव मुक्तेन हरेः पृथक्त्वमैक्यं तथा स्यादिति युक्तिमेति।
यतो न कुत्रापि भिदाभिदा च दृष्टा चितश्चेतनया कुतश्चित्॥११२॥
तथाशब्दः समुच्चये। इति च मतं युक्तिं नैवैतीति सम्बन्धः। कुतः? उदाहृतवचनानां भेदज्ञापकत्वेनास्मन्मताविरोधित्वात्। अनुमानस्य चाऽद्यस्यास्मान् प्रत्यसिद्धव्याप्तिकत्वात्, द्वितीयस्य चातद्भूतस्य तद्भावनिरासहेतोः सिद्धसाधनत्वादित्यतोऽनुमानान्तरमाह यत इति। यतः कारणाच्चितश्चेतनया चेतनस्य चेतनेन भिदाभिदा च कुत्रापि देशे कुतश्चित् प्रमाणान्न दृष्टेत्यनेन जीवेश्वरौ न भिन्नाभिन्नौ, चेतनत्वात्; देवदत्तयज्ञदत्तवत्। ईश्वरो जीवेन भिन्नाभिन्नो न भवति, चेतनत्वात्; यज्ञदत्तवदित्याद्यनुमानं सूचितम्।
॥ अन्यथामोक्षस्वरूपनिरासोपसंहारः॥
मोक्षवादार्थमुपसंहरति इत्थमिति।
इत्थं मतानि भ्रमजानियस्मान्मोक्षं समुद्देश्यमपि भ्रमेण।
विदुर्न सम्यग्यदपीह लौकिकाः सुखं मम स्याद्धि सदेति जानते॥११३॥
इत्थमुक्तप्रकारेण जैनादिमतानि भ्रमजानि। उपलक्षणमेतत्। कानिचिद् विप्रलम्भजानि इत्यपि ज्ञेयम्। तस्माद् हेयानीति शेषः।
ननु वक्तॄणां क्वचिद् भ्रमः सम्भवत्येव। को दोष इत्यत आह यस्मादिति। मतानां प्रणेतार इति शेषः। अप्राकरणिकं प्रसक्तानुप्रसक्त्यागतमर्थं कथञ्चिदन्यथा जानन्तोऽपि नातीव निन्द्या भवन्ति। एते तु प्रधानोद्देश्यमपि मोक्षं सम्य न विदुः। किन्तु भ्रमेन वैपरीत्येन विदुः। तस्मात् तत्प्रणीतानि मतानि भ्रमजानीति सम्बन्धः।
नचातिसूक्ष्मप्रमेये अज्ञानविपर्ययावेतेषां, किन्तु गोपालाविपालप्रमुखैः पामरैरपि सुविदित इत्याशयेनाऽह यदपीति। यद् यस्मादिह प्राणिषु लौकिका वैदिकबुद्धिरहिता अपि, मे सदा सुखं स्यादिति स्वोद्देश्यं जानते हि। नतु वयमेव न भूयास्मेत्यादि। अतस्तेभ्योऽप्येते मन्दा इति। तदनेन प्रबन्धेन पादप्रतिपाद्यं सङ्गतिकथनं च समर्थितम्।
॥ तृतीयाध्यायचतुर्थपादाधिकरणानां पूर्वपक्षसिद्धान्तयुक्तयः॥
इदानीमेतत्पादाधिकरणेषु पूर्वपक्षसिद्धान्तयुक्तीर्विवक्षुः प्रसङ्गात् सिंहावलोकनेन पूर्वपादद्वययुक्तिकथनपूर्वकमस्मिन् पादे चाऽह औदार्यमिति।
औदार्यमुच्चावचशक्तिरात्मस्वरूपदार्ढ्यं च निजस्वभावः।
स्वातन्त्र्यमापूर्णविशेषयोग्यता विरोधहानिश्च चतुर्थपादे॥११४॥
व्यवस्थितिस्त्वविशेषः स्थितिश्च निषेधसामान्यविधिक्रियाणाम्।
विभक्तता चात्वरयैव सिद्धिर्विपक्षसम्प्राप्तिविरोधहेतवः॥११५॥
चतुर्थपादे तृतीयाध्यायस्य। पूर्वपक्षयुक्तय इति शेषः। विपक्षसम्प्राप्तिकृतां निरोधाः। पूर्वपक्षसम्प्राप्तिं कुर्वन्तीनां युक्तीनां निवारका हेतवः। विपक्षसम्प्राप्तिविरुद्धहेतव इति क्वचित् पाठः। तत्र सम्प्राप्तिशब्दः करणसाधनः।
॥ चतुर्थाध्यायप्रथमपादाधिकरणानां पूर्वपक्षसिद्धान्तयुक्तयः॥
सुशक्यता शश्वदतिप्रसिद्धिर्विवेकविन्यासविचारसञ्ज्ञाः।
नानाप्रवृत्तिः कृतकृत्यता च विपक्षतर्काः समतीतपादे॥११६॥
महाफलत्वं प्रविविक्तता च सन्धिग्रहः साधनमाप्तकृत्यम्।
विशेषकार्यं कृतिसंस्थितिश्च सुयुक्तयो निर्णयगाः स्वपक्षे॥११७॥
॥ चतुर्थाध्यायद्वितीयपादाधिकरणानां पूर्वपक्षसिद्धान्तयुक्तयः॥
व्यामिश्रता कार्यकरत्वमर्थक्लृप्तिः सुदार्ढ्यं परतन्त्रता च।
समानधर्मः कृतशेषता च लोकोपमा पूर्वमतानुसाराः॥११८॥
विशेषसाम्यश्रुतिराढ्यता च समानलोपो महिमा विशेषः।
कृतार्थता शश्वदनुप्रवृत्तिः सिद्धान्तनिर्णीतिविशिष्टहेतवः॥११९॥
समतीतपादे निरान्तरातीतपादे। स्वपक्षे सिद्धान्तविषये। निर्णयगा निर्णयहेतवः सुयुक्तयः। पूर्वमतानुसारा युक्तयो अस्मिन् पादेऽनुस्रियन्त एताभिरित्यनुसाराः। सिद्धान्तनिर्णीतेर्विशिष्टहेतवः ।
अनेकलयाधिकरणम्॥५॥
॥ देवानां पञ्चस्वपि भूतेषु लयः॥
नैकस्मिन् दर्शयतोहि। अत्र “अग्नौ सर्वे देवा विलीयन्ते”, “भूतेषु देवा विलीयन्ते” इति श्रुतिद्वयविप्रतिपत्त्या किमग्नावेकस्मिन् सर्वे देवा विलीयन्ते, उत पञ्चस्वपि भूतेष्विति संशयेऽग्नावेकस्मिन्नेव सर्वेषां देवानां लयः। अग्न्श्रिुतेर्निरवकाशत्वात्, भूतश्रुतेस्तु सावकाशत्वात्। एकस्मिन्नग्नौ सर्वेषां च लयेऽग्नेश्च वायौ वायोराकाशे सति भूतेष्विति बहुवचनोपपत्तेरिति प्राप्ते सिद्धान्तितम्
ॐ नैकस्मिन् दर्शयतोहि ॐ॥६॥
नैकस्मिन्नग्नौ सर्वेषां देवानां लयः। किन्तु पञ्चस्वपि भूतेषु। कुतः? “पृथिव्यामृभवो विलीयन्ते वरुणेऽश्विनावग्नावग्न्यो वायाविन्द्रः सोम आदित्यो बृहस्पतिरित्याकाश एव साध्या विलीयन्ते” “ऋभवः पृथिव्यां वरुण आपोऽग्न्यस्तेजसि मरुतो मारुत आकाशे विनायका विलीयन्ते” इति श्रुती यथायोगं पञ्चस्वपि भूतेषु देवानां लयं दर्शयतो हीति।
॥ भूतप्रकरणस्थवायुशब्दस्य मुख्यवायुपरत्वसमर्थनम्॥
अत्र वायाविन्द्र इति वायुशब्दो भूतवायोरप्रधानस्य वाचको विवक्षित इति प्रतीयते। पृथिव्यादिसङ्कीर्तनेन भूतप्रकरणात्। सूत्रकृता च सर्वेषु भूतेषु देवानां लय इत्यत्रार्थे गृहीतेयं श्रुतिः। “भूतेषु तच्छ्रुतेः” इत्युपक्रमात्। ततोऽप्यप्रधानो वायुरिति प्रतीतिनिवारणायाऽह प्रधानेति।
प्रधानवायुस्त्विह वायुनामा भूतेष्विति प्रोक्तगतोऽपि युक्त्या।
यस्माच्छ्रुतौ पवते चेति भूरि प्रोक्तो यतो भूतमानी च सोऽपि।
महामानी त्वल्पमानी च यस्मात् तच्छब्देनाप्युच्यते तेन सोऽपि॥१२०॥
तुशब्दोऽवधारणे। इह श्रुतौ भूतेष्विति प्रोक्तगतोऽपीति शङ्काबीजानुवादः। भूतेषु लयं वक्ष्यामीत्याशयेन श्रुत्या प्रोक्तं यत् पृथिव्यादिकं तद्गतोऽपीति। यद्वा भूतेषु देवानां लय इत्यत्रार्थे प्रोक्तं सूत्रकृता गृहीतं श्रुतिवाक्यं तद्गतोऽपीति। कुतः? युक्त्या उत्तमानामिन्द्रादीनामधमे भूतवायौ लयानुपपत्तेरित्यर्थः।
प्रधानवायावपि कथमिन्द्रादीनां लयोपपत्तिरित्यत आह यस्मादिति। यस्मात् कारणात् “सा वा एषा देवताऽनादिर्योऽयं पवते” इति श्रुतौ चशब्दादन्यास्वपि श्रुतिषु प्रधानवायुः भूरि भूरित्वेन सकलजीवोत्तमत्वेन प्रोक्तः, तस्मात् तस्मिन्निन्द्रादीनां प्रलयोपपत्तेः, प्रधानवायुस्त्विह वायुनामेति सम्बन्धः।
यद्वा “एष वै ब्रह्म योऽयं पवते तमेताः पञ्च देवताः परिम्र्यिन्ते विद्युद् वृष्टिश्चन्द्रमा आदित्योऽग्निः” इति श्रुतिरत्र विवक्षिता। तत्र भूरि स्पष्टं सूर्यादीनां संहर्ता प्रोक्त इति।
एवन्तर्हि भूतप्रकरणबाधः स्यादित्यत आह यत इति। न केवलमप्रधानवायुः किन्तु स प्रधानवायुरपि भूतमानित्वाद् भूतनामा चेति चार्थः। अतः प्रकरणविरोधाभावात् प्रधानवायुरेवेह वायुनामेति। उक्तमेव प्रपञ्चयति महामानीति। महांश्चासौ मानी चेति महामानी सर्वाभिमानीति यावत्। यथा समस्तराष्ट्राधिपती राजा तदन्तर्गतस्य ग्रामस्यधिपतिर्भवति, एवं सर्वाभिमानी प्रधानवायुरल्पस्य वायोर्भूतस्याभिमानी भवेदेव। तच्छब्देन भूतशब्देन। न केवलं वायुशब्देनेत्यपेरर्थः॥*॥ इत्यनेकलयाधिकरणम्॥५॥
अथ परलयाधिकरणम्॥७॥
॥ देवानां चतुर्मुखद्वारा विष्णौ लयः॥
“तानि परे तथा ह्याह” इति सूत्रम्।
ॐ तानि परे तथा ह्याह ॐ॥१५॥
अस्यार्थः तानि भूताभिमानिप्रभृतीनि दैवानि परे परमात्मनि लीयन्ते तथाह्याह श्रुतिरिति।
॥ सर्वेषां देवानां इन्द्रकामयोः, तयोः वारुणीसुपर्णीद्वारा शेषगरुडयोः,
तर्योर्वाणीद्वारा विरिञ्चे लयः, ततो विष्णौ लयः ॥
अत्र सर्वेषां देवानां परमात्मनि साक्षाल्लयः प्रतीयते। तत्परिहाराय भाष्यं “प्राणद्वारेण” इति। तत्रापि प्राणे सर्वेषां साक्षाल्लयः प्रतीयते। अतो विस्पष्टं व्याचष्टे तस्मिन्निति।
तस्मिन् लयं यान्ति भूतान्यशेषक्रमाविरोधेन स एव विष्णौ।
इन्द्रादीनां तत्र लयः क्रमं तु प्रोक्तं विशेषादनुसृत्य नान्यत्॥१२१॥
अशेषक्रमाविरोधेन श्रुत्याद्युक्तं सर्वं क्रममनुसृत्य। भूतानि भूतादीनि दैवानि तस्मिन् प्रधानवायौ लयं यान्ति। स एव विष्णौ लयं याति। यश्च “वायाविन्द्रः” इति श्रुताविन्द्रादीनां प्रधानवायौ लयोऽभिहितः सोऽपि न साक्षादित्याह इन्द्रादीनामिति। तत्र प्रधानवायौ। विशेषादिति तृतीयार्थे पञ्चमी। विशेषवाक्येन प्रोक्तमनुसृत्य व्याख्यातव्यः। नत्वन्यद् व्याख्यानम् साक्षात् तत्र लय इति। विशेषवाक्यविरोधादिति भावः।
तमेव क्रमं सङ्क्षेपेण तावदाह तस्मादिति।
तस्मादशेषा गिरिजां प्रविश्य तयैव रुद्रं सह तेन वाणीम्।
तया पतिं प्राप्य सहैव तेन लयं हरौ यान्ति समस्तजीवाः॥१२२॥
विशेषप्रमाणस्य सर्वथाऽनुसर्तव्यत्वादिति भावः। अत्र गिरिजाशब्दो वारुणीसौपर्णीपरो व्याख्येयः। तथा रुद्रशब्दः शेषगरुडपरः। तथाच वक्ष्यति। (१३५३) तया गिरिजया सहैव रुद्रं प्राप्य। पतिं वाण्याः। समस्तजीवा इत्यस्यैव विवरणम् अशेषा इति। यद्वा रुद्रं प्रविशन्तीत्यध्याहारेण व्याख्येयम्। अस्यैव विवरणमुत्तरवाक्यजातम्।
॥ चन्द्रवरुणयोरनिरुद्धे, तस्य कामे, तस्य वारुण्याम्, तस्याः शेषे,
तस्य वाण्याम्, तस्याः विरिञ्चे इति शेषमार्गप्रदर्शनम्॥
  तत्र “वायाविन्द्रः” इति श्रुतावुक्तानामिन्द्रादीनां चतुर्णां पृथिव्यादीनां भूतानां च क्रमेणैव वायौ प्रवेश इति यदुक्तम्, तत् तावत् प्रपञ्च्यते। इह द्वौ मार्गौ शेषमार्गो गरुडमार्गश्च। तत्र शेषमार्गमादावाह सोमस्त्विति।
सोमस्तु वारीशयुतोऽनिरुद्धं विशत्यसौ काममसौ तु वारुणीम्।
सा शेषदेवं स गिरं च सैव वायुं विशत्यञ्ज इतीह निर्णयः॥१२३॥
वारीशयुत इत्यनेनाब्देवताया वरुणस्य सोमे लय इत्युच्यते। इहेन्द्रादिचतुष्टये सोमस्य भूतेष्वपां च वायुप्रवेशे निर्णयः।
॥ मुक्तिप्रकरणे उमारुद्रशब्दयोः वारुणीशेषपरत्वम्,
भारतीप्राणशब्दयोः वाणीविरिञ्चपरत्वम् ॥
प्राग् गिरिजां रुद्रमित्युक्तम्। इदानीं च गिरं वायुमिति। एते चत्वारः शब्दाः प्रसिद्धपदार्थका इति प्रतीतिं वारयितुमाह उमेति।
उमागिरीशावपि भारतीराविति स्म वाग् वेदगता ब्रवीति।
अहीन्द्रपत्नीमहिपं विरिञ्चपत्नीं विरिञ्चं च विमुक्तिकाले॥१२४॥
उमागिरीशाविति भारतीरावित्यपि। ईरः समीरः। वागित्येतत् पर्यायसमुदायो गृह्यते। प्रतीतार्थत्वे किं बाधकमित्यत उक्तम् विमुक्तिकाल इति। विमुक्तिप्रतिपादनावसरे। एतेनोमादीनां चतुर्णामिह जन्मनि मुक्त्यभावादिति बाधकं सूचितं भवति। वेदवाक्यानुसारिणो वयमपि तथैव प्रयुक्तवन्तः स्म इति भावः।
॥ उमादिपदानां वारुण्यादिवाचकत्वे निमित्तोक्तिः, लाक्षणिकशब्दप्रयोगे प्रयोजनोक्तिश्च॥
उमादिशब्दानां वारुण्यादिवृत्तौ किं निमित्तमित्यत आह त एवेति।
त एव यत् तत्पदमाप्नुवन्तितत्काल एतान् समुपास्य जीवाः।
ब्रह्मत्वकाले प्रविशन्ति चैतानिति स्म वाक् तादृशतामुपैति॥१२५॥
यद् यस्मात् त उमाद्या एव तत्पदं वारुण्यादिपदमुत्तरकल्पे प्राप्नुवन्ति तस्मादिति पूर्वेण सम्बन्धः। अनेनोमात्वादीनां वारुणीत्वादीनां चैकद्रव्यसम्बन्धो लक्षणाबीजमित्युक्तं भवति।
प्रसिद्धपदत्यागेनाप्रसिद्धपदप्रयोगे किं प्रयोजनमित्यत आह तत्काल इति। तत्काले उमात्वादिकाले। एतानुमादीन् देवान्। ब्रह्मत्वकाले तेषामेव वाय्वादीनां ब्रह्मत्वादेः काले। एतान् वारुण्यादीन्। चो यस्मादित्यर्थे। इति तस्मात्। वाग् वेदवाणी। तादृशतां उमादिशब्दवत्ताम्।
एतदुक्तं भवति यो यस्मिन्नतिपरिचयवान् तस्याऽश्रमान्तरप्राप्त्यादिना नामान्तरे प्राप्तेऽपि तदभिज्ञास्तं प्रति तं पूर्वनाम्नैव व्यवहरन्तीति लोके सुप्रसिद्धम्। तथाऽत्रापि प्रयोग इति किं प्रयोजनान्वेषणेनेति।
॥ अग्नेः सूर्ये, तस्य बृहस्पतौ, तस्य इन्द्रे, तस्य सौपर्ण्याम्, तस्याः सुपर्णे,
तस्य वाण्याम्, तस्या विरिञ्चे लय इति गरुडमार्गः॥
इदानीं गरुडमार्गमाह सूर्य इति।
सूर्योऽग्न्यिुक्तो गुरुमाप्य तेन शक्रं सहैतेन सुपर्णपत्नीम्।
तया सुपर्णं सह तेन वाणीं ब्रह्माणमेतद्गत एव याति॥१२६॥
अग्न्यिुक्त इत्यनेनाग्नेः सूर्ये लय इत्युच्यते। अनेन “अग्निरिन्द्रे” इति श्रुतिः परम्परापेक्षेत्युक्तं भवति। एतद्गतो वाणीगत एव। एतेनेन्द्रादिष्विन्द्रादित्यबृहस्पतीनाम्, भूतेषु तेजसो वायौ लयो विवृतो भवति।
॥ इन्द्रलयोक्तिसमये उमारुद्रपदयोः सुपर्णीसुपर्णपरत्वम्॥
नन्वेतत् “इन्द्र उमायामुमा रुद्रे विलीयत” इति श्रुतिविरुद्धम्। उमारुद्रशब्दयोः स्वार्थपरित्यागेऽपि वारुणीशेषपरतया व्याख्यातत्वादित्यत आह इन्द्रेति।
इन्द्रप्रवेशस्तु यदोच्यतेऽत्र तदा ह्युमेत्येव सुपर्णपत्नी।
उक्ता सुपर्णश्च गिरीशनाम्ना ततो विरोधश्च न कश्चनात्र॥१२७॥
यदातदाशब्दावधिकरणमात्रस्य उपलक्षकौ। यत्र श्रुतौ। अत्र उमायामिन्द्रप्रवेश उच्यते। तस्याश्च उमाया रुद्रे। सुपर्णपत्न्येव। गिरीशनाम्ना गिरीशपर्यायेण। सौपर्ण्यामिन्द्रलयस्य बलवच्छ्रुतिसिद्धत्वादिति हिशब्दः। अत्र पदसादृश्यं प्रवृत्तिनिमित्तमिति भावः।
॥ भृग्वादीनां दक्षद्वारा इन्द्रे लयः, वैवस्वतादिमनूनां
प्रियव्र्तादिराज्ञां च स्वायम्भुवमनुद्वारा इन्द्रे लयः॥
अधुना “तानि परे” इत्युक्तानां हिरण्यगर्भे लयप्रकारमाह भृग्वादय इति।
भृग्वादयो दक्षमवाप्य तेन प्राप्येन्द्रमेतेन सुपर्णपत्नीम्।
विशन्ति ये मनवो राजमुख्या मनुं प्रविश्यात्र गता महेन्द्रम्॥१२८॥
सुपर्णपत्न्याः सुपर्णे लयः सिद्ध एव। इन्द्रपर्यन्तमेव वक्तव्येऽधिकवचनमुक्तदार्ढ्यार्थम्। एवमुत्तरत्रापि। ये मनवो वैवस्वताद्याः, ये च राजमुख्याः प्रियव्र्ताद्याः, ते स्वायम्भुवमनुं प्रविश्य अत्र स्वायम्भुवे मनौ गता वर्तमाना महेन्द्रं विशन्तीयुभयत्र सम्बद्ध्यते।
॥ धराविनायकयोः बृहस्पतिद्वारा इन्द्रे लयः,
सनकसनन्दनसनातनानां कामे लयः, उक्तान्यदेवानां अग्नौ लयः॥
भूतेषु पृथिव्याकाशयोर्लयप्रकारो वक्तव्यस्तमाह आकाश इति।
आकाश उर्वी च गुरुं प्रविश्य तेनैव यातः पुरुहूतदेवम्।
सनादयो यतयः काममेव विशन्ति शिष्टा अपि हव्यवाहम्॥१२९॥
वायुभूतस्य मुख्याभिमानी प्रधानवायुरित्युक्तम्। अमुख्याभिमानिनस्तु “शक्रं मरुद्गणाः” इति लयो वक्ष्यते।(१३५८) सनादय इति। सनत्कुमारव्यतिरिक्ताः। तस्य कामावतारत्वात्। कामस्य तु वारुण्यामुक्त एव लयः। शिष्टा उक्तेभ्यः। एतेन “अग्नौ सर्वे देवा विलीयन्त” इत्यस्य विषयो दर्शितः।
॥ वर्णाश्रमाचारवतां मनुष्याणां यमे प्रवेशः, पितॄणां लयः,
तस्य स्वायम्भुवे लयः, गन्धर्वादीनां कुबेरद्वारा चन्द्रे लयः॥
वर्णाश्रमाचाररता मनुष्या धर्मं मनुं सोऽपि समेति काले।
तमेव सर्वे पितरः सुरानुगाः सर्वे कुबेरं स च सोममेव॥१३०॥
अस्यापवादमाह वर्णाश्रमेति। एतत्प्रसङ्गान्मुक्तौ प्रवेशमात्रमुक्तम्, नतु देहलयः। तेषामुत्क्रमणस्य विद्यमानत्वात्। वर्णाश्रमाचाररता इत्यनेन मनुष्याणां मुक्तौ वर्णाश्रमवत्त्वमस्तीति सूचयति। धर्मस्य तु स्वायम्भुवे मनौ लय एव। काले मोक्षकाले। सर्वे पितरः तं धर्ममेव संयान्ति। सर्वे सुरानुगा गन्धर्वाद्या कुबेरम्।
॥ सायुज्यमोक्षस्वरूपम्॥
उपसंहरति विमुक्तीति।
विमुक्तिकाले प्रविशन्त्यभीक्ष्णं भोगांश्च तद्देहगताः प्रभुञ्जते।
आनन्दसुव्यक्तिरमुत्र तेषां भवत्यतश्चेष्टत एव निर्गताः।
क्रीडन्ति भूयश्च समाविशन्ति तानेवसायुज्यमिदं वदन्ति॥१३१॥
सायुज्यहीनास्तु लये तु सर्वे प्रोक्तेन मार्गेण विशन्ति सृष्टौ।
बहिश्च निर्यान्तिततोऽन्यदाऽपि सायुज्यभाजां भवति प्रवेशः॥१३२॥
एवं सर्वे यथोक्तप्रकारेण विमुक्तिकाले प्रविशन्त्युत्तमानिति शेषः। न केवलं प्रविशन्ति, किन्तर्हीत्यत आह अभीक्ष्णमिति। आविष्टग्रहवदित्यर्थः।
किमनेन प्रवेशेनेत्यत आह आनन्देति। अमुत्र उत्तमेषु प्रवेशेन। प्रविष्टानां पुनर्निर्गमोऽस्ति नवेति शङ्कायामाह अतश्चेति। अत एभ्य उत्तमेभ्यो निर्गताश्चेति सम्बन्धः। इष्टं इच्छा। नपुंसके भावे क्तः। निर्गतानां पुनः प्रवेशोऽस्ति नवेत्यत आह भूयश्चेति। नन्वेवंविधा मुक्तिः क्वापि नोपलब्धेत्यत आह सायुज्यमिति। वदन्ति पुराणादीनि। सयुजां भावो हि सायुज्यम्।
किमिदं सायुज्यं सर्वेषामस्ति? नेति ब्रूमः। तर्हि सायुज्यहीनानां कीदृशी वृत्तिरित्यत आह सायुज्येति। लये तु लय एव। विशन्त्युत्तमान्। बहिस्तेभ्यः। एतत् सायुज्यभाजामपि समानमिति नेत्याह तत इति। ततो लयकालात्।
॥ परमश्रुतिः, सृष्टिक्रमवैपरीत्यम्, बिम्बप्रतिबिम्बभावश्च उक्तलये प्रमाणम्॥
नन्वेतत् सर्वं कुतः प्रमाणात् प्रतिपत्तव्यमित्यत आह उक्तमिति।
उक्तं समस्तं परमश्रुतौ हि प्रोक्तं च सर्गक्रमतो विपर्ययः।
मुक्तौलये यद्वदथो लयश्चविपर्ययेणेत्यवदद् गिरां प्रभुः॥१३३॥
लयो यतो मुक्तिरियं सुराणांभोगो विशेषेण चयं वदिष्यति।
उक्तश्च बिम्बप्रतिबिम्बभावः पैङ्गिश्रुतावुक्तलयानुसारतः।
बिम्बे लयो यन्नियतश्च मुक्तौ चिदात्मनां तद्वशता च सर्वदा॥१३४॥
अस्यास्मिन् लय इत्युक्तं समस्तम्। परमश्रुतिश्च विस्तरभयान्न पठिता। चशब्द उत्तरवाक्येन सम्बद्ध्यते। प्रमाणान्तरमाह सर्गेति। मुक्तौ सर्गक्रमतो विपर्यय इति। यो यस्माज्जातस्तस्य तस्मिन् मुक्तिरिति तावदङ्गीकरणीयमित्यर्थः। एतच्चापवादाभावे सतीति ज्ञेयम्। तथाच न्यायविवरणे।
कुत एतदित्यत आह लय इति। साधारणप्रलये सर्गक्रमाद् विपर्ययस्य सत्त्वादिति भावः। एतदपि कुत इत्यत आह अथो इति। अथोशब्दोऽर्थान्तरे। विपर्ययेण सर्गक्रममपेक्ष्य। अवदत् उपपादितवान्। गिरां वेदवाचां प्रभुः सूत्रकारः। यथा “विपर्ययेण तु क्रमोऽत उपपद्यते च” इति। लये सृष्टिक्रमतो विपर्ययश्चेन्मुक्तौ तथा भाव्यमित्यत्र किं नियामकमित्यत आह लय इति। यतः कारणात् सुराणां लय एवेयं मुक्तिः, नतु मनुष्याणामिव प्रागेव देहादुत्क्रान्तिः। तस्मादुक्तं युक्तम्। सामान्यविशेषभावान्न साध्याविशिष्टतादोषः। सर्गश्र्चोक्तानुगुण एव श्रुत्यादिसिद्ध इति भावः।
ननु प्राङ्मुक्तानां भोगादिकं समर्थितम्। इदानीं तूच्यते लय एव मुक्तिरिति। तत् कथं पूर्वापरविरोधो न भवतीत्यत आह भोग इति। विशेषेण देवपदादप्यतिशयेन। देहहानिलक्षणा मुक्तिर्लयान्न विशिष्यत इत्युक्तम्, नतु सर्वाऽपीति भावः। अत एव प्रागियमित्युक्तम्।
भोगश्च मुक्तिरिति सूत्रकारानुक्तं कस्मादुपसङ्ख्येयमित्यत आह यमिति। यं भोगं चतुर्थपादे सूत्रकारो वक्ष्यति मुुक्तित्वेन सः। प्रमाणान्तरं चाऽह उक्तश्चेति। बिम्बप्रतिबिम्बभावो देवानामुक्तलयानुसारत इति। यस्मिन् यस्यास्माभिर्लय उक्तः स बिम्बः, अपरः प्रतिबिम्ब इत्युक्तमस्तीत्यर्थः। ततः किमित्यत आह बिम्ब इति। मोक्षानन्तरमपि सर्वदा। एतदुत्तरत्रोपयोगि। (१३६६) प्रसङ्गादिह उक्तम्। यद् यस्मात्, मुक्तौ प्रतिबिम्बस्य बिम्बे लयो नियतः प्रमाणप्रसिद्धः, तानि चान्यत्र पठितानि, तस्मादुक्तं युक्तमिति।
॥ मुख्यवायोः लक्ष्म्यां लयः, पुनः सृष्टौ ब्रह्मत्वेन जनिः, ततो मुक्तिः॥
यदुक्तं सर्वेषां भूतानां प्राणे लयः, तस्य विष्णाविति तदसत्। “प्राणस्तेजसि तेजः परस्यां देवतायाम्” इति श्रुतिविरोधात्। बिम्बे प्रतिबिम्बस्य लय इति चासत्। नहि प्राणस्तेजोभूतस्य प्रतिबिम्ब इत्यत आह तेजोभिधामिति।
तेजोभिधां तु श्रियमाप्य विष्णुमग्रे ततः पुत्रतयैव वायुः।
आप्तः प्रसूतः पुनरेव विष्णुं प्रविश्य मुक्तः प्रलयेऽत्र तिष्ठति॥१३५॥
वायुः प्रलये तेजोऽभिधां श्रियमाप्य तत्र लीनो भूत्वा विष्णुमाप्तः। सृष्टिकाले जातेऽग्रे सर्वेभ्यः पूर्वं, ततो विष्णोः, पुत्रतया हिरण्यगर्भत्वेन प्रसूतः। पुनरेव प्रलये मुक्तौ विष्णुं प्रविश्य अत्र विष्णौ तिष्ठति।
इदमुक्तं भवति तेजःशब्दस्य लक्ष्मीवाचित्वान्नोक्तविरोधः। एवन्तर्हि “विलीनो हि प्रकृतौ संसारमेति” इति श्रुतेर्वायोः संसारप्रसङ्ग इति चेत्, न। इष्टत्वात्। हिरण्यगर्भत्वेन पुनर्जननाङ्गीकारात्। एवमपि ब्रह्मविदो मुक्त्यभावप्रसङ्ग इति चेत्, न। हिरण्यगर्भत्वानन्तरं मुक्तिस्वीकारादिति। इदं च प्राणशब्दस्य वायुवाचित्वपक्षमादायोक्तम्। हिरण्यगर्भवाचित्वपक्षे तु भाष्योक्तं द्रष्टव्यम्।
॥ मुक्तभोगप्रकारः॥
मुक्तानां स्वस्वोत्तमदेवताः प्रविश्यावस्थानमित्युक्तम्। नैतावदेव। किन्तु भगवत्प्रवेशोऽप्यस्ति। उक्तश्च भोगो नाऽनन्दस्य जनकः किन्तु व्यञ्जक एव। आनन्दस्तु स्वरूपभूत इत्याह सर्वेऽपीति।
सर्वेऽपि ते मुक्तगणा अमन्द्रसान्द्रं निजानन्दमशेषतोऽपि।
भुञ्जन्त एवासत ईशदेहे लयेऽथ सर्गे बहिरेव यान्ति॥१३६॥
सर्वेऽपीत्युक्ते देवानां प्रकृतत्वात् त एवेति प्रतीतिं वारयितुमशेषतोऽपीत्युक्तम्। भुञ्जन्तः अनुभवन्तः।
॥ निर्ऋतेः धर्मे लयः, विष्णुवायुमरुद्गणस्य इन्द्रे, विष्वक्सेनादीनां अनिरुद्धे च लयः॥
शिष्टा हव्यवाहमित्यस्यापवादान्तरमाह प्रयातीति।
प्रयाति धर्मं निर्ऋतिस्तु शक्रं मरुद्गणाः पारिषदास्तथैव।
सर्वेऽनिरुद्धं पृतनाधिपाद्याःतुरश्रुतिर्हीत्थमियं विमुक्तिः॥१३७॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य द्वितीयः पादः।
निर्ऋतिस्तु धर्मं प्रयाति। मरुद्गणाः शक्रं प्रयान्ति। तथाशब्दः समुच्चये। पृतनाधिपाद्या विष्वक्सेनाद्याः सर्वे भगवतः पार्षदा अनिरुद्धं प्रयान्ति। देहलयार्थमिति शेषः। अनिरुद्धस्य तु कामे लय उक्त एवेत्येवार्थः। अत्र प्रमाणमाह तुरेति। अत एवैतत् तत्रैव नोक्तम्, परमश्रुतावनुक्तत्वात्। पादार्थमुपसंहरति इयमिति। देवादीनां देहलयरूपा विमुक्तिरुक्तेति॥*॥ इति परलयाधिकरणम्॥७॥
इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते
रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना।
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ
चतुर्थेऽध्यायेऽत्रोत्क्रमणचरणः पर्यवसितः॥*॥
इति श्रीमद्ब्रह्मसूत्रानुव्याख्यानटीकायां
श्रीजयतीर्थमुनिविरचितायां श्रीमन्न्यायसुधायां
चतुर्थाध्यायस्य द्वितीयः पादः।