न्यायसुधा (जयतीर्थकृता)/चतुर्थाध्यायस्य तृतीयः पादः

विकिस्रोतः तः

ॐ तत् सत्
न्यायसुधा
॥ पादप्रतिपाद्यार्थः पूर्वपक्षसिद्धान्तयुक्तयश्च॥
“मार्गः, गम्यं चास्मिन् पाद उच्यते” इति भाष्यम्। तत् प्राक् प्रसङ्गाद् विवृतमपि (१२९७) इहावसरप्राप्तौ विशेषतो विवृणोति उत्क्रान्तेति।
अनुव्याख्यानम्
उन्क्रान्तमार्गश्च विमुक्तगम्यं पादोदितंसुक्रमविक्रमौ च।
सान्तानिकं प्राप्तिरभीष्टता च सौकर्यमित्यन्यमतस्य तर्काः॥१॥
विशेषसम्प्राप्तिरुरुत्वमाप्तिः क्रमानुरागः कथितानुवृत्तिः।
सिद्धान्तनिर्णीतिकराः................................॥२॥
ये शरीरादुत्क्रान्ता मानुषास्तेषां मार्गो भगवल्लोकगमनार्थः। गम्यमपि तेषामेवेति प्रतीतिनिरासा योक्तम् विमुक्तेति। ये कर्मणो देहाच्च विमुक्तास्तेषां सर्वेषामपि गम्यम्। इदमुभयमेतत्पादोदितम्।
अत्राधिकरणेषु पूर्वपक्षयुक्तीः सिद्धान्तयुक्तीश्चाऽह सुक्रमेति। अन्यमतस्येति जातावेकवचनम्। सिद्धान्तनिर्णीतिकरास्तर्का इति शेषः।
अथ कार्याधिकरणम्॥६॥
॥ प्रतीकालम्बनानां अप्रतीकालम्बनानां च परब्रह्मप्राप्तिप्रकारः ॥
“अप्रतीकालम्बनान् नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश्च”। विमुक्तगम्यं प्रतिपादयितुमिदं सूत्रम्। तद् भाष्ये न विस्पष्टमित्यतः स्पष्टीकरिष्यन् प्रतीकशब्दार्थर्ं तावदाह प्रतीकमिति।
ॐ अप्रतीकालम्बनान् नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश्चॐ॥१५॥
....................... प्रतीकं देहादिकं तद्गतमेव ये नराः॥।२॥
उपासते ते पुरतः समाप्नुयुर्बह्माणमस्मान् मतिमाप्य विष्णुम्।
प्राप्स्यन्त्यतोऽन्येऽपि तमाप्य तस्माद्धरिं गता मुक्तिभाजः परान्ते॥३॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य तृतीयः पादः।
आदिपदेन मनःप्रभृतीनां भगवत्प्रतिमानां ग्रहणम्। यद्यपि सूत्रेऽप्रतीकालम्बनानां गम्यमुक्तम्, प्रतीकालम्बनानां तु परिशेषसिद्धम्। तथाऽप्यस्पष्टस्पष्टीकरणार्थं प्रवृत्तत्वादभावस्य भावपूर्वकत्वाच्च परिशेषसिद्धमेवार्थमादावाह तद्गतमिति। प्रतीकगतमेव विष्णुम्। ते प्रतीकालम्बनाः। पुरतः प्राक् प्रलयकालात्। अस्माद् ब्रह्मणः। मतिं भगवज्ज्ञानविशेषम्। प्राप्स्यन्ति प्रलये।
इदानीं सूत्रितामप्रतीकालम्बनानां गतिं प्रपञ्चयति अत इति। प्रतीकालम्बनेभ्योऽन्ये व्याप्तोपासका अप्रतीकालम्बनाः। प्रथमतस्तं विष्णुमाप्यापि परान्तकाले। तस्माद् विष्णोस्तं ब्रह्माणमाप्य हरिं गता भवन्तीति॥*॥ इति कार्याधिकरणम्॥६॥
इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते
रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना।
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ
चतुर्थेऽध्यायेऽस्मिन् गमनचरणः पर्यवसितः॥*॥
इति श्रीमद्ब्रह्मसूत्रानुव्याख्यानटीकायां
श्रीजयतीर्थमुनिविरचितायां श्रीमन्न्यायसुधायां
चतुर्थाध्यायस्य तृतीयः पादः।