न्यायवार्त्तिकतात्पर्यटीका/पञ्चमोध्यायः

विकिस्रोतः तः

अथ पञ्चमोऽध्यायः ।

न्या.सू._५,१.१: साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकारणाहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः ॥

अथ प्रमाणादयः पदार्था उद्दिष्टा लक्षिताश्च तत्किमपरमवशिष्यते यदर्थं पञ्चमोऽध्याय आरभ्यतैत्यत आह । साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज्जातिबहुत्वमिति भाष्यम् । तस्यार्थमाह वार्त्तिककारः । जातेः संक्षेपेणोक्ताया इत्यादि । (५२९।१) यद्यपि जातिनिग्रहस्थानभेदा जातिनिग्रहस्थानसामान्यलक्षणानन्तरं प्रथमेऽध्याये युक्ता लक्षयितुं तथाप्येषां बहुत्वात्प्रमेयपरीक्षायां विलम्भोमाभूदपेक्षिता चासौ शिष्यैः । संशयादिपरीक्षां तु विना प्रमेयपरीक्षा न शक्यते । तस्मान्मुनिः शिष्यानुरोधेन परीक्षां तावद्वर्त्तयां बभूव । तदनन्तरमवशिष्टं जातिनिग्रहस्थानविशेषलक्षणं वर्त्तयति । जल्पवितण्डापरीक्षा चानन्तरं प्रवृत्ता तदङ्गं च जातिनिग्रहस्थाने इत्यवान्तरसंङ्गतिरस्तीति सर्वमदातम् । विशेषोपयोगि सामान्यलक्षणमाह । तत्र जातिर्नामेति । प्रतिषेधबुद्ध्या प्रयुक्त इति शेषः । आह्निकारम्भमाक्षिपति । जातेः प्रयोगप्रतिषेधादिति । परिवर्जनं तु सामान्यज्ञानादिप भवन्न विशेषज्ञानमपेक्षत इति भावः । समाधत्ते नारम्भप्रयोजनस्योक्तत्वात् । एतदेव स्मारयति स्वयं च सुकरः प्रयोग इति । प्राश्निकैः कतमा जातिरित्युक्ते स्वयं च सुकरः प्रयोग इति । अथ वा सद्विद्याविद्विषा अधिक्षिप्ते तत्वे अह्नाय तन्निरासहेतावस्फुरति साक्षिणां पुरत एकान्तपराजयाद्वरं संदेहोऽप्यस्तु कथं चित्परपराजयोवेति बुद्ध्या पांशभिरिवावकिरन् जातिं प्रयुङ्क्ते । तेन हि लोके तत्त्वमवस्थापितं भवति । अन्यथाऽसन्मार्गप्रवृत्तो लोकः स्यात् । न च नखचपेटादिभिर्विद्याविद्वेषिणो निराकरणे तदुत्थापितकुहेतुनिराकरणधीरस्ति लौकिकानाम् । तस्मान्न नखचपेटादय उपदेष्टव्याः शास्त्रकृतेत्यभिप्रायवानाह । साधुसाधननिराकरणार्थं वेति । अतत्त्वविषयत्वेन परमार्थतोऽसाध्वपि साधनमह्नाय दूषणस्याप्रतिभासनात्साध्वित्युक्तम् । लाभपूजाख्यातिकामश्चेत्यन्वाचये चकारः । प्रसिद्धं तावत्तत्वपरिपालने प्रयोजनं तस्मिन्सत्येतदप्यन्वाचीयतैत्यर्थः । मतान्तरं निराकर्तुमुपन्यस्यति । असाधुसाधनेति (५०३।२) तत्त्वविषयमपि साधनमसाध्विति विदितवान् वादकाले चाप्रतिभयासाधुत्त्वोपपादनं न स्फुरति । असाध्येतदिति स्मरन्नेवासौ जातिं प्रयुङ्क्ते तदिदमुक्तमनभिज्ञतया साधनदोशस्येति । अथ वा जानन्नपि जातिं प्रयुङ्क्तो तस्य साधनस्य दोषप्रदर्शनार्थं प्रसङ्गव्याजेन मदीयं तावद्दूषणाभासम् एवं त्वदीयमपि साधनाभासं यदि त्वत्साधनं सम्यक् तदा मदीयमपि सम्यक् स्यादितिप्रसङ्गः तद्व्याजेन साधनं दूषयतीत्यर्थः । तदेतत्परमतं दूषयति । एतत्त्विति । जात्यभिधाने हि पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगश्चेति द्वयं निग्रहस्थानं तस्माद्बुद्ध्वेत्युक्तम् । अथ न बुध्यते तत्किमिति जातिं प्रयुञ्जीतेति । यो हि समादर्शनमात्रात्पूर्वाभ्यस्तमपि विस्मरति तस्य कैव कथा अननुसंहितपूर्वजात्युद्भावनस्येति भावः । एतेन बुद्धाबुद्धा वेति विकल्पासम्भवेनानैकान्तिके साधने प्रयुक्ते पञ्चानां साधर्म्यसमवैधर्म्यसमविकल्पसमसाध्यसमसंशयसमानां जातीनां प्रयोगः प्रत्युक्तः । पूर्वा परभाव इति । पूर्वस्य युक्तस्य साधनस्य युक्तमुत्तरम् । अपरस्यायुक्तस्य साधनस्यायुक्तमुत्तरमिति । ननु साधर्म्यसमादीत्युच्यते । न च वस्तुतः साधर्म्यसमादीनां साम्यमस्ति स्थापनया तथा सत्यजातित्वप्रसङ्गादित्यत आह । समीकरणार्थं प्रयोग इति । आभिमानिकंसाम्यं न वास्तवमित्यर्थः । साधर्म्यमेव समं यस्मिन् प्रयोग इति शेषः । तदिदमुक्तं समार्थः साधर्म्यसमार्थः समीकरणार्थः प्रयोगो द्रष्टव्य इति । एवं वैधर्म्यमेव सममित्यत्र विग्रहे स्वरूपेण साम्यमुक्त्वा विशेषहत्वभावेन साम्यमाह विशेषहेत्वभावो वेति । ये त्वाहुः सर्वेष्वेवादपेशेषु सर्वासामेव जातीनां प्रयोग इति तान् प्रत्याह । सर्वापदेशव्याप्तिः सर्वजातिप्रयोगस्य (५३१।२) । अपदेशो हेतुवचनम् । ये पुनः साधर्म्यसम इत्यादौ समशब्दस्तस्य साधनवादिजातिवादिनोस्तुल्यार्थत्वाद् यादृशो वादी तादृशः प्रतिवाद्यपि साधर्म्येण द्वौ समाविति मन्यन्ते तान्प्रत्याह न च वादिप्रतिवादिनोस्तुल्यता सुमार्थः प्रतिवादी जातिवादी विवक्षितः ॥ १ ॥

न्या.सू._५,१.२: साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ ॥

प्रतिषेधाविति सूत्रपूरणेन पुल्लिङ्गं समर्थयते । अन्यथा जातेः प्रकृतत्वात्समानाधिकरण्येन साधर्म्यवैधर्म्यसमे इति स्यात् । तद्धर्मविपर्ययोपपत्तेः कृते साध्यविपर्ययोपपत्त्यर्थमित्यर्थः । भाष्ये निदर्शनं क्रियावानात्मा द्रव्यस्य क्रियाहेतुगुणयोगादिति । अस्ति खल्वात्मनः क्रियाहेतुर्गुणः प्रयत्नोऽदृष्टं वा लोष्टस्यापि क्रियाहेतुर्गुणः स्पर्शवद्वेगवद्द्रव्यसंयोग इति । एवमुपसंहृते परः साधर्म्येणैव प्रत्यवतिष्ठते निष्क्रिय आत्मा विभुत्वादाकाशवदिति । अत्र च साधनमाभासमुत्तरं च न जातिः विभुत्वस्याक्रियत्वेपन स्वभावतः प्रतिबन्धात् । तेनैतदुपेक्ष्य वार्तिककार उदाहरणान्तरमाह ।

यथाऽनित्यः शब्द उत्पत्तिधर्मकत्वाद् ।
इदं तु सम्यक्साधनमुत्तरं त्वाभासमिति ।
साधर्म्योक्ते साधर्म्यसमः वैधर्म्योक्ते वैधर्म्यसमः ।
एवं साधर्म्योक्ते वैधर्म्यसमः वैधर्म्योक्ते साधर्म्यसम इति ॥ २ ॥

न्या.सू._५,१.३: गोत्वाद्गोसिद्धिवत्तत्सिद्धिः ॥

कथं पुनरियं जातिः, अथ प्रकरणसमोद्भावनं सम्यगुत्तरमेव कस्मान्न भवतीत्यत आह ।
अनयोश्च साधर्म्यवैधर्म्यसमयोरुत्तरम् ।
गोत्वाद्गोसिद्धिवत्तत्सिद्धिः (सू. ३) ॥

भवेदेवं यद्यन्वयव्यतिरेकमात्राद्धेतोर्गमकत्वं स्यात् ततो विशेषग्रहणाभावात्प्रकरणसमत्वं भवेत् । न त्वेवं भवति स्वाभाविकसम्बन्धभाजो गमकत्वात् । स्वभावसंबद्धं च कृतकत्वमनित्यत्वेन, न त्वमूर्त्तत्वस्य नित्यत्वेन स्वाभाविकः सम्बन्धः बुद्धिकर्मादौ व्यभिचारात् । तस्माद्गृह्यमाणविशेषत्वान्न प्रकरणसमः । यथा गोत्वाद्गौः सिध्यति स्वाभाविकप्रतिबन्धात् । नतु सास्नादिसंबन्धादिति भाष्यं सास्नादीत्यतद्गुणसंविज्ञनो बहुव्रीहिः । तेन व्यभिचारिणः शृङ्गादयो गृह्यन्ते । वार्त्तिकम् एकस्यानन्वयादेकस्याव्यावृत्तेः । (५३२।११) एकस्य सत्त्वस्य गवाऽनन्वयाद् अश्वादौ व्यभिचारादनन्वयः । एकस्यैकशफत्वादेर्वैधर्म्यस्य गोष्वेवाव्यावृत्तेः महिषादावपि व्यावृत्तेरित्यर्थः ॥ ३ ॥

न्या.सू._५,१.४: साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्च उत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यसमाः ॥

साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यसमाः (सू. ४) ॥

उभयसाध्यत्वात्साध्यसमः । पञ्चानां जातीनां साध्यदृष्टान्तयोर्धर्मविकल्पादित्यनेन पञ्चैव लक्षणानि सूचितानि । तानि च जातिसमाख्याभिर्मिथो विशिष्यन्ते । अनित्यः शब्दः कृतकत्वाद् घटवदित्युक्ते यदैवं प्रतिवादी प्रसङ्गेन प्रत्यवतिष्ठते यदि घटसाधर्म्यात्कृतकत्वादनित्यः शब्दः तस्मादेव घटसाधर्म्याद्रूपादिमताऽपि शब्देन भवितव्यम् । न चेद्रूपादिमान्मा भूत्तथाऽनित्योऽपि । न चास्ति विशेषहेतुः कृतकत्वादनित्येन भवितव्यं न पुना रूपादिमतेति । सोऽयं साध्यदृष्टान्तयोर्द्धर्मविकल्पाद्वैचित्र्याद्यत्रोत्कर्षं प्रसञ्जयति स उत्कर्षसमः । एवं तदेव साध्यदृष्टान्तयोर्धर्मवैचित्र्यमपकर्षेण विशिष्यमाणमपकर्षसमस्य लक्षणम् । साध्यदृष्टान्तयोर्धर्मवैचित्र्यात्स्वरूपेणा साध्यासाधनत्वप्रसङ्गजनने वर्ण्यावर्ण्यसमौ । साध्यदृष्टान्तधर्मविकल्पहेतुकवर्ण्यत्वनिबन्धनं तु हेत्वाद्यवयवोगित्वप्रसञ्जनं साध्यसमः । अत एवोभयसाध्यत्त्वादिति साध्यत्वं हेतुमाहमाध्य समस्य सूत्रकारः । भाष्यकारोऽपि हेत्वाद्यवयवसामर्थ्ययोगीति ब्रुवाणस्तत्प्रसञ्जनं साध्यसमं मन्यते । तदेतद्वार्त्तिककृदाह । घटा वाऽनित्य इत्यत्र को हेतुरिति । (५३३।९) न च यदि समाख्याभेदेन विशिष्यमाणं लक्षणपदं भिन्नार्थं तर्हि समाख्यापदान्येव लक्षणानि सन्तु कृतं लक्षणपदेनेति वाच्यम् । लक्षणपदसहितानामेव तेषां लक्ष्यभेदप्रतिपादकत्वादिति ॥ ४ ॥

न्या.सू._५,१.५: किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः ॥

आसां षण्णां जातीनां प्रत्याख्यानम् ।
किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः (सू. ५) ॥

यस्य धर्मिणः साध्यधर्मेण स्वाभाविकसंबन्धः साधको धर्म उपपद्यतौपपन्नो भवति स धर्मस्तस्य साध्यधर्मस्य साधनं साध्यधर्थ्मण्युपसंह्वियते । तथा च शब्देनेति । उपनयपदेनेत्यर्थः । यत्पुनरेतद्विभागजाविभगजविकल्पवन्नित्यानित्यविकल्प इति तत्राह । यथोत्पत्तिधम्रकत्वमन्वयव्यतिरेकि नैवं विभागजत्वम् । अयमर्थः विकल्पसममुत्तरं वदता हि यथा सत्युत्पत्तिमत्त्वे घटो न विभागजः इति व्यवस्थितो विकल्पः एवं सत्युत्पत्तिमत्त्वे सत्यपि विभागजवच्छब्दोऽपि नित्यो भविष्यति घटस्त्वनित्य इत्युक्तम् । तत्र तावदुत्पत्तिधर्मकत्वं यथा सत्यनित्यत्वे घटादौ दृष्टम् आकाशादिषु चासत्यनित्यत्वे न दृष्टं तेनानित्यत्वेन स्वभावप्रतिबद्धमवधारितं नैवमुत्पत्तिधर्मकत्वस्य विभागजत्वेनाविभागजत्वेन वा स्वाभाविकसंबन्धो गृहीतो येनोत्पत्तिमत्किं चिद्विभागजं किं चिदविभागजं न भवेत् । तस्मा द्विकल्पसमं जात्युत्तरं वदताऽतिनिर्बन्धेन विभागजत्वेन शब्दस्य नित्यत्वं वक्तव्यं तत्रदमुपतिष्ठते यथोत्पत्तिधर्मकत्वमन्वयव्यतिरेक्यनित्यत्वं प्रति नैवं विभागजत्वं शब्दनित्यत्वं प्रत्यन्वयव्यतिरेकीति । तद्ध्यसाधारणमित्यर्थः । असाधारण्यमाह । न हि किं चिच्छब्दादन्यद्विभागाज्जायमानं नित्यमानत्वं वा दृष्टम् । (५३४।१) ननु विभागजो विभागोऽनित्योव दृष्ट इत्यत आह । थोक्तविशेषणमिति । कारणमात्रविभागपूर्वकः शब्दो विभागजस्तु विभागः कारणाकारणविभागपूर्वकः इति सिद्धं कारणमात्रविभागपूर्वकत्वमसाधारणमित्यर्थः ॥ ५ ॥

न्या.सू._५,१.६: साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ॥

षण्णां जातीनां प्रत्याख्यानमुक्त्वा वर्ण्यावर्ण्यसाध्यसमानामपरं प्रत्याख्यानमाह । साध्यातिदेशाच्च दृष्टान्तोपपत्तेः (सू. ६) इति । तद्व्याचष्टे दृष्टान्तः साध्य इति ब्रुवतेति । चतुर्दशविधजातिवादिनामिह दूषणमुपन्यस्यति । यत्त्वत्रोक्तं जातीनां पौनरुक्त्यमिति । लक्षणभेदाभ्यां किल लक्ष्यभेदाभेदौ लक्षणं चेदमेकमिति न षड्जातयः तस्माद्विकल्पसमायामेवोत्कर्षसमादीनामन्तर्भाव इत्यर्थः । दूषयति । न पौनरुक्त्यम् । तत्तल्लक्ष्यपदसहितानि पञ्च लक्षणानि उभयसाध्यत्वाच्चेत्यनेन सह लक्षणानि षडिति न केवलं लक्ष्य भेदात्प्रयोगभेददर्शनाच्च । शङ्कते । यदि लक्ष्यभेदाज्जातिभेदस्तत आनन्त्यमिति चेत् । निराकरोति । नानवधारणादिति । न लक्ष्याणामवधारणमस्त्येषामानन्त्यात् । लक्षणोपग्रहेण चतुर्विंशतिर्जातय इत्यर्थः । लक्ष्याणां लक्षणाभेदेऽपि भेदे निदर्शनमाह । तथा हि प्रकरणसमैकेति । सुगममितरत् ॥ ७ ॥

न्या.सू._५,१.८: प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वाद् अप्राप्त्यासाधकत्वाच्च प्राप्त्यप्राप्तिसमौ ॥

प्राप्त्यप्राप्तिसमाविति लक्ष्यपदम् । शेषं लक्षणम् । असत्साध्यते न तु सत् । प्राप्तं सत् । असतः प्राप्त्यसंभवात् । तस्मान्न साध्यम् । अपि च येन यस्य प्राप्तिस्तेन गङ्गा सागरं प्राप्ता सागरेणसङ्गता सागरेणाभिन्ना तद्वदेवाभिन्ने । चेत्साध्यसाधने नास्ति साध्यसाधनभावः तस्य भेदाधिष्ठानत्वादित्यपि द्रष्टव्यम् । अप्राप्तिसमस्तु स्फुट एवेति । ननु प्राप्त्यप्राप्तिसमयोर्मिलितयोः साधनप्रतिषेधस्यैकत्वात् कथं प्राप्त्यप्राप्तिसमौ भिन्नावित्यत आह । अनयोर्भेदोपदेशो विवक्षात इति (५३५।९) । साधनप्रतिषेधस्यैकत्वेऽपि प्राप्य वाऽप्राप्य वेति विकल्पभेदाद्भेदविवक्षेत्यर्थः । अभेदविवक्षायां त्वेकमेवोत्तरम् । यथा वृक्षाणां बहुत्वं विवक्षित्वा बहुवचनप्रयोगो वृक्षा इति तद्बहुत्वसंख्यायाव एकत्वं विवक्षित्वैकवचनम् एकं वनमिति । उदाहरणेन साधर्म्यंवैधर्म्याभ्यां प्रत्यवस्थानमिति जातिसामान्यलक्षणं मन्वानो देशयति । जातिलक्षणाभावादिति परिहरति ।

न सूत्रार्थापरिज्ञानादिति ।
सूत्रे नोदाहरणसाधर्म्यं विवक्षितमपि तु येन केन चिद्विद्यमानेनासाध्येन साधर्म्यम् ।
अप्राप्तेन वा हेतुना साधमर्यमिति न सामान्यलक्षणायोग इति ॥ ८ ॥

न्या.सू._५,१.९: घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः ॥

प्रत्याख्यानम् घटादिनिष्पत्तिदर्शनादिति सूत्रं, तद्व्याचष्टे मृत्पिण्डप्राप्तानां दण्डादीनां न गङ्गासागरवदविशेषः । मृदवयवाः पूर्वव्यूहपरित्यागेनेति । (५३६।२) साध्यं कर्म तच्च मृदवयवास्ते च सिद्धा एवेत्यव्यभिचारः । घटस्तु फलं न साध्य इति भावः । कोऽप्राप्त्यर्थ इति।अप्राप्तस्य साधकत्वेऽतिप्रसङ्गः इति भावः । उत्तरं परस्परोपश्लेषमन्तरेण साधकत्वमिति । अन्यथा तूद्देशेनायं प्राप्त एव ।

यदुद्देशेनाभिचारः श्येनादिना क्रियते तस्यैव प्रत्यवायो भवति नान्यस्येति नियमः ।
अत्रापि हेतुत्वं क्रियां प्रति दृष्टम् ।
यथा पङ्काख्यायां भुवि ।
सुगममन्यत् ॥ ९ ॥

न्या.सू._५,१.९: दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ ॥

दृष्टान्तस्य कारणानपदेशात्प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ (सू. ९) ॥

दृष्टान्तस्य कारणं प्रमाणं तस्यानपदेशात्प्रसङ्गपसमः साध्यसमो हि दृष्टान्ते साध्यवद्धेत्वाद्यवयवं प्रसञ्जयति । पञ्चावयवप्रयोगसाध्यतां दृष्टान्तस्य गतस्यानित्यत्वस्य प्रसञ्जयतीत्यर्थः । प्रसङ्गसमस्तु दृष्टान्तगतस्यानित्यत्वस्य प्रमाणमात्रसाध्यतामित्यपौनरुक्त्यम् । भाष्यं साधनस्यापि । दृष्टान्तगतस्यानित्यत्वस्पय साधनं प्रमाणं वाच्यमिति । वार्त्तिकं घट एव तावदनित्य इत्यत्र को हेतुरिति । अत्र किं प्रमाणमित्यर्थः । भाष्यं प्रतिदृष्टान्त उदाह्नियते । किंयाहेतुगुणयुक्तमाकाशमक्रियं दृष्टं तस्मादनेन प्रतिदृष्टान्तेन कस्मात् । क्रियाहेतुगुणयोगो निष्क्रियत्वमेव न साधयत्यात्मन इति शेषः । यदि पुनरियमनैकानितकदेशना स्यात् क्रियाहेतुगुणयुक्तस्याप्यक्रियत्वं दृष्टं यथाकाशस्येति तद् एतत्सदुत्तरं स्यात् । न त्वेवमेतदिति जातिः । शङ्कते । वाय्वाकाशसंयोगस्येति । निराकरोति । न तत्समानधर्मोपपत्तेः । तत्समानधर्मणो धर्मिणः क्रियावत्त्वोपपत्तेः । यदि तथाभूत एवाकाशे कस्मान्न करोतीत्यत आह यस्त्वसाविति । (५३७।१) यस्तु मन्यते कार्योत्पादैक्यव्यङ्न्यमेव कारणं न दृष्टकार्यकारणसाधर्म्यव्यङ्न्यमपीति, तस्य दूषणान्याह यदि चेति ।

न्या.सू._५,१.१०: प्रदीपोपादानप्रसङ्गनिवृत्तिवत्तद्विनिवृत्तिः ॥

यदि प्रज्ञापनार्थमुत्तरं नाप्रज्ञातो दृष्टान्तः । तत्र लौकिकपरीक्षकाणां बुद्धिसाम्यादिति शेषः ।

न्या.सू._५,१.११: प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः ॥

स च कथमहेर्तुन स्यादिति (५३८।१) कथं हेतुः स्यादिति । अभ्युपगमादिति । मदीयस्य च दृष्टान्तस्याभ्युपगमान्न त्वदीयो दृष्टान्त इत्यर्थः । अथैवं प्रयुङ्क्ते यथा मदीयो न दृष्टान्तस्तथा त्वदीय इति तथापि व्याघातान्न दृष्टान्तो मदीयस्यादृष्टान्तत्वे साध्ये प्रतिदृष्टान्तेन हि तेन मदीयस्या दृष्टान्तता साध्या, स चेन्न दृष्टान्तः मदीपस्यादृष्टान्तता साध्येति व्याहतमित्यर्थः ॥ ९ ॥ १० ॥ ११ ॥

न्या.सू._५,१.१२: प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ॥

उदाहरणपुरःसरं भाष्यकारो व्याचष्टे अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदित्युक्त इति ।
तदश्रावात्कारणाभावादनित्यत्वस्य कार्यस्याभावे नित्यत्वं प्राप्तम् ।
नित्यत्वानित्यत्वाभ्यां राश्यन्तराभावादिति ॥ १२ ॥

न्या.सू._५,१.१३: तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः ॥

तस्य प्रत्याख्यानम् । तथा भावापदुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः । (सू. १३) ॥

नित्यत्वेन हि शब्दस्य धर्मेणानुत्पत्त्या प्रत्यवस्थेयम् । न चानुत्पन्नः शब्द इति नित्य इति चानुत्पत्तिधर्मक इति च सम्भवति । उत्पन्नस्तृत्पत्तिधर्मा च शब्दश्चानि त्यश्चेति नानुत्पत्त्या शक्यं प्रत्यवस्थातुमित्यर्थः । कारणोपपत्तेरिति प्रयत्नानन्तरीयकत्वस्य प्रतिषेध इत्यर्थः । यदुक्तं कारणाभावादनित्यत्वस्य कार्यस्याभावे नित्यत्वं प्राप्तमिति तत्राह वार्तिककारः । ज्ञापकश्चायं हेतुर्न कारक इति । कारको हि हेतुर्निवर्तमानः स्वकार्यं निवर्तयति न तुज्ञापकस्तदभावेऽपि भूमौ चिरनिखातानां निध्यादीनामनिवृत्तेरिति । ततश्च विशेषण मनर्थकं प्रागुत्पत्तेरति । (५३९।४) प्रागसतो हि सत्तासम्बन्ध उत्पत्तिः प्रागपि चेदसावभ्युपगतः प्रागिति विशेषणमनर्थकम् । उत्पत्तेरभावे सदैवानुत्पत्तिधर्मकत्वादित्यर्थः । अपरे तु प्रागुत्पत्तेः कारणाभावादित्युक्ते अर्थापत्तिसमैवेयं जातिरिति मत्वाऽस्या उत्तरमाहुः यदैवंमुच्येत प्रयत्नानन्तरीयकत्वादनित्यः शब्द इति तदर्थादप्रयत्नानन्तरीयकत्वे नित्यत्वमुक्तं भवतीत्यर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमैवेयं जातिरित्यभिमानः । एवं कृते त एवास्यां जातावुत्तरं ब्रुवते नायं नियम इति । तदेतत्परेषां मतं दूषयति । एतत्त्विति । शङ्कते । जातिलक्षणाभावान्नेयं जातिरिति चेत् । साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः न चानुत्पत्तिसमायाः साधर्म्यं वैधर्म्यं वाऽस्ति केन चिदित्यर्थः ।

निराकरोति ।
नानुत्पन्नैरहेतुभिः सारूप्यादिति ।
यथाऽनुत्पन्नास्तन्तवो न पटस्य कारणं तथा शब्दोत्पत्तेः प्रागनुत्पन्नं प्रयत्नानन्तरीयकत्वं नानित्यत्वस्य कारणमिति साधर्म्येण प्रत्यवस्थानमित्यस्ति सामान्यलक्षणमित्यर्थः ।
एतावता चार्थापत्तिसमाया अनुत्पत्तिसमातो भेदो दर्शितः इहानुत्पन्नैरहेतुभिः साम्येन कार्यप्रतिषेधात् अर्थापत्तिसमायां वाक्यार्थविपरीतारोपेण प्रतिषेधादिति ॥ १३ ॥

न्या.सू._५,१.१४: सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसमः ॥

दृष्टान्तः प्रयत्नानन्तरीयकत्वस्य हेतोर्घट इति ।
यथा हि विशेषदर्शनं निश्चयस्य कारणमस्तीति निश्चयोत्पत्तिरेव साधर्म्यदर्शनमात्रमस्ति संशयस्य कारणमिति संशयेनापि भवितव्यमित्यर्थः ।
सूत्रार्थप्रयोजनमाक्षेपसमाधानाभ्यां स्फुटीकरोति ।
संशयसमा साधर्म्यसमाया इति ॥ १४ ॥

न्या.सू._५,१.१५: साधर्म्यात्संशये न संशयो वैधर्म्याद् उभयथा वा संशयेऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः ॥

अस्य प्रत्याख्यानसूत्रम् । साधर्म्यात्संशये न संशयो वैधर्म्यादुश्रयथा वा संशयेऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः (सू. १५) । न सामान्यदर्शनमात्रं संशयस्य कारणमपि तु विशेषादर्शनसहितं विशेषदर्शने तु तद्रहितं न कारणमिति सूत्रार्थः । उभयथा वेति । साधर्म्यविशेषदर्शनाभ्यामित्यर्थः । नित्यत्वानभ्युपगमाच्च सामान्यस्येति । नित्यं संशयकारणत्वानभ्युपगमात्साधर्म्यस्येत्यर्थः ॥ १५ ॥

न्या.सू._५,१.१६: उभयसाधर्म्यात्प्रक्रियासिद्धेः प्रकरणसमः ॥

उपलक्षणं चैतद् उभयसाधर्म्यादिति । उभयवैधर्म्यादित्यपि द्रष्टव्यम् । एतद्व्याचष्टे भाष्यकारः उभयेन नित्येन चानित्येन चेति । द्वितीयश्च नित्यसाधर्म्यात्प्रतिपक्षं प्रवर्तयति नित्यः शब्दः श्रावणत्वाच्छब्दत्ववदिति । अथ द्वितीयसाधनप्रवृत्तौ प्रथमस्य साधनस्य किं भवतीत्यत आह । एवं च सति प्रयत्नांनन्तरीयकत्वादिति हेतुरनित्यसाधर्म्येणोच्यमानो न प्रकरणमतिवर्तते । माऽतिवर्त्तिष्ट प्रकरणं को दोष इत्यत आह । प्रकरणानतिवृत्तेर्निर्णयानतिवर्त्तनम् । निर्णयानिष्पत्तिरित्यर्थः । एवमानित्यसाधनवादिनं प्रत्युत्तरं दर्शयित्वा नित्यसाधनवादिनं प्रत्याह । समानं चैतन्नित्यसाधर्म्येणोच्यमान इति । तदेवं साधर्म्येण प्रकरणसमद्वयमुक्तं तथा वैधर्म्येण प्रकरणसमद्वयं नित्यानित्यसाधनवादिनावेव प्रत्याह । समानं चैतदिति । उभयवैधर्म्यादिति । नित्याकाशवैधर्म्यात्कृतकत्वादनित्यघटवैधर्म्याच्चास्पर्शवत्त्वादिति । तदेवं प्रकरणसमचतुष्टयम् । पूर्वपक्षवार्त्तिकं संशयसमसाधर्म्यसमाभ्यामिति (५४०।१३)परिहरति । नोभयपक्षसाधर्म्यात्तद्भेदोपपत्तिरिति । प्रकरणसमे हि स्वपक्षनिश्चयेन मया वादिपक्षसाधनं दूषणीयमिति बुद्ध्या प्रवर्त्तते ।

साधर्म्यसमसंशयसमयोस्तु वादिसाधनेन साम्यमात्रापादनेन तद्दूषणं, न तु प्रतिपक्षनिश्चयेनेति विशेषः ।
इह तु साम्यमात्रापादनं न साधनेन, किं तु दूषणैरित्येतावता समार्थः प्रयोगः सम इति बोद्धव्यम् ॥ १६ ॥

न्या.सू._५,१.१७: प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपतिः प्रतिपक्षोपपत्तेः ॥

अस्य प्रत्याख्यानम् । प्रतिपक्षात्प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः । (सू. १७) ॥

द्वयोः साधनयोस्तदानीमगृह्यमाणविशेषयोः कोऽयमभिमानः प्रतिवादिनो यन्मयास्वपक्षसाधनेनैव वादिनः साधनं दूषणीयमिति । समानबलयोश्चेदयमात्मीयात्साधनात्स्वपक्षसिद्धिपमिच्छति अतोऽनिच्छन्नपि वादिनापि साधनात्सिद्धिमभ्युपगमयितव्यः । अन्यथा स्वसाधनात्साध्यसिद्धिमुपजीव्य व्यक्तमियं राजङ्कुलस्थितिरिति । एवं व्यवस्थिते सूत्रभाष्ये योजयितव्ये । प्रतिपक्षात्प्रतिपक्षसाधनात्प्रकरणस्य प्रक्रियमाणस्य साध्यस्येति यावत् । सिद्धेः समानात् स्वसाधनात् प्रतिषेधस्य प्रतिवादिसाधनस्य स्वसाध्यसिद्धिद्वारेण परकीयसाधनप्रतिषेधस्यानुपपत्तिः । कस्मात्प्रतिषेधानुपपत्तिरित्यत उक्तं प्रतिपक्षोपपत्तेः । फलतः परकीयसाधनस्य समानात्स्वसाधनात्प्रक्रियासिद्धिं स्वसाध्यसिद्धिं ब्रुवता प्रतिपक्षात्प्रक्रियासिद्धिरुक्ता भवति प्रतिवादिना । नन्वेवं प्रकरणसमाव्हयो हेत्वाभासो नोद्भावनीयः प्रतिवादिना जात्युत्तरप्रसङ्गादित्यत आह । तत्त्वानवधारणाच्च प्रक्रियासिद्धिः । स्वसाध्यनिर्णयेन परसाध्यविघटनबुद्ध्या प्रतिवादिना साधनं प्रयुज्यमानं प्रकरणसमजात्युत्तरं भवति । सत्प्रतिपक्षतया वादिनः साधनमनिश्चायकं करोमीति बुद्ध्या प्रतिपक्षसाधनं प्रयुञ्जानो न जातिवादी सदुत्तरवादित्वात् । सत्प्रतिपक्षताया हेतुदोषस्यानैकान्तिकादिवदुपपादितत्वात् । तत्त्वानवधारणादित्यनेन प्रकरणसमोदाहरणं दर्शितम् । वार्तिकं विरुद्धाव्यभिचार्येष

उक्तोत्तर इति ।
तुल्यबलयोरेकतरस्मात्स्वसाध्यसिद्धिमभ्युपगच्छतोर्द्वयोरपि फलतो व्यभिचारः सिध्यति ।
न च विरुद्धाव्यभिचारी सम्भवति ।
अव्यभिचारो ह्यविनाभावः स च पञ्चरूपसम्पत्तिश्चतूरूपसम्पत्तिर्वा न विरुद्धाव्यभिचारिणि सास्तीत्यर्थः ॥ १७ ॥

न्या.सू._५,१.१८: त्रैकाल्यासिद्धेर् हेतोरहेतुसमः ॥

सूत्राभाष्यवार्तिकानि प्रमाणसामान्यपरीक्षाव्याख्यानेन व्याख्यातानि ॥ १८ ॥

न्या.सू._५,१.१९: न हेतुतः साध्यसिद्धेस्त्रैकाल्यासिद्धिः ॥

न्या.सू._५,१.२०: प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः ॥

न्या.सू._५,१.२१: अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः ॥

उदाहरणपुरःसरं सूत्रं योजयति ।
अनित्यः शब्द इति ।
अनित्यसाधर्म्यादनित्यं शब्दं ब्रुवाणो भवाननक्षरं नित्यसाधर्म्यान्नित्यत्वं शब्दस्य ब्रूतैत्यर्थः ।
न साधर्म्यसमादौ वाद्यभिप्रायवर्णनमित्यतो भेदः ॥ २१ ॥

न्या.सू._५,१.२२: अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाच्चार्थापत्तेः ॥

अस्य प्रत्यादेशसूत्रम् ।
अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्त्वाच्चार्थापत्तेः (सू. २२) ॥

तद्व्याचष्टे अनुपपाद्य सामर्थ्यमिति । तदेव खल्वनुक्तं वचनाल्लभ्यते यत्कल्पनमन्तेरण वचनार्थो न घटते यथा पीनो देवदत्तो दिवा न भुङ्क्तैत्युक्ते रात्रौ भुङ्क्त इति । यथा वा यागेन स्वर्गं भावयेदित्युक्तेऽन्तरापूर्वं कृत्वेति वाक्यार्थोपपादने तस्य सामर्थ्यात् । न त्वव्यभिचारिणः साधर्म्यात्साध्ये साध्यमानेऽर्थादुक्तं भवति व्यभिचारिणाऽपि साधर्म्येण साधयितव्यमिति । तस्य वाक्यार्थोपपादनेऽसामर्थ्यात् । तदन्तरेण वाक्यार्थोपपत्तेः । यदि पुनरनुपलब्धसामर्थ्यमनुक्तमपि गम्येत ततस्त्वया नित्यत्वापादने शब्दस्योच्यमानेऽनुच्यमानमनित्यत्वं प्रत्येतव्यम् । तथा च भवदभिमतस्य नित्यत्वस्य व्यावृत्तिः । तदिदमाह अनित्यपक्षस्यानुक्तस्य सिद्धावर्थादापन्नं नित्यपक्षस्य हानिरिति । विपर्ययेणापि प्रत्यवस्थानसम्भवात् । अनैकान्तिकत्वमाह उभयपक्षसमा चेयमिति । व्यभिचाराच्चानैकान्तिकत्वमाह ।

न चेयं विपयर्यमात्रादिति ।
न हि भोजननिषेधादेवाभोजनविपरीतं सर्वत्र कल्पते ।
धनत्वं हि ग्राव्णः पतनानुकूलगुरुत्वातिशयसूचनार्थं न त्वितरेषां पतनं वारयति ।
वार्तिकं सुबोधम् ॥ २२ ॥

न्या.सू._५,१.२३: एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सद्भावोपपत्तेर् अविशेषसमः ॥

यदि घटसाधर्म्यात्यप्रयत्नानन्तरीयकत्वाद् घटेनाविशेषोऽनित्यत्वाख्यः शब्दस्य सत्त्वात्साधर्म्यात्सर्वेषां सर्वाविशेषप्रसङ्गः । न त्वेवं यथा प्रयनानन्तरीयकत्वादपि साधर्म्यान्न शब्दघटयोरनित्यत्वमविशेष इति प्रतिषेधोऽविशेषसमः । अविशेष इत्यस्य विवरणमुभयोरनित्यत्व इति । देश्यं वार्तिकं साधर्म्यसमातो न भिद्यते इति (५४२।६) । परिहारवार्त्तिकं नैकसमस्तेति ॥ २३ ॥

न्या.सू._५,१.२४: क्वचिद्धर्मानुपपत्तेः क्वचिच्चोपपत्तेः प्रतिषेधाभावः ॥

अस्य प्रत्यादेशसूत्रम् ।
क्व चित्तद्धर्मानुपपत्तेः क्व चिच्चोपपत्तेः प्रतिषेधाभावः (सू. २४) ॥

क्व चित्साधर्म्ये प्रयत्नानन्तरीयकत्वादौ सति शब्दादेर्घटादिना सह तद्धर्मस्य घटधर्मस्यानित्यत्वस्योपपत्तेः क्व चित्साधर्म्ये शब्दस्य भावमात्रेण सह सत्त्वादौ भावमात्रधर्मस्यानुपपत्तेः प्रतिषेधाभाव इति योजना । एतदुक्तं भवति अविनाभावसम्पन्नं साधर्म्यं गमकं न तु साधर्म्यमात्रमिति । सद्भावो पपत्तिनिमित्तमिति सद्भावव्यापकमित्यर्थः । अत्रान्तरे वैनाशिकः सत्ताव्यापकमनित्यत्वं मन्वानो देशयति । अथ मतमनित्यत्वमेव धर्मान्तरमिति । निराकरोति । एवं खलु वै कल्प्यमान इति । पूर्वपक्षोत्तरपक्षपवनिर्वाहस्तृतीये प्रपञ्चितः । अपि च सन्तः के चन प्रमाणावधृतनित्यत्वाः यथाकाशादिगात्मपरमाणवः, के चित्प्रमाणविनिश्चितानित्यभावा यथा घटादयः तस्मात्सत्त्वमनैकान्तिकत्वादसाधकमित्याह सतश्च नित्यानित्यभावादिति । अपि च यत्प्रतिषेधाय प्रसङ्गापादनं तदेव प्रतिषेध्यं साधयति, न तु निषेधतीत्याहसर्वभावानां सद्भावोपपत्तेरिति । वार्तिकं क्व चित्साधर्म्यमुपलभ्यत इति । व्याप्यतयेति शेषः ।

अथ शब्दवर्जमुच्यत इति तत्राह व्यर्थंवा सर्वभावग्रहणम् ।
उक्तश्च विशेषोऽन्वयव्यतिरेकसंपन्नो हेतुरिति प्रयत्नान्तरीयकत्वं न तूत्तरः सद्भावोपपत्तेरित्यन्वयव्यतिरेकसम्पन्न इति ॥ २४ ॥

न्या.सू._५,१.२५: उभयकारणोपपत्तेरुपपत्तिसमः ॥

यद्यनित्यत्वकारणं प्रयत्नानन्तरीयकत्वमुपपद्यते तदस्ति शब्दस्येत्यनित्यः शब्द इति ।
प्रकरणसमायां जातौ पक्षप्रतिपक्षसाधनयोः समानबलत्वेऽपि प्रतिवादि स्वासाधनास्वपक्षसिद्ध्पवया वादिसाधनदूषणे प्रवर्त्तते, उपपत्तिसमायां तु स्वसाधनेनैवेति विशेषः ॥ २५ ॥

न्या.सू._५,१.२६: उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः ॥

अस्य प्रत्यादेशसूत्रम् ।
उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः (सू. २६) ॥

वाद्यभिमतस्य साधनस्योपपत्तौ यत्कारणं तस्वय प्रतिवादिनाऽभ्यनुज्ञानादिति भावः ।
प्रकरणसमप्रत्याख्यानवदस्यापि प्रतयाख्यानं द्रष्टव्यम् ।
सुगमे भाष्यवार्त्तिके ॥ २६ ॥

न्या.सू._५,१.२७: निर्दिष्टकारणाभावेप्युपलम्भादुपलब्धिसमः ॥

अनित्यत्वकारणस्येति । ज्ञापकस्येत्यर्थः । ननु यद्वृत्तयोगप्राथम्ययोः साधनधर्मो विषयो न तु साध्यधर्मः स हि तद्वृत्तयोगस्य विषयः एवं प्रयुज्यते यो यः प्रयत्नानन्तरीयकः स सर्वोऽनित्यः अनेन हि प्रयत्नानन्तरीयकत्वमनित्यादन्यतो व्यावर्त्तितम् । अनित्यत्वं त्वनियतं स यद्यप्रयत्नानन्तरीयके शब्देऽन्यत्र वा भवेत् कः प्रयत्नानन्तरीयकत्त्वस्यानित्यत्वनियमविरोधः एवं हि स भवेद् यदि नित्योऽपि प्रयत्नानन्तरीयको दृश्येत न त्वेवमस्ति, तस्मादुपलब्धिसमाया उत्थानमेव नास्ति बीजाभावादित्यत आह वार्तिककारः सर्वसाध्याध्यारोपेणाव्यापकत्वं साधनस्येत्युपलब्धिसमार्थः । (५४३।७) यद्यपि वर्णात्मकः शब्दोऽनि त्यत्वेन साध्यतया विवक्षितः प्रकरणादनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदिति तथाऽपि शब्दमात्रमनेन पक्षीकृतमित्यारोप्य भागासिद्धत्वारोपणं साधनस्येत्युपलब्धिसमार्थः । समारोपमेवोदाहरणान्तरेण दर्शयति । सर्वमनित्यमिति । शब्दोनित्य इति प्रतिज्ञायामपि सर्वमनित्यमित्नपवयारोप्येति योजना । भाष्यकारोदाहरणापतितोपश्चोदाहरणान्तरप्रदर्शनबीजम् । यस्त्वनित्यः शब्द इति प्रतिज्ञायां सर्वानित्यत्वारोपो निर्बीज इति न तुष्यति तं प्रत्याह । श्रूयमाणेति । यद्यप्यनित्यः शब्द इति श्रूयते तथाऽपि सामर्थ्थादाद्य इति विवक्षितः ।

शब्दान्तरोत्पादकत्वं सजातीयोत्पादकत्वमिति१ एवं च नायोगव्यवच्छेदेन शब्दानित्यत्वं हेतुरव्यापकत्वात् ।
नाप्यन्ययोगव्यवच्छेदेन हेत्वन्तरस्य विद्यमानत्वादिति जातिवादिनोऽभिसंधिरिति ॥ २७ ॥

न्या.सू._५,१.२८: कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः ॥

अस्य प्रतयाख्यानसूत्रम् । कारणान्तरादपि तद्धर्मोयपत्तेरप्रतिषेधः (सू. २८) तद्व्याचष्टे । प्रयत्नानन्तरीयकत्वादिति ब्रुवतेति । कारणतः प्रयत्नाच्छब्दस्योत्पत्तिनियमो विधीयते वर्णानामनित्यत्वंव साधयितुम् । न तु कार्यस्य कारणनियमः, प्रयत्नादेव सर्वः शब्दो जायते न तु वायुसंयोगाद्वृक्षभङ्गादिति नियम उच्यते येनाव्यापकत्वं हेतोः स्यादिति । सूत्रार्थस्तु कारणान्तरादपि ज्ञापकान्तरादपि तद्धर्मोपपत्तेः साध्यधर्मोपपत्तेरप्रतिषेध इति । एतदेव वार्त्तिककारो व्याचष्टे अनित्यः शब्द इति ब्रुवता प्रयत्नानन्तरीयकत्वेनेति शेषः । साध्यान्तराणां शाखाभङ्गजशब्दानां कारणमनित्यत्वज्ञापकं न प्रतिषिध्यते । यद्यपक्षीकृतानामपि कारणान्तरादनित्यत्वं भवति कामं भवत्वित्यर्थः । नापि शब्दस्य साध्यस्यानित्यत्वे कारणान्तरं प्रतययभेदभेदित्वादि प्रतिषिध्यते । एकदेशिमतमाह । अपरे तु परिहारं ब्रुवते यदेव प्रयत्नानन्तरीयकमितञ् तिदेतद्पव दूषयति एतत्तु नाविवादादिति । अयमभिसंधिः । प्रयत्नानन्तरीयकत्वं हि कोष्ठ्यस्य वायोः क्रियायाः सा हि प्रयत्नवदात्मसंयोगाज्जायते । वायोः पुनरुरःस्थानादिषु संयोगविभागादयो न प्रयत्नानन्तरीयकाः प्रागेव तु शब्दः यदा चाद्यशब्दस्येयं गतिस्तदा कैव कथ प्रयत्नानन्तरीयकत्वेऽन्त्यस्य श्रवणविवरसमवायिनः श्रूयमाण्स्य शब्दस्य । तस्माद्यः प्रयत्नानन्तरीयकत्वं शब्दस्पय विना प्रमाणेन प्रतिपद्यते न तं प्रति किं चित्साध्यते प्रमाणेन । प्रमाणानधीनस्य प्रतिभासमात्रेण प्रमेयसिद्धेः सर्वत्र सुलभतवादिति । तदनेनापरितोषबीजमुक्तम् । अभ्युपेत्य शब्दस्य प्रयत्नानन्तरीयकत्वमाह ।

यदा तु प्रयत्नानन्तरीयकत्वमिति ।
देशयति ।
जातीति ।
परिहरति नेति ॥ २८ ॥

न्या.सू._५,१.२९: तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेर् अनुपलब्धिसमः ॥

अनुपलब्धिसमप्रतिषेधस्य लक्षणं दर्शयितुं तत्प्रतिषेध्यं तावदाह भाष्यकारः ।

न प्रागुच्चारणाद्विद्यमानस्यानुपलब्धिरिति । तस्मादुदकादिवदावरणादिरस्यानुपलम्भकारणं भवतीत्यत आह ।

गृह्येत चैतदस्याग्रहणकारणमिति ।
प्रतिषेध्यमुत्क्वा ।
प्रतिषेधस्य जातेर्लक्षणमाह ।
तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः (सू. २९) ॥

व्याचष्टे तेषामावरणादीनामनुपलब्धिर्नोपपद्यते । उपलभ्यमानत्वे उपलब्धिरूपतया अनुपलब्धित्वानुपपत्तेः । तथा चानुपलब्धेरनुपलम्भादनुपलब्धिर्नास्तीत्यावरणाद्युपलब्धिसिद्धिरिति । आवरण इवावरणानुपलब्धिरप्यनुपलब्धिसमेत्यर्थः ॥ २९ ॥

न्या.सू._५,१.३०: अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥

अस्य प्रत्यादेशसूत्रम् अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः (सू.३०) ॥

आवरणाद्यनुपलब्धिरावरणादीनामभावं गमयति । न त्वात्मनोऽभावमावरणाद्युपलब्धिरूपं न ह्यसावनुपलब्धिरप्यात्मनो येनात्माभावं गमयेत् । उपलब्धिरप्युपलभ्यविषया नात्मविषया किं पुनरनुपलब्धिः । तस्मादनुपलब्धिरुपलभ्याभावहेतुः न हेतुरात्माभावस्य तथा सति सैव न स्यादिति न स्यादुपलभ्याभावोऽपीत्यावरणं तदुपलब्धिनश्च स्यादिति । तदिदमाह भाष्यकारः । अनुपलम्भादित्ययमहेतुरिति । कस्मात् । अनुपलम्भात्मकत्वादनुपलब्धेः । एतद्व्याचष्टे उपलम्भाभावमात्रत्वादिति । मात्रग्रहणेन जातिवाद्यभिमतात्माभावरूपतां व्यवच्छिनत्ति । नन्वियमनुपलब्धिर्भवतूपलम्भाभावो मा च भूदुपलभ्यस्य किमायातमावरणाद्यभावस्येत्यत आह । यदस्ति तदुपलब्धेर्विषय उपलब्ध्या तदस्तीति विज्ञायते । न पुनरनुपलब्धेरनुपलम्भात्मतया तत्प्रतिज्ञेयमिति भावः । अनुपलब्धेः प्रज्ञेयमाह । यज्ञास्ति सोऽनुपलब्धेरिति । ननु ज्ञायतां किमेतावताऽपीत्यत आह । सोऽयमावरणाद्यनुपलब्धेरनुपलम्भ इति । त्वया हि जातिवादिना आवरणाद्यनुपलब्धेरनुपलम्भेनावरणोपलम्भमावरणं च प्रसञ्जयताऽनुपलम्भस्य स्वविषयलोपेन प्रतयवस्थेयम् । एवं चेद्वरमस्यावरणतदुपलम्भौ विषयौ एवमनेन भावाभावबुद्धिव्यपदेशव्यवहाराः सकललोकयात्रावाहिनोऽनुकूलिता भवन्ति, तदिदमुक्तं सोऽयमावरणाद्यनुपलब्धेरनुपलम्भ आवरणोपलम्भनिषेधविषयं प्रमाणमुपलब्ध्यभावेऽनुपलब्धौ स्वविषये प्रवर्त्तमानो न स्वविषय मनुपलब्धिं प्रतिषेधति अपि तूपलब्धिमेव, जातिवादिनस्तु निषेध्येत तथा च सर्वलोकव्यवहारः समुच्छिद्येतेति भावः । अप्रतिषिद्धा चावरणाद्यवनुपलब्धिरावणादीनामभावं प्रति हेतुत्वाय कल्पते । ननु च नानुपलम्भमात्रमभावग्रहहेतुः मा भूच्चन्द्रमसः परभागे हरिणसदसद्भावसंशय इत्यत आह । आवरणादीनि त्विति । उपलभ्यं वोपलब्धिर्वा नानुपलम्भमात्रान्नास्तीति सिध्यति, अपि तु दर्शनयोग्यं सदिति नातिप्रसङ्ग इत्यर्थः । ननूपलब्धेः स्वविषयस्य प्रतिपादिकाया अभावादावरणादयो मा नामोपलभ्यन्ताम् अभावस्तु तेषां कुतस्त्य इत्यत आह अनुपलम्भात्प्रतिषेधकात्प्रमाणादनुपलब्धेर्यो विषयः उपलभ्याभावः स गम्यते । न सन्त्यावरणादीनि शब्दस्याग्रहकारणानीति । तत्किमिदानीं साक्षादेवोपलम्भनिषेधकं प्रमाणमुपलभ्याभावं गमयति नेत्याह ।

अनुपलम्भात् उपलब्धिनिषेधकात्प्रमाणादनुपलब्धिरावरणस्य सिध्यति ।
कस्मादित्यत आह ।
विषयः स तस्योपलब्धिनिषेधकस्य प्रमाणस्यानुपलब्धिः ततश्चावरणाद्यभाव इति द्रष्टव्यम् ॥ ३० ॥

न्या.सू._५,१.३१: ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम् ॥

न केवलं निषेधविषयप्रमाणगम्यतानुपलब्धेरुपपत्तिगम्या, अपि तु सर्वजनप्रत्यात्मवेदनीयेत्याह सूत्रकारः ।
ज्ञानविकल्पानां च भावाभावसंवेनादध्यात्मम् (सू. ३१) ॥

व्याचष्टे अहेतुरिति वर्तते । शरीर इति । प्रागुच्चारणाच् शब्दस्यानुपलब्धेरसत्त्वे साध्यमानेऽनैकान्तिकत्वं स्याद् यदि तु पश्चाद्विशिष्येत आवरणाद्यसंभवे सतीति ततो हेत्वन्तरं नाम निग्रहस्थानं स्यादित्याशङ्क्य वार्तिककार आह । आवरणाद्यसंभवे सत्त्वाभ्युपगमे च सत्यनुपलब्धेरिति प्रयोगः । (५४४।८) सत्त्वाभ्युपगमे चेत्यस्योपादानप्रयोजनमाह । आवरणाद्यसंभवे सत्त्वाभ्युपगमे विपर्ययस्याव्यभिचारान्नार्थापत्तिसमः । अयमर्थः । यद्यावरणासंभवे सत्यनुपलब्धेरित्युच्यमाने कश्चिदर्थापतिसमया जात्या प्रत्यवतिष्ठते आवरणाद्यसंभवे सत्यनुपलब्धेरित्युच्यमाने अर्थादापतितमावरणादिसंभवे सत्युपलब्धेरिति ।

यदा तु सत्त्वाद्यभ्युपगम इति ।
विषयविपर्ययस्सूच्यते तदावरणाद्यसभवे सत्यनुपलब्धेरसत्त्वमित्यस्य विपर्यय एवं प्रयोक्तव्यः ।
सत्त्वोपगमे चावरणाद्यसंभवे सत्युपलभ्येतेति अस्य विपर्ययस्याव्यभिचाराद् नार्थापत्तिसम इत्यर्थः ॥ ३१ ॥

न्या.सू._५,१.३२: साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः ॥

अस्ति घटेनानित्येन सर्वभावानां सत्त्वं साधर्म्यमिति ॥ ३२ ॥

न्या.सू._५,१.३३: साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्यात् ॥

अस्य प्रत्याख्यानसूत्रम् । साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्याच्च (सू. ३३)

न्या.सू._५,१.३४: दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथा भावान्नाविशेषः ॥

तदिदं जातिवादिना साम्यमापाद्य परमार्थप्रतिषेधमाह ।
दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथाभावान्नाविशेषः (सू. ३४) ॥

साधर्म्यामात्रं चाश्रित्यसाध्या विनाभावरहितमिति । देश्यवार्त्तिकमविशेषसमात इति । परिहरति भिद्यत इति । यच्चाविशेषसमौत्तरमिति । (५४५।७) सर्वानित्यत्वं हि प्रसञ्जयता न शब्दानित्यत्वं निषिद्धं भवतीति तत्रोक्तमित्यर्थः । अत्र शङ्कते नासाधनादिति । परिहरति । न विशेषहेतूपपत्तेरिति । सुगममन्यत् ॥ ३४ ॥

न्या.सू._५,१.३५: नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः ॥

धर्मस्य सर्वदा भावाद्धर्मिणोऽपि सर्वदा भावः न ह्यस्ति संभवः सामान्यसमवायातिरिक्तधर्मा नित्या धर्मी चानित्य इति ॥ ३५ ॥

न्या.सू._५,१.३६: प्रतिषेध्ये नित्यमनित्यभावादनित्येऽनित्यत्वोपपत्तेः प्रतिषेधाभावः ॥

अस्य प्रत्यादेशसूत्रम् । प्रतिषेध्ये नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेः प्रतिषेधाभावः (सू. ३६) नित्यमनित्यभावादिति हेतोरभ्युपगमेऽनभ्युपगमे च दोष इत्यर्थः । उत्पन्नस्य निरोधादभावः शब्दस्यानित्यत्वम् । तत्र च परिप्रश्नानुपपत्तिः । यदि हि निरोधकादभावोऽनित्यत्वं तथापि प्रश्नानुपपत्तिः । अथाप्यस्मन्मते समवायस्तथाऽपि तदनुपपत्तिः अनित्यत्वं हि शब्दस्यापरान्ताव च्छिन्नसत्तासमवायः । न चासौ शब्दाधेयस्तस्य स्वतन्त्रत्वादेवेत्यर्थः । वार्तिकम् । पृथगधर्मत्वेनानित्यत्वस्यानभ्युपगमादिति । (५४६।८) अनात्यन्तिकसत्तासमवायो ह्यनित्यता न चासौ समवायात्पृग्रग्धर्मो न च समवायोऽपि धर्मोऽनाश्रितत्वात्पारतन्त्र्येण तु निरूपणात्कथं चिद्धर्मीत्युच्यत इति । अपि चानात्यन्तिकसत्तायोगोऽनित्यतेत्युक्ते न युक्तः प्रश्न इति । न हि घटमानयेति प्रेषितः परिवृत्य पृच्छति किं घट आनेतव्य उत पट इति तादृशमेतदित्यर्थः । अपि चानित्यता नित्नपयाऽनित्या वेति विकल्पो नावतरति विरोधादित्यत आह । आत्यन्तिकानात्यन्तिकभावयोगश्चैकस्येति । शङ्कते प्रतिषेध्येति ।

एवमभ्युपगच्छतोऽयं दोष इत्येतत्परमेतद् न तु स्वपक्षोपवर्णनपरमेतदिति शङ्कार्थः ।
निराकरोति न विकल्पानुपपत्तेरिति ।
विरोधस्य चोक्तोत्तरत्वादिति ।
परिप्रश्नानुपपत्तेरित्युत्तरं विरोधस्योक्तमित्यर्थः ॥ ३६ ॥

न्या.सू._५,१.३७: प्रयत्नकार्यानेकत्वात् कार्यसमः ॥

उदाहरणवपूर्वकमस्यार्थं व्याचष्टे प्रयत्नानन्तरीयकत्वादनित्यः शब्द इति । कार्यत्वानित्यत्वे च परस्परासंकीर्णे प्रथम एवाध्यायेदर्शिते । उदाहृत्य जातिमवतारयति । एवमवस्थिते प्रयत्नकार्यानेकत्वादिति प्रतिषेध उच्यत इति । प्रयत्नानन्तरीयकत्वं प्रयत्नानन्तरोत्पादो वा स्यात् प्रयत्नानन्तरोपलम्भो वा । न तावत्पूर्वः कल्पोऽसिद्धत्वात् । तस्मात्प्रयत्नानन्तरोपलम्भ आस्थेयः तत्र कार्यसमं प्रतिषेधमाह प्रयत्नानन्तरमुपलभ्यमानानां प्रयत्नानन्तरमात्मलाभश्च दृष्टो यथा घटादीनां व्यवधानापोहाच्चाभिव्यक्तिर्व्यवहितानां मूलककीलकादीनां, तत्किं प्रयत्नानन्तरमात्मलाभः शब्दस्याहो स्विदभिव्यक्तिरिति विशेषो नास्ति । तदेवं कार्याविशेषेण प्रत्यवस्थानं कार्यसमः । येन तु कार्यसमा जातिरन्यथैवोक्ता तद्यथाऽनित्यः शब्दः कृतकत्वाद् घटवदित्युक्ते अन्यद् मृत्पिण्डादिकार्यत्वं घटस्य अन्यच्च विवक्षाप्रयत्नवायुप्रेरणाभिघातकार्यत्वं शब्दस्य तस्माच्छब्दकृतकत्वस्य घटादिकृतकत्वाद्भेदान्न साधनं कृतकत्त्वमनित्यत्वस्येति । सेयं कार्यान्यत्वेन प्रत्यवस्थानात्कार्यसमेति ।

तदाह कार्यत्वान्यत्वलेशेन यत्साध्यासिद्धिदर्शनं तत्कार्यसममिति भदन्तेनोक्तम् ।
कीर्तिरप्याह ।
ऽसाध्येनानुगमात्कार्यसामान्येनापि साधने ।
सम्बन्धिभेदाद्भेदोक्तिर्देषः कार्यसमो मतऽ इति ॥

तदनेन यदीश्वरसाधननिरालरणायोक्तम्तनुगिरिसागरादीनामन्यत्कार्यत्वम् अन्यच्च प्रासादाट्टालगोपुरादीना मिति तदपि जात्युत्तरमेनेत्युक्तं भवति । न च प्रत्यक्षदृश्यमानं बुद्धिमदन्वयव्यतिरेकानुविधानं सौधादीनामिव तनुभुवनादीनां तास्तीत्येतावता भेदेन कार्यभेदे शब्दमात्राभेद इति साप्रन्तम् । अभूत्वा भावलक्षणस्य कृतकत्वस्य संस्थानवत्त्वस्य वा वस्तुन एवाभेदात् तस्मादेतदप्ययुक्तम् ।ऽवस्तुभेदे प्रवृत्तेपि शब्दसाम्यादभेदिनः । न युक्ताऽनुमितिः पाण्डुद्रव्यादिव हुताशनेऽ । न चेयं जातिरुत्कर्षापकर्षसमाभ्यां भिद्यते साध्यदृष्टान्तयोर्धर्मविकल्पेन प्रवर्तमानत्वात्तस्मात्सूत्रकारोक्त एव कार्यसमोसंकीर्ण इति युक्तमुत्पश्यामः ॥ ३७ ॥

न्या.सू._५,१.३८: कार्यान्यत्वे प्रयत्नाहेतुत्वम् अनुपलब्धिकारणोपपत्तेः ॥

अस्य प्रत्यादेशसूत्रम् ।
कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः (सू. ३८) ॥

कार्यस्योत्पत्तिर्न लक्षणस्यान्यत्वेऽभिव्यक्तिलक्षणात्कार्यात्प्रयत्नस्याभिव्यक्तिं प्रत्यहेतुत्वं न भवतीत्यत आह । अनुपलब्धिकारणस्यावरणादेरुपपत्तेरभिव्यक्तिहेतुत्वं स्याद् एवं तु नास्तीति व्यतिरेकपरं द्रष्टव्यम् । सति कार्यान्यत्व इति भाष्यं सूत्रवद्योजनीयम् । यत्र प्रयत्नानन्तरमित्यत्र यत्रतत्रयोर्व्यत्यासः तत्र प्रयत्नानन्तरमभिव्यक्तिर्यत्रानुपलब्धिकारणं व्यवधानमुपपद्यत इति । कस्मादनुपलब्धिकारणोपपत्तेः प्रयत्नाभिव्यङ्ग्यत्वमित्यत आह । व्यवधानायोगाच्चेति । (५०५।१) चो हेत्वर्थे । प्रयत्नानन्तरभाविन इति । विषयेण विषयिणमुपलक्षयति प्रयत्नानन्तरभाविन इत्यर्थः । अनुपलब्धिकारणोपपत्तेरित्यस्य व्यतिरेकप्रधानतामाह । न तु शब्दस्यानुपलब्धीति । देश्यवार्तिकं संशयसमात इति । (५४७।७) परिहरति उभयसाधर्म्यादिति । विशेषानुपलब्धौ सत्यामुभयसाधर्म्यात्संशयसमः । इदं तु विशेषोपलब्धिमविवक्षित्वेति विशेषः । तदिदमुक्तमयं तु न तथेति । देशयति साधर्म्यसमात इति । निराकरोति न हेत्त्वध्यारोपणादिति ।

प्रयत्नानन्तरीयकत्वादित्ययं प्रयत्नानन्तरमुपलब्धेरित्यध्यारोप्य प्रतिषिध्यते ।
साधर्म्यसमे तु नारोपणमित्यर्थः ।
तदेवं जात्युत्तरवादिनं प्रति साधनवादिना सर्वत्रैव सम्यक् समाधानं स्वसाधनस्य वक्तव्यम् ।
एवं सति तत्त्वनिर्णये कथापर्यवसानं भवति ॥ ३८ ॥

न्या.सू._५,१.३९: प्रतिषेधे ःपि समानो दोषः ॥

यदि पुनर्वाद्यपि जातिवादिनं प्रति साधनाभासेन प्रतयवतिष्ठते ततः षट्पक्ष्यां सत्यां न तत्त्वनिर्णयावसाना कथा भवेदिति शिष्यहितः सूत्रकारः समाधानाभासवादिनं प्रति षट्पक्षीमवतारयति ।
प्रतिषेधेऽपि समानो दोषः (सू. ३९) ॥

तदेतत्सूनत्रावतारपरं भाष्यं हेतोश्चेदनैकान्तिकत्वमुपपाद्यते प्रतिवादिनेऽनैकान्तिकत्वादसाधकः स्यादिति । यदि चानैकान्तिकत्वादसाधकं वादिनो वचनं प्रतिषेधेऽपि समानो दोषः । योऽयं प्रयत्नकार्यानेकत्वादिति प्रतिषेधो जातिवादिननः सोऽप्यनैकान्तिकः । एवं ह्यैकान्तिकः स्याद्यदि सर्वमेव प्रतिषेधेद् यतस्तु किं चित्प्रतिषेधति किं चिच्च न, तस्मादयमनैकान्तिकः अतोऽसाधक इत्यर्थः ।

व्याख्यान्तरमाह ।
अथ वा शब्दस्येति ।
नित्यपक्षोऽभिव्यक्तिर्नोत्पाद एवमनित्यपक्षे उत्पादो नाभिव्यक्तिरित्ययं विशेषो न सिध्यत्ययं प्रतिषेधेऽपि समानो दोष इत्यर्थः ॥ ३९ ॥

न्या.सू._५,१.४०: सर्वत्रैवम् ॥

न केवलमस्यां जातावयं समाधानाभासो वादिनोऽपि तु सर्वत्रैव जाताविति शिष्यान् शिक्षयति सूत्रकारः । सर्वत्रैवम् (सू. ४०) ॥ अस्मिन्समाधाने प्रयुक्ते वादिना पुनर्जातिवादी प्रत्यवतिष्ठते ।

न्या.सू._५,१.४१: प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद्दोषः ॥

प्रतिषेधो जातिवादिनस्तस्य विप्रतिषेधो मूलसाधनवादिनस्तस्मिंस्तुल्यो दोष इति जातिवादिनः प्रत्यवस्थानमित्यर्थः ॥ ४१ ॥

न्या.सू._५,१.४२: प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा ॥

अथ पञ्चमं पक्षं साधनवादिनश्चतुर्थपक्षवादिनं प्रति मतानुज्ञापापादनमाह ।
प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा (सू. ४२) ॥

न्या.सू._५,१.४३: स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषाभ्युपगमात् समानो दोषः ॥

सेयं मतानुज्ञा तृतीये पक्षे पञ्चमपक्षवादिनोऽपि साधन वादिन इति जातिवादी षष्ठपक्षस्थित आह ।

स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारहेतुनिर्देशे परपक्षदोषाभ्युपगमात्समानो दोषः (सू. ४३) ॥

स्वपक्षणे लक्ष्यते तदुत्थानत्वाज्जातिः स्वपक्षलक्षणा अनैकान्तिकत्वोद्भावनलक्षणा तामभ्युपेत्य अनुद्धूत्य प्रतिषेधेऽपि जातिलक्षणे समानोऽनैकान्तिकत्वदोष इत्युपपद्यमानं स्वपक्षेऽपि दोषं परपक्षे जातिवादिपक्षे साधनवाद्युपसंहरति । तत्र चानैकान्तिकं हेतुं ब्रूते तदेवं स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्द्देशे परपक्षे यत्स्वयं दूषणं दत्तं तस्याभ्युपगमाद्वादिनोऽपि समानोव दोष इति । जातिवादिनो वचनं षष्ठे पक्षे स्थितस्य तदेवं विस्तीर्य संकलय्याह । तत्र खलु स्थापनाहेतुवादिन इति । सेयं षट्पक्षी समानदोषापादनेनानिर्णायकत्वात्पौनरुक्त्याच्च न तत्त्वनिर्णयाय पर्याप्ता, तस्मात्समाधानाभासेन जातिवादिनं प्रति न प्रत्यवस्थेयं, किं तु सम्यक् साधनेन, तथा च षट्रपक्षी उपहतानावतरति । तत्त्वनिर्णयपर्यवसाना च कथा भवति ।

यदि त्वस्य कदा चित्सम्यक्साधनवादिनोऽपि प्रतिभाक्षयात्समाधानं न स्फुरति ततोऽत्यन्तपराजयाद्वरं संशयोऽपीति न्यायेन समाधानाभासेनापि प्रत्यवस्थेयमेवेत्याशयवानाह ।
तेषां साध्वसाधुतायामिति ।
भाष्यव्याख्यया वार्तिकमपि व्याख्यातम् ।
एतास्तु जातयो न तत्त्वविवेकमुपकुर्वन्ति प्रयुज्यमानतया निराकरणीयतया त्वासामप्युपकार इति ॥ ४१ ॥

इति मिश्रश्रीवाचस्पतिविरचितायां न्यायवार्तिकतात्पर्यटीकायां

पञ्चमस्याध्यायस्याद्यमाह्निकम् ॥

मिश्रश्रीवाचस्पतिविरचितायां न्यायवार्तिकतात्पर्यटीकायां

पञ्चमोध्यायः

न्या.सू._५,२.१: प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो हेत्वन्तरमर्थान्तरं निरर्थकम् अविज्ञातार्थम् अपार्थकम् अप्राप्तकालं न्यूनमधिकं पुनरुक्तम् अननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि ॥

विप्रतिपत्त्यप्रतिपत्त्योर्विकल्पाद्वैचित्र्यान्निग्रहस्थानबहुत्वमिति सङ्क्षेपेणोक्तं तदिदानीं विभजनीयम् । तत्र य एवमाहुः सर्वोऽयं साधनदूषणप्रकारो बुद्ध्यारूढो न वास्तव इति । तान् प्रत्याह पराजयवस्तूनीति । पराजयो वसत्येष्विति पराजयस्थानानीत्यर्थः । काल्पनिकत्वे कल्पनायाः सर्वत्र सुलभत्वात्साधनदूषणव्यवस्था न स्यादिति भावः । निग्रहस्थानानि पर्यायान्तरेण स्पष्टयति । अपराधेति । य आहुरसाधनाङ्गं वचनमदोषोद्भावनं द्वयोर्निग्रहस्थानत्वमन्यत्तु न युक्तमिति तान् प्रत्याह । सामान्यतो द्वे निग्रहस्थाने । सामान्यविवक्षायां प्रतिज्ञाहान्यादयो द्वार्विशतिरपि न भिद्यन्ते तत्त्वसाधनाङ्गं वचनमदोषोद्भावनमिति भवद्भिः संगृहीतमृषिणा च विप्रतिपत्त्यप्रतिपत्तिभ्यामिति न कश्चिद्विशेषः । अत्र विचारयति कर्तृकर्मकरणानामिति । तत्रैके वर्णयन्ति पक्षस्येति । (५४९।१३) यथा पक्षोद्देशेन साधनं प्रवर्तमानं पक्षस्य एवं तदुद्देशेन दूषणानि प्रवर्तमानानि पक्षस्यैवेति । एवं चाहुर्दूषणानीति । न्यूनतादयो हि सर्वे पक्षोद्देशेन प्रवर्तमानाः पक्षस्यैवेत्यर्थः । दूषयति एतत्तु न सम्यगिति । पक्षोद्देशेन प्रवृत्तेः पक्षविषयतां नापजानीमः साक्षात्तु तद्विषयतां निराकुर्मः । तस्य वस्तुसतस्तादवस्थ्यात् । एवं साधनमपि यत्रासमर्थं तत्र प्रयुज्यमानं न स्वतो दुष्यति यत्र तु समर्थं तत्साधयत्येव तस्मात्कर्तुरेव दोष इत्याह । तस्मादसमर्थयोरिति । (५५०।१) न केवलं स्वातन्त्र्यात्कर्तुर्निग्रहोऽपि तु तदाधारत्वाद्विप्रतिपत्त्यप्रतिपत्त्योरित्याह । विप्रतिपत्त्यप्रतिपपत्त्योश्चेति । ननु वाक्ये न्यूनतादयो दोषा न पुरुषाश्रया इत्यत आह । विप्रतिपत्त्यप्रतिपत्ती चेति । न स्वरूपेण वाक्यं दुष्टं तस्य तादवस्थ्यादित्युक्तं किं तु पुरुषस्य विप्रतिपत्त्यप्रतिपत्तिभ्यां तथा प्रतिभाति तेन वाक्यगतन्यूनतादिदर्शनात्पुरुषे विप्रतिप्रत्त्यप्रतिपती प्रतीयेते तेन द्वारेण पुरुषो निगृह्यते न तु वाक्यमेतावता च प्रतिज्ञादोष इत्युच्यते । नचायमपि नियमो यद्वाक्यद्वारेण पुरुषी निगृह्यते अज्ञानादिषु तदभावादि त्याह । कानि चिन्निग्रहस्थानीति । शङ्कते द्वविध्यानुपपत्तिरिति । सामान्यं विवक्ष्यते विशेषो वा सामान्यविवक्षायां निग्रहस्थानमित्येवास्तु तस्य सर्वत्राविशेषाकुतो द्वैविध्यं विशेषविवक्षायां प्रतिज्ञाहान्यादीनि बहूनीत्ययुक्तं द्वैविध्याभिधानमुभयथाऽपीत्यर्थः । निराकरोति न सामान्यभेदविस्तरस्य विवक्षातः प्रवृत्तेरिति । सामान्यविवक्षायामपि निग्रहस्थानमिति नोक्तम् उद्देशादविशेषप्रसङ्गात् । तस्मात् लक्षणं प्रणयताऽन्यथा तदसम्भवादवान्तरसामान्यद्वैविध्यविवक्षया सामान्यं लक्षितम् । भेदानां तु विस्तरविवक्षया प्रतिज्ञाहान्या दयोऽपि प्रपञ्चिता इत्यर्थः । आन्तर्गणिकानां तु भेदानामानन्त्यमित्याह । उदाहरणमात्रत्वाच्चेति । द्वाविंशतिसंख्यावच्छिन्नो भेद उदाहरणमात्रम् । आन्तर्गणिकभेदविवक्षयां त्वानन्त्यमित्यर्थः । भाष्यमनुभाष्याक्षिवपति प्रायेण प्रतिज्ञेति । समाधत्ते क्रियावचनदोषद्वारेणेति । (५५१।१) वचनदोषद्वारेणेत्येतावन्मात्रे वक्तव्ये क्रियादोषामिधानं दृष्टान्तार्थम् । नन्वाश्रयार्थोऽप्ययुक्तः पुरुषाश्रयत्वादित्यत आह । न चाधाराधेयभाव इति । अपरमपि भाष्यमनुभाष्याक्षिपति तत्त्ववादिनमतत्त्ववादिनं चेति ।

समाधत्ते ।
न परापदिष्टेति ।
सम्यम् साधने जात्युत्तरे दत्ते तस्य जातित्वमनुद्भावयंस्तत्त्ववाद्यपि निगृह्यतैत्यर्थः ॥ १ ॥

न्या.सू._५,२.२: प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ॥

लक्षणं तु ।
प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः (सू. २) ॥

तदेतत्सूत्रं भाष्यमतेन तावद् व्याचष्टे प्रतिदृष्टान्तस्य योधर्मस्तं यदा स्वदृष्टान्तेऽभ्यनुजानातीति । तदेतद्भाष्यव्याख्यानमुपन्यस्य वार्त्तिककारो दूषयति । एतत्तु न बुध्यामहे कधमत्र प्रतिज्ञा हीयत इति । अनित्यः शब्द ऐन्द्रियकत्वाद् घटवदिति साधने प्रयुक्ते प्रतिवादिना चानैकान्तिकत्वे सामान्येनोद्भाविते तृतीयस्थानपतितो वाद्याह । अस्तु तर्हि सामान्यवद् घटादिर्नित्य इति । तथा सत्यैन्द्रियकत्वमनैकान्तिकं न भवति नित्यमात्रागामित्वाद् घटादीनामपि नित्यताभ्युपगमादित्याशयेन यद्यपपि तथाऽपि साक्षादनैकान्तिकदोषोद्वारमक्षरारूढमनुक्वा स्वदृष्टान्ते नित्यतां प्रतिपद्यते, नित्यताप्रतिपत्तेश्चासिद्धता दृष्टान्ते दोषो भवति साध्यविकलतेत्यर्थः । सोऽयं दृष्टान्तदोषेण हेतुदोषेण वा विरुद्धत्वेन घटादीनामपि नित्यत्वाभ्युपगमेनैन्द्रिनयकत्वस्य हेतोः साध्यानित्यत्वविरुद्धेन नित्यत्वेन व्याप्तत्वाद् निग्रहो वादिनो न प्रतिज्ञाहानिः । न खल्वनेनास्तु शब्दो नित्य इतिप्रतिज्ञा परित्यक्ता किं त्वस्तु घटोऽपि नित्य इत्युक्तम् । यदि दृष्टान्तपरित्यागेन प्रतिज्ञातार्थस्यासिद्धेः प्रतिज्ञाहानिरित्युच्यते ततः सर्व एव दोषः प्रतिज्ञाहानिः सर्वस्मादेव दोषात्प्रतिज्ञाहानेरुपपत्तेः । तस्मात्कथं चिद् दृष्टान्तपरित्यागेन प्रतिज्ञाहानिरुपचरितव्नया च चासौ प्रधानं प्रतिज्ञाहानिं विना भवितुमर्हतीत्याह । दृष्टान्तं चजहदिति । (५५२।३) तदेवं भाष्यकरीयं व्याख्यानं दूषयित्वा स्वमतेन व्याचिख्यासुः पृच्छति । कथं तर्हीति । दृष्टश्चासावन्ते निगमने व्यवस्थित इति दृष्टान्तः । दृष्टान्तप्रतिदृष्टान्तौ पक्षप्रतिपक्षावुच्येते । एतदुक्तं भवति । प्रतिदृष्टान्तस्य प्रतिपक्षस्य सामान्यस्य यो धर्मो नित्यत्वं तं स्वपक्षे शब्देऽभ्यनुजानाति । उदाहरणमाह । यथानित्यः शब्द ऐन्द्रियकत्वादिति । द्वितीयपक्षवादिति सामान्येन प्रतयवस्थितैदमाह तृतीयपक्षे स्थितो वादी यदि सामान्यमैन्द्रिपयकं नित्यं शब्दोऽप्येवं भवत्विति । प्रतिज्ञाहानिः । अत्र चानैकान्तिकत्वेन प्रत्यवस्थितैत्युपलक्षणं येन केन चित्ग्नकारेण स्वप्रतिज्ञातार्थानिर्वाहं पश्यन् प्रतिज्ञार्थञ्जहत्प्रतिज्ञाहानिमाप्नोतीति परमार्थः । यदप्युच्यते स्वयमेव घटमनित्यमैन्द्रियकमुदाहृत्य घटस्यैन्द्रियकत्वं पश्यन् कथमनुन्मतः सन् सामान्यस्य नित्यस्यैन्द्रियकत्वदर्शनमात्राच्छब्दे नित्यत्त्वमभ्युपगच्छेत्किन्तूभयत्रदर्शनात्संशयित्तः स्यात् तत्र सर्वं नित्य मिति सांख्यीयराद्धान्तावष्टम्भेनापि स्वपक्षनिर्वाहं पश्यतोऽनैकान्तिकत्वोद्धाराय प्रेक्षावतोऽपि प्रवृत्तिसम्भवात् । न चात्यन्तिकं प्रेक्षावत्त्वमिह ग्राह्यम् । तादृशस्यनिग्रहाधिकरणत्वानुपपत्तेः । तस्माद्यथा जडं प्रति विचारो नास्त्येवं प्रामाणिकमपि प्रति निग्रहावतातारो नास्तीति मध्यमो जनो निग्राह्यः । तस्य च सम्भवन्त्येवं प्रमादा इति । शङ्कते । प्रसङ्गविधानादिति चेत् । निराकरोति तच्च न अत एव तत्प्राप्तेः । हेतुदोषमुद्दिधीर्षुः प्रसञ्जयन्नभ्युपगच्छत्येव न हि साङ्ख्यीयं राद्धान्तमनभ्युपगच्छन्ननैकान्तिकत्वमुद्धर्तुमर्हतीति भावः । तदनेन परमतं निराकृतप्रायमपि साक्षान्निराकर्त्तुमुपन्यस्यति । हेतुदोषेणानैकान्तिकत्वलक्षणेन चरितार्थत्वान्न प्रतिज्ञाहानि र्निग्रहस्थानमित्यन्ये । (५५३।१) यदाह कीर्तिः ।

ऽतस्मादैन्द्रियक त्वस्य नित्यानित्यपक्षवृत्तेर्व्यभिचारादसाधनाङ्गस्योपादानान्निग्रहो न प्रतिपक्षधर्मस्याभ्यनुज्ञानादिति ।
निराकरोति ।
नानैकान्तिकदोषपरिहारेण विप्रतिपत्तेस्तदुपपत्तेः ।
यदा हि सांख्यपक्षावलम्बनेन शब्दनित्यत्वमभ्युप इति तदा प्रतिज्ञाहानिः न विरुद्धो हेतुर्नाप्यनैकान्तिको विपक्षाभावात् केवलं प्रतिज्ञातार्थहानमेवास्य पराजयस्थानं, विप्रतिपत्तेः स्वसाध्यविरुद्धप्रतिपत्तेरिति सर्वमवदातम् ॥ २ ॥

न्या.सू._५,२.३: प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरम् ॥

एतद्व्याचष्टे प्रतिज्ञातो मीमांसकं प्रति वैशेषिकेणानित्यः शब्दः इति तस्य साधनमैन्र्दियकत्वाद्धटवदिति एवमुक्तस्य प्रतिषेधो मीमांसकेन क्रियते प्रतिदृष्टान्तेन हेतुव्यभिचारः तमाह सामान्यमैन्द्रियकं नित्यमिति । तस्मिन्प्रतिषेधे मीमांसकेन कृते धर्मवविकल्पात्तथा निर्द्देनश इति यावन्नोचयते तावदर्धोक्त एव धर्मविकल्पादित्यनूद्य व्याचष्टे । दृष्टान्तप्रतिदृष्टान्तयोर् धटसामान्ययोः साधर्म्यमैन्द्रियकत्वं तद्योगे तद्धर्मभेदात् सामान्य मैन्द्रियकं सर्वगतमैन्द्रियकस्त्वसर्वगतो घट इति धर्मविकल्पात्तदर्थं प्रति ज्ञातार्थसिद्ध्यर्थं शब्दस्यासर्वगतत्वं मीमांसकानां प्रतिपादयितुं निर्द्देशः तस्य हि शब्दस्यासर्वगतत्वमसिद्धम् । प्रश्नपूर्वकं निर्द्देशस्वरूपमाह कथम् । यथा घटोऽसर्वगतोऽनित्य इति एवं शब्दोऽप्यसर्वगतोऽनित्य इति । इदं हि प्रतिज्ञावाक्यम् अनित्यः शब्द इतिवदसर्वगतः शब्द इति मीमांसकं विप्रतिपन्नं प्रति निर्द्देशान्न तु कृतकत्वादितिवदुदाहरणसाधर्म्यादस्य हेतुलक्षणमस्ति साध्यनिर्देशः प्रतिज्ञेति तु प्रतिज्ञालक्षणयोगात्प्रतिज्ञान्तरमेव यद्यप्यस्य मनसिविपरिवर्तते असर्वतत्वं साधयित्वा मया असर्वगतत्वे सतीति ऐन्द्रियकत्वं हेतुर्विशेषणीय इति तथाप्येतदनेन न कृतं किं त्वसर्वगतः शब्दो घटवदित्युक्त्वैव विरतः परार्थानुमाने च वचनगता गुणदोषा विचार्यन्ते न तु वचनानपेक्षं वस्तु, तदिदमाह असर्वगतः शब्द इति द्वितीया प्रतिज्ञा हेतुरहिता । अस्य प्रश्नपूर्वकं निग्रहस्थानत्वमाह तत्कथमिति । अनर्थकं निष्प्रयोजनमिष्टार्थसिद्धेरभावादिति । वार्त्तिकं तत्रानित्यः शब्द इति प्रतिज्ञाप प्रथमा । अस्यां सामान्येनैन्द्रियकेण हेतोरनैकान्तिकत्वात्प्रतिहतो वादी प्रतिवादिना असर्वगतः शब्दोऽनित्य इति प्रतिज्ञान्तरं पूर्वप्रतिज्ञासिद्ध्यर्थं करोतीत्यनुषज्यते । पृच्छति कथमिति । उत्तरम् । साधनसामर्थ्याप्रज्ञानात् । अनित्यः शब्द ऐन्द्रियकत्वाद् घटवदित्येताववदुक्त्वा निराकाङ्क्षो वादी न त्वसर्वगतत्वे सतीति साधनं विशेषितवान् न चाविशिष्टं साधनमत्रार्थेऽसमर्थं विशिष्टं तु समर्थं तस्य सामर्थ्यमपरिज्ञायाविशिष्टे तदारोप्याविशिष्टसाधनं प्रयुक्तवान् । तत्र निराकाङ्क्षो वादी सव्यभिचारहेतुप्रयोगादेव पराजीयते न तु प्रतिज्ञान्तरप्रयोगात् । यदि तु वादिन्यपर्यवसितवाद एव मध्ये प्रतिवादिना हेतोरनैकान्तिकत्वे उद्भाविते तमेवहेतुमसर्वगतत्वे सतीति विशेष्टुं मीमांसके प्रति शब्दस्यासर्वगतत्वं प्रतिजातीते । असर्वगतः शब्द इति प्रतिज्ञाय च न हेतुं ब्रवीति तदानैकान्तिकत्वोद्धाराय प्रतिज्ञान्तरकरणान्नानैकान्तिकत्वेन पराजीयते अपि तु प्रतिज्ञान्तरादेव, न हि प्रतिज्ञा प्रतिज्ञान्तरं साधयितुमर्हतीति । सोऽयं प्रतिज्ञांमात्रस्यासाधकत्वाप्रतिपत्त्याऽसाधकस्यैव वा साधकत्वप्रतिपत्त्या पराजीयते । तदेतदाह न च प्रतिज्ञा प्रतिज्ञान्तरं साधयति । तेन प्रतिज्ञा यत्रार्थे समार्था तदपरिज्ञानात्पञ्चावयवसाध्ये च सामर्थ्यारोपणादपरिज्ञानादिति श्लिष्टनिर्द्देशः प्रसज्यप्रतिषेधपर्युदासौ विवक्षितौ तेनाज्ञानाद्विपरीतज्ञानाच्च प्रतिज्ञान्तरं निग्रहस्थानमिति । यत्पुनरुच्यते परैः अत्यन्तासम्बद्धमेतद् यत्प्रतिज्ञा प्रतिज्ञासाधनायेति यो हि प्राक् प्रतिज्ञामुक्त्वा हेतूदाहरणादिकं वक्तुं जानाति स कथं चिदनुक्रमं साधनस्य जानात्येव जानन् कथमवि कलान्तःकरणः प्रतिज्ञामेव प्रतिज्ञानसाधनायोपाददीतेति । तत्र ब्रूमः

नायं प्रतिज्ञया प्रतिज्ञा साधनीयेति बुद्ध्या प्रवृत्तः किं त्वसर्वगतत्वं शब्दस्य मीमांसकं प्रति साधयित्वा तेनैन्द्रियकत्वं विशिष्यानैकान्तिकत्वमुद्धरणीयमिति मनोरथेन प्रवृत्तः प्रतिज्ञां कृतवान् असर्वगतः शब्द इति ।
अथास्य प्रतिवाद्यवष्टम्भात्परिषद्दर्शनाद्वा स्तम्भितत्वे साधनाप्रतिभनया तूष्णीं भवतः प्रेक्षावतोऽपि प्रतिज्ञान्तरं भवति निग्रहस्थानम् ।
अयं च विकलान्तःकरणस्य निग्रहो भवद्भिरप्युक्त एव तदभ्युपगम्याप्रतिभया तूष्णींभावादिति वदद्भिः सोऽयमीदृशोऽसत्प्रलापो भवद्भिः शास्त्रे निबन्धनीयोन त्वस्माभिरिति व्यक्तमियं राजकुलस्थितिरिति सर्वं चतुरसम् ॥ ३ ॥

न्या.सू._५,२.४: प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ॥

अत्र प्रतिज्ञाहेत्वोरिति प्रतियोगिद्वयमात्रोपलक्षणपरम् । तेन दृष्टान्तादयोऽपि प्रतियोगिन उन्नेयाः । एतदुक्तं भवति येषां वाक्यगतानां पदार्थानां मिथो व्याघातः प्रतीयते प्रमाणान्तरं च विरोधकं स विरोधो नाम निग्रहस्थानम्१ लक्ष्यस्थितस्पय प्रतिज्ञाग्रहणस्याप्युपलक्षणार्थत्वात् । नचैवं भाण्डालेख्यन्यायः एकदेशेनाव्यापकेन समुदायसंग्रहे स हि भवति, न तु व्यापकेन संग्रहे व्यापकं चानवयवेन इदंप्रतियोगिमिथुनयोर्विरोधः अतो यथाश्रुति तावित्सूत्रं व्याचष्टे वार्तिककारः यत्र प्रतिज्ञा हेतुना विरुध्यत इति । द्वयोर्विरोधे यस्य प्रमाणान्तरानुग्रहस्तेन तद्बाध्यत इति तेन तद्विरुध्यतैत्युच्यते । यत्र प्रतिज्ञया हेतुर्विरुध्यते तदुदाहरति । यथा गुणव्यतिरिक्तं द्रव्यं भेदेनाग्रहणादिति । अत्र हि भेदेनाग्रहणादित्यनेन ग्रहणप्रतिषेधेन ग्राह्याभाव उपलक्ष्यते । तेनैवं हेत्वर्थो भवति गुणव्यतिरिक्तं द्रव्यमव्यतिरेकादिति । सोऽयं प्रतिज्ञाहेतुपदयोर्व्याप्तिस्मरणानपेक्ष एव परस्परव्याघातोऽस्तितास्तिपदयोरेव । न चैवंविधः शब्दे नित्यत्वकृतकत्वयोर्येन कृतकत्ववद्विरुद्धोऽयं हेत्वाभासः स्यात् । तत्र हि कृतकत्वस्य नित्यत्वेन व्याप्तिस्मरणापेक्ष एव विरोधः प्रतीयते न त्वयं तथा अस्तिनास्तिवत्स्वभावविरोधात् । यद्यप्ययमसिद्धोऽपि हेतुस्तथाऽप्यस्यासिद्धिर्बाधकं प्रमाणान्तरमनुसृत्य प्रतिपत्तव्या प्रतिज्ञाविरोधस्तूच्चारणमात्रादेव प्रथमत एव गम्यत इति । तेनैव दूषितेनासिद्धिः पश्चात्तनी न दूषणत्वाय कल्पते भस्मीकृते दहनवत् । प्रतिज्ञाहेतुविरोधमात्रेण च निग्रहसिद्धेः सुहृद्भावमात्रेण प्रतिज्ञाया बलवत्तास्मरणम् । प्रतिज्ञायाश्चात्र बलवत्त्वं प्रमाणान्तरानुग्रहात् । तथा हि दर्शनस्पर्शनाभ्यामेकार्थप्रतिसंधानाद्रूपादिव्यतिरिक्तं द्रव्यं सिध्यतीति तदनुगृहीता प्रतिज्ञैव हेत्वर्थं बाधत इति । एतेनैवेति । लक्षणेन । श्रमणा गर्भिंणीति श्रमणा ब्रह्मचारिणी नान्तर्वत्नी भवितुमर्हति जितेन्द्रयस्योपस्थसंयमो हि ब्रह्मचर्यं, नचासाधनाङ्गस्य प्रतिज्ञाया वचनादेव निगृहीत इति कृतं विरोधोद्भावनेन निष्पादितक्रिये कर्मणि अविशेषाभिधायिनो दूषणस्य दूषणन्यायातिपातादिति सांप्रतम् । प्रतिज्ञायाः साधनाङ्गत्वस्य प्रथम एवाध्याये दर्शितत्वात् । हेतुविरोधोऽपि यत्र हेतुना प्रमाणान्तरेणानुगृहीतेन प्रतिज्ञा बाध्यते । यथा सर्वं पृथगिति प्रतिज्ञा न किं चिदेकमित्यर्थः । हेतुः समूहे भावशब्दप्रयोगादिति१ एकसमुच्चये घटादिप्रयोगादित्यर्थः । नास्त्येकमेकसमुच्चयश्चेति वचनं मिथो विरुध्यते विनैव व्याप्त्यनुस्मरणमिति । न च सर्वनास्तित्ववादिनो नैकसमुच्चयोवऽस्तीति वक्तव्यम् असति हेतौ साध्यसिद्धेरयोगात् । न च कल्पितस्य हेतोः साधनाङ्गतेति तत्र तत्र निवेदितम् । अत्र चैकसमुच्चयस्य प्रमाणानुग्रहान्नैकं किं चिदिति प्रतिज्ञा हेतुना बाध्यते । एतेन लक्षणेन प्रतिज्ञाया दृष्टान्तविरोधोऽपि वक्तव्यः । यथा नित्यः शब्दः प्रमेयत्वाद् यत्प्रमेयं तन्नित्यं यथाकाशमिति साधर्म्यदृष्टान्तः । यद्यप्यत्र वस्तुतो हेतुरनैकान्तिकस्तथाऽपि दृष्टान्तस्य प्रतिज्ञाविरोधेनैव निगृह्यते विरोधस्य वाक्ये प्रथममवगतेः । अनित्यं घटाद्युन्नीयानैकान्तिकत्वप्रतिपत्तेस्तज्जधन्यत्वादिति । हेतोश्च दृष्टान्तादिभिर्विरोध एतेन वक्तव्य इत्यनुषज्यते यथा नित्यः शब्द ऐन्द्रियकत्वादनैन्द्रियद्व्यणुकवदिति । अत्राप्यैन्द्रियकत्वानैन्द्रियकत्वयाः शब्दतो विरोधः प्रतीयते साधनवैकल्यं तु वस्तुस्वभावालोचनयेति विशेषः । एवमुपनयेन विरोधोऽनैन्द्रियकश्च शब्द इति । अत्रापि वस्तुस्वभावालोचनयाऽनैन्द्रियकत्वासिद्धिः प्रतीयते शब्दतस्तु विरोध इति । प्रमाणविरोधश्च प्रतिज्ञाहेत्वोर्वक्तव्यः । (५५४।१) यद्यपि बाधितविषयं हेत्वाभासान्तर्गतं तथापीहाप्यस्तीति विरोधहेत्वाभासयोरत्र निग्रहस्थानयोः समावेशोऽस्तु न क्व चिद्विषये समावेशादानर्थक्यम् । विषयान्तरे समावेशाभावादर्थवत्त्वात् । दर्शितं चानन्तरमेव भिन्नविषयत्वमिति । तदेवं साधनवादिनो विरोधं निग्रहस्थानमभिधायोत्तरवादिनोऽपि निग्रहस्थानमनेनैव संगृहीतमित्याह परपक्षसिद्धेन गोतवादिनेति । यदा हि बौद्धेन प्राभाकरं प्रति साध्यते अनित्यः शब्दः श्रावणत्वादिति । यद्यनित्यत्वं न भवेच्छ्रावणत्वं न स्यादिति प्राभाकरोऽनैकान्तिकत्वमुद्भावयति श्रावणं शब्दत्वं नित्यं चेति तदास्यानैकान्तिकत्वोद्भावनं स्वकीयशब्दत्वनिराकरणविरुद्धमिति । परपक्षसिद्धं गोत्वाद्यपीदृश एव विषये विरुद्धे द्रष्टव्यम् । सिद्धान्तविरुद्धं च साधनं विरुद्धमित्याह । स्वपक्षानपेक्षं च । ननु यद्यनैकान्तिकोद्भावनमपि विरुद्धं कस्तर्ह्यनैकान्तिकत्वापादनस्य विषय इत्यत् आह । उभयपक्षसम्प्रतिपन्नस्त्विति । देशयति । दृष्टान्ताभासा इति । अवयवान्तरं हि प्रतिज्ञाहेत्पवादिभ्य उदाहरणे तेन हेत्वाभासोक्त्या तस्य सङ्ग्रहः।पारम्पर्येण तूदाहरणाभासस्य हेतुदूषकत्वेन सर्वमेव हेतुदूषकमिति भावः । परिहरति हेत्वाभासपूर्वकत्वादिति । हेत्वाभासा इत्यत्र हेतुशब्दः स्वार्थमपरित्यज्य दृष्टान्तमुपलक्षयति । उपलक्षणे हेतुरुक्तः हेत्वाभासपूर्वकत्वाद्धेत्वाभासप्रधानकत्वाद् दृष्टान्ताभासेनापि हेतुरेव दूष्यते यतः । न चैतावता प्रतिज्ञादिदोषोपलक्षणप्रसङ्गः । न हि यत्र यत्र निमित्तमस्ति तत्सर्वमुपलक्षणीयं, किं तु यदुपलक्ष्यते तत्रावश्यं निमित्तं वक्तव्यम् ।

न च सूत्रकारस्य सर्वत्र लाघवादरो दृढ इत्युक्तम् ।
तस्मात्सर्वं रमणीयम् ॥ ४ ॥

न्या.सू._५,२.५: पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यासः ॥

ऐन्द्रियकत्वस्य हेतोरनैकान्तिङ्कत्वोद्भावनेन शब्दानित्यत्वपक्षे प्रतिक्षिप्ते वादी प्रतिवादिनं ब्रूयादनैकान्तिकत्वमुद्दिधीर्षुः कः पुनराहानित्यः शब्द इति । यद्यहमनित्यः शब्द इति प्रतिज्ञातमपह्वोतुं शक्नोति तदा न सामान्येन नित्येन मे हेतुरनैकान्तिको भवतीति बुद्ध्याऽह्नुपते सोऽयमेवंवादी न शक्योऽनैकान्तिकत्वेन जेतुम् । अपह्ववस्यापह्नवत्वावेदनेऽनैकान्तिकत्वोद्धारात्तस्मादनैकान्तिकस्यानैकान्तिकत्वस्थापनायापह्नवस्यापह्नवत्वमुद्भावनीयम् । तत्र किमपज्नवत्वमुद्भाव्यानैकान्तिकत्वं व्यवस्थाप्य निगृह्यतामुतापह्नवादेवेति संशयेऽपह्नवत्वोद्भावनेनैव पूर्वापरपराहते निर्गृह्यते नानैकान्तिकत्वेन तत्पूर्वकत्वादनैकान्तिकत्वस्थापनस्य । तस्माद्यदुक्तं कीर्तिना किमिदानीं हेत्वाभासादुत्तरप्रतिज्ञासंन्यासापेक्षया तस्य प्रतिवादिनो हेत्वाभास एवाद्यं निग्रहस्थानमिति तदप्यपास्त् ।

प्रतिज्ञासंन्यासस्यैव पूर्वभावित्वात् ।
यदपि तेनोक्तं पक्षप्रतिषेधे तूष्णींभवतस्तूष्णींभावो नाम निग्रहस्थानं प्रलपतश्च प्रलपितं नामेत्याद्यपि वाच्यं स्यादिति ।
तदप्यसांप्रतम् ।
न हि तूष्णीम्भावेन प्रलपितादिभिर्वा शक्यमनैकान्तिकत्वमुद्धर्तुं यथा प्रतिज्ञार्थापह्नवेन, न चैते हेत्वाभसोद्भावनस्य पुरस्तात्तनाः तस्मादेतदप्यनिरूपिताभिधानाद्यत्किञ्चिदिति ॥ ५ ॥

न्या.सू._५,२.६: अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ॥

व्याख्यातुं निदर्शनमाह निदर्शनमेकप्रकृतीदं व्यक्तं भूतभौतिकेन्द्रियमेकप्रकृतीनां विकाराणां परिमाणात् । तद्यथा एकमृत्पूर्वा घटशरावोदञ्जनादयः परिमिता दृष्टाः यावान् प्रकृतेर्व्यूहः संस्थानं तावान्विकार इति । न चैतदुदाहरणं साधनविकलमित्याह दृष्टं चेति । उपनयमाह अस्ति चेदमिति । निगमनमाह तदेकप्रकृतीनामिति । अस्य परिमितत्वस्य हेतोर्व्यभिचारेण प्रत्यवस्थानं प्रतिवादिनः । नानाप्रकृतीनां घटरुचकादीनामेकप्रकृतीनां च घटशरावादीनां दृष्टं परिमाणमिति । एवं प्रत्यस्थिते प्रतिवादिनि वादी पश्चात्परिमितत्वं हेतुं विशिनष्टि एकप्रकृतिसमन्वये सति शरावादिविकाराणां परिमाणदर्शनादिति । प्रकृतिः स्वभावः, एकस्वभावसमन्वये सतीत्यर्थः । एकप्रकृतिसमन्यवं स्फुटयति । सुखदुःखमोहसमन्वितं हीदं सर्वं व्यक्तं परिमितं गृह्यते । तथा हि । मेत्रदारेषु नर्मदायां मैत्रस्य सुखबुद्धिर्भवति तत्सपत्नीनां च दुःखबुद्धिः चैत्रस्य तामविन्दतो रणरणकवतो मोहो विभादः । नर्मदया भावान्तराणि व्याख्यातानि । तदेवं यत्रैकस्वभावसमन्वये सति परिमाणं तत्रैकप्रकृतित्वमेव तद्यथैकमृत्पिण्डस्वभावेषु घटशरावोदञ्चनादिषु । घटरुचकादयस्तु नैकस्वभावाः मार्दसौवर्णादीनां स्वभावानां भेदात् । निदर्श्यात्र सूत्रं योजयति तदिदमविशेषोक्ते हेतौ प्रतिषिद्ध इति । अस्य निग्रहस्थानत्वमाह । सति च हेत्वन्तरभाव इति । अपि च यदि हेत्वन्तरवचने विश्वमेकप्रकृति साध्यते तदा निदर्शनं नास्ति सर्वस्य पक्षे निक्षेपात् । अथ निदर्शनसिद्ध्यर्थं किं चित्पक्षाद्व्यतिरिच्यतेततस्तेनैवानैकान्तिकत्वम् । अन्वितानां परिमितानां भिन्नप्रकृतिकत्वादित्याह । हेत्वन्तरवचने सति यदि हेत्वर्थनिदर्शन इति । हेतुः साधनम् अर्थः साध्यः तौ हेत्वर्थौ निदर्शयति व्याप्यव्यापकभावेनेति । निदर्शनः निदर्शनः हेत्वर्थयोर्निदर्शनो हेत्वर्थनिदर्शनो दृष्टान्तः स यद्युपादीयते ततो नेदं व्यक्तमेकप्रकृति भवति दृष्टान्तस्य प्रकृत्यन्तरोपादानात् । वार्त्तिकं साधनान्तरोपादाने पूर्वस्येति । दत्तोत्तरावसर एव वादिनि यदि प्रतिवादी हेत्वर्थं व्यभिचारयति वादीच तृतीयपदके स्थितो हेतुं विशेषयति तदा साधनान्तरोपादानान्निगृह्यतामुतानैकान्तिकसाधनोपादानात् । न तावदनैकान्तिकसाधनादस्य निग्रहो हेतुविशेषणेननपव समाहितत्वादिति । तस्माद्धेत्वन्तरवचनादेव निगृह्यते पूर्वस्य वस्तुतोऽसमर्थस्यासामर्थ्यख्यापनात् । सामर्थ्ये वा हेत्वन्तरानर्थक्यमिति सूक्तम् ॥ ६ ॥

न्या.सू._५,२.७: प्रकृतादर्थादप्रतिसंबद्धार्थम् अर्थान्तरम् ॥

व्याचष्टे यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे सति वादे जल्पे वितण्डायामित्यर्थः । हेतुतः साध्यसिद्धौ प्रकृतायां वादी साधनं ब्रूयाद् नित्यः शब्दोऽस्पर्शत्वादिति । अत्रान्तरे सूखादिभिर्व्यभिचारेण हेतोरसामर्थ्यं पश्यन तत्प्रच्छादनार्थं प्रसक्तानुप्रसक्त्या तं तमर्थमुपन्यस्यन्नर्थान्तरेण निगृह्यते । अभिधेयस्य क्रियान्तरयोगात् क्रियाविशेषस्य योगाद्विशिष्यमाणरूपो भिद्यमानरूपः शब्दो नामेति यथा वृक्षस्तिष्ठति वृक्षं छिनत्ति वृक्षेण चन्द्रमसं पश्यति वृक्षायोदकमासिञ्चतीत्यादि । तदेवमभिधेयस्य क्रियाविशेषयोगाद्विशिष्यमाणरूपः शब्दो नामेति । आख्यातस्वरूपमाह । क्रियाकारकसमुदाय इति । विषयेण विषयिणमुपलक्षयति । पचति पच्यतैत्येवमादयः शब्दाः क्रियां कर्तारं कर्म चाभिवदन्ति तदेतल्लक्षणमसिद्धमतिव्यापकं च, न हि कर्ता कर्म वा आख्यातेनाभिधीयते । क्रियाक्षेपेणैव तयोः प्रतिलम्भात् । अनन्यलभ्यस्य च शब्दार्थत्वात् । कर्तृकर्मणोश्च कारकान्तरेम्यो भावनायामभ्यर्हिततमत्वेन तत्सङ्ख्याभिधाननियमादसिद्धं कारकाभिधानम् । अतिव्यापकं च पाचकः पाक्य इत्यादेर्नाम्नोऽपि क्रियाकारकसमुदायाभिधायित्वात् । तदस्मिन् लक्षणेऽपरितुष्यन् लक्षणान्तरद्वयेनाख्यातपदान्युपसंगृह्णाति । कारकसंख्याविशिष्टक्रियाकालयोगाभिधाय्याख्यातम् । पचति पच्यतैत्यादौ कर्तुः कर्मणो वा संख्यया कालेन वर्तमानादिना विशिष्टा क्रिया प्रतीयते । कालश्च क्व चिदस्तीत्येताववोक्तो, न तु विवक्षितो लक्षणे पचत यजेतेत्येवमादौ तद्योगाप्रतीतेः । अनेन लक्षणेन स्थीयते सुप्यतैत्यादीनामाख्यातानामसङ्घहः कारकतत्संख्ययोरप्रतीतेः तत्संग्रहाय द्वितीयं लक्षणमाह । धात्वर्थमात्रं च कालाभिधानविशिष्टमभिधीयतैत्यभिधानम् । प्रयोगेष्विति । नाम्नो वाख्यातस्य वा तदर्थादभिद्यमानरूपा निपाताः । यथा समुच्चयविकल्पादिनामपदैः समुच्चयादयः समुच्चेतव्यान्नामार्थादाख्यातार्थाद्वा भेदेनोच्यन्ते तत्र षष्ठीप्रयोगात् । तेषां समुच्चयो विकल्पो वेति नैवं चादयः स्वार्थान्नामार्थादाख्यातार्थाद्वा भेदेनाभिदधति । रूप्यन्ते प्रतिपाद्यन्ते रूपाणि अर्थान्नामार्थादाख्यातार्थाद्वा भिद्यमानं रूपं प्रतिपाद्यमानं येषां निपातानां ते तथोक्तः । उपसूज्यमानाः समीपे प्राक् प्रयुज्यमानाः क्रियावद्योतका उपसर्गाः अवद्योतनं चोपलक्षणम् ।

अधिकार्था विपरीतार्थाश्चोपसर्गा गृह्यन्ते ।
यथाऽभ्यागच्छति प्रतिष्ठतैत्यादिषु तदस्य निग्रहस्थानत्वं वार्तिककार उपपादयति ।
अभ्युपगतेति ।
यथा च साधनवादिनोर्ऽथान्तरं निग्रहस्थानमेवमुत्तरवादिनोऽपि द्रष्टव्यम् ॥ ७ ॥

न्या.सू._५,२.८: वर्णक्रमनिर्देशवद् निरर्थकम् ॥

वर्णक्रमनिर्द्देशवदिति वतिः । अत्र यदा द्राविडः स्वभाषया तद्भाषानभिज्ञमार्यं प्रति शब्दनित्यत्वं प्रतिपादयति तदा तन्निरर्थकं निग्रहस्थानं स खल्वार्यभाषां जानन्नसामर्थ्यप्रच्छादनाय तद्भाषानभिज्ञतया वा स्वभाषया साधनं प्रयुक्तवान् सोऽयं पूर्वस्मिन्कल्पे विप्रतिपत्त्या निगृह्यते उत्तरस्मिंस्त्वप्रतिपत्त्या । वस्तुतः साधनसामर्थ्येऽपि मूकवदार्यप्रतिपादकशब्दाप्रतीतेस्तत्प्रतिपादनारम्भवैयर्थ्यात् । अत्रैव दृष्टान्तमात्रतया वतिना अत्र वर्णक्रमो दर्शितो न पुनरेतदुदाहरणं निग्रहस्थानस्य येन कपोलवादित्रादावपि प्रसङ्गः । यथा हि द्राविडस्यार्थभेदविवक्षोत्थापितं वचनं नैवं वर्णक्रमनिर्द्देशः कपोलवादित्रं वा अप्रतिपादकत्वसामान्याद्वर्णक्रमनिर्द्देशवदिति दृष्टान्तः । अत एवाह भाष्यकारः । एवंप्रकारमिति । न पुनरिदमेवेत्यर्थः । वार्तिकमुदाहरणं भाष्य इति । (५५५।३) एवंप्रकारोदाहरणमित्यर्थः । साधनानुपादानादिति । परप्रतिपादकं पञ्चावयवं वाक्यं साधनं तत्तेन नोपात्तं तस्य स्वसमयेन प्रतिपादकत्वेऽप्यार्यान् प्रत्यप्रतिपादकत्वादित्यर्थः ॥ ८ ॥

न्या.सू._५,२.९: परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातम् अविज्ञातार्थम् ॥

यद्वाक्यं परिषदा प्रतिवादिना च न विज्ञायते समानसंकेतेन वादिना त्रिरभिहितं यावद्भिर्वारैः परिषत्प्रतिवादिनोरर्थप्रत्ययो भवति स च प्रायेण त्रिभिरिति त्रिरभिहितमित्युक्तम् । ननु समानसङ्केतेन वादिना त्रिरभिहितमविज्ञातार्थं चेति न संभवति । सम्भवे वा परिषत्प्रतिवादिनै जडौ न च जडानवबोधे प्रतिपादकस्य कश्चिदपराधः । न हि बधिरो गीतं न शृणोतीति गायनस्य कश्चिदपराध इत्यत आह । श्लिष्टशब्दमसति प्रकरणादौ नियामके यथा श्वेतो धावतीति । अप्रतीतप्रयोगं जर्भरीतुर्फरीतू इति । अतिद्रुतोच्चारितमित्येवमादिना कारणेन तदविज्ञातार्थम्।अस्य निग्रहस्थानत्वमाह । असामर्थ्येति । वार्तिकं भाष्यव्याख्यया गतार्थम् ॥ ९ ॥

न्या.सू._५,२.१०: पौर्वापर्यायोगादप्रतिसंबद्धार्थम् अपार्थकम् ॥

यत्रानेकस्य पदस्याश्लिष्टस्य प्रतीतयोगस्याद्रुतोच्चारितस्य वाक्यस्य चानेकस्य पौर्वापर्येणायोगः सम्बन्धो नास्तीति तस्मादसम्बद्धार्थता गृह्यते तदपार्थकं निग्रहस्थानं निष्प्रयोजनं, कस्मात्? । समुदायार्थस्य वाक्यार्थस्य वाऽपायाद्वाक्यमहावाक्यार्थप्रत्यायनप्रयोजनो हि पदानां वाक्यानां वा प्रयोगोऽसति तस्मिन्नपार्थकमित्यर्थः । वाक्यस्य पौर्वापर्यासम्बन्धौदाहरणमाह । यथा दश दाडिमानि षडपूषा इति । पदानां पौर्वापर्यासम्बन्धे उदाहरणमाह । कुण्डमजाजिनम् इति । रौरुकं ररुसम्बन्धि । पार्य्य पाययितव्यम् । अप्रतिशीनो वृद्धः । वार्तिककारः शङ्कते । निरर्थकापार्थकयोरिति । परप्रत्यायनप्रयोजनं हि वचनोच्चारणं तत्र निरर्थकेनेवापार्थकेनापि न परः प्रतिपाद्यत इति उभयोरभेदः । न च वर्णक्रममात्रमेकत्रान्यत्र च पदानीत्येतावता भेदेनोपादनं युक्तम् । एकत्र वाक्योपादानमन्यत्र पदोपादानमित्यपार्थकयोरप्यवान्तरभेदेन भेदोपादानप्रसङ्गादिति शङ्कार्थः । निराकरोति । भिद्यत इति । पृच्छति । कथम् । उत्तरम् । तत्रानर्थके वर्णमात्रम् अभिधेयशून्यम् इह त्वपार्थके पदानि पद्यते गम्यतेऽभिधेयमेभिरिति पदानि वाक्यानि चाभिधेयवन्ति असम्बद्धानि निरभिधेयनिष्प्रयोजनयोर्निरर्थकापार्थकयोर्महान्विशेषः । न त्वीदृशो वाक्यपदयोर्निष्प्रयोजनयोर्विशेषो येनावान्तरभेदमाद्रियामहे । परप्रत्यायनप्रयोजनाभावामात्रविवक्षया त्वविशेषे सर्वनिग्रहस्थानाविशेषः सर्वत्र परप्रत्यायनाभावात् । भावे वा निग्रहस्थानानुपपत्तेः ॥ १० ॥

न्या.सू._५,२.११ ॥ अवयवविपर्यासवचनमप्राप्तकालम् (सू. ११) ॥

व्याचष्टे प्रतिज्ञादीनामवयवानां यथालक्षणमर्थवशात् क्रमः लक्षणानतिक्रमेण क्रमः उक्तमेतदस्माभिः प्रथमाध्याये । यदपेक्षिताभिधायिनो वचनात्परे प्रतिपद्यन्ते नान्यस्य । तत्र प्रथमं साध्यनिर्द्देशोऽपेक्षितः परैर्न तु साधननिर्द्देशः तत्र यद्ययं प्रथमं साधनमेव प्रयुञ्जीत कथमपोक्षितं ब्रूयाद्, अनपेक्षिताभिधायी च कथं प्रतिपादको नाम । तदेवं सर्वाण्येव हेतुवचनादीनि अपि क्रमवन्ति नाक्रमाणि प्रतिपादयितुमर्हन्तीति विपरीतक्रमेभ्योऽप्यार्थक्रमानुसरणादेवार्थप्रतिपत्तेः । सोऽयं प्रतिज्ञादीनामर्थ एतादृशो य एषां क्रममन्तरेण न शक्यो ज्ञातुमिति । अवयवविपर्यासे तवाकाङ्क्षाभावात् तत्पूर्वकत्वाच्च पदार्थसम्बन्धस्यासम्बन्धं निग्रहस्थानमित्यर्थः । वार्तिकं नैवमपिव सिद्धेरित्येके । यथाहुरत्रापि न कश्चित् क्रमनियम इष्टार्थपसिद्धेरुभयत्राविशेषात् । यद्युच्येत अर्थशब्दवदयमस्माकं समयो यदनेन क्रमविशेषेणार्थः प्रत्येतव्यो नान्येनेति अतस्तथेव प्रतीयते न क्रमान्तरेणेत्यत आह । समयानभ्युपगमाच्च । पदेष्वेव समयपूर्वकः प्रत्ययो न वाक्येषु अभिनवकविरचिततत्समयानपेक्षादेव वाक्यादर्थप्रतीतेः । स्यादेतद् वाक्येष्वपि क्रमनियमो दृष्टः यथा पाचयां बभूवेति न पुनर्वभूवपाचयामिति अत आह प्रयोगाच्चेति । तत्र लौकिकः प्रयोगो नियत इह त्ववयवव्यत्ययस्यापि दृष्टः प्रयोग इत्यर्थः । तदेतद्दूषयति । यत्तावन्नैवमपि सिद्धेरिति । तत्रोत्तरं प्रयोगो पेतशब्दवदेतत् । एतदेव विवृणोति । यथा गौरित्यस्यैव पदस्यार्थें गावीति प्रयुज्यमानं पदं ककुदादिमन्तमर्थं प्रत्याययति । (५५६।१) यद्यपि शब्दानामर्थप्रत्यायनं न स्वाभाविकं तथाऽपि परमेश्वरसङ्केतपूर्वकमद्य यावदनुवर्त्ततेऽत एव साधवोर्ऽथभेदे शब्दभेदा येषां पारमेश्वरसङ्केतः तदसङ्केतात्तु प्रवर्त्तमाना अप्यर्थेऽसाधवः शब्दा अपभ्रंशा भवन्ति । तदपेक्षाश्च साधुभिर्भाषितव्यमित्यादयो विधयो धर्मेषु निन्दार्थवादाश्च मन्त्रो हीनः स्वरतो वर्णत इत्यादयः वेदानां च प्रामाण्यं प्रतिपादितं द्वितीयेऽध्याये । न चायमर्थो ये ये साधवस्ते सर्वे धर्महेतव इति, किं तु धर्मानुष्ठानं तदनुरूपभाषणे प्राप्ते साधुभिरेवति नियम्यते । तदेवं व्यवस्थिते अविशेषेण गोगाव्यादिशब्दा आर्येण प्रयुज्यमाना दृश्यन्ते तत्रैते किमविशेषेणैवसाधव उत कश्चिदेकः साधुः तत्पूर्विकेतरेभ्यः प्रतीतिः तत्रैकशब्दस्य साधुत्वकल्पनायामितरस्मात् तन्मूलतयाऽर्थप्रतिपत्त्युपपत्तौ न सर्वत्र साधुत्वकल्पनायुक्ता । यथाह स्मात्रभवान् जैमिनिरन्यायश्चानेकशब्दत्वमिति । तत्रापि कतमस्यासाधुत्वमेकस्यैतोष्विति जिज्ञासायां तत्र तत्त्वमभियोगविशेषात्स्यादिति योऽभियुक्ततमैरिन्द्रपाणिनिप्रभृतिभिः साधुत्वेनाविगानतः स्मर्यते स साधुरितरोऽसाधुरिति निश्चीयते ।

तेन यद्यपि लौकिका गाव्यादिशब्देभ्य एव गवाद्यर्थमधिगच्छन्तीति दृष्टार्थमात्रव्यवहारिणः प्रतिपत्तिस्तथाऽपि परीक्षकाणां विचारयतामेवं विचारक्रमो यद्वृद्धतमेन गोशब्दे प्रयोक्तव्ये प्रमादाद्गावीशब्दः प्रयुक्तः ततश्च वृद्धतरेण गोशब्दमुन्नीय गोत्वं प्रतीतम् ।
यथाहुः ।
ऽअम्बाम्बेति यदा बालः शिक्षमाणः प्रभाषते ।
अव्यक्ते तद्विदां तेन व्यक्ते भवति निर्णयः ॥

एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते । तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते।ऽ पार्श्वस्थाश्चातोऽनेन मूलशब्दमुन्नीयार्थः प्रतीत इत्यगृहीत्वैव गावीशब्दादेवायममुमर्थं प्रतीतवानिति तमेव गोत्वस्य वाचकमवगम्यान्येषां वृद्धो बभूव । ततः प्रभृत्यननुसृतमूलशब्दानामयं वाचकत्वभ्रमोऽपभ्रंशे वर्तते न वृद्धतरस्योभयवेदिनो मूलशब्दानुसारिणसी पदर्थप्रतिपत्तिरिदानीन्तनानां त्वपभ्रंशादेव अत एवानवाख्यानमपि प्रयोजनवत् । असत्यस्मिन् वाचकापभ्रंशविभागे ज्ञानानभावात्साधुभिर्भाषितव्यमिति नियमविधेर्न म्लेच्छितवै नापभाषितवै इति निषेधस्य च विषयसंशयेन दुरधिगमत्वेन धर्मानुष्ठानस्याशक्यत्वप्रसङ्गात् । यत्रार्थे यस्य शब्दस्य भगवतेश्वरेण सङ्केतः कृतः स तत्र साधुरसाधुरन्यत्र यथा य एवास्वशब्दो दरिद्रे साधुः स एवासाधुर्वाजिनि प्रयुज्यमानः यथा नकुलदंष्टाग्रस्पृष्टा या का चिदोषधिरसौ सर्पविषं हन्ति एवमीश्वरेण कृतसङ्केतः शब्दः साधुर्धर्मौपयुज्यते नान्य इति । यववराहादिशब्दानामार्यम्लेच्छयोरर्थविवादे वैदिकाद्वाक्यशेषादार्यसंमतोर्ऽथो ग्रहीतव्यो न म्लेच्छसंमतः तत्र वैदिकवाक्यशेषविरोधात् । येषां तु शब्दानामार्येषु न दृष्टचरः प्रयोगः केवलैर्म्लेच्छैरेवार्थभेदे प्रयुज्यन्ते यथा पिकनेमतामरसादयः वेदे तु प्रयुक्तास्तेषां म्लेच्छव्यवहारादेवार्थोऽवधारणीयः तत्र तेषामभियोपगादिति आर्यव्यवहारापरिपन्थित्वाच्चेति । तदेवं व्यवस्थिते न्यायमीमांसापरिशीलनविकलानां बाह्यतराः प्रलापा उपेक्षणीयाः तस्मात्सुष्ठूक्तं प्रयोगापेतशब्दवदिति । न च शब्दान्वाख्यानं व्यर्थमिति चेति । प्रतिज्ञादीनां क्रमनियमकारणं प्रश्नपूर्वकं दर्शयति । तदेतत्कथं पूर्वं तावदिति । द्वितीयं देश्यमनुभाष्य परिहरति । यत्पुनरेतत्समयानभ्युपगमादिति । सोऽयमर्थस्यानुर्वीं प्रतितिबलप्रवृत्तामन्वाचक्षाणो नाभ्याख्येय इति नोपालभ्यः । शास्त्रे वाक्यान्यर्थसंग्रहार्थमुपादीयन्त इति । न हिशास्त्रे कृत्स्नासदिवादरभूतदिवेत्यर्थसङ्ग्रहो यथा कथं चित् क्रियत इति वादेऽपि तथा क्रियतामिति युक्तं वादादिषु पक्षप्रतिपक्षवद्वक्रोरपि परीक्ष्यमाणत्वात् परीक्षितस्य च शास्त्रितत्वात् ॥ ११ ॥

न्या.सू._५,२.१२: हीनमन्यतमेनाप्यवयवेन न्यूनम् ॥

प्रतिज्ञादीनां पञ्चावयवानां मिलितानां साधनत्वमुपपादितम् । न्यूनत्वे साधनत्वं नास्ति तदभावे न साध्यसिद्धिः न हि सामग्रीनिष्पाद्यं कार्यं सामग्र्येकदेशाद्भवतीत्यर्थः । परेषां मतमुपन्यस्ति एके त्विति । एके तु प्रतिज्ञान्यूनं नामनिग्रस्थानं नास्तीति ब्रवते।दूषयति एतत्तु न युक्तमिति । किं प्रतिज्ञान्यूनं निग्रहस्थानान्तरं न भवति अथ निग्रहस्थानमेव न भवति । एतदेवाह किमसौ निगृह्यते न वेति । प्रथमकल्पे दोषमाह यदीति । द्वितीयकल्पे दोषमाह अथ न निग्रह इति । प्रतिज्ञायाः साधनाङ्गत्वमुक्तमित्यर्थः । यच्च ब्रवीषि दिङ्नागसिद्धान्तपरिग्रह एवेति । एततु दूषप्रति । एतदपीति । (५५७।१) सिद्धसाध्यार्थयोः सिद्धान्तप्रतिज्ञयोर्महान् भेद इत्यर्थः ॥ १२ ॥

न्या.सू._५,२.१३: हेतूदाहरणाधिकमधिकम् ॥

तदेतन्नियमाभ्युपगम इति भाष्यम् । तत्र कथमेतत्साध्यं सिध्यतीति जिज्ञासा तत्रैकेनैव साधनेन साध्यसिद्धेः साधनान्तराभिधानमनर्थकमिति । निष्पादितक्रिये कर्मणि अविशेषाभिधायिनः साधनस्य साधनन्यायातिपातात् । यत्र तु प्रतिवादिनः परिषदो वा जिज्ञासा भवति कति साधनानिसंभवन्त्यस्मिन्साध्य इति तत्र यावन्ति साधनानि तावन्ति सर्वाण्येव वाच्यानि अन्यतराभिधाने निग्रहप्रसङ्गादिति, नाधिकं निग्रहस्थानमिति य आहुस्तन्मतमुपन्यस्यति । तच्च न दार्ढ्यादिति । दूषयति न दार्ढ्यार्थेति । यदि निश्चयो दार्ढ्यं तदेकस्मादेव प्रमाणाद्भवति अनिश्चायकस्याप्रमाणत्वात् । अथ स्फुठत्वं तदपि चेन्निश्चयः स दत्तोत्तरः । अथ सामान्यविशेषतद्वतां ग्रहणं न तदनुमानसहस्रैरपि तेषां सामान्यवद्द्रव्यमात्रविषयत्वात् । शङ्कते अथ ब्रवीषि द्वे अपि ज्ञापके इति । नास्माकमनधिगतार्थगन्तृत्वं प्रमाणत्वं येनैकेनाधिगते प्रमाणान्तरमप्रमाणं स्यात् । अपि तु गन्तृमात्रं प्रमाणं तच्च द्वितीयस्याप्यविशिष्टमिति शङ्कार्थः ।

निराकरोति सत्यं द्वे अपि ज्ञापते इति ।
पुरुषोऽत्रापराध्यते यो ज्ञातमर्थमजिज्ञासितं ज्ञापयति न तु प्रमाणं तद्धि सामर्थ्येन मेने प्रवर्तत एव ।
यदि जिज्ञासायां सित्यां प्रवर्तते प्रतिपादयति ज्ञेयं नास्य कश्चिदपराध इति ।
न हि धान्येष्वलूनेषु दात्रमव्रश्चनं भवति तस्मादनपेक्षितकारणादनवस्थाप्रसङ्गाच्च पुरुषस्य निग्रह इति स्थितम् ॥ १३ ॥

न्या.सू._५,२.१४: शब्दार्थयोः पुनर्वचनं पुरुक्तमन्यत्रानुवादात् ॥

न्या.सू._५,२.१५: अर्थादापन्नस्य स्यशब्देन पुनर्वचनं पुनरुक्तम् ॥

तदनेन सूत्रद्वयेन पुनरुक्तमेकमेव निग्रहस्थानं कथं चिदवान्तरभेदविवक्षयात्रिविधमुक्तं प्रापञ्चार्थम् । तदेव पुनरुक्तं क्व चिच्छब्दाभ्यासात् क्व चित्पर्यायान्तरात् क्व चिदर्थादिति । आक्षिपति नाबाधनादिति । समाधत्ते सत्यमिति । जल्पवितण्डयोर्वक्तुर्नैपुण्यं चिन्त्यते ।

पुनरुक्तप्रयोगे त्वनिपुणः स्याद् अनपेक्षिताभिधानात्साधनस्य विषयः साध्योऽर्थो न सिद्धः तस्यापरिज्ञनान्निगृह्यते ।
वैयर्थ्यं चानर्थक्यं विरुद्धप्रयोजनत्वं वाभिमतम् ।
तथा हि पुनरुक्तप्रयोगे तत्प्रयोजनानुसरणसमाकुलचित्तः प्रथमाभिधानादापाततः प्रतीतमप्यर्थमप्रतीतमिव मन्यमानो न निश्चेतुमर्हतीति ततश्च प्रतिपादनाय प्रवृत्तो न प्रतिपादयितेति विरुद्धप्रयोजनवत्त्ववैयर्थ्यं स्यादित्युपपन्नं निग्रहस्थानमिति ॥ १५ ॥

न्या.सू._५,२.१६: विज्ञातस्य परिषदा त्रिरभिहितष्याप्यप्रत्युच्चारणमननुभाषणम् ॥

व्याचष्टे विज्ञातस्य वाक्यार्थस्येति । निग्रहस्थानत्वेऽस्योपपत्तिमाह । अप्रत्युच्चारयन् किमाश्रयं प्रतिषेधं ब्रूयादिति । वार्त्तिकं नेदं निग्रहस्थानमिति के चित् । (५५५।९) उत्तरेण उत्तरगुणदोषनिरूपणेन प्रतिवादिनो मूढत्वामूढत्वावस्थापनात् । एतद्विभजते उत्तरेण गुणदोषवतेतीति । तस्मात्किं पुनरुच्चारितेनोच्चारणेनास्ति प्रयोजनमिति शेषः । अस्ति हि कश्चिदिति क्व चित्पाठः । तत्रास्ति हीति निपातद्वयं वाक्यावतारे द्रष्टव्यम् । पुंसां विचित्रस्वभावत्वात् कश्चिदुत्तरे समर्थो न प्रत्युच्चारणे नासौ सदुत्तपरमभिदधानः तावताननुभाषणमात्रेण निग्रहमर्हति । ननु यद्यननुभाषणं न निग्रहस्थानं तदाऽनुभाषितुमुपक्रम्य सर्वमननुभाषमाणो न निगृह्येतेत्यत आह । यस्त्वारभ्य न निर्वाहयेत् सदुत्तरं तु ब्रूयात् तस्य स्यात् खलीकारमात्रसमामर्थ्यकृतं न तु तत्त्ववादित्वविहतिरित्यर्थः । तमेवं भदन्ताक्षेपं समाधत्ते नोत्तरविषयापरिज्ञानादिति । दूष्यविषयं हि दूषणम् असति दूष्याभिधाने न शक्यं वक्तुम् । न खलु प्रतिज्ञाहेतूदाहरणोपनयनिगमनदोषास्तत्स्वरूपमनभिधाय शक्या दोषत्वेनावस्थापयितुमित्यनुच्चारयन्न दोषमभिधातुमर्हतीति । तदिदमुक्तं तदिदं व्याहतमुच्यते नोच्चारयति उत्तरं च ब्रवीतीति । स्यादेतद् न प्रतिवादिना सर्वं दूषणीयम् अन्यतमावयवदूषणेनैव साधनस्य दूषितत्वेन दोषान्तराभिधानवैयर्थ्यात् । न खलु मृतो मृत्युना रक्षितो मारयितुं शक्यः एवं दूषितमपि दूषयितुं, तस्मात् सत्यपि दूष्यबाहुल्येऽन्यतमं दूष्यं तथा च सर्वानुभाषणे सर्वस्यादूष्यत्वाद् यद्दूषणीयं तत्पुनरनुवाद्यमिति सर्वानुवादे द्विरनुवादोऽदूष्यानुवादश्चेति दूषकनिग्रहस्थानद्वयं तस्मादनुभाषणमेव निग्रहस्थानमिति विपरीतमापतितमित्यत आह अप्रतिज्ञानाच्चेति । एतद्विभजते न चेदं प्रतिज्ञायते । पूर्वमेकग्रन्थेन सर्वमुच्चारयितव्यं पश्चादुत्तरं यद्दूष्यं तदनुवादेनाभिधेयं येन दूष्यानुवादो द्विरनुवादश्च दोषौ स्याताम् अपि तु यथाकथं चिदुत्तरंवक्तव्यम् । उत्तरवादपरस्योत्तरमाश्रयाभावे न युक्तमिति तदाश्रयमात्रमनुवदितव्यं तदन्तरेणाशक्याभिधानत्वादुत्तरस्येति । तस्माद्युक्तं तन्मात्रस्याप्रत्युच्चारणमननुभाषणं न सर्वस्याप्रत्युच्चारणमननुभाषणमित्यर्थः । नन्वप्रतिभाया निग्रहस्थानत्वविधानेनाननुभाषणस्यापि विदितं तस्य तद्विशेषत्वात् । न खलु नानुभाषतैत्येतावतैव निगृह्यते अपि त्वननुभाषमाणो दूष्यं न बुध्यते अबुध्यमानश्च तत्रोत्तरं न प्रतिपद्यते ततोऽप्रतिभया निगृह्यते । तदेवमननुभाषणमप्रतिभाविशेष इति अप्रतिभाया विहितं निग्रहस्थानत्वं तद्विशेषेऽपि विहितं भवति । यथा गवि सास्नादिमत्त्वं विहितं शाबलेयेऽपि विहितं भवति न पुनस्तत्र सास्नादिमत्वविधानाय पृथग् यत्नान्तरमारभन्ते । अत्र ब्रूमः, न तावदुत्तराप्रतिपत्तिसामान्यविशेषोऽननुभाषणं पुंसां सामर्य्यवैचित्र्यात् । कश्चिद्दूनष्यं दूषणं च विदन्नपि नानुभाषितुं पारयति बहुवचनकुण्ठत्वात् । तस्मादसत्यामप्रतिभायामननुभाषणसम्भवान्नाप्रतिभाया विशेषोऽननुभाषणमिति । कश्चिद्दूषणविषयं वेदानुभाषते च उत्तरप्रतिपत्तिविकलस्तु स्यात्सोऽयमप्रतिभया निगृह्यते नाननुभाषणेन तत्र सामर्थ्यात् । कश्चित्पुनर्दूष्यमेव न जानाति सोऽज्ञानेन निगृह्यते न चाज्ञानेऽननुभाषणमवश्यंभावि धारणावतोर्ऽयानिरूपणे वाद्युदीरिताक्षरस्वरूपमात्रपाठसम्भवेनानुभाषणोपपत्तेः ।

अप्रतिभा त्ववश्यं भेवद् न ह्यस्ति सम्भवो दूष्यं न वेदास्य दूषणं तु वेदेति ।
तथापि स्वरूपतस्तावद्भेदः न हि यदेव दूषणविषयमज्ञानमप्रतिभा तदेव दूष्यविषयमज्ञानं तस्मात्सत्यप्यननुभाषणाप्रतिभाज्ञानानानामुत्तरानभिधानफलत्वे तुल्ये अवान्तरभेदविवक्षया भेदेनोपन्यासः ।
त्रिरभिहितस्येति ।
त्रिरभिधानमेवमप्यप्रतिपद्यमानस्यातिजडतया न वादेऽधिकार इत्यभिसंधिमत इति ॥ १६ ॥

न्या.सू._५,२.१७: अविज्ञातं चाज्ञानम् ॥

तद्व्याचष्टे विज्ञातार्थस्य परिषदेति ।
निग्रहस्थानसामन्यलक्षणमत्र योजयति वार्तिककारः ।
अप्रतिपत्तितो निग्रहस्थानमिति ॥ १७ ॥

न्या.सू._५,२.१८: उत्तरस्याप्रतिपत्तिरप्रतिभा ॥

तद्व्याचष्टे । परपक्षेति । वार्तिकं श्लोकपाठादिभिरवज्ञां दर्शयन्निति ।

अर्थान्तरे हि निग्रहस्थाने प्रसक्तानुप्रसक्तं तत्सिद्ध्यर्थताव्याजेनावतारयता न प्रकृतावज्ञानं क्रियते इह त्ववज्ञानमेतावता भेदेनोपन्यास इति ।
इयं चाप्रतिभा सम्यक्साधनोपन्यासे द्रष्टव्या साधनाभासोपन्यासे तु पर्यनुयोज्योपेक्षणम् ॥ १८ ॥

न्या.सू._५,२.१९: कार्यप्रसङ्गात् कथाविच्छेदो विक्षेपः ॥

साधनस्य दूषणस्य चोपन्यासमभ्युपगम्य तदवस्थः प्रतीयमान एव प्रतिवादिनो दार्ढ्यं सभ्यानां वा कठोरत्वमवगम्याकस्मात्कार्यं व्यासज्याभ्युपगतां कथां व्यवच्छिनत्ति तत्र विक्षेपो नाम निग्रहस्थानम् । तदनेनाप्रतिभया तूष्णींभावोऽपि संगृहीतो वेदितव्यः । कार्यव्यासङ्गस्याभ्युपगतकथाविच्छेदमात्रोपलक्षणत्वात् । न चेदमर्थान्तरं तत्र प्रकृतमेव साधयामीति व्याजेन प्रसक्तानुप्रसक्तावतारेण कथाविच्छेदाभावाद् इह तु कथाविच्छेदात् । न चास्य हेत्वाभासेष्वन्तर्भावः । न हि विक्षेपस्यान्यतमलिङ्गधर्मानुविधानं नापि प्रकृतसाध्यसिद्धये प्रयोगो येन हेत्वाभासः स्यात् । न च वादिनो विक्षेपो हेत्वाभासः । अनन्तरं कथामम्युपत्यैव हेतुमनभिधायापसारणात् । यदि चायं सम्यञ्चं हेतुमभिधाय तत्समर्थनासमर्थोऽपसरेत् किमेतावता न निगृह्येत हेत्वाभासेन वा निगृह्येत किं तु व्यासङ्गादेव । अनर्थकापार्थकाम्यां तु भेदेऽस्य स्फुट एव । न ह्यत्रासमानसंकेतः प्रतिपादको येनानर्थकः स्यात् । नापीह पदानि वाक्यानि वा पौर्वापर्येणासम्बन्धानि येनापार्थकः स्यात् । न चावज्ञानं येनाप्रतिभा भवेत् । तस्माद्विक्षेपः पृथङ् निग्रहस्थानमिति सिद्धम् ॥ १९ ॥

न्या.सू._५,२.२०: स्वपक्षदोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा ॥

व्याचष्टे यः परेण देशित दोषं स्वपक्षेऽभ्युपगम्य । कथं ज्ञायते अभ्युपगम्यतैत्यत आह । अनुद्धृत्येति । अनभ्युपगमेऽसाबुद्धरेदिति भावः । वार्तिकं किं तु परस्वेनानतिसृष्टेनादत्तेनेत्यर्थः । (५५९।१३) प्रसङ्गविधानान्न निग्रहस्थानमित्यन्य इति । यदि पुरुषत्वाच्चोरोऽहं ततो भवानपि चोरः स्यात् । न च भवत एवमिष्टं तस्मात्त्वयैवानैकान्तिकत्वान्नायं हेतुरिति प्रसङ्गविपर्ययः तस्मान्नात्मनश्चोरत्वमनेनाभ्युपगतमिति मतानुज्ञा नासौ निग्रहस्थानमित्यर्थः ।

निराकरोति एतत्तु न, कस्मात् अत एव ।
कुतः ? यत एवासौ उत्तरे कर्तव्ये प्रसङ्गं करोति अत एव निगृह्यते ।
यदि हि वादी प्रतिवादिनं ब्रूयात्सत्यमहं चोर एवेति तदा किमनैकान्तिकत्वं शक्नुयात्कर्तुम् ।
तस्मात्पुरुषत्वं न चोरत्वहेतुः अपि तु परस्वेनादत्तेन सम्बन्ध इत्युत्तरे कर्तव्ये यदुत्तराभासमाह तेन ज्ञापयति नूनमयं सभ्यगुत्तरं न जानाति सम्यगुत्तराज्ञानान्निगृह्यते, तच्चोत्तरापरिज्ञानं मतानुज्ञाद्वापरेणोद्भाव्यमानं मतानुज्ञेत्युच्यते ॥ २० ॥

न्या.सू._५,२.२१: निग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ॥

व्याचष्टे पर्यनुयोज्यो नामेति । निग्रहस्योपपत्तिः प्रमाणतः सिद्धिस्तयेत्यर्थः । एतत्तु न तावद्वादिनोद्भावनीयं न ह्यसौ स्वस्वसाधनावद्यमनुन्मत्त उद्भावयति, नापि प्रतिवादिना न ह्यनुन्मत्त आत्मानमात्मना निगृह्णाति । अपि तु पर्यनुयोज्यं जानानः कस्मादुपेक्षतेतस्मात्सभापनिता वादिप्रतिवादिभ्यामनुयुक्तया वा परिषदा तन्निग्रहस्थानमुद्भावनीयम् । अत्र च तत्त्वनिर्णयावसाने वादे द्वयोरपि निग्रहात्परिषदेव विजयते जल्पवितण्डयोश्च तत्त्वानपेक्षं पुरुषसामर्थ्यपरीक्षणप्रवृत्तयोः प्रतिवादी निगृह्यते । साधनाभासवादिनाऽपि वादिना स्फुरता प्रतिवादी स्तम्भितो यतः सम्यक्साधनोपन्यासो विहितः । प्रतिवादिन उत्तराप्रतिपत्तिरप्रतिभा साधनाभासोपन्यासे च उत्तराप्रतिपत्तिः पर्यनुयोज्योपेक्षणमिति विशेषः । वार्तिकं नान्यवचनादित्येके । यत्र प्रतिवादी तूष्णींभवति तत्र तूष्णीम्भावेनैव वादिन उत्तरानर्हतां दर्शय न्नस्य साधनाभासवादितां सूचयति यत्रास्य दोषोद्भावनं सम्यग्दोषमनुक्त्वा करोति तत्राप्यसौ दुष्टमुत्तरं ददत्तत्साधनदोषमेव सूचयति । उपदिशन्ति हि वृद्धाः दुष्टे हि साधने दृष्टोत्तरं देयमिति । तस्मादवचनेऽन्यवचने वा न पर्यनुयोज्योपेक्षणं निग्रहस्थानमुभयथाऽप्यनुपेक्षणादित्यर्थः । दूषयति तच्च नेति । (५६०।१) साधनस्य हि सम्यञ्चं दोषं जानन् तमेव ब्रूयात् । सोऽयं प्राप्तावसरोऽब्रुवन् विब्रुवन् वा नूनं न सम्यञ्जं दोष जानाति । निश्चितप्रमाणभावस्य पुरुषस्येङ्गितादिभिरभिप्रायःप सूच्यते न त्वनिश्चितप्रमाणभावस्य । यथाऽहुः । श्रुतिस्मृत्यतिरेकेण युक्तजल्पाकभाषितम् । तद्यथाश्रति दुष्टं चेद् दुष्टमेवावधार्यताम् ॥ इति सुष्ठूक्तं जानानोऽप्ययं किमर्थमन्यद् ब्रवीतीति॥ २१ ॥

न्या.सू._५,२.२२: अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः ॥

न चायमप्रतिभातो न भिद्यते । सा ह्युनराप्रतिपत्तिरियं त्वनुत्तरस्यैवोत्तरत्वेन (वि) प्रतिपत्तिरिति महान् विशेषः । अनेनैव सर्वा जातयो निग्रहस्थानत्वेन संगृहीता भवन्ति । न च हेत्वाभासानामितो न भेदः ते हि वादिनो निग्रहस्थानमयं तु प्रतिवादिन इति महान्विशेषः । अत एव भवतामपि गाथा ।ऽअसाधनाङ्गं वचनमदोषोद्भावनं तयोः । निग्रहस्थानमन्यत्तु न युक्तमिति नेष्यते इति । अप्रतिभाया एव प्रसज्यप्रतिषेधात्मिकाया अस्या निरनुयोज्यानुयोगस्य भेदे दर्शयति भाष्यकारः । निग्रहस्थानलक्षणस्य मिथ्याध्यवसाया त्समारोपादित्यर्थः । सुगमं वार्तिकम् ॥ २२ ॥

न्या.सू._५,२.२३: सिद्धान्तमभ्युपेत्यानियमात्मकथाप्रसङ्गोऽपसिद्धान्तः ॥

अभ्युपेत्पयेत्यस्य व्याख्यानं कस्य चिदर्थस्य तथाभावं प्रतिज्ञायेति । प्रतिज्ञातार्थविपयर्यादिति । अभ्युपेतार्थविपर्ययात्सिद्धान्तविपर्ययादित्यर्थः । तदेतदनियमादित्यस्य व्याख्यानम् । तत्र सांख्यीयं सिद्धान्तमाह । यथा न सदिति । तस्य पर्यायान्तरेण कथनं न सत इतञ् नासिदात्मानमित्यस्य पर्यायान्तरेण विवरणं नासदुत्पद्यत इति । सोऽयं सिद्धान्तः सांख्यानां तमभ्युपेत्य तद्विपर्ययात्कथाप्रसङ्गमाह स्वपक्षं व्यवस्थापयति । पक्षावस्थानं दर्शयति । एका प्रकृतिर्व्यक्तस्योपलभ्यमानस्यार्थजातस्य युक्तेति प्रतिज्ञा । विकाराणामिति व्यक्तस्यैवानुवादः । अन्वयदर्शनादिति हेतुः । मृदन्वितानामिति साधर्म्योदाहरणं तथा यंऽव्यक्तभेदः सुखदुःखमोहसमन्वितो गृह्यते इत्युपनयः । निगमनमाह तस्मात्समन्वयदर्शनाद्विश्वव्यक्तस्य कैरित्यपेक्षायामुत्तरं सुखादिभिरिति । एकप्रकृतिः सर्वो विकार इति सेयं कथा । सिद्धान्तमभ्युपेत्त्यैवमुक्तवान् सांख्यो नैयायिकेन पर्यनुयुज्यते । दूषणाय पृच्छ्यते । अथ प्रकृतिर्विकापर इति कथं लक्षितव्यमिति । स एवं नैयायिकेन पृष्टः सांख्य उत्तरमाह यस्यावस्थितस्य मृदादेर्धर्मान्तरनिवृत्तौ शरावविनाशे यद्धर्मान्तरं मणिमादि प्रवर्तते असदेव जायते सा प्रकृतिर्मृदादि । यद्धर्मान्तरं निवर्तते प्रवर्तते वा स विकार इति । एतास्मिन्नुदाहरणेऽपसिद्धान्तं योजयति । सोयं प्रतिज्ञातार्थस्य सिद्धान्तार्थस्य वादी विपर्ययादनियमात्कथां प्रसञ्जयति प्रतिज्ञातः सिद्धान्तः खल्वनेन नासदाविर्भवतीति उत्पद्यते न सत्तिरो भवतीति न विनश्यतीति । तथाऽपि कस्मादनेन सिद्धान्तो बाध्यते अथ सिद्धान्तेनैव कस्मान्न बाध्यतैत्यत आह । सदसतोश्चेति । इदं हि लौकिकं प्रमाणसिद्धं सिद्धान्तस्त्वभ्युपगममात्रसिद्धोऽप्रामाणिकः तस्मादनेन सिद्धान्तो बलवता बाध्यते । तदेतन्मृद्धर्माणामपि न स्यादिति । न केवलं प्रेक्षावतां कर्तॄणामपि तु सद्धर्माणामप्युत्पादविनाशौ प्रवृत्त्युनपरमौ दृश्यमानौ न स्यातामित्यर्थः । एवं प्रत्यवस्थितः सांख्योनैयायिकेन पृष्टो यद्यसत आत्मलाभं सतश्चात्महानमभ्युप इति ततोऽस्यापसिद्धान्तो भवति । अथ नाभ्युपैति पक्षोऽस्य न सिद्ध्यति । विकारो ह्यनेन पक्षीकृत एकप्रकृतित्वेन तत्र विकाराणामनिरूपणात् तदभावे न प्रतिज्ञार्थो न च हेत्वर्थः आश्रयासिद्धत्वात् । नन्वेवं प्रतिज्ञातार्थविरोधित्वात्सतो निरोधस्यासतश्चोत्पादस्य हेत्वाभास एव निग्रहस्थानं भवेत् । प्रतिज्ञाविरोधो वेत्याशङ्क्य वार्तिककार आह । प्रतिज्ञातार्थव्यतिरेकेणेति । न ह्यत्रैकप्रकृतयो विकाराः एकप्रकृतिकत्वादित्ययं हेतुः साध्यविरुद्धेन व्याप्त उद्भावितो येन विरुद्धो भवेत् । नाप्येकप्रकृतिकत्वं विकाराणां शब्दतो विरुद्धं समन्वयेन हेतुना येन प्रतिज्ञाविरोधो भवेत् । वैभवमात्रेण च प्रतिज्ञाहेत्वोर्विरोध इत्यत्रोक्तं वार्तिककृता स्वसिद्धान्तस्पय गोत्वार्देर्नित्यत्वविरोधाद्विरोध

इति ।
अपि च तत्र बलवता सिद्धान्तेनानैकान्तिकदेशना बाध्यते इह तु सिद्धान्त एव बाध्यते ।
दुर्बल इत्युदाहरणपौनरुक्त्यमपि नास्ति ।
तस्माद्यत्र प्रतिज्ञार्थेन विरोधः तत्र विरुद्धो हेत्वाभासः प्रतिज्ञाविरोधो वा इह तु प्रतिज्ञार्थव्यतिरेकेणाभ्युपगमान्तरेण विरोध इति पुरुषस्य पूर्वापरविरुद्धार्थाभिधायिनोऽसामर्थ्यान्निग्रहस्थानं जल्पवितण्डयोरिति सिद्धम् ॥ २३ ॥

न्या.सू._५,२.२४: हेत्वाभासाश्च यथोक्त ॥

व्याचष्टे हेत्वाभामाश्चेति । यद्यनुक्तमपि किं चिदवशिष्यते निग्रहस्थानं तच्चकारेण समुच्चेयम् । यथोक्ता इति सूत्रावयवनिराकरणीयामाशङ्कामाह । किं पुनर्लक्षणान्तरयोगाद्धेत्वाभासानिग्रहस्थानतामापद्यन्ते यथा प्रमाणानि प्रमेयत्वं तेषामेव प्रत्यक्षादीनामुपलब्धिसाधनत्वेन लक्ष्यमाणानां प्रमाणत्वं प्रमाव्याप्यतया प्रमेयत्वं लक्षणान्तरेण प्रमाणानि प्रमेयत्वमापद्यन्त इति शङ्कायाः सम्भवादत आह भगवान् सूत्रकारः यथोक्ता इति । सकलशास्त्रार्थमुपसंहरति । त इमे प्रमाणादय उद्दिष्टा लक्षिताः परीक्षिताश्चेति । इतिः शास्त्रपपरिसमाप्तौ । वार्तिककारः संगृह्णाति जातीनां सप्रपञ्चानामिति ।

निग्रहस्थानलक्षणमिति ।
समासेन जातीनामपि प्रतिवादिनिग्रहस्थानेऽस्ति निवेश इति सूचयति ।
शास्त्रस्य चोपसंहार इति ।
त इमे प्रमाणादय उद्दिष्टा इत्यनेन कृत इत्यर्थः ॥

यदलम्भि किमपि पुण्यं दुस्तरकुनिबन्धपङ्कमग्नानाम् । उद्द्योतकरगवीनामतिजरतीनां समुद्धरणात् ॥ १ ॥ संसारजलधिसेतौ वृषकेतौ सकलदुःखशमहेतौ । तस्य फलमखिलमर्पितमेतेन प्रीयतामीशः ॥ २ ॥ तत्त्वज्ञानप्रसवसुरभिर्गूढबह्वर्थजाता सेयं मोक्षामृतमयफला सूक्तिमञ्जुप्रवाला । प्रत्यक्षाप्तागममयमहान्यायमूला मनोज्ञा टीकावीरुद्भवतु कृतिनां नन्द्रिनी षठ्पदानाम् ॥ ३ ॥ क्रूराः कृतोऽञ्जलिरयं बलिरेष दत्तः कायो मया प्रहरतात्र यथाभिलाषम् । अभ्यर्थये वितथवाङ्मयपांशुवर्षैर् मा माविलीकुरुत कीर्तिनदीः परेषाम् ॥ ३ ॥ इति मिश्रश्रीवाचस्पतिविरचितायां न्यायवार्तिकतात्पर्यटीकायां पञ्चमोध्यायः समाप्तः ॥

समाप्तश्चायं ग्रन्थः ॥

शुभम्भूयात् ॥

५ अध्याये १ आह्निके ४३ सूत्राणि १७ प्रकरणानि २ आह्निके २४ सूत्राणि ७ प्रकरणानि मिलित्वा ६७ सूत्राणि २४ प्रकरणानि । अस्मिन न्यायशास्त्रेऽध्यायाः ५ आह्निकानि १० प्रकरणानि ८४ सूत्राणि ५२८ पदानि १९६ अक्षराणि ८३८५ न्यायसूचीनिबन्धानुसारेण निर्दिष्टानि ।