न्यायमुक्तावली
न्यायमुक्तावली [[लेखकः :|]] |
।। श्रीराघवेन्द्रयतिकृतश्रीन्यायमुक्तावलि: ।।
प्रणम्य रमणं लक्ष्म्या: पूर्णबोधगुरूनपि ।
न्यायमुक्तावलिं कुर्मो विदुषां कण्ठभूषणम् ।।
ज्ञानार्थं ब्रह्मरुद्रेन्द्रादिभिरर्थितो भगवान्नारायण: व्यासत्वेनावतीर्य उत्सन्नान्वेदान् व्यञ्जयन् तदर्थनिणर्याय ब्रह्मसूत्रसन्दर्भात्मकं शास्त्रं प्राणिनां हिताय प्रणिनाय । तदेतन्न्यायनिबन्धनात्मकशास्त्रस्य विषयादिमत्तासाधनेन आरम्भणीयत्वं साधयितुं तदुपयुक्ततया न्यायानुसन्धानात्मकविचारमननापरनामक जिज्ञासाकर्तव्यत्वं साधयितुं इदं सूत्रम् ।
।। ॐ अथातो ब्रह्मजिज्ञासा ॐ ।। 1 ।।
इति । एतदादिपञ्चाधिकरण्या: अध्यायपादपीठत्वात् शास्त्रमात्रे तदन्येषां प्राय: शास्त्राध्यायपादेषु अन्तर्भाव: टीकायां प्रतिनयं स्पष्य: । अनन्तरसङ्गतिश्ऱ्च अनेकविधा । यथोक्तम् ।
आक्षेपिक्यातिदेशिक्यौ उपोद्घातापवादते ।
प्रसङ्गश्ऱ्चेत्यादिरूपा सा चानन्तर्यलक्षणा ।। इति ।
अस्यैव आदित्वात् नात्र पूर्वसङ्गति: ।
विषयो विशयश्ऱ्चैव पूर्वपक्षस्तथोत्तर: ।
प्रयोजनं च पञ्चैतान् प्राञ्चोऽधिकरणं विदु: ।।
इत्युक्ते: पञ्चावयवी यथाग्रन्थं प्रकाश्यते । पौर्वापर्ये सङ्गतिश्ऱ्च गुरुपादप्रसादत: । "तद्विजिज्ञासस्व तद्ब्रह्म' (तै.3-1) इत्यादौ श्रुता जिज्ञासा विषय: । न कर्तव्या उत कर्तव्या इति सन्देह: । तद्बीजं टीकायां प्रतिनयं व्यक्तम् । न कर्तव्येति पूर्व:पक्ष: विषयादेरभावात् । अनात्मन: असत्यत्वात् । परात्मनश्ऱ्चेष्यादिलिङ्गसिद्धत्वात् । परमात्मनश्ऱ्च स्वात्मान्यस्य मानाभावेन अभावात् । वेदान्तानां पौरुषेयत्वापौरुषेयत्वयो: आप्तोक्तत्वगुणाभावेन प्रामाण्याभावात् । स्वत: प्रामाण्येऽपि कार्यपरत्वेन सिद्धरूपब्रह्माबोधकत्वात् । सिद्धार्थबोधकत्वेऽपि अद्वैतिरीत्या अखण्डस्वात्ममात्रपरत्वप्रतीते: । स्वात्मनश्ऱ्च अहंधीसिद्धतया सन्देहाभावेन विषयत्वायोगात् । देहादिभिन्नस्य अणुत्वादेरपि अनात्मतया असत्यत्वात् । सत्यपि तज्ज्ञाने अपवर्गस्य अन्यस्य वा फलस्य अनुपलम्भेन तस्य तत्फलत्वायोगात् । विषयप्रयोजनयोरभावे अधिकारिसम्बन्धयो: सुतरामभावात् । अस्तु वा अन्यद्ब्रह्म विषय: । तथाऽपि न जिज्ञासा फलवती । न तावद्ब्रह्मज्ञानं तस्या: फलम् । तस्य कर्मणा ज्ञानमातनोतीत्यादिना कर्मणैव सिद्धे: । तस्य स्वतोऽपुमर्थत्वाच्च । नापि तद्द्वारा ब्रह्मप्रसाद: फलम् । तस्यापि "तत्कर्म हरितोषं यद्' इत्यादिना कर्मणैव सिद्धे: । स्वतोऽपुमर्थत्वाच्च । नापि तद्द्वारा मोक्ष: फलम् । तस्यापि अपाम सोमममृता अभूमेत्यादिना कमर्णैव सिद्धे: । मिथ्याभूतबन्धनिवृत्तिरूपमोक्षस्य प्रसादनैरपेक्ष्याच्च । अस्तु वा मोक्षरूपं फलमपि ज्ञानप्रसादद्वारा । तथाऽपि तस्या: नाधिकारी । मुमुक्षुमात्रस्याधिकारित्वे स्त्रीशूद्रादेरप्यधिकारप्राप्त्या स्त्रीशूद्रब्रह्मबन्धूनां त्रयी न श्रुतिगोचरेत्यादिविरोधात् । अन्यस्य च तद्वयावृत्ताधिकारस्याभावादिति । सिद्धान्तस्तु । अनात्मपरात्मस्वात्मनां अविषयत्वेऽपि जिज्ञास्ये श्रुतेन यौगिकेन ब्रह्मशब्देन अवयवशक्त्या "अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणा:' इत्यादिश्रुत्या च अन्यत्रासम्भावितदेशकालगुणापरिच्छेदवस्तुवाचिना जीवान्यविष्ण्वाख्यवस्तुसिद्धया तस्य च सगुणनिर्गुणाल्पगुणत्वादिना विप्रतिपत्ते: सन्दिग्धतया विषयत्वसम्भवात् तज्ज्ञानोत्थतत्प्रसादजन्य मुक्त्याख्यफलत्वात्तदिच्छोरधिकारिण: सत्त्वेन तत्सम्बन्धस्यापि सत्त्वान्नाद्य: पक्षो युक्त: । नापि द्वितीय: । श्रवणं मननं चेति भाष्योक्तस्मृत्या श्रवणादिरूपजिज्ञासाया एव ज्ञाने प्रधानसाधनत्वेन कर्मणस्तदङ्गत्वात् तस्य स्वतोऽपुमर्थत्वेऽपि प्रसादद्वारा मोक्षहेतुत्वेन पुमर्थत्वाच्च । कर्मणात्वधम इति स्मृत्या ज्ञानजन्यप्रसादस्यैव मुक्तिहेतुत्वाच्च । बन्धस्य तु अक्षादिमानसिद्धत्वेन मोक्षस्य प्रसादसापेक्षत्वात् । कर्मणा अमृतत्वोक्तेश्ऱ्च अमृतो वाव सोमपो भवति यावदिन्द्र इत्यादिना गौणत्वात् । नापि तृतीय: । मुमुक्षुमात्रस्यानधिकारित्वेऽपि भक्तिमान्परमे विष्णावित्यादिस्मृत्या अध्ययनशमदमादिमतो अधिकारिविशेषस्य सम्भवाच्च कर्तव्या जिज्ञासेति । तत्र भाष्यटीकयो: मोक्षस्य कमर्जन्यत्वशङ्कासमाध्योरनुक्तावपि जिज्ञासोत्थज्ञानजात् तत्प्रसादादेव मुच्यते इत्यनुव्याख्यानस्थैवकारेण सूचितत्वादविरोध इति । अत्र पूर्वोत्तरपक्षयो: शास्त्रानारम्भारम्भौ फले ।। 1 ।।
।। ॐ जन्माद्यस्य यत: ॐ ।। 2 ।।
पूर्वोक्तविशिष्याधिकारिकमोक्षफलकजीवान्यधर्मिकगुणपूर्णत्वप्रकारकजिज्ञासाक्षेपेण पूर्वपक्षोत्थानादाक्षेपिकी सङ्गति: ।
प्रागुक्तजिज्ञास्यब्रह्मणो लक्षणमुच्यते इति वा पूर्वाधिकरणेन सङ्गति: । तैत्तिरीये श्रुतं "यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्म' इति (तै.3-1) । यत्प्रयन्ति प्रलय इत्यर्थ: । यदभि स्वेच्छया संविशन्ति मुक्तावित्यर्थ: । तत्र तद्ब्रह्मेत्युक्तं ब्रह्म किं जीवो विष्णुर्वेति सन्देह: । पूर्वपक्षस्तु । बृहजातिजीवकमलासनशब्दराशिष्वित्युक्ते: ब्रह्मशब्दस्य जीवे यौगिकार्थस्यायोगेन रूढत्वात् विष्णौ तु रूढेरभावात् गुणपूर्त्यभावापातेन अयौगिकत्वायोगाच्च योगाद्रूढेर्बलीयस्त्वात् यतो वा इति पूर्ववाक्योक्तकारणत्वस्य अदृष्यद्वारा जीवेऽपि सम्भवादत एव जात्यादेरत्रासम्भवात् आत्मा वा अरे द्रष्यव्य इत्यादि मननविधायक वाक्यान्तरे जीवे प्रसिद्धात्मपदप्रयोगाच्च जीव एवेदं ब्रह्म । तस्य च अहंधीसिद्धत्वान्न जिज्ञासा कार्येति । सिद्धान्तस्तु । यतो वा इत्यादिपूर्ववाक्योक्तजगज्जन्मादिकारणत्वस्य "य उ त्रिधातु पृथिवीं उत द्याम्' इत्यादिना विष्ण्वेकनिष्ठत्वात् अदृष्यद्वारा जीवकारणतापरत्वे जातादिपदास्वारस्यात् इमानीति सर्वनाम्न: सङ्कोचकाभावात् अभिसंविशन्तीत्युक्तमुक्तप्राप्यत्वस्य सर्वथाऽयोगात् इतरव्यपदेशादिति द्वितीये (2-1-22) जीवकर्तृताया: निरसिष्यमाणत्वाच्च जन्मादिकारणत्वबाधकेन रूढेस्त्याज्यत्वात् आत्मा वा अरे इत्यत्र जिज्ञास्ये श्रुतात्मशब्दस्य स्वशब्दादिति (ब्र.सू.1-3-1) वक्ष्यमाणन्यायेन विष्णुवाचित्वात् तदेव ब्रह्म परमं कवीनामिति विद्वद्रूढिसत्त्वात् तस्याश्ऱ्च अज्ञरूढितो बलवत्त्वात् योगरूढिभ्यां गुणपूर्णो विष्णुरेव ब्रह्मेति तस्य सन्दिग्धत्वात्कर्तव्यैव तज्जिज्ञासेति । वर्णकान्तरं तु ब्रह्मशब्द प्रसिद्धजीवपर: उतार्थान्तरपर इति सन्देहे अन्त्ये तस्यार्थस्य तद्वाचिताया: तत्र तात्पयर्स्य च कल्प्यत्वाद्गौरवम् । आद्ये तु लाघवं जीवस्याकल्प्यत्वात् बृहजातिजीवेत्यभिधानात् शक्तेरपि क्लृप्तत्वात् अबाधेन तात्पर्यस्यापि सिद्धत्वात् जीवपर एवेति प्राप्ते "यन्नदु:खेन सम्भिन्नं नच ग्रस्तमनन्तरम् । अभिलाषोपनीतं च सुखं स्वर्गपदास्पदम्' इति श्रुते: स्वर्गपदस्य चन्दनादिरूपप्रसिद्धार्थत्यागेन अप्रसिद्धार्थपरत्वोपपत्तिरिति सिद्धान्त इति वा अलौकिकविशेष्यपरत्वे गौरवात् प्रसिद्धविशेष्यपरत्वे लाघवात् तदनुसारेण जीवे सम्भवद्गुरपूर्तिरेव प्रवृत्तिनिमित्तं न तु सिद्धान्त्यभिमतगुणपूर्तौ तात्पर्यमिति जीवपर एवेति प्राप्ते कारणत्वेनैव बाधकेन अलौकिकविशेष्यपरत्वं ततश्ऱ्च सङ्कोचकाभावात् सर्वगुणपूर्तिरेव प्रवृत्तिनिमित्तमित्यर्थान्तरपर एवेति सिद्धान्त इतीदमेकम् । अन्यत्तु पूवर्सूत्रे जिज्ञासोत्थज्ञानजन्यप्रसादद्वारा मोचकत्वाद्विष्णो: जिज्ञासा कार्येति प्रागभिहितमयुक्तम् । तथात्वे बन्धकत्वात्तज्जिज्ञासा न कार्येत्यपि स्यात् । नचायमबन्धक: जीवस्याबद्धत्वस्वबद्धत्वयोरयोगेन अन्यबद्धत्वे वाच्येऽन्यस्य चेतनस्याचेतनस्य वा ईशाधीनत्वेन पुनरीश्ऱ्वरस्य बन्धकत्वेनाजिज्ञास्यता । अन्याधीनत्वे स्वानधीनकृताद्बन्धान्मोचकत्वं नेशस्येति न तज्जिज्ञासा कार्येति प्राप्ते अप्रसन्नस्य बन्धकत्वं प्रसन्नस्य तु मोचकत्वमिति तत्प्रसादहेतुज्ञानजननाय तज्जिज्ञासा कार्येति सिद्धान्त इति । अत्राद्यं टीकाभिप्रेतं अन्त्ये तु सुधाभिप्रेते । तत्राप्यन्त्यमुपासनापादे ध्येयम् । आद्ये ब्रह्मशब्दस्य यतो वा इति वाक्य एव पूर्वपक्षे विष्णुपरत्वं नाभिप्रेतम् । द्वितीये तु सर्वत्रापीति भेद: । अन्त्ये मुक्तिरस्य यत इति सूत्रे विन्यसितव्ये जन्मादीति सृष्यिहेतुत्वोक्तिर्मोचकत्वसम्भावनार्थेति ध्येयम् । अत्र जिज्ञासाकर्तव्यत्वं फलं स्पष्यम् ।। 2 ।।
।। ॐ शास्त्रयोनित्वात् ॐ ।। 3 ।।
उक्तलक्षणस्य रुद्रादावतिव्याप्तिमाशङ्कय निरस्यत इति सङ्गति: । यतो वा इत्यादिवाक्योक्तं जगत्कारणत्वं विष्णोरन्यस्यापि वेति सन्देह: । अन्यस्यापीति पूर्वपक्ष: । अनुमानेन रुद्रादावपि जगत्कारणत्वस्य सुसाधकत्वात् । तथाहि । क्षित्यादिकं सकर्तृकं कार्यत्वात् घटवदित्यनुमानेन कर्तृमात्रसिद्धावपि तस्यानुमानस्य नावेदविदिति स्वप्रामाण्यनिषेधकश्रुत्युक्ते विष्ण्वाख्ये कर्तर्येव पर्यवसानेन पाशुपताद्यागमोक्ते शिवादिरूपकर्तर्येव पर्यवसानाद्वा शिवो जगज्जन्मादिकतर्ा सर्वज्ञत्वात् व्यतिरेकेण कुलालवदित्यनुमानेन शिवादिकारणत्वसिद्धि: न च सर्वज्ञत्वमप्रसिद्धं पाशुपताद्यागमेन तत्सिद्धेरित्यागमसहायानुमानावलम्बेन वा कार्यत्वाद्यनुमानेन वा नित्यज्ञानेच्छाप्रयत्नवतो नित्यप्रयत्नवतो वा कर्तु: सिद्धे: । तस्य च सिद्धान्तिना विष्णुत्वानङ्गीकारात् संहर्तृत्वादिना रुद्रादिशब्दोक्ते तस्मिन्नेव पर्यवसानमिति केवलानुमानावलम्बेन वा एक: पूर्वपक्ष: । नचात्र विष्णुकारणत्वे परोदाहृतश्रुतिविरोध: । तासामुक्तानुमानविरोधेन विष्णुकारणतामात्रपरत्वादिति । अपरस्तु । सर्वज्ञशिवादिप्रणीततया अनाशङ्कितदोषेण पाशुपताद्यागमेन रुद्रादेरपि जगत्कारणत्वप्रतीते: रुद्रादिर्जगत्कर्ता । नचापौरुषेयत्वेन स्वत: प्रामाण्यकेन वेदेन विष्णोरपि जगत्कारणत्वप्रतीतेस्तद्विरोध: । द्वयोरपि कालादिभेदेन कर्तृत्वस्याविरोधात् । वेदे आगमे चेदं सर्वमसृजतेति विष्ण्वादे: सर्वकर्तृत्वोक्ते: तत्तत्कालसृज्यसर्वपरत्वेन योग्यतापरत्वेन वा उपपत्ते: । वेदे शिवस्य आगमे च विष्णो: कारणतानिषेधस्य उदितहोमादिनिन्दाया: अनुदितहोमादिस्तुतिपरत्वमिव विष्ण्वादिकर्तृताविधिपरत्वसम्भवात् इत्यागमावलम्बी । एवं च सर्वजगज्जन्मादिकर्तृत्वं लक्षणं चेदसम्भव: कतिपयकर्तृत्वं चेदतिव्याप्तिरिति न लक्षणं युक्तमिति पूर्वपक्षफलम् ।
सिद्धान्तस्तु । चक्षुरादे: रसगन्धादाविवोक्तानां अवेदमूलानुमानानां "नावेदविन्मनुतेदं बृहन्तम्' "औपनिषद: पुरुष:' इत्यादिश्रुत्या जगत्कारणे प्रामाण्यनिषेधात् शशादीनां विषाणित्वादावपि प्रयोक्तुं शक्यत्वेन अतिप्रसक्त्या अर्थासाधकत्वात् आद्य: पूर्वपक्षो न युक्त: । तथा प्रमाणत्वेनाङ्गीकृतश्रुतिपरिगृहीतया ऋग्यजुस्सामाथर्वाश्ऱ्च भारतं पञ्चरात्रकमित्यादिस्मृत्या दुरागमाप्रामाण्यस्योक्तत्वादागमावलम्ब्यपि नेति विष्णोरेव जगत्कारणत्वम् । अतो लक्षणं नातिव्याप्तमिति सिद्धान्ते फलम् । स्मृतिनयादगतार्थत्वमस्य तत्रैव वक्ष्यते । अत्र पूर्वपक्षद्वयं यथाक्रमं भाष्यानुव्याख्यानमूलमिति बोध्यम् ।। 3 ।।
।। ॐ तत्तु समन्वयात् ॐ ।। 4 ।।
कारणत्वस्य शास्त्रैकसमधिगम्यत्वान्नातिव्याप्तिरिति पूर्वाधिकरणफलाक्षेपाद्वा पूर्वाधिकरणसिद्धं कारणत्वेन शास्त्रगम्यत्वं विष्णोरन्यस्य वेति विशेषविचाराद्वा अनन्तरसङ्गति: । अत्र शास्त्रयोनित्वं विष्णोरेवान्यस्यापि वेति सन्देह: । रुद्रादेरपि कारणत्वेन शास्त्रैकगम्यत्वमिति पूर्व: पक्ष: । शैवाद्यागमाद्वेदव्याख्यानरूपान्मानानन्तराविरुद्धात् रुद्रादेरपि कारणत्वे वेदस्य तात्पर्यनिश्ऱ्चयात् । काव्यव्याख्यानादिव काव्यस्य व्याख्यानतो विशेषप्रतिपत्तिरित्युक्ते: । नच तस्याप्रामाण्यमुक्तमिति वाच्यं प्रमाणभूतव्याख्येयव्याख्यानप्रामाण्ये मानान्तरविरोधे हेत्वन्तरापेक्षाभावात् । इह च मानान्तरविरोधो नैषातर्केणेत्यादिना सिद्ध: । नचैवं पञ्चरात्रादिना विष्णोरपि कारणत्वे वेदतात्पर्यनिश्ऱ्चयापत्ति: । तथापि देशादिभेदेन पूर्वोक्तदिशा कारणत्वोपपत्त्या विष्णुरेव कर्तेत्यस्य असिद्धे: । उपक्रमादीनां बलाबलनिर्णयायोगेन वेदतात्पर्यानिश्ऱ्चायकत्वात् इत्येको न्यायविवरणोक्त: । अन्यस्तु वेदादिशास्त्राद्रुद्रादे: कारणत्वं तावद्भाति । तत्र शास्त्रतात्पर्यं च अबाधादेव सिद्धम् । नच विष्णो: कारणत्वसाधकं रुद्रादेस्तन्निषेधकं वाक्यमेव बाधकम् । वैपरीत्यस्यापि सम्भवेन द्वयोस्तुल्यबलतया द्वयोरपि कर्तृत्वे च कालादिभेदेन विष्णो: कारणत्वस्य रुद्रादेस्तदभावस्य प्रतिपादनेन तद्वाक्यस्योपपत्तेरिति वेदजन्यापातप्रतीत्यावलम्बी भाष्योक्त: । यद्वा शैवाद्यागमस्याप्रामाण्योक्त्या न वेदतात्पर्यनिर्णायकत्वमिति वाच्यम् ।
वेदेऽपि रुद्रादे: कारणत्वप्रतीतेरिति आपातप्रतीतिसध्रीचीन आगमावलम्ब्येक एव पूर्वपक्ष: । अत्र द्वौ पूर्वपक्षाविति आद्यकल्प: सुधाभिमत: अन्त्यष्यीकाभिमत: । सिद्धान्तस्तु । वेदे परस्परमापाततो विरोधप्रतीतेरेकवाक्यत्वसिद्धये तात्पयर्ेऽवश्यं निश्ऱ्चये शैवाद्यागमस्योक्तरीत्याऽप्रामाण्यात् मानान्तराविरुद्धेऽपि उपक्रमाद्यननुगुणे आपातप्रतीतेऽर्थे तात्पर्यानिर्णायकत्वेन च तद्वयाख्यानत्वायोगात् आपातप्रतीतेश्ऱ्च अज्ञानमूलत्वेनानिर्णायकत्वात् व्याख्यानस्यापि उपक्रमादिभिरेव तात्पर्यं निश्ऱ्चित्य तेन वेदतात्पर्यस्य निश्ऱ्चेतव्यत्वेनावश्यकैरुपक्रमादिभिरेव मूलग्रन्थेषूक्तरीत्या सुशकबलाबलत्वनिर्णयैर्वेदतात्पर्यस्य निश्ऱ्चेतव्यत्वेन तैर्विष्णुरेव जगत्कारणत्वेन मुख्यतोऽशेषसच्छास्त्रतात्पर्यविषय इति सिद्धयतीति आगमावलम्बी प्रतीत्यवलम्बी चेति द्वावपि पूर्वपक्षावयुक्तौ । अत एवान्त्योप्ययुक्त इति लक्षणं नातिव्याप्तमिति फलम् ।। 4 ।।
।। ॐ ईक्षतेर्नाशब्दम् ॐ ।। 5 ।।
।। ॐ गौणश्ऱ्चेन्नात्मशब्दात् ॐ ।। ।। ॐ तन्निष्ठस्य मोक्षोपदेशात् ॐ ।। ।। ॐ हेयत्वावचनाच्च ॐ ।। ।। ॐ स्वाप्ययात् ॐ ।। ।। ॐ स्वाप्ययात् ॐ ।। ।। ॐ गतिसामान्यात् ॐ ।। ।। ॐ श्रुतत्वाच्च ॐ ।। मुख्यावृत्त्या सर्वशास्त्रतात्पर्यविषयो ब्रह्मेति पूर्वोक्ताक्षेपेण पूवर्पक्षोत्थानादाक्षेपिकी सङ्गति: । मुख्यत: सर्वशास्त्रयोनित्वं ब्रह्मणो युक्तं नवेति सन्देह: । न युक्तमिति प्राप्तम् । यतो वाचो निवर्तन्त (तै.2-4-1) इत्यादिश्रुतिभि: तस्यावाचकत्वोक्ते: । नच पुरिशयं पुरुषमीक्षत (ष.प्र.5-5) इति ब्रह्मण: ईक्षणीयत्वोक्ते: औपनिषदस्य च शब्देतरेणेक्षणायोगात् शब्देनेक्षणं वाच्यत्वं विना अयुक्तमिति वाच्यम् ।
ईक्षणश्रुतेर्गौणात्मपरत्वात् तस्य च वाच्यत्वात् शुद्धात्मनोप्यवाच्यस्य लक्षणया शब्देनेक्षणोपपत्तेश्ऱ्च "अवचनेनैव प्रोवाच' इति श्रुतेर्वचनवृत्तिं विना लक्षणयोपदिदेशेत्यर्थात् । नच लक्षणापक्षे किमस्य पदस्य लक्ष्यमिति प्रश्ऱ्ने वाच्ये लक्षकपदान्तर एव प्रयोक्तव्ये तदर्थं वाच्यसम्बन्धितया ज्ञानस्यापेक्षितत्वात्तदर्थं लक्षकान्तरपदप्रयोगेऽनवस्थेति वाच्यम् । वाच्यत्वपक्षेऽपि वाचकस्य गृहीतसम्बन्धस्यैव बोधकत्वात् । सम्बन्धग्रहस्य च सम्बन्धिग्रहाधीनत्वात् । सम्बन्धिनो ब्रह्मण औपनिषदत्वाच्छास्त्रान्तरेणैव तद्बोध इत्यनवस्थातौल्यान्मुख्यवृत्त्येत्ययुक्तम् । यदपि सर्वशास्त्रयोनित्वं ब्रह्मण इति तदपि न । अनन्ता वै वेदा इति श्रुतेर्वेदानामानन्त्येन स्वल्पायुर्ज्ञानादियुतै: पुरुषैरनन्तवेदस्वरूपस्यैव दुर्ग्रहणत्वेन सर्वशास्त्रं ब्रह्मपरमित्यस्य दुर्ज्ञानत्वादिति । सिद्धान्तस्तु । "आत्मन्येवात्मानं पश्येत्' (बृ.6-423) "यस्यानुवित्त: प्रतिबुद्ध आत्मा तस्य लोक: स उ लोक एव' इत्यादौ (बृ.6-4-13) ईक्षणीयस्य आत्मशब्दतन्निष्यमोक्षोपदेशादिभि: शुद्धात्मत्वात् तस्य च
लक्षणयेक्षणीयत्वे प्रागुक्तानवस्थानात् । स्वप्रकाशतया नित्यसिद्धे लक्षणेत्यस्य शास्त्रवैयर्थ्यापातेनायोगात् वाचकत्वपक्षे यौगिकपदानां वाक्यतुल्यतया पृथक्सङ्गतिग्रहानपेक्षत्वेन अनवस्थाभावात् यतोवाच इत्यादिश्रुते: साकल्येन वागविषयत्वेनोपपत्ते: । वेदानामानन्त्येऽपि "सर्वे वेदा युक्तय:' इति गतिसामान्यश्रवणात् सर्वज्ञसूत्रकृन्निर्णीतार्थकशाखादृष्यान्तेन शाखान्तरेऽपि शाखात्वेनैतदर्थकत्वस्यैवानुमानादवगमात् मुख्यत: सवर्शास्त्रयोनित्वं शाखात्वेनैतदर्थकत्वस्यैवानुमानादवगमात् मुख्यत: सर्वशास्त्रयोनित्वं विष्णोर्युक्तमिति फलं स्पष्यम् । अर्थद्वयसमर्थनार्थत्वेऽपि एकसंशब्दार्थसाधनार्थत्वादधिकरणैक्यं ध्येयम् ।। 5 ।।
सर्वे वेदा यत्पदमामनन्तीति (कठ.1-2-15) श्रुत्युक्तस्यापि समन्वयस्य बाधकोद्धारादिना स्थापनाथर्मयमध्यायशेष: सफल: । अत्र समन्वयसूत्रप्रतिज्ञातसमन्वयहेतौ वाच्यत्वे ईक्षतिनयोक्ते अध्यायशेषेण प्रतिज्ञातसमन्वय उपपद्यते । वैदिकशब्दानां तत्रान्यभियत्रान्यत्रैवप्रसिद्धभेदेन चतुर्विधानां मध्ये ब्रह्मणि प्रसिद्धानां समन्वयस्यावक्तव्यत्वात् । इतरेषां च नामलिङ्गभेदेन प्रत्येकं द्वैविध्यान्महामल्लभङ्गन्यायेन आदावन्यत्रप्रसिद्धस्य तत्रापि साक्षाद्धमिर्वाचित्वेन प्राधान्यादाद्ये पादे नाम्न: धर्मद्वारा धर्मिबोधकलिङ्गानां द्वितीयपादे उभयत्र प्रसिद्धानां द्विविधानामपि तृतीये समन्वय: । अन्यत्रैव प्रसिद्धशब्दसमन्वयस्य महाप्रयत्नसाध्यत्वेऽप्यसर्वाधिकारिकतया प्रथमं दुर्बोधतया चान्त्ये तत्समन्वय उच्यत इति पादानां भेद: क्रमश्ऱ्च । अन्यत्रप्रसिद्धादीनामसाङ्कर्यं रूढयौगिकतया नामलिङ्गभेद इत्यादि चन्द्रिकातोऽवसेयम् । (चं232-241)
।। ॐ आनन्दमयोऽभ्यासात् ॐ ।। 6 ।।
।। ॐ विकारशब्दान्नेति चेन्न प्राचुर्यात् ॐ ।। ॐ तद्धेतुव्यपदेशाच्च ॐ ।। ॐ मान्त्रवर्णिकमेव च गीयते ॐ ।। ॐ नेतरोऽनुपपत्ते: ॐ ।। ॐ भेदव्यपदेशाच्च ॐ ।। कामाच्च नानुमानापेक्षा ॐ ।। ॐ अस्मिन्नस्य च तद्योगं शास्ति ॐ ।।
सर्वापेक्षितानन्दप्रदोपासनाविषयपूर्णानन्दत्वरूपमहागुणस्य प्रथमं वाच्यत्वाद्वा आत्मशब्दाद्गौणात्मनिरास: प्रागुक्तो युक्त: । तस्य अब्रह्मणि गौणात्मन्यानन्दमयादौ एतमानन्दमयात्मानमिति श्रवणादिति पूर्वोक्ताक्षेपेण पूर्वपक्षप्रवृत्ते: आक्षेपिकी वा सङ्गति: । तैत्तिरीये । स वा एष पुरुषोऽन्नरसमय: (तै.2-4) इत्यादिना श्रुता गुणिसामान्यवाचका: अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया: आनन्दविज्ञानादिगुणसामान्यवाचका: शब्दा: विषय: । तदर्थ: किं चतुर्मुखादिर्विष्ण्वन्य: कश्ऱ्चिदथ विष्णुरिति सन्देह: । विष्णोरन्य इति पूर्व: पक्ष: । तथाहि । अन्नमयादीनां विकारार्थमयट्प्रत्यययुक्तत्वात् ब्रह्मणश्ऱ्च निर्विकारोऽक्षर: शुद्ध इत्युक्त्या निर्विकारत्वात् तदनभिमानित्वाच्च । प्राचुर्यार्थत्वेऽपि तस्य विजातीयाल्पत्वनिरूप्यत्वेन ब्रह्मणि दु:खादिलेशाप्रसक्त्या तदयोगात् तादात्म्यार्थस्य मयटो वैयर्थ्येन पराहतत्वात् अन्नात्पुरुष (तै.2-3) इति अन्नविकारं पुरुषशब्दोक्तं देहं प्रकृत्य स वा एष पुरुषोऽन्नरसमय इत्युक्तत्वात् तस्येदमेव शिर: अयं दक्षिण: पक्ष: अयमुत्तर: पक्ष: अयमात्मा इदं पुच्छं प्रतिष्ठेति शिरोबाह्वाद्यवयवानां प्रत्यक्षत्वेन निर्देशाच्च अन्नमये मयट: विकारार्थत्वेऽवश्यंभाविनि द्वैविध्यायोगेन सर्वत्र विकारार्थत्वस्यैव न्याय्यत्वाच्च । किञ्च अन्योन्तर आत्मा प्राणमय इत्यादिनैतेऽन्यान्यत्वादिना तस्यैष एव शरीर आत्मेति शरीरशरीरिभावेन चोच्यते । एते च पञ्च कोशा: ब्रह्म तु एकमेवाद्वितीयमित्यादे: निर्भिन्नमेकं च । अशरीर: प्रज्ञात्मेत्युक्तेरशरीरं च । आनन्दमये च तस्य प्रियमेव शिर: मोदो दक्षिण: पक्ष: प्रमोद उत्तर: पक्ष: आनन्द आत्मा ब्रह्म पुच्छं प्रतिष्ठेति ब्रह्मण आनन्दमयपादाख्यावयवतयोक्ते: । आनन्दमयो न ब्रह्म द्वयोबर्रह्मत्वविरोधात् । अवयवावयविनोरैक्यायोगात् । तस्मात् कोशा एव वा सर्वविकारात्मत्वेन प्रकृतिर्वा विकाराभिमानित्वात् जीवो वा अन्यो वा य: कश्ऱ्चिद्भाष्योक्तदिशा एतै: शब्दैरुच्यते । न सर्वथा विष्णुरिति । सिद्धान्तस्तु । अन्नमयादय: पञ्चापि ब्रह्मैव । येऽन्नं ब्रह्मोपासते ये प्राणं ब्रह्मोपासते आनन्दं ब्रह्मणो विद्वान् विज्ञानं ब्रह्म चेद्वेद अस्ति ब्रह्मेति चेद्वेद इति पञ्चस्वपि प्रत्येकं ब्रह्मशब्दश्रवणात् विज्ञानानन्दमययोस्तदभ्यासाच्च । अन्योन्तरआत्मा प्राणभय: एतमन्नमयमात्मानमित्येवंरूपेण पञ्चस्वप्यात्मशब्दाभ्यासाच्च । तथान्नमये अद्यतेऽत्ति च भूतानीत्यादिना सर्वोपजीव्यत्वसर्वसंहर्तृत्वज्येष्ठत्वोपासकप्राप्यात्वादिलिङ्गम् । प्राणमये च प्राणं देवा अनुप्राणन्तीत्यादिना सर्वदेवादिचेष्यकत्वं सर्वायूरूपमोक्षहेतुज्ञानविषयत्वमित्यपि लिङ्गम् । मनोमये च यतो वाचो निवर्तन्त इत्यादिना अवाङ्मनसगोचरत्वभयाभावरूपमुक्तिहेतुवेदनविषयत्वादिलिङ्गम् । विज्ञानमये च विज्ञानं देवा: सर्वे ब्रह्म ज्येष्ठमुपासते इत्यादिना सवर्देवोपास्यत्वज्येष्ठत्वमुक्तिहेतुत्वोपासकप्राप्यत्वादिलिङ्गम् । आनन्दमये च सोऽकामयतेत्यादिना सङ्कल्पपूर्वकं स्रष्यृत्वं सर्वान्तर्यामित्वं मुक्तिहेतुज्ञानविषयत्वमित्यादिलिङ्गम् । तथा को ह्येवान्यात्क: प्राण्याद्यदेष आकाश आनन्दो न
स्यादित्यानन्दशब्दितपूर्णानन्दत्वरूपानन्दमयत्वे विश्ऱ्वचेष्यकत्वस्य हेतुत्वम् । पञ्चानामपि स य एवंविदित्युक्तब्रह्मविदा एतमन्नमयमात्मानमुपसङ्क्रामतीति फलत्वेन प्राप्यत्वोक्ते: । ब्रह्मवित्प्राप्यत्वं श्रुतमिति पञ्चस्वपि लिङ्गबाहुल्यात् ब्रह्मविदापनोतिपरमिति उक्तब्रह्मणि सत्यं ज्ञानमनन्तमिति मन्त्रवर्णोक्तलक्षणस्य एतै: शब्दैर्व्याख्यानेन ब्रह्मप्रकरणत्वात् । भृगुवर्ै वारुणिरित्यादि भृगुवल्लीसमाख्यानात् । शन्नोमित्रादिभि: वाक्यै स्तैरेवहरिमस्तुवत् । मुक्तगीतावसानैस्तु स्तुतत्वेन जनार्दन इति स्मृत्या (तै.भा.1-1) ब्रह्मपरत्वेन निर्णीतोपनिषद्रूपस्थानमध्यपतितत्वाच्च । ब्रह्मात्मशब्दादेर्भाष्योदाहृतश्रुत्यादिभि: विष्ण्वेकनिष्ठत्वाद्भृगुवल्लया: समाख्यानत्वस्य मूलग्रन्थेषु समर्थनात् । नच मयट्प्रत्ययायोग: । तस्य सजातीयीवगतसुखाल्पत्वनिरूप्यतया प्राचुर्यार्थत्वेनोपपत्ते: । उक्तं च । विजातीयसामानाधिकरणाल्पं यथा तथा सजातीयभिन्नाधिकरणाल्पं निरूपकमिति । अन्यत्वान्तरत्वाद्युक्तिरपि अधिष्ठानभूतकोशानामन्यत्वात् शरीरत्वाद्ब्रह्मणो बहुरूपत्वात् विशेषवत्वात् अनन्योप्यन्यशब्देनेत्यादिस्मृतिबलाद्युज्यते । कथं तर्हि स वा एष इति देहपरामर्श इति चेन्न । आत्मन आकाश इत्यादावन्नात्पुरुष इत्यादावन्नात्पुरुष इत्यन्ते वाक्ये हरेरप्याकाशादिनियमामकरूपस्य प्रादुर्भावरूपजनेरुक्ते: । पुरुषपदेन हरेरपि प्रकृततया तत्परामर्शात् । यद्वक्ष्यति "कारणत्वेन चाकाशादिषु' इत्यादि (ब्र.सू.1-4-15) । प्रकृतान्नमयदेहव्यावृत्यर्थमेव रसशब्देन स इति व्यवहितात्मपरामर्शिना तच्छब्देन च विशेषणात् अन्यथैषोन्नमय इत्येतावता पूर्ते: । तस्येदमेव शिर: इति प्रत्यक्षनिर्देशस्य वस्त्रप्रावृतजानुनीदञ्जान्वितिवदुपपत्ते: । आनन्दमयतदवयवयोर्द्वयोरपि पूर्णत्वरूपब्रह्मत्वस्य अन्यत्र समर्थनेनावयवत्वविरोधाभावाच्च । अत: साधकसत्त्वाद्बाधकाभावाच्च पञ्चाप्यनिरुद्धादिब्रह्मरूपाण्येव कोशस्थानीति । प्रयोजनं तु ब्रह्मण आनन्दमयावयवत्वात् अवयविनं विनाऽवयवजिज्ञासाऽयोगादिति जिज्ञासाक्षेपसमाधाने ।। 6 ।।
।। ॐ अन्तस्तद्धर्मोपदेशात् ॐ ।। 7 ।।
।। ॐ भेदव्यपदेशाच्चन्य: ॐ ।।
अदृश्येऽनात्म्य इति श्रुतस्यानन्दमयधर्मस्यादृश्यत्वस्य अन्तस्थे श्रवणात्तस्य चाविष्णुत्वात्सोऽपि न विष्णुरिति पूर्वाक्षेपात्सङ्गति: । अन्त:प्रविष्यं कर्तारमेतमन्तश्ऱ्चन्द्रमसि मनसा चरन्तम् । सहैव सन्तं न विजानन्ति देवा इति तैत्तिरीये (तै.आ.3-11) अदृश्यत्वादिगुणयुक्तोऽन्तस्थ: श्रुत: । देवा अपि न जानन्ति किम्बन्य इति कैमुत्यलब्धत्वाददृश्यत्वस्य सोऽन्तस्थ: किं विष्णुरुत इन्द्रादिरन्य इति सन्देह: । इन्द्रादिरिति पूर्व: पक्ष: । इन्द्रो राजा ब्रह्मेन्द्रमग्निमित्यादिइन्द्रश्रुते: । सप्त युञ्जन्ति रथमेकचक्रमिति सूर्यलिङ्गात् अपां नेतरामिति वरुणलिङ्ग त्त्वष्यारं रूपाणि विकुर्वन्तमिति त्वष्य्रश्रुते: । अदृश्यत्वादिविष्णुलिङ्गानां बहुत्वेऽपि श्रुते: स्वभावाप्रयुक्तप्राबल्यस्य बलवत्वात् "तयो: स्वभावो बलवान्' इत्युक्ते: निरवकाशत्वेन लिङ्गानामपि बलीयस्त्वे तदुत्तरश्रुतिलिङ्गोभयानुरोधेन इन्द्रादेर्विष्ण्वैक्यमस्तु । तावतापि विष्णुलिङ्गानामनुपहितरूपाभिप्रायेणोपपत्त्या कल्पितभेद इन्द्रादिरेवान्तस्थ इति । सिद्धान्तस्तु । अन्त:समुद्रे मनसा चरन्तं यस्याण्डकोशं शुष्ममाहु: ब्रह्मान्वविन्दद्दशहोतारमर्ण इति श्रुतसमुद्रस्थत्वब्रह्माण्डवीर्यत्वादिब्रह्मलिङ्गानां भाष्योक्तश्रुत्यादिनाऽनवकाशत्वात् इन्द्रस्यात्मा वायोरात्मानं अन्तरादित्य इत्यादिना अस्मिन्नेव प्रकरणे अन्तस्थस्येन्द्रादिभिर्भेदव्यपदेशेनैक्यायोगाच्च इन्द्रादिशब्दानामैश्ऱ्वर्यादिप्रवृत्तिनिमित्तस्य विष्णावपि सत्त्वादन्यगतस्य तदधीनत्वेन तदधीनत्वन्यायाच्च । महायोगेन इन्द्रं मित्रं वरुणमग्निमाहुरित्यादिश्रुत्या विद्वद्रूढ्या च सप्ताश्ऱ्वत्वाद्यन्यलिङ्गानां च शास्त्रदृष्ययेतिन्यायेन विष्णावपि वृत्तिसम्भवेनान्तस्थो विष्णुरिति । फले तु पूर्वाक्षेपसमाधी ।। 7 ।।
।। ॐ आकाशस्तल्लिङ्गात् ॐ ।। 8 ।।
अधिकाशङ्कां कृत्वा पूर्वन्यायस्यातिदेशकी वा पूर्ववैषम्येण पूर्वपक्षोत्थानात् प्रत्युदाहरणरूपा वा सङ्गति: । छान्दोग्ये आद्येऽध्याये आम्नायते(छां.1-9) अस्य लोकस्य का गतिरित्याकाश इति होवाचेत्यादिशालावत्यप्रश्ऱ्नोत्तरत्वेन श्रुतआकाशशब्द: किं भूताकाशवाची उत विष्णुवाचीति सन्देह: । आकाशशब्दस्य आकाशे रूढत्वात् भूताकाशमेवेति प्राप्तम् । नच विष्णुलिङ्गविरोध: श्रुतितो लिङ्गस्य दुबर्लत्वात् । नच लिङ्गस्य निरवकाशत्वान्निरवकाशलिङ्गेन रूढिबाध: पूर्वत्रेव सिद्ध इति नास्योत्थितिरिति शङ्कयम् । इन्द्रादिगतैश्ऱ्वर्यादेरीशप्रसादलब्धत्वेन तदधीनत्वादितिन्यायेन इन्द्रादिशब्दानामीशवाचित्वेऽपि अचेतने तत्प्रसादाभावेन आकाशपदप्रवृत्तिहेतोर्विवरत्वस्य तदनधीनत्वादतद्गतत्वाच्चेत्यधिकाशङ्कत्थानाद्वा । येन लिङ्गेन पूर्वत्र सिद्धान्तो न तेनैवात्र किंत्वन्येन । एवं च प्राक् तेन लिङ्गेन वैष्णवत्वस्य भाष्योक्तश्रुत्यादिना निश्ऱ्चयेऽप्यत्र तदनिश्ऱ्चयात् निरूढाकाशश्रुत्या भूताकाश एवेति पूर्वाक्षेप: ।
एवमग्रेऽपि । सिद्धान्तस्तु । स एष परोवरीयानुद्गीथ: स एषोऽनन्त इति परोवरीयस्त्वोद्गीथत्वानन्तत्वलिङ्गानां परस्मादुत्तमं प्रोक्तमितिस्मृत्या परोमात्रयेतिश्रुत्या (ऋ.1-154-1) च विष्ण्वैकनिष्ठत्वात्तद्बलेन श्रुतेर्लोकप्रसिद्धित्यागेन विष्णुवाचित्वावश्यंभावादाकाशो विष्णुरेव । नच निमित्ताभाव: । नभो ददाति श्ऱ्वसतां मार्गं यन्नियमादद इति स्मृत्या (भाग.3-30-43) चेतनस्येशाधीनत्वे सुतरां जडस्येति लोकन्यायाच्च तदधीनत्वेन विवरत्वस्य तत्पदनिमित्तस्येशगतत्वाभावेऽपि तत्प्रति स्वातन्त्ऱ्ेण तदधीनत्वादिति वक्ष्यमाणन्यायेन सर्वभूतगुणैर्युक्तमित्यादिस्मृत्या तद्गतत्वेन च मुख्यतो विष्णुवाचित्वोपपत्तिरिति । अत्रायमाकाशोऽन्यश्ऱ्चेद्यदेष आकाश आनन्दो न स्यादित्युक्तोपि विष्णोरन्य इति तदाक्षेपसमाधाने पूर्वोत्तरपक्षफले ।। 8 ।। N.M-1
।। ॐ अत एव प्राण: ॐ ।। 9 ।।
अत्राप्यातिदेशिकी वा पूर्ववैषम्येणापूर्वपक्षोत्थानात् प्रत्युदाहरणरूपा वा आकाशाद्वायुरिति श्रौतक्रमेण विचारणाद्वा सङ्गति: । तद्वैत्वं प्राणो अभव इति तैत्तिरीये (तै.आ.3-14) भर्ता सन् भ्रियमाण इत्यनुवाके श्रुत: प्राण: किं मुख्यवायुरुत विष्णुरिति सन्देह: । प्राणशब्दस्य मुख्यवायौ रूढत्वात् प्राणो मुख्यवायुरेवेत्यस्य पूर्वन्यायेन अत्रत्यनिरवकाशलिङ्गेन निरासेऽपि प्राणपदस्य विष्णौ रूढेरभावात्तत्प्रवृत्तिनिमित्तप्राणनाख्यजीवनहेतुत्वस्य "तत्प्राणे प्रपन्न उदतिष्ठत्' (ऐ.2-1-4) "यत्प्राप्तिर्यत्परित्याग:' (ब्र.सू.भा.2-4-9) इति श्रुतिस्मृतिभिर्वा सुधोक्तदिशा कुलालशरीरस्य घटं प्रतीव मुख्यप्राणशरीरभूतवायोर्जीवनं प्रत्यन्वयव्यतिरेकदर्शनेन प्रत्यक्षेणावगतान्वयव्यतिरेकाभ्यां वा मुख्यवायुगतत्वेन यागस्याप्यभावादिति न प्राणो विष्णुरिति विशेषशङ्कयोत्थानाद्वा पूर्ववन्निरवकाशलिङ्गेन लोकप्रसिद्धेस्त्याज्यत्वात् । श्रीश्ऱ्च त इति युष्मच्छब्देनोक्तस्य तद्वैत्वं प्राण इति अत्रापि युष्मच्छब्देन प्रत्यभिज्ञानेन तयोरनुवाकयोर्भिन्नार्थत्वशङ्कानुदयात् भर्ता सन्नित्यनुवाके तमेवमृत्युममृतं तमाहुरित्यादिना अमृतत्वादिलिङ्गश्रवणात् तत्प्राण इति श्रुते: (ऐ.2-1-4) प्राणस्तथेत्यत्रत्यन्यायेन (ब्र.सू.1-1-28) वैष्णवत्वात् वायुवृत्तेर्मुख्यप्राणदेहत्वमिव मुख्यप्राणस्यापि विष्णुदेहत्वेनान्वयव्यतिरेकयोरपि तदीयतया तस्यैव जीवनहेतुत्वात् वायुगतस्यापि तदधीनत्वेन तदधीनत्वन्यायात् प्राणस्य प्राण इत्यादौ (तल.1-2) प्रयोगाच्च योगरूढिभ्यां विष्णुरेव प्राणपदवाच्य इति । ह्रीश्ऱ्च ते लक्ष्मीश्ऱ्च पत्न्याविति भाष्योक्तश्रुत्यन्तरबलात् ह्रीरत्र श्रीरेवेति ध्येयम् । प्रयोजनं तु महान्भोग इति महाभोगशब्दितपूर्णानन्दत्वमुखेनानन्दमयाक्षेप: तत्समाधिश्ऱ्च ।। 9 ।।
।। ॐ ज्योतिश्ऱ्चरणाभिधानात् ॐ ।। 10 ।।
पूर्ववैषम्येण पूवर्पक्षोत्थानात्प्रत्युदाहरणरूपा वा श्रौतक्रमाद्वा सङ्गति: । वि मे कर्णा पतयतो वि चक्षुर्वी3दं ज्योतिर्हृदय आहितं यत् । वि मे मनश्ऱ्चरति दूर आधी: किंस्विद्वक्ष्यामीत्यग्निसूक्ते (ऋ.6-9-6) श्रुतं ज्योति: किमग्नि: उत विष्णुरिति सन्देह: । अग्निरिति पूर्व: पक्ष: । ज्योतिश्रुतेरग्नौ रूढत्वात् तस्य तमोविरोधिमात्रवाचित्वेऽपि हृदयगुहानिहितत्वलिङ्गेन त्वामग्ने तमसीत्यग्निशब्दसान्निध्याच्च अन्यत्रास्यायोगात् । नच पूर्ववदनवकाशलिङ्गेन श्रुतिबाधात् नास्योत्थितिरितिवाच्यम् । वैषम्यात् । प्राणश्रुतेर्वायुसूक्ताननुग्रहात् अस्यास्तु प्रकरणरूपेणाग्निसूक्तेन अनुगृहीतत्वात् । नच श्रुतेर्भूतपरत्वे आकाशनयन्यायेन देवतापरत्वे च अन्तर्नयन्यायेन विष्णौ सावकाशत्वात् तस्यास्तथात्वे तद्युक्तसूक्तस्यापि तथात्वात् निरवकाशलिङ्गेन तयोर्बाध इति वाच्यम् । गुहास्थत्वादिलिङ्गस्यापि सावकाशतया ताभ्यां तद्बाधात् । सूक्तस्य वैष्णवत्वे इदमग्निसूक्तं इदं वायुसूक्तमित्यादिव्यवस्थाया "अभिव्यक्ते:' (ब्र.सू.1-2-29) इत्यादिन्यायसिद्धत्वेऽपि इदमग्निसूक्तं न विष्णुसूक्तमिति लोकप्रसिद्धययोगेन सूक्तस्य निरवकाशत्वाच्चेति । सिद्धान्तस्तु । वि मे कर्णा पतयत इत्यादिनोक्तपरिच्छिन्नवैभवत्वरूपस्य कर्णादिविदूरत्वलिङ्गस्य परोमात्रयेतिश्रुत्या विष्ण्वैकनिष्ठत्वेनान्यत्रानवकाशत्वात् प्रकाशत्वरूपे ज्योति:पदप्रवृत्तिनिमित्तस्य विष्णौ सत्त्वात् अन्यगतस्य तदधीनत्वात् तद्देवा ज्योतिषां ज्योति: (बृ.6-4-16) इत्यादौ प्रयोगाच्च । तस्य च ज्योति:पदस्य ज्योतिषैकेषामिति (ब्र.सू.1-4-14) वक्ष्यमाणदिशा वैष्णवत्वात् । विष्णुसूक्तं नेति प्रसिद्धेरज्ञानमूलत्वेन तयो: सावकाशयो: निरवकाशलिङ्गेन बाधात् । योगरूढिभ्यां ज्योति:पदवाच्यो विष्णुरेव सूक्तं च तत्परमिति । फलन्तु हृदय आहितत्वमुखेन यो वेद निहितं गुहायामित्युक्तानन्दमयाक्षेपस्तत्समाधिश्ऱ्चेति ।। 10 ।।
।। ॐ छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दर्शनम् ॐ ।। 11 ।।
पूर्वसिद्धान्ताक्षेपेण वा पूर्ववैषम्येण वा पूर्वपक्षप्रवृत्ते: सङ्गति: । छान्दोग्ये तृतीयाध्याये "गायत्री वा इद्ँ सर्वं भूतं यदिदं किञ्च वाग्वै गायत्रि' इति गायत्री किं वर्णसमावेशरूपाच्छन्द: उत विष्णुरिति सन्देह: । छन्दोविशेष इति पूर्व: पक्ष: । गायत्रीशब्दस्य तत्र रूढत्वात् । नच विष्णुलिङ्गै: पूर्वत्रेवात्रापि श्रुतिबाध: स्यादिति शङ्कयम् । विष्णौ प्रसिद्धशब्दत्यागेन अप्रसिद्धगायत्रीपदप्रयोगे प्रयोजनाभावात् । पूर्वत्रैकज्योति:श्रुतेर्लिङ्गेनान्यत्र प्रसिद्धिबाधेऽपि इह "वाग्वै गायत्री' "येयं पृथिवी' इति वाक्पृथिव्याद्यनेकश्रुतिबाधायोगात् विष्णौ गायत्रीपदस्य रूढेरभावात् योगस्य चामुख्यत्वात् गायत्ऱ्या: वेदविशेषत्वेन नित्यतया ईशाधीनत्वस्यायोगेन तदधीनत्वन्यायस्याप्यनवतारात् अत एव प्राग्विष्णुवाचितया निर्णीतज्योति:श्रुते: अत्रोत्तरवाक्ये "अथ यदत: परो दिवो ज्योतिर्दीप्यते' इति श्रवणात्तद्बलेन प्राक् श्रुता गायत्री विष्णुरिति निरस्तम् । तया बहुश्रुतिबाधायोगात् "तेजो वै ब्रह्मवर्चसं गायत्रि' इति ज्योति:पर्यायतेज:शब्दस्य गायत्ऱ्यां प्रयोगेण तत्रैव सावकाशत्वाच्च । तद्बलेन प्राचीनज्योतिषोऽपि गायत्रीत्वस्यैव न्याय्यत्वात् । यद्वा विष्णुत्वेऽप्यग्रेतनज्योतिष: त्रिपादस्यामृतंदिवीति गायत्ऱ्या द्युस्थत्वोक्त्या दिव:परत्वेनोक्तज्योतिषो गायत्रीतोऽन्यत्वात् प्राक्तनस्य ज्योतिष: कर्णादिविदूरत्वेन विष्णुत्वेऽपि अत्रत्यस्य तदेतद्दुष्यं च श्रुतं चेति तद्विरुद्धदृष्यत्वादिश्रवणेनाविष्णुत्वात् न तया ज्योति:श्रुत्या गायत्री विष्णुरिति । सिद्धान्तस्तु । "ततो ज्यायांश्ऱ्च पूरुष:' "यद्वैतद्ब्रह्म' "एतामेवं ब्रह्मोपनिषदं वेद' इति पुरुषब्रह्मादिश्रुतीनां गायति च त्रायति चेत्युक्ताशेषवेदोच्चारणाख्यगानत्राणकर्तृत्वस्य पादोऽस्य विश्ऱ्वा भूतानीत्यादिनोक्तभूतादिपादत्वस्य एतामेव नातिशीयन्त इत्युक्तससर्वोत्तमत्वादेर्लिङ्गस्य च बाहुल्यात् तत्पदप्रवृत्तिनिमित्तगुणवत्तयोपासनार्थमप्रसिद्धपदप्रयोगोपपत्ते: । बहुभि: श्रुतिलिङ्गैबर्हूनां शब्दानां प्रसिद्धार्थत्यागसम्भवात् । गायति च त्रायतिचेत्युक्त्याज्ञरूढितो बलवता श्रौतयोगेन अनादिगुणादीनां गुण्याद्यधीनत्वमिव स्वभावजीवकर्माणि' इत्यादिश्रुत्यपेक्षयाऽनादिनित्यस्यापि ईशाधीनत्वसम्भवेन तदधीनत्वन्यायाच्च महायोगेन सर्वच्छन्दोभिधो ह्येष इति पौराणिकरूढ्या च गायत्री विष्णुरित्यग्रेतनं प्राक्तनं च ज्योति: स एव द्युस्थत्वदिव:परत्वादृश्यत्वदृष्यत्वाद्युपदेशभेदस्य त्रिसप्तलोकविवक्षया आकारभेदेन चोपपत्तेरिति । फलेषु प्राचीनज्योतिषो विष्णुत्वाक्षेपतत्समाधी वा अस्यां हीदं सर्वं प्रतिष्ठितमित्युक्तस्थितिहेतुत्वमुखेन जन्मादिसूत्राक्षेपतत्समाधी वेति ।। 11 ।।
।। ॐ प्राणस्तथानुगमात् ॐ ।। 12 ।।
।। ॐ न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ॐ ।। ॐ शास्त्रदृष्यया तूपदेशो वामदेववत् ॐ ।। ॐ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॐ ।।
अत्र श्रुतिलिङ्गबाहुल्येन पूर्वसिद्धान्तन्यायेन पूर्वपक्षप्रवृत्तेरापवादकी सङ्गति: । ऐतरेये "ता वा एता: शीर्षच्छ्रिय: श्रिताश्ऱ्चक्षु:श्रोत्रं मनो वाक् प्राणम्' (ऐ.2-1-4) इत्यादिना बहुस्थलेषु श्रुत: प्राण: किं मुख्यवाय्वादिरत विष्णुरिति सन्देह: । वाय्विन्द्रजीवा इति पूर्व: पक्ष: । तच्छतिलिङ्गानां बाहुल्यात् । तथाहि । चक्षु:श्रोत्रादिभि: सह पाठ: ता अहिंसन्तेत्यादिनोक्तानि प्राणविवादो देहादुत्क्रमणप्रवेशौ ततो देहपातोत्थाने प्राणसंवादश्ऱ्चेत्यादीनि मुख्यप्राणलिङ्गानि तत्सहचरितप्राणश्रुतिश्ऱ्च तथा "तं यच्छतं वर्षाण्यभ्यार्चद्' (ऐ.2-1-1) इति श्रुतशतायुष्ट्वं तत्सहपठितपुरुषश्रुति: "प्राणो वंश:' (ऐ.3-1-2) इति चक्षुरादीन् प्रति वंशत्वमित्यादि जीवलिङ्गानि इन्द्रो वै वृत्रं हत्वेत्याद्युक्तवृत्रहननमहाव्रतयाजित्वलिङ्गानि "तमिन्द्र उवाच प्राणोवाहमस्म्यृष:' (ऐ.2-2-3) इतीन्द्रप्रयुक्ताहंश्रुतिश्ऱ्चेति श्रुतिलिङ्गबाहुल्यं श्रूयते । नचैतानि विष्णौ सर्वं सम्भवतीति । सिद्धान्तस्तु । एतद्ब्रह्मै तत्सत्यं (ऐ.2-1-1) तं प्रपदाभ्यां प्रापद्यते (2-1-4), ब्रह्मेमं पुरुषं (2-1-4), अ: इति ब्रह्म (2-3-8) इत्यादिश्रुतीनां "तं देवा: प्राणयन्ते (ऐ.2-1-5), तं भूतिरिति देवा उपासाञ्चक्रिरे (2-1-8), सर्वे वेदा (2-2-2) इति, प्राणो ह्येष य एष तपति (2-2-3) आपिपीलिकाभ्य: प्राणेन बृहत्या विष्यब्धानि' इत्यादिना (ऐ.2-1-6) श्रुतानां देवोपदेश्यत्वसर्ववेदप्रतिपाद्यत्वसूर्यमण्डलस्थत्वसर्वान्तर्यामित्वसवर्व्यापित्वलिङ्गानां च भाष्यादुक्तवचनान्तरबलेन
विष्ण्वेकनिष्ठत्वात् प्रागुक्तश्रुत्यादितोऽपि बाहुल्याच्च । प्रागुक्तश्रुतिलिङ्गानां तत्तदन्तर्यामिस्थतया सावकाशत्वात् । उदासीनवदास्तामित्यस्य (बृ.भा.2-1-4) बाह्यरूपविषयत्वेनाविरोधात् । इन्द्रप्रयुक्ताहंशब्दस्यापि अहं मनुरित्यादौ वामदेवप्रयुक्ताहंशब्दवल्लक्षणया वा "सर्वान्तर्यामिको विष्णु: मनुरित्यादौ वामदेवप्रयुक्ताहंशब्दवल्लक्षणया वा "सर्वान्तर्यामिको विष्णु: सवर्ाना नाभिधीयते । एषो हं त्वमसौ च' इत्यादिस्मृत्या (ब्र.सू.भा.1-1-17) मुख्यवृत्त्या वा अन्तर्यामिपरत्वात् प्राणो विष्णुरेवेति । फले तु अत एव प्राण इत्युक्तप्राणस्य विष्णुत्वाक्षेपसमाधी ।। 12 ।।
।। इति श्रीमद्राघवेन्द्रयतिकृतायां न्यायमुक्तावल्लयां आद्येऽध्याये प्रथम: पाद: ।।
।। अथ द्वितीय: पाद: ।।
एवमनन्तवेदगताशेषना नां तत्तद्वाक्यगताशेषलिङ्गै: वैष्णवत्वेऽभिहिते तत्र विप्रतिपन्नलिङ्गानां समन्वयेऽत्र पादे निरूप्यते ।
।। ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ ।। 1 ।।
।। ॐ विवक्षितगुणोपपत्तेश्ऱ्च ॐ ।। ॐ अनुपपत्तेस्तु न शारीर: ॐ ।। ॐ कर्मकर्तृव्यपदेशाच्च ॐ ।। ॐ शब्दविशेषात् ॐ ।। ॐ स्मृतेश्ऱ्च ॐ ।। ॐ अर्भकौकस्त्वात्तद्वयपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॐ ।। ॐ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॐ ।।
पूर्वोत्तरपादान्त्याद्यनयोर्नावश्यं सङ्गत्यपेक्षा । अपेक्षायां तु पूर्वाक्षेपादाक्षेपिकी । ऐतरेये "चत्वार: पुरुषा इति बाध्व:' इति खण्डे (ऐ.3-2-3) तस्यैतस्यासावादित्योरस इत्युपक्रमेण एतं ह्येव बत्दृचा महत्युक्थे मीमांसन्त इत्यादिना उक्थाग्निमहाव्रतपृथिवीद्युवाय्वाकाशौषधिवनस्पतिचन्द्रनक्षत्रेषूक्त्वा सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षत इत्यादिना सर्वभूतगत: कश्ऱ्चिदा नायते । स सर्वत्र श्रुत: किमादित्यजीवौ विष्णुर्वेति सन्देह: । पूर्वपक्ष: । प्रागसकृच्छतादित्यपदोक्तस्यैव एतमितिपरामर्शात् तस्य च तस्यैतस्येतिपदेन प्रस्तुतसंवत्सरं परामृश्य रस इति तत्सारत्वाख्यलिङ्गोक्त्यादित्यपरत्वात् चित्रं देवानामिति सौरमन्त्रोदाहरणात् आदित्ये एतमिति विशिष्यादित्येऽनुक्तत्वलिङ्गाच्च आदित्य एव सर्वगत इति । चक्षुर्मय: श्रोत्रमय इत्यादिना वक्ष्यमाणमानकरणतया प्रसिद्धचक्षुरादिसम्बन्धरूपजीवलिङ्गाद्भूतेष्वेतमिति भूतपदोपादनबलाद्भूतादन्यत्राभावप्रतीत्या प्राप्ताल्पौकस्त्वलिङ्गाच्च । वक्ष्यमाणपरामर्शित्वस्याप्येतच्छब्दे तत्रतत्र दर्शनात् । सर्वे जीवा वा । नतु विष्णु: उक्तश्रुतिलिङ्गानामयोगात् । सर्वभूतगतत्वे तद्गतसुखदु:खादिभोगप्राप्तेश्ऱ्चेति प्राप्तम् । सिद्धान्तस्तु । एतमेव ब्रह्मेत्याचक्षत इति ब्रह्मशब्दस्य "तदेव ब्रह्म परमं कवीनाम्' (महाना.उ.)इत्यादौ विष्णौ प्रसिद्धत्वतात् । जात्यादेर्ब्रह्मपदामुख्यार्थस्य विष्णोर्ब्रह्मपदमुख्यार्थस्य सत्त्वेन एतमेवेत्यवधारणयोगात् तद्बलेन ब्रह्मपदेनात्र मुख्यार्थस्यैवग्राह्यत्वात् । स योचोऽश्रुतोऽगतोऽमत इत्यादिनोत्तरवाक्येनोक्तानां कात्स्नर्येनाश्रुतत्वादिलिङ्गानां च सत्त्वात् । "अहमात्मा गुडाकेश सर्वभूतशयस्थित:' (भ.गी.10-20) इति स्मृतिसमाख्यानाच्च साधकसत्त्वात् । संवत्सरो वै प्रजापतिरित्यादे: संवत्सरपदस्य विरिञ्चपरतया तत्सारत्वस्य अन्तर्नयन्यायेनादित्यश्रुते: सर्वगतत्वादेव अल्पस्थानेऽपि स्थिते: विष्णावल्पस्थानत्वरूपाल्पौकस्त्वस्य व्योमवदुपपत्ते: । भूतपदस्य तथोपासनार्थत्वात् । संभोगप्राप्तेश्ऱ्च सामर्थ्यवैशेष्येण सुपरिहरत्वेन "भूतेषु' इत्यनेन चादित्यस्थत्वस्याप्युपपत्ते: । चक्षुरादिस्वामित्वादिरूपचक्षुर्मयत्वादेरपि सम्भवेन बाधकानामभावात् । अणोर्जीवस्यादित्यस्य वा सर्वगतत्वाद्ययोगेन परपक्षे बाधकाभावाच्च पृथिव्यादौ सर्वत्रोच्यमानो विष्णुरेवेति । फलं तु भूतेष्वेतमेव आदित्यादिकमेव नान्यदित्येवकारेण विष्णोर्भूतादन्यत्रैव सत्त्वेन प्रतीत्या ब्रह्म ततमपश्यदिति (ऐ.2-4-3) पूर्वनयनिर्णयश्रुत्युक्तव्याप्तत्वाख्यसर्वगतत्वमयुक्तमिति पूर्वाक्षेपस्तत्समाधिश्ऱ्चेति ।। 1 ।।
।। ॐ अत्ता चराचरग्रहणात् ॐ ।। 2 ।।
।। ॐ प्रकरणाच्च ॐ ।।
अत्र पूर्ववैषम्येण पूर्वपक्षोत्थानात् प्रत्युदाहरणरूपा सङ्गति: । वाजसनेये तृतीयाध्याये "स यद्यदेवासृजत तत्तदत्तुमध्रीयत सर्वं वा अत्तीति तददितेरदितित्वम्' (बृ.3-2-5) इति श्रुतम् । अत्र सर्वं वा अत्तीत्यनेन लब्धोऽत्ता किमदितिर्देवमाता अथ विष्णुरिति सन्देह: । (पूर्व: पक्ष:) अदितिरेवेति प्राप्तं तददितेरित्यादिश्रुते: अदितित्वलिङ्गाच्च । आदित्यशब्दपर्यायसवितृश्रुतेरन्तर्नयविषयवाक्ये श्रुताया: वैष्णवत्वसिद्धया आदित्यश्रुते: पूर्वत्र विष्णुपरत्वेऽप्यत्र तदसिद्धया श्रुतेर्निरवकाशत्वात् । लिङ्गस्याप्यत्तृत्वरूपतयाऽनश्ऱ्नन्नितिश्रुत्या अनत्तुर्विष्णोरयोगादिति द्वयोर्निरवकाशत्वाद्वा श्रुतेरन्तर्नयन्यायेन सावकाशत्वेऽपि निरवकाशलिङ्गानुगृहीतत्वाद्वेति । सिद्धान्तस्तु । सवर्ं वा अत्तीत्युक्तसर्वात्तृत्वरूपसंहर्तृत्वस्य "यमप्येति भुवनं साम्पराये' (घृत.सू.) "स्रष्या पाता तथैवात्ता' (स्कान्द.पु.) इत्यादिश्रुतिस्मृतिभि: विष्ण्वेकनिष्ठत्वात्तस्यैवादितिपदप्रवृत्तिनिमित्ततयाऽदितित्वलिङ्गस्य अदितिश्रुतेश्ऱ्च विष्णौ सावकाशत्वात् नैवेह किञ्चनाग्र आसीन्मृत्युनैवेदमावृतमासीदित्यनवकाशब्रह्मप्रकरणाच्च विष्णुरेवात्तेति । अनशनश्रुतिगतिस्तु वक्ष्यते । फलं तु श्रुतिलिङ्गबलाददिते: सङ्कुचितसर्वात्तृत्वे विष्णोस्तदन्यकतिपयात्तृत्वस्यैव सिद्धान्तिना लक्षणत्वेन वाच्यत्वादतिव्याप्तिरिति वा अदितेरेवासङ्कुचितसर्वात्तृत्वमिति वा जन्मादिसूत्राक्षेपस्तत्समाधिश्ऱ्चेति ।। 2 ।।
।। ॐ गुहां प्रविष्यावात्मानौ हि तद्दर्शनात् ॐ ।। 3 ।।
।। ॐ विशेषणाच्च ॐ ।।
अत्र प्रागुक्तात्तृत्वविशेषस्य कर्मफलभोक्तृत्वस्य चिन्तनाद्वा पूर्वाक्षेपेण पूर्वपक्षोत्थानाद्वा सङ्गति: । काठके तृतीयवल्लयां "ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्यौ' इति श्रुतवाक्ये ऋतं पिबन्तावित्यादौ कर्मफलभोक्तारौ किं जीवेश्ऱ्वरौ किं वा ईश्ऱ्वररूपविशेषौ इति सन्देह: । पिबन्ताविति द्विवचनश्रुतेर्द्वित्ववाचित्वात् तस्य चाभेदेऽयोगात् कर्मबन्धविधुरे कर्मफलभोक्तृत्वस्याप्ययोगात् । छत्रिन्यायेन सजातीयौ भोक्तृजीवेश्ऱ्वरावेवेति प्राप्ते ब्रूम: । गुहां प्रविष्यावित्युक्तगुहानिविष्ठत्वलिङ्गस्य "यो वेद निहितं गुहायाम्' (तै.उ.2-1), "गुहाहितं गह्वरेष्ठं पुराणम्' इत्यादिना विष्णोरेव प्रसिद्धत्वात् । य: सेतुरीजानानामक्षरं ब्रह्मतत्परम् । अभयं तितीर्षतां पारमित्युत्तरवाक्ये श्रुतात्परत्वविशेषणयुक्तब्रह्मतत्परम् । अभयं तितीर्षतां पारमित्युत्तरवाक्ये श्रुतात्परत्वविशेषणयुक्तब्रह्मशब्दात् "एषसेतुर्विधृति:' (छा.8-4-1) इत्यादिश्रुत्यन्तरसिद्धसेतुत्वाभयत्वादिलिङ्गाच्च । "आत्मान्तरात्मेति हरिरेक एव द्विधा स्थित:' (बृ.संहिता) इत्यादिस्मृतेरेकस्यापि रूपविशेषेण द्वित्वोपपत्ते: । "शुभं पिबत्यसौ नित्यं नाशुभं स हरि: पिबेत्' (पाद्म.पु) इत्यादे: कर्मफलभोक्तृत्वस्य सम्भवादनशनश्रुतेरशुभभोक्तृत्वाभावपरतयोपपत्ते: । ऋतं पिबन्तावीश्ऱ्वररूपविशेषावेवेति । फले तु पूर्वोक्तसर्वात्तृत्वाक्षेपसमाधी । तत्प्रकारश्ऱ्च चन्द्रिकोक्त: ।
।। ॐ अन्तर उपपत्ते: ॐ ।। 4 ।।
।। ॐ स्थानादिव्यपदेशाच्च ॐ ।। ॐ सुखविशिष्याभिधानादेव च ॐ ।। ॐ श्रुतोपनिषत्कगत्यभिधानाच्च ॐ ।। ॐ अनवस्थितेरसम्भवाच्च नेतर: ॐ ।।
अत्र चक्षुरन्तस्थस्याभयस्यान्यत्वे प्राचीनोप्यभयत्वेनोक्तोऽन्य: स्यादिति पूर्वोक्ताक्षेपात्सङ्गति: । छान्दोग्ये चतुर्थेऽध्याये "य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच एतदमृतमभयमेतद्ब्रह्म' इति श्रुतोक्ष्यन्तस्थ आत्मा किमग्निरुत विष्णुरिति सन्देह: । अग्निरिति पूर्व: पक्ष: । य एष आदित्ये पुरुष: सोहमस्मि स एवाहमस्मीति गार्हपत्याख्याग्निना स्वात्मन: आदित्यस्थत्वोक्तेरादित्यश्ऱ्चक्षुर्भूत्वेत्यादिश्रुत्या अक्ष्यादित्ययोरेकदैवत्यत्वात् अथहाग्नय: समूदिर इत्यग्निश्रुतिबाहुल्याच्च । नच "स यश्ऱ्चायं पुरुषे यश्ऱ्चासावादित्ये स एक:' (तै.2-21) इत्यादिसमाख्याबलादग्निप्रयुक्तोऽहंशब्द: तत्स्थविष्णुपर इति
वाच्यम् । सोऽहमस्मि स एवाहमस्मीत्यभ्यासेन समाख्याबाधात् । अपहते पापकृत्यामुपवयन्तं भुञ्जाम इत्याद्यर्थवादबलेनात्यलौकिकविष्णुग्रहणे अपूर्वत्वमित्यस्यापि बाधादिति । सिद्धान्तस्तु । एतदमृतमित्यादिनोक्तामृतत्वादे: परिम्रियन्ते विद्युत्वृष्यिश्ऱ्चन्द्रमा आदित्योऽग्नि:, भयादग्निस्तपतीत्यादिना मृत्यादिमत्यग्नावयोगात् । ब्रह्मात्मशब्दयोर्विष्णोरन्यत्रानवकाशात् तद्यदस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छतीत्युक्ताक्ष्णोऽसङ्गत्वापादकत्वसंयद्वामत्वादिलिङ्गात् कं ब्रह्म खं ब्रह्मेत्युक्तब्रह्मप्रकरणात् स एनान् ब्रह्म गमयति इत्युपसंहारे श्रुतैतद्विद्यानां ब्रह्मगत्याख्यलिङ्गश्रवणेन प्रकरणविच्छेदायोगादग्निप्रयुक्ताहंशब्दस्य च पादान्त्यप्राणनयन्यायेन अन्तर्यामिपरत्वेन अभ्यासार्थवादयोरपि तन्निष्ठत्वात् अग्नेरपि जीवत्वेन प्रेरकजीवान्तरापेक्षायामनवस्थापत्तेश्ऱ्च स्वतन्त्रो विष्णुरेवाक्षिस्थ इति । फले तु अयमक्षिस्थो विष्णोरन्यश्ऱ्चेत् तस्यैवादित्यस्थत्वात् यश्ऱ्चासावादित्य इत्युक्तोऽपि स एवेत्यानन्दमयोऽप्यन्य इति तदाक्षेपसमाधी ।। 4 ।।
।। ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ ।। 5 ।।
।। ॐ नच स्मार्तमतद्धर्माभिलापात् ॐ ।। ॐ शारीरश्ऱ्चोभयेऽपि हि भेदेनैनमधीयते ॐ ।।
अत्रामृतत्वमुखेन आक्षेपात् आक्षेपिकी सङ्गति: । वाजसनेये पञ्चमेऽध्याये "एष त आत्मा अन्तर्याम्यमृत:' (बृ.5-7-3) इतिश्रुत: अन्तर्यामी किं प्रकृतिजीवौ वा उत विष्णुरिति सन्देह: । प्रकृतिरित्येक: पूर्व: पक्ष: । यस्य पृथिवी शरीरमित्यादिना श्रुतपृथिव्याद्यात्मकत्वरूपपृथिव्यादिशरीरकत्वस्य सर्वोपादाने प्रकृतौ सम्भवात् । शरीरपदस्य "पूर्वपक्षस्य शरीरम्' इत्यादौ स्वरूपेऽपि सम्भवात् । "व्याप्तं कायर्ेषु कारणम्' इत्यादिना कारणस्य कार्यस्थत्वेन य: पृथिव्यां तिष्ठन्नित्यादेरप्युपपत्ते: । कार्यकारणयोर्भेदाभेदेन तादात्म्यतत्स्थयोरविरोधात् । कार्यस्य कारणाधीनत्वेन य: पृथिवीमन्तरो यमयतीत्यादे: गौणत्वेनोपपत्तेरिति । पृथिव्यादि तत्तदभिमानिजीवा एव वा तत्तदन्तर्यामीत्यन्य: । तान्प्रति पृथिव्यादे: स्थूलशरीरत्वात् । एवं च प्रकृत्यादिरेवात्रामृतोऽन्य इति प्राचीनामृतत्वं नाक्षिस्थस्य विष्णुत्वसाधकमिति । सिद्धान्तस्तु । यं पृथिवी न वेद य: पृथिवीमन्तरो यमयतीत्यादिनोक्तस्य कार्त्स्येन पृथिव्यादिदेवाविदितत्वस्य बाह्यापेक्षां विना रममाणत्वरूपान्तरत्वस्य च लिङ्गस्य "न ते विष्णो जायमान:' (ऋ.7-99-2) "स योऽतोऽश्रुतोऽगतोऽमतोऽदृष्य: सर्वेषां भूतानामन्तरपुरुष:' इत्यादिश्रुत्या (ऐ.3-2-4) विष्ण्वेकधर्मत्वात् पृथिव्यादे: जडत्वे अप्रसक्तनिरासप्रसङ्गात् यमित्यस्य वैयर्थ्याच्च । शरीरत्वस्य शीर्यत इति शरीरमिति योगेन वा शरीरवदीशनियम्यत्वेन गौण्या वृत्त्या वा युक्तत्वेन य: पृथिव्यामित्यादे: क्लेशेनानेयत्वात् । प्रकृतिजीवयो: त्रिगुणत्वसंसारित्वाद्यसाधारणधर्माभावात् "य आत्मनोऽन्तरो विज्ञानादन्तरो विविक्त:' इति जीवादन्तर्यामिणो भेदव्यपदेशाच्च अन्तर्यामी विष्णुरेवेत्यमृतत्वमपि तस्यैवेति । फले तु पूर्वाक्षेपसमाधी ।। 5 ।।
।। ॐ अदृश्यत्वादिगुणको धर्मोक्ते: ॐ ।। 6 ।।
।। ॐ विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॐ ।। ॐ रूपोपन्यासाच्च ॐ ।।
अत्र "यं पृथिवी न वेद' इत्युक्तादृश्यत्वाख्यप्राचीनहेत्वाक्षेपात्सङ्गति: । आथर्वणे "द्वे विद्ये वेदितव्ये' इत्युपक्रम्य "अथ परा यया तदक्षरमधिगम्यते' "यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णम्' इत्यादिनोक्तादृश्यत्वादिगुणकं अक्षरात्सम्भवतीह विश्ऱ्वमिति विश्ऱ्वकारणतया श्रुतमक्षरं किं चिदचित्प्रकृतिविरिञ्चिरुद्रा उत विष्णुरिति सन्देह: । "यथ पृथिव्यामोषधय:' इत्युपादनादृष्यान्तबलेनाबाधे अन्तरङ्गत्यागायोगेन च अक्षरादितिश्रुतोपादानत्वरूपारणत्वलिङ्गात् जडप्रकृतिरित्येक: पूर्व: पक्ष: । "कूटस्थोऽक्षर उच्यते' इति स्मृतावक्षरपदस्य श्रीतत्त्वे प्रयोगादुपादनाभिमानित्वेन उपादानत्वस्यापि सम्भवाच्चित्प्रकृतिरित्यन्य: । "स ब्रह्मविद्याम्' इत्युपक्रमे ब्रह्मशब्दाच्चतुर्मुखो वा कतर्ारमीशमित्युत्तरत्रेशपदश्रवणाद्रुद्रोवेत्यपरौ । नचाक्षरादिशब्दा विष्णौ सावकाशा: । अक्षरात्परत: पर इत्युत्कर्षावधितया निर्देशेनोक्ताक्षरस्य निकृष्यत्वेन विष्णुत्वायोगात् । अत एव च कारणत्वमात्रे अक्षरात्सम्भवतीति पञ्चमीति
प्रत्युक्तम् । चित्प्रकृतिपक्षे अक्षरात्परत इति पञ्चम्यो: सामानाधिकरण्येन पक्षान्तरेषु वैय्यधिकरण्येनोपपत्तेरिति । सिद्धान्तस्तु । "अथ परा यया स हरिर्वेदितव्य:' "सा विद्या तन्मतिर्यया' (भा.4) इत्यादिश्रुतिस्मृतिभि: विष्ण्वेकनिष्ठऋगादिपरविद्याविषयत्वरूपतद्धर्मात् । "यदा पश्य: पश्यते रुग्मवर्णम्' इति रूपोपन्यासात् । "अन्येषां विमिश्राणि व्यमिश्रयद्' इत्यादिश्रुत्या मिश्ररूपत्वेन शुद्धरूपस्य तदेकनिष्ठत्वात् । अक्षरत्रयमीरितमितिस्मृत्या (स्कान्द.पु.) परावधित्वेनोक्ताक्षरस्यान्यत्वेनाविष्णुतया परावधित्वेन निर्देशस्याबाधकत्वात् । पृथिव्यादिदृष्यान्तस्य कारणत्वमात्रे तात्पर्यसम्भवात् । ब्रह्मेशादिशब्दस्य विष्णावेव मुख्यत्वात् । जडपक्षे य: सर्वज्ञ इत्युक्तसार्वज्ञरूपविशेषणायोगात् । "तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते' इति "जुष्यं यदा पश्यत्यन्यमीशम्' इति ब्रह्मरुद्रयोरक्षराद्भेदव्यपदेशाच्च । अदृश्यत्वादिगुणकं परत: परत्वेन श्रुतमक्षरं विष्णुरेवेति । फले तु अदृश्यत्वादिगुणयुक्तानन्दमयाक्षेप तत्समाधी ।। 6 ।।
।। ॐ वैश्ऱ्वानर: साधारणशब्दविशेषात् ॐ ।। 7 ।।
।। ॐ स्मर्यमाणमनुमानं स्यादिति ॐ ।। ॐ शब्दादिभ्योऽन्त:प्रतिष्ठानान्नेति चेन्न तथा दृष्ययुपदेशादसम्भवात्पुरुषविधमपि चैनमधीयते ॐ ।। ॐ अत एव न देवता भूतं च ॐ ।। साक्षादप्यविरोधं जैमिनि: ॐ ।। ॐ अभिव्यक्तेरित्याश्मरथ्य: ॐ ।। ॐ अनुस्मृतेर्बादरि: ॐ ।। ॐ सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॐ ।। ॐ आमनन्ति चैनमस्मिन् ॐ ।।
अत्र प्राचीनादृश्यत्वादिगुणमध्यश्रुतसर्वगतत्वाक्षेपात्सङ्गति: । छान्दोग्ये पञ्चमेऽध्याये "अभिविमानमात्मानं वैश्ऱ्वानरमुपास्ते' (छां.5-18-1) इति वाजसनेये च सप्तमेऽध्याये "अयमग्निर्वैश्ऱ्वानरो योऽयमन्त:पुरुषा येनेदमन्नं पच्यते' इति (बृ.7-9-1) वैश्ऱ्वानरविद्यागत: तथा "वैश्ऱ्वानरमृत आजतमग्निम्' (ऋ.6-7-1) इत्यादि सूक्तगतो वैश्ऱ्वानर: किं भूततदभिमानिदेवते वा विष्णुर्वेति सन्देह: । वैश्ऱ्वानराग्न्यादिशब्दानां अग्नावेव लोकप्रसिद्धे: । छान्दोग्ये "वैश्ऱ्वानरे तद्धतं भवति' (छां 5-24-4) "हृदयं गार्हपत्ये' (छां.5.18-2) इत्यादिना श्रुत होमाधारत्वगार्हपत्याद्यङ्गकत्वस्य काण्वश्रुतौ पाचकत्वादेश्ऱ्च लिङ्गस्य श्रवणात् । तेषां च विष्णौ मुख्यत्वे लोकव्यवहारविरोधात् । सर्वविद्याया वैष्णवत्वापत्त्या इयमग्निविद्या इयमन्यविद्येत्यादि व्यवस्थायोगाच्च । वैश्ऱ्वानरो भूतं देवता वा । नच सिद्धान्तीयलिङ्गसमाख्याप्रकरणानां बाहुल्यात् निरवकाशत्वाच्च अग्निरेवेत्यनिर्णय: इति शङ्कयम् । श्रुते: स्वभावतो बलवत्वात् तावतापि अभिविमानपदेन अभितो विगतं मानं मर्यादा यस्येत्युक्तसर्वगतस्य वैश्ऱ्वानरस्य अनिर्णये प्राचीनं सर्वगतमितिश्रुतमक्षरमपि विष्णुरेवेति सिद्धान्त्यभिमतनिर्णयायोग: इति पूर्व: पक्ष: । सिद्धान्तस्तु । आत्मानमितिश्रुतात्मशब्दादभिविमानमित्युक्तसर्वगतत्वलिङ्गादहं वैश्ऱ्वानरो भूत्वेति स्मृतिसमाख्यानात् "को न आत्मा किं ब्रह्म' इति विचारपूर्वकमुपक्रम्यैतद्विद्याया अधीतत्वेन ब्रह्मप्रकरणात् । शीर्ष्णो द्यौ: समवर्ततेति पुरुषसूक्तोक्तस्य द्वयादिजनकशीर्ष्णाद्यवयवस्यैव मूर्धैव सुतेजा इत्यर्थतोऽत्र विद्यायामुक्त्या पुरुषसूक्तसमाख्यानाच्च निरवकाशसाधकसद्भावात् । वैश्ऱ्वानरादिशब्दानां अग्न्यादिलिङ्गानां च तथोपासनार्थतया ईशे सावकाशत्वाद्विष्णौ मुख्यानामपि शब्दानां अनन्यगतिकतया शब्दाधीनहानादिव्यवहारसिद्धयर्थमन्यत्रव्यवहाराविरोधात् । अग्न्यादिविद्यादिभि: ब्रह्मोपासनया अग्न्यादावेव विष्णो: व्यक्तत्वानुस्मरणीयत्वप्राप्यत्वरूपनिमित्तै: विद्यादिव्यवस्थोपपत्ते: । बाधकाभावाद्वैश्ऱ्वानरो विष्णुरेवेति प्राचीनोऽपि स एवेति । फले तु पूवर्ाक्षेपसमाधी ।। 7 ।।
।। इति श्रीराघवेन्द्रयतिकृतायां न्यायमुक्तावल्यां आद्येऽध्याये द्वितीय: पाद: ।। N.M-2
।। अथ तृतीय: पाद: ।।
एवं अन्यत्रप्रसिद्धाशेषनामलिङ्गसमन्वयं महामल्लभङ्गन्यायेन पूर्वमुक्त्वा अत्र उभयत्रप्रसिद्धनामलिङ्गसमन्वय: क्रियते ।
।। ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ ।। 1 ।।
।। ॐ मुक्तोपसृप्यव्यपदेशात् ॐ ।। ॐ नानुमानमतच्छब्दात् ॐ ।। ॐ प्राणभृच्च ॐ ।। ॐ भेदव्यपदेशात् ॐ ।। ॐ प्रकरणात् ॐ ।। ॐ स्थित्यदनाभ्यां ॐ ।।
पूर्वेण नावश्यं सङ्गत्यपेक्षेत्यवोचाम । आथर्वणे "यस्मिन्द्यौ: पृथिवी चान्तरिक्षमोतं मन: सह प्राणैश्ऱ्च सर्वै: । तमेवैकं जानथात्मानम्' (मुं. 2-2-5) इति श्रुतं द्युभ्वाद्यायतनं किं विष्णु: उत रुद्रादिरिति सन्देह: । रुद्र: प्रधानं वायु: जीवो वेति पूर्व: पक्ष: । "रुद्रो वाव लोकाधार:' "प्राणानां ग्रन्थिरसि रुद्रो माविशान्तक:' (महाना.) "रुद्र: प्राणेश्ऱ्वर: कृत्तिवासा: पिनाकी' (घृत.सू.) "यदूर्ध्वं गार्गि दिवो यदर्वाक् पृथिव्या यदन्तरा द्यावा पृथिवी इमे यद्भूतञ्च भवच्च भविष्यच्चेत्याचक्षते आकाश एव तदोतं च प्रोतं च' (बृ.5-8-7) इति "वायुना वै गौतम सूत्रेणायं लोक: परश्ऱ्च लोक: सर्वाणि च भूतानि सन्दृब्धानि' (बृ.5-7-2) इति यथाक्रमं त्रिषु समाख्यानात् । "स एषोऽन्तश्ऱ्चरते बहुधा जायमान:' (मुं.4-6) इति जायमानत्वरूपलिङ्गाच्च । लोकाश्ऱ्च लोकिनश्ऱ्च विष्णावेव ओतश्ऱ्चेति विष्णुसमाख्यातोऽपि बहुरुद्रश्रुतिलिङ्गोपेतत्वेन रुद्रसमाख्याया: प्राबल्यात् । निरवकाशजायमानत्वलिङ्गेन विष्णुसमाख्याया बाधाच्च । नच "अथ परा यया तदक्षरमधिगम्यते' इति परविद्याविषयत्वरूपविष्णुलिङ्गमप्यनवकाशमिति वाच्यम् । एवं हि द्वयाविरोधेन जीवेशाभेदोऽस्तु पूर्वोक्तदिशा विष्णुलिङ्गस्य जीव इव जीवलिङ्गस्य विष्णावयोगादिति । सिद्धान्तस्तु । आत्मानमित्यात्मशब्दादमृतस्यैष सेतुरिति मुक्ताप्राप्यत्वस्य अनवकाशविष्णुलिङ्गाद्रुद्राद्यसाधारणभस्मधरोग्रादिशब्दाभावात् । समाख्यागतरुद्रादिशब्दानां "रुजं द्रावयते यस्माद्' इत्यादि (ब्रह्माण्ड) स्मृत्या वैष्णवत्वात् । जायमानत्वस्याप्यजायमानो बहुधा विजायत इति श्रुत्यन्तरबलात्प्रादुभर्ावाख्यजनिसम्भवेन च विष्णुनिष्ठत्वात् । द्वे विद्ये वेदितव्य इति परविद्याविषयतया प्रकृतेशस्यैव जुष्यं यदा पश्यत्यन्यमीशमिति जीवेन भेदव्यपदेशेन तयोरन्य: पिप्पलं स्वाद्वत्त्यनश्ऱ्नन्नन्योभिचाकशीतीति जीवेशयो: कर्मफलोपजीवनतद्रहितावस्थानरूपभेदकोक्त्या च तयोरैक्यायोगाद्विष्णुरेव द्युभ्वाद्यायतनमिति । फले तु द्युभ्वाद्यायतनस्य ब्रह्मान्यत्वे अदृश्यत्वादिगुणकाक्षरमप्यन्यदिति तदाक्षेपसमाधी ।। 1 ।।
।। ॐ भूमासम्प्रसादादध्युपदेशात् ॐ ।। 1 ।।
।। ॐ धर्मोपपत्तेश्ऱ्च ॐ ।।
"स एवाधस्तात्स एवोपरिष्ठात्स पश्ऱ्चात्स पुरस्तात्स दक्षिणत: स उत्तरत: स एवेदं सर्वम्' (छां.7-25-1) "यत्र नान्यत्पश्यति नान्यच्छणोति नान्यद्विजानाति स भूमा स भगव: कस्मिन्प्रतिष्ठित इति स्वे महि ्नि' (छां.7-24-1) । स एवाधस्तास्त उपरिष्ठादित्यादिना श्रुतस्य सर्वगतत्वादेर्भूमधर्मस्य "ब्रह्मैवेदममृतं पुरस्तात् पश्ऱ्चाद्ब्रह्म दक्षिणत:' (मुं.4-13) इत्यादिना द्युभ्वाद्यायतने श्रुतत्वात्तदाक्षेपेण पूर्वपक्षोत्थानात्सङ्गति: । "यो वै भूमा तत्सुखम्' (छां.7-23-1) इति छान्दयोग्ये सप्तमेऽध्याये श्रुतो भूमा किं मुख्यप्राण उत विष्णुरिति सन्देह: । प्राणो भूमेति पूर्वपक्ष: । नाम वाक् मन: सङ्कल्प चित्त ध्यान विज्ञान बलान्नाप् तेज आकाश स्मराशा प्राणेषु प्रत्येकं प्रश्ऱ्नप्रत्यक्तिपूर्वमुत्तरोत्तराधिक्यमुक्त्वा प्राणादूर्ध्वमस्ति प्राणाद्भूय इति प्रश्ऱ्नस्य भूमा वाव प्राणाद्भूयानिति प्रत्युक्तेश्ऱ्चाभावेन भू न: प्राणादन्यत्वात् विष्णुर्वाव देवेभ्यो भूयानिति समाख्याया: प्राणो वा आशाया भूयानिति उपक्रमात् दुर्बलतया तेन तद्बाधात् । उत्क्रान्तप्राणानिति प्राणे श्रुतस्योत्क्रमणलिङ्गस्य सर्वगते विष्णावयोगेन "अत एव प्राण:' (ब्र.सू.1-1-23) इति न्यायेन प्राणश्रुते: विष्ण्वाकाश इत्यस्याप्ययोगादिति । सिद्धान्तस्तु । निरुपपदसुखपदोक्तपूर्णसुखत्वस्य सर्वेषां नामादीनां उपरि सर्वाधिकत्वेना नातत्वस्य स एवाधस्तादित्यादिनोक्तसर्वगतत्वादिधर्माणां च "विश्ऱ्वशम्भुवं विश्ऱ्वत: परम्' इत्यादिश्रुतिभि: (महाना.उ.) ब्रह्मैकनिष्ठत्वात् विष्णावणुत्वस्यापि वक्ष्यमाणत्वेनोत्क्रमणक्रियया अपि युक्तत्वात् । प्राणो भूमा च विष्णुरेवेति प्राणभू नोरभेदेन वा प्राणस्य वायुत्वेऽपि प्रश्ऱ्नप्रत्युक्त्यध्याहारेण ततो भेदेन वा भूमा विष्णुरेवेति । फले तु सुखमित्युक्तपूर्णसुखत्वमुखेनानन्दमयाक्षेपसमाधी ।। 2 ।।
।। ॐ अक्षरमम्बरान्तधृते: ॐ ।। 3 ।।
।। ॐ सा च प्रशासनात् ॐ ।। ॐ अन्यभावव्यावृत्तेश्ऱ्च ॐ ।।
पूर्वत्रैकप्रकरणस्थयो: सर्वगतत्वोत्क्रमणयो: विरोधनिरासोऽत्र त्वेकवाक्यस्थयो: अणुत्वमहत्वयोर्विरोधे निरस्यत इति सङ्गति: । काण्वशाखायां पञ्चमेऽध्यायेऽष्यमब्राह्मणे "एतद्वै तदक्षरं गागिर् ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमित्यादिना (बृ.8-8) श्रुतमक्षरं किं चित्प्रकृतिरुत विष्णुरिति सन्देह: । अक्षरशब्दस्य येत्वक्षरमनिर्देश्यमित्यादौ (भ.गी.12-3) श्रीतत्त्वे प्रयोगादविनाशित्वरूपनिमित्तसत्त्वात् अहं सोममाहनसं बिभर्मीति श्रुत्यन्तरे श्रीतत्त्वधर्मतया श्रुतस्य चन्द्राद्याधारत्वस्येह सूर्याचन्द्रमसौ विधृतौ तिष्ठत इति श्रवणाददृष्यं द्रष्य्रश्रुतमित्यादिनोक्तेदृश्यत्वादेश्ऱ्च ये त्वक्षरमित्यादिस्मृत्या श्रीतत्त्वेऽपि सम्भवान्न तदश्ऱ्नाति किञ्चनेत्युक्तानशनस्य "अत्ता' (ब्र.सू.1-29) इत्यत्रातृत्वेनोक्तविष्णावयोगात् । किञ्चनेत्युक्त्या गुहानयोक्तन्यायेन (ब्र.सू.1-2-11) अशुभानशनपरत्वस्याप्ययोगात् । श्रीतत्त्वे च स्वतन्त्राशनाभावादिनोपपत्ते:। चित्प्रकृतिरेवेदं अक्षरमिति पूर्व: पक्ष: । सिद्धान्तस्तु । यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते आकाश एव तदोतमिति आकाशाख्यप्रकृते: सर्वाधारत्वमुक्त्वा एतस्मिन्खल्वक्षरे गार्गि आकाश ओतश्ऱ्च प्रोतश्ऱ्चेति तदाधारत्वस्यैतस्य वा अक्षरस्य प्रशासने गार्गीत्यादिनोक्तस्यासङ्कुचितविषयत्वानन्यायत्तत्वरूपप्रकर्षयुक्तसर्वशासनलिङ्गस्यास्थूलमनण्वित्यादिनोक्तस्यान्यानपेक्षप्राकृतस्थौल्याद्यभावस्य स्थौल्यादिविरुद्धाणुत्वमहत्वादेर्वा लिङ्गस्य एको दाधार भुवनानि सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशेति अस्थूलोऽनणुरमध्यमो मध्यमो व्यापकोऽव्यापक इत्यादिश्रुत्या विष्ण्वेकनिष्ठत्वात् "अनित्यत्वं देहहानि:' इत्यादिश्रुत्या चतुर्विधनाशहीने विष्णावेवाक्षरपदप्रवृत्तिनिमित्तपौष्कल्यात्तस्मादक्षरं तस्मादक्षरमितिप्रयोगाच्चाक्षरं विष्णुरेव अनशनश्रुतिस्तु जीवस्वभावभूतोपजीवनार्थाशननिषेधपरा अणुत्वमहत्वादिकं चाचिन्त्यशक्तियुक्तत्वाद्युक्तमिति सर्वाधारत्वे सत्यन्यैकाश्रिततवलिङ्गेनाकाशोऽत्र श्रीतत्त्वमिति ध्येयम् । फले त्वदृश्यत्वादियुतस्याक्षरस्य विष्ण्वन्यत्वे प्राचीनं तादृशाक्षरमपि तथेत्यदृश्यत्वनयाक्षेपसमाधी ।। 3 ।।
।। ॐ ईक्षतिकर्मव्यपदेशात्स: ॐ ।। 4 ।।
अत्र सदेवेति सच्छब्दाथर्स्यान्यत्वे सदायतना इत्युक्तसर्वाधारत्वस्याप्यन्यनिष्ठत्वात् प्रागुक्ताम्बरान्तधृतिरपि तस्यैवेत्याक्षेपात्सङ्गति: । छान्दोग्ये षष्ठेऽध्याये "सदेव सोम्येदमग्रे' (छां.6-2-1) इत्युपक्रम्य "तदैक्षत बहुस्यां प्रजायेय' इत्यादिना कारणत्वादिनोक्तं सत्पदवाच्यं किं ब्रह्म उत प्रधानं इति सन्देह: । प्रधानमिति पूर्व: पक्ष: । बहु स्यामिति तेज:प्रभृतिबहुभावश्रवणात् तस्य परिणम्यमाने प्रधान एव योगात् "निर्विकारोऽक्षर:शुद्ध:' इत्यादिश्रुते: ईशे निर्विकारे तदयोगात् । नचात्र स्वरूपबहुभाव एवोक्त: न तेज आद्यात्मना बहुभाव इति वाच्यम् । तत्तेजोऽसृजतेति वाक्यशेषविरोधात् । नहि स्वरूपबहुभावं सङ्कल्प्य तेज:प्रभृति सर्जनं युक्तम् । ईक्षणं तु प्रधानस्य ज्ञानहेतुसत्वगुणयोगेन वा कार्योन्मुखत्वेन वा अभिमानिन ईक्षितृत्वेन वा गौणमिति । सिद्धान्तस्तु । तदैक्षतेत्युक्तेक्षितृत्वस्य मुख्यसम्भवे अमुख्यस्य ग्रहणायोगात् । अभिमानिनयन्यायेन तेज:प्रभृतीनां देवतात्वेन तदात्मना बहुभावस्य प्रधानेऽप्ययोगात् नियामकस्वरूपबहुभावस्य नियम्यसृष्यिसापेक्षत्वेन स्वरूपबहुभावसङ्कल्पेऽपि नियम्यतेज:प्रभृतिसर्जनस्य सङ्गतत्वात् एकस्यापीश्ऱ्वरस्य गुहानयन्यायेन बहुत्वस्य द्युभ्वादिनोक्तन्यायेन जननस्य च सम्भवात् । मुख्येक्षितृत्वेन लिङ्गेन कारणत्वादिना सत्पदवाच्यं ब्रह्मैवेति । फले तु सदेवेत्यवधारणेन प्रधानस्यैव कारणत्वप्रतीत्या ईशे तदभावादित्यादिना चन्द्रिकोक्तदिशा जन्मादिसूत्राक्षेपसमाधी ।। 4 ।।
।। ॐ दहर उत्तरेभ्य: ॐ ।। 5 ।।
।। ॐ गतिशब्दाभ्यां तथा हि दृष्यं लिङ्गं च ॐ ।। ॐ धृतेश्ऱ्च महि नोऽस्यास्मिन्नुपलब्धे: ॐ ।। ॐ प्रसिद्धेश्ऱ्च ॐ ।। ॐ इतरपरामशर्ात्स इति चेन्न असम्भवात् ॐ ।। ॐ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॐ ।। ॐ अन्यार्थश्ऱ्च परामर्श: ॐ ।। ॐ अल्पश्रुतेरिति चेत्तदुक्तम् ॐ ।।
अत्र "उभेऽस्मिन्द्यावापृथिवीत्यादिना हृत्पद्मस्थस्य सर्वाधारत्वश्रवणात् तस्य विष्ण्वन्यत्वे इमा: प्रजा: सदायतना इत्यादिना तथोक्तं सदप्यन्यदिति पूर्वाक्षेपेण पूर्वपक्षोत्थानात्सङ्गति: । छान्दोग्ये अष्यमाध्यायाद्यखण्डे "यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्यव्यं तद्वाव विजिज्ञासितव्यमिति तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाश: किं तदत्र विद्यते यदन्वेष्यव्यं यद्वाव विजिज्ञासितव्यमिति स ब्रूयात् यावान्वाऽयमाकाशस्तावानेषोऽन्तर्हृदय आकाश: उभेऽस्मिन् द्यावापृथिवी अन्तरेव समाहिता' (छां.8-1-1) इत्यादिना सर्वाधारत्वेन श्रुतं हृत्पद्मस्थं किमाकाश: जीवो वा विष्णुर्वेति सन्देह: । आकाश एव न तु ब्रह्मेति पूर्व: पक्ष: । गगने प्रसिद्धस्यैवाकाशशब्दस्य हृत्पद्मस्थे प्रयोगात् । नच तस्य सर्वाधारत्वाख्यलिङ्गश्रवणात् आकाशस्तल्लिङ्गादितिन्यायेन ब्रह्मवाचित्वमिति वाच्यम् । पद्मकोशप्रतीकाशं हृदयमिति प्रकृते तस्यान्ते सुषिरं सूक्ष्मं तस्मिन्सर्वं प्रतिष्ठितम् (महाना.उ.) इति श्रुत्यन्तरे सुषिरशब्दिताकाशस्यैव हृत्पद्मस्थत्वसर्वाधारत्वयोरुक्त्या तत्समाख्याविरोधात् । आकाशस्यैव ब्रह्मत्वे तत्स्थस्यान्वेष्यव्यत्वोक्तेरयोगाच्च । न चाकाशस्य प्रसिद्धाकाशत्वेऽपि तत्स्थतया परम्परया हृत्पद्मस्थं ब्रह्मेति वाच्यम् । वाक्यान्वयायोगात् । किं तदत्र विद्यत इति प्रश्ऱ्ने ब्रह्म विद्यत इत्येव वाच्ये यावान्वेत्यादिनान्तर्हृदयाकाशस्य बाह्याकाशतौल्योक्तेरसङ्गतत्वात् सुषिरश्रुतिविरोधापत्त्या यावानिति वाक्ये सर्वाधारतयोक्ताकाशस्य ब्रह्मत्वाङ्गीकारेणापि तद्वाक्यसङ्गत्युक्त्ययोगाच्च । प्रागुक्तमेव दहराकाशं बाह्याकाशतुल्यतया विशिष्य तत्र द्यावापृथिव्यादिकं विद्यत इति उभेऽस्मिन्नित्यादिनोच्यत इत्युक्तेरेव सङ्गतत्वेन द्यावापृथिव्यादेरेवाकाशान्तस्थत्वौचित्यात् । अत: साक्षात् हृत्पद्मस्थमाकाशं इत्यन्य: । दहराकाशस्थे य आत्माऽपहतपाप्मेति वाक्यशेषे आत्मशब्दप्रयोगात् तस्यैष आत्मेत्युत्तरवाक्ये प्राक्सम्प्रसादपदेन प्रस्तुतं जीवमेष इति पुंलिङ्गैतच्छब्देन परामृश्य आत्मत्वविधानेन जीवार्थत्वात् । दहरस्थत्वलिङ्गाच्च तस्य सर्वगते विष्णावयोगात् । व्यो नोंऽशस्यापूर्णत्वेन अंशतोऽल्पौकस्त्वयोगेऽपि ब्रह्मणोंऽशस्यापि पूर्णत्वेन व्योमवत्समाधानायोगाच्च यावान्वेत्यादिवाक्यान्वयस्य ब्रह्मपक्षेऽपि सामान्यादिति । सिद्धान्तस्तु । हृदयस्थदहराकाशान्तस्थतया हृत्पद्मस्थं ब्रह्मैव । य आत्मा अपहतपाप्मेत्युत्तरवाक्ये श्रुतापहतपाप्मत्वविजरत्वविमृत्युत्वविशोकत्वादिलिङ्गेभ्य: तेषां च "स एष सर्वेभ्य: पाप्मभ्य: उदित:' (छां.1-6-7) "योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्ति' (बृ.5-5-1) इत्यादिना विष्ण्वेकनिष्ठत्वात् । तथा "अहरहर्गच्छन्त्य: एतं ब्रह्मलोकं न विन्दन्ति' (छां.8-3-2) इति सुप्तप्राप्यत्वलिङ्गात् तस्य च "सता सौम्य तदा सम्पन्नो भवति' इति (छां.6-8-1) वाक्ये ईक्षतिनयन्यायेन ब्रह्मधर्मतया श्रवणात् । ब्रह्मलोकमिति हृत्पद्मस्थे ब्रह्मलोकपदे प्रयोगेण ब्रह्मैव वा सर्वाश्रयत्वादिना लोकपदोक्तमिति ब्रह्मपदश्रवणात् । तथा "अरश्ऱ्च ह वै ण्यश्ऱ्चाणर्वौ ब्रह्मलोके' (छां.8-5-3) इत्यरण्याख्यसुधासमुद्राश्रयलोके प्रयुक्तस्य ब्रह्मलोकपदस्य हृत्पद्मे प्रयोगेण तत्स्थस्य सुधासमुद्राश्रयलोकवत्वलिङ्गश्रवणात् । तस्य च "अरश्ऱ्च ह वैण्यश्ऱ्च सुदासमुद्रौ' इत्यादि भाष्योक्तश्रुत्या विष्णुधर्मत्वात् । तथा "अयमात्मा स सेतुर्विधृति: एषां लोकानां असम्भेदाय' इति (छां.8-4-1) हृत्पद्मस्थे श्रुतसर्वाधारत्वलिङ्गात् । तस्य च अक्षरादिनये विष्णुधर्मत्वेन निर्णयात् । तथा "य एषोऽन्तर्हृदय आकाश: तस्मिन् शेते सर्वस्य वशी' (बृ.6-4-22) इत्यादिकाण्वश्रुतिसमाख्यानात् । तस्याश्ऱ्च सर्वेश्ऱ्वरत्वादि विष्णुमहिमोक्त्या वैष्णवत्वात् । तथा "दहरं विपापं परवेश्मभूतं हृत्पुण्डरीकं पुरमध्यसंस्थं तत्रापि दह्रं गगनं विशोक: तस्मिन् यदन्त: तदुपासितव्यम्' (महाना.उ.) इति विष्णुपरतया प्रसिद्धतैत्तिरीयसमाख्यानाच्च । साधकाभावाज्जीवादौ अपहतपाप्मत्वादीनां "अशनायादिकानन्ये तत्प्रसादात्तरन्ति हि' (पाद्म.पु.) इत्यादे: स्वातन्त्ऱ्ेणासम्भवात् । "स तत्र पर्येति' (छां.8-12-3) इत्यादि वाक्ये च मुक्तस्यैव सत्यकामत्वाद्युक्ते: । तस्य च हृत्पद्मस्थत्वायोगात् । "एष आत्मा' (छां.8-3-4) विधेयापेक्षया पुंलिङ्गेनैतच्छब्देन परञ्ज्योतिरिति प्रस्तुतस्य "ॐ आत्मा प्रकरणात् ॐ' (ब्र.सू.4-4-3) इत्यत्र ब्रह्मतया निर्णेष्यमाणस्य ज्योतीरूपब्रह्मण एव परामर्शेन हृत्पद्मस्थात्मत्वविधानात् । अल्पौकस्त्वस्य सर्वत्रेति नये (ब्र.सू.1-2-1) विष्णावपि साधितत्वात् । अचिन्त्यशक्त्यादिना पूर्णस्याप्यल्पौकस्त्वोपपत्ते: । शरीरपुण्डरीकयो: ब्रह्म प्रति पुरत्ववेश्मत्वोक्त्यैव आकाशस्थस्य अन्वेष्यव्यस्य ब्रह्मत्वसिद्धौ कीदृशं तदिति भावेन "किं तदत्र' इति प्रश्ऱ्ने तस्य ब्रह्मणो हृदये यावानयं बाह्याकाश: तावान् सर्वोऽप्यस्ति तस्मिन् द्यावापृथिव्यादिकमस्ति इत्याकाशादि सर्वाश्रयत्वादिकमुच्यत इति यावानित्यादि वाक्यान्वयोपपत्ते: । मन्दिरे मणिमालेतिवत् सुषिरस्थेशस्य सर्वाधारत्वाशयेन सुषिरश्रुत्युपपत्तेश्ऱ्च बाधकाभावाच्चेति । फलं तु चन्द्राद्याधारत्वमुखेन अक्षराधिकरणाक्षेप: तत्समाधिश्ऱ्चेति ।। 5 ।।
।। ॐ अनुकृतेस्तस्य च ॐ ।। 6 ।।
।। ॐ अपि स्मर्यते ॐ ।।
पूर्वत्र एष आत्मेत्येतच्छब्दस्य ज्योति:शब्दितब्रह्मपरामर्शित्वेऽपि विधेयात्मापेक्षया पुंस्त्वं युक्तम् । इह तु तदेतदिति शब्दयोर्द्वयो: प्राक्तनेशपरत्वे क्लीबत्वमयुक्तमिति पूर्ववैषम्येण शङ्कनात्सङ्गति: । काठके "तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखं कथं नु तद्विजानीयां किमु भाति न भाति वा' (का.2-2-12,14) इति श्रुतं ज्ञानार्थं प्रार्थितत्वरूपं आनुकूल्येन गृहमाणत्वं किं ज्ञानिसुखस्य उत विष्णोरिति सन्देह: । पूर्वपक्षस्तु । "तद्विजानीयाम्' इति तच्छब्दस्य पूवर्ार्धोक्तसुखपरामर्शात् तस्य च "तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्ऱ्वतं नेतरेषाम्' इति पूर्वत्र प्रकृतसन्निहितज्ञानिसुखपरामर्शितदेतच्छब्दबलेन प्रत्यभिज्ञाज्ञापकसुखपदेन च ज्ञानिसुखत्वात् "एको वशी' (का.2-2-12) इत्यादिना ईशस्य प्रकृतत्वेऽपि व्यवधानात् द्वयोर्नपुंसकत्वायोगाच्च ज्ञानिसुकस्यैवेति । सिद्धान्तस्तु । "न तत्र सूर्यो भाति' इति "तमेव भान्तमनुभाति सर्वम्' इति "तस्य भासा सर्वमिदं विभाति' (का.2-2-15) इति श्रुतानां सूर्याद्यप्रकाश्यत्वसूर्यादिप्रकाशनहेतुत्वसर्वजगत्प्रकाशकत्वानां लिङ्गानां "न तद्भासयते सूर्य:' (भ.गी.15-6) "अहं तत्तेजो रश्मीत्' (चतुर्वेदशिखा) "यदादित्यगतं तेज:' (भ.गी.15-12) इत्यादिवचनै: ईशैकनिष्ठत्वात् । तत्रेत्यादे: सन्निहित "तद्विजानीयाम्' इत्येतत्परामर्शित्वस्वारस्यात् "तदेतद्' इत्यत्र ईशपरामर्शित्वेऽपि "यदनिर्देश्यं परमं सुखं कथन्नु तद्विजानीयाम्' इत्यानुकूल्येन गृह्णन्ति विज्ञानार्थं प्रार्थयन्त इति यावत् तदनिर्देश्यं सुखं एतत् प्रस्तुतात्मरूपं इति योजनायां तदेतच्छब्दयोरपि क्लीबतोपपत्ते: । चेतनश्ऱ्चेतनानामिति ईशस्यापि सन्निधानेन प्रकृतत्वादीशस्यैवेति । फलं तु अनिर्देश्यमित्यादिनोक्तादृश्यत्वमुखेन अदृश्यत्वनयाक्षेपस्तत्समाधिश्ऱ्च ।। 6 ।।
।। ॐ शब्दादेव प्रमित: ॐ ।। 7 ।।
।। ॐ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॐ ।।
अत्र "विश्ऱ्वेदेवा उपासते' (का.2-2-3) इत्यस्य उपास्यत्वोक्त्या तज्ज्ञानादेव मोक्षावश्यंभावात् "तमात्मस्थं येऽनुपश्यन्ति' (का.2-2-12) इत्युक्तस्य विष्णुज्ञानादेव मोक्ष इत्यस्य आक्षेपात्सङ्गति: । काठके "अङ्गुष्ठमात्र: पुरुषो मध्य अत्मनि तिष्ठति ईशानो भूतभव्यस्य' (का.2-1-12) इत्युक्तेशान: किं मुख्यवायु: उत विष्णुरिति सन्देह: । वायुरिति पूर्व: पक्ष: । "ऊर्ध्वं प्राणमुन्नयति अपानं प्रत्यगस्यति मध्ये वामनमासीनं विश्ऱ्वेदेवा उपासते' (का.2-2-3) इति प्राणादिव्यवस्थापकत्वमध्यमत्वसर्वदेवोपास्यत्वानां श्रवणात् तेषां च "एवमेव एष प्राण: इतरान् प्राणान् पृथक्पृथगेव सन्निधत्ते' इति (षट्प्र.3-4) "अथेममेव ना नोद्योऽयं मध्यम: प्राण:' (बृ.3-6-21) इति वाजसनेये तृतीये वाजसनेये चतुर्थे "अयं वाव शिशु: योऽयं मध्यम: प्राण:' (बृ.4-2-1) इति शिशुब्राह्मणे । "कुविदङ्ग नमसा' (ऋ.7-91-1) इत्यादि श्रुतिभि: वायुधर्मत्वावगमात् । विष्णावक्षरनये अणुत्वोक्तावपि इह श्रुताङ्गुष्ठमात्रत्वायोगाच्च । तस्य ततोऽधिकपरिमाणराहित्यार्थत्वात् । नच हृदयापेक्षयोपपत्ति: । विकल्पासहत्वात् । यत्किञ्चिदङ्गुष्ठमितत्वे निर्धारणायोगेन उपासनानुपपत्त्या तदुक्तिवैयर्थ्यात् । तत्तदङ्गुष्यमितत्वे पश्वादेस्तदभावेन तदन्तस्थस्य तत्त्वायोगादिति । सिद्धान्तस्तु । वामनमिति श्रुतवामनश्रुते: "एष उ एव वामनि: एष हि सर्वाणि वामानि नयति' (छां.4-15-3) "उपेन्द्रो वामन: प्रांशु:' (विष्णु.स.ना.) इत्यादिश्रुतिस्मृतिभि: एकदेशविकृतं अनन्यवद्भवतीति न्यायेन विद्वत्प्रसिद्धया च योगरूढिभ्या विष्ण्वेकनिष्ठत्वेन अन्यत्रानवकाशात् । प्राणनियामकत्वस्य अन्तर्यामिनयन्यायेन (ब्र.सू.1-2-18) सर्वनियामके हरौ युक्तत्वात् । "यद्देवान् प्राणयो नव' (तै.आ.3-14) इति विशिष्य च श्रुत्यन्तरे वैष्णवत्वोक्ते: मध्य इति मध्यशब्दोध्वर्शब्दसाहचर्येण मध्यदेशवाचितया मध्यमोक्त्यभावेन मध्यदेशेऽवस्थानस्य विष्णावपि योगात् । सर्वदेवोपास्यत्वस्यापि सर्वजिमास्यत्वपर्यायतया तस्य दहरनये सिद्धत्वात् । एवं सावकाशतया स्वतश्ऱ्च दुर्बलानां स्वतो निरवकाशतया बलवत्या श्रुत्या बाधात् अङ्गुष्ठमात्रत्वस्य च तत्तदङ्गुष्ठमितरूपविशेषस्य व्यक्त्यात्मना अङ्गुष्ठमात्रत्वाद्वा
तादृशस्थानहृदयगतस्य तत्रस्थानिनि ईशे उपचाराद्वा युक्तत्वात् प्राण्यन्तरस्याङ्गुष्ठभावेऽपि शास्त्रस्य मनुष्याधिकारित्वेनादोषात अयमीशानो विष्णुरेवेति । फलं तु उपास्यत्वमुखेन जिज्ञासासूत्राक्षेप: तत्समाधिश्ऱ्च ।। 7 ।।
।। ॐ तदुपर्यपि बादरायण: सम्भवात् ॐ ।। 8 ।।
।। ॐ विरोध: कर्मणीति चेन्नानेकप्रतिपत्तेर्दशर्नात् ॐ ।। ॐ शब्द इति चेन्नात: प्रभवात्प्रत्यक्षानुमानाभ्याम् ॐ ।। ॐ अत एव च नित्यत्वम् ॐ ।। ॐ समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शननात्स्मृतेश्ऱ्च ॐ ।। ॐ मध्वादिष्वनधिकारं जैमिनि: ॐ ।। ॐ ज्योतिषि भावाच्च ॐ ।। ॐ भावं तु बादरायणोऽस्ति हि ॐ ।।
पूर्वत्र मनुष्याधिकारत्वादित्युक्ति: तिर्यगाद्यपेक्षयैव देवादीनां तु अधिकारोऽस्त्येव इत्यत्रोच्यत इति सङ्गति: । "विश्ऱ्वेदेवा उपासते' इत्युपासकत्वेन श्रुतदेवानां उपासनादौ अधिकारोऽस्ति न वेति सन्देह: । नास्तीति पूर्व: पक्ष: । तत्तत्पदविशिष्यानां देवानां उत्पत्तिविनाशवत्वे इन्द्रादिपदप्राप्ते: पूर्वं पश्ऱ्चच्च इन्द्रादिदेवानामभावेन तदुद्देशेन द्रव्यत्यागात्मकयागादिरूपकर्मविरोधस्य तत्तद्देवताबोधकानादिनित्यवेदाप्रामाण्यस्य च आपातात् । पूर्वं पश्ऱ्चात् इन्द्रान्तरस्वीकारेण तेषां प्रवाहतोऽनादिनित्यत्वाङ्गीकारेऽपि एकनामरूपत्वे मानाभावेन नानानामरूपवत्त्वात् एकरूपाथर्बोधकवेदाप्रामाण्यानिवारणाच्च । अनादिनित्यत्वेऽवश्यं स्वीकार्ये तादृशानां तत्फले मोक्षेऽर्थिताभावात् । किञ्च वसुत्वादिफलकमधुविद्यादिषु वस्वादीनामधिकारायोगेन सर्वविद्यासु अनधिकारात् मोक्षफलकस्वपि "नैव दैवपदं प्राप्ता: ब्रह्मदर्शनवर्जिता:' इत्यादे: तेषां सिद्धज्ञानतया मोक्षहेतुज्ञानार्थं अधिकारायोगादिति । सिद्धान्तस्तु । देवानामपि विशिष्यबुद्धयादिमत्वात् शूद्रवत् अपर्युदस्तत्वात् आद्यन्ततत्वे मोक्षेऽथित्वस्यापि सम्भवात् तेषां उत्पत्तिविनाशवत्वेऽपि "ते ह नाकं महिमान: सचन्त यत्र पूर्वे साध्यास्सन्ति देवा:' "धाता यथा पूर्वमकल्पयत्' (पुरुष.सू.) "यथैव नियम: काले सुरादि नियमस्तथा' इत्यादिवचनै: प्रमाणभूतवेदस्य अनादिनित्यत्वान्यथानुपपत्त्या च प्रवाहतोऽनादिनित्यत्वात् तेषां च यथापूर्वमिति श्रुत्या अनादिनिधनेत्यादि स्मृत्या समाननामरूपत्वेन वेदप्रामाण्यानापत्ते: । मधुविद्यादे: वसुत्वादिफलकत्वेऽपि वस्वादीनां ज्ञाने मोक्षे च अतिशयाथर्ं तत्र अर्थित्वसम्भवात् अस्ति ब्रह्मविद्यायां अधिकार इति । फलं तु विश्ऱ्वेदेवा उपासत इत्यादे: पूर्वोक्तस्याप्रामाण्यं तत्समाधिश्ऱ्च ।
।। ॐ शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॐ ।। 9 ।।
।। ॐ क्षत्रियत्वावगतेश्ऱ्चोत्तरत्र चैत्ररथेन लिङ्गात् ॐ ।। ॐ संस्कारपरामर्शात्तदभावाभिलापाच्च ॐ ।। ॐ तदभावनिर्धारणे च प्रवृत्ते: ॐ ।। ॐ श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्ऱ्च ॐ ।।
अत्र पूर्वसिद्धान्तन्यायेन पूर्वपक्षप्रवृत्ते: आपवादिकी सङ्गति: । शूद्रादे: ब्रह्मविद्यायामधिकार: अस्ति उत नेति सन्देह: । विशिष्यबुद्धयादिमत्वात् देवादिवत् शूद्रस्यापि अस्ति वेदविद्यायामधिकार: इति पूर्व: पक्ष: । नच "उपनयीत तमध्यापयीत' इत्युपनीतस्यैव अध्ययनविधानात् शूद्रस्य च अनुपनीततया अध्ययनहीनत्वात् तद्वत एव "अध्ययनमात्रवत:' (ब्र.सू.3-4-12) इति तृतीये पौत्रायणं प्रति "अह हारे त्वा शूद्र' (छां.4-2-3) वर्णावरे रूढ शूद्रपदेन रैक्वस्य सम्बोधनेन विदुरादे: वेदार्थावधारणादिरूपेण च लिङ्गेन, शूद्रेऽपि उपनयनाध्ययनयोर्वा, अनुपनीतस्यैवाध्ययनमिति वा, अनधीयानस्य लिखितनिरीक्षणादिनैव वा, अर्थज्ञानस्य कल्पनादिति । सिद्धान्तस्तु । "अयमश्ऱ्वतरीरथ:' इति वाक्यशेषोक्तरथवत्त्वस्य "यत्र वेदो रथस्तत्र न वेदो यत्र नो रथ:' (ब्रह्मवैवर्त.पु.) इति स्मृत्या रथस्य वेदव्याप्तत्वेन शूद्रे तदभावेन अभावात् क्षत्रिये तस्य स्वाभाविकत्वाच्च । तेन पौत्रायणस्य क्षत्रियत्वावगमेन बाधकेन शूद्रशब्दस्य रूढार्थस्य त्याज्यतया हंसकृतानादरेण जातशोकेन मुनिं प्रति आद्रवणस्य वाक्यशेषे श्रवणेन शुचा द्रवणरूपयोगेन उपपत्त्या शूद्राधिकारासाधकत्वात् नास्ति शूद्रस्याधिकार: । अध्ययनस्य उपनयनसापेक्षत्वात् शूद्रस्य च "नाग्निर्न यज्ञो न व्रतानि च शूद्रस्य' (पैङ्गि.श्रु) इति श्रुत्या उपनयनसंस्काराभावाच्च । "तदब्राह्मणारे विवक्तुमर्हति' (छां.4-5-5) इति सत्यकामस्य अशूद्रत्वं निर्धार्यैव तदुपनयने
गौतमस्य प्रवृत्तत्वेन तद्रूपालिङ्गात् । "श्रवणे त्रपुजतुभ्यां श्रोत्रपरिपूरणं अध्ययने जिह्वाच्छेद: अर्थावधारणे हृदयविदारणम्' (गौतमधर्मसूत्र) इति शूद्रस्य वेदश्रवणादेर्निषिद्धतया विशिष्यबुद्धयादिमत्वे सति अनिषिद्धत्वरूपस्य अधिकारप्रयोजकस्याभावात् । लिखितनिरीक्षणेनापि अर्थावधारणायोगात् । विदुरादेर्जन्मान्तरोत्पन्नज्ञानत्वेन इतरशूद्रवैलक्षण्याच्च नास्ति शूद्रे वेदविद्याधिकार इति । फलं तु शूद्रस्य देवादिवत् विशिष्यबुद्धयादिन्यायेन अधिकारे सति तन्निषेधकश्रुत्यादिविरोधप्राप्त्या मनुष्याधिकारित्वं शास्त्रस्य सामान्यत: उक्तं तत्प्रमाणविरुद्धमिति पूर्वपक्षे सिद्धान्ते सामान्योक्ते: शूद्रेतरविषयत्वान्न विरोध: ।
।। ॐ कम्मनात् ॐ ।। 10 ।।
अत्र वज्रशब्दस्य पूर्वत्र शूद्रशब्दस्येव वाक्यशेषे क्लृप्तयोगाभावात् योगवृत्त्या न विष्णुवाचित्वमिति शङ्कनात्प्रत्युदाहरणसङ्गति: । "यदिदं किञ्च जगत्सर्वं प्राण एजति नि:सृतम् । महद्भयं वज्रमुद्यतं य एतद्विदु: अमृतास्ते भवन्ति ।' (का.2-3-2) इति काठके श्रुतो वज्र: किं इन्द्रायुधं उत विष्णुरिति सन्देह: । इन्द्रायुधमिति पूर्व: पक्ष: । वज्रशब्दस्य तत्र रूढत्वात् । वाक्यशेषे पूर्वत्रेव विष्णौ क्लृप्तयोगाभावात् "वर्जनाद्वज्रम्' (ब्र.वै.पु.) इति स्मृतेश्ऱ्च वज्रश्रुतित: दुर्बलत्वात् । क्लृप्तरूढित्यागेन यौगिकतया विष्णुग्रहणे च अर्थान्तरेऽपि योगस्य सुवचत्वेन शब्दार्थाव्यवस्थाप्रसङ्गाच्च उद्यतत्वलिङ्गाच्च तस्य च "उद्यतायुधदोर्दण्डा:' (महाभारत) इत्यादि स्मृतौ "तेनेन्द्रो वज्रमुदयच्छत्' इति श्रुतौ च आयुधे प्रसिद्धत्वात् श्रुतिलिङ्गाभ्यां च मुक्तिहेतुवेदनत्वादि ब्रह्मलिङ्गानां बाधादिति । सिद्धान्तस्तु । "जगत्सर्वं प्राण एजति' प्राणनिमित्तं कम्पते इति श्रुतसर्वचेष्यकत्वस्य "को ह्येवान्यात्क: प्राण्यात् (तै.2-7) इत्यादि श्रुतिस्मृतिभि: विष्णोरन्यत्रानवकाशात् । वज्रश्रुतेश्ऱ्च श्रुत्युपबृंहकस्मृत्युक्तेन निरवकाशयोगेन "आयुधानामहं वज्रम्' (भ.गी.10-18) इति प्रयोगाच्च विष्णौ सावकाशत्वात् । योगस्य स्मर्तात्वादेव अव्यवस्थानापत्ते: । उद्यतत्वलिङ्गस्य च उत्पूर्वस्य यते रूपतया उत्कृष्यप्रयत्नवत्वरूपतया विष्णावपि सम्भवात् इदं वज्रं विष्णुरेवेति । फलं तु विष्णो: मुक्तिहेतुवेदनत्वाक्षेप: तत्समाधिश्ऱ्च ।। 10 ।।
।। ॐ ज्योतिर्दर्शनात् ॐ ।। 11 ।।
अत्र पूर्वत्रेव निरवकाशलिङ्गात् ज्योति:शब्दस्य "विष्णुरेव ज्योति:' इति श्रुतिप्रसिद्धार्थत्यागेन पूर्वपक्षप्रवृत्ते: आपवादिकी सङ्गति: । काण्वश्रुतौ षष्ठेऽध्याये "योऽयं विज्ञानमय: प्राणेषु हृद्यन्तर्ज्योति:' (बृ.6-3-7) इति श्रुतं ज्योति: किं जीव: उत ब्रह्मेति सन्देह: । जीव इति पूर्व: पक्ष: । "स समानस्सन् उभौ लोकावनुसञ्चरति' (बृ.6-3-7) "सवाऽयं पुरुषो जायमान: शरीरमभिसम्पद्यमान: पाप्मभि: संसृज्यते । स उत्क्रामत् म्रियमाण: पाप्मनो विजहाति' (बृ.6-3-8) इति कर्मायत्तलोकसञ्चरणादि जीवलिङ्गबाहुल्यात् । किंच "किं ज्योतिरयं पुरुष:' (बृ.6-3-2) इति प्रश्ऱ्ने "आदित्येनैव ज्योतिषाऽऽस्ते' इत्यादिना आदित्यचन्द्राग्निवागात्मसु पूर्वपूर्वास्तमये उत्तरोत्तरस्य ज्ञानहेतुत्वरूपज्योतिष्ट्वमुक्त्वा "कतम आत्मा' (बृ.6-3-7) इति प्रश्ऱ्ने योऽयमित्यस्योक्तत्वात् आदित्यादिज्योतिष्ट्वेनोक्तस्य च न तत्र सूर्यो भातीत्यादे: विष्णुत्वायोगेन जीवत्वावश्यं भावाच्च । आत्मशब्देन परमात्मग्रहणे सति अस्तमयादिहीनात्मज्योतिष्ट्वस्य जीवे सार्वकालिकत्वेन आदित्येर्नैव ज्योतिषेत्यादौ अवधारणायोगादिति । सिद्धान्तस्तु । "विष्णुरेव ज्योति: विष्णुरेव ब्रह्म' (चतुर्वेदशिखा) इति श्रुत्या ज्योति:शब्दस्य विष्ण्वेकवाचित्वात्तस्य हृद्यन्तर्ज्योतिरिति उपक्रमे "अत्रायं पुरुष: स्वयं ज्योति:' (बृ.6-3-9) इति उपसंहारे च श्रुतत्वेन ताभ्यां विष्णुपरत्वेन निर्णीतवाक्यमध्यपतितत्वेन जीवलिङ्गानां अन्तर्णीतण्यर्थकत्वकल्पनया हरौ सावकाशत्वात् लोकद्वयसञ्चारस्य जीवमादाय ईशस्यैव स्वातन्त्ऱ्ेणोपपवे: आत्मशब्दितेशस्य ज्योतिष्ट्वेऽपि जीवस्य बाह्यज्योतिप्राधान्यज्ञापनाय आदित्येनैवेत्यवधारणोपपत्ते: विष्रुरेवेदं ज्योतिरिति । फलं तु हृदयाहितत्वमुखेन ज्योतिश्ऱ्चरणेति सूत्राक्षेप: समाधिश्ऱ्चेति ।। 11 ।। N.M-3
।। ॐ आकाश: अर्थान्तरत्वादिव्यपदेशात् ॐ ।। 12 ।।
अत्र "बहि: कुलायादमृतश्ऱ्चरित्वा' (बृ.6-3-12) इति पूर्वज्योतिषि श्रुतामृतत्वस्य इहाकाशे "तदमृतम्' इति श्रवणात् तस्य
च अन्यत्वात् पूर्वोक्तमपि आदित्याक्षेपात् आक्षेपिकी सङ्गति: । छान्दोग्ये "आकाशो वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतम्' (छां.8-14-1) इत्यन्तिमखण्डे श्रुताकाश: किं प्रसिद्धाव्याकृताकाश: किं वा ब्रह्मेति सन्देह: । पूर्वपक्षस्तु वै नामेति निपातद्वयस्य प्रसिद्धार्थत्वात् तस्य च "अकाशो वै नाम' प्रसिद्ध: खल्वाकाश: "नामरूपयोर्निर्वहिता' इति उद्देशान्वये आकाशो नामरूपयोर्निर्वहिता वै नाम तस्य नामरूपनिर्वहितृत्वं प्रसिद्धमिति विधेयान्वये वा द्वेधापि स्वरूपेण नामरूपावकाशदानात् तन्निर्वाहकतया च लोके अवकाश एव प्रसिद्धे: ईशे अप्रसिद्धे: अवकाश एव अयमाकाश इति । सिद्धान्तस्तु । "ते यदन्तरा' इति वाक्ये ते नामरूपे विना यदस्तीत्युक्तस्य कार्त्स्येन शब्दगोचरत्वादिरूपनामत्वस्य तथा निर्वाह्यतया प्रकृतप्राकृतरूपपराहित्यस्य च लिङ्गस्य "यतो वाचो निवर्तन्ते' (तै.2-4) "अरूपमस्पर्शम्' (का.3.15) इत्यादिश्रुतिभि: "अनामा सोऽप्रसिद्धत्वात् अरूपो भूतवर्जनात्' (ब्राह्म.पु.) इत्यादिस्मृत्या च विष्ण्वेकधर्मत्वात् तद्ब्रह्मेत्युक्तब्रह्मब्रह्मशब्दात् तदमृतमित्युकतामृतत्वलिङ्गाच्च साधकसत्त्वात् प्रसिद्धार्थकनिपातद्वयस्य च "आकाश इति होवाच' (छां.1-9-1) इति श्रुतौ स्वरूपेण "एको दाधार भुवनानि विश्ऱ्व' इत्यादिश्रुतौ (ऋ.सं.1-154-4) नामरूपनिर्वहितृत्वेन च विष्णौ प्रसिद्धत्वात् वेदप्रसिद्धे: अन्तरङ्गतया वेदे ग्राह्यत्वेनाबाधकत्वात् अयमाकाशो विष्णुरेवेति । फलं तु नामरूपनिर्वोढुत्वत्वाख्यसर्वाधारत्वमुखेन द्युभ्वादिनयाक्षेप: तत्समाधिश्ऱ्च । तल्लिङ्गादित्यत्र अनवकाशलिङ्गेन लोकरूढित्यागोक्तावपीह वै नामेत्याभ्यां विशेषाशङ्कया पुनरारम्भ: ।। 12 ।।
।। ॐ सुषुप्त्युत्क्रान्त्योर्भेदेन ॐ ।। 13 ।।
अत्र प्रागाकाशशब्दस्य श्रौतप्रसिद्धया ईशे सम्भवेऽपि इह तदभावात् स्व नद्रष्यृत्वं युक्तमिति वा आकाशस्य जडत्वेन तत्र ईशलिङ्गस्य ईशभेदेनायोगेऽपि इह जीवस्य ईशभेदेन तल्लिङ्गं नेतुं शक्यते इति वा पूर्ववैषम्येण शङ्कनात्सङ्गति: । काण्वश्रुतौ अष्यमेऽध्याये "स वा एष एतस्मिन् सम्प्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुन: प्रतिन्यायं प्रतियोन्या द्रवति स्व नायैव स यत्तत्र किञ्चित्पश्यति अनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष:' (बृ.6-3-15) इति श्रुतस्व नादिद्रष्या किं जीव: अथ ईश इति सन्देह: । श्रुतस्व नादि द्रष्यृत्वस्य लोके जीव एव प्रसिद्धत्वात् जीव इति पूर्व: पक्ष: । श्रौतप्रसिद्धयभावे लोकप्रसिद्धेरपि वेदे ग्राह्यत्वात् ईशस्याशरीरत्वेन स्व नादिद्रष्यृत्वायोगाच्च असङ्गत्वरूपब्रह्मलिङ्गस्य ईशाभेदेन जीवचैतन्येऽपि युक्तत्वात् । जीवधर्मस्य तु स्व नादिद्रष्यृत्वस्य शुद्धे ब्रह्मचैतन्ये अयोगात् । जिज्ञासासूत्रे जीवेशभेदस्योक्ततया तदभेदाभिप्राये तद्धमर्स्येशे सिद्धान्तिना वक्तुमशक्यत्वाच्चेति । सिद्धान्तस्तु । असङ्गो ह्ययमिति श्रुतासङ्गत्वस्य असङ्गमस्पर्शमित्यादिना ईशैकधमर्त्वात् स्व नादिपदार्थानां "सन्ध्ये सृष्यिराह हि' (ब्र.सू.3-1-1) इति वक्ष्यमाणन्यायेन सत्यत्वेन "यस्सर्वज्ञ:' (आथ.1-9) इत्यादिश्रुत्या ईशस्य सर्वज्ञतया च कार्त्स्येन स्व नादिद्रष्यृत्वस्य ईशे मुख्यत: सम्भवात् । "प्राज्ञेनात्मना सम्परिष्वक्त:' (बृ.6-3-21) "प्राज्ञेनात्मना अन्वारूढ:' (बृ.6-3-35) इति सुषुप्त्युत्क्रान्तिप्रकरणयो: भेदोक्त्या जीवेशाभेदाश्रवणायोगात् । "स्वाप्ययसम्पत्त्यो:' (ब्र.सू.4-4-16) इत्यत्र सुषुप्तिप्रकरणस्य मुक्तिपरस्याप्युक्त्या भेदस्य मुक्तिगत्वेन सत्यत्वाच्च स्व नादिद्रष्या विष्णुरेवेति अक्षरनयोक्त असङ्गत्वाक्षेप: तत्समाधिश्ऱ्च ।। 13 ।।
।। ॐ पत्यादिशब्देभ्य: ॐ ।। 14 ।।
अत्र "असङ्गो न हि सञ्जते' (बृ.6-4-22) इत्युक्तस्यासङ्गस्य ईशान्यत्वे प्राक्तन: स एवेति शङ्कनात् आक्षेपिकी सङ्गति: । काण्वश्रुतौ षष्ठेऽध्याये "एष नित्यो महिमा ब्राह्मणस्य' (बृ.6-4-22) इति श्रुत: ब्राह्मण: किं विरिञ्च: किं वा ईश इति सन्देह: । विरिञ्च एवायं ब्राह्मण इति पूर्व: पक्ष: । "स वा एष महानज आत्मा' (बृ.6-4-22) इत्यजशब्दात् तस्य च अकारवाच्येशजातत्वेन योगेन रूढ्या च विरिञ्चे सम्भवात् ईशेन जायत इति योगेन "तस्मादहमज: स्मृत:' इति भारतोक्त्या रूढ्या च सम्भवेऽपि वर्णहीने विष्णावनवकाशेन विप्रत्वजातौ निरूढब्राह्मणशब्दसाहित्येन अस्य विरिञ्चैकप्रापकत्वात् महच्छब्दस्यापि अभिमानिनयन्यायेन महत्तत्वाभिमानिनि विरिञ्च एव युक्तत्वात् आत्मश्रुतेरपि "आत्माविरिञ्च: सुमना:' इत्युक्ते: "बुद्धेरात्मा महान् पर:' इति प्रयोगात् विरिञ्चे रूढत्वात् । सर्ववशीत्यादिनोक्त ब्रह्मलिङ्गानां तु उभयबाधेन विरिञ्चेशाभेदेन पूर्वपूर्वपक्षवदुपपत्ते: । "स्थित्यादये हरिविरिञ्चहरेति संज्ञा:' (भाग.1-2-23) इत्यादे: अभेदेनैकवाक्यत्वोपपत्तौ
वाक्यभेदेनोभयपरत्वकल्पनायोगाच्च । सिद्धान्तस्तु । "सर्वस्य वशी सर्वस्येशान: सर्वस्याधिपति:' इत्यादिनोक्तसर्ववशित्वादिलिङ्गानां "उतामृतत्वस्येशान:' (पुरुष.सू.) "सप्तार्धगर्भा' (ऋ.1-164-36) इत्यादिश्रुतिभ्यो वैष्णवत्वात् । ब्राह्मणशब्दस्य ब्रह्मणा वेदेन अण्यते गम्यते इति योगेन सावकाशत्वात् अजश्रुते: तथैव सावकाशत्वात् उभयबाधेन अभेदाङ्गीकारस्य अतिप्रसञ्जकतया "तत एते व्यजायन्त विश्ऱ्वो हिरण्यगर्भ:' इत्यादिवचनबाधिततया च अयोगात् । स्मृते: तत्तदन्तर्गतेश्ऱ्वररूपापेक्षया उपपत्ते: अयं ब्राह्मणो विष्णुरेवेति । फलं तु जिज्ञासादिसूत्रेषु विष्णो: विवक्षितं नित्यमहिमत्वमयुक्तं इत्याक्षेप: तत्समाधिश्ऱ्चेति ।। 14 ।।
।। इति श्रीराघवेन्द्रयतिकृतायां न्यायमुक्तावल्यां आद्येऽध्याये तृतीय: पाद: समाप्त: ।।
।। अथ चतुर्थ: पाद: ।
एवं त्रिपाद्यां कारणत्वतत्सङ्गतानन्दमयत्वादिगुणान्तरबोधकवाक्यस्थशब्दसमन्वयेऽभिहिते अत्र ब्रह्मपदोक्तगुणपूर्तिसिद्धये अवसरप्राप्तानां अन्यत्रैव प्रसिद्धनामलिङ्गात्मकशब्दानां समन्वय उच्यते ।
।। ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॐ ।। 1 ।।
।। ॐ सूक्ष्मं तु तदर्हत्वात् ॐ ।। ॐ तदधीनत्वादर्थवत् ॐ ।। ॐ ज्ञेयत्वावचनाच्च ॐ ।। ॐ वदतीति चेन्न प्राज्ञो हि ॐ ।। ॐ प्रकरणात् ॐ ।। ॐ त्रयाणामेव चैवमुपन्यास: प्रश्ऱ्नश्ऱ्च ॐ ।। ॐ महद्वच्च ॐ ।। ॐ चमसवदविशेषात् ॐ ।।
अत्र अव्यक्तादिपरावधित्वअवरत्वादिवाचिशब्दवाच्यत्वे प्राक् हेतूकृतसर्वेश्ऱ्वरत्वादिविरोध इत्याशङ्कनात् पूर्वसङ्गति: ध्येया । "महत: परमव्यक्तं अव्यक्तात्पुरुष: पर:' (का.1-3-11) "जीवा एव तु दु:खिन:' "योनिमन्ये प्रपद्यन्ते' (का.2-2-7) "कार्यकारणबद्धौ तौ' (मां.2-11) इतयादौ श्रुताव्यक्तदु:खिबद्धावरादिशब्दमुख्यार्थ: किं प्रकृत जीवादि: उत ईश: इति सन्देह: । पूर्वपक्षस्तु । प्रकृत्यादिरेव न ब्रह्म अव्यक्तादिशब्दानां तत्रैव प्रसिद्धे: विष्णुवाचित्वे मानाभावात् तेषां प्रधानाद्यवाचकत्वेऽपि तत्र व्यवहारे अविशेषेण सर्वशब्दानां सर्वत्र व्यवहारापातेन अव्यवस्थाप्रसङ्गाच्च । अव्यक्ते पञ्चम्युक्तेन परावधित्वेनाक्षिप्तावरत्वस्य जीवे ज्ञानदु:खित्वादेश्ऱ्च "न त्वत्समश्ऱ्चाभ्यधिकश्ऱ्च दृश्यते' (भ.गी.11-43) "निरनिष्ठो निरवद्य:' इत्यादिप्रमाणविरोधेन प्रागुक्तसर्वाधिपतित्वादिविरोधेन च विष्णावयोगाच्च । "महान्तं च समावृत्य प्रधानं समवस्थितम्' इत्यादे: प्रधानधर्मत्वेन निर्णीतमहत्परत्वलिङ्गस्य अव्यक्ते श्रवणाच्चेति । सिद्धान्तस्तु । "नामानि सर्वाणि यमाविशन्ति' (भाल्लवेयश्रुति:) इत्यादिश्रुत्या विष्णो: अव्यक्तादिसर्वशब्दवाच्यत्वात् "अव्यक्तमचलं शान्तम्' (पिप्प.श्रु.) "अनेन जीवेनात्मना' (छां.6-11-1) इत्यादि श्रौतस्मार्तप्रयोगात् । सूक्ष्मत्वेनाव्यक्तत्वस्य प्राणाधारकत्वादेश्ऱ्च अव्यक्तादिपदप्रवृत्तिनिमित्तस्य "यत्तत्सूक्ष्मं परमं वेदितव्यम्' (पिप्प.श्रु.) इत्यादिना ईशे मुख्यत्वेन तेषां तत्र मुख्यत्वात् । महच्चमसशब्दयो: महत्तत्वयज्ञपात्रयो: प्रसिद्धत्वेऽपि "महान्तं विभुमात्मानम्' (का.1-2-22) "इदं तच्छिर: एष ह्यर्वाग्बिलश्ऱ्चमस:' (बृ.4-2-3) इत्यादौ प्रवृत्तिनिमित्तमुख्यत्वादिना विष्णुशिरस: मुख्यत्वमिव अव्यक्तादिशब्दानां अन्यत्र प्रसिद्धत्वेऽपि ईशे मुख्यत्वेनोपपत्ते: । "तमेवैकं जानथ आत्मानं अन्यावाचोविमुञ्चथ' इति (आथ.2-2-5) ईशस्यैव मुमुक्षुज्ञेयत्ववचनेन अन्यस्य तदवचनेन ईशज्ञान एव वेदस्य प्रवृत्तत्वात् अवरत्वदु:खादे: ईशेऽयोगेऽपि अन्यगतस्य ईशाधीनत्वेन स्वातन्त्ऱ्ेण निमित्तेन ईशे परावधित्ववाचिपञ्चम्यन्तपददु:ख्यादिपदवाच्यत्वोपपत्ते: । सर्वस्मात्परे महत्परत्वस्यापि सम्भवाच्च अव्यक्तादिशब्दमुख्यार्थो हरिरेवेति । फलं तु समन्वयसूत्रोक्तसर्वशब्दसमन्वयाक्षेप: तत्समाधिश्ऱ्च ।। 1 ।।
।। ॐ ज्योतिरुपक्रमात्तु तथाह्यधीयत एके ॐ ।। 2 ।।
।। ॐ कल्पनोपदेशाच्च मध्वादिवदविरोध: ॐ ।।
पूर्वत्र सिद्धरूपदेवतातत्क्रमवाचिनां इन्द्रियेभ्य इत्यादीनां समन्वय उक्त: । अत्र तु साध्यरूपकमर्तत्क्रमवाचिनां स उच्यत इति पूर्वसङ्गति: । "वसन्ते वसन्ते ज्येतिषा' इति वाक्ये श्रुतज्योतिरादिशब्दा: किं विष्णुवाचिन: किं वा तदन्यकर्मादिवाचिन इति सन्देह: । कर्मादिवाचिन इति पूर्व: पक्ष: । तेषां ज्योतिष्योमादिकर्मादिष्वेव प्रसिद्धे: । प्रसिद्धित्यागेन ब्रह्मवाचित्वे च अन्यस्य कर्मतदङ्गक्रमदेवता कालाधिकार्यादिप्रापकस्याभावेन नियतकर्मानुष्ठानलोप: स्यात् । ज्योति: पदवाच्येशसम्बन्धात् कर्मादावपि तेषां पूर्वत्रेव वृत्तिरित्यस्यापि ईशादन्यत्र लक्षणाप्रसङ्गेनायेगात् । किं चेशे तेषां रूढेरभावेन गुणपूर्त्याभावपातेन च योगस्यैव वाच्यत्वेन ततोऽपि कर्मणि रूढेबर्लवत्वात् । सर्वशब्दवाच्यत्वसिद्धयर्थं ज्योतिरादिपदावयवानामपि ब्रह्मपरत्वे समुदायस्य तत्परत्वायोगेन योगस्यासम्भवाच्चेति । सिद्धान्तस्तु । "तं यच्छतं वर्षाण्यभ्यार्चत्' "तस्माच्छतर्चिनस्तस्माच्छतर्चिन इत्याचक्षते एतमेव सन्तम्' (ऐ.2-2-1) इत्यादिना उपलक्षणत्वेन केषाञ्चिच्छतर्च्यादिशब्दानां महायोगविद्वद्रूढिभ्यां विष्णुपरत्वमुक्त्वा अन्ते "तावा एतास्सर्वा ऋच: सर्वे वेदा: सर्वे घोषा: एकैव व्याहृति: प्राण एव' (ऐ.2-2-2) इति विष्णौ सर्वशब्दमुख्यार्थत्वोक्ते: मध्वादिशब्दस्य क्षौद्रकादौ रूढिमनतिहाय तदबाधेन "असौ वादित्यो देव मधु:' (छां.3-1-1) इत्यादौ महायोगवृत्त्या उपासनाथर्ं मध्वादिशब्दार्थस्योक्तिवत् ज्योतिरादिपदानां अन्यत्ररूढिवृत्तिमबाधित्वैव महायोगादिवृत्त्या ईशपरत्वाङ्गीकारेण कमर्ाद्यसिद्धयभावात् । तदवयवानामन्यवाचित्वमुपेत्यैव समुदायस्य ईशपरत्वोपगमेन जातमोतं जगद्यस्माज्ज्योतिरित्याद्युक्तयोगसम्भवात् ज्योतिरादिशब्दमुख्यार्थो हरिरेवेति फलं तु पूर्ववदेव ।। 2 ।।
।। ॐ न सङ्खयोपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॐ ।। 3 ।।
।। ॐ प्राणादयो वाक्यशेषात् ॐ ।। ॐ ज्योतिषैकेषामसत्यन्ने ॐ ।।
पूर्वत्र प्रसिद्धस्य ज्योतिरादिशब्दनिमित्तस्याभावेऽपि योगलभ्यं अप्रसिद्धं तदस्तीत्युक्तम् । इह तु पञ्चजनादिशब्दानां प्रसिद्धमेव तदीशेऽस्तीत्युच्यत इति सङ्गति: । काण्वश्रुतौ षष्ठेऽध्याये "तद्देवा ज्योतिषां ज्योतिरायुहोपासतेऽमृतम् । यस्मिन्पञ्चपञ्चजना: आकाशश्ऱ्च प्रतिष्ठित: । तमेव मन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम्' (बृ.6-416,17) इति श्रुतपञ्चत्वयुक्त: जनादिशब्दमुख्यार्थ: किं वाक्यशेषे षष्ठयन्तेन प्राण चक्षु:श्रोत्रमनोवाचादि शब्देनोक्ता किं वा द्वितीयान्त तत्तच्छब्दनिर्दिष्यषशस्वरूपाणीति सन्देह: विष्ण्वन्ये प्राणादय एव पञ्चजनादिशब्दार्थ इति पूर्व: पक्ष: । तस्य बहुत्वविशिष्यार्थवाचित्वात् । तस्य चैकमेवाद्वितीयमित्युक्तिविरोधेन ईशेऽयोगात् । वशीकृतबहुजनेऽपि राजनि बहुत्ववाचिशब्दादर्शनेन तदधीनत्वन्यायस्यापि अत्र अनवतारात् । गुहामित्यत्र गुहानिविष्यत्वादिबाधकेन एकस्यानेकत्वं नेत्युत्सर्गबाधेऽपि इह बाधकाभावेन तन्न्यायस्याप्यनवकाशात् । तमेवात्मानमित्यात्मपदसामानाधिकरण्यात् । यस्मिन्नित्यस्य ब्रह्मत्वेन तदाश्रितानां पञ्चानां जनानां आकाशस्य ब्रह्मत्वे एकस्याधाराधेयेभावानुपपत्तेश्ऱ्चेति । सिद्धान्तस्तु । "प्राणस्य प्राणं चक्षुषश्ऱ्चक्षु: श्रोत्रस्य श्रोत्रं अन्नस्यान्नं मनसो मन:' इति वाक्यशेषे द्वितीयान्ततया श्रुतानां प्राणादिनियन्तृत्वादिविष्णुलिङ्गस्य श्रवणेन विष्णुरूपत्वात् तेषां च षष्ययन्तनिर्दिष्यप्राणाद्यपेक्षया शब्दतोऽर्थतश्ऱ्च प्राधान्यात् । "नामानि सर्वाणि' "तावा एता:' इत्याद्युक्तसर्वशब्दवाच्यत्वमुमुक्षुज्ञेयत्वादिप्रागुक्तहेतुभ्यश्ऱ्च एकस्यापि बहुरूपत्वेन पञ्चत्वसङ्खयाया: भेदप्रतिनिधिविशेषबलेन यस्मिन्निति निर्दिष्यशरीरस्वरूपस्य पञ्चजनादिशब्दितरूपाणां च आधाराधेयभावस्यापि सम्भवात् । माध्यन्दिनशाखायामिव काण्वश्रुतौ वाक्यशेषे अन्नाख्यरूपस्याश्रवणेऽपि पूर्वश्रुतज्योतिषा सह पञ्चत्वात् वाक्यशेषेस्थद्वितीयान्तप्राणादिशब्दितेशरूपविशेषा एव पञ्चजना इति । अत्र पादे सर्वत्र पूर्ववदेव फलम् ।। 3 ।।
।। ॐ कारणत्वेन च आकाशादिषु यथा व्यपदिष्योक्ते: ॐ ।। 4 ।।
अत्र कालस्सदासीत्यादौ दर्शनादेकस्याधाराधेयभाव सम्भवेऽपि कार्यकारणभावस्य क्वाप्यदर्शनादयुक्त: इति
पूर्ववैषम्यशङ्कनात्सङ्गति: । तैत्तिरीये ब्रह्मवल्यां "आत्मन आकाशस्सम्भूत: आकाशाद्वायु:' (तै.2-3) इत्यादि वाक्ये कार्यत्वेन कारणत्वेन श्रुताकाशादिशब्दा: किं मुख्यतो विष्णुवाचका उत भूतादिवाचका इति सन्देह: । पूर्वपक्षस्तु । "न जायते म्रियते (का.1-1-17) इत्यादे: अकार्ये ब्रह्मणि कार्यत्वविरोधेन स्वकार्यत्वस्य सुतरां विरुद्धत्वात् व्यङ्गयव्यञ्जकभावरूपस्यापि कार्यकारणभावस्य एकस्मिन् विरोधात् । सुतजने: जनकाधीनत्वेऽपि तत्र जातपदादर्शनेन तदधीनन्यायस्यापि अन्नानवतारात् । नामानि सर्वाणीति श्रुतेरपि सङ्कोचावश्ये भावात् आकाशादिजन्मासिद्धयापाताच्च आकाशादिशब्दा: अन्यवाचका एवेति । सिद्धान्तस्तु । विष्णोरेवाकाशादिनियामकरूपाणां "य आकाशे तिष्ठन्' (बृ.5-7-12) इत्यादि श्रुत्या आकाशादिस्थानां बहुत्वेन व्यक्त्यव्यक्त्यपेक्षया पौर्वापर्ययोगेन वाय्वाद्युत्पत्तौ तत्स्थरूपस्य व्यक्त्येव, व्यङ्गयव्यञ्जकभावरूपकार्यकारणभावस्य सम्भवात् । बाधकाभावेन नामानीत्यादि श्रुते: सङ्कोचायोगेन प्रागुक्तसाधकानां सत्त्वात् । ज्योतिर्नयोक्तरीत्या अन्यत्र रूढेरभ्युपगतत्वेन आकाशाद्युत्पत्यसिद्धयभावाच्च आकाशादिशब्दमुख्यार्थो हरिरेवेति ।। 4 ।।
।। ॐ समाकर्षात् ॐ ।। 5 ।।
।। ॐ जगद्वाचित्वात् ॐ ।। ॐ जीवमुख्यप्राणलिङ्गादिति चेत्तद्वयाख्यातम् ॐ ।। ॐ अन्यार्थं तु जैमिनि: प्रश्ऱ्नव्याख्यानाभ्यामपि चैवमेके ॐ ।। ॐ वाक्यान्वयात् ॐ ।। ॐ प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्य: ॐ ।। ॐ उत्क्रमिष्यत एवं भावादित्यौडुलोमि: ॐ ।। ॐ अवस्थितेरितिकाशकृत्स्न: ॐ ।।
अत्र आकाशादिशब्दानां अन्यत्रापि रूढ्यङ्गीकृतौ ईशे तदन्यत्र च अक्षादिशब्दवत्तुल्या मुख्यवृत्ति: स्यादिति शङ्कनात्सङ्गति: । सर्वशब्दानां ईशे तदन्यत्र च उक्ता मुख्यता किं तुल्या किं वा ईशे अधिका अन्यत्र तु हीनेति सन्देह: । पूर्वपक्षस्तु । अक्षादिशब्दानां अनेकार्थवाचिनां अनेकत्रेव सर्वशब्दानामीशे तदन्यत्र च मुख्यत्वं तुल्यमेव स्यात् । अन्यथा अन्यत्र हीनत्वे लक्षणेत्यस्यैव मुख्यवृत्तिरिति परिभाषा स्यात् । ईशे मुख्यत्वस्याधिक्ये तत्रैव प्रसिद्धयापातेन जगति प्रसिद्धिर्न स्यात् । ईशज्ञानादेव पुरुषाथर्सिद्धया कर्मदेवतादौ शब्दानां हीनवृत्या व्यवहारस्य फलान्तरानिच्छुं मुमुक्षुं प्रति व्यर्थत्वापाताच्च किञ्च शब्दवृत्तिहेतो: ईशगतत्वापेक्षया तत्राधिक्यमिति न युक्तम् । अन्यत्रापि सत्त्वात् । नापि तदधीनत्वन्यायेन "अस्य यदेकां शाखां जीवो जहात्यथ सा शुष्यति' (छां.6-11-2) इति क्वचिज्जीवाधीनत्वस्य "वायुना हि सर्वे लोका नेनीयन्ते' इति सर्वस्य वाय्वधीनत्वप्रतीत्या तयोरपि ईशवन्मुख्यवाच्यत्वापातादिति । सिद्धान्तस्तु । ब्रह्मणि अन्यतोऽधिकैव शब्दानां मुख्यता अन्यत्र हीनैव रूढियोगयोरिव गौणलक्षणयोरिव ईशे अन्यत्र च रूढिसत्त्वेऽपि विद्वदविद्वद्रूढिभ्यां यौगिकत्वेऽपि योगमहायोगाभ्यां तारतम्यसम्भवेन महायोगविद्वद्रूढिभ्यां परममुख्यवृत्त्या विष्णुनिष्ठानामेव तेषां अन्यत्र तत: समाकृष्य मुख्यवृत्त्या व्यवहारात् । बालानां चित्रलिखितसिंहादाविव लोकानामन्यत्रैव शब्दव्यवहारेण अन्यत्रप्रसिद्धयुपपत्ते: । कर्मदेवताधारत्वादिना ईशज्ञानार्थमेव कर्मादौ वेदव्यवहारस्य सम्भवात् । जीवादौ श्रुतस्वातन्त्ऱ्यस्य च तदन्तर्यामिगतत्वेन पादान्त्यप्राणनये सिद्धत्वादिति । फलं तु विष्णुरेव सर्वशब्दमुख्यार्थ: इति समन्वयसूत्रोक्तावधारणाक्षेप: तत्समाधिश्ऱ्चेति ।। 5 ।।
।। ॐ प्रकृतिश्ऱ्च प्रतिज्ञादृष्यान्तानुपरोधात् ॐ ।। 6 ।।
।। ॐ अभिध्योपदेशाच्च ॐ ।। ॐ साक्षाच्चोभया नानात् ॐ ।। ॐ आत्मकृते: परिणामात् ॐ ।। ॐ योनिश्ऱ्च हि गीयते ॐ ।।
अत्र सर्वशब्दानां विष्णावधिका वृत्ति: अन्यत्र हीनेति प्रागुक्तमयुक्तं स्त्रीलिङ्गशब्दानां मुख्यवृत्तेरेवायोगात् कुत: आधिक्यचिन्तेति शङ्कनात् सङ्गति: । "एषाह्येव प्रकृतिरविकृति:' (वत्सश्रुति:) इत्यादिवाक्योक्तस्त्रीलिङ्गप्रकृत्यादिशब्दा: किं विष्णुवाचिनोऽन्यवाचिनो वेति सन्देह: । अन्यवाचिन इति पूवर्: पक्ष: । तेषां अन्यत्रैव प्रसिद्धत्वात् स्त्रीलिङ्गत्वाच्च ।
परमपुरुषे स्त्रीत्वाभावात् । "नैनं वाचा स्त्रियं ब्रुवन्' इति स्त्रीत्वनिषेधेन रूपविशेषेण स्त्रीत्वमित्यस्याप्ययोगात् । ब्रह्मादिनपुंसकशब्दस्य कलत्रादिशब्देष्विव शब्दसाधुत्वमात्रेण युक्तत्वेऽपि इह न तथा कल्पकाभावात् । नामानि सर्वाणीत्यस्य सङ्कोचसम्भवात् । वशीकृतभार्येऽपि भार्यापदप्रयोगादर्शनेन अन्यगतस्त्रीत्वस्येशाधीनत्वमुपेत्य तदधीनत्वन्यायेन ईशे तच्छब्दवृत्तिरित्यस्याप्ययोगादिति । सिद्धान्तस्तु "हन्तैतमेवपुरुषं सर्वाणि नामान्यभिवदन्ति' (वत्सश्रुति:) इत्यादिश्रुतौ सामान्यतोऽशेषशब्दवाच्यत्वं ईशस्योक्त्वा नदीसमुद्रदृष्यान्तस्योपादानात् । "मायां तु प्रकृतिं विन्द्यात्' (श्ऱ्वे.उ.4-10) "प्रकृतिर्वासनेत्येवं तवेच्छानन्त्यकथ्यते' इत्यादि श्रुतिस्मृतिषु इच्छाया: प्रकृतिपदवाच्यत्वात् तस्याश्ऱ्च "सोऽभिध्या स जूति:' इत्यादिश्रुतौ ईशस्वरूपत्वोक्ते: । "एष स्त्री एष पुरुष: एष प्रकृति:' (पैङ्गिश्रुति:) इति साक्षात् प्रकृतिशब्दवाच्यत्वा नानात् । प्रकृतिं प्रविश्य तां महदाद्यात्मना परिणाम्य तन्नियामकतया आत्मनो बहुधाप्रकारेण प्रकृष्याकृति: इति योगसम्भवात् अव्यवधानेन सूतिहेतुत्वरूपस्त्रीत्वस्य यद्भूतयोनिमिति श्रुतौ योनिशब्देन गानात् प्रकृत्यादिसर्वस्त्रीलिङ्गशब्दमुख्यार्थो हरिरेवेति ।। 6 ।।
।। ॐ एतेन सर्वे व्याख्याता व्याख्याता: ॐ ।। 7 ।।
अत्र पूर्ववैषम्येन पूर्वपक्षोत्थानात्सङ्गति: । "असद्वा इदमग्र आसीदित्यादौ श्रुतासच्छून्यादिशब्दा: किं ईशवादिनोऽन्यवादिनो वेति सन्देह: । पूर्वपक्षस्तु । युक्तं पूर्वोक्तरूपं स्त्रीत्वं रूपाहाने: न तु निषेध्यत्वादिरूपं असदादिप्रवृत्तिनिमित्तं रूपहाने: । असतो नि:स्वरूपस्य नियमनाभावेन तस्य ईशाधीनत्वायोगेन तदधीनन्यायस्याप्यनवतारात् । अतोऽसदादिशब्दा अन्यवाचिन: इति । सिद्धान्तस्तु । प्रसिद्धशून्यत्वादे: ईशगतत्वाभावेऽपि "शमूनं कुरुते' इत्यादिस्मृत्युक्तयोगसम्भवात् असतोऽप्यसत्त्वादिना नियमनसम्भवेन तदधीनत्वाद्युक्तसाधकेन च असच्छून्यादिशब्दमुख्यार्थो हरिरेवेति । फलं तूक्तमेव ।। 7 ।।
।। इति श्रीराघवेन्द्रयतिकृतायां न्यायमुक्तावल्यां आद्येऽध्याये चतुर्थ: पाद: ।।
।। अथ द्वितीयाध्याये प्रथम: पाद: ।।
पूर्वोक्तसमन्वयस्य अत्र विरोधनिरासात् पूर्वाध्यायेनास्य हेतुहेतुमद्भावसङ्गति: । युक्तिसमयश्रुतियुक्तियुक्ताश्रुतिविरोधानां पदान्त्यादिभङ्गेन अश्ऱ्वादिवत्प्रवर्तमानानां क्रमेण पादचतुष्ययेन निरास: क्रियते । चतूरूपत्वात् आद्यनये स्मृतिविरोधो निरस्यते ।
।। ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ ।। 1 ।।
।। ॐ इतरेषां चानुपलब्धे: ॐ ।। ॐ एतेन योग: प्रत्युक्त: ॐ ।।
प्राक् श्रुतिसमन्वयेनोक्तं विष्णोर्विश्ऱ्वकर्तृत्वं युक्तं नवेति सन्देह: । न युक्तमिति पूर्व: पक्ष: । शिवादिकर्तृत्वबोधकस्यैव साङ्खयकापिलादिसर्वश्रौतस्मृतिविरोधात् । तासां च सर्वज्ञत्वादिना प्रसिद्धशिवाद्यप्रणीतत्वेन आप्तिरूपगुणयुक्तत्वेन प्राबल्यात् । श्रुतेश्ऱ्च अपौरुषेयत्वेन निर्मूलतया दौर्बल्यात् । कणादादिमते श्रुतेराप्तोक्तत्वेन समूलकत्वेऽपि तत्स्मृतीनां विस्पष्यार्थत्वसयुक्तिकत्वाभ्यां प्राबल्यात्तुल्यबलत्वाभावेन विरुद्धत्वेन च वस्तुनि विकल्पस्य दुर्बलत्वे श्रुत्या बाधस्यायोगात् देशादिभेदेन अविरोधस्य च श्रुत्यादौ तत्रतत्र तस्यतस्य सर्वकर्तृत्वोक्त्या युक्तत्वात् "विरोधेत्वनपेक्षम्' (पू.मी.) इति पूर्वतन्त्रस्य विरोधनये स्मृतीनां श्रुतिमूलत्वेन प्रामाण्यमिति पक्ष एव श्रुतिविरोधेन तासां बाधोक्ते: इह तु स्मृतीनां शिवादिप्रत्यक्षमूलत्वेन वैषम्यात् । अत: तत्तत्स्मृत्यनुरोधेन शिवादिकर्तृत्व एव श्रुतीनां नेयत्वात् बौद्धार्हतादिस्मृतिविरोधेन अप्रामाण्याद्वा इति । सिद्धान्तस्तु । पञ्चरात्रादिस्मृतीनां सर्वज्ञतमविष्ण्वादिप्रणीतत्वेन श्रुत्युक्तसंवादेन तत्सहायेन
विस्पष्यार्थवादित्वेन च बलवत्तया तद्बाधितत्वात् शैवादिस्मृत्युक्तसाधनानुष्ठानेऽपि तत्फलत्वेनोक्तस्य प्रत्यक्षयोग्यानुपलब्ध्या फलविसंवादात् आप्तोक्तत्वस्याप्यभावेन अवैदिकस्मृतीनामप्रामाण्यात् श्रुतिसमन्वयेनोक्तं विष्णोर्विश्ऱ्वकर्तृत्वं युक्तमिति । समन्वयसूत्रे उपक्रमादिभिरेव वेदार्थो निर्णेय इत्युक्तावपि अत्र तेऽपि तदनुरोधेन नेया इति शङ्कनात्पुनरारम्भ: । शास्त्रयोनिनये दृष्यफलेषु प्रामाण्यं अपस्मृतीनामुपेत्य तत्रेव विश्ऱ्वकारणत्वेऽप्यस्तु प्रामाण्यमिति प्राप्ते "नावेदविद्' इत्यादिना तत्र न मानत्वमित्युक्तम् । अत्र तु प्रत्यक्षफल एव विसंवादात् अप्रामाण्यमुच्यत इति तेनास्य अगतार्थत्वमिति ध्येयम् । फलं तु अत्राध्याये सर्वत्र जन्मादिसूत्रोक्तविश्ऱ्वकर्तृत्वाक्षेप: तत्समाधिश्ऱ्च ।। 1 ।।
।। ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॐ ।। 2 ।।
।। ॐ दृश्यते तु ॐ ।।
अत्र फलविसंवादेन अपस्मृतीनामप्रामाण्ये तत एव श्रुतिश्रौतस्मृत्योरप्रामाण्यं स्यादिति शङ्कनादापवादिकी सङ्गति: । श्रुति: श्रौतस्मृतिश्ऱ्च किं प्रमाणमुत नेति सन्देह: । "वृष्यिकाम: कारीर्या यजेत' इत्याद्युक्तकारीर्याद्यनुष्ठाने वृष्ययाद्यदृष्यया फलविसंवादेन अपस्मृतिवत् अपौरुषेयत्वेऽपि अप्रमाणमेव श्रुति: अपौरुषेयत्वमेव नेति वा अत्र भवति । श्रौतस्मृतिश्ऱ्चैव न मानमिति पूर्व: पक्ष: । सिद्धान्तस्तु । "वाचा विरूपनित्यया' इत्यादिवचनेन देवादिनये भाष्योक्तयुक्त्या च श्रुतेरपौरुषेयत्वेन श्रौतस्मृतेस्तदनुसारित्वेन च अनाशङ्कितदोषतया साक्षिवत्प्रमाणत्वात् । प्रामाण्यस्य च "न चक्षुर्न श्रोत्रमित्यादिना वेदार्थस्य चक्षुराद्ययोग्यत्वोक्त्या संवादमनपेक्ष्यतया स्वत एव ज्ञेयत्वात् फलविसंवादरूपापवादस्य अधिकारिविशेषाणां फलदर्शनेनासिद्धे: । क्वचित्फलविसंवादनिमित्तस्य च कर्त्रादिवैगुण्यनिमित्तत्वेनोपपत्ते: । अपस्मृतीनां तै: संवादेनैव तत्प्रामाण्यज्ञप्त्यङ्गीकारेण तद्वैषम्यात् प्रमाणमेव श्रुतिश्रौतस्मृतय इति ।। 2 ।।
।। ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ ।। 3 ।।
।। ॐ दृश्यते च ॐ ।।
पूर्वत्र विसंवादाख्ययुक्तिमात्रविरोधो निरस्त: । अत्र श्रुते: प्रतीतार्थप्रच्युतिकारित्वेन दृढयुक्तिविरोधो निरस्यत इति सङ्गति: । "मृदब्रवीदापोऽब्रुवन् तत्तेज एवसौ' इत्यादि श्रुति: प्रमाणमुत नेति सन्देह: । आदिकालीनपृथिव्यादिवक्तृत्वाद्यभिधात्री श्रुतिर्न मानमिति पूर्व: पक्ष: । मृन्न वक्ति जडत्वान्मृत्त्वाद्वा सम्मतवदिति युक्तिविरुद्धार्थकत्वाज्जडस्य कर्मेन्द्रियहीनस्य कर्तृत्वेक्षितृत्वादेरयोगात् इदानीन्तनमृदादिकारणत्वेन अनुमितस्य वा परसिद्धमात्रस्य वा मृदादे: पक्षीकारेण युक्ते: धर्मिग्राहकमानबाधस्याप्यभावादेव वेदैकदेशस्य अमानत्वात् तत्सामान्यादितरेषु तथात्वमिति जैमिनीयन्यायेन कृत्स्नवेदस्यापि अमानत्वमिति । सिद्धान्तस्तु प्रागुक्तदिशा नित्यत्वेन अनाशङ्कितदोषस्य वेदस्य अप्रामाण्यायोगात् जडस्य वक्तृत्वाद्ययोगाच्च वेदप्रामाण्यवक्तृत्वाद्यभिधायकत्वयोर्द्वयो: यावताविनानुपपत्ति: तावता कल्प्यत्वात् तदुभयान्यथानुपपत्त्या "पृथिव्याद्यभिमानिन्यो देवता: प्रथितौजस:' (भविष्यत्पुराण) इत्यादिवचनेन महतां प्रत्यक्षेण च अभिमानिचेतनस्य वक्तृत्वाद्युपयोगिविग्रहादिमत्वस्य अस्माद्यनुपलब्धिबाधनिरासाय अन्तर्धानशक्तिमत्वस्य इत्येवमादे: सिद्धत्वात् मृदादिस्थमृत्त्वादिप्रवृत्तिनिमित्तस्य अभिमान्यधीनतया तदधीनत्वन्यायेन तच्छब्दानां तदभिमानिदेवतास्वेव मुख्यत्वाच्च मृदादिशब्दितदेववक्तृत्वाद्यङ्गीकारे युक्तिविरोधाभावात् प्रमाणमेव वेद: इति ।। 3 ।।
।। ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ ।। 4 ।।
।। ॐ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॐ ।। ॐ न तु दृष्यान्तभावात् ॐ ।। ॐ स्वपक्षदोषाच्च ॐ ।। ॐ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्ग: ॐ ।। ॐ एतेन शिष्या अपरिग्रहा अपि व्याख्याता: ॐ ।।
अत्र श्रुत्यसहितयुक्त्यविरोधाय मृदादिशब्दानां अन्यार्थतायां श्रुतिसहितयुक्त्यविरोधाय "सदेव सौम्य' (छां.6-2-1) इति असदादिशब्दानां अन्यार्थतेति किमु वाच्यमिति पूर्वसिद्धान्तन्यायेन शङ्कनात्सङ्गति: । विष्णोर्विश्ऱ्वकर्तृत्वावेदक: "यतो वा' इत्यादि वेद: प्रमाणं उत नेति सन्देह: । न प्रमाणमिति पूर्व: पक्ष: । लयवृत्तिविश्ऱ्वप्रागभाव: विश्ऱ्वहेतु: अनन्यथासिद्धनियतपूर्वक्षणवृत्तित्वात् सम्प्रतिपन्नवदिति युक्त्या "असदेवेदमग्र आसीत्' इत्यसच्छब्दितविश्ऱ्वप्रागभाव हेतुत्वपरश्रुतिसहितया तस्य हेतुत्वे सिद्धे विमता: भावा: प्रलये असन्त: भावत्वात् कार्यवत् इति लये भावमात्रासिद्धौ कार्यस्य सकर्तृकत्वनियमात् परिशेषेण असदेव सन्मनोकुरुतेत्यादि श्रुतिसहितेन ईश्ऱ्वरादिकल्पनात: लाघवेन उपादानस्यापि प्रागभावस्यैव कर्तृत्वादिति । प्रागभावकर्तृत्वसाधकयुक्तिविरुद्धत्वात् । वृक्षेण स्थीयत इत्यादौ कर्त्रर्थकतृतीयाया: अचेतनेऽपि दर्शनेन अभावस्य कर्तृत्वस्वीकारे अनुपपत्यभावाच्च । किञ्च कूलपतनवत् अकर्तृकमेव जगत् कार्यत्वात् घटवत् जीवकर्तृकं वा दध्यादिवज्जडकर्तृकं वा इत्यादि युक्तिभि: "अकस्माद्धीदमाविरासीदित्यादिश्रुतिसहिताभिर्विरुद्धत्वाच्चेति । सिद्धान्तस्तु । विष्णो: कर्तृत्वस्य ज्ञानचिकीर्षादिमत्वरूपतया अभिमतत्वेन तृतीयायोगित्वमात्रत्वाभावात् । तस्य च स्वरूपत एव निषेधात्मके अयोगात् । कार्यनाशे कारणमात्रावशेषनियमेन प्रलये भावमात्रावशेषोपपत्ते: । तन्मावशेषस्य च विमतोत्पत्ति: भावाधीना उत्पत्तिमत्वात् । विमतो विनाश: सशेष: नाशत्वात् सम्मतवत् इत्यादिभि: लये भावसत्त्वावेदकयुक्तिभिर्विरुद्धतवात । भावत्वयुक्तेरुक्तदिशा सत्प्रतिपक्षितत्वेन लयकाले व्यभिचारेण च दुष्यतया प्रलये भावाभावशेषस्य अप्रामाणिकत्वात् शुष्कतर्कस्याप्रतिष्ठत्वेऽपि ईशकर्तृत्वागमसहायास्मदुक्तस्य प्रामाण्यसम्भवात् । निष्कारणत्वजीवकारणत्वादे: उक्तयुक्तिविरोधिनैव निरासाच्च असद्वेत्यादिश्रुतीनां च "एतेन सर्वे व्याख्याता:' (ब्र.सू.1-4-29) इत्युक्तन्यायेन ईशपरत्वात् प्रमाणमेव विष्णुकर्तृत्वश्रुतिज्ञानमिति ।। 4 ।। N.M-4
।। ॐ भोक्त्रापत्तेरविभागश्ऱ्चेत्स्याल्लोकवत् ॐ ।। 5 ।।
पूर्वं ब्रह्मणोऽसत्वमुपेत्य अभावस्यैव कर्तृत्वं शङ्कितम् । इह तु उक्तदिशा तत्सत्त्वमुपेत्य जीवस्यापि कर्तृत्वमाशङ्कयते इति सङ्गति: । विष्णुरेव कर्ता इत्यादि श्रुतिसमन्वयेनोक्तं विश्ऱ्वकर्तृत्वं युक्तं न वेति सन्देह: । न युक्तमिति पूर्व: पक्ष: । "परेऽव्यये सर्व एकीभवन्ति' (मुं.3-2-7) इति श्रुत्या मुक्तैरैक्यात् अन्यस्य अन्यत्वादर्शनेन प्रागैक्यस्यावश्यकत्वेन संसारिजीवाभिन्नत्वादिति श्रुतिसिद्धाभिन्नत्वयुक्तिविरुद्धत्वात् । नच प्रागप्यैक्ये अभूततद्भावार्थक "च्वि' प्रत्ययायोग: । प्राग्भेदस्याप्यङ्गीकारात् तन्निवृत्त्यर्थत्वेन तदुपपत्ति: । एवं च जीवेशयोरैक्यस्य तयो: सर्वकर्तृत्वाल्पकर्तृत्वविरुद्धधर्मत्यागेन तस्य जीवसालक्षण्येन वा जीवधर्मत्यागेन वा तस्य ईश सालक्षण्येन वा सम्भवेन आद्यया विष्णौ सर्वकतर्ृत्वस्यासम्भवात् । अन्त्येऽतिव्याप्तेरिति । सिद्धान्तस्तु । एकीभावश्रुते: "निरञ्जन: परमं साम्यमुपैति दिव्यम्' (मुं.5-3) इत्युत्तरवाक्येन "यथोदकं शुद्धे शुद्धमासिक्तं तादृगेवेत्यादि वाक्यान्तरेण च विरोधेन प्राग्भिन्नस्यापि पश्ऱ्चादत्यन्ताभेदस्य क्वाप्यदर्शनेन च मुक्त्यैक्यपरत्वेन जीवैक्यस्य वा सिद्धे: युक्तं विष्णो: विश्ऱ्वकर्तृत्वमिति ।। 5 ।।
।। ॐ तदनन्यत्वमारम्भणशब्दादिभ्य: ॐ ।। 6 ।।
।। ॐ भावे चोपलब्धे: ॐ ।। ॐ सत्त्वाच्चावरस्य ॐ ।। ॐ असद्वयपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॐ ।। ॐ युक्ते: शब्दान्तराच्च ॐ ।। ॐ पटवच्च ॐ ।। ॐ यथा प्राणादि: ॐ ।।
पूर्वत्र ईशस्य विश्ऱ्वकर्तृत्वमेव नेति शङ्कापास्ता । अत्र तु श्रुतिसिद्धं तदुपेत्य स्वाधीनसत्तादियुक्तं साधनापेक्षं तदिति शङ्का अपास्यत इति सङ्गति: जन्मादिसूत्रोक्तं विष्णोस्स्वातन्त्ऱ्ेण कर्तृत्वं युक्तं न वेति सन्देह: । न युक्तमिति पूर्व: पक्ष: । महदादिसृष्यि: कर्त्रन्यस्वतन्त्रसाधनसापेक्षा सृष्यित्वात् पटसृष्यिवत् इत्यादि बहुयुक्तिविरुद्धत्वात् "अद्भय: सम्भूत: पृथिव्यै रसाच्च' (पुरुष.सू.) इति श्रुतौ अबादिस्वतन्त्रसाधनान्तरोक्तिविरोधाच्च । ईश्ऱ्वरसृष्यित्वात्तदनपेक्षायां ईशाधीनसाधनान्तरापेक्षा न स्यादिति । सिद्धान्तस्तु । युक्तमेव स्वतन्त्रकर्तृत्वं विष्णो: "किंस्विदासीदधिष्ठानं आरम्भणम्' (ऋ.10-81-2) इति श्रुतौ अधिष्ठानादे: साधनस्याक्षेपात् तथा "नासदासीन्नो सदासीत्' (ऋ.10-129-2) इत्यादिश्रुतौ भूतादिसाधनासत्त्वकथनात्
तयोश्ऱ्च सादनसत्त्वावेदकश्रुत्यन्तरविरोधेन च स्वरूपेणाक्षेपासतवयोरयोगे तत्स्वातन्त्ऱ्यनिषेधपरत्वेन तया श्रुत्या विमता सृष्यि: न कर्त्रन्यसाधनापेक्षा परतन्त्रकर्त्रन्यत्वे सति सृष्यित्वात् इत्यादि व्यतिरेकानुमानैश्ऱ्च प्रागुक्तै: विरुद्धत्वात् । प्राणादीनां ईशानुप्रविष्ठत्वेन अस्वातन्त्ऱ्यवत् "प्रकृतिं पुरुषं चैव प्रविश्य' (कूमर्.पु.) इति स्मृत्या ईशानुप्रविष्ठत्वेन साधनानां अस्वातन्त्ऱ्यनिश्ऱ्चयेन बाधितत्वात् । कर्त्रन्यस्वतन्त्रसाधनस्य श्रुत्यादिप्रमाणैरनुपलम्भात् "अद्भय:' इत्यादे: "द्रव्यं कर्म च कालश्ऱ्च' इत्यादि श्रुत्या अवरसाधनत्वपरत्वेन तद्विरोध्यभावात् ईश्ऱ्वरस्यापि लीलया सृष्यौ साधनान्तरोपादानसम्भवाच्चेति ।
।। ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्ति: ॐ ।। 7 ।।
।। ॐ अधिकं तु भेदनिर्देशात् ॐ ।। ॐ अश्मादिवच्च तदनुपपत्ति: ॐ ।। ॐ उपसंहारदर्शनान्नेति चेत्क्षीरवृद्धि ॐ ।। ॐ देवादिवपि लोके ॐ ।। ॐ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॐ ।।
अत्र पूवर्ोक्तं प्राणादि जीवानामस्वातन्त्ऱ्यं अयुक्तं जीवानां स्वतन्त्रकर्तृत्वानुभावात् इत्याक्षेपात् सङ्गति: । जन्मादिसूत्रे अभिमतं विष्णोरेव स्वतन्त्रकर्तृत्वं युक्तं न वेति सन्देह: । पूर्वपक्षस्तु । "जीवाद्भवन्ति भूतानि' इत्यादिश्रुत्या अहमिदं करोमीत्यादि स्वतन्त्रकर्तृत्वानुभवेन च संवादिन्या जीव: कर्ता चेतनत्वात् सिद्धान्त्यभिमतेशवत् इति युक्त्या विष्णुरेव स्वतन्त्र: कर्ता इत्यस्य विरुद्धत्वादेव च घटादौ जीवस्यैव कर्तृत्वे सिद्धे लाघवेन महादादावपि स एव कर्तेत्यस्य न्याय्यत्वात् ईशस्य च अयोग्यत्वेन कदाप्यप्रत्यक्षतापत्त्या श्रवणादिवैयर्थ्येन योग्यत्वे वाच्ये सदा सर्वत्र सत: इति इहेदानीमनुपलम्भेन योग्यानुपब्ध्या तदभावनिश्ऱ्चयेन तत्कतर्ृत्वकल्पनस्य गौरवपराहतत्वाच्च न युक्तं तत्कर्तृत्वमित्येक: । अन्यस्तु । महदादिकर्तृत्वस्य जीवे अनुभवविरोधात् अस्तु तत्रेश: कर्ता न तु घटादावपि तस्य अनुभवसिद्धजीवमात्रकर्तृत्वे कल्पनालाघवादिति । सिद्धान्तस्तु । जीवस्यैव स्वतन्त्रकर्तृत्वे स्वहिताकरणस्य च अनुभवसिद्धस्यायोगात् । तृणोद्धरणादौ कृत्स्नसामर्थ्येन एकदेशेन वा प्रवृत्तत्वे अनुभवेन "एष नित्यो निरवयव:' इति श्रुत्या च विरुद्धत्वेन प्रवृत्त्ययोगाच्च । बाधकात्सदा सर्वत्र स्थितस्यापि ईशस्य देवादिवत् पिशाचादिवच्च अन्तर्धानशक्त्यानुपलम्भसम्भवेन "जीवाद्भवन्ति' इत्यादिश्रुते: अपूर्वतालिङ्गेन ईशपरत्वोपपत्ते: । स्वतन्त्रकर्तृतानुभवस्य च चार्वाकस्य जडदेहस्वातन्त्ऱ्यबुद्धेरिव ईशाधीने जीवे भ्रमत्वाच्चेतनत्वयुक्तेश्ऱ्च अश्मादिवदस्वतन्त्रत्वात् न जीव: स्वतन्त्रकर्तेति सत्प्रतिपक्षत्वेन अप्रयोजकतया स्वातन्त्ऱ्ाभावाच्च न जीव: । स्वतन्त्र: प्रमितेश्ऱ्वर: घटादौ महदादौ च स्वातन्त्रकर्तेत्यङ्गीकारे गौरवस्य प्रामाणिकत्वेन अदोषत्वाच्च द्वावपि पूर्वपक्षावयुक्ताविति विष्णोरेव कर्तृत्वं युक्तमिति । फलं तु पूर्वोत्तरपक्षयो: लक्षणस्य यथाक्रमं असम्भवातिव्याप्ती तत्समाधिश्ऱ्च सिद्धान्ते ।। 7 ।।
।। ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ ।। 8 ।।
।। ॐ आत्मनि चैवं विचित्राश्ऱ्च हि ॐ ।। ॐ स्वपक्षदोषाच्च ॐ ।। ॐ सर्वोपेता च तद्दर्शनात् ॐ ।। ॐ विकरणत्वान्नेति चेत्तदुक्तम् ॐ ।।
अत्र कृत्स्नप्रसक्त्यादिदोष: जीववदीशस्य कर्तृत्वेऽपि स्यादिति शङ्कनात्सङ्गति: । विष्णोस्सर्वकर्तृत्वं युक्तं न वेति सन्देह: । पूर्वपक्षस्तु । विष्णोस्तृणादानादल्पकार्येऽपि कृत्स्नप्रसक्त्या प्रवृत्तौ अप्रेक्षावत्वापातात् । एकदेशेन प्रवृत्तौ नेहनानेत्यादि निरंशश्रुतिव्याकोपात् जीवादीशेविशेषासिद्धया तत्रैवायं दोषो नेशे इत्यस्य च कल्पकाभावात् "अचक्ष: श्रौत्रं तदपाणिपादम्' इति श्रुत्या श्रोत्रादिकारणाभावाच्च अयुक्तं विष्णो: कर्तृत्वमिति । सिद्धान्तस्तु । "योऽसौ विरुद्ध: अविरुद्ध: मनुरमनु:' (पैङ्गिश्रुति:) इत्यादि लोके विरुद्धधर्माणां ईशेऽविरुद्धतवोक्ते: तस्य शब्दैकगम्यतया शुष्कतर्कागोचरत्वेन तदबाध्यत्वात् "विचित्रशक्ति: पुरुष: पुराण:' इत्यादिश्रुत्या विष्णोर्युक्तिविरुद्धनिर्वाहकनित्यसर्वविषयकअघटितघटकशक्तिसत्वाच्च । जीवे च पूर्वोक्तस्य कस्याप्यभावेन ईशस्य ततो विशेषात् भावस्य "न तस्य कार्यं करणम्' इत्यादिना प्रागुक्तश्रुते: प्राकृतपरत्वात्
ज्ञानानन्दादिगुणमयपाण्याद्यवयवयुक्तदेहसत्त्वाच्च युक्तं तत्कर्तृत्वमिति । शास्त्रयोनिनये शुष्कतर्कस्य साधकत्वं नेत्युक्तम् । अत्र बाधकत्वं नेति भेद: ।। 8 ।।
।। ॐ न प्रयोजनवत्त्वात् ॐ ।। 9 ।।
।। ॐ लोकवत्तु लीलाकैवल्यम् ॐ ।।
पूर्वं हेतुमुखयुक्तिविरोधोऽपास्त: अत्र तु फलमुखदृढयुक्तिविरोध: निरस्यत इति सङ्गति: । विष्णो: तत्प्रयोजनोद्देशेऽपूर्णतापत्त्या तादृशस्य चैत्रादेरिव सर्वकर्तृत्वायोगात् तदनुद्देशे च चेतनस्य प्रेक्षावत: प्रवृत्तेरेवायोगात् । दयाजन्यपूलाभावात् दयया प्रवृत्तिरित्यस्यायोगादिति । सिद्धान्तस्तु । "देवस्यैष स्वभावोऽयम्' (मां.उ.2-9) इति श्रुत्या विश्ऱ्वसृष्ययादे: ईशस्वभावत्वात् स्वाभाविकस्य निमेषादे: प्रयोजनानुद्देशेऽपि दशर्ना फलाभावेऽपि अनायासाध्याङ्गुल्यग्रादिचलनस्येव ईशस्य विश्ऱ्वसृष्ययादेरनायाससाध्यत्वेन उपपन्नत्वाच्च । दयाजन्यस्य स्वफलस्याभावेऽपि परप्रयोजनस्य सत्त्वाच्च लीलारूपो विश्ऱ्वसृष्ययादि: युक्त: इति ।। 9 ।।
।। ॐ वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति ॐ ।। 10 ।।
।। ॐ न कर्माविभागादिति चेन्नानादित्वात् ॐ ।। ॐ उपपद्यते चाप्युपलभ्यते च ॐ ।।
अत्र पूर्वनयोक्तपरप्रयोजनरूपफलविषये युक्तिविरोधो निरस्यत इति सङ्गति: । विष्णोस्सर्वकर्तृत्वं युक्तं नवेति सन्देह: । न युक्तमिति पूर्व: पक्ष: । विष्णो: परप्रयोजनोद्देशेन प्रवृत्तावुपेतायां तत्तदीयकर्मानपेक्षतया तेषांतेषां फलदाने निर्निमित्तं विभागेन सुखदु:खादि ददत: वैषम्यनैर्घृण्यापातात् कर्मापेक्षया फलदाने कर्मणामपि तदधीनत्वेन निर्निमित्तं विभागेन सुकृतदुष्कृते कारयत: पुन: वैषम्याद्यापातात् । विष्ण्वनधीनत्वे अनधीनकर्मापेक्षितत्वेन स्वातन्त्ऱ्यच्युतेति । सिद्धान्तस्तु । विष्णोस्तत्तदीयकमर्ापेक्षया फलदानेऽपि कर्मणां प्रवाहत: अनादित्वेन पूर्वपूर्वतत्तदीयकर्मापेक्षया उत्तरोत्तरसुकृतादिकर्म कारयित्वा फलं ददातीत्यङ्गीकारेण विभागेन कर्मानुष्ठापनस्य निर्निमित्तत्वाभावात् कर्मणामपि "एष ह्येव साधुकर्म कारयति' इति श्रुत्या स्वाधीनत्वेन अस्वातन्त्ऱ्ानापत्तेश्ऱ्च । अनादिकर्मणां स्वाधीनत्वेन अन्यथाकरणशक्तस्यापि एवमेव तदपेक्षया फलदाने प्राप्तवैषम्यादेश्ऱ्च । धर्मादे: फलहेतुत्वावेदक वेदप्रामाण्यानापादकत्वेन विधिनिषेधातीतस्य तस्य तद्वतो जीवस्येव प्रत्यवायहेतुत्वाच्च अनादितत्तद्योग्यतानुसारित्वस्यैवसमशब्दार्थतया "समोहं सर्वभूतेषु' (भ.गी.9-29) इत्युक्तसर्वसमत्वरूपसद्गुणाविरोधित्वाच्च । "सकारयेत्पुण्यमथापि पापं न तावता दोषिवान्' (चतुर्वेदशिखा) इत्यादिश्रुतौ दोषत्वेनोक्तत्वाच्च अदोषत्वाद्युक्तं विष्णोस्सर्वकर्तृत्वमिति ।। 10 ।।
।। ॐ सर्वधर्मोपपत्तेश्ऱ्च ॐ ।। 11 ।।
एवं स्रष्यृत्वाद्येकैकगुणे एकैकदोषाभावे च युक्त्यविरोध: पूर्वनयेषूक्त: अत्र तु उपसंहारत्वात् सर्वत्रेति सङ्गति: । विष्णोरुक्तनिर्दोषगुणपूर्णत्वं युक्तं नवेति सन्देह: । न युक्तमिति पूर्व: पक्ष: । विष्णु: न निर्दोषत्वेन गुणपूर्णवान् चेतनत्वात् चैत्रादिवदिति युक्तिविरोधात् अन्यथा दोषाभावे गुणत्वं च न स्यादिति । सिद्धान्तस्तु । ब्रह्म सदाप्राप्तसर्वसद्गुणं तत्प्रेप्सुत्वे सति तत्र शक्तत्वात् सम्मतवत् । ब्रह्म सदा त्यक्तसर्वदोषं तज्जिहासुत्वे सति तत्र शक्तत्वादिति युक्त्यनुगृहीताया: "गुणा: श्रुता: सुविरुद्धाश्ऱ्च देवे' (सौपर्ण0/जाबालिखिल) इत्यादिश्रुत्या निर्दोषगुणपूर्णत्वस्य सिद्धे: चेतनस्य अप्रयोजकत्वात् युक्तं विष्णोर्निर्दोषगुणपूर्णत्वम् । नच युक्तिद्वये विशेषणासिद्धि: । प्रेक्षावत्त्वेनैव तदनुमानात् विशेष्यस्य च "श्रुतेस्तु' (ब्र.सू.2-1-28) इति नये सिद्धत्वादिति । फलं तु समन्वयाध्यायोक्तार्थस्य आक्षेपस्तत्समाधिश्ऱ्च ।। 11 ।।
।। इति श्रीमद्राघवेन्द्रयतिकृतायां न्यायमुक्तावल्यां द्वितीयाध्यायस्य प्रथम: पाद: ।।
।। अथ द्वितीय: पाद: ।।
इतरेषां चानुपलब्धेरिति (ब्र.सू.2-1-2) स्मृतिनये गुणसूत्रोक्तहेतुविस्तृतिरूपत्वात् तदनन्तरं समयविरोध: अत्रोच्यते इति वा प्रागुक्तदिशा वा पूर्वपादेनास्य सङ्गति: । "अक्षपादकणादौ च' इत्यादि स्मृत्या समयानां द्वैविध्यात् हेतुमत्वेन हैतुकानां प्रबलत्वात् आदौ निरस्यते ।
।। ॐ रचनानुपपत्तेश्ऱ्च नानुमानम् ॐ ।। 1 ।।
।। ॐ प्रवृत्तेश्ऱ्च ॐ ।। ॐ पयोम्बुवच्चेत्तत्रापि ॐ ।। ॐ व्यतिरेकानवस्थितेश्ऱ्चानपेक्षत्वात् ॐ ।।
जन्मादिसूत्रोक्तं विष्णोस्सर्वकर्तृत्वं युक्तं न वेति सन्देह: । न युक्तमिति पूर्व: पक्ष: । महदादिकार्यं स्वतन्त्रकारणजन्यं सजातीयकारणजन्यं वा कार्यत्वात् घटवदित्याद्यनुमानै: सिद्धं विश्ऱ्वहेतु: प्रधानं स्वतन्त्रप्रवृत्तिरूपकर्तृत्ववत् वस्तुत्वात् अम्ब्वादिवत् इति स्वत: परिणामवत् द्रव्यत्वात्क्षीरवदिति वाऽनन्यापेक्षतया प्रधानस्य कर्तृत्वं साधयता निरीश्ऱ्वरसाङ्खयनयेन विरुद्धत्वादिति । सिद्धान्तस्तु । आद्यानुमानस्य सिद्धसाधनतापराहतत्वात् अन्त्ययोश्ऱ्च महदादिकं न स्वतन्त्रप्रवृत्तिमत् अचेतनत्वात् चेतनसृष्यं वा कायर्त्वात् घटवदित्यादिना सत्प्रतिपक्षत्वात् । "एतस्यैवाक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्य: स्यन्दन्ते' (बृ.5-8-9) "एतेन ह वाव पयोमण्डं भवति' इति "न ऋते त्वत्क्रियते' (ऋ.10-112-9) इत्यादिश्रुतिभि: अम्ब्वादावपि चेतनप्रवृत्तिदृष्यया साध्यवैकल्याच्च दुष्यत्वेन केवलाचेतनकर्तृत्वस्याप्रामाणिकत्वात् प्रमाणविरुद्धत्वाच्च । तत्प्रतिपादकसमयस्य दुष्यतया तद्विरोधस्याकिञ्चित्करत्वात् श्रुतिसमन्वयेनोक्तं विष्णोविर्श्ऱ्वकर्तृत्वं युक्तमिति । फलं तु अत्र सर्वत्र जन्मादिसूत्रोक्तकर्तृत्वाक्षेपसमाधी ।। 1 ।।
।। ॐ अन्यत्राभावाच्च न तृणादिवत् ॐ ।। 2 ।।
अनीश्ऱ्वरसाङ्खयमतस्य वैदिकवादं प्रति अत्यन्तविरोधित्वात् आदौ तन्निरस्य अत्र ईशगुणकप्रधानकर्तृत्वपरसाङ्खयमतं निरस्यत इति सङ्गति: । विष्णो: स्वातन्त्ऱ्ेण कर्तृत्वं युक्तं न वेति सन्देह: । न युक्तमिति पूर्व: पक्ष: । केवलाचेतनप्रधानस्य परिणामाद्ययोगेऽपि गुणभूतेशानुगृहीतस्य पर्जन्यानुगृहीतपृथिव्यादेस्तृणाद्यात्मनेव महदात्मना परिणामोपपत्ते: प्रागुक्तश्रुतीनां गुणभूतेशपरत्वेन तदविरोधाच्चेति एवंरूपसाङ्खयमतविरोधादिति । सिद्धान्तस्तु । "यच्च किञ्चिज्जगत्सर्वम्' "महाना.उ.) इत्यादिश्रुतौ सर्ववस्तूनां सत्तादिप्रदानाय सर्वगत्वोक्ते: ईशप्रेरणां विना कस्यापि वस्तुन: सत्त्वस्यैवाभावात् । "स एव भूयो निजवीर्यचोदिताम्' (भाग.1-10-23) इत्यादिस्मृतौ प्रकृत्यादिकारणसत्तादेरपि ईशायत्तत्वोक्ते: ईश: पर्जन्यवन्नानुग्राहकमात्रं कार्यकारणाख्यसर्ववस्तुसत्त्वादिप्रदत्वात् य एवं स एवं यथा सम्मतवत् इति तस्य स्वातन्त्ऱ्यसिद्धेश्ऱ्च साङ्खयमतस्य दुर्मतत्वेन तद्विरोधस्याकिञ्चित्करणत्वात् युक्तं तस्यैव स्वातन्त्ऱ्ेण जगत्कर्तृत्वमिति ।
।। ॐ अभ्युपगमेऽप्यर्थाभावात् ॐ ।। 3 ।।
अत्र प्राक् श्रुत्यनुमानाभ्यां केवलस्य ईशगुणकस्य वा जडस्य कर्तृत्वनिरासो युक्त: । तयो: अमानत्वाद्देहस्यैव कर्तृत्वोपपत्तेरीशो न कर्तेत्याक्षेपात्सङ्गति: । विष्णोर्जगत्कर्तृत्वं युक्तं न वेति सन्देह: । न युक्तमिति पूर्व: पक्ष: । विनापीशं पूर्वपूर्वस्मादुत्तरोत्पादसम्भवात् क्वचित्स्वभावादेव मदिरोत्पत्तिवत् कार्योत्पत्युपपत्ते: । प्रत्यक्षेतरप्रामाण्याभावेन प्रागुक्तश्रुत्यनुमानविरोधाभावात् धर्माधर्माद्यदृष्यवस्तुन: अनभ्युपगमेन श्रुत्याद्यप्रामाण्ये धर्माद्यभाव: स्यात् इत्यस्येष्यत्वात्
कुत: ईश: कुतस्तरां तत्कर्तृत्वं कुतस्तमाञ्च स्वातन्त्ऱ्यमिति चार्वाकमतविरोधादिति । सिद्धान्तस्तु । अक्षान्याप्रामाण्येनादृष्यवस्त्वभावे चार्वाकशास्त्रस्य अदृष्यविषयस्य अदृष्यस्य चाप्राप्ते: दृष्यस्य च "अप्राप्ते शास्त्रमर्थवत्' इति न्यायेन विषयत्वायोगात् धर्माद्यभावस्य च अक्षायोग्यत्वात् धर्मादिकं नास्ति प्रत्यक्षेणानुपलम्भात् इत्यनुमानस्य त्वया प्रामाण्यानभ्युपगमाच्च । धर्माधर्माद्यभावबोधनापायाभावेन तस्यापि विषयत्वायोगात् धर्मस्वर्गापवर्गादे: प्रयोजनस्याभावात् । दृष्यस्य धनादे: वार्ताद्युपायान्तरसाध्यत्वाद्धर्माद्यभावज्ञाने परधनवनिताद्यर्थं परस्परहिंसादिना अपकारस्यैव प्राप्त्या धर्माद्यभावबोधनद्वारा लोकोपकार: फलमित्यस्याप्यभावात् विषयप्रयोजनयोरभावेन तन्मतस्य दुष्यत्वात् तयोरभावेऽपि शास्त्रत्वमस्त्वित्यस्य च व्याहतत्वेन तदीयदुमर्तस्य अकिञ्चित्करत्वात् युक्तं विष्णो: कर्तृत्वमिति ।। 3 ।।
।। ॐ पुरुषाश्मवदिति चेत्तथापि ॐ ।। 4 ।।
।। ॐ अङ्गित्वानुपपत्ते: ॐ ।।
अत्र यदुक्तं प्राग्विषयादिशून्यतया दुर्मतस्य विरोधकत्वादीश: कर्तेति तन्न । विषयादिमत्पुरुषोपसर्जन साङ्खयमतविरोधादित्याक्षेपात्सङ्गति: । विष्णोर्विश्ऱ्वकर्तृत्वं युक्तं न वेति सन्देह: । न युक्तमिति पूर्व: पक्ष: । केवल जडस्य स्वत: प्रवृत्तिमत्वरूपकर्तृत्वस्यानुपपत्तावपि लोके जीवसम्बन्धेन देहस्यैव अश्मानयनादौ प्रवृत्तिदर्शनेन विमाता प्रवृत्ति: जीवोपसर्जना चेतननिर्वृत्ता प्रवृत्तित्वात् अश्मानयनप्रवृत्तिवदित्यनुमानेन जीवगुणकप्रधानस्य कर्तृत्वस्वीकारे बाधकाभावादिति पुरुषोपसर्जनप्रधानकतर्ृसाङ्खयमतविरोधादिति । सिद्धान्तस्तु । "न ऋते त्वत्क्रियते किञ्चनारे' इत्यादि प्रागुक्तश्रुत्या शरीरप्रवृत्तेरपि ईशाधीनत्वस्य सिद्धया जीवस्य गुणित्वे देहस्य अङ्गत्वे च व्यवहारस्य लौकिकपरीक्षकसिद्धस्यायोगेन च जीवगुणकप्रधानकर्तृत्वस्य अप्रामाणिकत्वात् तादृशार्थावेदकस्यापि दुर्मततया उक्तार्थाविरोधकत्वात् युक्तं विष्णो: कर्तृत्वमिति ।। 4 ।।
।। ॐ अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॐ ।। 5 ।।
।। ॐ विप्रतिषेधाच्चासमञ्जसम् ॐ ।।
अत्र जीवस्यैवाङ्गित्वोपगमेन अङ्गत्वानुपपत्ति: दोषो नेति शङ्कनात्सङ्गति: । विष्णो: कर्तृत्वं युक्तं न वेति सन्देह: । न युक्तमिति पूर्व: पक्ष: । प्रागुक्तदिशा अश्मानयनादौ देहोपसर्जनजीवकर्तृत्वदृष्यया तद्दृष्यान्तेन विमता प्रधानप्रवृत्ति: अचेतनोपसर्जनजीवाधीना प्रवृत्तित्वात् अश्मानयनादिप्रवृत्तिवत् इत्यनुमानेन पुरुषप्रधानस्यैव प्रधानस्य स्वत:प्रवृत्तौ ईशेन कृत्याभावात् दूरे कर्तृत्वम् । प्रागुक्तश्रुतेश्ऱ्च युक्तिविरोधेन अवज्ञानादिति पुरुषप्रधानकसाङ्खयमतविरोधादिति । सिद्धान्तस्तु । एवं पूर्वमतादन्यथानुमानेऽपि जीवस्य देहं विनापि प्रवृत्तौ शक्तत्वे देहवैयर्थ्यादशक्तत्वे देहसम्बन्धार्थप्रवृत्तावपि केवलस्य शक्त्यभावेन अङ्गित्वानुपपत्ते: । प्रकृतिसम्बन्धस्य तत्र शक्तत्वोक्तौ प्रकृतिसम्बन्धप्रवृत्तावपि एवमेवमित्यनवस्थानात् । अनादित्वेन तत्परिहारे मुक्तप्रवृत्ते: सर्वथायोगेन स्वतन्त्रेणेशेनैव देहसम्बन्धे घटनीये अश्मानयनादिप्रवृत्तावपि तथेति दृष्यान्तस्य साध्यहीनत्वेन अनुमानस्य दुष्यतया उक्तार्थस्य साधकाभावेन अप्रामाणिकत्वात् स्वतन्त्रेशाङ्गीकारेण च सर्वसामञ्जस्यात् युक्तं विष्णो: कर्तृत्वमिति । इतरेत्यत्र श्रुतियुक्तिप्राप्तस्य अत्र तु समयप्राप्तस्य जीवकर्तृत्वस्य निरास इति भेद: ।। 5 ।।
।। ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॐ ।। 6 ।।
।। ॐ उभयथापि न कर्मातस्तदभाव: ॐ ।। ॐ समवायाभ्युपगमाच्च साम्यादनवस्थिते: ॐ ।। ॐ नित्यमेव च भावात् ॐ ।। ॐ रूपादिमत्वाच्च विपर्ययोदर्शनात् ॐ ।। ॐ उभयथा च दोषात् ॐ ।। ॐ अपरिग्रहाच्चात्यन्तमनपेक्षा ॐ ।।
अत्र निरीश्ऱ्वरपक्षोक्तो दोषो नेशवादिनां मत इति पूर्ववैषम्येन शङ्कनात्सङ्गति: । अत्र प्रागुक्तं विष्णोरनन्तगुणत्वं युक्तं न वेति सन्देह: । न युक्तमिति प्राप्तम् । ईश्ऱ्वरात्मनो: द्रव्यत्वेन सङ्खयापरिमाणपृथक्त्वसंयोगविभागाख्यानां पञ्चानां सामान्यगुणानां कर्तृत्वोपयोगितया ज्ञानेच्छाप्रयत्नानां त्रयाणां विशेषगुणानां आवश्यकत्वेन अष्यगुणातिरिक्तगुणे मानाभावेन जीवात्मवच्चतुर्दशगुणवत्वस्याप्यभावेन अनन्तगुणत्वं दूरतोपास्तमिति वैशेषिकादिमतविरोधादिति । सिद्धान्तस्तु । वैशेषिकाणां अयुक्तभाषित्वेन अप्रामाणिकप्रक्रियाबोधकस्य तन्मतस्योक्तार्थविरोधित्वात् युक्तमनन्तगुणत्वमिति । तथाहि । यदुक्तं त्ऱ्यणुकादिपरिमाणं चतुरणुकादिपरिमाणासमयवायिकारणं परमाणुद्वयणुकपरिमाणे न भवत: किन्तु तद्गतद्वित्वत्रित्वसङ्खयैवेति । तदयुक्तम् । त्ऱ्यणुकादिगतस्येव परमाण्वादिगतस्यापि परिमाणस्य तथात्वोपपत्ते: । त्ऱ्यणुकगतस्य ह्रस्वत्वेन परमाणुगतस्य च अणुत्वेन वैजात्येऽपि सङ्खयाया इव प्रचयस्यैव हेतुत्वोपपत्ते: । अणुमहद्दीर्घह्रस्वं चेत्येवं परिमाणौ अवान्तरजातौ मानाभावेन सर्वस्यापि वस्तुन: आपेक्षिकाणुत्वमहत्वयो: पुरुषविशेषं प्रति प्रत्यक्षत्वाप्रत्यक्षत्वयोश्ऱ्च युक्ततया अतिप्रसङ्गाभावाच्च । एवं विवक्षिततन्तुसंयोगभिन्नपटाप्रतीत्या तं प्रति तन्तुसंयोगस्याहेतुत्वेन असमवायिकारणप्रक्रिया न युक्ता । तथ निमित्तकारणत्वेनाङ्गीकृतेशाच्छाया: नित्यत्वे प्रलये तस्यां सत्यामपि परमाणुचेष्याभावेन व्यभिचारादन्यदापि तदभावापत्त्या त्ऱ्यणुकादिकार्याभाव: स्यात् । अनित्यत्वे तदुत्पत्तौ तदिच्छान्तरापेक्षायां अप्रामाणिकव्यक्तिपरम्परया अनवस्थापातात् । अनपेक्षायां तत्रेव अन्यत्रापि तस्याहेतुत्वं न स्यादिति तदुपेतं निमित्तकारणमप्ययुक्तम् । तथा गुणगुण्यादे: भिन्नत्वमुपेत्य विशिष्यप्रत्ययाद्यर्थसमवायान्तराङ्गीकारे तत्राप्येवमित्यनवस्थापत्त्या समवायस्यायोगेन यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणमिति लक्षणयुक्तं समवायिकारणमपि अयुक्तमिति विश्ऱ्वसृष्यिरयुक्ता । तथा लयोऽपि तन्मते न युक्त: । समवायिकारणपरमाणूनां निमित्तभूतेशाच्छादेश्ऱ्च नित्यत्वे सदा कायर्ोत्पत्तिरेव अवश्यं भावितत्वात् । किंच परमाणवोऽनित्या: रूपादिमत्वाद्घटवदिति अनुमानविरुद्धत्वेन परमाणुनित्यत्वस्यापि तन्मतेऽयोगाच्च । अन्यथा पटादेरपि नित्यत्वापत्ते: । भौतिकत्वेन हेतुविशेषणेन सिद्धान्तेऽव्यभिचारात् । अन्वीक्षकीं तर्कविद्यामनुरक्तो निरर्थिकाम् इति भारते (शान्तिपर्व.180-47) सृगालरूपेन्द्रेण तर्कविद्यानुरागस्य सृगालजन्महेतुत्वोक्त्या निन्दितत्वाच्चेति तन्मतस्य दुष्यत्वं ध्येयम् । फले तु पूर्वाध्यायोक्तपूर्णगुणत्वाक्षेपसमाधाने ।। 6 ।।
।। ॐ समुदाय उभयहेतुकेऽपि तदप्राप्ति: ॐ ।। 7 ।।
।। ॐ इतरेतरप्रत्ययत्वादिति चेन्न उत्पत्तिमात्रनिमित्तत्वात् ॐ ।। ॐ उत्तरोत्पादे पूर्वनिरोधात् ॐ ।। ॐ असति प्रतिज्ञोपरोधो यौगपद्यगन्यथा ॐ ।। ॐ प्रतिसङ्खयाऽप्रतिसङ्खयानिरोधाप्राप्तिरविच्छेदात् ॐ ।। ॐ उभयथा च दोषात् ॐ ।। ॐ आकाशे चाविशेषात् ॐ ।। ॐ अनुस्मृतेश्ऱ्च ॐ ।।
एवं परमाण्वारम्भवादनिरासेनोपस्थिततत्पुञ्जवादोऽत्र निरस्यते इति सङ्गति: । विष्णोविर्श्ऱ्वकर्तृत्वं युक्तं न वेति सन्देह: । न युक्तमिति प्राप्तम् । रूपविज्ञानवेदनासंज्ञासंस्काररूपेणावस्थितस्य परमाथर्सत: अशेषजगत: परमाणुहेतुकतत्समुदायमात्रत्वात् तावता घटादिबुद्धयुपपत्तौ परमाणुपरिणामस्य तदारब्धस्यावयविनोऽभ्युपगमस्य व्यर्थत्वात् सत्त्वस्य चार्थक्रियाकारित्वरूपत्वेन सतो वस्तुन: स्थायित्वे तेन स्वसजातीयघटादिकायर्ान्तरजननात् ताभ्यां तथा इत्येकक्षण एवानन्तकार्यापातेन अर्थक्रियाकारित्वरूपसत्त्वान्यथानुपपत्त्या वा यत्सत्तत्क्षणिकं यथा दीपादि सन्तश्ऱ्चामीभावा: इत्यनुमानेन वा क्षणिकत्वात् तस्योक्तकार्यजातस्य कालकर्मनिमित्तेनैव जन्मसम्भवे ईश्ऱ्वरेण कृत्याभावात् आगमप्रामाण्यानभ्युपगमेन मानाभावाच्चेत्येवं रूपेण वैभाषिकसौत्रान्तिकयोर्मतेन विरुद्धत्वादिति । सिद्धान्तस्तु । तयोरनुपपन्नभाषिता तन्मतस्य दुष्यत्वेन तद्विरोधस्याहेतुकस्याकिञ्चित्करत्वात् युक्तं विष्णो: कर्तृत्वमिति । तथाहि । अणुहेतुक: अणुसमुदाय एव घटादि: नत्वन्या काचिदसतीति यत्तावदयुक्तम् । एकाणुहेतुकस्य एकस्मात्समुदाय इत्यस्य व्याहतेरयोगात् अनेकाणुहेतुक इति पक्षेऽपि मिलितानेकाणुहेतुक: स: इत्युक्तौ तु मेलने समुदाय: समुदाये सति मेलनमित्यन्योन्याश्रयात् । विरलानेकहेतुक: स इत्युक्तौ तु तेषां सदा सद्भावेन समुदायस्यापि सदा सत्त्वापत्त्या तद्विनाशरूपलयाङ्गीकारविरोधात् । अथ मन्यसे विरलाणुस्थानेकत्वसङ्खयाया: समुदायशब्दाथर्ोपगमात् तस्या: सदातनत्वेऽपि अपेक्षाबुद्धिव्याङ्घयत्वेन तत्प्रतीतिव्यवहारयो:
इदं चेदं चेत्यपेक्षाबुद्धयधीनत्वात् तस्या: सामीप्यहेतुत्वेन लयेऽणूनां सामीप्याभावेन अभावात् तन्निमित्ततद्वित्तिव्यवहाराभावेन लयोपपत्तिरिति । तन्न । विषयात्मनो: क्षणिकत्वेन परमाणुदर्शनापेक्षाबुद्धिसमुदायवित्तिव्यवहाराणां एकविषयत्वैकाधिकरणत्वयोरयोगेन कदापि समुदाये वित्तिव्यवहारयोरसम्भवापातात् । त्वन्मते अणूनां सदृशकार्यजननस्वभावत्वाङ्गीकारेण विरलेभ्यो मिलिताणूत्पत्तेरयोगाच्च । क्षणिकत्वपक्षे असतिप्रतिज्ञेति प्रतिसङ्खयेति सूत्राभ्यां उक्तदि प्रतिक्षणोत्पत्तिविनाशयोरयोगेन क्षणिकत्वस्याप्ययुक्तत्वाच्च । प्रागुक्तार्थापत्तेश्ऱ्च उभयथा चेति सूत्रोक्तदिशा दुष्यत्वात् अनुमानस्य च आकाशे चेत्यनेनोक्तदि प्रकरणसमत्वात् तदेवेदमिति प्रत्यभिज्ञाबाधितत्वाच्च क्षणिकत्वस्याप्रामाणिकत्वाच्चेति ।। 7 ।।
।। ॐ नासतोऽदृष् ्तवात् ॐ ।। 8 ।।
।। ॐ उदासीनानामपि चैवं सिद्धि: ॐ ।। ॐ नाभाव उपलब्धे: ॐ ।। ॐ वैधर्म्याच्च न स्व नादिवत् ॐ ।।
क्षणिकपरमाणुपुञ्जमते उक्तदोषो नास्माकमिति पूर्वाक्षेपेण प्रवृत्ते: सङ्गति: । विष्णोरुक्तं विश्ऱ्वकर्तृत्वं युक्तं न वेति सन्देह: । न युक्तमिति प्राप्तम् । पारमार्थिकात् देशकालपरिच्छेदशून्यत्वादेव संवृतिसम्बन्धेन विश्ऱ्वोत्पत्त्युपपत्तौ ईशेन कृत्याभावात् । श्रुत्यादेरमानत्वेन तस्या: अप्रामाणिकत्वाच्चेत्येवं रूपेण शून्यवादिमतेन विरोधात् इति । सिद्धान्तस्तु सत्त्वादिसर्वधर्मशून्यस्य सत्त्वायोगेनासत्त्वादसत: कारणत्वस्याप्रामाणिकत्वात् । खपुपादीनामपि सौरभ्यकार्यहेतुतापत्त्या अतिप्रसङ्गदुष्यत्वाच्च शून्यमेव जगदाकारेण भवति न वस्तुतो जगदस्तीत्यस्यापि सदित्यबाधितप्रत्यक्षादिबाधेनायोगाच्च । तन्मतस्य दुष्यतया तद्विरोधाभावात् युक्तं विष्णोर्विश्ऱ्वकर्तृत्वमिति । एतेन मायिमतविरोधोऽपि निरस्तो ध्येय: ।। 8 ।।
।। ॐ न भावोऽनुपलब्धे: ॐ ।। 9 ।।
।। ॐ क्षणिकत्वाच्च ॐ ।। ॐ सर्वथानुपपत्तेश्ऱ्च ॐ ।।
अत्रापि विज्ञानस्य सत्यत्वेन शून्यवादाद्युक्तदोषो नास्माकमिति पूर्वाक्षेपात्सङ्गति: । विष्णोरुक्तं विश्ऱ्वकर्तृत्वं युक्तं न वेति सन्देह: । न युक्तमिति प्राप्तम् । नित्यनिरञ्जनात् सद्रूपाद्विज्ञानतत्त्वादेव परमार्थत: तदनन्यजगदुदयसम्भवात् नेशेन कृत्यमित्येवंरूपेण विज्ञानवादिमतेन विरोधादिति । सिद्धान्तस्तु । विज्ञानतत्त्वव्यतिरेकेण जगदेव नास्तीत्यस्य सत्त्वग्राहिप्रत्यक्षबाधितत्वात् । तादात्म्यस्य चाप्रामाणिकत्वात् । सहोपलम्भनियमादभेदो नीलतद्धियोरित्यनुमानस्य च अबाधितभेदप्रतीतिविरुद्धत्वात् विज्ञानस्य आशुतरविनाशित्वात् एतादृशजगत्तादात्म्यायोगाच्च तन्मतस्यायुक्ततया तद्विरोधाभावाद्युक्तं विष्णोर्विश्ऱ्वकर्तृत्वम् ।। 9 ।।
।। ॐ नैकस्मिन्नसम्भवात् ॐ ।। 10 ।।
।। ॐ एव चात्माकात्स्नर्यम् ॐ ।। ॐ न च पर्यायादप्यविरोधो विकारादिभ्य: ॐ ।। ॐ अत्यावस्थितेश्ऱ्चोभयनित्यत्वादविशेषात् ॐ ।।
अत्र शून्यवादाद्युक्तसत्त्वासत्त्वयोरङ्गीकारेण नैकैकपक्षोक्तदोषोऽस्माकमित्याक्षेपात्सङ्गति:। विष्णोरुक्तविश्ऱ्वकर्तृत्वं युक्तं नवेति सन्देह: । न युक्तमिति प्राप्तम् । कायपरिमाणात्मन: दृष्यादृष्यसाधनैश्ऱ्च सत्त्वं असत्त्वं सदसत्त्वं सदसद्विलक्षणत्वं सत्त्वे सति सद्विलक्षणत्वं असत्त्वे सति असद्विलक्षणत्वं सदसत्वे सति सदसद्विलक्षणत्वं इत्यनियतसप्तभङ्गयात्मकस्य जगतो जन्मादिसम्भवात् ईशेन कृत्यं नेत्येवंरूपेण जैनमतेन विरोधादिति । सिद्धान्तस्तु । व्यवस्थितसदसत्त्वभावाभावत्वादिप्रकारद्वयान्यप्रकारस्याप्रामाणिकत्वेन असम्भावितत्वात् एकैकपक्षोक्तदोषपरिजिहीर्षया
सप्तभङ्गयङ्गीकारे सर्वपक्षोक्तदोषानिवारणाच्च । मशकमातङ्गादिसूक्ष्मस्थूलदेहप्राप्त्या आत्मनस्तत्र कात्स्नर्यातिरेकयो: प्राप्ते: । पर्यायेण तत्तत्कायपरिमाणोक्तौ च विकारित्वेनानित्यताप्राप्ते: । आत्मन: कायपरिमाणत्त्वप्रक्रियया: अप्रामाणिकत्वाच्च तन्मतस्य दुष्यत्वाद्युक्तं विष्णोर्विश्ऱ्वकर्तृत्वमिति ।। 10 ।।
।। ॐ पत्युरसामञ्जस्यात् ॐ ।। 11 ।।
।। ॐ सम्बन्धानुपपत्तेश्ऱ्च ॐ ।। ॐ अधिष्ठानानुपपत्तेश्ऱ्च ॐ ।। ॐ करणवच्चेन्न भोगादिभ्य: ॐ ।। ॐ अन्तवत्वमसर्वज्ञता वा ॐ ।।
अत्र विश्ऱ्वस्यैकप्रकारोररीकारेण सप्तभङ्गीपक्षोक्तदोषो नास्माकमित्याक्षेपात्सङ्गति: । विष्णोरुक्तं विश्ऱ्वकर्तृत्वं युक्तं न वेति सन्देह: । न युक्तमिति प्राप्तम् । श्रुतिस्मृतिभि: सार्वज्ञादिगुणक: पशुपतिरेव मायामुपादानीकृत्य हरिहरहिरण्यगर्भादिजगन्निर्माता इत्यवगमात् इत्येवमादिरूपेण शैवादिमतेन विरोधादिति । सिद्धान्तस्तु । यं कामये तं तमुग्र कृणोमीत्यादि भाष्योक्तश्रुत्यादिभि: शिवस्य पारतन्त्ऱ्ाद्यवगमात् शिवस्याशरीरतया प्रलये भूतानां विलीनत्वेन सृष्यिकाले पृथिव्याद्यधिष्ठानाभावेन कर्तृत्वायोगेन कारकजातस्यैव साक्षात्प्रयत्नाधिष्ठेयतया देहादिविनाशित्वस्य दु:खादिभोगस्य चापत्तेश्ऱ्च । विष्णोश्ऱ्च श्रुतिनयोक्तदिशा नित्यसर्वविषयविचित्रशक्त्युपेतत्वेन ज्ञानानन्दादिमयदेहत्वेन च सर्वश्रुतीनां विष्णौ समन्वयस्योक्ततया शिवकर्तृत्वे मानाभावाच्च तन्मतस्य दुष्यत्वाद्युक्तं विष्णो: कर्तृत्वमिति । एतेन तुल्यन्यायतया शक्तेयसौरस्कान्दगाणापत्यमतान्यपि प्रत्युक्तानि ।। 11 ।।
।। ॐ उत्पत्त्यसम्भवात् ।। 12 ।।
।। ॐ न च कतर्ु: करणम् ॐ ।। ॐ विज्ञानादिभावे वा तदप्रतिषेध: ॐ ।। ॐ विप्रतिषेधाच्च ॐ ।।
प्राङ्निराकृतमपि शक्तिमतं विशेषदोषेण अत्र पुनर्निरस्यत इति सङ्गति: । विष्णोरुक्तं विश्ऱ्वकर्तृत्वं युक्तं न वेति सन्देह: । न युक्तमिति प्राप्तम् । श्रुत्यादौ सार्वज्ञगुणशालिन्या: शक्तेरेव विश्ऱ्वकर्तृत्वश्रवणात् इत्येवंरूपशक्तिमतेन विरोधादिति । सिद्धान्तस्तु । पुरुषाननुगृहीतस्त्रीमात्रादपत्योत्पत्तेरयोगेन केवलाया: शक्ते: ब्रह्मादिविश्ऱ्वहेतुत्वायोगात् शिवानुगृहीता सा जगज्जनयित्रीति मध्यमवाममतेऽपि तस्योत्पत्त्युपयोगिज्ञानादिसाधनाभावेन अनुग्राहकत्वायोगात् ज्ञानादिकं तस्योपेयत इति अणुवाममतस्यापि तादृशशिवेनैव विश्ऱ्वोत्पत्तौ शक्त्युपगमस्य वैयर्थ्येन मतत्रयस्यापि श्रुत्यादिना विप्रतिषिद्धत्वाच्च अयुक्तत्वाद्युक्तं विष्णो: कर्तृत्वमिति ।। 12 ।।
।। इति श्रीराघवेन्द्रयतिकृतायां न्यायमुक्तावल्यां द्वितीयाध्यायस्य द्वितीय: पाद: ।। N.M-5
।। अथ तृतीय: पाद: ।।
।। ॐ न वियदश्रुते: ॐ ।। 1 ।।
।। ॐ अस्ति तु ॐ ।। ॐ गौण्यसम्भवात् ॐ ।। ॐ शब्दाच्च ॐ ।। ॐ स्याच्चैकस्य ब्रह्मशब्दवत् ॐ ।। ॐ प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्य: ॐ ।। ॐ यावद्विकारन्तु विभागो लोकवत् ॐ ।।
अधिभूताधिदैवपरमात्मजीवविचारेषु आदौ सूचीकटाहन्यायेन अधिभूताधिदैवविचार: क्रियते । अत्र वियत्पदेन भूताकाशतदभिमानिनौ चोच्यन्ते । आकाश: उत्पत्तिमान्नवेति सन्देह: । नोत्पत्तिमानिति प्राप्तम् । वियदनुत्पत्त्यनुभवेन वियत् अनुत्पत्तिमत् विभुत्वात्सम्मतवदिति युक्त्या चानुगृहीतया बहुत्वेन च प्रबलया "अनादिर्वायमाकाश:' इत्याद्यनादित्वश्रुत्या
तत्सिद्धे: । एतद्विरोधाया: "आकाशस्सम्भूत:' इति तदुत्पत्तिश्रुतेरमानत्वेन अनुत्पत्तिश्रुते: भाक्तत्ववर्णनस्याप्ययोगात् । "न जायते म्रियते' इत्यादौ अनुत्पत्तिवाचिशब्दस्य मुख्यार्थत्वादृष्यया कारणेन विना द्वैरूप्यायोगेन इहापि मुख्यार्थस्य न्याय्यत्वादिति । सिद्धान्तस्तु । वियदुत्पत्तिमत् "आत्मन: आकाशस्सम्भूत:' (तै.2-1) इत्याद्युत्पत्तिश्रुतेर्बाहुल्यात् । नच श्रुत्यन्तरविरोध: । वियच्छब्दितानां भूताकाशतदभिमानिनां पराधीनविशेषणावाप्तिरूपोत्पत्तिसम्भवेन तदुत्पत्तिश्रुतीनां तत्सर्वविषयतया बहुविषयत्वेन वियदुत्पत्तिमत् अल्पशक्तित्वात् घटवदित्यनुमानसध्रीचीनत्वेन प्राबल्यात् । तदन्यथानुपपत्त्या अनादित्वश्रुते: बाहुल्येऽपि भूते कथमप्ययोगेन अल्पविषयतया दौर्बल्येन भाक्तत्वस्य न्याय्यत्वात् "प्राण: श्रद्धा आकाश: इति भागशो ह्युत्पद्यन्ते' इति (भाल्लवेय)श्रुतिसिद्धत्वाच्च एकस्यानुत्पत्तिच्छब्दस्य विरिञ्चब्रह्मणो: ब्रह्मशब्दतस्येव "स इदं सर्वमसृजत' इति प्रतिज्ञाविरोधेन च "आत्मा वा इदमेक एव अग्र आसीत्' इत्यादिप्रागुक्तोत्पत्तिश्रुतिबाहुल्यविरोधेन कारणेन आकाशब्रह्मणो: मुख्यामुख्यत्वस्य युक्तत्वात् इति । एवं प्रकृतिजीवचैतन्यकालवेदमहदहंमनोबुद्धयादीनामपि पराधीनविशेवाप्तिरूपा जनिरुक्ता ध्येया । फले तु कृत्स्नजगत्कर्तृत्वाक्षेपसमाधी ।। 1 ।।
।। ॐ एतेन मातरिश्ऱ्वा व्याख्यात: ॐ ।। 2 ।।
अत्राकाशाद्वायुरित्यादि श्रौतक्रमाद्वा पूर्वोक्तन्यायातिदेशाद्वा सङ्गति: । वायुशब्देन भूतमुख्यामुख्याभिमानिनां ग्रहणेऽपि मुख्य एव विवादहेतुसत्त्वात् तन्मात्र एवात्र विचार: । वायुरत्र प्रकरणेऽभिमतपराधीनविशेषावाप्तिरूपोत्पत्तिमान्नवेति सन्देह: । नोत्पत्तिमानिति प्राप्तम् । "तेजोऽबन्नान्याकाश इति तान्यनित्यानि वायुर्वाव नित्यष:' इति श्रुते: । नचाकाशानुत्पत्तिश्रुतेरिवास्या: अपि गौणार्थत्वात् न पुनश्ऱ्चोद्यावकाश: । आकाशवद्वायोरपि जन्मवत्वे तेजोऽबन्नाकाशानामनुत्पत्तिपूर्वकं वायोनिर्त्यत्वोक्तेरयोगात् । न चाकाशादिपदै: भूतानामनुत्पत्तिपूर्वकं वायोर्नित्यत्वोक्तेरयोगात् । नचाकाशादिपदै: भूतानामेवोक्ते: ततो मुख्यवायो: स्वरूपनित्यत्वात् विशिष्य नित्यत्वोक्तिरिति वाच्यम् । भूतमात्रग्रहणे हेतोरभावात् । "तेजोऽबन्नान्याकाश इति तान्यचेतनानि वायुर्वाव चेतन:' इति श्रुतौ विशिष्य चेतनत्वोक्त्या सर्वजीवसाधारणस्वरूपनित्यत्वायोगाच्च । "कुविदङ्ग' (ऋ.7-91-1) इति मन्त्रोक्तसर्वदेवोपास्यत्वाच्च । "नोदयो न निम्लोच:' इति श्रुत्या वायोरुदयास्तमयशून्यत्वाच्च । वायुर्न जनिमान् परमनित्यत्वात् परमचेतनत्वादीशवदित्यादि युक्तेश्ऱ्च । एवं नित्यत्वव्याप्यानेकहेतुमतोऽपि जनिमत्वे अनुभवविरोधादिति । सिद्धान्तस्तु । वायुर्देहसम्बन्धाख्यपराधीनविशेषावाप्तिरूपजनिमान् प्राणाद्वायुरित्याद्युत्पत्तिश्रुते: । अल्पशक्तित्वयुक्तेश्ऱ्च । तादृशजन्यभावश्रवणाच्च । ईशवदस्यापि तादृशजनिमत्वाभावे तयोर्विरुद्धस्वातन्त्ऱ्ापाताच्च । न चोक्तश्रुत्यादिविरोध: । स्वरूपातिरिक्तज्ञाने नित्यत्वाभिप्रायेण तस्य सर्वस्योपपत्तेरिति । फले तु प्राग्वत् ।। 2 ।।
।। ॐ असम्भवस्तु सतोऽनुपपत्ते: ॐ ।।
अत्रासम्भवजन्मनो नभ:प्रभृतेर्जनिरिव ईशस्यापि जनिरस्त्विति शङ्कनात्सङ्गति: । सर्वकतर्ृत्वेनोक्तो विष्णु: किं जनिमान्नवेति सन्देह: । जनिमानेवेति प्राप्तम् । "असत: सदजायते' (ऋ.10-72-2) इति सच्छब्दितेशस्य जन्मश्रुते: । नच "न जायते म्रियते' (का.1-2-18) इत्याद्यनादित्वश्रुतिविरोध इति । अस्या: स्वरूपानादित्वपरत्वेन जनिश्रुतेश्ऱ्च पराधीनविशेषावाप्तिपरत्वेन व्यवस्थोपपत्ते: । अन्यथा प्रागुक्तचित्प्रकृत्यादावपि समानत्वात् देहानादित्वाविशेषादिति । सिद्धान्तस्तु । देहानादित्वादिना चित्प्रकृतिसमस्यापि ईशस्य स्वतन्त्रत्वादसत: कारणत्वानुपपत्तेश्ऱ्च सदजायतेति श्रुते: "ब्रह्म वा असत् सद्वाव प्राण:' इति श्रुत्या वायोरीशजन्यत्वपरत्वात् न पराधीनविशेषावाप्तिरूपोत्पत्तिमान् विष्णुरिति । फले तु कृत्स्नजगत्कर्तृत्वाक्षेपसमाधी ।। 3 ।।
।। ॐ तेजोऽतस्तथाह्याह ॐ ।। 4 ।।
एवमीशानीशयोरजन्मजन्मसिद्धौ कारणत्वेन चेत्युक्तन्यायेन तेज:प्रभृतेरीशजन्यत्वे च सिद्धे अन्यत्रान्यस्मादपि जन्मास्य
नेत्युच्यत इति सङ्गति: । तेजोदेवता भूतं चकिं ईशादिव वायुदेवतातो जायते उतेशादेवेति सन्देह: । वायोरग्निरिति श्रुतेर्वायोरेवेति प्राप्तम् । सा वायोर्द्वारमात्रपरेति वाच्यम् । तेन विनापि स्रष्युं शक्तौ ईशस्य द्वारवैयर्थ्यात् । अशक्तौ तु स्वातन्त्ऱ्ेण वायुजत्वस्यापि प्राप्ते: । तत्तेजोऽसृजतेति श्रुते: ईशवायूभयजत्वेऽपि उपपत्ते: ईशमात्रपरत्वे चोक्तश्रुतिविरोधेनाप्रामाण्यादिति । सिद्धान्तस्तु । ईशादेव स्वातन्त्ऱ्ेण जनिमत्तेज: तत्तेजोऽसृजतेति श्रुते: । अन्यदनपेक्ष्य स्रष्युं शक्तस्यापि ईशस्य लीलया वायुशब्दितभूततद्देवताद्वारा तेजोभूततद्देवतासृष्ययुपपत्त्या वायोरग्निरिति श्रुते: द्वरमात्रपरत्वे बाधकाभावेन तद्विरोधाभावाच्चेति । कारणत्वनये वायुशब्दस्येशे मुख्यत्वेन तेजोभूततद्देवतयोस्तज्जत्वसिद्धावपि तद्वद्वायुतद्देवतातोऽपि तयोर्जन्मेति शङ्का निरस्यत इति भेद: । तदनन्यनये साधनान्तरस्यास्वातन्त्ऱ्यं युक्तिप्राप्तं निरस्तम् । इह तु श्रुतिप्राप्तमिति ध्येयम् । फले तु प्राग्वत् ।। 4 ।।
।। ॐ आप: ॐ ।। 5 ।।
अत्र तेजसोऽनन्तरप्राप्तायां जनकविशेषश्ऱ्चिन्त्यत इति सङ्गति: । अब्देवताभूतं च किं तेजोभूततद्देवतातोऽपि ईशादिवत्स्वातन्त्ऱ्ेणोत्पद्यते अथेशादेवेति सङ्गति: । अग्नेराप इति श्रुते: तेजोभूततद्देवतातोऽपीति प्राप्तम् । नच "ब्रह्मैवेदमग्र आसीत्तदपोऽसृजत' इति श्रुतिविरोध: । स्वेदस्य धर्मजतवदृष्यया आपस्तेजोजन्या: अप्त्वात् स्वेदादिवदिति युक्त्या तेजस एव "तद्धयापोऽजायन्त' इति श्रुत्या च सध्रीचीनत्वेन बलवत्या प्राचीनश्रुत्या बाधितत्वेन अस्या: अमानत्वादिति । सिद्धान्तस्तु । तदपोऽसृजतेति श्रुते: तेजोभूततद्देवतानामपीशादेव जन्म । अग्नेराप: श्रुतिस्तु "स इदं सर्वमसृजत' "कर्ता सर्वस्य वै विष्णु:' इत्यादिश्रुतिस्मृतिगतसर्वशब्दमुख्यार्थत्वात् अन्यस्य स्वत: शक्त्यभावाच्च प्रागुक्तदिशा तत्र स्थितत्वात्तेनाबादिकं जनयतीति द्वारमात्रपरेति ।। 5 ।।
।। ॐ पृथिव्यधिकाररूपशब्दान्तरादिभ्य: ॐ ।। 6 ।।
एवमुक्तन्यायेनापि द्वारत्वे सिद्धे कुत्रद्वारतेति विशेषोऽत्र चिन्त्यत इति सङ्गति: । आप: किं ईशस्यान्नसृष्यौ द्वारमुत पृथिवी सृष्याविति सन्देह: । "आप: ऐक्षन्त' "ता अन्नमसृजन्त' (छां.6-2-4) "अद्भय: पृथिवी' (तै.2-1) इति श्रुतिद्वयस्य परस्परविरुद्धार्थस्य निरवकाशतया निर्णयायागेनामानतया न कस्यापि द्वारमिति प्राप्तम् । अन्नश्रुते: "अद्भयो वा अन्नमुत्पद्यते' "ता अन्नमसृजन्त' (छां.6-2-4) इत्यादिबहुवाक्यानां प्रसिद्धार्थपरत्वरूपगुणलाभेन "यत्र क्व च वर्षति तदेवे भूयिष्ठमन्न भवति (छां.6-2-4) इति वर्षजत्वरूपलिङ्गद्वारानुरोधेन प्रसिद्धान्नपरतया पृथिवीपरत्वायोगात् । ओषधीभ्योन्नमिति श्रुतिविरोधापत्त्या पृथुपदेनान्यस्य ग्रहणायोगाच्च । उक्तश्रुतिविरोधादेव अपामुभयत्र द्वारत्वमित्यस्यायोगात् । बहुकल्पनापत्त्या च अन्नस्योभाभ्यां जन्मेत्यस्याप्ययोगात् मुख्यार्थत्यागापातेन अद्भय: परम्परया अन्नजन्मेत्यस्याप्ययोगाच्च अमानं श्रुतिद्वयमिति । सिद्धान्तस्तु । अपौरुषेयत्वेन निर्दोषतया श्रुत्योरप्रामाण्यायोगेन अवश्यमर्थान्तरस्य वाच्यत्वात् । ता अन्नमसृजन्तेति श्रुते: पूर्वत्र "तत्तेजोऽसृजत' इति "तदपोऽसृजत' इत्युत्तरत्र च "तासां त्रिवृतं त्रिवृतम्' इति श्रवणेन अस्य भूतप्रकरणत्वात् । "यत्कृष्णं तदन्नस्येति कृष्णरूपश्रवणात् । तस्य च "कृष्णैव पृथिवी स्वत:' इति (व्योमसंहिता) स्मृत्या पृथिवीलिङ्गात् । लिङ्गप्रकरणाभ्यां "आपश्ऱ्च पृथिवी चान्नम्' (ऐ.2-3-1) इति श्रौतप्रयोगेण च अन्नशब्दस्य पृथिवीपरत्वात् । "यत्र क्व च वर्षति' (छां.8-2-4) इत्यादिवाक्यद्वयस्थान्नशब्दस्य पृथिवीवाचकस्याप्यन्यथानुपपत्त्या लक्षणया "तेजोशितम्' (छां.8-5-3) इत्यादौ तैजसपरत्ववत् पार्थिवपरत्वोपपत्त्या लिङ्गविरोधाभावात् । अपां पृथिवीजन्मन्येव द्वारत्वमिति । फले तु वस्त्वन्तरद्वारा साक्षात्सर्वकारणत्वस्याक्षेपसमाधी ।। 6 ।।
।। ॐ तदभिध्यानादेव तु तल्लिङ्गात्स: ॐ ।। 7 ।।
एवमधिभूताधिदैवजन्मश्रुत्यविरोधमुक्त्वा तल्लयश्रुत्यविरोधमत्र वक्तीति सङ्गति: । प्रस्तुतवियदाद्यधिभूताधिदैवानि जनिमत्वेन लीयन्त इति सिद्धौ तल्लयकर्ता किं रुद्रो विष्णुर्वेति सन्देह: । रुद्र एवेति प्राप्तं संहर्तृत्वेनैतस्यैव सुप्रसिद्धे: । "रुद्रो मा
विशान्तक:' (महाना.उ) इति श्रुतौ अन्तकपदेन तस्य संहर्तृत्वोक्तेश्ऱ्च । "यत्प्रयन्त्यभिसंविशन्ति' (तै.3-1) "यमप्येति भुवनं साम्पराये' इत्यादिविष्णुसंहतर्ृत्वश्रुतिस्तु विष्णु: न मारक: जनकत्वात् रक्षकत्वात् पित्रादिवदित्यादियुक्तिसहायरुद्रसंहर्तृत्वश्रुतिविरोधात् अप्रामाण्यात् । अत एव रुद्रसंहारद्वारत्वमपि अयुक्तमिति । सिद्धान्तस्तु । विष्णुरेव सर्वलयकर्ता "तस्याभिध्यानात्' (श्ऱ्वे.1-10) इति श्रुतावनादिनो विष्ण्वधीनत्वोक्त्या सादिविश्ऱ्वलय: तदधीन इति कैमुत्यसिद्धत्वात् । "यमप्येति भुवनं साम्पराये स नो हरि:' "य इदं सर्वं विलापयति' "स्रष्यापाता च संहर्ता स एको हरि:' इत्यादि श्रुतिस्मृतिषु विष्णुसंहर्तृत्वस्य स्पष्यं प्रतीतेश्ऱ्च । रुद्रसंहर्तृत्वश्रुति: "निमित्तमात्रमीशस्य' (भाग.10-79-1) इत्यादिस्मृत्या कतिपयसंहारे रुद्रस्य द्वारत्वपरा । युक्तिस्तु पित्रादेरमारकत्वस्य ममतादोषप्रयुक्ततया पितृत्वादिप्रयुक्तत्वाभावेन निर्दोषलोकविलक्षणे हरौ तदनापादिकैवेत्यप्रयोजिकेति । फलं तु जन्मादिसूत्रोक्तसंहर्तृत्वाक्षेपसमाधी ।। 7 ।।
।। ॐ विपर्ययेण तु क्रमोऽत्र उपपद्यते च ॐ ।। 8 ।।
सर्वस्येशे लयसिद्धौ केन क्रमेणेत्यत्र चिन्तनात्सङ्गति: । प्रकृताधिभूतानि किं जन्मक्रमानुरोधेन लीयन्ते व्युत्क्रमेण वेति सन्देह: । जन्मक्रमानुसारेणैवेति पूर्व: पक्ष: । "क्रमादुत्पद्यते क्रमाद्विलीयते' "क्रमेरोत्पत्तिर्विलयश्ऱ्च' "क्रमेणैवास्योत्पत्तिलयौ' इत्यादिक्रमलयश्रुतिबाहुल्यात् । व्युत्क्रमाद्विलयश्ऱ्चेति श्रुतिस्तु लोके प्रायेणोत्पत्तिक्रमेण लयदर्शनयुक्त्यनुगृहीतेन च प्रबलया क्रमलयश्रुत्या बाधितत्वादिति । सिद्धान्तस्तु । व्युत्क्रमेणैव लीयन्ते "व्युत्क्रमाद्विलयश्ऱ्च' (भाल्लवेय) इति निरवकाशलयश्रुते: । क्रमलयश्रुतीनां तु "द्विविध: क्रम उद्दिष्यो व्युत्क्रमोऽनुक्रमस्तथा । सृष्यावन्यो लये चान्य:' इत्यादि श्रुत्या व्युत्क्रमस्यापि क्रमत्वेन सावकाशत्वेन लोके पूर्वोत्पन्नानां पूर्वनाशस्य असामर्थ्यनिमित्तत्वादिह च "पूर्वे पूर्वे यतो विष्णोरित्यादि(वामन)स्मृत्या पूर्वोत्पन्नानां सामर्थ्याधिक्येन पश्ऱ्चादपि लयोपपत्त्या प्रागुक्तयुक्तेरप्रयोजकत्वात् व्युत्क्रमश्रुत्यबाधादिति । फलं तु लयश्रुत्या विरोधेनान्यतराप्रामाण्ये अन्यत्राप्यानाश्ऱ्वासापातेन विष्णोस्संहर्तृत्वाद्यसिद्धे: तदाक्षेपसमाधी ।। 8 ।।
।। ॐ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॐ ।। 9 ।।
।। ॐ चराचरव्यपाश्रयस्तु स्यात्तद्वयपदेशो भाक्तस्तद्भावभावित्वात् ॐ ।।
पूर्वोक्तव्युत्क्रमेण लय इत्यस्य क्वचिदपवादशङ्कानिरासात्सङ्गति: । प्रस्तुताधिभूतानि सर्वाणि व्युत्क्रमेण लीयन्ते किं कानिचित् क्रमेणेति सन्देह: । पूवर्पक्षस्तु । "मनसश्ऱ्च विज्ञानम्' इति क्रमादुत्पन्नत्वेन श्रुतमनोविज्ञानतत्त्वयो: "यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेत् ज्ञान आत्मनि' (का.उ.3-13) इति क्रमेणैव लयश्रुते: मनोविज्ञानतत्त्वे विना अन्यानि व्युत्क्रमेण लीयन्ते इति न च मनसश्ऱ्च विज्ञानमित्यत्र मनोविज्ञानशब्दौ न तत्त्वपरौ किन्तु अन्त:करणावबोधपराविति युक्तम् । तयोश्शब्दयोर्मनोविज्ञानतत्त्वयोरेव मुख्यत्वेन निर्निमिवं मुख्यार्थत्यागायोगात् । व्युत्क्रमाद्विलयश्ऱ्चेति सर्वस्य व्युत्क्रमलयश्रुतिस्तु लोके केषाञ्चित्क्रमात् केषाञ्चिद्वयुत्क्रमात् लयदर्शनेन लोकानुसारित्वयुक्त्युपेतया मनोविज्ञानयो: क्रमलयश्रुत्या बाधितेति । सिद्धान्तस्तु । मनस्तत्त्वान्तरिन्द्रिययो: विज्ञानतत्त्वावबोधयो: क्रमेण मनोविज्ञानशब्दयो: प्रयोगदृष्यया तत्त्वमात्रवाचित्वाभावेनेन्द्रियादावपि मुख्यत्वात् । मनसश्ऱ्च विज्ञानमित्यत्र "विज्ञानतत्त्वं महत: समुत्पन्नं चतुर्मुखाद्' इति स्मृतिविरोधात् । तत्त्वविषयत्वायोगेन अन्तरिन्द्रियतज्जन्यावबोधपरतया मनोविज्ञानतत्त्वयो: यथोत्पत्तिलय इत्यत्र विशेषप्रमाणाभावात् "सर्वं वैतत्क्रमादुत्पद्यते व्युत्क्रमाद्विलीयते' इति सर्वव्युत्क्रमलयश्रुतेश्ऱ्च सर्वाणि व्युत्क्रमेणैव लीयन्त इति । फले तु श्रुत्योर्विरोधेनाप्रामाण्ये तत्समन्वयेन प्रागुक्तस्रष्यृत्वसंहर्तृत्वाक्षेपसमाधी ।। 9 ।।
।। ॐ नात्माऽश्रुते: नित्यत्वाच्च ताभ्य: ॐ ।। 10 ।।
एवं ब्रह्मान्यस्य सर्वस्य व्युत्क्रमेण लये श्रुत्योक्ते तर्हि ब्रह्मणोऽपि सोऽस्त्विति शङ्कनात्सङ्गति: । सर्वोत्पत्तिलयकर्तृत्वेन
प्रकृतो विष्णु: देहनाशाख्यलयवान्नवेति सन्देह: । "स इदं सर्वं विलाप्यान्तस्तमसि लीयते' इति सोऽपि लीयत इति प्राप्तम् । नित्योनित्यानामिति श्रुतिस्तु विष्णुर्लयवान् चेतनत्वात् जीववदिति युक्त्युपेतपूर्वश्रुत्या बाधिता । नच लयश्रुति: अपिहितत्वपरा कल्पकाभावात् । "असम्भवस्तु' (ब्र.सू.2-2-9) इत्यत्र ईशस्य स्वातन्त्ऱ्ेण हेतुना अनुत्पत्त्युक्तावपि लीलया देहोपादानयोगोपपत्तेरिति । सिद्धान्तस्तु । विष्णु: न देहनाशाख्यलयवान् मानाभावात् । मनसि लीयते इति श्रुतेस्तु "तुच्छेनाभ्वपिहितं यदासीद्' (ऋ.10-120-3) इति श्रुतौ पूर्वत्र नासदासीदिति सर्वस्य लयमुक्त्वा तम आसीदिति प्रकृते: स्थितिमुक्त्वा ब्रह्मणस्त्वपिहितत्वस्य पुन: प्रादुर्भावस्य चोक्त्या "तमसि निलीन: प्रकृतिं पुरुषं कालं चानुपश्यति नैनं पश्यति कश्ऱ्चन' इति पैङ्गिश्रुत्यन्तरेण च अपिहितत्वार्थत्वात् अन्यथा "नित्यो नित्यानाम्' "स नित्यो निर्गुण: विभु:' इत्यादिबहुनित्यत्वश्रुतिविरोधात् । युक्तेश्ऱ्च श्रुतिविरोधेनामानत्वात् । फले तु ब्रह्मणो लये सृष्ययाद्ययोगेन तदाक्षेपसमाधी ।। 10 ।।
।। ॐ ज्ञोऽत एव ॐ ।। 11 ।।
।। ॐ युक्तेश्ऱ्च ॐ ।।
एवं सूचीकटाहन्यायेन अल्पमधिभूतादिविचारं कृत्वा इदानीं आपादसमाप्ति बहु: जीवविचार: क्रियत इति सङ्गति: । जीव: किमुत्पत्तिमान् उत नेति सन्देह: । नोत्पत्तिमानिति प्राप्तम् । नित्यो नित्यानामिति षष्ठयन्तनित्यपदेन जीवानां नित्यत्वोक्ते: "सर्व एते चिदात्मनो व्युच्चरन्ति' इति तदुत्पत्तिश्रुतेस्तु जीवस्वरूपोत्पत्तिकारणानुपलब्ध्या कारणशून्यत्वादिति युक्त्युपेतया जीवनित्यत्वश्रुत्या बाधात् । नच स्वरूपोत्पत्तिकारणशून्यानामपि वियदादीनां पराधीनविशेषावाप्तिरूपजनिवत् जीवस्यापि सा सिद्धेति वाच्यम् । जन्मश्रुते: तादृशोत्पत्तिपरत्वे अनुत्पत्तिश्रुतेरपि ब्रह्मणीव जीववियदादावपि तदभावपरत्वोपपत्ते: अनेकार्थत्वस्यान्याय्यत्वात् । एवं च तद्विरोधतादवस्थ्यमिति प्रागुक्तस्यैवात्राक्षेपादिति । सिद्धान्तस्तु । "ते वा एते चिदात्मनोऽविनष्या: परंज्योतिर्निविशन्त्यविनष्या एवोत्पद्यन्ते' (काषायणश्रुति:) इत्यविनाशेनैव जीवस्य स्वरूपेणानुत्पत्तावपि तदुपाध्युत्पत्त्या पराधीनविशेषावाप्तिरूपोत्पत्तिपरतया तदुत्पत्त्यनुत्पत्तिश्रुत्यो: उपाधिस्वरूपपरतया विषयत्वेनाविरोधात् । ब्रह्मणि पराधीनविशेषावाप्तिरूपोत्पत्तिश्रुतेरभावेन तत्रानुत्पत्तिश्रुतेस्तदभावपरत्वेऽपि जीवादौ तच्छतिसत्त्वेन तदनुत्पत्तिश्रुतेस्तभावपरत्वायोगेन अनेकार्थत्वस्य न्याय्यत्वाच्च देहसम्बन्धाख्यतादृशोत्पत्तिमान् जीव इति । फले तु सर्वस्रष्यृत्वाक्षेपसमाधी ।। 11 ।।
।। ॐ उत्क्रान्तिगत्यागतीनाम् ॐ ।। 12 ।।
।। ॐ स्वात्मना चोत्तरयो: ॐ ।। ॐ नाणुरतच्छतेरिति चेन्नेतराधिकारात् ॐ ।। ॐ स्वशब्दोत्मानाभ्यां च ॐ ।। ॐ अविरोधश्ऱ्चन्दनवत् ॐ ।। ॐ अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॐ ।। ॐ गुणाद्वा लोकवत् ॐ ।।
जीवे धर्मिणि उत्पत्यनुत्पत्ती चिन्तिते । अत्र तद्धर्मे परिमाणेऽणुत्वमहत्वे चिन्त्येते इति सङ्गति: । प्रकृतो जीव: किं व्याप्तोऽणुर्वेति सन्देह: । व्याप्त इति प्राप्तम् । "व्याप्त्या ह्यात्मनश्ऱ्चेतना निर्गुणाश्ऱ्च' (काषायणश्रुति:) इति बहुवचनान्तात्मव्याप्तत्वश्रुते: बहुत्वं भिन्नाश्रितमित्युत्सर्गन्यायापवादकस्य "ऋतं पिबन्तौ' इत्यादाविवेहाभावेन जीवपरत्वात् । "अणुर्ह्येष आत्मा' इति जीवाणुत्वश्रुतेस्तु अणुत्वे सर्वदेहसम्बन्धस्पर्शादिज्ञानायोगेन तद्देहपरिमाणत्वेन स्पर्शादिपरिज्ञानमित्यस्य च "नैकस्मिन्नसम्भवात्' (ब्र.सू.2-2-33) इति नयोक्तदोषदुष्यतया अयोगेन सर्वदेहसम्बन्धस्पर्शादिज्ञानरूपयुक्त्युपेतत्वेन प्रबलश्रुतविरुद्धाया: अप्रामाण्योपपत्ते: । नचांशव्याप्त्या स्पर्शादिज्ञानं युक्तमिति युक्तिरप्रयोजिकेति वाच्यम् । अंशानां चेतनत्वेन युगपदनेकेषां ऐकमत्यायोगेन विरुद्धक्रियस्य देहस्योन्मथनप्रसङ्गात् । अक्रियत्वस्य वापत्ते: । स्वरूपव्याप्तेरेव व्याप्तित्वादिति । सिद्धान्तस्तु । "सोऽस्माच्छरीरादुत्क्रम्य अमुं लोकमधिगच्छत्यमुष्मादिमं लोकमागच्छति' इति श्रुतोत्क्रान्तिगतिमत्वात् पतत्रिवदणुर्जीव: । तासां व्याप्तेर्गगनादावदृष्ययां
ताभिर्व्याप्तत्वायोगेन अनित्यत्वाद्यापत्त्या निरस्तमध्यमपरिमाणे अणुत्वस्यैव सिद्धे: । "अणुर्ह्येष आत्मा' (गौपवन) इति श्रुतेश्ऱ्च । "व्याप्ताह्यात्मान:' (काषायण) इति श्रुतेस्तु स आत्मेदं सृजतीति विष्णुप्रकरणेन एषो ह्यात्माऽध्युद्गतो मानशक्तेरिति वाक्यशेषे श्रुतात्मश्रुत्युन्मानत्वलिङ्गाभ्यां गुहानयन्यायेन बहुवचनस्य न्याय्यत्वाद्विष्णुपरा । देहैकदेशस्थचन्दनबिन्दो: स्वांशै: सर्वदेहव्याप्तिवज्जीवस्यापि हृदि ह्येष आत्मेति श्रुत्या हृद्देशे सम्यक् स्थितस्य स्वरूपांशै: सर्वदेहव्याप्त्या स्पर्शादिज्ञानसम्भवेन युकितरप्रयोजिकेति । फले तु श्रुतिसमन्वयाक्षेपसमाधी ।। 12 ।।
।। ॐ व्यतिरेको गन्धवत्तथा च दर्शयति ॐ ।। 13 ।।
अत्र यदि जीवेऽणु:, तर्हि योगिनो बहुरूपत्वायोग इति पूर्वाक्षेपसङ्गति: । जीव: किं एकरूपोऽथवानेकरूप इति सन्देह: । एकरूप इति प्राप्तम् । स एकधा न सप्तधा इति श्रुते: । विभावात्मनि योगप्रभावाद्देहबाहुल्येन बहुरूपसम्भवेऽपि अणौ तदयोगादिति युक्तेश्ऱ्च । अणोरपि अंशैर्बहुरूपमित्यस्यापि "स नित्यो निरवयव:' (गौपवन) इति निरवयवत्वश्रुतिव्याकोपेनायोगात् । योगिनोऽघटितघटकशक्त्या अब्धिपानमिव बाहुरूप्यं स्यादिति तु ईश्ऱ्वरसाम्यापत्तेनायुक्तम् । स पञ्चधा स सप्तधेति बाहुरूप्यश्रुतिस्तु सयुक्तिकैकरूप्यश्रुतिबाधितेति । सिद्धान्तस्तु । अणोभिर्न्नांशहीनस्यापि जीवस्य योगाराधिताचिन्त्यशक्तिकेश्ऱ्वरप्रसादायत्तसामर्थ्याद्गन्धवदंशविभागेन बाहुरूप्यस्योपपत्ते: बहुरूपो जीव: । ऐकरूप्यश्रुतिस्तु स्वरूपैक्यपरा । निरवयवत्वश्रुतिरपि भिन्नांशराहित्यपरेति । फले तु प्राग्वत् ।। 13 ।।
।। ॐ पृथगुपदेशात् ॐ ।। 14 ।।
।। ॐ तद्गुणसारत्वात्तु तद्वयपदे: प्राज्ञवत् ॐ ।।
जीवेशयोरैक्यान्न जीवशक्तेरीशायत्तत्वमिति शङ्कनात्सङ्गति: । जीव: किं ईशेन भिन्नोऽभिन्नो वेति सन्देह: । अभिन्न इति प्राप्तं तत्त्वमसीत्यादौ पदद्वयलक्षणया जीवपरैक्यश्रुते: । अस्याश्ऱ्च एकमेवाद्वितीयमित्युपक्रमात् तत्त्वमसीत्युपसंहारात् । तत्त्वमसि तत्त्वमसीति नवकृत्वोऽभ्यासात् । ऐकस्यस्य मानान्तराप्राप्त्या अपूर्वत्वात् । तस्य तावदेव चिरमिति फलवत्त्वात् । येनाश्रुतं श्रुतं भवतीत्यर्थवादात् मृण्मयादिदृष्यान्तेनोपपादनाच्च । ष ्िवधतात्पर्यलिङ्गोपेतत्वेन बाहुल्यात् । द्वासुपर्णेत्यादि श्रुतिरप्रमाणम् । अन्यथैक्यश्रुतेर्निर्विषयत्वापात इति । सिद्धान्तस्तु । "भिन्नोऽचिन्त्य: परमोजीवसङ्घात्पूर्ण: पर: जीवसङ्घो ह्यपूणर्:' (कौशिक) इति भेदश्रुति: कदाप्यैकाधिकरण्या योग्यधमर्कत्वरूपविरुद्धधर्माधिकरणत्वादियुक्त्युपेतत्वेन "शास्त्रगम्यपरेशानाद्भेद: स्वात्मन ईयते । अनुभूतिविरोधेन कथमेकत्वमुच्यते' इत्यनुव्याख्यानोक्तदिशा उपजीव्यत्वेन प्राबल्यात् । तद्विरोधेनानुभवविरोधेन च पादद्वयलक्षणत: तत्पदमात्रगौणार्थस्य ज्यायस्त्वेन च तत्त्वमसीत्यादे: तदीयज्ञानानन्दादिसदृशगुणतया तत्सदृशस्त्वमसीत्यर्थकत्वोपपत्ते: ऐक्यपरत्वायोगात् । उपक्रमादे: मानान्तराविरुद्ध एव तात्पर्यगमकत्वात् । अन्यत्र अन्यथा व्याख्यातत्वाच्च भिन्न एव ईशाज्जीव इति ।। 14 ।।
।। ॐ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॐ ।। 15 ।।
"बन्धान्मोक्षं तत एवाभिवाञ्छेद्' इति पूर्वोक्तानादिबन्धानन्तरमोक्षाक्षेपेण शङ्कनात्सङ्गति: । जीव: किं नित्योऽनित्यो वेति सन्देह: । अनित्य इति प्राप्तम् । ब्रह्मन् लयमभ्युपैतीति श्रुते: । ज्ञोत एवेत्यत्रोपाधेर्जन्मोक्त्या प्रतिबिम्बस्य जन्मावश्यं भावात् । जनिमतश्ऱ्च विनाशित्वनियमादिति युक्तेश्ऱ्च । नच देहाख्येपाधेर्जनिमत्वेऽपि अन्य एव जीवोपाधिरनादिनित्य इत्यत्र कल्पकमस्तीति । जीवस्यानादिकर्मसम्बन्धानन्त्यप्राप्त्युक्त्या जीवानादित्वपरा "सोऽनादिना पुण्येन' इत्यादि श्रुति: स युक्तिकानित्यत्वश्रुतिविरोधादमानमिति । सिद्धान्तस्तु । "नित्य: परो नित्यो जीव: सुखदु:खेत्वनित्ये' इत्यादि श्रुतिस्मृत्यन्यथानुपपत्त्याऽनादिनित्योपाधेरवश्यं कल्प्यत्वाज्जीवोपाधिर्द्विधा प्रोक्त इत्यादिवचनाच्च स्वरूपोपाधेरनादिनित्यतया सर्वगतबिम्बेशोपाधिसन्निधेरपि तथात्वेनादिनित्यो जीव: । लयश्रुतिस्तु बाह्योपाधिपरेति ।। 15 ।।
।। ॐ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॐ ।। 16 ।।
।। ॐ नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा ॐ ।।
पूर्वत्र पृथगधिकरणाद्यसूत्रे बन्धान्मोक्षं तत एवाभिवाञ्छेदिति उपदेश उपपादित: । अत्र तु तदीयद्वितीयसूत्रोक्तं तद्गुणसारत्वमुपपाद्यत इति सङ्गति: । जीवो ज्ञानानन्दादिरूपो न वेति सन्देह: । न ज्ञानानन्दादिरूप इति प्राप्तम् । "स दु:खाद्विमुक्त आनन्दी भवति' इत्यादि श्रुते: । इदानीं ज्ञानानन्दादिरूपतानुपलब्धेश्ऱ्च । अहमिति जीवे भासमानेऽपि तत्स्वरूपस्यानन्दादे: प्रतिबन्धादनुपलब्धिरित्यस्यायोगेन ज्ञानाभावादन्यस्य भावरूपज्ञानस्य प्रतिबन्धकस्याभावाच्च । देहादेस्तु सुकाद्यनुभवरूपभोगायतनत्वेन तत्प्रतिबन्धकत्वायोगाच्च । आनन्दादिरूपत्वे मोक्षाय प्रयत्नवैयर्थ्याच्च । "विज्ञानमात्मा' (ष.उ.4-11) "स आनन्द:' इत्यादिश्रुतिस्त्वनुपलब्धियुक्त्युपेतानन्दादिश्रुत्या बाधिता न मानमिति । सिद्धान्तस्तु । "नित्यानन्दो नित्यज्ञानो नित्यबल: परमात्मा' "नित्यानन्दज्ञानबला देवा:' इत्यादि श्रुतिस्मृतिभि: जीवस्य ज्ञानादिरूपतोक्ते: । बाल्येऽनभिव्यक्तपुंस्त्वादे: पश्ऱ्चाद्वयक्त्या आनन्दीभवतीत्यादि भेदव्यपदेशस्य श्रुत्यादिषु सिद्धत्वात् सुखाद्यात्मकस्य आवरणानङ्गीकारे नित्यं तदुपलम्भापातेन अवश्याभ्युपेयावरणविशेषशक्त्या अनुपलब्धेश्ऱ्चोपपत्त्या सम्यग्व्यक्त्यर्थं प्रयत्नसम्भवाच्च ज्ञानादिरूपोऽयं जीव: इति श्रुतौ "एवं सुरा:' इत्यध्याहारादिष्यसिद्धि: ।। 16 ।।
।। ॐ कर्ता शास्त्रार्थवत्त्वात् ॐ ।। 17 ।।
।। ॐ विहारोपदेशात् ॐ ।। ॐ उपादानात् ॐ ।। ॐ व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्यय: ॐ ।। ॐ उपलब्धिवदनियम: ॐ ।। ॐ शक्तिविपर्ययात् ॐ ।। ॐ समाध्यभावाच्च ॐ ।। ॐ यथा च तक्षोभयथा ॐ ।।
अस्त्वानन्दादीनां सतामभिव्यक्ति: न तु कर्तृत्वस्य तस्य कदाप्यभावादिति शङ्कनात्सङ्गति: । जीव: किं कर्ता न वेति सन्देह: । न कर्तेति प्राप्तम् । नान्य: कर्तेति श्रुते: । सर्वशिस्यैव कर्तृत्वाङ्गीकारे लाघवाच्च । इतरव्यपदेशादित्यादौ हिताकरणादीत्युक्त्या जीवकर्तृत्वस्य निषेधाच्च । नच श्रुतिसूत्रयो: स्वतन्त्रकर्तृत्वनिषेधेऽपि परतन्त्रं तदस्त्विति वाच्यम् । पारतन्त्ऱ्यस्य कर्तृत्वशक्ते: स्वाधीनत्वेऽपि तक्ष्ण: प्रासादकारयितृपुमधीनत्ववत् वेतनदानादिना ईशाधीनरूपत्वे आत्मानमन्तरोयमयतीति श्रुतिविरोधात् दारुयोषावदीशाधीनचेष्यकत्वे कर्तृत्वस्याकर्तृत्व एव पर्यवसानात् तद्वदेव विधिनिषेधायोग्य: स्यात् । एवं सयुक्तिकाकर्तृत्वश्रुतिविरोधात् "यत्कर्म कुरुते तदभिसम्पद्यते' इति जीवकर्तृत्वश्रुतिरमानमिति जडेशमुक्तानामप्रवृत्तस्य विधिनिषेधाख्यशास्त्रस्य अर्थवत्त्वान्यथानुपपत्तिरूपयुक्त्या मोक्षाद्यर्थसाधनानुष्ठानदर्शनात् प्रत्यक्षेण "आत्मानमेव लोकमुपासीत' इत्यादावुपासनादिक्रियायां जीवस्य कर्तृत्वश्रवणेन च कर्तृत्वसिद्धे: अपूर्णशक्तित्वापूर्णकामत्वहेतुभ्यां "कर्तृत्वं कारणत्वं च' इति श्रुत्या च तस्य पारतन्त्ऱ्यसिद्धया दारुयोषावदीशाधीनचेष्यकत्वरूपपरतन्त्रकर्तृत्वाङ्गीकारेण प्रागुक्तश्रुतिस्मृतिविरोधाभावात् अन्वयव्यतिरेकाभ्यां पराधीनकर्तृत्वशक्तिकत्वस्यैव विधिनिषेधयोग्यत्वे तन्त्रत्वकल्पनेन विधिनिषेधशास्त्रवैयर्थ्यात् कर्ता जीव इति ।। 17 ।। N.M-6
।। ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ ।। 18 ।।
।। ॐ मन्त्रवर्णात् ॐ ।। ॐ अपि स्मर्यते ॐ ।। ॐ प्रकाशादिवन्नैवं पर: ॐ ।। ॐ स्मरन्ति च ॐ ।। ॐ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॐ ।। ॐ असन्ततेश्ऱ्चाव्यतिकर: ॐ ।। ॐ आभास एव च ॐ ।।
परात्तु तच्छतेरिति पूर्वोक्तयोर्जीवेशयो: उपजीव्योपजीवकत्वरूपसम्बन्ध: अत्र प्रसाध्यत इति सङ्गति: । जीव: किं ईशस्यांशत्वेनानंशत्वेन वा निर्णेतुं शक्यो न वेति सन्देह: । न शक्य इति प्राप्तम् । तथाहि । न तावदंशत्वनिर्णय: शक्य: ।
"अंशा एव हीमे जीवा:' (गौपवन) इति अंशत्वं श्रुते: । अंशा एव हीत्युक्ते: न व्रीहियववद्विकल्पेऽपि विशेषप्रमाणाभावात् न षोडशिग्रहणाग्रहणवत् देशकालादिभेदेन च व्यवस्थितविकल्पोऽपि । अतो न मानं श्रुतिद्वयमिति । सिद्धान्तस्तु । जीव: पुत्रादि: पित्रादेरिवेशपोष्यत्वादिना तद्गर्भवासित्वेन तदन्तर्भूतत्वात्तदुपजीव्यत्वेन तत्सम्बन्धिरूपतया वा ततो न्यूनत्वे सति किञ्चित्तत्सदृशतया तदंश एव । "अंशो ह्येष परस्य' इति प्रकृत्य "नाना ह्येनं व्यपदिशन्ति पितेति पुत्रेति भ्राता' इति नानाप्रकारेण सम्बन्धोक्त्या तथा "अन्य: परोऽन्यो जीव:' इति "ब्रह्म दाशा ब्रह्मकितवा' इति च श्रुतिद्वये भेदाभेदोक्त्यन्यथानुपपत्त्या द्विरूपांशत्वसिद्धे: । "पादोऽस्य विश्ऱ्वाभूतानि' इति मन्त्रवर्णात् "ममैवांशो जीवलोके' इति स्मरणाच्चानंशश्रुते: स्वरूपाठशनिषेधपरत्वोपपत्ते: । तेजोभिमान्यंशयो:कालाग्निखद्योताभिमानिनोरिव "एते स्वांशकला: पुंस:' इत्यादि भाष्योक्तस्मृत्यादिसिद्धास्वरूपस्वरूपांशत्वाभ्यां यथा सूर्यांशयो: प्रभाभिमान्यपभ्रष्याभिमानिनोरिव स्वायत्तप्रवृत्तिराहित्यतद्वत्ताभ्यां पूर्णशक्तित्वतदभावाभ्यां ईशाप्रतिबिम्बत्वतत्प्रतिबिम्बत्वाभ्यां च मत्स्यादीशावतारजीवयो: ईशांशत्वाविशेषेऽपि साम्यानापत्ते: श्रुतिद्वयाविरोधान्मानमेवेति ।। 17 ।।
।। ॐ अदृष्यानियमात् ॐ ।। 19 ।।
।। ॐ अभिन्ध्यादिष्वपि चैवम् ॐ ।। ॐ प्रादेशादिति चेन्नान्तर्भावात् ॐ ।।
अवतारेण जीवस्यासाम्ये पूर्वहेतूकृतप्रतिबिम्बत्वाक्षेपेण शङ्कनात्सङ्गति: । जीव: किं ईशप्रतिबिम्बो न वेति सन्देह: । नेति प्राप्तम् । "न सम्बन्धो नापेक्ष्य: जीव: परस्य' इति बिम्बप्रतिबिम्बभावरूपसम्बन्धनिषेधश्रुते: सुरासुरनरतिर्यगादिवैचित्ऱ्योपेतत्वात् घटादिवत् । जीवा नैकप्रतिबिम्बा इति युक्तेश्ऱ्च । रूपं रूपं प्रतिरूपो बभूवेति श्रुतिस्तु सयुक्तिकपूर्वश्रुतिविरोधादमानमिति । सिद्धान्तस्तु । बिम्बस्यैकरूपत्वेऽपि जीवस्यानादिस्वरूपोपाधि अविद्याकर्मादिवैचित्ऱ्येण प्रतिबिम्बवैचित्ऱ्योपपत्ते: । रूपं रूपमिति श्रुते: प्रतिबिम्बो जीव: । न सम्बन्ध इति श्रुति: भिन्नोपाध्यायत्तत्वरूपप्रतिबिम्बत्वनिषेधपरेति । अत्र प्रतिनयं समन्वयाक्षेपसमाधी फले वक्तव्ये ।
।। इति श्रीमद्राघवेन्द्रयतिकृतायां न्यायमुक्तावल्यां द्वितीयाध्यायस्य तृतीय: पाद: ।।
।। अथ चतुर्थ: पाद: ।।
।। ॐ तथा प्राणा: ॐ ।। 1 ।।
।। ॐ गौण्यसम्भवात् ॐ ।। ॐ प्रतिज्ञानुरोधाच्च ॐ ।।
अत्र पूर्वेण सङ्गति: प्रागेवोक्ता । अत्र प्राणा किमुत्पत्तिमन्तो न वेति सन्देहे नेति प्राप्तम् । "प्राणा एवेदमग्र आसु:' इत्यनादित्वश्रुते: । नच स इदं सर्वमसृजत (तै.2-6) इति श्रुतिविरोध: । सामान्यव्यवधानाभावरूप स्पष्यार्थतयाऽनवकाशया प्राचीनविशेषश्रुत्या सामान्यश्रुतेर्बाधात् । नच "एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च' (मुं. 2-1-3) इतिविशेषश्रुतिविरोध: । "नोपादानं हीन्द्रियाणाम्' इति स्मृत्युक्तनिरुपादानत्वयुक्त्या श्रुतेर्बाधादमानमिति । सिद्धान्तस्तु । "स प्राणमसृजत' "स प्राणान्' "एतस्माज्जायते प्राण:' इत्यादि विशेषश्रुत्या "स इदं सर्वम्' इति सामान्यश्रुतिसध्रीचीनया तथाल्पशक्तित्वादिवियन्नयोक्तयुक्त्या च प्राणानां जन्मसिद्धे: । "नित्यान्येतानि सौक्ष्म्ेण' (भविष्यत्पर्व) इति स्मृत्या सूक्ष्मरूपणानादित्वनिरूपादानवत्वेऽपि सृष्यिकाले भूताद्यवयवोपचयसत्त्वेन सावकाशानादित्वश्रुतियुक्तिबाधाभावात् प्राणा उत्पत्तिमन्त इति । अत्रापि प्रतिनयं प्राग्वदेव पूर्वोत्तरपक्षफले ।। 1 ।।
।। ॐ तत्प्राक् श्रुतेश्ऱ्च ॐ ।। 2 ।।
अत्र प्रकृतप्राणान्तर्गतमनोजन्मसमर्थनात्सङ्गति: । मन: किं जनिमन्नवेति सन्देहे नेति प्राप्तम् । "नित्यं मनोऽनादित्वात् न ह्ममना: पुमान् तिष्ठत्यनित्यान्यन्यानि' (गौपवन) इति श्रुते: । अस्याश्ऱ्चेन्द्रियान्तराणामनित्यत्वमुक्त्वा मनसो विशिष्यनित्यत्वोक्त्या विशेषश्रुतित्वेनैतद्विरोधात् । मनोजन्मश्रउतिबलेन प्रागिवोपपत्तेरयुक्तत्वात् । मनस: सादित्वे तन्मूलसंसारस्यापि सादित्वापत्तेश्ऱ्च जन्मश्रुतिरमानमिति । सिद्धान्तस्तु । मनस्सर्वेन्द्रियाणि चेति इन्द्रियेभ्य: पृथक् मनसो जन्मोक्त्या विशेषश्रुत्या मनोजन्मसिद्धे: । अल्पोपचयकाणादिति (वायुप्रोक्त)स्मृत्या इन्द्रियोपचयादस्यानादित्वाविघातेनाल्पोपचयहेतुना नित्यं मन इत्यादिश्रुत्युपपत्ते: । बन्धसादित्वापत्त्यभावाच्च उत्पत्तिमदेव मन: इति ।। 2 ।।
।। ॐ तत्पूर्वकत्वाद्वाच: ॐ ।। 3 ।।
अत्र प्राणान्तर्गतमनोजन्माक्षिप्य समर्थनात्सङ्गति: । वागिन्द्रियमुत्पत्तिमन्नवेति सन्देहे नेति प्राप्तम् । "वाग्वाव नित्या नह्येषोत्पद्यतेऽस्यां हि श्रुतिरवतिष्ठते' (पौष्यायण) इति श्रुते: सदा वेदोच्चारणसामर्थ्यरूपश्रुत्याश्रयत्वरूपवाक्यशेषोक्तयुक्तेश्ऱ्च । एतच्छतिविरोधेन च सूक्ष्मरूपोपचितरूपपरे जन्माजन्मश्रुतीति निरस्तम् । नित्यं वेदोच्चारणशक्तस्योपचयवैयर्थ्यात् श्रुत्याश्रयत्वोक्त्यैव वाक्शब्द: श्रुतिपर: नेन्द्रियपर इति प्रत्युक्तम् । अतस्सर्वेन्द्रियाणि चेति वाग्जन्मश्रुतिरमानमिति । सिद्धान्तस्तु । "मन एव पूर्वरूपं वागुत्तररूपम्' (ऐ.आ.3-1-1) इति श्रुतौ वाच: मन:कारणकत्वश्रवणात् । वाक्शब्दस्य च वाचा व्याहरतीति पूर्ववाक्यबलेन "मनसो वाव वागुत्पद्यते वाचो व्याहरणम्' इति श्रुत्यन्तरे चोक्तवाक्यबलेन इन्द्रियपरत्वात् । "वागिन्द्रियस्य नित्यत्वं श्रुतिसन्निधियोग्यता' (वायुप्रोक्त) इति स्मृत्या नित्यवेदसन्निधिमात्राभिप्रायेण उपचारेण नित्यत्वश्रुत्युपपत्ते: । तदुच्चारणशक्तये चोपचयसार्थक्यात् । जन्मश्रुत्योत्पत्तिमदेव वागिन्द्रियमिति ।। 3 ।।
।। ॐ सप्तगतेर्विशेषितत्वाच्च ॐ ।। 4 ।।
।। ॐ हस्तादयस्तु स्थितोऽतो नैवम् ॐ ।।
प्राणानां धर्मितामाश्रित्य जनिश्ऱ्चिन्तिता । सङ्खयारूपधर्माश्रयात् जनिश्ऱ्चिन्त्यत इति सङ्गति: । प्राणास्सप्त उत द्वादशेत्यनिर्णय उत द्वादशेतिनिर्णय इति सन्देहे अनिर्णय इति प्राप्तम् । "सप्तप्राणा प्रभवन्ति' इति "द्वादश वा एते प्राणा: द्वादशमासा: द्वादशादित्या:' इति विरुद्धसङ्खयवगमकश्रुतिद्वयात् । नच प्राणानां द्वादशत्वेऽपि पञ्चाशन्न्यायेन सप्तत्वश्रुतिर्घटत इति वाच्यम् । अवच्छेदकाभावे सप्तत्वाद्युक्तेरयोगात् । एतैस्सह पञ्चानामपाठे हेत्वभावेन तदभावप्रतीतेश्ऱ्च । "सप्तैव मारुता बाह्ये प्राणास्सप्त तथात्मनि' (स्कान्द) इति स्मृत्युक्त्या अभिमानिनां सप्तत्वेन तदभिमतानामपि तथात्वं अभिमानि अभिमन्यमानयो: समसङ्खयाकत्वनियमादिति युक्त्या सप्तत्वश्रुते: प्राबल्यात् । द्वादशत्वश्रुतेरपि द्वादशमासा इत्यादिवाक्यशेषोक्तप्रागुक्तयुक्त्युपेतत्वेन प्राबल्यात् वाक्यशेषोदितानां द्वादशादित्यादिदेवातकत्वेन इन्द्रियाणामपि ता एव देवता इति भावेनैव द्वादशादित्यादिदेवताकत्वेन इन्द्रियाणामपि ता एव देवता इति भावेनैव द्वादशमासा इत्याद्युक्तेरिति । सिद्धान्तस्तु । प्राणानां द्वादशत्वेऽपि "गुहाशयां निहिता: सप्तसमा' (मु.2-1-8) इति वाक्यशेषोक्तज्ञानेन्द्रियत्वावच्छेदकविवक्षया श्रोत्रचक्षुस्त्वग्रसनघ्राणमनोबुद्धीनां सप्तत्वोक्त्युपपत्ते: वाक्पाणिपादपायूपस्थानां कर्मेन्द्रियत्वरूपवैलक्षण्येन सप्तत्वश्रुतौ सप्तभिस्सहपाठाभावोपपत्त्या तन्मात्रेण इतरेषामभावशङ्कायोगेन द्वादशत्वश्रुत्या द्वादशेति निर्णय एवेति ।। 4 ।।
।। ॐ अणवश्ऱ्च ॐ ।। 5 ।।
पूर्वत्र प्राणानां सङ्खया विचारिता । अत्र तत्प्रमाणं चिन्त्यत इति सङ्गति: । प्राणा: किं अणव: उत व्याप्ता इति सन्देहे व्याप्ता इति प्राप्तम् । "दिवीव चक्षुराततम्' (ऋ.1-22-20) इति व्याप्तत्वश्रुते: । व्याप्तत्वे दृष्यान्तत्वेन चक्षुर्व्याप्तत्वोक्त्या
दूरश्रवणदर्शनस्मरणादियुक्त्या चास्या: प्राबल्याच्च सुदृढस्यैव दृष्यान्तीकरणाच्च । "अणुभि: पश्यति' इत्यणुत्वश्रुतिस्तु (कौण्डिन्य) प्रबलव्याप्तत्वश्रुतिबाधादमानमिति । सिद्धान्तस्तु । "तद्यथा ह्यणुनश्ऱ्चक्षस: प्रकाशो व्यातत एवमेवास्य पुरुषस्य प्रकाशो व्यातत: अणुर्ह्येवैष पुरुषो भवति' (शाण्डिल्यश्रुति) इति श्रुत्या आत्माणुत्वादौ चक्षुषो दृष्यान्तत्वोक्त्या विशेषश्रुतित्वेन च बलवत्वात् अणुत्वाद्युक्ते: । स्वरूपेण प्राणानामणुत्वेऽपि तेजसा व्याप्तत्वोक्त्या दूरश्रवणदर्शनाद्युपपत्ते: । सामान्यतो व्याप्तत्वश्रुतेरपि प्रकाशपरत्वव्याप्तिपरत्वोपपत्ते: । प्राणानां स्वरूपतो व्याप्तौ सर्वापरोक्षप्रसङ्गेन सुप्त्यभावापाताच्च अणव: प्राणा इति ।। 5 ।।
।। ॐ श्रेष्ठश्ऱ्च ॐ ।। 6 ।।
।। ॐ न वायुक्रिये पृथगुपदेशात् ँ़ ।।
प्राणानां चिन्तानन्तरं तत्प्रेरकचिन्तात्रेति सङ्गति: । मुख्यप्राण: किं जनिमान्नवेति सन्देहे नेति प्राप्तम् । "नैषप्राण उदेति' इति श्रुते: "यत्प्राप्तिर्यत्परित्याग: उत्पत्तिर्मरणं तथा' इत्युक्तस्मृत्युक्त्या अखिलोत्पविमृत्युप्रदत्वेन उत्पत्त्याद्ययोग इति युक्त्युपेतत्वेन सप्राणमसृजतेत्यादि केवलजनिश्रुतितोऽस्या: प्राबल्यात् । जनिश्रुतिश्ऱ्च प्राणपदस्य "चेष्यायां बाह्यवायौ च' इत्यादे: चेष्यादिवाचित्वेनाप्युपपत्तेश्ऱ्च । नचैतत्तु "एतेन मातरिश्ऱ्वा व्याख्यात:' (ब्र.सू.2-3-8) इत्यनेनैव गतार्थम् । तत्र बाह्यमुख्यवायुरूपस्य जननोक्तावपि इहाध्यात्मिकप्राणादिरूपस्य तन्नयुक्तम् । तस्य अखिलजनिमृतिहेतुत्वात् । तादृशस्य दु:खहेतुत्वजननाय प्रवृत्त्ययोगादित्यधिकशङ्कया अस्योत्थानादिति । सिद्धान्तस्तु । "सौक्ष्म्ेण ह वार एषोऽवतिष्ठते स्थूलत्वेनोदेति' (गौपवन) इति श्रुतौ प्राणस्य स्वभावतो देहादितश्ऱ्चानुत्पत्त्युत्पत्त्युक्त्या जननाजननश्रुत्यो: तत्परत्वेनाविरोधात् । जन्मश्रुतिस्थप्राणपदस्य तद्वाक्यशेषे "प्राणाच्छ्रद्धा खं वायुर्ज्योतिराप: पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीयर्ं तपो मन्त्रा: कर्म चेत्यादे: पृथगुक्त्या चेष्यादिपरत्वायोगेन मुख्यप्राणपरत्वात् जनिमानेव मुख्यप्राण: । तस्य स्वतोऽनन्यजन्मयोगेऽपि अतिमाहात्म्यवद्विष्णुजातत्वस्य सप्राणमिति श्रुतावेवोक्त्या ततस्तस्य जननोपपत्तिरिति ।। 6 ।।
।। ॐ चक्षुरादिवत्तु तत्सहशिष्ययादिभ्य: ॐ ।। 7 ।।
।। ॐ अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॐ ।।
प्रागुक्तप्राणस्य जनिरिह पूर्वपक्षे स्वातन्त्ऱ्ादाक्षिप्यत इति सङ्गति: । अत्र मुख्यप्राण: किं स्वतन्त्र: परतन्त्रो वेति सन्देह: । स्वतन्त्र इति प्राप्तम् । "न प्राण: किञ्चिदाश्रित:' (आग्निवेश्य) इति श्रुते: । "यदाश्रयादस्य चेष्या:' (महाभारत) इत्यादिस्मृत्युक्त्या अखिलजगच्चेष्यकमाहात्म्यवत्त्वेन अनन्याश्रयत्वयुक्त्युपेतत्वेन अस्या: "प्राण:परवशे स्थित:' (पैङ्गिश्रुति:) इति पारतन्त्ऱ्यश्रुतित: प्राबल्याच्च । स्वातन्त्ऱ्यश्रुतियुक्तिविरोधादेव प्रागुक्तजन्मश्रुतीनामप्रामाण्यात् । "स्थूलत्वेनोदेति' (गौपवन)श्रुतेश्ऱ्च लीलाविग्रहग्रहणपरत्वेनोपपत्तेन्च प्रागुक्तयुक्ते: जनिरयुक्तेति । सिद्धान्तस्तु । मुख्यप्राण: परतन्त्र: "सर्वं ह्येवैतत्परमेव तिष्ठते प्राणश्ऱ्च प्राणश्ऱ्च' इति चक्षुरादिप्राणै: सह तद्वदेव तस्येशवशत्व(गौपवन)श्रुते: । अस्याश्ऱ्च "यतो नैवेश्ऱ्वरद्वयम्' इति वचनोक्तेश्ऱ्वरद्वयायोगरूपयुक्तिसध्रीचीनत्वेन प्राबल्यात् । "प्राणस्यैतद्वशे सर्वं प्राण: परवशे स्थित:' (पैङ्गिश्रुति:) इति च स्वातन्त्रश्रुतियुक्त्योस्तु अवान्तरेश्ऱ्वरत्वेन "तस्येश्ऱ्वरवचो भवेद्' इत्यादि तदनन्येश्ऱ्वरत्वावान्तरेश्ऱ्वरत्वपरत्वात् । चक्षुरादिसाम्येश्ऱ्वरशब्दोक्तादपि सुषुप्तौ जीवप्रयत्नाभावे चक्षुरादीनां मुख्यप्राणस्य व्यापारदृष्यिदृष्यिभ्यां कर्तृप्रयोज्यत्वाप्रयोज्यत्वदृष्यया "तानि ह वा एतानि सर्वाणि करणानि' (माण्डव्यश्रुति) इत्यादि श्रुत्या च करणाकरणत्वाख्यवैलक्षण्यातिशयेन अवान्तरेश्ऱ्वरत्वस्योपपत्तेश्ऱ्चेति "सोऽध्यक्ष:' (ब्र.सू.4-2-4) इत्यतो गतत्वमस्य तत्रैव वक्ष्यते ।
।। ॐ पञ्चवृत्तिर्मनोवद्वयपदिश्यते ॐ ।। 8 ।।
मुख्यप्राणप्रसङ्गसन्निधापिता: प्राणादयोऽत्र चिन्त्यत इति सङ्गति: । प्राणादय: पञ्च मुख्यादासत्वेन स्वरूपत्वेन वा निर्णेतुं शक्यते न वेति सन्देहे नेति प्राप्तम् । "सर्वे वा एते मुख्यदासा:' इति दासत्वश्रुते: । "एष प्राण: इतरान्प्राणान् पृथक्पृथगेव सन्निधत्ते' (षट्प्रश्ऱ्न 3-3) इत्यादिश्रुत्या "प्राणापानादयस्सर्वे' इत्यादि स्मृत्या चोक्तया तदाज्ञया कमर्कारित्वादिति युक्त्युपेतत्वेन प्राबल्यात् । मुख्यस्यैव स्वरूपाणि प्राणाद्या:' (गौपवन) इति स्वरूपत्वश्रुतेरपि स्वरूपत्वसाधकव्यक्तसद्गुणत्वयुक्त्युपेतत्वेन प्राबल्यात् । श्रूयते च "पायूपस्थेऽपानं चक्षु:श्रोत्रे मुखनासिकाभ्यां प्राण: स्वयं प्रतिष्ठते' (ष.प्र.3-4) इत्यादौ व्यक्तसद्गुणत्वं तेषाम् । न ह्येतद्दासेषु युक्तं स्वामिभृत्यभावायोगात् । वस्तुनि विकल्पायोगेन श्रुत्योर्विरुद्धार्थत्वेनाप्रामाण्यादिति । सिद्धान्तस्तु । "अथ पञ्चवृत्त्यैतत्प्रवर्तते' इत्यादिश्रुतौ मनोदृष्यान्तेन पञ्चदासत्वेन पञ्चस्वरूपत्वेन मुख्यप्राणस्योक्त्या पृथगुभयविधाङ्गीकारेण श्रुत्योर्युक्तियुक्त्योरविरोधेनाप्रमाण्याभावात् । "इतरान् प्राणान्' इति दासानुपक्रम्योक्तव्यक्तसद्गुणत्वस्य च "अशेषगुणपूर्णानि मुख्यरूपाणि पञ्च च । तद्दासा: पञ्च चान्येऽपि प्राणाद्या: सद्गुणैयर्ुता:' इति श्रुत्या स्वरूपतद्दासानां तारतम्येनोपपत्त्या स्वामिभृत्यभावाविरोधात् । इतरान् प्राणानिति दासानुपक्रम्य पायूपस्थेपानमित्यादिनोक्तं व्यक्तसद्गुणत्वं दासानामपि किञ्चिद्युक्तमिति प्राणादयो द्वेधा निर्णेतुं शक्यन्त एवेति ।। 9 ।।
।। ॐ अणुश्ऱ्च ॐ ।। 9 ।।
प्रागुक्तप्राणादिप्रेरकत्वाधिकसद्गुणत्वाय प्राणस्य विभुत्वमप्यस्त्विति शङ्कनात्सङ्गति: । प्राणो व्याप्तोऽणुर्वेति सन्देहे व्याप्त इति प्राप्तम् । "प्राणा एवाधस्तात्' इत्यादि व्याप्तत्वश्रुत्या "यतस्सर्वं जगद्वयाप्य तिष्ठति' (वायुप्रोक्त) इत्यादि स्मृत्युक्तसर्वजगद्वयापकत्वयुक्तियुक्त्या "प्राणोवाणु:' (सौत्रायण) इति अणुत्वश्रुतित: प्रबलया व्याप्तत्वोक्ते: । नचैवं वैष्णवत्वेन सावकाशा । महान् वै मुख्यप्राण: येन व्याप्तं चराचरम्' इत्यादि श्रुत्यन्तरे स्पष्यं मुख्यप्राण्य व्याप्तत्वप्रतीतेश्ऱ्चेति । सिद्धान्तस्तु । "एष प्राणोऽणुर्महान्नाम' (कौण्डिण्य) इत्यादिश्रुत्या देहान्तर्बहिवर्र्तमानप्राणवायुशब्दितभेदेन अणुत्वमहत्वयोर्व्यवस्थोक्ते: । "अणुर्वै मुख्यप्राण: यदुत्क्रामति नडीभि:' इति अणुत्वश्रुतिरपि नाडीसञ्चारित्वयुक्तियुक्तत्वेन बलवत्वादिति ।। 9 ।।
।। ॐ ज्योतिराद्यधिष्ठानं तु तदामननात् ॐ ।। 10 ।।
।। ॐ प्राणवता शब्दात् ॐ ।। ॐ तस्य च नित्यत्वात् ॐ ।।
प्राणान् मुख्यप्राणं च निरूप्य इह तेषां कं प्रति करणत्वमिति चिन्त्यत इति सङ्गति: । चक्षुरादीन्द्रियाणि किं जीवकरणानि उत ब्रह्मकरणानीति विशये जीवकरणानीति प्राप्तम् । "जीवस्य करणान्याहु: प्राणान्' (सौत्रायण) इति श्रुत्या जीववशत्वेनानुभूयमानत्वयुक्तियुक्तत्वेन ब्रह्मणो वा एतानि करणानीति ब्रह्मकरणत्वश्रुतित: प्राबल्यात् जीवकरणत्वोक्तेरिति । सिद्धान्तस्तु । "यश्ऱ्चक्षुषि तिष्ठन्' (बृ.5-7-18) इत्यादिश्रुत्या चक्षुरादीन्द्रियस्य ब्रह्माधिष्ठानत्वोक्त्या तथा "यस्तेजसि तिष्ठन्' इत्यादिना तेज:प्रभृतिभूतप्रेरकत्वोक्त्या तदंशभूतचक्षुरादेरपि ब्रह्मप्रयोज्यत्वमिति युक्तिबलात् तथा "य: प्राणे तिष्ठन्' इत्यादिश्रुते: सर्वेन्द्रियप्रेरकप्राणप्रेरकत्वयुक्तिबलाच्च ब्रह्मकारणान्येवेन्द्रियाणि मुख्यस्येशप्रयोज्यत्वेऽपि "न जीवापेक्षया मुख्यम्' इति (वाराह) स्मृते: जीवं प्रति करणत्वं युक्तम् । इन्द्रियाणां जीवकरणत्वश्रुतिस्तु "एषह्यनेनात्मना चक्षुषा दर्शयति' (भाल्लवेय) इत्यादि श्रुतौ "करणै: कारणं ब्रह्म' (वाराह) इति स्मृतौ च ब्रह्मण: स्वकारणेनैव चक्षुरादिना जीवं प्रति दर्शनादिकारयतीत्युक्त्या चैत्रीयकुठारस्य मैत्रकरणत्वोक्तिरिव जीवं प्रति क्रियासाधनत्वमात्राभिप्राया । "करणैर्वाव न वियुज्यते' (गौपवन) इति श्रुत्या जीवकरणसम्बन्धस्यानादिनित्यत्वात् चैत्रीयकुठारे बहुकालसम्बन्धिनि मैत्रीयत्वोक्तिरिवोपचारेण जीवकरणत्वाभिप्रायो वा । जीववशत्वानुभवोऽपि आभिमानिकतया युक्त इति ।। 10 ।।
।। ॐ त इन्द्रियाणि तद्वयपदेशादन्यत्र श्रेष्ठात् ॐ ।। 11 ।।
।। ॐ भेदश्रुते: ॐ ।। ॐ वैलक्षण्याच्च ॐ ।।
पूर्वोक्तमुख्यप्राणस्य जीवं प्रत्यकरणत्वमयुक्तम् । तस्यापीन्द्रियत्वेन तं प्रतिकरण्तवात् इति शङ्कनात्सङ्गति: । प्राक् प्रकृतमिन्द्रियत्वं किं सर्वेषां प्राणानामुता प्राणादन्येषां द्वादशानामिति सन्देह: । सर्वेषामिति पूर्व: पक्ष: । "प्राणा वा इन्द्रियाणि' (पौत्रायणश्रुति) इति सामान्यत: सर्वेषामिन्द्रियत्वश्रुते: । तस्या: सामान्यत्वेऽपि इदंद्रवणरूपयुक्त्युपेतत्वेन "द्वादशैवेन्द्रियाण्याहु:' (काषायण) इति विशेषश्रुतितोऽपि बलवत्त्वात् । द्वादशानामेवेन्द्रियाध्यवसायस्य दुष्करत्वाच्च । नहि तेषां त्रयोदशसु अन्यतमस्येन्द्रियत्वनिवारणं शक्यम् । सर्वेषामपीशवशत्वाविशेषादिति । सिद्धान्तस्तु । मुख्यप्राणं ऋते द्वादशानामेवेन्द्रियत्वम् । "द्वादशैवेन्द्रियाण्याहु: प्राणो मुख्यस्त्वनिन्द्रियम्' (पौत्रायणश्रुति) इत्यादिविशेषश्रुते: । इदंद्रवणरूपयुक्त्युपेतसामान्यश्रुतेस्तु मुख्यप्राणेतरविषयत्वसम्भवात् । नच प्राणस्य चक्षुराद्यविशेष: । तस्य इदं द्रवणयुक्तसर्वप्राणनियन्तृत्वेन सर्वकर्तृकारयितृत्वेन च ईश्ऱ्वरसाम्यस्य चक्षुरादीनां तदभावस्य "द्रवतां हीन्द्रियाणां तु' (पौत्रायणश्रुति) इति "स्थित एव हीदं मुख्य: प्राण: करोति कारयति' (पौत्रायणश्रुति) इत्यादिश्रुतिसिद्धत्वात् । तस्येतरप्राणवदीशवशत्वेऽपि इतरप्राणानामिव जीवप्रयत्नापेक्षया ईशवशत्वाभावेन वैलक्षण्याच्चेति ।। 11 ।।
।। ॐ संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॐ ।। 12 ।।
मुख्यप्राणचिन्तनानन्तरं विरिञ्चविषयचिन्ता क्रियते तस्यैव विरिञ्चत्वादिति सङ्गति: । प्राक्चिन्तितप्राणानां आश्रयत्वात् (आयतनत्वात्) प्रसङ्गसन्निधापितं शरीरं तदादिवस्तुजातं किं विरिञ्चसृष्यं उत परमात्मसृष्यमिति सन्देह: । "यस्माद्विरेचयेत्सर्वं विरिञ्चस्तेन भण्यते' (ब्राह्म) इति स्मृत्युक्त्या विरेचकत्वापरपर्यायस्रष्यृत्वरूपविरिञ्चत्वयुक्तियुक्ताया: "विरिञ्चो वा इदं सर्वं विरेचयति' (गौपवन) इति श्रुते: "परमाद्धयेते नामरूपे व्याक्रियेते' (आग्निवेश्य) इति श्रुतितो बलवत्वात् । मुख्यार्थसम्भवे वियत्पादीयन्यायेन द्वरस्रष्यृपरत्वकल्पनायोगात् विरिञ्चसृष्यमिति पूर्व: पक्ष: । सिद्धान्तस्तु । शरीरादिवस्तुसृष्ये: पृथिव्यादिभूतत्रयमिश्रीभावरूपत्रिवृत्करणसापेक्षत्वात् तस्य "सेयं देवतेमास्तिस्रो देवता' (छां.6-3-3) इत्यादिश्रुत्या विष्णुधर्मत्वात् विष्णुनैव देहादिनामप्रपञ्चसृष्यि: न विरिञ्चत: । प्रागुक्तयुक्त्युपेतश्रुतिस्तु "ब्रह्माद्यास्तदवान्तरा:' (पाद्म) इति स्मृत्या अवान्तरसृष्यिपरेति ।। 12 ।।
।। ॐ मांसादिभौमं यथाशब्दमितरयोश्ऱ्च ॐ ।। 13 ।।
।। ॐ वैशेष्यात्तु तद्वादस्तद्वाद: ॐ ।।
पूर्वं देहादे: कर्तोक्त: । इह तु उपादानमुच्यत इति सङ्गति: । मूर्तिपदेन प्रकृतो देह: किं आप्य: किं वा पार्थिव: उत तैजस: भूतत्रयात्मको वेति सन्देह: । मांसादौ तृप्तिजनकत्वदृष्ये: तर्पकत्वयुक्त्युपेतया आप: शरीरमिति श्रुत्या आप इत्येक: पूर्व: पक्ष: । काठिण्यगन्धादियुक्त्युपेतया "पृथिवीं शरीरम्' (अप्येति) इति श्रुत्या (बृ.5-2-13) पार्थिव इत्यन्य: । औष्ण्यदर्शनयुक्त्युपेता "सोऽग्नेर्देवयोन्या आहुतिभ्य: सम्भूय हिरण्यशरीर:' (ऐ.7-4) इत्यादिश्रुतया तैजस इत्यपर: । "इमास्तिस्रो देवता: पुरुषं प्राप्य' (छां.6-4-7) इत्यादौ श्रुतोऽपि भूतत्रयात्मकत्वपक्ष: आप एव शरीरमित्यादिविशिष्योक्त्यनुपपत्तेरयुक्त एवेति । सिद्धान्तस्तु । देहस्यानेकभूतप्रकृतिकत्वेऽपि तत्तद्भूतविशेषसंयोगापेक्षया विशिष्योक्त्युपपत्ते: । "यत्कठिणं सा पृथिवी तद्द्रवं तदाप: यदुष्णं तत्तेज:' (गर्भ.3) इति श्रुतेरनेकभूतोपादानक एव देह इति ।। 13 ।।
।। इति श्रीराघवेन्द्रयतिकृतायां न्यायमुक्तावल्यां द्वितीयाध्यायस्य चतुर्थ: पाद: ।।
।। द्वितीयाध्याय: समाप्त: ।।
।। अथ तृतीयोऽध्याय: ।।
एवं समन्वयाविरोधाभ्यां जिज्ञासासूत्रस्थब्रह्मशब्दार्थ: सिद्धरूप: निरूपित: पूवर्ाध्याये । तत्स्थावशिष्यातोजिज्ञासापदानामर्थ: साध्यरूपो निरूप्यते अनन्तराध्यायद्वये इति पूर्वोत्तराध्यायद्विकद्वयस्य सिद्धसाध्यविचाररूपत्वात् पौर्वापर्यम् । तत्राप्यत:पदोक्तफलं प्रति अथजिज्ञासापदाभ्यां उक्तवैराग्यभक्त्युपासनापरोक्षज्ञानानां हेतुत्वेन तृतीयेऽत्राध्याये साधनविचार इत्यध्यायसङ्गति: । पादानामप्युत्तरोत्तरं प्रति पूर्वपूर्वस्य हेतुत्वात् क्रमो ध्येय: ।
।। ॐ तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्त: प्रश्ऱ्ननिरूपणाभ्याम् ॐ ।। 1 ।।
पूर्वत्र चन्द्रिकाकारैरुक्ता चिन्तापरम्परा । अतो नोक्ता मया साऽत्र तूच्यते सन्मुदे स्फुटम् । अथ जिज्ञासासूत्रस्थाथादिपदोक्तवैराग्यादिमोक्षसाधनमननुष्ठेयमुतानुष्ठेयमिति चिन्ता । तदर्थं जीवस्य मृतौ नि:शेषभूतवियोगोऽसित उत नेति । तदर्थं भूतावियोगे प्रमाणप्रयोजने नस्त उत स्त इति । यद्याद्य: पक्ष: तर्हि नि:शेषभूतवियोगस्यैव मोक्षतया स्वाभाविकमृत्यैव अनायासेन मोक्षसिद्धे: नानुष्ठेयं साधनमिति । यद्यन्तस्तदा भूतवियोगस्यैव मुक्तित्वेऽपि मृतौ तदभावात् अनुष्ठेयमेव मोक्षार्थं साधनमिति फलफलीभाव: । पूर्वपक्षस्तु । नानुष्ठेयं साधनम् । तेन विनापि "भूतानां विनिवृत्तिस्तु मरणम्' (भारत) इति स्मृत्या सर्वभूतविनिवृत्तिरूपमरणेनैव "मुक्तिस्तेभ्यो विमोचनम्' (वाराह) इति स्मृत्या भूतविमोचनरूपमोक्षसिद्धे: । नच भूतानां मृतजीवेन सह गमने प्रमाणमस्ति शरीरभोगान् प्रदाय चरितार्थानां प्रयोजनं नास्तीति । सिद्धान्तस्तु । "वेत्थ यथा पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति' (छां. 5-3-9) इति प्रश्ऱ्नप्रतिवचनयो: अबुपलक्षितजीवस्योक्तिबलात् "भूतयुक्त: परं लोकमिमं लोकं च गच्छति' इत्यादिप्रमाणबलात् शरीरान्तसम्पादनार्थतया प्रयोजनवत्त्वात् भूतानां जीवेन सह गत्यवगमेन मृतौ नि:शेषभूतवियोगाभावात् "भूतानां विनिवृत्ति:' सति स्मृते: "मृतिकाले जहात्येनम्' (ब्रह्माण्ड) इति स्मृत्या भागविषयत्वात्तद्रूपमोक्षार्थं अनुष्ठेयमेव साधनमिति । फले तु जिज्ञासासूत्रोक्तसाधनाक्षेपसमाधी ।। 1 ।।
।। ॐ त्ऱ्यात्मकत्वात्तु भूयस्त्वात् ॐ ।। 2 ।।
पूर्वोक्तप्रश्ऱ्नादिबलात् एकाबाख्यभूतगतिसिद्धावपि एकस्य देहानारम्भकतयाऽप्रयोजकत्वात् मृतिरेव मुक्तिरिति किं साधनानुष्ठानेनेति आक्षेपात्सङ्गति: । मृतं जीवं परिष्वज्य किं आप एव गच्छन्ति उत सर्वाणि भूतानीति चिन्ता । तदर्थं प्रश्ऱ्नादिस्थापूशब्द: किमेकभूतपर: उतानेकपर इति । तदर्थमनेकभूतपरत्वे हेतुर्नास्ति आप्शब्दश्ऱ्च न युक्त: उत विपरीत इति । पूर्वपक्षस्तु । आप: पुरुषवचस इति प्रश्ऱ्नादौ अप् शब्देनापामेव गतिश्रवणात् अप् शब्दस्यानेकभूतपरत्वे हेत्वभावेन "भूतानि पुरुषवचांसि भवन्ति' इति निर्देशापत्त्या च विशिष्याप्शब्दश्रवणायोगात् आप एव गच्छन्ति नेतरभूतानीति । सिद्धान्तस्तु । मिश्राणि हि भूतानीत्यादि श्रुत्या भूतानां मिश्रत्वेन श्रुतौ त्ऱ्यात्मकाप्शब्देनैव भूतानि पुरुषवचांसीत्यर्थलाभात् सर्वभूतानां मिश्रत्वेऽपि श्रुताप्शब्दस्य पार्थिवादिसर्वदेहेषु सम्भूयापामेव भूतेजोपेक्षया भूयस्त्वेन वैशेष्यात्तद्वाद इति उक्तन्यायेनोपपत्ते: सर्वाणि भूतान्यपि गच्छन्तीति । फलं तु साधनानुष्ठानाक्षेपसमाधी एवेति ।। 2 ।।
।। ॐ प्राणगतेश्ऱ्च ॐ ।। 3 ।।
पूर्वत्र त्ऱ्यात्मकापां गत्युक्त्या अर्थात्सिद्धा भूतानां गति: इह विशिष्यानुमानरूपमानेन साध्यत इति सङ्गति: । अथादिपदोक्तं वैराग्यादिसाधनं अनावश्यकं उतावश्यकमिति चिन्ता । तदर्थं प्रकृतभूतानि जीवेन सह न गच्छन्ति उत गच्छन्तीति । तदर्थं विशिष्य मानं नास्ति उतास्तीति । पूर्वपक्षस्तु । पूर्वोक्तदिशा त्ऱ्यात्मकापां गत्यर्थात् भूतगतिरिति निर्णयस्य
विशेषमानाधीनत्वात् तस्य चेहानुपलम्भात् न गच्छन्तीति नावश्यकं साधनमिति । सिद्धान्तस्तु । भूतानि जीवेन सह गच्छन्त्येव सहगन्तृपाणाविनाभूतत्वात् । यद्यत्सहगन्त्रविनाभूतं तत्तत्सहगन्तृ यथा राजसहगन्त्रमातयाविनाभूतं वस्तु राजसहगन्त्रं इत्यनुमानरूपविशेषप्रमाणसद्भावात् भूतानि जीवेन सह गतिमन्त्येव कारणैर्वाव न वियुज्यत इति श्रुत्या हेतौ विशेषणस्य "यत्र वाव भूतानि तत्र करणानि' (भाल्लवेय) इति श्रुतौ "न चैतानि कदाचिद्वियुज्यन्ते' इत्युक्त्या विशेषसिद्धे: आवश्यकं साधनमिति ।। 3 ।।
।। ॐ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॐ ।। 4 ।।
प्रागुक्तहेतोरसिद्धिर्निरस्यतेऽत्रेति सङ्गति: । अथादिपदोक्तं साधनं नानुष्ठेयमुतानुष्ठेयमिति चिन्ता । तदर्थं प्रकृता: प्राणा: किं जीवेन सह न गच्छन्त्युत गच्छन्तीति । तदर्थं प्राणानां अग्न्यादिगतिश्रुति: किं सवर्ात्मना प्राणगतिपरा अथ भागश: तद्गतिपरेति । तदर्थं भागपरत्वे कल्पकं नास्ति बाधकं चास्ति उत विपरीतमिति । पूर्वपक्षस्तु । "यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्ऱ्चक्षुरादित्यम्' इत्यादिना वागादिप्राणानामग्न्याद्यधिदैवं प्रति गतिश्रवणेन जीवेन सहगत्याभावात् । भागशो जीवेन सह गच्छन्तीति भागान्तरेणाधिदैवमित्यस्य च कल्पकाभावेन प्रतिमरणमेव भागापगमे कालत: सर्वापगमापातेन च प्राणानामधिदैवगतौ भूतानामपि तैस्सह तत्र गतौ जीवेन सह गत्यभावेन जीवेन सह गतौ तत्र गत्यभाव इति सर्वथाऽपि भूतानां प्राणविनाभावाभावापातेन चायोगात् । न प्राणा: जीवेन सह गन्तार: इति नानुष्ठेयं साधनमिति । सिद्धान्तस्तु । "पुरुषस्य मृतौ ब्रह्मन्' (ब्राह्म) इति स्मृतौ प्राणानां भागश एव उभयत्र गमनस्य "मृतिकाले जहात्येनम्' (ब्रह्माण्ड) इति स्मृतिसिद्धत्वेन भूतानां प्राणविनाभावाभावात् । प्राणा भूतानि च जीवेन सह गच्छन्त्येवेत्यनुष्ठेयं साधनमिति ।। 4 ।।
।। ॐ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्ते: ॐ ।। 5 ।।
पूर्वत्राग्न्यादिश्रुते: भाक्तत्वोक्तिप्रसङ्गादत्र श्रद्धाश्रुते: भाक्तत्वोक्तिरिति सङ्गति: । अथादिपदोक्तं साधनं नानुष्ठेयमुतानुष्ठेयमिति चिन्ता । तदर्थं भूतानां जीवेन सह गतिर्नास्ति उतास्तीति तदर्थं तस्मिन्नेतस्मिन्नग्नौ देवा: श्रद्धां जुह्वतीति उपक्रमे श्रुतश्रद्धाशब्द: किं श्रद्धामात्रयुक्तपर: उत श्रद्धयाद्भिश्ऱ्च युक्तजीवपर: इतिस। तदर्थं किं उपक्रमानुरोधेन "इति पञ्चम्यामाहुतावाप: पुरुषवचस:' (छां.5-9-1) इत्युपसंहारो नेय उत विपरीत इति । तदर्थं किमुपक्रम: प्रबल उत उपसंहार इति । आद्ये उपक्रमस्य यथाश्रुतार्थतया तदनुरोधेन उपसंहारस्य नेयत्वेन भूतगतौ प्रश्ऱ्नोत्तरस्यामानत्वात् भूतानां न सहगतिरिति नानुष्ठेयं साधनमिति पूर्वपक्षे फलम् । अन्त्ये तु उपसंहारस्य त्ऱ्यात्मकाप्शब्दानुरोधेन उपक्रमस्थश्रद्धाशब्दस्य नेयत्वेन प्रश्ऱ्नोत्तरबलेन भूतानां सहगतिरित्यनुष्ठेयं साधनमिति सिद्धान्ते फलम् । पूर्वपक्षस्तु । न भूतानां जीवेन सह गति: । "तस्मिन्नेतस्मिन्' (छां.5-4-3) इति श्रुतौ उपक्रान्तस्य श्रद्धयेष्यवत: श्रद्धासहितस्यैव द्वयाख्ये प्रथमाग्नौ छान्दोग्ये पञ्चमे होमश्रवणेन भूतगतेरश्रवणात् अन्यथा भूतानीत्युक्तिप्रसङ्गात् । न चोपसंहारस्थाप्शब्दविरोधेन श्रद्धाशब्द: तत्पर इति युक्तम् । असंजातविरोधित्वेन प्रथमोपस्थितत्वेन च उपक्रमस्य प्राबल्यात् तदनुरोधेनैवोपसंहारस्य नेयत्वादिति । सिद्धान्तस्तु । उपसंहारस्याप्राथम्येपि उपक्रमव्याख्यानरूपतया अर्थानुसन्धानत: प्राथम्येन प्राबल्यात्तदनुरोधेनैवोपक्रमस्य व्याख्येयतया तत्स्थश्रद्धाशब्दस्य अजहल्लक्षणया श्रद्धया त्ऱ्यात्मकाद्भिश्ऱ्च युक्तजीवपरत्वोपपत्ते: अस्ति भूतानां सह गतिरिति । अत्र नवीनोक्तप्रथमप्राबल्यखण्डनेनोपसंहारप्राबल्यव्युत्पादनप्रपञ्चनं तु गुरुपादकृतोपसंहारविजयादवसेयम् ।। 5 ।। N.M-7
।। ॐ अश्रुतत्वादिति चेन्नेष्यादिकारिणां प्रतीते: ॐ ।। 6 ।।
एवमतीतनयनिर्णीताप्श्रुतिप्राणगतिरूपमानद्वयाक्षेपेण इह शङ्कोत्थानादन्तरसङ्गति: । पूर्वत्रैवाद्या चिन्ता । तदर्थं प्रकृतभूतानि जीवेन सह गच्छन्त्युत न गच्छन्तीति । तदर्थं प्रागुक्तार्थिकश्रवणप्राणगतिरूपयुक्ती भूतगतिसाधके न भवत: उत भवत इति । तदर्थं ताभ्यां किं नियमेन प्रत्यक्षाश्रवणं बलवदुत विपरीतमिति । पूर्वपक्षस्तु । प्रश्ऱ्ननिरूपणयो: त्ऱ्यात्मकाप्गत्युक्त्या अर्ताद्भूतानां गतिश्रवणादपि "अग्निं वागप्येति' इत्यादिवत भूतानि गच्छन्तीति नियमेन प्रत्यक्षाश्रवणस्यैव बलवत्त्वात्
प्राणगतिरूपयुक्तेरपि विशेषश्रवणे सत्येव वैदिकार्थसाधकत्वात् प्रत्यक्षगतिश्रुत्यभावे तयोरसाधकत्वान्न सह गच्छन्ति भूतानीति नानुष्ठेयं साधनमिति । सिद्धान्तस्तु । कदन्नभोजनस्यापि भोजनत्ववदार्थिकश्रवणस्यापि श्रवणत्वेन युक्ते: प्रागुक्तदिशा व्याप्तिलिङ्गग्राहकप्रमाणवत्तया बलवत्तया श्रवणसामान्याभावप्रतिबन्धकत्वेन तयो: स्वयमर्थसाधकत्वात् "अथ हैनं यजमानं किं न जहाति भूतान्येव भूतैरेव गच्छति भूतैर्भु ्क्ते भूतैरुत्पद्यते भूतैश्ऱ्चरति' (कौण्डिण्यश्रुति:) इति प्रत्यक्षश्रवणाच्च । अत्र श्रुतौ यजमानपदश्रवणेऽपि कर्मकृतोऽपि भूतावियोगेन तदन्येषां कैमुत्यसिद्धत्वात् । भूतानि जीवेन सह गच्छन्त्येवेत्यनुष्ठेयं साधनमिति ।। 6 ।।
।। ॐ भाक्तं वाऽनात्मवित्त्वात्तथाहि दर्शयति ॐ ।। 7 ।।
पूर्वत्र कैमुत्येन सर्वजीवानां भूतावियोगोक्तिरयुक्ता । कर्मकृतो मुक्तिश्रवणेन तस्यैव भूतावियोगाभावे कैमुत्यानवतारादिति शङ्कनात्सङ्गति: । अत्राथादिपदेनोक्तं वैराग्यादिमोक्षसाधनं मुमुक्षुणा न कार्यमुत कार्यमिति चिन्ता । तदर्थं "अपाम सोमममृता अभूम' (ऋ.8-48-3) इत्यादौ कर्मत: श्रुतममृतत्वं किं मुख्यमुत भाक्तमिति । तदर्थं मुख्यत्वे बाधकं नास्त्युतास्तीति । आद्ये अन्यतोऽपि मुक्तिलाभान्न वैराग्यादि कार्यम् । अन्त्ये तु कार्यमिति फलफलिभाव: । पूर्वपक्षस्तु । न वैराग्यादिसाधनं कार्यं तेन विनाप्यपामेत्यादि श्रुत्या सुशकेन कर्मणैव मुक्तिसिद्धे: । नच श्रुतावमृतत्वं गौणं बाधकाभावादिति । सिद्धान्तस्तु । "तमेवं विद्वानमृत:' (पुरुषसूक्त) इत्यादौ आत्मविद एव मुख्यामृतत्वं अन्यस्य नेत्युक्त्या निरवकाशतच्छतिविरोधरूपबाधकेन अपामेत्यादिश्रुते: गौणार्थत्वावश्यंभावेन अन्यतो मुक्त्यभावात् कार्यमेव मुमुक्षुणा वैराग्यादि तत्साधनमिति । श्रुतेर्गौणार्तत्वप्रकारश्ऱ्च "अमृतो वाव सोमपो भवति यावदिन्द्रो यावन्मनु:' इत्यादि श्रुत्या काम्यकर्मवत: किञ्चित्कालीनममृतत्वं अकाम्यकर्मकृतो जिज्ञासोऽस्तु ज्ञानद्वारा मोक्षाख्यामृतत्वं "अगन्मज्योतिरविदाम देवान्' (ऋ.8-48-3) इति वाक्यशेषे ज्योतिर्ब्रह्म व्यजिज्ञासिष्मेत्युक्ते: "उत्क्रमिष्यत एवं भावात्' (ब्र.सू.1-4-22) इत्युक्तेश्ऱ्च "सर्वापेक्षा च यज्ञादिश्रुतेरश्ऱ्वात्' (ब्र.सू.3-4-26) इति वक्ष्यमाणत्वाच्च अकाम्यकर्मिणो ज्ञानिनस्तु "अग्निहोत्रदि तु तत्कार्यायैव तद्दर्शनाद्' (ब्र.सू.4-1-16) इत्यादै वक्ष्यमाणदिशा मोक्षैकदेशानन्दाभिव्यक्तिविशेषरूपममृतत्वमित्येवंरूपेण ज्ञेय: । फले तु अथपदाद्युक्तवैराग्यादिसाधनानुष्ठानाक्षेपसमाधी ।। 7 ।।
।। ॐ कृतात्ययेऽनुशयवान् दृष्यस्मृतिभ्याम् ॐ ।। 8 ।।
पूर्वत्र कर्मजफलं अमृतत्वं भाक्तमित्युक्तम् । इह तु कर्मण: स्वर्गादौ फलजनकत्वं भाक्तं भागेनैव न तु कृत्स्नस्येत्युच्यत इति सङ्गति: । अत्राथादिपदोक्तं वैराग्यादिकं मुमुक्षुणा न कार्यमुत कार्यमिति चिन्ता । तदर्थं बन्धकीभूतकर्मण: स्वर्गादौ नि:शेषभोगोऽर्थैकदेशेनेति । तदर्थं कर्मणो भागशो भोगकल्पकं नास्त्युतास्तीति । पूर्वपक्षस्तु । "कर्मणा बध्यते जन्तु:' इत्यादे: बन्धकीभूतकाम्यकर्मणो जीवेन सहैव स्वर्गादावगतस्य भागेन भोगकल्पने मानाभावेन नि:शेषभोगसम्भवाद्भोगेन कमर् भुक्त्वा तच्छेषेण स्वर्गात्पुनरागमनाङ्गीकारेऽपि एवं द्वित्ऱ्यावर्तनेन नि:शेषकर्मसमाप्तिसम्भवाच्च । बन्धबीजाभावे बन्धस्य स्वत एव निवृत्ते: न कार्यं मुमुक्षुणा वैराग्यसाधनमिति । सिद्धान्तस्तु । "तत: शेषेणेमं लोकमायाति' इति श्रुतौ "भुक्तशेषानुशयवान्' इति स्मृतौ च स्वर्गगतस्य यथायोग्यं कर्म सहागतमपि किंचिद्भुक्तवत: कर्मशेषयुतवत एवागमनस्य पुन: कर्मकरणस्य "दशावराणाम्' इत्यनल्पकर्मकृतेश्ऱ्चोक्त्या भोगेन नि:शेषकर्मक्षयाभात् कार्यमेव वैराग्यादीति ।। 8 ।।
।। ॐ यथेतमनेवं च ॐ ।। 9 ।।
पूर्वमनुशयवान्यातीत्युक्ते किं यथागतं तथैवायाति मार्गान्तरेण वेत्याकाङ्क्षात्र निवर्त्यत इति सङ्गति: । अतादिपदोक्तं वैराग्यं न कार्यमुतकार्यमिति चिन्ता । तदर्थं गतिप्रकारेणैवागमनमन्यथा वेति । तदर्थं मार्गश्रवणमागमनोपयोगि उतानुपयोगीति । आद्ये बुद्धिस्थगतमार्गेणैवागमनात् आगतौ क्लेशाभावात् तद्धेतुकर्मणि वैराग्यं न । अन्त्ये तु अन्यथाप्यागमनेन
अपरिचितमार्गकृतक्लेशभावात् तद्धेतुवैराग्यमावश्यकमिति फलफलिभाव: । पूर्वपक्षस्तु । परिचितमार्गत्यागेन अपरिचितमार्गेणागतौ हेत्वभावात् "यथेतमागच्छति' इति श्रुतिविरोधाच्च गतिमार्गेणैवागमनमिति न कार्यं वैराग्यादीति । सिद्धान्तस्तु । गमने जीवस्यास्वातन्त्ऱ्ेण तत्स्मरणस्यागमनानुपयोगात् "धूमादभ्रम्' इति भाष्योक्त(काषायण) श्रुतौ आकाशपर्यन्तमेव गतिमार्गेणागमनं ततोऽर्वागन्यथात्वस्योक्तत्वाद्यथेतमिति श्रुतेश्ऱ्च किंचिद्गतिप्रकारेणागतेरङ्गीकारेण तद्विषयत्वोपपत्ते: । गमनप्रकारादन्यथाप्यागमनमिति कार्यं वैराग्यादति ।। 9 ।।
।। ॐ चरणादिति चेन्न तदुपलीणार्थेति कार्ष्णाजिनि: ॐ ।। 10 ।।
।। ॐ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॐ ।। ॐ सुकृतदुष्कृते एवेति तु बादरि: ॐ ।।
एवं गत्यागतिमार्गस्थितौ सिद्धायां तत्साधननिर्णयोऽत्र क्रियत इति सङ्गति: । अथादिपदोक्तं काम्यकर्मणि वैराग्यं नावश्यकमुतावश्यकमिति चिन्ता । तदर्थं किं गतागतं चरणफलमुत काम्यकर्मफलमिति । तदर्थं "तद्य इह रमणीयचरणा: रमणीयां योनिमापद्यन्ते' (छां.5-10-7) इति श्रुतौ चरणशब्द: किं कर्माङ्गाचारपर: किंवा कर्मपर: इति । पूर्वपक्षस्तु । चरणफलमेव गतागतं न कर्मफलम् । चरणश्रुतौ गतागतस्य चरणफलत्वोक्ते: । न चरणमेव कर्म । "स यथाकारी यथाचारी' इति श्रुतौ "आचार इति सम्प्रोक्त: कर्माङ्गत्वेन शुद्धिद:' इति स्मृतौ च तस्यानर्थक्यप्रसङ्गात् । यज्ञादिकारिणां प्रकृतत्वेन ये यज्ञादिकारिणो रमणीयां इत्यादिरूपेणोकितसम्भवे विनापि चरणशब्दं कर्मोपलक्षणसम्भवात् । नच "य इमे ग्राम इष्यापूर्ते दत्तमित्युपासने ते धूममभिसम्भवन्ति' (छां.5-10-3) इत्यादौ गतागतस्य यज्ञादिफलत्वोक्तिविरोध: इति वाच्यम् । तत्राप्युपासत इत्युपशब्देन समीपवृत्तिवाचिना कर्मसमीपवृत्तिचरणस्य गृहीतेरिति । सिद्धान्तस्तु । भवत्येव पुण्यपापाख्यकर्मफलं गतागतम् । "इष्यापूर्तं मन्यमानावरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढा:' (मुं.1-2-10) इति श्रुतौ "त्रैविद्या मां सोमपा: पूतपापा:' (भ.गी.9-20) इत्यादिस्मृतौ च गत्यादे: कर्मफलत्वप्रतीतेस्तद्बलेन चरणश्रुते: अजहल्लक्षणया यज्ञाद्यर्थत्वेऽपि रमणीयाद्याचारेणैव यज्ञकृतां रमणीयत्वादिकमिति सूचकतया चरणशब्दस्य सार्थक्यसम्भवात् । धर्मं कुरुतेत्यर्थे "धर्मं चरत:' इति प्रयोगबलेन चरणश्रुते: यज्ञादिपरत्वादेव "य इमे ग्राम:' (छां.5-10-3) इति श्रुतेरर्थान्तरकल्पनमप्रमाणकम् । "अथ ये यज्ञेन दानेन तपसा लोकान् जयन्ति ते धूममभिसंविशन्ति' इति समाख्याविरुद्धं चेति काम्यकर्मणि कार्यं वैराग्यादीति ।। 10 ।।
।। ॐ अनिष्यादिकारिणामपि च श्रुतम् ॐ ।। 11 ।।
।। ॐ संयमेनेत्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॐ ।। ॐ स्मरन्ति च ॐ ।।
अस्त्येवमुक्तदिशा गत्यादे: पुण्याख्यकर्मफलत्वं न तु पापाख्यकर्मफलत्वमिति शङ्कनात्सङ्गति: । अथपदोक्तं वैराग्यं किं काम्यपुण्यकर्मण्येव उत पापादावपीति चिन्ता । तदथर्ं पुण्यपापाख्यकर्मफलतया प्रकृतमार्गगमनादिदु:खं किं पुण्यकृतामेव उत अपुण्यकृतामपीति । तदर्थं गतागतं किं प्रत्यवायभयफलकामनादिप्रयुक्तमुत कर्मप्रयुक्तमेवेति । तदर्थं भयादिहीनानामपि अपुण्यकृतां गत्यादौ मानं नास्त्युतास्तीति । आद्ये पुण्यकृतामेव प्रत्यवायभयादिमतां गत्त्यादि । अन्त्ये तु पुण्यकृतामपुण्यकृतामुभयेषामपीति फलम् । पूर्वपक्षस्तु । पुण्यकृतामेवगमनादिदु:खं नत्वपुण्यकृतां तेषां प्रत्यवायभयवत्त्वात् । बिभ्यत्पतति पादपादिति न्यायेन भयवत एव पतनवत्त्वादिदु:खित्वोपलम्भात् फलकामनावत्त्वाच्च । काम्यपुण्यकृतामेव गमनादि । "कामान्य: कामयते मन्यमान: स कामभिर्जायते तत्र तत्र' इति श्रुतौ कामिन एव पुनरागमनोक्ते: । अनिष्यादिकृतां च भयाभावात्कामनाभावाच्च न पुनरागत्यादि दु:खम् । नच भयादिमत्त्वं पतनादिदु:खाप्रयोजकं किन्तु कर्मैवेति वाच्यं कल्पकाभावात् । किंच पुण्यकृतामिव पुण्यमकुर्वता पापं च कुवर्तां तात्कालिककामोपरोधादिरूपक्लेशाभावेन स्रक्चन्दनवनितादिभोगाधिक्येन च भाविपुनरागमनादिमात्रक्लेशस्याकिञ्चित्करत्वात् न कार्यं तत्र वैराग्यादीति । सिद्धान्तस्तु । "तद्य इह शुभकृतो ये चाशुभकृतस्ते शुभमनुभूयावर्तन्त' (भाल्लवेय) इति श्रुतौ पुण्यकृतामिवान्येषामप्यागतेरुक्तत्वात् । तथा
"सर्वे वा एतेऽशुभकृत: संयमने प्रपतन्ति' (कौण्ठरव्य) इति भाष्योक्तश्रुतौ "गच्छन्ति पापिन:' इत्यादि स्मृतिषु च पुण्यकृदन्येषां नित्यनरकादिमहानर्थस्य चोक्तेश्ऱ्च भगवदज्ञानिनां सर्वेषामप्यस्त्येवागमनादिदु:खं भवयत्त्वाभावादिहेतुद्वयं चाप्रयोजकम् । अबिभ्यता फलकामनाशून्येनापि उपभुक्तविषस्य तन्मृतिहेतुतादृष्ये: कार्यं तत्रातिशयेन वैराग्यमिति ।। 11 ।।
।। ॐ अपि सप्त ॐ ।। 12 ।।
पूर्वत्र हरिद्वेषिणो नित्यनरकोक्तिरयुक्ता । "यावदिन्द्रश्ऱ्चतुर्दश' इति तदनित्यत्वोक्तेरित्याक्षेपात्सङ्गति: । अथपदोक्तं भगवद्द्वेषादावतिशयितवैराग्यमनावश्यकं उतावश्यकमिति चिन्ता । तदर्थं पूर्वं तत्फलत्वेनोक्तो नरक: किं पुनरावृत्तिमानुत नेति । तदर्थं नरक: किमेक एवोतानेक इति । पूर्वपक्षस्तु । नरकभेदे मानाभावादेकस्य यावदिन्द्राश्ऱ्चतुर्दशेत्यादावनित्यत्वोक्ते: पुनरावृत्तिमानेव भगवद्द्वेषिनरक: । न च "महातमसिमग्नानां न तेषामुत्थिति: क्वचित्' इति स्मृत्या नित्यत्वस्याप्यवगमेन पुरुषभेदेनैकस्यैव नरकस्य नित्यत्वमनित्यत्वं चास्त्विति वाच्यम् । "चकार नरकं शून्यम्' इत्यादेविर्रोधात् । अतो न भगवद्द्वेषेऽतिशयेन वैराग्यमावश्यकमिति । सिद्धान्तस्तु । "रौरवोऽथ महांश्ऱ्चैव' (भारत) इति भाष्योक्तस्मृतौ अनित्यनरकप्रपञ्चस्य नित्यनरकद्वयस्य च प्राधान्येनोक्ते: । यावदिन्द्राश्ऱ्चतुर्दशेत्यादेरनित्यनरकविषयत्वोपपत्ते: । भगवद्द्वेषिनरक: पुनरावृत्तिशून्य एवेति भाव्यं तत्रातिशयितवैराग्येणेति ।। 12 ।।
।। ॐ तत्रापि च तद्वयपारादविरोध: ॐ ।। 13 ।।
अस्त्वनिष्यादिकारिणो: द्विविधाधिकारिणो: नित्यानित्यनरकभोग: । तावता न तद्धेतौ वैराग्यमावश्यकम् । तस्य दु:खस्वरूपत्वाभावादिति शङ्कनात्सङ्गति: । अथपदोक्तं पापादौ वैराग्यं न कार्यमुत कार्यमिति चिन्ता । तदथर्ं तत्फलरूपो नरक: किमदु:खरूपोऽथ दु:खरूप इति । तदर्थं नरकस्य सदु:खत्वे तत्प्रेरकेश्ऱ्वरस्य दु:खभोग: प्रसज्यत उत नेति । तदर्थं किं भोगो नाम दु:खसाक्षात्कारमात्रमुत तत्कृतनीचत्वादिरेवेति । पूर्वपक्षस्तु । दु:खापरोक्षस्यैव तद्भोगरूपत्वान्नारकिणो दु:खित्वे तत्प्रेरकस्य सर्वज्ञेश्ऱ्वरस्य दु:खसाक्षित्वरूपदु:खभोगप्रसङ्गात् नरको न दु:खरूप: । न चेश्ऱ्वरो न तत्प्रेरक: सर्वं प्रेरयतीति भाष्योक्तश्रुतिविरोधात् । अतो न वैराग्यं कार्यमिति । सिद्धान्तस्तु । "नीचोच्चतैव दु:खादेर्भोग इत्यभिधीयते' इति (भागवततन्त्र) स्मृत्या नीचत्वादेरेव भोगशब्दार्थत्वात्तस्यैव च दु:खिप्रेरकत्वेऽपि निर्विकारे अचिन्त्यशक्तौ हरावभावस्य "नासौ दु:खभुक्' इति श्रुतिस्मृतिसिद्धत्वेन नारकिणां दु:खित्वे बाधकाभावात् सदु:खो नरक इति भाव्यं तत्र वैराग्येणेति ।। 13 ।।
।। ॐ विद्याकर्मणोरिति तु प्रकृतत्वात् ॐ ।। 14 ।।
वैराग्यार्थं नरकादे: सदु:खोक्तिरयुक्ता । तेन विनापि तत्फले गत्यादौ जीवानां स्वातन्त्ऱ्ेणेच्छया तत्फलगत्यादित्यागोपादानसम्भवादिति शङ्कनात्सङ्गति: । अथपदोक्तं काम्यकर्मणि वैराग्यं नावश्यकमुतावश्यकमिति चिन्ता । तदर्थं जीवानां गत्यादौ स्वातन्त्ऱ्यमस्ति उत नेति । तदर्थं "अथैतयो: पथोर्नैकतरेण च गच्छन्ति तानीमानि क्षुद्रमिश्राणि' (छां.5-10-8) इति श्रुतौ एतयोरपि किं देवयानपितृयानरूपमार्गपरामर्श: उत विद्याकर्मणोरिति । पूर्वपक्षस्तु । छान्दोग्ये पञ्चमे "तेऽचिर्षमभिसम्भवन्ति' (छां.5-10-1) "ते धूममभिसम्भवन्ति' (छां.5-10-3) इति पूर्वप्रकृतौ देवयानादिमार्गौ एतयोरित्युरवाक्ये परामृश्य नैकतरेण गच्छन्तीत्युक्त्या भूतानां गतौ भूतस्वातन्त्ऱ्यमवगम्यते । पुरुषप्रयत्नागोचरे न गच्छन्तीत्युक्त्ययोगात् । इतरव्यपदेशादित्यादौ जीवास्वातन्त्ऱ्ोक्तावपीशाधीनस्वातन्त्ऱ्यं सम्भवत्येव । जीवानां स्वातन्त्ऱ्े सवर्ेषामपि गतिप्राप्तिरिति तु साधनस्वातन्त्ऱ्ेऽपि समम् । अदृष्यादिना अतिप्रसङ्गादिवाणमिहापि समम् । तथाच गतावेव स्वातन्त्ऱ्ात् "मूले लब्धे नैव शाखाग्रं गन्तुमिच्छति' इति न्यायेन फल एव स्वातन्त्ऱ्ात् किं काम्यकर्मवैराग्येणेति । सिद्धान्तस्तु । "तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धातप उपासते तेऽर्चिषमभिसम्भवन्ति' "अथ य इमे ग्राम इष्यापूर्ते
दत्तमित्युपासते ते धूमम्' इति विद्याकर्मणोरपि पूर्वत्रप्रकृतत्वाद्देवयानादिमार्गयो: तत्साधनविद्याकर्मणोश्ऱ्च प्रकृतत्वाविशेषेऽपि "विद्यापथ: कर्मपथो द्वौ पन्थानौ प्रकीर्तितौ । तद्वर्जितस्त्रिधा याति तिर्यग्वा नरकं तम:' इति भाष्योक्तस्मृतिसमाख्यया विद्याकर्मणोरेवैतयोरित्युत्तरवाक्ये परामर्शेन साधन एव जीवानां स्वातन्त्ऱ्ेण फले तदभावात् साधने विधिसद्भावेन विध्यादिशास्त्रावैयर्थ्यायैव तत्रेश्ऱ्वर: स्वातन्त्ऱ्यं ददातीत्यभ्युपगमेन फलेऽपि स्वातन्त्ऱ्ापादनाप्रसक्ते: आवश्यकमेव काम्ये वैराग्यादीति ।। 14 ।।
।। ॐ न तृतीये तथोपलब्धे: ॐ ।। 15 ।।
।। ॐ स्मर्यतेऽपि च लोके ॐ ।। ॐ दशर्नाच्च ॐ ।। ॐ तृतीये शब्दावरोध: संशोकजस्य ॐ ।। ॐ स्मरणाच्च ॐ ।।
अत्र "तिर्यग्वा नरकं तम:' इति पूर्वोक्ततम:स्वरूपचिन्तात्सङ्गति: । अथपदोक्तं भगवद्द्वेषिफले तमस्यतिशयेन वैराग्यं न कार्यमुत कार्यमिति चिन्ता । तदर्थं तम: किमितरनरकवत् सुखदु:खमिश्रमुत दु:खैकस्वरूपमिति । तदर्थं किं दु:खं सुखाविनाभूतमुत नेति । तदर्थं यत्र दु:खं सुखं तत्रेति व्याप्तिग्राहकमानस्य तमस्यपवादकं प्रमाणं नास्त्युतास्तीति । पूर्वपक्षस्तु । यत्र दु:खं सुखं तत्रेति व्याप्ते: सार्वत्रिकसुखदु:खयोरतीन्द्रियत्वेन अप्रत्यक्षत्वेऽपि "यत्र दु:खं सुखं तत्र' इति भाष्योक्तस्मृत्या ग्रहणसम्भवेन दु:खयुक्ते तमसि इतरनरक इव सुखस्याप्यनुमानसिद्धत्वात् अपवादकमानस्य चादर्शनात् अन्यनरकापेक्षया नातिशयेन तमसि वैराग्यं विधेयमिति । सिद्धान्तस्तु । श्रुतिस्मृतिप्रत्यक्षानुमानार्थापत्तिभ्य: तमसो दु:खैकयुक्त्वावगमात् यत्र दु:खमिति स्मृते: तमोन्यनरकविषयत्वावश्यंभावाद्भाव्यं तत्राशयितवैराग्येणेति । तथाहि । न तम: सुखानुवृत्तं "केवलं ह्येवात्र दु:खम्' इति श्रुति: नाधेतमसिमग्नानां सुखलेशोऽपि कश्ऱ्चन' (भविष्यत्पर्व) इति स्मृति: । "नारायणप्रसादेन' (पाद्म) इत्यादि भाष्योक्तस्मृतिसिद्धं चतुर्मुखप्रत्यक्षं "अतिप्रिये यथा राजा' (ब्राह्म) इत्यादि स्मृतिसिद्धतया प्रबलम् । विप्रतिपन्न न दु:खवन्त: तथात्वेनेश्ऱ्वरानिष्यत्वात् यद्यथेश्ऱ्वरानिष्यं तत्तथा न भवति यथा शशो विषाणित्वेनेत्यनुमानं च । न चासिद्धि: । नैते सुखित्वेन ईश्ऱ्वरेष्या: अपि्रयत्वात् यो यस्याप्रिय: स सुखित्वेन तस्यानिष्य: यथा राजविरोधी राज्ञ: इत्यनुमानेन तत्सिद्धे: । अप्रियत्वं च द्वेषित्वादेव सिद्धम् । तथा "महातमस्त्रिधा प्रोक्तम्' इत्यादि (कौमर्) स्मृत्या तमस: स्वरूपश्रवणे श्रोतॄणां श्रवणजदु:खाधिक्यजन्यमूर्छाप्राप्त्यवगमेन तदन्यथानुपपत्तिरूपार्थापत्तिश्ऱ्चेति ।। 15 ।।
।। ॐ तत्स्वाभाव्यापत्तिरुपपत्ते: ॐ ।। 16 ।।
अस्त्वेव दु:खहेतावनिष्यादौ तत्फलेच वैराग्यं न तु काम्यकर्मणि । तत्फलेच सुखहेतुत्वात् सुखरूपत्वाच्चेति शङ्कनात्सङ्गति: । अथपदोक्तं काम्यकर्मादौ वैराग्यं न युक्तमुत युक्तमितिचिन्ता । तदर्थं कर्म महासुखहेतुरुत नेति । तदर्थं कर्मिण: स्वर्गादिगतौ "धूमो भूत्वाभ्रं भवति' (छां.5-10-5) इतयादिना श्रुतो धूमादिभाव: किं धूमादिदेवतैक्यतत्पदप्राप्त्यन्यतररूप: उत सादृश्यादिरूप इति । तदर्थं धूमो भवतीत्यादिसामानाधिकरण्यं किं मुख्यमुत सादृश्यादिरूप इति । तदर्थं धूमो भवतीत्यादिसामानाधिकरण्यं किं मुख्यमुत सादृश्यादिना गौणमिति । तदर्थं बाधकं नास्त्युतास्तीति । पूर्वपक्षस्तु । देवतैक्यपदप्राप्त्योरन्यतर एव धूमादिभाव: । सामानाधिकरण्यश्रुतेर्मुख्यार्थत्यागे बाधकाभावात् । देवताभि: स्नेहादिवशेन ताभिरेव विद्याप्राप्यस्यापि स्वपदस्य दातुमपि शक्यत्वेन कर्मिरस्तत्पदप्राप्तेरसम्भावितत्वाभावाच्च सुखहेतुत्वान्न कर्मणि वैराग्यमिति । सिद्धान्तस्तु । लोकेऽन्यस्यान्यभावादृष्ययापि अत्यन्तभिन्नस्य कर्मिणो देतैक्यस्यायोगात्तत्पदस्य च नियताधिकारिभि: विद्ययैव गम्यतया युगपदनेककर्मिसमवायेऽनेकेषामेकपदप्राप्त्यनुपपत्त्या चासम्भवात् सामानाधिकरण्यश्रुतेर्मुख्यार्थत्यागावश्यंभावेन धूमादिभावप्राप्तिश्ऱ्च "तद्गतौ गतिरेव तु' (गारुड) इत्यादि स्मृत्युक्तदिशा देवतासादृश्यपरा वा तत्प्रवेशेन स्थानैक्यपरा वा नेयेति महासुखाहेतुत्वाद्युक्तं काम्यकर्मणि तत्फले च वैराग्यमिति ।। 16 ।।
।। ॐ नातिचिरेण विशेषात् ॐ ।। 17 ।।
पूर्वत्रागतौ कर्मिणो धूमादिभावश्ऱ्चिन्तित: अत्र तु आगतिरेव कियत्कालेनेति चिन्तनाद्वा कर्मिणो देवतास्वाभाव्यापत्तावपि तस्याश्ऱ्चिरकालीनत्वेनापि महासुखवत्त्वान्न कर्मणि वैराग्यमिति शङ्कनात्सङ्गति: । अत्राथपदोक्तं काम्यकर्मणि वैराग्यं च युक्तमुत युक्तमिति चिन्ता । तदर्थं तत्किं महासुखहेतुरुत नेति । तदर्थं आगमने कालक्लृप्तिर्नास्त्युतास्तीति । पूर्वपक्षस्तु । आगमने एतावति काल एवागन्तव्यमिति कालक्लृप्त्यभावेन "यथेतमाकाशम्' (काषायण) इत्यादिनागतौ बहुस्थानप्राप्तिश्रवणेन च तत्तद्देवतास्वाभाव्येन प्राप्तातिमहासुखत्यागेन शीघ्रमागमने हेत्वभावाच्च । कल्पान्तमेव मध्येर्मागमवस्थाने प्राप्तसुखहेतौ न कर्मणि वैराग्यं युक्तमिति । सिद्धान्तस्तु । "तद्य इह रमणीय चरणा अभ्याशो ह यत्ते रमणीयं योनिमापद्यन्ते' (छां.5-10-7) इत्यादिश्रुतौ "स्वर्गाल्लोकादवा नोति वत्सरात्पूर्वमेव तु' (नारदीय) इति स्मृतौ च आगतौ कमिर्ण: कालक्लृप्त्यवगमात् क्ल्प्त्यकालाधिकावस्थाने कारणाभावात् तस्येष्यत्वेऽपि जीवस्यास्वातन्त्ऱ्ात् । अन्यथा सर्वेषां दु:खाभावप्रसङ्गात् अतिचिरेणैवागमनमिति भाव्यं काम्ये कर्मणि वैराग्येणेति ।। 17 ।।
।। ॐ अन्याधिष्ठिते पूर्ववदभिलापात् ॐ ।। 18 ।।
।। ॐ अशुद्धमिति चेन्न शब्दात् ॐ ।।
पूवर्त्र श्रुत्यादिना कर्मिणोऽचिरेणागतिरित्युक्तिरयुक्ता तत्रैवानाश्ऱ्वासादिति शङ्कनात्सङ्गति: । अथपदोक्तं वैराग्यं न कार्यमुत कार्यमिति चिन्ता । तदर्थं निर्वेदमायादित्यादिवैराग्यविधायकश्रुतौ आश्ऱ्वासो न युक्त उत युक्त इति । तदर्थं वेद: क्वचित्फलव्यभिचारी उत नेति । तदर्थं "त इह व्रीहियवा' (छां.5-10-6) इति श्रुत्युक्तकर्मिरां व्रीह्यादिभाव: किं मुख्य: उत धूमादिभाववद्गौण: इति । गौणत्वेऽपि कर्मिणो दु:खप्रापकमस्त्युत नेति । पूर्वपक्षस्तु । न कार्यं वैराग्यं तद्विधायकश्रुतावनाश्ऱ्वासात् । तदनाश्ऱ्वासश्ऱ्च स्वर्गकामो यजेतेत्यादिवत् वेदैकदेशे सुखसाधनतयोक्ते कर्मणि कर्मफलमार्गे व्रीह्यादिभावावगत्या तच्छेदनकुट्टनादिना दु:खप्राप्तेरावश्यकता फलवैपरीत्येनानाश्ऱ्वासात् । व्रीह्यादिभावस्य धूमाधिभाववत् गौणत्वे व्रीह्यादिदु:खिजीवै: सहावस्थानेन यागादिकर्मण: पशुहिंसारूपतया पापत्वेन कर्मिणो दु:खप्रापकसत्त्वेन च दु:खावश्यंभावाच्चेति । सिद्धान्तस्तु । कर्मिण: श्रुतव्रीह्यादिभावस्य जीवान्तराधिष्ठितव्रीह्यादिदेहप्रवेशरूपतया पूर्ववद्गौणत्वात् दु:खिजीवेन सहावस्थानेऽपि कर्मणो हिंसारूपत्वेऽपि "वायव्यं श्ऱ्वेतमालभेत' इत्यादि वेदविहितत्वेन अपापतया दु:खाप्रापकत्वेन हेत्वभावेन कर्मिणो दु:खाप्राप्तेर्न क्वापि वेदानाश्ऱ्वास इति भाव्यं वैराग्येणेति ।। 18 ।।
।। ॐ रेतस्सिग्योगोऽथ ॐ ।। 19 ।।
पूर्वत्रान्याधिष्ठिते व्रीह्यादिदेहे इव स्वर्गादागतस्य कर्मिण: पितृदेहे प्रवेशसाधनात्सङ्गति: । अथपदोक्तं कर्मादावतिवैराग्यमनपेक्ष्यमुतापेक्ष्यमिति चिन्ता । तदर्थं स्वर्गादागतस्य कर्मिण: पितृप्रवेशो नास्त्युतास्तीति । तदर्थं "योवा रेतस्सिञ्चति तमेवानुप्रतिशति' इति श्रुति: दुर्बला "स्वर्गादवाग्गतश्ऱ्चापि मातुरेवोदरं व्रजेद्' इति वचनं प्रबलमुत विपरीतमिति । तदर्थं वचनं सयुक्तिकमुत नेति । तदर्थं कर्मिण: पितृप्रवेशे प्रयोजनं नास्त्युतास्तीति । पूर्वपक्षस्तु । कर्मिण: पितृप्रवेशे फलाभावात् रेतसो देहपरिणामायापेक्षितत्वेऽपि सेकानन्तरं मातृप्रवेशेऽपि तदुपपत्ते: मातुरेवोदरं व्रजेदिति वचनात् सयुक्तिकसाधारणवचनबादिततया पितृप्रवेशश्रुते: दौर्बल्येन पितृप्रवेशाप्रापकत्वात् नास्ति पितृप्रवेश इति नापेक्ष्यमतिवैराग्यमिति । सिद्धान्तस्तु । दहेक्ल्प्त्यथर्मावश्यकतया रेतस उक्तविधया अन्यथोपपत्तावपि "ईशक्ल्प्त्यैव पितरं प्रविष्यो याति मातरम्' इति ईशक्लृप्तिवचनेन "रेत:सिचमेवानुप्रविशति' (कौण्ठरव्य) इति श्रुत्या च पितृप्रवेशसिद्धे: मातुरेवेत्येवकारस्य अयोगव्यवच्छेदकत्वेनोपपत्त्या सयुक्तिकत्वाभावेन च पितृप्रवेशाप्रतिबन्धकत्वादस्ति पितृप्रवेश इति भाव्यं कर्मादावतिवैराग्येणेति ।। 19 ।।
।। ॐ योनेश्शरीरम् ॐ ।। 20 ।।
पूर्वसूत्रे अथपदोक्ता पितृद्वारा मातृप्राप्तिरेवात्र साध्यत इति सङ्गति: । अथपदोक्तकर्मादावतिवैराग्यं अनावश्यकमुतावश्यकमिति चिन्ता । तदर्थं कर्मिणो देहप्राप्तौ आयासो नास्त्युतास्तीति । तदर्थं पितृदेहाद्योनिद्वारा मातॄदरं प्राप्य स्वदेहं प्रा नोति उत तथैवा नोतीति । तदर्थमुक्तक्रमादन्यथापि जन्म सम्भवत्युत नेति । पूर्वपक्षस्तु । उक्तक्रमादन्यथापि कर्मिणरो जन्म सम्भवति । तथाहि । पितुस्सकाशादेव तस्मिन् बहिरेव वा मान्धातृद्रोणादेरिव जन्मसम्भवेन मातुरुदरप्राप्तेरनावश्यकत्वात्तदावश्यकत्वे वा "देहगर्भस्थितं क्वापि प्रविशेत्स्वर्गतो गत:' इत्युक्ते: । आस्तिकादेरिव संस्पर्शद्वारा पितुस्सकाशान्मातुरुदरप्रवेशसम्भवेन योनिप्राप्तेरनावश्यकत्वात् । "देहं गर्भस्थितम्' इति वचनान्मात्रुपभुज्यमानान्नादिना मातॄदरप्रवेशसम्भवात् मातृदेहस्थरेतसैव देहपरिणतिसम्भवाच्च पितृप्रवेशस्यापि व्यर्थत्वात् । अतो जन्मप्राप्तावत्यायासाभावात् नातिवैराग्येण कृत्यमिति । सिद्धान्तस्तु । पितृप्रवेशपूर्वं योनिद्वारा मातॄदरप्रवेशेनैव कर्मिणा जन्म नान्यथा । "दिव: स्थास्नुं गच्छति स्थास्नुभ्य: पितरं पितु: मातुश्शरीरम् शरीरेण जायते' इत्यादि (पौष्याणण) श्रुते: । देहं गर्भस्थितमित्यादे: योगाराधितभगवत्प्रसादलब्धसामर्थ्यातिशयवतां महात्मनां जन्मविषयमिति कर्मिणो देहप्राप्तौ आयाससद्भावात् भाव्यं कर्मादावति वैराग्येणेति ।। 20 ।।
।। इति श्रीराघवेन्द्रयतिकृतायां न्यायमुक्तावल्यां तृतीयाध्यायस्य प्रथम: पाद: ।।
।। अथ द्वितीय: पाद: ।।
यद्दार्ढ्याथर्ं वैराग्यमुक्तं पूर्वपादे या च वक्ष्यमाणोपासनाङ्गं तादृशभक्त्यर्थमत्रपादे भगवन्महिमोच्यत इति पूर्वोत्तरपादसङ्गति: । एतत्पादार्थश्ऱ्च भाष्यादितो व्यक्त: ।
।। ॐ सन्ध्ये सृष्यिराह हि ॐ ।। 1 ।।
।। ॐ निर्मातारं चैके पुत्रादयश्ऱ्च ॐ ।। ॐ मायामात्रं तु कात्स्नर्येनानभिव्यक्तस्वरूपत्वात् ॐ ।। ॐ सूचकश्ऱ्च हि श्रुतेराचक्षते च तद्विद: ॐ ।।
पूर्वत्र योनेश्शरीरमिति जीवानां जन्मावगताववस्थावर्णनस्य अवसरप्राप्तत्वात् तत्रावस्थानां मध्ये "योनिमन्ये प्रपद्यन्ते' इत्यदिकाठकश्रुतौ (2-2-7) योनिप्राप्त्यनन्तरं स्व नोक्त्या तदनुरोधेनात्रादौ स्व नार्थतत्प्रतीतिनियन्तृत्वरूपो महिमा हरेर्निरूप्यते । अत्र जिज्ञासासूत्रस्थाथशब्दोक्ताधिकारिविशेषणीभूता हरिभक्ति: न कार्योत कार्येति चिन्ता । तदर्थं स्व नोऽर्थ: किमीशानधीन उत तदधीन इति । तदर्थं किमसत्य उत सत्य इति । तदर्थं किं सत्यत्वे साधकं नास्ति बाधकं चास्ति उत विपरीतमिति । पूर्वपक्षस्तु । नेशाधीन: स्व नार्थ: तस्यासत्त्वात् । असतोऽपि शशविषाणादेरसत्यत्वेन ईशाधीनत्वस्य एतेन सर्वे व्याख्याता इत्यत्रोक्तावपि घटादितौल्येन योगक्षेमादिरूपतदधीनत्वस्य असतोऽनुपपत्ते: । न चासिद्धो हेतु: । सत्यत्वे साधकाभावाद्बाधकबाहुल्याच्च स्व नार्थानां सत्यत्वे नित्यत्वमनित्यत्वं वा वाच्यम् । उभयथापि प्रागूर्ध्वमुपलम्भप्रसङ्गात्् । तदैवोत्पत्तिविनाशवत्त्वं तु प्रमाणाभावादयुक्तम् । कर्त्रुपादाननिमित्तानामभावाच्च । बाह्योपादानादिकारणकत्वे कपालाद्युपलम्भापाताच्च । तदजन्यत्वे च शुक्तिरूप्यवदसत्त्वस्य दुर्वारत्वाच्च । असन्त: एव गजादय: स्व ने दृष्या इति बाधबोधयोगाच्च । एवं बाधकान्तराणि टीकोक्तानि ज्ञेयानि । सिद्धान्तस्तु । "यदा कर्मसु काम्येषु स्त्रियम्' (छां.5-2-9) इत्यादि श्रुतिस्मृतित: स्व नार्थानां शुभादिसूचकत्वप्रमाणेन शाकुनवत्सत्यत्वात् । "न तत्र रथा:' (ब्र.6-3-10) इत्यादिश्रुत्या प्रागसतामेवार्थानां स्व न एव दृष्ये: । सृष्येश्ऱ्चोक्त्या तदैवोत्पत्तिनिरोधयो: सम्भवेन प्रागूर्ध्वमुपलम्भप्रसङ्गात् । "य एषु सुप्तेषु' इति (का.5,7) श्रुतौ "एतस्माद्धयेव पुत्रो जायते' (गौपवन) इति श्रुतौ च स्व नार्थानां ईशकर्तृत्वस्योक्त्या कर्त्रभावचोद्यस्य तथा बाह्यार्थघटादिवत् स्फुटमनभिव्यक्तत्वयुक्त्या "मनोगतांस्तु संस्कारान्' इति (ब्रह्माण्ड) स्मृत्या च बाह्योपादानविलक्षणमानसवासनोपादानकत्वावगमेन निरुपादानकत्वचोद्यस्य चानवकाशात् । स्व नानां
जाग्रत्पदार्थत्वस्यासत्त्वेन बाधोपपत्तेश्ऱ्च साधकसद्भावाच्च स्व नार्था: सत्या एवेति स्व नार्था: तद्धिय: तत्तिरोधानं चेति सर्वमीशाधीनमिति । फले तु पूर्वाध्यायोक्तसवर्नियन्तृत्वरूपमहिमाक्षेपादिद्वारा भक्त्याक्षेपसमाधी । सूत्रक्रमस्तु । बाधकनिरास एव साधकं सुखस्थं भवतीति त्रिसूत्ऱ्या बाधकानि निरस्यान्ते साधकोक्ति: । अत एव दोषपरिहाराय सूत्रमिति टीका । तत्रापि सृष्यौ सिद्धायां कर्त्रादिकारकचिन्ता । तत्रापि कर्तु: प्राधान्यमित्यादिरूह्य: ।। 1 ।। N.M-8
।। ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ ।। 2 ।।
अस्तु स्व नपदार्थानामुक्तदिशा ईशायत्तत्वं न तु तद्धीतत्तिरोधानयो: । तयो: बाह्यार्थाज्ञानज्ञानाभ्यामेव सिद्धे: इति शङ्कनात्सङ्गति: । अत्राथपदोक्तभक्तिर्न कार्या उत कार्येति चिन्ता । तदर्थं प्रकृताविर्भावतिरोभावौ किमीशाधीनौ उत तदनधीनाविति । तदर्थं बाह्यार्थाज्ञानज्ञाने किं स्व नधीतिरोधानयो: स्वतन्त्रहेतुरुत निमित्तमात्रमिति । पूर्वपक्षस्तु । स्वा नाविर्भावतिरोधानयो: बाह्यार्थज्ञानज्ञानाधीनानुभवेन तदाविर्भावतिरोधानयो: बाह्यार्थाज्ञानज्ञानाभ्यामेवोपपत्तौ ईश्ऱ्वरेण कृत्याभावात् । नहि बाह्याथर्ज्ञानाज्ञानयो: स्वनिबन्धनस्वा नार्थधीतन्निवृत्त्योरन्यापेक्षास्तीति । सिद्धान्तस्तु । यथा बन्धमोक्षयो: ईशाज्ञानज्ञाननिबन्धनत्वप्रसिद्धावपि तयोर्जडत्वेनास्वतन्त्रतया बन्धको भवपाशेन भवपाशाच्च मोचक इत्यादि वचनेनेशाधीनावेव बन्धमोक्षौ तथा बाह्यार्थज्ञानाज्ञाननिमित्तकतया प्रतीयमानावपि स्वा नाविर्भावतिरोभावौ ईशाधीनावेव । ज्ञानाज्ञानयोरस्वातन्त्ऱ्ात् । ते तु निमित्तमात्रम् । "स्वा नादिबुद्धिकर्ता च तिरस्कर्ता स एव च' इत्यादेरिति । टीकायां तु सूत्रे बन्धविपर्ययाविति द्विवचनस्य स्व नादि बुद्धिकर्तेति स्मृत्युक्तेश्ऱ्च स्वारस्यानुरोधेन आविर्भावस्य अज्ञानाधीनत्वनिरासकाधिकरणान्तरस्याभावेन तिरोधानस्य ज्ञानाधीनत्वनिरासकाधिकरणान्तरस्याभावेन तिरोधानस्य ज्ञानाधीनत्वनिरासकन्यायसमानविषयत्वात् आद्यसूत्रादौ तिरोहितमित्यस्योपलक्षणतया सिद्धान्ते स्वा नाविर्भावतिरोभावयो: साम्येन द्वन्द्वेन निर्देशाद्यथाश्रुतं सूत्रानुरोधेन तिरोधानमात्रप्राधान्येन पूर्वपक्षोक्तावपि द्वयोस्साम्येनैव पूर्वपक्षोऽभिमत इत्यविरोध: ।। 2 ।।
।। ॐ देहयोगाद्वासोऽपि ॐ ।। 3 ।।
षष्ठे काण्वश्रुतौ ज्योतिर्ब्रह्मणो "स वा एष एतस्मिन् (सम्प्रसादे) रत्वा चरित्वा' (बृ.6-3-15) इत्यादिना स्व नोक्त्यनन्तरं जाग्रदुक्त्या स्व नाविर्भावादिचिन्तानन्तरं अत्र जाग्रच्चिन्तनात्सङ्गति: । अत्र जाग्रदर्थानां स्वा नार्थवन्न मिथ्यात्वं बहुजनविवादाभावात् बाधकाभावात् । अल्पजनविवादस्य "ना भाव उपलब्धे: (ब्र.सू.2-2-28) "वैधर्म्याच्च न स्व नादिवत्' (ब्र.सू.2-2-29) इत्यत्र निरासात् । अत्र भगवदधीनतामात्रं चिन्त्यते । देहाभिमानादिनावस्थितिरूप जाग्रदवस्था अहरादिकालाधीनेति प्राप्ते पूर्ववदेव कालस्यास्वातन्त्ऱ्ादीशाधीनैवेति सिद्धान्त: । विशेषशङ्का तु कालास्वातन्त्ऱ्यबुद्धे: बाधकाभावेन भ्रमत्वायोगात् न निमित्तमात्रपरत्वमिति । परिहारस्तु "स एव जागरितास्थापयति' इत्यादिश्रुतिबलान्निमित्तमात्रपरत्वमिति । फले तु पूर्ववत् ।। 3 ।।
।। ॐ तदभावो नाडीषु तच्छतरात्मनि हि ॐ ।। 4 ।।
पूर्वत्र स्व नजागरणयो: कालादेरस्वातन्त्ऱ्ेणेश्ऱ्वराधीनत्वोक्तौ अवशिष्यसुप्तेरपि पूर्वन्यायेनेशाधीनत्वसिद्धौ अत्रेशस्य सुप्तजीवप्राप्यत्वलाभाय सुप्तिस्वरूपमेव निरूप्यते । अत्र जीवस्य सुप्ति: नाडीपरमात्मनोरन्यतरत्र उतोभयत्रेति चिन्ता । तदर्थं "सता सौम्य तदासम्पन्न:' (छां.6-8-1) इति च श्रुतिद्वयमुभयत्र सुप्तिव्यवस्थापकं न भवत्यथ भवतीति । तदर्थमुभयत्र सुप्तिविरुद्धोत नेति । तदर्थं आद्ये तच्च किं परमात्ममुत नाड्यामिति तदर्थं नाड्यां सुप्तौ औत्तरिकानुस्मृतिर्न युक्तोत युक्तेति । तदर्थं सा किं सौषुप्तिकसुखाद्यनुभवजन्यस्मृतिरूप उत दु:खाभावानुमितिरूप इति । यद्याद्य: पक्ष: तदा सुखानुस्मृतिसिद्धसौषुप्तिकसुखैकानुभवस्य ईशादन्यत्रस्थितौ स्व नादाविवायोगात्परमात्मनीति फलम् । यद्यन्त्य: तदा सुप्तौ सुखानुभवस्यैवाभावेन नाड्यामेवेति फलम् । पूर्वपक्षस्तु । उभयत्र सुप्तेर्विरुद्धत्वेन श्रुतिद्वयस्योभयत्र सुप्तिव्यवस्थापकत्वाभावात् अन्यतरत्रेत्यवश्यं वाच्यम् । सुप्तिकालस्याज्ञानेन पक्षीकरणायोगात् अनुमानानुदयेन "एतावन्तं
कालं सुखमहमस्वाप्समित्यस्य स्मृतित्वेन तत्सिद्धसुखैकानुभवस्य भगवतोऽन्यत्रावस्थाने जाग्रदादाविवायोगात् परामात्मन्येवेति । सता सौम्य तदा सम्पन्नो भवतीति श्रुतेश्ऱ्च । नच नाडीषु सुप्तो भवतीति श्रुतिविरोध: प्राचीनश्रुतेस्सयुक्तिकत्वेन प्राबल्यादिति । सिद्धान्तस्तु । नित्यनिर्दोषतया प्रमाणभूतयोरुक्तश्रुत्यो: साक्षादसाक्षात्त्वाभ्यां नाडीस्थपरमात्मनीति व्यवस्थया विरोधाभावे सम्भवति अप्रामाण्यायोगात् सुखैकानुभवस्य चोपपत्ते: नाडीस्थपरमात्मन्येवेति । फले तु श्रुत्याद्यवस्थाद्वारा भक्त्यादिसाधनशास्त्रानास्थातन्निरासमुखेन भक्त्याक्षेपसमाधी । टीकायां त्वन्यतरत्रेति पक्षं सिद्धवत्कृत्य परमात्मनि नाडीषु वा इत्येतत्संदिह्य वाद्यन्तरपक्षनिरासाय नाड्यामेति पक्षं व्युदस्य परमात्मन्येवेति पूर्वपक्षव्याजेन स्थापयित्वा उभयत्रेत्येव सिद्धान्तितम् ।। 4 ।।
।। ॐ अत: प्रबोधोऽस्मात् ॐ ।। 5 ।।
अत्र प्रागुक्तसुप्तप्राप्यत्वहेनैव सिद्धान्तकरणात्सङ्गति: । प्रकृतसुप्तप्रबोध: किं क्वचित् भेरीताडनादि हेत्वन्तराधीन: उत सर्वत्रेशैकाधीन इति चिन्ता । क्वचित् भेरीताडनादि हेत्वन्तरदृष्ये: निमित्तमात्रकल्पकं नास्त्युतास्तीति । पूर्वपक्षस्तु । क्वचिद्भेरीताडनादि कारणान्तराणामप्युलम्भात्तत्रापि ईश्ऱ्वरकल्पने मानाभावेन कारणान्तराभावस्थले प्रबोधस्येशाधीनत्वेऽपि न कारणान्तरसद्भावस्थले तत्र तेषामेव स्वातन्त्ऱ्ोपपत्तौ निमित्तमात्रत्वकल्पने हेत्वभावादिति । सिद्धान्तस्तु । "एष एव सुप्तं प्रबोधयति' (कौण्डिण्य) इति सावधारणश्रुतिविरोधेन हेत्वन्तरारां निमित्तमात्रत्वात् सुप्तप्रबोधकोऽपि ईश्वर एव न तु कारणान्तरस्वातन्त्ऱ्यमिति । फले तु अथ पदोक्तभक्त्याक्षेपसमाधी एवेति ।। 5 ।।
।। ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्य: ॐ ।। 6 ।।
पूर्वत्र सामान्यत: स्व नाद्यवस्था ईशाधीनेत्युक्तम् । अत्र तु सर्वजनीना: सर्वकालीना अपि तदधीना इति चिन्त्यत इति सङ्गति: । स्व नाद्यावस्थाप्रेरकत्वेन प्रकृतो विष्णु: किं केषाञ्चित्कादाचित्कावस्थाप्रेरक: उत सर्वजीवानां सर्वकालीनावस्थाप्रेरक: इति चिन्ता । तदर्थं लोकदृष्यिर्नियामिका भवति उत नेति । तदर्थं राजादिलोकदृष्ययापवादकं मानं नास्त्युतास्तीति । पूर्वपक्षस्तु । केषाञ्चित्कादाचित्कावस्थाप्रेरको न सर्वजनीनसर्वकालीनावस्थाप्रेरक: लोके राजादौ खण्डेशत्वदर्शनात् । नच दृष्यिरप्रयोजिका । तथात्वे प्रत्यक्षसिद्धा ज्ञानकालभेरीताडनादि कारणापेक्षापि स्व नाद्यवस्थाप्रेरणेन स्यात् । नच "अन्यभावव्यावृत्तेश्ऱ्च' (ब्र.सू.1-3-12) इत्यादौ लोकदृष्यित्यागेनोक्ताणुत्वमहत्वस्त्रीत्वपुंस्त्वादिसहभाववत् "अल्पश्रुते:' (ब्र.सू.1-3-21) इत्यत्रोक्तव्योमांशवैलक्षण्यवत् "श्रुते:' (ब्र.सू.2-1-28) इत्यादौ निरंशस्याप्येकदेशेन प्रवृत्त्यादिवच्चास्तु लोकदृष्यित्यागे सर्वप्रेरकत्वमिति वाच्यम् । तत्राणोरणीयान् अस्थूलमनण्वित्यादि एषमेऽन्तर्हृदये ज्यायान् योऽसौ विरुद्धोऽविरुद्ध: इत्यादि प्रमाणवत् इह सर्वावस्थाप्रेरकत्वे मानाभावात् येन दृष्यित्याग: स्यादिति । सिद्धान्तस्तु । विष्णुरेव सर्वत्र सर्वजीवेन सर्वकालिकसर्वावस्थाप्रेरक: न तु क्वचिदन्योऽपि प्रेरक: । "एष ह्येव साधुकर्म कारयति' इत्यादि भाष्योक्त (कौशीतकी 3-8) श्रुतिबलेन "आत्मन एवोपास्यत्वोक्त्यन्यथानुपपत्त्या च अस्यैव सर्वप्रेरकत्वावगमात् । अन्यथा अन्यस्यापि क्वचित्प्रेरकत्वे श्रुताववधारणात् । नचैवं लोकदृष्यिविरोध: । श्रुत्यादिप्रमाणबलेन लोकदृष्यस्यापि लौकिकधेन्वादावदृष्यस्य कामधेन्वादाविवोपपत्तेरिति । फले तूक्त एव ।। 6 ।।
।। ॐ मुग्धेऽर्धसम्पत्ति: परिशेषात् ॐ ।। 7 ।।
एवं प्रधानावस्थानां चिन्तानन्तरं अत्रावान्तरावस्थाचिन्तनात्सङ्गति: । अत्र स्व नाद्यवस्थाचिन्ताप्रसङ्गसन्निधापितो मोह: किं स्व नाद्यवस्थान्यतमान्तर्भूत: उत ततोऽवस्थान्तरमिति । तदर्थं स किं भगवत्प्राप्तितदन्यत्रस्थित्योरन्यतररूप: उत ताभ्यामन्यादृश एवेति । तदर्थमन्यादृशत्वे मानं नास्त्युतास्तीति । यद्याद्यस्तदा अवस्थान्तरमिति व्यक्तम् । तथान्यतररूप इत्यत्रापि किमुक्तभगवत्प्राप्तिरूप: किं वा अन्यत्रस्थितिरूप इति चिन्ता । तदर्थं किमयं सुप्तिसधर्म स्व नजाग्रत्सधर्मेति । अत्रापि व्यक्तं फलफलिभाव: । अत्र टीकायामाद्यसन्देह: सिद्धान्तोक्तदिशा सुज्ञान इति प्रधानावस्थान्तरं नेति प्रदर्शनाय स्व
नादित्रितयान्यतमत्वं सिद्धवत्कृत्य मोहे ब्रह्मप्राप्तिरेव पृथगवस्थात्वादिति न्यायविवरणे जाग्रत्स्व नयो: पृथगवस्थादित्यर्थमुपेत्य तदनुगुणत्वेन संदेहपूर्वपक्षौ दर्शितौ । अत एव सिद्धान्ते मोहस्य अवस्थात्रयातिरिक्तत्वे भवेदेतदित्याद्युक्तमिति ज्ञेयम् । पूर्वपक्षस्तु । मोह: स्व नादित्ऱ्यवस्थान्तर्भूत एव न तु ततो रिक्त: मानाभावात् । ब्रह्मप्राप्तितदन्यत्रस्थित्यो: सुप्त्याद्यवस्थात्वेन ततो अन्यादृशस्थितेरभावेन अतिरिक्तत्वासम्भवाच्च । बाह्याथर्ाज्ञानसाम्येन सुप्त्याद्यन्तर्भावसम्भवाच्च । अन्तर्भावपक्षेऽपि न भगवदन्यत्रस्थितिरूपस्व नजाग्रदवस्थान्तर्भूत: । तयो: स्वा नबाह्यगजतुरगाद्यर्थज्ञानवत्वरूपत्वान्मोहस्य च तदुभयज्ञानशून्यसुप्तिसमानधर्मतया समग्रभगवत्प्राप्तिरूपसुप्त्यवस्थान्तर्भूत एवेति । सिद्धान्तस्तु । दु:खमात्रप्रतिस्मृतेरिति (वाराह) स्मृत्या दु:खात्मकालातिरिक्तविषयान्तरज्ञानशून्यरूपत्वेन सुखादिज्ञानोपेतसुप्त्याद्यन्तर्भावायोगात् मोहावस्थात्रयातिरिक्तावस्थैव दु:खैकानुभवत्वस्यैव भानत्वात् । न चातिरिक्तत्वासम्भव: । परमात्मविदूरत्वसामीप्यप्रवेशानां तदन्यत्रस्थितितत्प्राप्तिरूपाणां "हृदयस्थात्' (वाराह) इति स्मृत्यार्धप्रवेशस्य मोहत्वेनावश्यं वाच्यतया परिशेषप्रमाणसिद्धत्वादिति । फले तु अवस्थान्तरावस्थितजीवप्राप्यत्वरूपमाहात्म्याभावतद्भावाभ्यां भक्त्याक्षेपसमाधी । अत्र मोह: किं बाह्यकारणाधीन उत ईश्ऱ्वराधीन इति सन्देहे बलवदभिघातादिबाह्यकारणाधीनत्वान्नेशाधीन इति प्राप्ते "स एव च' इत्यत्रोक्त (ब्र.सू.3-2-9) सिद्धान्तन्यायेन ईशाधीन एव । बाह्यकारणदृष्यिस्तु "मूर्छाप्रबोधनं चैव तत एव प्रवर्तते' इति विशिष्यकौर्मस्मृत्या निमित्तमात्रविषयेत्यर्थस्य पूर्वन्यायेनैव सिद्धत्वात् नात्र तच्चिन्तनं कृतमिति ज्ञेयम् ।। 7 ।।
।। ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ।। 8 ।।
।। ॐ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॐ ।। ॐ अपि चैवमेके ॐ ।।
पूर्वत्र सर्वावस्थाप्रवर्तकत्वस्य हरेरुक्तौ इह तत्प्रवर्तकविश्ऱ्वादिरूपेषु भेदशङ्कानिरासात्सङ्गति: । प्रतिशरीरं जाग्रदादिस्थानेषु स्थितो विश्ऱ्वादिरूपी भगवान् किमन्योन्यं भेदवानुताभिन्न इति चिन्ता । तदर्थं किं तस्य भेदसाधकं भिन्नानेकस्थानत्वं कार्यकारणबद्धत्वादिभेदश्रवणठ च किं निरवकाशमुत गौणत्वादिना सावकाशमिति । पूर्वपक्षस्तु । अन्योन्यं भेदवानेव अक्षिकण्ठादिरूपभिन्नस्थानकत्वात् घटादिवत् । नच भिन्नस्थानकत्वं भेदरूपसाध्येन विना व्योमवदित्यत्रोक्तदिशा व्यो न इव वा हरेरुपपन्नमिति वाच्यम् । व्यो नीऽशतोऽनेकस्थानत्वसम्भवेऽपि हरेरनेकस्थानस्थितविश्ऱ्वादिरूपाणां "सप्ताङ्ग एकोनविंशतिमुख:' (मां.1-3) इत्यादिना प्रत्येकं समग्ररूपश्रवणेन व्योमवैषम्येण भेदसाध्येन विना हेतोरनवकाशात् । किंच "कार्यकारणबद्धौ तौ' (मां.2-2) इत्यादिना विश्ऱ्वादिरूपाणां जाग्रत्स्व नसुषुप्तिरूपकार्यबद्धत्वकारणबद्धत्वाबद्धत्वस्थूलभुक्त्वसूक्ष्मभुक्त्वादिरूपेण भेदव्यपदेशाच्चान्योन्यं भेदवानेव । नचायं व्यपदेशो भेदं विनापि हेत्वन्तरेणैव युक्त: कल्पकाभावात् हेत्वन्तरदृष्यश्ऱ्चेति । सिद्धान्तस्तु । अन्योन्यं तत्र तत्र स्थितरूपैरभिन्न एव भगवान् । "सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते' (ऐ.उ.3-2-3) सर्वेषु भूतेषु चक्षुरादिस्थानेषु एतमेकमेव पूर्णगुणमाचक्षते इति "एष त आत्मान्तर्याम्यमृत: (बृ.5-7-3) इति "अयमेव स: योऽयमात्मा' (बृ.4-5-1) इत्यादिभाष्योक्तश्रुतिषु तत्र तत्र स्थितभगवद्रूपाणां परस्परमूलरूपेण चाभेदकथनात् । "अमात्रोऽनन्तमात्रश्ऱ्च' इति (मां.4-7) श्रुतौ च भिन्नांशशून्य: पुनरनन्तांशश्ऱ्चेति विश्ऱ्वाद्यनन्तरूपाणां अभेदोक्तेश्ऱ्च । भेदानुमानस्य भेदप्रतिनिधिविशेषेण वा उक्तानेकश्रुतिबाधिततया अप्रामाण्येनैवोपपत्ते: । भेदव्यपदेशस्य च "भिन्नो भिन्नेषु संस्थिते:' (ब्रह्मतर्क) "ऐश्ऱ्वर्याद्रूपमेकं च सूर्यवद्बहुधेयते' इत्यादिस्मृत्या गोष्ठे गाव: एकीभवन्तीत्यत्रैक्योक्तिवत् व्याप्ते हरौ "अङ्गुष्ठमात्र: पुरुष: (का.2-1-12) इत्युक्तिवच्च स्थानभेदेनोपचारेण वा ऐश्ऱ्वर्यबलेन वा उपपत्ते: । तदुक्तमन्यत्र श्रुतिबलात्स्थानानां भेद: तस्याभेद एव' इति (न्या.वि) । फले तु भेदप्राप्तौ अनुग्राह्यानुग्राहकभावाद्यापत्त्या "स एव च' (ब्र.सू.3-2-9) इत्यत्रोक्तैश्वर्यनिरासद्वारा भक्त्याक्षेपसमाधी ।। 8 ।।
।। ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ।। 9 ।।
।। ॐ प्रकाशवच्चावैयर्थ्यम् ॐ ।। ॐ आह च तन्मात्रम् ॐ ।। ॐ दर्शयति चाथोऽपि स्मर्यते ॐ ।।
पूर्वत्रोभयलिङ्गमिति लिङ्गपदेन प्रकृतभगवद्रूपाणामत्र अप्राकृतत्वसाधनात्सङ्गति: । यदर्थं पूर्वत्र महिमोक्त: सा भक्ति: विष्णौ न युक्ताथायुक्तेति चिन्ता । तदर्थं तत्र माहात्म्यं न युक्तमुत युक्तमिति । तदर्थं रूपवत्त्वारूपवत्त्वयोर्दोषोस्त्युत नेति । तथा रूपित्वारूपित्वश्रुत्यो: किमेकविषयकत्वमुत भिन्नविषयकत्वमिति । पूर्वपक्षस्तु । भक्तिर्हरौ न युक्ता तस्य रूपित्वेऽरूपित्वे वा अङ्गीकृते दोषापातेन माहात्म्यायोगात् । रूपित्वे चैत्रवदनित्यत्वप्रसङ्गात् । "नात्माश्रुते:' (ब्र.सू.2-3-10) इत्यत्रोक्तनित्यदेहत्वस्यापि इहाक्षेपात् । "अरूपमव्ययम्' (का.3-15) इत्यादिश्रुत्यप्रामाण्यापाताच्च । अरूपित्वे च सौन्दर्यसुलक्षणत्वाद्ययोगात् । रुग्मवर्णमादित्यवर्णमित्यादिश्रुत्यप्रामाण्यप्रसङ्गाच्च । नच रूप्यरूपित्वश्रुत्योरप्राकृतप्राकृतविषयत्वेनाविरोधान्न कोऽपि दोष इति युक्तं कल्पकाभावादिति । सिद्धान्तस्तु । "ऐकात्म्यप्रत्ययसारम्' (मां.2-1) "आनन्दमात्रमजरम्' (चतुर्वेदशिखा) "आनन्दरूपममृतम्' (मु.2-2-8) इत्यादिभाष्योक्तश्रुतिस्मृतिबलेन ज्ञानानन्दाद्यात्मकदिव्यरूपश्रवणेन रूपश्रुतेस्तद्विषयत्वस्य च "भौतिकानीहरूपाणि भूतेभ्योऽसौ परो यत: । अरूपवानत:' (मात्स्य) इत्यादिस्मृत्या प्रकृत्याद्यतीतत्वहेतुना प्राकृतरूपहीने गृहान्तश्ऱ्चाक्षुषप्रकाशे सत्यपि बाह्यप्रकाशाभावेन प्रकाशो नेत्युक्तिवत् अरूपश्रुते: अप्राकृतविग्रहेऽपि हरौ प्राकृतरूपाभावविषयतयोपपत्ते: । अप्राकृतदिव्यविग्रहस्य च अनित्यत्वाद्यनापादकत्वात् सौन्दर्यादिसम्भवाच्च माहात्म्यवत्त्वात् युक्ता तत्र भक्तिरिति । फले तु भक्त्याक्षेपसमाधी ।। 9 ।।
।। ॐ अत एव चोपमा सूर्यकादिवत् ॐ ।। 10 ।।
यत्पूर्वनयद्वये भगवदंशानां "अमात्रोऽनन्तमात्र:' इतयन्तं ऐक्यकथनं यच्चारूपवदिति प्राकृतरूपराहित्यकथनं तदुभयमयुक्तम् । जीवस्य भगवदंशानां भेदाभेदात् प्राकृतरूपवत्त्वाच्चेति शङ्कनात्सङ्गति: । अथपदोक्तभक्तिरयुक्तोत युक्तेति चिन्ता । तदर्थं किं जीव: परमात्मना भिन्नाभिन्नो भिन्न एवेति । तदर्थं किं परमात्मना जीवानां समुदायसमुदायिभावोऽथ बिम्बप्रतिबिम्बभाव इति । तदर्थं प्रतिबिम्बत्वं किमुपाधिकृतत्वादिरूपमुत तदधीनत्वादिरूपमिति । आद्ये त्वनादिनित्यजीवानामौपाधिकप्रतिबिम्बत्वायोगेन समुदायित्वरूपतया समुदायरूपेश्ऱ्वरेण भेदाभेदौ औपाधिकभेदे सत्यपि स्वाभाविकस्वाभेदवति स्वस्मिन्निव भक्तिरयुक्तेत्याद्ये फलम् । अन्ते तु तदधीनत्वादिरूपप्रतिबिम्बत्वस्य जीवानां युक्तत्वेनात्यन्तभिन्ने हरौ भक्तिर्युक्तेति फलम् । पूर्वपक्षस्तु । पृथगुपदेशादित्यत्र जीवेशभेदोक्तावपि सर्वचेतनसमुदायस्येशत्वेन एकैकजीवस्य परमात्मना भेदाभेदेऽपि भेदाविरोधात् । औपाधिकभेदस्य च स्वाभाविकभेदकार्याप्रतिबन्धकत्वेन स्वाभिन्ने तस्मिन्भक्तिरयुक्तेति । न च भेदोऽसिद्ध: चेतनत्वादंशत्वान्मत्स्यादिवदिति तत्सिद्धे: । बिम्बप्रतिबिम्बभावस्तु औपाधिकोऽनादिनित्ययोर्जीवेशयोर्न युक्त इति । सिद्धान्तस्तु । जीवो नेशाभिन्न: तत्प्रतिबिम्बत्वात् । यो यत्प्रतिबिम्ब: स तेनाभिन्नो न भवति यथा सूर्यकादिरितयनुमानविरोधेन चेतनत्वादेरभेदासाधकत्वात् । नचासिद्धो हेतु: । जीवस्यापीश्ऱ्वरस्वरूपांशत्वे मत्स्यादिसाम्यापत्त्या ज्ञानैश्ऱ्वर्याद्यविशेषप्रसङ्गरूपयुक्त्या "रूपंरूपं प्रतिरूपो बभूव' (बृ.4-5-29) इति श्रुत्या "बहवस्सूर्यका यद्वत्सूर्यस्य सदृशा जले' इति स्मृत्या च तत्सिद्धे: । न चानादिनित्यस्यौपाधिकप्रतिबिम्बत्वायोग: । "पृथगुपदेशात्' (ब्र.सू.2-3-28) "सन्ध्ये सृष्यिराह हि' (ब्र.सू.3-2-1) "तद्गुणसारत्वात्' (ब्र.सू.2-3-29) इत्युक्तै: भिन्नत्वतदधीनत्वतत्सदृशैरेव धर्मै प्रतिबिंबत्वोपगमादिति ।। 10 ।।
।। ॐ अम्बुवदग्रहणात्तु न तथात्वम् ॐ ।। 11 ।।
पूर्वत्र बिम्बसादृश्यादिना जीवस्येशप्रतिबिम्बत्वोक्तौ तर्हि ज्ञानानन्दादिरूपसादृश्यरूपमुक्तेनिर्त्यसिद्धत्वान्न तदर्था भक्ति: कार्येति शङ्कोदयात्सङ्गति: । अत्र अथपदोक्तेश्ऱ्वरभक्ति: न कार्योत कार्येति चिन्ता । तदर्थं ईशज्ञानतत्प्रसादद्वारा ज्ञानानन्दादिब्रह्मसादृश्याभिव्यक्ते: श्रुतं फलत्वं न सम्भवत्युत सम्भवतीति । पूर्वपक्षस्तु । ज्ञानानन्दादिब्रह्मसादृश्यस्य "पुंस्त्वादिवत्त्वस्य' (ब्र.सू.2-3-31) इत्यत्रोक्तदिशा जीवस्वरूपतया नित्यसिद्धत्वात्तदभिव्यक्तेस्तु "अनुबन्धादिभ्य: (ब्र.सू.3-3-51) इति वक्ष्यमाणदिशा ज्ञानहेतुभक्तिफलत्वायोगात् । सुप्ताविव कदाचित् स्वयमेव सम्भवेन च
ईश्ऱ्वरापरोक्षज्ञानतत्प्रसादद्वारापि भक्तिफलत्वं तस्य न युक्तमिति फलाभावान्न कार्या भक्तिरिति । सिद्धान्तस्तु । सादृश्यस्य नित्यसिद्धत्वेऽपि ईषदभिव्यक्ते: भक्तिं विना सुप्तौ भावेऽपि सम्यगभिव्यक्तिरूपमुक्ते: "यमेवैष' (मु.6-3) इतयादिभाष्योक्तश्रुतिस्मृतिबलेन भक्तिसाध्यत्वात्तदर्थं भक्तिरवश्यं कायर्ेति ।। 11 ।।
।। ॐ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ ।। 12 ।।
।। ॐ दर्शनाच्च ॐ ।।
अत्र प्राक् फलहेतुत्वेन उक्तभक्ते: तदुपलक्षितत्वेन साधनजातस्य तरतमभावनिरूपणात्सङ्गति: । पूर्वसूत्रोक्तं भक्तयुपलक्षितभक्त्यादिसाधनजातं किं भक्तेष्वेकप्रकारमुतानेकप्रकारमिति चिन्ता । तदर्थं तत्फलतयोक्तानन्दादिब्रह्मसादृश्याभिव्यक्ति: सर्वत्रैकप्रकारा उतानेकप्रकारा इति । सैषानन्दस्येत्यादे: वैराग्यप्रशंसापरत्वेन आनन्दतारतम्ये मानाभावेन फलतारतम्यासिद्धया भक्तयादितत्साधनमपि भक्तेष्वेकप्रकारमेव फलवैषम्येऽपि साधनावैषम्ये बाधकाभावाच्चेति पूर्वपक्ष: । सिद्धान्तस्तु । सैषेतिश्रुते: वैराग्यप्रशंसादिपरत्वस्य तद्वाक्यवैयर्थ्यादिनाऽन्यत्र बृहद्भाष्यादिस्थलेषु भाष्यकारैरेव निरासान्न्यायामृतेऽपि (पृ.643-नि) खण्डितत्वात् सैषेत्यादिभाष्योक्तश्रुत्यादिसिद्धानन्दादिरूपफलतारतम्यान्यथानुपपत्त्या तत्त्साधनेषु तारतम्यमवश्यमभ्युपेयम् । अन्यथा विषमफलदातुरीश्ऱ्वरस्य वैषम्यादिदोषापातात् । स च नेत्युक्तं वैषम्यनये (ब्र.सू.2-1-35) । साधनस्योत्तमत्वेनेतिभाष्योक्तस्मृतिविरोधाच्चेति । आनन्दादिश्रुतेर्मुक्तपरत्वं च "अक्षरधियां तु' (ब्र.सू.3-3-34) इत्यत्राग्रे व्यक्तम् ।। 12 ।।
।। ॐ प्रकृतैतावत्वं हि प्रतिषेधति ततो ब्रवीति च भूय: ॐ ।। 13 ।।
पूर्वत्र श्रौतानन्दतारतम्यान्यथानुपपत्त्या तद्धेतुतारतम्यनिर्णय इवेहापि श्रुतावधिकव्यापारोक्त्यन्यथानुपपत्त्या पालनाख्यापारनिर्णयात्सङ्गति: । अथपदोक्तभक्तिरयुक्तोत युक्त इति चिन्ता । तदर्थं पालकाख्यगुणो हरेर्न युक्त उत युक्त इति । तदर्थं पालनं नाम कश्ऱ्चिद्वयापारो नास्त्युतास्तीति । पूर्वपक्षस्तु । सृष्यस्य वस्तुनो यावत्संहारं स्थिते: स्वत एव सिद्धे: संहारादिकर्तु: असंहाराद्यतिरिक्तो रक्षारूपो व्यापार एव नेति न पालकत्वं हरेर्युक्तमिति । सिद्धान्तस्तु । युक्तैव हरौ भक्ति: पालकत्वाख्यगुणवत्त्वात् । न चासंहारातिरिक्त: स नेति वाच्यम् । "नैतावदेनापरोन्यदस्त्युक्षा स द्यावा पृथिवी' इति (ऋ.10-31-8) श्रुतौ पूर्वत्र "अस्येदेषा सुमति: पप्रथाना' (ऋ.10-31-6) इत्यादिनोक्तसृष्यिसंहारकर्तृत्वस्य "नैतावद्' इत्यनेन तावन्मात्रत्वं निषिध्य "परोऽन्यदस्तीत्यादिना पालनाख्यव्यापारान्तरस्याप्युक्त्या अन्नादिदानेन पोषणादिरूपव्यापारान्तरस्य पालनस्य सम्भवात् सृष्यिं च पालनं चैवेति स्मृतेश्ऱ्चैवेति । फले तु व्यक्ते ।। 13 ।।
।। ॐ तदव्यक्तमाहहि ॐ ।। 14 ।।
।। ॐ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॐ ।। ॐ प्रकाशवच्चावैशेष्यम् ॐ ।। ॐ प्रकाशश्ऱ्च कर्मण्यभ्यासात् ॐ ।। ॐ अतोऽनन्तेन तथाहि लिङ्गम् ॐ ।।
पूर्वत्र जन्मादिसूत्रोक्तसृष्ययाद्यष्यके पालकत्वं प्रसाध्य अत्र स्वज्ञानदत्वमिह साध्यत इति सङ्गति: । अत्राथपदोक्तभगवद्भक्ति: न कार्योत कार्येति चिन्ता । तदथर्ं किमफलोत फलवतीति । सा किं ईशस्य व्यक्तत्वेऽव्यक्तत्वे चोभयथापि परमपुमर्थहेत्वीशापरोक्षहेतुरुत अव्यक्तत्वेऽपि ईश्वरप्रसादद्वारा तद्धेतुरिति । पूर्वपक्षस्तु । हरे: स्तम्भादिवत्प्रत्यक्षयोग्यत्वे स्तम्भादिप्रत्यक्षस्येव भक्तिं विनापि प्रत्यक्षत्वसम्भवात् अव्यक्तैकस्वभावत्वे धर्मादिरिव भक्त्यादिसाधनेनापि प्रत्यक्षत्वासम्भवात् अन्यथा तादृशस्यापि प्रत्यक्षत्वे समाराधनेनापि यक्षसाक्षात्कारवदीश्ऱ्वरसाक्षात्कारसम्भवात्
अग्न्यादिभूतानां स्थूलसूक्ष्मविशेषेण प्रत्यक्षाप्रत्यक्षत्ववन्मूलरूपेण अव्यक्तस्यापि गृहीतरूपेण प्रत्यक्षत्वसम्भवात् न भक्ति: अपरोक्षहेतुरिति व्यर्था सती न कार्येति । सिद्धान्तस्तु "अरूपमक्षरं ब्रह्म सदाऽव्यक्त:' इति (कौण्ठरव्य) श्रुत्या अव्यक्तैकस्वभावस्यापि "आत्मा वा अरे द्रष्यव्य: श्रोतव्य:' (बृ.4-4-5) इत्यादिश्रुतिबलेन भक्तिपूर्वकश्रवणाद्याभ्यासात्प्रसन्नेन अचिन्त्यशक्तिकेश्ऱ्वरेणैव तदापरोक्षस्य "नित्याव्यक्तोऽपि भगवानीक्ष्यते निजशक्तित:' इति (नारायणाध्यात्म) श्रुत्युक्तेन मोक्षस्य ज्ञानजप्रसादसाध्यत्वलिङ्गेन अव्यक्तत्वप्रत्यक्षत्वश्रुतिद्वयान्यथानुपपत्त्या च सिद्धत्वात् । "न तमराधयित्वापि कश्ऱ्चिद्वयक्तीकरिष्यति' (ब्रह्मवैवर्त) इति स्मृतिसिद्धमहत्प्रत्यक्षात् अव्यक्तत्वलिङ्गेन सूक्ष्मत्वानुमानात् भक्तिहीनाराधनेन "नासौ सूक्ष्मो न स्थूल:' इत्यादि (माण्डव्य) श्रुत्यादितो गृहीतरूपेण च ईशप्रत्यक्षत्वस्य अभावावगमात् भक्तिरेव श्रवणादियुक्ता भगवदपरोक्षहेतुरिति अर्थवती भक्तिरवश्यं कार्येति ।। 14 ।।
।। ॐ उभयव्यपदेशात्त्वहिकुण्डलवत् ॐ ।। 15 ।।
।। ॐ प्रकाशाश्रयवद्वा तेजस्त्वात् ॐ ।। ॐ पूर्ववद्वा ॐ ।। ॐ प्रतिषेधाच्च ॐ ।।
पूर्वत्र हरेरव्यक्तत्वे प्रत्यक्षत्वे च मानाभावेन अव्यक्तस्यापि व्यक्तत्वोक्तिवदिहापि गुणात्मत्वेऽपि गुणित्वे चोभयत्र मानाभावात् गुणात्मनोऽपि गुणित्वमिति कथनात्सङ्गति: । अथपदोक्ता हरिभक्तिर्न कायर्ोत कार्येति चिन्ता । तदर्थं तस्य गुणत्वं नास्त्युतास्तीति । तदर्थं गुणात्मनो हरे: गुणित्वं सम्भावनाप्रमाणाभ्यां हीनं युक्तिविरुद्धं चाथ विपरीतमिति । पूर्वपक्षस्तु । तदात्मके तद्वत्त्वस्य क्वाप्यदर्शनात् गुणरूपस्य हरे: गुणवत्त्वमसम्भावितं अत एव प्रमाणशून्यं च । हरिर्न गुणवान् गुणात्मकत्वात् यथा न स्व: स्ववान् यो यद्वान् स तदात्मको न यथा दण्डवान् चैत्र: इति वा इत्यादि युक्तिविरुद्धं च । नच गुणात्मकत्वमसिद्धं समवायाभ्युपगमाच्चेत्यत्र (ब्र.सू.2-2-13) समवायापाकरणेन "एकमेवाद्वितीयम्' (छां.6-2-1) इति गुणगुण्यादिभेदनिषेधेन तत्सिद्धे: । अतो गुणित्वाभावात् न हरौ भक्ति: कार्येति । सिद्धान्तस्तु । कुण्डलात्मकस्याप्यहे: विशेषबलात्कुण्डलित्ववत् प्रकाशात्मकस्याप्यादित्यस्य प्रकाशित्ववत् कालस्य पूर्वेणाभेदेऽपि पूर्व: काल: इति विशेषणविशेषभाववच्च गुणात्मनोऽपि हरे: गुणित्वं प्रतिनिधिविशेषबलान्नासम्भावितम् । "आनन्दं ब्रह्मणो विद्वान्' (तै.2-4) "अथैष परम: आनन्द:' इति गुणत्वगुणित्वोभयव्यपदेशरूपप्रमाणाच्च "शास्त्रयोनि' (ब्र.सू.1-1-3) नयन्यायेन युक्त्यगम्यतया "श्रुते:' तु इत्यत्रोक्तन्यायेन (ब्र.सू.2-1-28) युक्त्यविरुद्धं चेति हरौ भक्ति: कार्येति ।। 15 ।।
।। ॐ परमत: सेतून्मानसम्बन्धभेदव्यपदेशेभ्य: ॐ ।। 16 ।।
।। ॐ दर्शनात् ॐ ।। ॐ बुद्धयर्थ: पादवत् ॐ ।।
पूर्वत्रेशगुणानां तदात्मकत्वं तद्धर्मवत्त्वं चोक्तम् । इह तु अलौकिकत्वं लौकिकशब्दवाच्यत्वं चोच्यत इति सङ्गति: । अथपदोक्ता हरावतिशयितभक्ति: न कार्योत कार्येति चिन्ता । तदर्थं तदीयगुणजातं लौकिकमुतालौकिकमिति । तदर्थं तस्यालौकिकत्वे ज्ञानानन्दादितत्तत्पदवाच्यत्वं अयुक्तमुतयुक्तमिति । पूर्वपक्षस्तु । घटविलक्षणो घटपदवाच्यत्वादृष्यया भगवदानन्दादौ च "आनन्दं ब्रह्मण:' इत्यादौ आनन्दादिपदप्रयोगेण तदन्यथानुपपत्त्याऽलौकिकत्वे मानाभावेन च तद्गुणाजातं लौकिकमेव । अन्यथा तत्र तत्पदप्रयोगायोग इति । सिद्धान्तस्तु । "एषसेतुर्विधृति:' (छां.8-4-1) "य एष आनन्द: परस्य' इति "यतो वाचो निवर्तन्ते' (तै.2-4) इति "एतस्यैवानन्दस्यान्यानि अन्यज्ज्ञानं परस्य च' इति "अदृष्यमव्यवहार्यमव्यपदेश्यम्' (कौण्डिण्यश्रुति) इत्यादौ ब्रह्मानन्दादिगुणेषु लौकिकानन्दादावसम्भाव्यमानसेतुत्वोन्मानत्वशब्दितपूर्णत्वबिम्बत्वलोकविलक्षणादृष्यत्वाव्यपदेश्यत्वादिधर्माणां उक्त्या अलौकिकत्वावश्यम्भाविनि तत्तच्छब्दप्रयोगस्य जीवेश्ऱ्वरयोरंशाशित्वज्ञापनार्थत्वेन प्रप्धिपादविलक्षणेऽपि जीवे पादोऽस्य विश्ऱ्वभूतानीत्यादौ पादशब्दप्रयोगस्य जीवेशगुणानां अर्थप्रकाशकत्वानुकूलवेद्यत्वादिज्ञापनार्थत्वेनोपपत्ते: । "अलौकिकोऽपि ज्ञानादि: तच्छब्देनैव भण्यते । ज्ञापनार्थाय लोकस्य' इति स्मृतेश्ऱ्च अलौकिकमेवेशगुणजातमिति युक्ता तत्रातिशयभक्तिरिति
। व्युत्पत्तिरेव पदानां तत्रायुक्तेति तु "कार्याख्यानाद्' इत्यत्र (ब्र.सू.3-3-19) निरसिष्यते ।। 16 ।।
।। ॐ स्थानविशेषात्प्रकाशादिवत् ॐ ।। 17 ।।
।। ॐ उपपत्तेश्ऱ्च ॐ ।।
प्रागुक्तबिम्बत्वहेतुकालौकिकत्वस्येह आक्षेपेण शङ्कोदयात्सङ्गति: । अथपदोक्तातिशयितभक्तिसिद्धयर्थं प्रागुक्तमीशगुणानां बिम्बत्वहेतुकमलौकिकत्वं न युक्तमुत युक्तमिति चिन्ता । तदर्थं भगवदानन्दादिगुणस्य विचित्रब्रह्माद्यानन्दादिबिम्बत्वमयुक्तमुत युक्तमिति । तदर्थं प्रतिबिम्बवैचित्ऱ्यमेव कारणमुतान्यदपीति । पूर्वपक्षस्तु । "वृद्धिह्रासभाक्त्वम्' इत्यत्रोक्तदि (ब्र.सू.1-2-20) ब्रह्माद्यानन्दादीनां मिथो विचित्रत्वात्तेषां चेशगुणप्रतिबिम्बत्वे तांश्ऱ्च प्रतीशगुणानां बिम्बत्वे च तद्वदेव वैचित्ऱ्यं स्यात् । "अदृष्यानियमाद्' इत्यत्र (ब्र.सू.2-3-51) अदृष्यादिवैचित्ऱ्येण प्रतिबिम्बवैचित्ऱ्योक्तावपि स्वाभाविकानन्दादेरादिमत्कारणकत्वायोग इति तस्यैवेहाक्षेपेण बिम्बवैचित्ऱ्यनिबन्धनत्वात्प्रतिबिम्बवैचित्ऱ्यस्य तथाच भगवद्रूपेषु गुणतारतम्यं च स्यात् । तच्च नेत्युक्तम् "न स्थानत:' (ब्र.सू.3-2-11) इत्यत्र । अतो बिम्बत्वाभावान्नेशगुणानामलौकिकत्वमिति न तत्रातिशयितभक्ति: कार्येति । सिद्धान्तस्तु । बिम्बवैचित्ऱ्याभावेऽपि सूर्यकान्तादिस्थानगुणेन सूर्यादिप्रतिबिम्बत्वेऽग्निजनकत्वादिवैचित्ऱ्यवत् ब्रह्माद्यनादिभक्त्यादिस्थानगुणवैचित्ऱ्येण बिम्बभूतभगवदैश्ऱ्वर्यवशेन च अविचित्रभगवदानन्दादिप्रतिबिम्बवैचित्ऱ्यस्योपपत्ते: । "ब्रह्मादिगुणवैशेष्याद्' (वाराह) इति "ऐश्ऱ्वर्यात्परमाद्विष्णो:' इति च (पाद्म) स्मृतेश्ऱ्च ईशगुणानामवैचित्ऱ्येऽपि बिम्बत्वं युक्तमित्यलौकिकत्वादतिशयिता भक्तिरावश्यकीति ।। 17 ।। N.M-9
।। ॐ तथान्यत्प्रतिषेधात् ॐ ।। 18 ।।
स्थानविशेषादित्यस्य बिम्बप्रतिबिम्बभावरूपहेतुसाधकतया "परमते' (ब्र.सू.3-2-32) इत्यनेनैकार्थेनाव्यवधायकत्वात् परमत इत्यत्रोक्तन्यायातिदेशकत्वात्सङ्गति: । अथपदोक्ता भक्ति: न कार्योत कार्येति चिन्ता । तदर्थं ब्रह्म व्यक्तमुताव्यक्तमिति । तदथर्ं ध्यानप्रतीतमेवे ब्रह्मोत तदन्यदिति । पूर्वपक्षस्तु । "फलमते' इति (ब्र.सू.3-2-39) वक्ष्यमाणदिशा ब्रह्मण एव फलप्रदत्वात् "तं यथायथा' इत्यादेरुपासितस्यैव फलदातृत्वात् ध्यातस्याब्रह्मत्वे तस्या: फलदातृत्वेन ध्यानवैयर्थ्यात् ध्यातृपुरुषबहुत्वप्रयुक्तध्येयबहुत्वस्य "न स्थानत:' इत्युक्तन्यायेन भेदहीनेऽपि हरौ तद्रूपाणां नानान्वेनोपपत्तेश्ऱ्च ध्यानकालप्रतीतमेव ब्रह्मेति भक्तिं विनापि पुरुषप्रयत्नेन व्यक्तत्वसम्भवान्न तत्र भक्तिरावश्यकीति । सिद्धान्तस्तु । "सेतून्मानत्वादिना' ईशगुणजातस्य लोकतोऽन्यत्ववत् "अरूपवदेव' इत्यादावुक्तदिशा अप्राकृतनिर्दोषसर्वसुलक्षणदिव्यस्वरूपविग्रहस्य हरे: नानादुर्लक्षणयुक्तध्यानप्रतीतेर्वस्तुत्वायोगेन तदन्यत्वावश्यंभावात् "तदेवे ब्रह्म त्वं विद्धि नेदं यदिदमुपासते' इति (तल.1-6) श्रुतौ ध्यानप्रतीतस्य ब्रह्मत्वं प्रतिषिध्य तदन्यदेव ब्रह्मेत्युक्तत्वाच्च ध्यानप्रतीतादन्यदेवाव्यक्तं ब्रह्मेति । नच फलाभावापात: । "पश्यन्ति परमं ब्रह्म' इति (ब्रह्मतर्क) स्मृत्या ध्यानकाले प्रतीतवासनामयप्रतिमास्थस्यैव फलप्रदत्वोपपत्ते: भक्तिरावश्यकीति ।। 18 ।।
।। ॐ अनेन सर्वगतमायामयशब्दादिभ्य: ॐ ।। 19 ।।
एवमव्यक्तत्वेऽपि हरे: प्रसन्नस्य अपरोक्षदानमिव स्वस्वातन्त्ऱ्यमपि अन्यस्य क्वचिद्दद्यादिति शङ्कनात्सङ्गति: । अथपदोक्तहरावेवातिशयितभक्ति: न युक्तोत युक्तेति चिन्ता । तदर्थं किं क्वचित् कदाचिदन्योऽपि कर्ता उत सर्वत्र सर्वदा सर्ववस्तुन: हरिरेव सृष्ययादिकर्तेति । तदर्थं स्वस्वातन्त्ऱ्यं कदाचिदन्यस्यापि ददात्युत नेति । पूर्वपक्षस्तु । हरे: कृष्णाद्यवतारेषु परप्रेष्यत्वाद्यसम्भावितविविधलीलादर्शनेन क्वचित्कदाचित् स्वातन्त्ऱ्यस्याप्यन्यस्य दानसम्भवात् हरेरेव सर्वसृष्ययादौ मानाभावाल्लोके राजादीनां खण्डेशत्वदर्शनात् देशान्तरादावन्योऽपि सृष्ययादिकतर्ेत्यनुमानसम्भवाच्च न हरावेवातिशयिता भक्तिर्युक्तेति । सिद्धान्तस्तु । "स्वातन्त्ऱ्ात्क्रीडते विष्णु: न हि स्वातन्त्ऱ्यमन्यगम् । करोति क्वापि'
(न्यायविवरण) इत्यादेरत्यक्तस्वातन्त्ऱ्यस्यैव क्रीडावगमादन्यत्र स्वातन्त्ऱ्यदानस्यासम्भावितत्वात् हरिरेव सर्वकर्तेत्यस्य "एष सर्वगत:' इत्यादिभाष्योक्तश्रुतिसिद्धत्वादनुमानस्य एतच्छतिबलेन कर्त्रन्तरे मानाभावाच्च हरिरेव सृष्ययादिकर्तेति युक्ता तत्रैवातिशयिता भक्तिरिति ।। 19 ।।
।। ॐ फलमत उपपत्ते: ॐ ।। 20 ।।
।। ॐ श्रुतत्वाच्च ॐ ।। धर्मं जैमिनिरत एव ॐ ।। ॐ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॐ ।।
एवं हरेरेव सर्वकर्तृत्वे तस्य वैषम्यादिदोषनिरासाय पूर्वोक्तदिशा कर्मसापेक्षत्वे तर्हि कर्मण एवास्तु फलप्रदत्वमिति वा कर्मण एव फलोदयात् प्रागुक्तं हरे: सर्वस्रष्यृत्वमयुक्तमिति वा शङ्कनात्सङ्गति: । अथपदोक्ता भक्ति: न कायर्ोत कार्येति चिन्ता । तदर्थं किं कर्मैव फलदातृहरिस्तत्र शेषभूत उत विपरीतमिति । तदर्थं "रातिर्दातु: परायणम्' इति (बृ.5-9-28) श्रुतं हरे: फलदातृत्वं गौणमुत मुख्यमिति । तदर्थं कर्मण: फलान्वयव्यतिरेकौ शेषित्वकल्पकौ उत शेषतयापि युक्ताविति । तदर्थं कर्मण: शेषित्वकल्पकं नास्त्युतास्तीति । पूर्वपक्षस्तु । ईश्ऱ्वर: फलदातेतिपक्षेऽपि कर्मणोऽवैयर्थ्याय वेदप्रामाण्याय हरे: वैषम्याद्यभावाय कृतकमर्ण: फलदृष्यया च कर्मापेक्षतवेऽवश्यंभाविनि फलस्य कर्मान्वयव्यतिरेकित्वात् तस्य च अन्यथासिद्धिकल्पकाभावात् "रातिर्दातु:' इति श्रुते: "एषह्येव साधुकर्म कारयति' (कौशी.3-8) इत्यादिना हरे: फलप्रदकर्महेतुतया गौणत्वेनाप्युपपत्ते: आप्ततमगौतमजैमिनिमतत्वाच्च कर्मैव प्राधान्येन फलप्रदं हरिस्तु कर्मशेष इति न तत्र भक्ति: कार्येति । सिद्धान्तस्तु । चेतनत्वयुक्त्या "पुण्येन पुण्यं लोकं नयति' (ष.प्र.3-7) इत्यादिविशेषश्रुत्या च "रातिर्दातु:' इति श्रुतेर्बलवत्तया गौणार्थत्वायोगात् ब्रह्मण: प्राधान्येन फलदातृत्वेऽपि कर्मण: कारणत्वेनान्वयव्यतिरेकयो: जैमिनिमतस्य चोपपत्ते: ब्रह्मैव फलप्रदं न कर्म किन्तु करणमेवेति युक्ता तत्र भक्तिरित ।। 20 ।।
।। इति श्रीमद्राघवेन्द्रयतिकृतायां न्यायमुक्तावल्यां तृतीयाध्यायस्य द्वितीय: पाद: समाप्त: ।।
।। अथ तृतीय: पाद: ।।
प्रागुक्ताथपदार्थवैराग्यभक्तिसाध्यज्ञानहेतुजिज्ञासाशब्दितोपासनास्मिन्पादे उच्यते । सा च द्वेधा सर्वसच्छास्त्रश्रवणमननरूपा ध्यानरूपा चेति । तत्राद्या ध्यानाङ्गत्वादादावुच्यते ।
।। ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ ।। 1 ।।
।। ॐ भेदान्नेति चेदेकस्यामपि ॐ ।। ॐ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च ॐ ।। ॐ सलिलवच्च तन्नियम: ॐ ।। ॐ दर्शयति च ॐ ।।
अत्र जिज्ञासाशब्दोक्ते सर्वसच्छास्त्रश्रवणमनने न कार्ये उत कार्ये इति चिन्ता । तदर्थं ब्रह्म स्वस्वशाखोक्तरीत्या ज्ञेयमुत सर्ववेदोक्तदिशेति । तदर्थं हरेज्ञर्ेयत्वे साधकं नास्त्युत बाधकं चास्ति अथ विपरीतमिति । तदर्थं शाखाभेद: प्रतिशाखं अर्थभेदोक्तिश्च निरवकाशा उत सावकाशेत । पूर्वपक्षस्तु । ब्रह्म तथा ज्ञेयमित्यत्र साधकाभावात् प्रत्युत वेदराशेरेकैकाधिकारिकत्वे काण्वादिशाखाभेदायोगस्य विज्ञानमानन्दं ब्रह्मेत्यादिरूपेण प्रतिशाखमर्थभेदोक्त्ययोगस्य एकैकस्य सर्वशाखाध्ययनाभावेन तदर्थं ज्ञानायोगस्य मन्दानां ब्रह्मज्ञानवैमुख्यप्रसङ्गरूपस्य च बाधकस्याभावात् तत्तच्छाखोक्तमेव तेन तेन ज्ञेयमिति नोक्तरूपश्रवणमनने कार्ये इति । सिद्धान्तस्तु । भगवज्ज्ञानसम्पादनार्थं प्रवृत्तानां "आत्मेत्येवोपासीत' (बृ.3-4-7) इत्येवमादिकाण्वादितत्तच्छाखागतविधीनां ज्ञानार्थं प्रवृत्तविध्यर्थमुक्तानां "अत्र ह्येते सर्व एकं भवन्तीति' (बृ.3-4-7) "न ह्यास्य कर्म क्षीयते' (बृ.3-4-15) इत्यादि तत्र विधिसमीपा नातार्थवादानां च तथा "स्वाध्यायोऽध्येतव्य:'
(तै.आ.2-15) "वेद: कृत्स्नोऽधिगन्तव्य: सरहस्यो द्विज्ञन्मना' इत्येवमादे: अर्थावबोधफलकस्वाध्यायाध्ययनविधेश्ऱ्च सर्वाधिकारिसाधारण्येन "सर्ववेदोक्तमार्गेण कर्म कुर्वीत' इति (समाचार) स्मृत्या सर्ववेदोक्तमार्गानुष्ठाने सर्वेषामधिकारावगमेन च तदन्यथानुपपत्तिरूपयुक्त्या च "सर्ववेदानधीत्य विचायर् च ज्ञातुमिच्छेन्मुमुक्षु:' इति (चतुर्वेदशिखा) श्रुत्या "सर्वान् वेदान् सेतिहासान्' इति (ब्रह्मतर्क) स्मृत्या चैकैकस्य सर्वशाखाध्ययनद्वारा तदुक्तार्थज्ञानाधिकारावगमेन साधकसद्भावात् "शाखाभेदो ह्यशक्तिज:' इति (समाचार) स्मृत्या काण्वादिशाखाभेदस्य अशक्तिहेतुकत्वेन प्रतिशाखमर्थभेदोक्ते: एकशाखस्थार्थभेदोक्तिवत् प्रसङ्गभेदादनुवादादिरूपतया सर्ववेदोक्तरीत्या ब्रह्म ज्ञेयमिति नियमस्य सर्वासामपां समुद्र एकायनमित्युक्तनियमस्येव "यथा नदीनां सलिलं शक्ये सागरगं भवेत्' इति (आग्नेय) स्मृत्या तत्तच्छक्त्यनुसारितयोपपत्त्या प्रागुक्तबाधकानामभावाच्च सर्ववेदोक्तदिशा यथाशक्ति सर्वसच्छास्त्रश्रवणमनने सर्वैरपि कार्ये एवेति । फले तु जिज्ञासाशब्दार्थैकदेशाक्षेपसमाधी ।। 1 ।। ।। ॐ उपसंहारोऽर्थाभेदाद्विशेषवत्समाने च ॐ ।। 2 ।।
।। ॐ अन्यथात्वं च शब्दादिति चेन्नाविशेषात् ॐ ।। ॐ न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॐ ।। ॐ संज्ञातश्ऱ्चेत्तदुक्तमस्ति तु तदपि ॐ ।।
वैयर्थ्यहेतुना प्रागुक्तयथाशक्तिसर्ववेदार्थपरिज्ञानस्याक्षेपेणेह शङ्कनात्सङ्गति: । अत्र पूर्वोक्तसर्ववेदोक्तपरिज्ञानं नावश्यकमुतावश्यकमिति चिन्ता । तदर्थं सार्वत्रिकगुणोपसंहारानुपसंहाराभ्यां वेदाथूभूतब्रह्मध्यानं न युक्तमुतमयुक्तमिति । पूर्वपक्षस्तु नोभयथापि ध्यानं सम्भवतीति । तथाहि । न तावदुषसंहृत्य ध्यानं कार्यमिति पक्षो युक्त: । सर्वपरिज्ञानस्य क्रमभावित्वेन शक्यत्वेऽपि सार्वत्रिकसर्वगुणोपसंहारेण ध्यानस्य विक्षिप्योक्तगुणानामेकबुद्धयुपारूढत्वरूपस्याशक्यत्वात् । सर्वाशक्यत्वेऽपि कांश्ऱ्चित्प्रति तथा ध्यानं शक्यमिति कल्पनस्य कल्पकशून्यतयाऽयोगात् । आत्मेत्येवोपासीतेति सावधारणात्मत्वमात्रोपासनविधिवाक्यविरुद्धं च परोवरीय:प्रभृतिप्रकरणभेदायोगात् । नाप्यनुपसंहृत्य ध्यानं कार्यमिति पक्ष: स्पष्यप्रमाणाभावात् । आत्मेत्येवेत्यत्र एवकारस्य अयोगव्यवच्छेदकयापि सावकाशतोपपत्ते: । नच परेवरीयोवैश्ऱ्वानरादिप्रकरणभेद एवानुपसंहारे मानमन्यथा स न स्यादिति युक्तम् । एकस्मिन्नपि प्रकरणे सर्वगुणोक्तेरपि सम्भवात् । अत उभयथापि ध्यानस्यायुक्तत्वात् यद्धयानाङ्गतया प्रागुक्तं शक्तानां सर्ववेदार्थपरिज्ञानं सम्पाद्यमिति तत्रान्यतरदपि व्यर्थत्वान्नावश्यसम्पद्यतामर्हतीति । सिद्धान्तस्तु । उभयथापि ध्यानं सम्भवतीति प्रागुक्तं द्विरूपमपि वेदार्थपरिज्ञानं युक्तमेवेति । तथाहि । सर्ववेदोक्तगुणानां दोषाभावानां चोपसंहारेण ध्यानस्य "उपास्य एक:' इति भाष्योक्त (भाल्लवेय) श्रुतौ "सर्वे गुणा: सर्वदैव ह्युपास्या:' (न्यायविवरणोक्त) इति श्रुतौ च विहितत्वात् अन्यथा विहितक्रियालोपेनानथर्प्रसङ्गात् । तथा छान्दोग्ये सप्तमे "ऋग्वेदं भगवोऽध्येमि' (छां.7-1-2) इत्यादिना नारदेनात्मन: सर्वविद्यावेदित्वमुक्त्वा "सोऽहं भगवो मन्त्रविदेन नात्मविद्' इति (छां.7-1-3) श्रुत्यन्तरे च "सोऽहं नामविदेव नात्मविद्' इत्युक्त्या च सर्वविद्यानां भगवन्नामत्वेन तद्गुणाभिधायकत्वान्यथानुपपत्तियुक्त्या च तथा ध्यानस्य सिद्धत्वात् गुणाभिधानस्य "अध्यायनाय प्रयोजनाभावाद्' इति (ब्र.सू.3-3-15) न्यायेन ध्यानार्थत्वात् "नाम वा एता: ब्रह्मण: सर्वविद्यास्तस्मादेक: सर्वगुणैविर्चिन्त्य' इति (कौण्डिण्य) श्रुतिसिद्धत्वाच्च । आत्मेत्येवेत्येवकारस्यायोगव्यवच्छेदकत्वेन अविरोधकत्वात् प्रकरणभेदगतेश्ऱ्च "पुरुषविद्यायाम्' (ब्र.सू.3-3-25) इत्यत्र वक्ष्यमाणत्वात् उपसंहृत्य ध्यानं कार्यमिति पक्षो युक्त: । तथानुपसंहृत्य ध्यानं कार्यमिति पक्षोऽपि युक्त एव उपसंहृत्य ध्यानस्य अशक्यत्वात्प्रकरणभेदात् । "स एष परोवरीयानुद्गीथ: स एषोऽनन्त:' (छां.1-9-2) इत्यादि प्रकरणेषु परोवरीयस्त्वादिकतिपयगुणस्यैवोक्त्या एकत्र सर्वगुणोक्तेरभावात् । तस्मादुभयथा ध्यानस्य प्रामाणिकत्वेन युक्तत्वादुक्तरूपवेदार्थपरिज्ञानमर्थवेदेवेति । फले तु पूर्वाक्षेपसमाधी ।। 2 ।।
।। ॐ प्राप्तेश्ऱ्च समञ्जसम् ॐ ।। 3 ।।
अत्र प्रागुक्तगुणोपसंहारानुपसंहारपूर्वकध्यानयोरधिकारिभेदेन युक्तत्वसमर्थनात्सङ्गति: । जिज्ञासाशब्दाभिमतं प्रागुक्तद्विरूपध्यानं अयुक्तमुत युक्तमिति चिन्ता । तदर्थं अधिकारिभेदेन व्यवस्था न सम्भवत्युत सम्भवतीति । तदर्थं व्यवस्थापकं नास्त्युतास्तीति । पूर्वपक्षस्तु । द्विरूपध्यानस्य विरोधेनैकस्यायोगात् अधिकारिभेदेन व्यवस्थितत्वस्य चात्रास्याधिकारोऽत्र
तस्येति व्यवस्थापकप्रमाणाभावेनायोगादयुक्तं द्विरूपध्यानमिति । सिद्धान्तस्तु । "यस्य यावद्गुणा: स्पष्यं प्रतिभासन्त्युपासने युगपत्स्वभुजौ यद्वद्धयायेत्तावत एव स:' इति (न्यायविवरणोक्त) श्रुत्युक्तदिशा "गुणैस्सर्वैरुपास्योसौ ब्रह्मण:' इत्यादि (भविष्यत्पर्व) स्मृत्युक्तदिशा च ध्यानकाले च युगपत्स्पष्यसर्वगुणप्रतीत्या सर्वगुणप्रतीतिरूपयोग्यताविशेषयुक्तब्रह्मतदन्याधिकारिभेदेन व्यवस्थोपपत्ते: युक्तं द्विरूपध्यानमिति ।। 3 ।।
।। ॐ सर्वाभेदादन्यत्रेमे ॐ ।। 4 ।।
अत्र पूर्वत्र सर्वगुणध्यानाध्यानायोरविरोधोक्तौ अत्रान्यतरवैयर्थ्यं निरस्यत इति सङ्गति: । अत्र जिज्ञासापदोक्तं पूर्वत्र प्रकृतं सर्वगुणध्यानं न कार्यमुत कार्यमिति चिन्ता । तदर्थं तस्य फलातिशयवत्त्वनिर्णयो न सम्भवत्युत सम्भवतीति । तदर्थं तन्निर्णायकं नास्त्युतास्तीति । पूर्वपक्षस्तु । मोक्षरूपफलस्यासर्वध्यानेनापि सिद्धे: सर्वगुणध्यानस्य असर्वगुणध्यानसाध्यफलातिशयवत्त्वनिर्णयस्य च निर्णायकाभावेनायोगात् व्यर्थं तन्न कार्यमिति । सिद्धान्तस्तु । सर्वगुणध्यानमसर्वगुणध्यानादधिकफलवत् ततो महत्त्वात् । यत्साधनं यतो महत् तत्ततोऽधिकफलवत् यथा अग्निष्योमादितो वाजपेयादिकमित्यनुमानेन "सम्पूर्णोपासनाद्ब्रह्मा सम्पूणर्ानन्दभाग्भवेत्' इत्यादि(पाद्म)स्मृत्या च फलातिशयवत्त्वनिणर्योपपत्ते: कार्यमेव सर्वगुणध्यानमिति ।। 4 ।।
।। ॐ आनन्दादय: प्रधानस्य ॐ ।। 5 ।।
पूर्वोक्ताधिकारिभेदेन फलभेदेन च द्विरूपोपास्तिरयुक्ता सर्वमुमुक्षुसाधारणोपास्तिमात्रानिर्णये तद्विशेषानवसरादिति शङ्कनात्सङ्गति: । जिज्ञासापदोक्तं भगवद्वयाख्यानं न युक्तमुत युक्तमिति चिन्ता । तदर्थं सर्वमुमुक्षुध्येयगुणनिर्णयो न सम्भवत्युत सम्भवतीति । तदर्थं सर्वध्येयगुणा: सङ्खयानिर्देशाभ्यां क्ल्प्ता: पृथक्सन्ति गुणा: । यदि भवेयु: तर्हि कियन्त: । यदि चतु:पञ्चषा: आनन्दादय इत्युच्येत तर्हि केषाञ्चित्समुच्चयेऽन्येषामपि समुच्चयप्रसङ्गेन नियमासम्भवात् । आनन्दादिभ्योऽन्य एवेत्यपि वक्तुं शक्यत्वेन एत एवेतिनिर्देशक्ल्प्त्यभावाच्चेति सर्वमुमुक्षुध्येयगुणनिर्णयाभावान्न भगवद्धयानं कार्यमिति । सिद्धान्तस्तु । सर्वेषां बहुगुणोपासनेऽशक्यत्वात् सर्वापेक्षितस्य निर्दोषानन्दानुभवरूपमोक्षस्य "तं यथा यथोपासते' इति श्रुत्या तदनुगुणोपासनसाध्यत्वाच्च निर्दोषत्वज्ञानानन्दानां त्रयाणामावश्यकत्वात् आत्मत्वशब्दितस्वामित्वस्य स्वसम्बन्धानुस्मरणस्य भगवत्प्रीतिहेतुत्वेन "आत्मेति तूपगच्छन्ति' (ब्र.सू.4-1-2) इति वक्ष्यमाणदिशावश्यकत्वात् "सच्चिदानन्द आत्मा' (ब्रह्मतर्क) इत्यादिस्मृतेश्ऱ्च सदादयश्ऱ्चत्वार एवेति सङ्खयानिर्देशाभ्यां क्ल्प्तिसम्भवेन ध्येयगुणनिर्णयात् युक्तमेव भगवद्धयानमिति ।। 5 ।।
।। ॐ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॐ ।। 6 ।।
चत्वार एवेति प्रागुक्तनियमाक्षेपेण शङ्कनात्सङ्गति: । चत्वार एवेति प्रागुक्तनियमो युक्त उतायुक्त इति चिन्ता । तदर्थं "प्रियमेव शिर:' इत्यादिना श्रुतप्रियशिरस्त्वादय: सर्वोपास्या उत नेति । तदर्थं तेषां सर्वानुपास्यत्वे प्रागुक्तफलप्राप्तिर्नास्त्युतास्तीति । पूर्वपक्षस्तु । प्रियशिरस्त्वादयोऽपि सर्वापास्यास्तेषां आनन्दविशेषत्वात् । आनन्दादीनां च स्वाभिमतफलावाप्त्यर्थं सर्वोपास्यत्वोक्ते: अन्यथा फलाभावापातात् । अत: प्रागुक्तनियमो न युक्त इति । सिद्धान्तस्तु । आनन्दविशेषमात्रेण प्रियशिरस्त्वादे: सर्वोपास्यत्वे सवर्गुणानामपि गुणचतुष्ययविशेषत्वस्य वक्तुं शक्यतया सर्वेषां सर्वगुणोपास्तिप्रसङ्गात्तस्य च "दर्शनाच्च' इत्यत्रोक्त (ब्र.सू.3-2-21) आनन्दश्रुतिसिद्धफलभेदपरिलोपापत्त्या अनिष्यत्वेन फलभेदसिद्धयर्थं गुणोपासनेति तारतम्यस्य च वाच्यत्वात् "नैव सर्वगुणास्सर्वैरुपास्या मुक्तिभेदत:' इति (वाराह) स्मृतेश्ऱ्च न सर्वोपास्या: प्रियशिरस्त्वादय: । नचैवं फलाभाव: । "यथायोग्यान् गुणपूर्णानुपास्य फलं भवेत्' इत्यादिश्रुत्या विशेषानुपासनेऽपि योग्यगुणोपासनेनैव मुक्तिफलप्राप्तेरवगमादिति नोक्तनियमभङ्ग इति ।। 6 ।।
।। ॐ इतरेत्वर्थसामान्यात् ॐ ।। 7 ।।
पूर्वत्र यथायोग्यानितिश्रुत्या योग्यगुणोपासनेनैव फलप्राप्त्युक्तौ देवानां चतुर्गुणाधिकगुणोपासने योग्यतानिश्ऱ्चयासम्भवात् तेषां अधिकगुणोपास्तिरयुक्तेति शङ्कनात्सङ्गति: । जिज्ञासापदोक्तं अधिकगुणोपासनं न कार्यमुत कार्यमिति चिन्ता । तदर्थं तदधिकारिणां देवानां योग्यतानियमनिर्णयोऽशक्य उत शक्य इति । तदर्थं प्राप्तेश्ऱ्चेत्यत्रोक्तं ध्यानकालीनगुणभानस्य योग्यतानिर्णायकत्वमयुक्तमुत युक्तमिति । पूर्वपक्षस्तु । ध्यानात्पूर्वमेव योग्यतानियमाज्ञानेऽयोग्योपासनप्रसङ्गात्तस्य च "अचेतनासत्यायोग्यान्यनुपास्यान्यफलत्वविपर्ययाभ्याम्' इति साङ्कर्षणसूत्रोक्तदिशा अनर्थफलत्वेन ध्याकालीनगुणभानस्य योग्यतानिर्णायकत्वाभावान्नाधिकोपासनं कायर्मिति । सिद्धान्तस्तु । तत्तत्प्राप्यफलापेक्षयोपासनयोग्यतानिर्णयोपपत्ते: भाव्युत्कर्षज्ञसर्वगुरुणा तत्तत्प्राप्यभविष्यत्फलानुसारिगुणोपदेशोपपत्तेश्ऱ्च चतुर्भ्योधिकोपासनं कार्यमेवेति ।। 7 ।।
।। ॐ आध्ययनाय प्रयोजनाभावात् ॐ ।। 8 ।।
।। ॐ आत्मशब्दाच्च ॐ ।।
एवं पूर्वत्र मन्दमध्योत्तमाधिकारिभेदेन अनुपसंहारोपसंहारौ उक्त्वा तयो: "संज्ञातश्ऱ्चेत्' इति (ब्र.सू.3-3-9) "प्रकरणभेदात्' इति (ब्र.सू.3-3-8) च यन्मानमुक्तं तदेवेहाक्षिप्य समाधीयत इति सङ्गति: । अत्र जिज्ञासापदाभिमतौ प्रागुक्तगुणोपसंहारानुपसंहारौ न कार्यावुत कार्यौ इति चिन्ता । तदर्थं तयोर्मानं नास्त्युतास्तीति । तदर्थं प्राक् "संज्ञात:' इति "प्रकरणभेदात्' इति चोक्तमुभयत्र मानं न युक्तमुत युक्तमिति । पूर्वपक्षस्तु । संज्ञातश्ऱ्चेत्यत्रोक्तदिशा सर्वविद्यानां भगवन्नामत्वेन तत्र गुणाभिधानस्य उपसंहारार्थत्वे सर्वगुणानां एकत्रैवोक्तिप्रसङ्गेन विक्षिप्य नानास्थानेषूक्ते: व्यर्थत्वात् मोक्षस्यानुपसंहारेणापि सिद्धया उपसंहारस्य व्यर्थत्वाच्च । अत एव व्यर्थविधे: अश्रद्धेयत्वेन "विधिशेषवत्' (ब्र.सू.3-3-6) इत्यत्रोक्तविहितत्वयुक्तेरप्यप्रयोजकत्वात् तत्तद्विद्याप्रकरणेषु एतावदेवोपासनमित्युक्त्यभावेन प्रकरणभेदस्यानुपसंहारेऽमानत्वेन मानाभावान्न कार्यावेतौ द्वाविति । सिद्धान्तस्तु । गुणोक्तेरुपसंहारान्यप्रयोजनाभावात् नानास्थानेषूक्तानामपि उपसंहारे मुक्तौ फलातिशयभावेन तथोक्तेरर्थवत्त्वात् "आत्मत्वोपासनविधानात् प्रागेवकारस्यायोगव्यवच्छेदकत्वोक्तावपि इह "प्राप्तेश्ऱ्च' इत्यत्रोक्त (ब्र.सू.3-3-10) न्यायेन अधिकारिभेदेनाव्यवच्छेदकत्वाविरोधाच्च द्वावपि कार्याविति ।। 8 ।।
।। ॐ आत्मगृहीतिरितरवत्तदुत्तरात् ॐ ।। 9 ।।
""आत्मेत्येवोपासीत' इति पूर्वोक्तश्रुतिस्थैवकारस्य स्वामित्वान्यज्ञानादिगुणव्यवच्छेदकत्वप्राप्तावत्र स नेत्युच्यत इति सङ्गति: । अत्र जिज्ञासापदाभिमतं "आनन्दादय:' (ब्र.सू.3-3-12) इत्यत्रोक्तं चतुर्गुणोपासनं न युक्तमुत युक्तमिति चिन्ता । तदर्थ तत्किं प्रागुक्तश्रुतिविरुद्धं नवेति । तदर्थं आत्मेत्येवेति प्रागुक्तात्मशब्द: किं सुशकत्वादियुक्त्या स्वामित्वमात्रवचन: उत वाक्यशेषबलात् ज्ञानादिचतुर्गुणवचन इति । पूर्वपक्षस्तु । आत्मत्वमात्रोपास्ते: सुशकत्वादाश्ऱ्वापरोक्ष्यहेतुत्वाच्च सावधारणश्रौतात्मपदस्य स्वामिमात्रवचनत्वेन तन्मात्रोपासनस्यैव कार्यत्वादयुक्तं चतुर्गुणोपासनम् । वाक्यशेषस्तु स्तुतित्वेनाप्युपपद्यत इति । सिद्धान्तस्तु अत्यलौकिकपरममुपर्थहेत्वापरोक्ष्येऽतिसुशकत्वस्यायुक्तत्वात् गुणत्वेऽपि वा सर्वेषां मुमुक्षूणां "फलसाम्यादपेक्षित:' इत्यानन्दनयोक्तन्यायेन (ब्र.सू.3-3-12) स्वापेक्षितज्ञानानन्दादिफलप्राप्त्यर्थत्वेन अन्योपासनस्याप्यावश्यकत्वात् वाक्यशेषस्यार्थवादत्वेऽपि अविरुद्धे स्वार्थे तात्पर्याभावात् । "प्राणन्नेव प्राणनामा भवति मन्वानो मन:' इत्यादिपूर्ववाक्ये प्राणपदादिना प्रकृतानन्दादिगुणानां परामर्शेन "अत्र ह्येते सर्व एकं भवन्ति' (बृ.3-4-7) इत्यात्मगुणे आनन्दादिगुणानामन्तर्भावोक्तिपरवाक्यशेषानुरोधेन "आनन्दानुभवत्वाच्च' इत्यादि (बृहत्तन्त्र) स्मृत्यनुरोधेन च आत्मशब्दस्य स्वामित्वादिचतुर्गणवचनत्वेन तदविरोधाद्युक्तं सर्वाधिकारिकचतुर्गुणोपासनमिति । न चैवमनुपसंहारमानत्वोक्तिविरोध: अस्यानुपसंहाररूपत्वात् ।। 9 ।।
।। ॐ अन्वयादिचेत्स्यादवधारणात् ॐ ।। 10 ।।
अत्रात्मपदस्य प्रागुक्तानुपसंहारमानत्वमाक्षिप्य साध्यत इति सङ्गति: । अत्र प्रागुक्तमात्मपदस्यानुपसंहारमानत्वमयुक्तमुत युक्तमिति चिन्ता । तदर्थमात्मपदोक्तगुणा: उपसंहर्तृमात्रोपास्या: उतानुपसंहर्त्रूपास्या अषीति । तदर्थं आत्मशब्दोऽखिलगुणानामपि प्रत्यायकत्वेनानुपसंहर्तॄन् प्रति विभ्रमकर: अथ व्यवस्थया तत्तद्योग्यगुणप्रत्यायकतया निर्णयकार इति । पूर्वपक्षस्तु । आत्मेत्येवोपासीतेत्यस्य "चोदनाद्यविशेषात्' (ब्र.सू.3-3-1) इति न्यायेन अखिलगुणध्यातृब्रह्मादीन् प्रत्यपि प्रवृत्ते: तत्र आत्मशब्दस्य अनुपसंहर्तृमात्रयोग्यगुणबोधकत्वे आत्मेत्येवेत्यवधारणायोगेन तदन्यथानुपपत्त्या "आप्तव्याप्तेरात्मशब्द: परमस्य प्रयुज्यते' इति स्मृत्या च आत्मशब्दस्य सर्वगुणवाचित्वेनानुपसंहर्तॄन् चतुर्गुणाद्युपासकान् प्रति तत्तद्योग्यमात्रगुणाप्रत्यायकतया तस्य विभ्रमकरत्वात् तदुक्तगुणानुपसंहर्तृभिरनुपास्या इत्ययुक्तमनुपसंहारमानत्वम् । नच तस्य सर्वगुणप्रत्यायकत्वेऽपि स्वस्वयोग्यगुणमात्रं सर्वैरुपास्यमिति शङ्कयम् । आत्मेत्येवेत्यवधारणेनात्मशब्दस्य यावत्प्रतीतं तावतोप्युपास्यत्वप्रतीते: । अन्यथावदारणविरोधादिति । सिद्धान्तस्तु । आत्मशब्दस्य सर्वगुणवाचित्वेऽपि तत्तद्गुणोपासनयोग्यान् सर्वगुणान् वक्तीत्यस्य तत्तदनुभवसिद्धत्वेन तस्य अविभ्रमकरतया तदुक्तगुणानां सर्वोपास्यत्वाद्युक्तमनुपसंहारमानत्वमिति ।। 10 ।।
।। ॐ कार्याख्यानादपूर्वम् ॐ ।। 11 ।।
पूर्वत्राधिकारिणां स्वस्वयोग्यगुणान्यगुणानामात्मशब्देनाप्रतीत्या तत्तन्मात्रगुणोपासनं युक्तमित्युक्तमयुक्तम् । योग्यानामपि "परमत:' (ब्र.सू.3-2-32) इत्युक्तदिशाऽलौकिकत्वेन आत्मशब्देनाप्रतीतेरिति शङ्कनात्सङ्गति: । ईश्ऱ्वरे गुणा ध्येया इत्युक्तम् । ते हि लौकिका एव ध्येया उतालौकिका इति चिन्ता । तदथर्ं लौकिकानामध्याने गुणध्यानस्यैवाभाव: प्रसज्यत उत नेति । तदर्थं अलौकिकगुणानामनुभवो न सम्भवत्युत सम्भवतीति । पूर्वपक्षस्तु । अलौकिकगुणविषये प्रत्यक्षानुमानयोरप्रसक्ते: प्रसक्तस्य च शब्दस्य सङ्गतिग्रहणसापेक्षत्वात् तस्य च सम्बन्धिज्ञानाधीनत्वात् शब्दरूपसम्बन्धिन: प्रत्यक्षत्वेऽपि अर्थरूपसम्बन्धिन: शब्दादन्येनाप्रतीते: शब्दान्तरेण तत्प्रतीतौ तत्राप्येवमित्यनवस्थापत्त्या सङ्गतिग्रहणायोगेन शब्देनाप्यनुभवयोगेन ध्यानकाले तत्प्रतीतेरभावात् तादृशस्य च ध्यानायोगात् लौकिकानामध्याने गुणध्यानस्यैवाभावप्रसक्त्या ध्यानसाध्यापरोक्षज्ञानजन्मनोऽभावापातेन गुणध्यानस्यावश्यकत्वात् लौकिका एव ध्येया: । तथा चाविद्यमानध्यानस्य "न प्रतीके न हि स:' (ब्र.सू.4-1-3) इति चतुर्थाद्यपादे निरसिष्यमाणत्वेन ईश्वरे ध्येयानां गुणानां लौकिकत्वस्य वास्तवत्वावश्यंभावात् "परमतस्सेतून्मान' इति सूत्रे भगवद्गुणानामुक्तालौकिकत्वमयुक्तमिति । सिद्धान्तस्तु । अलौकिकास्तस्य गुणाह्युपास्या:' इति श्रुतौ मोक्षस्यालौकिकत्वकथनात् तादृशमोक्षस्य चालौकिकगुणोपासनेन विनाऽयोगात् "अर्थसामान्यात्' (ब्र.सू.3-3-14) इत्युक्तन्यायेन फलानुसारिध्यानस्य कर्तव्यतया अलौकिका एव गुणा ध्येया: । नच तादृशगुणाप्रतीतिर्दोष: । "शास्त्रोवस्तुनश्ऱ्चैव व्युत्पत्ति: शास्त्रलिङ्गत:' इत्यभिमानिनयानुव्याख्यानसुधयोरुक्तरीत्या "य: सहस्राक्ष: स इन्द्र: य: पाशहस्त: स वरुण इत्यादौ वाक्यार्थमर्यादयोपस्थिते वस्तुनि इन्द्रादिशब्दस्य व्युत्पत्तिवदनुकूलवेदनीयो भगवद्गुणो य: स: आनन्द इति साक्षात्कृतेशुणानां विदुषामुपदेशेनोपस्थितौ तत्र तत्पदशक्तिग्रहोपपत्त्या शब्देनैतत्प्रतीतिसम्भात् प्रागुक्तगुणानामलौकिकत्वा युक्तमिति ।। 11 ।।
।। ॐ समान एवं चाभेदात् ॐ ।। 12 ।।
।। ॐ सम्बन्धादेवमन्यत्रापि ॐ ।।
अर्थसामान्यादित्युक्त (ब्र.सू.3-3-14) न्यायेन पूर्वत्रापूर्वकार्याख्यानादपूवर्गुणजातध्यानं कार्यमित्युक्तमयुक्तम् । ध्यानस्य स्वानुसारिफलदत्वानियमादिति शङ्कनात्सङ्गति: । अत्र "अर्थसामान्यात्' इति प्रागुक्तध्यानस्य फलानुसारित्वं नास्त्युतास्तीति । तदर्थं तयो: समविषमफलवतो: उपासनमपि समविषमरूपं न सम्भवत्युत सम्भवतीति । तदर्थं
त्रिविक्रमत्वादिक्रियाविशेषाणां ब्रह्मब्रह्माणीभ्यां यथाक्रममुपास्यानुपास्यत्वे न युक्ते उत युक्त इति । पूर्वपक्षस्तु । त्रिविक्रमत्वादिक्रियाविशेषाणामनित्यत्वेन ध्यानकालेऽभावादविद्यमानस्य च निन्दितत्वेन ब्रह्माणीब्रह्मणोरपि क्रियाविशेषानुपासनस्य वाच्यत्वेन गुणविषये साम्यस्य क्रियाविशेषविषये वैषम्यस्य दुर्वचनत्वेन प्रकारान्तरेण ब्रह्माणीब्रह्मभ्यां क्रियमाणोपासनयो: समत्वस्य विषमत्वस्य चाभावेन समविषमत्वायोगात् तदुभयप्राप्यफलस्य स्थानैक्यगुणतारतम्यरूपतया समविषमत्वेन ताभ्यां क्रियमाणोपासनस्य स्वसदृशफलानुसारित्वाभावादर्थसामान्यादित्युक्तमयुक्तमिति । सिद्धान्तस्तु । "गुणक्रियादयो विष्णो: स्वरूपं नान्यदिष्यते' इति तत्त्वनिर्णयोदाहृत(तृतीयपरिच्छेदे) श्रुत्या गुणक्रियादीनां विष्णुना तादात्म्यरूपसम्बन्धेन नित्यतया ध्यानकाले असत्त्वाभावेन तदुपासने ब्रह्मणोऽसदुपासनाप्रसक्ते: । क्रियादिविशेषणामलौकिकत्वेऽपि "गुणास्त्रैविक्रमाद्याश्ऱ्च संहर्तव्या न संशय: । विरिञ्चस्यैव नान्येषाम्' इति (बृहत्तन्त्र) स्मृत्या विरिञ्चस्यैव योगत्वेन तेषां ब्रह्मोपास्यत्ववत् ब्रह्माण्या नित्यविक्रान्त्यादिक्रियान्तर्भावेनैवोपास्यतया पृथगुपास्यत्वाभावेन क्रियाविषये विषमत्वस्य गुणादिविषये समत्वस्य च सम्भवेन ब्रह्माणीब्रह्मभ्यां क्रियमाणोपासनस्यापि फलस्यैव समविषमत्वेन क्वाप्युपासने फलानुसारित्वस्य व्यभिचाराभावात् अर्थसामान्यादित्युक्तं युक्तमिति ।। 12 ।।
।। ॐ नवा विशेषात् ॐ ।। 13 ।।
।। ॐ दर्शयति च ॐ ।।
"आत्मेत्येवोपासीत' इत्यात्मपदोक्तगुणोपासनस्यावश्यकत्वादात्मपदेन च ब्रह्माण्यभिमतगुणेभ्यो न्यूनगुणोक्तेरपि सम्भवेन सर्वगुणानां क्रियासमन्वयस्य च उक्तनियमाभावात् ब्रह्माण्या: प्रागुक्तसर्वगुणोपसंहारं क्रियासामान्योपसंहारश्ऱ्चायुक्त इति शङ्कनात्सङ्गति: । अत्रात्मशब्दस्य "आत्मशब्दाच्च' इत्यत्रोक्तं (ब्र.सू.3-3-16) अनुपसंहारमानत्वं न युक्तमुत युक्तमिति चिन्ता । तदर्थं आत्मशब्दोक्ता: गुणा: न सर्वोपास्या इति । तदर्थं तस्य गुणाभिधायकत्वेऽपि अधिकारिणं प्रति तत्तद्योग्यगुणाभिधायकत्वमपि प्रागुक्तं न युक्तमुत युक्तमिति । तदर्थं तत्तदुपासनायोग्यगुणमात्राभिधायकत्वनियमो न सम्भवत्युत सम्भवतीति । पूवर्पक्षस्तु । आत्मशब्दो ब्रह्माणं प्रति सर्वानीश्वरधर्मान् ब्रह्माणीं प्रति अशेषगुणान् क्रियासामान्यानि अन्यांश्ऱ्च प्रति तदुपासनायोग्यगुणानेव तन्न्यूनाधिकान् वक्तीति प्रतिस्विकनियमाभावेन प्रागुक्ततत्तदधिकारियोग्यगुणाभिधायकत्वस्य "अन्वयात्' इत्यत्रोक्तस्यायोगात् (ब्र.सू.3-3-17) न सर्वोपास्या आत्मशब्दोक्ता गुणा इत्यनुपसंहारमानत्वमात्मशब्दाच्चेत्यत्रोक्तमयुक्तमिति । सिद्धान्तस्तु । आत्मशब्दस्य सर्वगुणोक्तिशक्तस्यापि तत्तद्योग्यगुणप्रत्यायकत्वान्न्यूनाधिकसम्भवेऽपि तत्तदधिकारिसामर्थ्यवशेन आत्मशब्देन यस्य यावन्तो गुणा: प्रतीयन्ते तत्र तावन्तो ध्येया इति व्यवस्थासम्भवात् "सर्वान् गुणान्' इतिभाष्योक्त(भाल्लवेय) श्रुतिबलाच्चात्मशब्दोक्तगुणा: सर्वोपास्या एवेति युक्तमनुपसंहारमानत्वमिति ।। 13 ।।
।। ॐ सम्भृतिद्युव्याप्त्यपि चात: ॐ ।। 14 ।।
अत्र "उक्षा स द्यावा पृथिवी' (ऋ.10-31-7) "एषहि सर्वेषु लोकेषु भाति' इति (छां.4-15-4) श्रुतसम्भृत्यादिगुणस्य सर्वोपास्यत्वशङ्कायां प्रागुक्ताधिकारिविशेषेण सिद्धान्तकरणात्सङ्गति: । अत्र "आनन्दादय:' (ब्र.सू.3-3-12) इत्यत्रोक्तं चतुर्गुणोपासनं न युक्तमुत युक्तमिति चिन्ता तदर्थं सम्भृतिद्युव्याप्ती सर्वोपास्ये उत नेति । तदर्थं गुणोपास्तौ तज्जन्यफलापेक्षैव हेतुरुत योग्यताविशेषोऽपीति । पूर्वपक्षस्तु । सर्वेषां मुमुक्षूणां मोक्षे ज्ञानानन्दादेरिव स्वावरसम्भरणस्य प्रकाशव्याप्तेरपेक्षितत्वात् फलापेक्षया एव च तत्साधनानुष्ठाने नियामकत्वात् योग्यताविशेषस्य हेतुत्वे वा सवर्ेषामपि योग्यताविशेषस्य सत्त्वेऽपि विरोधाभावात् तदभावे वा साधनानुष्ठोनन तदनुगुणफलप्राप्तिविरोधाच्च अपेक्षितसम्भरणादिफलस्य "यादृशो भावित: श्रीशस्तादृशो जीव आभवेत्' इति (भाग.तृतीयस्कन्धतात्पर्य) स्मृत्या अर्थसामान्यादित्युक्तन्यायेन सम्भृत्यादिगुणविशिष्यतया भगवदुपासनेनैव प्राप्यत्वाच्च सर्वोपास्ये एव सम्भृतिद्युव्याप्ती । नचैवं "सर्वगुणा अपि' इति शङ्कयं सर्वेषां सर्वगुणापेक्षाभावात् । अतो न युक्तं सर्वेषां चत्वार एव गुणा उपास्या इति । सिद्धान्तस्तु । फलापेक्षाया एव
तत्साधनानुष्ठाने नियामकत्वे त्रैवर्णिकेतरेषामपि स्वर्गहेतुयागाद्यनुष्ठानात्फलप्राप्तिप्रसङ्गेन "अन्यथा अनर्थकृद्भवेत्' इतिभाष्योक्त(ब्रह्मतर्क)स्मृतावयोग्यानुष्ठानस्यानर्थफललत्वोक्त्या च योग्यताविशेषस्यैव नियामकत्वात्तस्य च "देवादीनामुपास्यास्तु भृतिव्याप्त्यादयो गुणा:' इति (ब्रह्मतर्क) स्मृत्या देवादीनामेव भावेन सर्वेषामभावात् न सर्वोपास्ये सम्भृतिद्युव्याप्ती किन्तु दोवोपास्ये इति युक्तं प्रागुक्तं चतुर्गुणोपासनम् । अपेक्षितं प्रकाशादिमात्रं तु भगवद्रूपप्रतीत्यविनाभूतप्रकाशादिनैव लभ्यमिति ।। 14 ।। N.M-10
।। ॐ पुरुषविद्यायामपि चेतरेषामना नानात् ॐ ।। 15 ।।
एवं इयता ग्रन्थेन सुरनरविरिञ्चिरूपमध्यमाधमोत्तमाधिकारिणां बह्वल्पसर्वगुणध्यानाय त्रिविधैरपि स्वस्वयोग्यगुणा इतस्तत: उपसंहार्या इति यत्सिद्धं तदयुक्तम् । एकैकत्रैव विद्यायां तत्तद्योग्यगुणोक्तिसम्भवादिति शङ्कनात्सङ्गति: । अत्र "सर्ववेदान्त' नये (ब्र.सू.3-3-1) त्रिविधाधिकारिणां यथाशक्तियत्सर्वपरिज्ञानमुक्तं तदयुक्तमुत युक्तमिति चिन्ता । तदथर्ं तेषां स्वस्वयोग्यगुणानामुपासनस्य इतस्ततो नोपसंहार्या उतोपसंहार्या इति । तदर्थं स्वस्वयोग्यगुणा एकैकत्र विद्यायामा नायन्ते अथ नेति । तदर्थमेकैकत्र तत्तद्योग्यगुणानामनुक्तिज्ञापकं नास्त्युतास्तीति । पूर्वपक्षस्तु । एकैकत्र तत्तद्योग्यगुणा नोच्यन्ते इत्यत्र ज्ञापकाभावेन एकैकत्रैव तत्तदपेक्षितगुणोक्तिसम्भवेन तन्मात्रपरिज्ञानेनापि स्वस्वयोग्यध्यानविषयगुणानां बुद्धयारूढसम्भवेन कृत्याभावात् न इतस्ततो ध्येयपुंगुणा उपसंहार्या इति त्रयाणां यथाशक्तिसर्वपरिज्ञानं युक्तमिति । सिद्धान्तस्तु । "सर्वत: पौरुषे सूक्ते' इति भाष्योक्त (ब्रह्मतर्क) स्मृत्या सर्वविद्योत्तमपुरुषसूक्तविद्यायामपि कैमुत्यसिद्धत्वेन उत्तमाधिकारिणां सर्वतो गुणोपसंहारस्यावश्यकत्वात् मध्यमाधिकारिणामपि महदल्पगुणाभिधायकविद्यासु सङ्खयासाम्यसम्भवेऽपि स्वस्वाभिमतगुणानामेकैकत्रैवोक्तिनियमाभावात् इतस्तत: कायर् एवोपसंहार: इति युक्तं सर्वेषां यथाशक्तिसर्वपरिज्ञानमिति ।। 15 ।।
।। ॐ वेधाद्यर्थभेदात् ॐ ।। 16 ।।
पूर्वत्र इतस्ततोऽपेक्षितगुणोपसंहारस्य सर्वै: कर्तव्यत्वप्रसक्तौ सत्यां वेधादिगुणोपसंहारोऽप्यपेक्षितफलहेतुत्वात् सवर्ै: कार्येति शङ्कनात्सङ्गति: । अत्र "आनन्दादय:' इत्यत्रोक्त: पूर्वनये प्रसक्त: सर्वेषां चतुर्गुणोपास्तिनियमो न युक्त उत युक्त इति चिन्ता । तदर्थं "तं प्रत्यंचमर्चिषाऽऽविध्य मर्मन्' (ऋ.10-87) इत्यादिश्रुत्युक्तो वेधादिगुण: किं सर्वोपास्योऽथ नेति । तदर्थं तत्फलेऽपेक्षायोग्यत्वे स्त: उत नेति । पूर्वपक्षस्तु । वेधादिभगवद्गुणोपासनाफलस्य दुष्यजननिग्रहस्य सर्वसज्जनानामपेक्षितत्वात् "प्राणस्त्वा वंशो हास्यतीत्येनं ब्रूयात्' (ऐ.3-1-4) । "आततायिनमायान्तं हन्यादेवाविचारयन्' इति श्रुतिस्मृत्यो: विहितत्वेन योग्यतावत्त्वस्याप्यवगमाच्च वेधादे: सर्वोपास्यत्वात्प्रागुक्तनियमो न युक्त इति । सिद्धान्तस्तु । "भिन्धि विद्धि श्रुणीहि' इति (बृहत्तन्त्र) स्मृतौ वेधादिगुणोपास्तिफलस्य यतिप्राप्यफलाद्विलक्षणफलत्वोक्तिपूर्वं यतीनां तत्रायोग्यत्वस्योक्तत्वात् । तत एव तत्रापेक्षाया अप्ययोगात् । न श नोषीति मामात्थ हास्यतस्त्वामतो हि तौ । ज्ञानसामर्थ्यावानित्थं ब्रूयाद्देवादिरुत्तम:' (ऐ.भाष्य. 3-1-4) इति स्मृत्या देवविषयत्वेन स्मृतेश्ऱ्च क्षत्रियपरत्वेन च सर्वेषां योग्यत्वानिर्णायकत्वात् योग्यतापेक्षयोरभावे तन्निबन्धनवेधादिगुणोपास्ते: अभावसिद्धेर्युक्त: प्रागुक्तनियम इति ।। 16 ।।
।। ॐ हानौतूपायनशब्दशेषत्वात्कुशाच्छंदस्तुत्युपगानवत्तदुक्तम् ॐ ।। 17 ।।
।। ॐ साम्पराये तर्तव्याभावात्तथाह्यन्ये ॐ ।।
एवमतीतैर्नयै: त्रिविधाधिकारिणामुपासनोपयुक्ततत्तद्योग्यगुणोपसंहारो निर्णीत: । इत: परं उपासनाया: फलनैयत्ययोग्यतातारतम्याधिकारेयत्तागुरुप्रदानादीतिकर्तव्यतादिकं निरूपयितुं अत्रोपासनाया: निरुपाधिकत्वरूपस्वभाव
उच्यते इति सङ्गति: । यदर्थं पूर्वं गुणोपसंहारो निर्णीत: यस्माच्च अथर्सामान्यादित्युक्तस्वसदृशफलत्वं "समान एवं च' इत्यत्र (ब्र.सू.3-3-20) समर्थितं सोपासना मुक्तेन न क्रियत उत क्रियत इति चिन्ता । तदर्थं मुक्तेन क्रियत इत्यत्र प्रमाणं नास्त्युतास्तीति । तदर्थं "एतत्सामगायन्नास्ते' इति (तै.3-10) श्रुति: गौणमुक्तिपरा उत परममुक्तिपरेति । तथा क्रियते इत्यत्रापि किं विध्याद्युपाधीना क्रियते अथ कुशाच्चन्दस्तुत्युपगानवदीश्ऱ्वरक्रियावत् स्वेच्छया लीलरूपतयेति चिन्ता । तदथर्ं उपासनाविधीनां मुक्तेऽपि प्रवृत्तिरस्त्युत नेति । तदथर्ं मुक्तौ प्राप्तव्यफलमस्त्युत नेति । मुक्तस्य निष्क्रियत्वेन सामगायनादिक्रियायोगेन "एतत्सामगायन्नित्यादे: गौणमुक्तिपरत्वेन मुक्तावुपासनास्तित्वे मानाभावात् । न चाफलस्य करणायोगेन सफलत्वोपगमेऽपूर्णताप्रसङ्गेन च मुक्तेन उपासना न क्रियते इति प्राप्ते "स य एवं विदस्माल्लोकात्प्रेत्य' इति पूर्ववाक्ये ब्रह्मज्ञानिनश्ऱ्वरमदेहत्यागमुक्त्वा पश्ऱ्चादानन्दमयन्यायेन आनन्दमयादिभगवद्रूपपञ्चकप्राप्तिं "एतमन्नमयमात्मानमुपसङ्क्रम्य' इत्यादिनोक्त्वा आ नातस्य "एतत्साम' इति वाक्यस्य गौणमुक्तिपरत्वायोगेन परममुक्तिपरत्वेन प्रमाणसद्भावात् "कृष्णो मुक्तै रिज्यते' इति (भारत) मुक्तस्य यजनादिक्रियासत्त्वेन कैमुत्यन्यायाच्च मुक्तेनोपासनं क्रियत एवेति सिद्धान्त इत्याद्य: पक्ष: । द्वितीयस्तु विधीनां इष्यसाधनत्वम् । तद्बोधकाश्ऱ्च "उपासीत' इत्यादि विधिप्रत्ययार्था: । ते "ब्रह्मविदा नोति परम्' इति (तै.2-1) ब्रह्मज्ञानेन मोक्षो भवतीत्युक्ते तत्कथमित्यपेक्षायां तादर्थे प्रवृत्ता अपि यथा बद्धान् प्रति उपासनं मोक्षरूपेष्यसाधनमिति प्रत्याययन्ति एवं मुक्तं प्रत्यपि आनन्दातिशयस्य प्राचीनकर्मफलत्वस्य "अग्निहोत्रादि तु तत्कार्यायैव' इति (ब्र.सू.4-1-16) वक्ष्यमाणत्वेन तत्साधनत्वबोधनासम्भवेऽपि मुक्तौ तदा तदा प्राप्तानिष्यपरिहाररूपफलस्येष्यस्य सम्भवेन तत्साधनताबोधकत्वसम्भवेन मुक्तेऽपि प्रवृत्तिरस्ति । अन्यथा तत्कृतेरेवायोगात् । अतो विधिफलकामनाद्युपाधिनैव उपासना क्रियत इति प्राप्ते "तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवति' (बृ.6-3-22) इत्यादे: मुक्तौ सर्वारिष्यपरिहारस्य सिद्धत्वेन प्राप्तव्यानिष्यपरिहारस्याप्यभावेनैव तत्साधनत्वमादायापि इष्यसाधनत्वमुपासनस्य मुक्तं प्रति बोधयितुमशक्यत्वेन बद्धेन मुक्तस्य समानधर्मतापत्त्या च मुक्ते उपासनाविधीनामप्रवृत्ते: । विधिफलकामनयोरभावेऽपि नियतब्रह्मयज्ञानन्तरं कुशै: स्वेच्छया द्विजानां मन्त्रसामाध्ययनवत् ईश्ऱ्वरक्रियावच्च स्वेच्छया लीलारूपतयैवोपपत्ते: क्रियते मुक्तेनोपासनेति । तथा च स्मृति: "तीर्णतर्तव्यभागाश्ऱ्च स्वेच्छयोपासते परम्' (वायुप्रोक्त) इति सिद्धान्त इति । अत्र प्रयोजनं पूर्वपादोक्तभक्त्याक्षेपसमाधी । अत्राद्यमधिकरणशरीरं भाष्ये "एतत्सामगायन्नास्ते' इति श्रुत्युक्त्या भवेदियं चिन्ता यदि मुक्तस्य उपासनमेव स्यात्तदेव कुत: इति टीकया मुक्तौ उपासनभावे फलादिकमपि स्यादिति न्यायविवरणेन च सूचितम् । द्वितीयं तु मुक्तस्योपासना कर्तव्या नवेत्यादि भाष्यादिनेति ज्ञेयम् । टीकायां तु भाष्यविवरणयोरेकवाक्यतासम्पादनाय व्यामिश्रेण निरूपणं कृतमित्यविरोध: । यद्वा मुक्तेनोपास्ति: न क्रियते क्रियते वेति चिन्ता । तदर्थं मुक्तावुपास्तिभावे साधकं नास्त्यथ विपरीतमिति । तदर्थं मुक्तस्य विधिविषयत्वादिकं बाधकं भवत्युत नेति । पूर्वपक्षस्तु । मुक्तस्योपासनावत्त्वे मानाभावेन विधिबद्धत्वेन वा तदबद्धत्वेन वा उभयथाप्युपासनाभावे फलप्राप्त्या अपूर्णताप्रसङ्गेन आद्ये संसारिसमानधर्मापत्त्या अन्त्ये अविहितकरणस्यैवायोगेन बाधकेन मुक्तेनोपासना न क्रियत इति । सिद्धान्तस्तु । एतत्सामगायन्नित्यादि साधकभावेन उपासनाविधीनां मोक्षवाक्यशेषतया मुक्त्यर्थत्वेन मुक्तस्य तदविषयत्वेऽपि कुशाच्छन्दस्तुत्युपगानवत्स्वेच्छयैवानन्दवृद्धे: प्राचीननिवृत्तकर्मफलत्वेन सर्वानिष्यनिवृत्ते: प्राप्तत्वेन प्राप्यफलाभावेऽपि ईश्ऱ्वरक्रियावन्मुक्तस्य लीलात्वेनोपासनाक्रियाया: स्वभावोपपत्ते: बाधकाभावेन च मुक्तेनोपासना क्रियत इत्येकरूपेणैव पूर्वोत्तरपक्षौ ध्येयौ ।। 17 ।।
।। ॐ छन्दत उभयविरोधात् ॐ ।। 18 ।।
।। ॐ गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोध: ॐ ।। ॐ उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॐ ।।
उपासनाप्रसङ्गसन्निधापितं कर्माप्युपासनावन्मुक्तौ नियतमेवेति शङ्कनात्सङ्गति: । पूर्वत्र प्रकृता मुक्ता: किमुपासनवन्नियमेन कर्म कुर्वन्त्युत नेति चिन्ता । तदर्थं नियमेन तदनुष्ठापकमस्त्युत नेति । तदर्थं शक्तत्वाद्येवानुष्ठापकमुत विध्यादिवत्त्वमषीति । पूर्वपक्षस्तु । साधनानुष्ठाने हि तज्जन्यफलार्थित्वे सति शक्तत्वं प्रयोजकम् । मुक्तानां च प्राप्तफलत्वेनार्थित्वाभावेऽपि सिद्धवैदुष्याणां स्वेच्छयोपासनानुष्ठानवत् कर्म करणेऽपि शक्तिसद्भावात्कर्मणो भगवत्पूजारूपत्वाच्च अनुष्ठापकसद्भावात्कर्मापि
नियमेन कुवर्न्त्येव । अन्येषां तस्याननुष्ठापकत्वे उपासनमपि नियमेन न कुर्यु: अविशेषादिति । सिद्धान्तस्तु । कर्मणो भगवत्पूजात्मकत्वेऽपि मुक्तानां तदनुष्ठानशक्तत्वेऽपि न तावन्मात्रं नियमेनानुष्ठाने हेतु: । किं तु विहितत्वं अकरणे प्रत्यवायवत्वं अप्राप्तफलत्वं च । न चैतत्सर्वं मुक्तानामपि मोक्षस्यापुमर्थत्वप्रसङ्गेन विध्यादेरभावात्प्राप्तफलत्वाच्च तेषाम् । अतो नियमेन न कर्म कुर्वन्ति किन्तु भगवत्पूजात्वात् पूर्वानुष्ठानवासनाबलाच्च कदाचिदेव कुर्वन्ति । उपासनं तु पूर्वनियमेनानारतमनुष्ठानेन तद्वासनाबलान्नित्यज्ञानस्वरूपाच्च नियमेनानुतिष्ठन्ति । "कदाचित्कर्म कुवर्न्ति कदाचिन्नैव कुर्वते । नित्यज्ञानस्वरूपत्वान्नित्यं ध्यायन्ति केशवम्' (ब्रह्माण्ड) इति स्मृतेरिति ।। 18 ।।
।। ॐ अनियम: सर्वेषामविरोधाच्छब्दानुमानाभ्याम् ॐ ।। 19 ।।
पूवर्ं ज्ञानद्वारा कर्मफलस्य मोक्षस्य प्राप्तत्वान्न कर्मानुष्ठाननैयत्यमित्युक्तौ तर्हि ज्ञानिनां सर्वेषां फलप्राप्तिरुत केषाञ्चिदेवेति चिन्तनात्सङ्गति: । यद्वा उपासनाविधीनां ज्ञानद्वारा मोक्षवाक्यशेषत्वमुपायनशब्दशेषत्वादित्यत्र उक्तमयुक्तम् । सत्यपि ज्ञाने केषाञ्चिन्मोक्षाभावादित्याशयेनात्रशङ्कनात्सङ्गति: । पूर्वनयस्य तु प्रासङ्गिकत्वात् न व्यवधायकत्वम् । तल्लक्षणार्थोपलब्धे:' (ब्र.सू.3-3-13) इत्यादौ पूर्वत्रार्थपदेन प्रकृतो मोक्ष: किं केषाञ्चिदेव ज्ञानिनां ज्ञानिनां प्राप्य उत सर्वेषां ज्ञानिनमिति चिन्ता । तदर्थं ज्ञानिष्वपि उपासने योग्यायोग्यविभागोऽस्त्युत नेति । तदर्थं ज्ञानिष्वपि योग्यायोग्यविभागभावे ज्ञापकं नास्त्युतास्तीति । पूर्वपक्षस्तु । केषाञ्चिदेव ज्ञानिनां मोक्षो न सर्वेषाम् । ज्ञानिष्वपि केषुचिदयोग्यत्वसम्भवात् । "कामं भवेम वृजिनैर्निरयेषु नष्याश्ऱ्चेतोऽलिवद्यर्हि ते पदयो रमेत' इति (भाग.3-16-49) तृतीयस्कन्धे कृमारोक्ते: । अयोग्यानां च मोक्षस्योपासकेष्वयोग्यानां सर्वगुणोपसंहारस्येवाप्राप्यत्वात् । न चोपासकेषु सर्वगुणोपसंहारयोग्यजनवत् ज्ञानिषु मुक्तयोग्यजनो नास्त्येव । प्रागुक्तकुमोरोक्तिस्तु भगवत्पादरतिस्तुतिपरेति वाच्यम् । सर्वगुणोपसंहारयोग्यायोग्यविभागोऽस्ति ज्ञानिषु नास्तीत्यत्र ज्ञापकाभावादिति । सिद्धान्तस्तु । सर्वेषामेव ज्ञानिनां मोक्षो न केषाञ्चिदेवेति नियम: "सर्वैर्गुणैर्ब्रह्मणैव ह्युपास्यो नान्यै:' इति निषेधबलेनोपसंहारे योग्यायोग्यविभागसत्त्वेऽपीह ज्ञानिषु केषाञ्चिन्मुक्तिनिषेधाभावेन प्रत्युत "न कश्ऱ्चिद्ब्रह्मवित्सृतिमनुभवति मुक्तो ह्येष भवति' इति (कौण्डिण्यश्रुति:) सर्वज्ञानिनां मुक्तिनैयत्यवचनेन विमता ज्ञानिनो नियतमोक्षा: ज्ञानित्वात्सम्मतज्ञानिवदिति निर्बाधश्रुतिमूलानुमानेन च ज्ञानिष्वयोग्याभावनिश्ऱ्चयात्सर्वज्ञानिप्राप्यो मोक्ष इति तत्साधनोपासनं नि:शङ्कं कार्यमेव । युक्तं चोपायनशेषत्वं तद्धिधीनामिति ।। 19 ।।
।। ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ ।। 20 ।।
।। ॐ अक्षरधियां त्वविरोध: सामान्यतद्धावाभ्यामौपसदवत्तदुक्तम् ॐ ।।
यद्येवमनियमेन ज्ञानिनो मोक्ष: तर्हि अकिञ्चित्करोऽसौ योग्यताविशेष: तत्प्रयोजकफलतारतम्यस्यान्येनैवोपपत्तेरिति पूर्वोक्ततर्कप्रतिहतशङ्कनात्सङ्गति:। येषामुपासकानां ज्ञानप्राप्तौ सत्यां मोक्षनैयत्यं प्रागुक्तं तदुपासका: किं योग्यतातारतम्यवन्तो उत न तद्वन्त इति चिन्ता । तदथर्ं तत्र प्रमाणं नास्त्युतास्तीति । तदर्थं मुक्तावानन्दादितारतम्यं साधकं नास्ति बाधकं चास्ति अथ विपरीतमिति । पूवर्पक्षस्तु । "वृद्धिह्रासभाक्त्वम्' इति नये (ब्र.सू.3-2-20) दशर्नाच्चेतिगुणसूत्रोपात्तया "अथात आनन्दस्य मीमांसा भवति' इत्यादिश्रुते: संसारिपरत्वेन मुक्तावानन्दतारतम्ये मानाभावात् द्वेषेर्ष्यादिप्रसङ्गरूपबाधकाच्च मुक्तौ तारतम्यमेवायुक्तम् । युक्तं चेदपि कृष्यादिप्रयत्नतारतम्येन धान्यादिफलतारतम्यवदुपासनादिप्रयत्नतारतम्येनैवोपपाद्यते इति तस्य योग्यतातारतम्याप्रयोजकत्वेन पमाणाभावान्नोपासका: योग्यतातारतम्यवन्त: इति । सिद्धान्तस्तु । "नानाविधा देवसङ्घा विमुक्तौ' इत्यादि विशेष(तुर) श्रुत्या "नरादिब्रह्मपर्यन्तं विमुक्तानां शतोच्छ्रय: । अप्यानन्दे मिथोप्युक्तस्त्वध्वर्यूणां श्रुतौ पृथक्' इति स्मृत्या च आनन्दश्रुतेरमुक्तविषयत्वायोगेन मुक्तौ तारतम्ये प्रमाणाभावात् विषयलम्पटत्वमत्सरादिदोषित्वानुपकारित्वानामेव लेके द्वेषेर्ष्यादिप्रयोजकत्वस्य दृष्यत्वेन द्वेषेर्ष्यादिनिमित्तविषयलम्पटत्वादे: ब्रह्मज्ञानितया मुक्तेष्वभावात् उत्तमेभ्योऽधमानां ज्ञानादिलक्षणोपकारभावेन अनुपकारित्वाभावात् बाधकाभावाच्च युक्तमेव मुक्तौ तारतम्यम् । तत्तु प्राचीनयोग्यतातारतम्येन विनाऽनुपपद्यमानं
योग्यतातारतम्यं गमयेत् । नचोपासनादिप्रयत्नतारतम्येनान्यथोपपत्ति: । "स्वाधिकाराधिको यत्न: प्रायशो नोपपद्यते । कथंचिदधिके यत्ने दोष: कश्ऱ्चित्समापतेत्' इति वचनेन प्रयत्नतारतम्यस्यापि योग्यतातारतम्यनिबन्धनात् । अतो योग्यतातारतम्यवन्त एवोपासका इति । फलं तु प्राप्तेश्ऱ्चेत्यत्रोक्तयोग्यताभेदसमर्थनम् ।। 20 ।।
।। ॐ ज्ञयदामननात् ॐ ।। 21 ।।
।। ॐ अन्तरा भूतग्रामवदिति चेत्तदुक्तम् ॐ ।। ॐ अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् ॐ ।।
प्रागुक्तयोग्यतानियमस्य निरवधिकत्वमाशङ्कय सावधिकत्वरूपविशेषचिन्तनात्सङ्गति: । छान्दोग्ये सप्तमे नामावाङ्मनस्संकल्पचित्तध्यानविज्ञानबलान्नाप्तेजआकाशस्मराशाप्राणशब्दिता: उषास्वाहा पर्जन्यमित्राग्निवरुणविद्युत्प्रवाहानिरुद्धाहंकारिकप्राणेन्द्रोमारुद्रवाणीमारुतांतदेवता: उत्तरोत्तरमाधिक्येनोक्ता: । पूर्वत्राधिकारिपदेन प्रकृतास्ते उपासनाधिकारवन्त: किं मुख्यप्राणावधिका न भवन्ति उत तदवधिका एवेति चिन्ता । तदर्थं प्राणादधिकाधिकारिसाधकमनुमानं "प्राणो वा सर्वेभ्यो भूयान्न प्राणाद्भूयानिति श्रुतिबाधितं न भवत्युत भवतीति । तदर्थं श्रुतौ सर्वशब्द: किं परमात्मान्यपर इव अधिकार्यन्तरान्यपरतयापि संकुचद्वृत्ति: सम्भवत्युत नेति । पूर्वपक्षस्तु । "प्राणो वाव सर्वेभ्य:' इत्यत्र सर्वशब्दस्यासंकुचद्वृत्तित्वे मुख्यप्राण्य निरुपचरितसर्वोत्तमत्वप्राप्त्यासर्वोत्तमवस्तुद्वयायोगेन श्रुत्यादिसिद्धसर्वोत्तमताकविष्ण्वभेदे वाच्ये "चक्षुरादिवत्' इत्यादौ (ब्र.सू.3-4-11) भाष्योक्तानेकमानसिद्धप्राणपरमात्मभेदाभावप्रसङ्गबाधकेन तदन्यपरत्वेन सङ्कुचद्वृत्तित्वेऽवश्यं वाच्ये अधिकारिविशेषव्यतिरिक्तपरत्वेनापि संकोचे बाधकाभावात् । तथा च तस्या: श्रुते: प्राण: स्वोत्तमाधिकारियुक्त: अधिकारित्वात् नामादिवदित्यनुमानबाधकत्वेन तदबाधितादस्मादनुमानात् प्राणादप्युत्तमाधिकारिसिद्धे: उपासनाधिकारिणो न मुख्यप्राणावधिका इति । सिद्धान्तस्तु । सर्वशब्दस्यानेकमानबलेन भगवदन्यत्र संकुचद्वृत्तित्वेऽपि चक्षुरादिवत्त्वित्यादौ तत्रतत्र भाष्योक्तवचनै: "उत्तमत्वं हि देवानाम्' इत्यादि (उत्तराधिकरणे) वक्ष्यमाणभाष्यवचनैश्ऱ्च प्राणाद्धरेरेवोत्तमत्वप्रतिपादनपरै: तदनुसारिण्या: भगवन्मात्रव्यतिरिक्तपरत्वेन संकुचद्वृत्तिकसर्वशब्दोपेतप्रागुक्तश्रुत्या च बाधितत्वेन अनुमानस्याप्रमाणत्वात् प्राणावधिका एवोपासका इति । फलं तु सर्वगुणोपसंहारस्य ब्रह्माधिकारिकत्वोक्तिसमर्थनम् ।। 21 ।।
।। ॐ व्यतिहारो विशिंषति हीतरवत् ॐ ।। 22 ।।
पूर्वत्र प्राणस्यैव हिरण्यगर्भत्वात् तस्य प्रागुक्तस्सर्वगुणोपसंहारो युक्त इत्यक्तमयुक्तम् । तस्यैव सवर्ोत्तमत्वेनान्यस्य तदुपास्यस्याभावादिति शङ्कानाद्वा उपासनाधिकारिणो निरूप्योपास्यमिह निरूप्यत इति वा सङ्गति: । पूर्वत्र प्राणादुत्तमत्वेन प्रकृतो विष्णु: किं प्राणान्नोत्तम: अथोत्तम इति चिन्ता । तदर्थं छान्दोग्ये "प्राणो वा आशाया भूयान्' इत्या नानात् (छां.7-15-1) प्राणादुपरि "सत्यं त्वेव विजिज्ञासितव्यम्' (छां.7-16-1) इत्या नात: सर्वोत्तम: सत्यनामक: किं प्राणादनन्य उतान्यो विष्णुरिति चिन्ता । तदर्थं प्राणप्रकरणात् सत्यप्रकरणस्य भेदकं नास्त्युतास्तीति । पूर्वपक्षस्तु । नामादिप्राणपर्यन्तानां पञ्चदशप्रकरणानां भेदकस्य प्रश्ऱ्नप्रतिवचनभावस्येवेह "अस्ति प्राणाद्भूय: इति प्रश्ऱ्नस्य "सत्यं वाव प्राणाद्भूय:' इति प्रतिवचनस्य प्राणसत्यप्रकरणभेदकस्याभावेन प्राणसत्ययोरन्यत्वान्न सत्यशब्दार्थभूत: सन् विष्णु: प्राणादुत्तम: । न च प्रकरणभेदकयो: प्रश्ऱ्नप्रतिवचनयोरध्याहार: ज्ञापकाभावादिति । सिद्धान्तस्तु । "स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति' इति (छां.7-15-4) प्राणवादिनोऽतिशयितवस्तुवादित्वेनातिवादित्वमुक्त्वा पश्ऱ्चात् "एष तु वा अतिवदति य: सत्येनातिवदति' (छां.7-16-1) इति सत्यस्य वस्तु वदतोप्यतिवादित्वोक्त्या प्राणातिवादितोऽपि सत्यतिवादिन: तुशब्देन व्यावर्तनात् ज्ञापकात् प्रश्ऱ्नप्रतिवचनयोरध्याहारेण प्रकरणविच्छेदात् "उत्तमत्वं हि देवानाम्' इति (बृहत्तन्त्र) स्मृतेश्ऱ्च सत्यनामा विष्णु: प्राणादुत्तम इति तुशब्दो नाध्याहारकल्पक: "विज्ञानं त्वेव' (छां.7-17-1) "मतिस्त्वेव' (छां.1-18-1) इत्यादौ वक्ष्यमाणदिशा भेदहीनेऽपि वस्तुनि श्रवणेन व्यभिचारादिति चोद्यन्तु "भूम:' नये (ब्र.सू.1-3-8) निरस्तम् । निरासकप्रकारश्ऱ्च चन्द्रिकायां व्यक्त: । फलं त्वानन्दादय इत्यत्रोक्त आत्मत्वोपासनसमर्थनम् ।।
22 ।।
।। ॐ सैव हि सत्यादय ॐ ।। 23 ।।
अत्र प्रागुक्ते विष्णो: प्राणादुत्तमत्वे विशेषचिन्तनात्सङ्गति: । प्रकृतात्प्राणात् सत्यपदोक्तो विष्णुरेवोत्तम: अथ बहवोऽप्युत्तमा: सन्तीति चिन्ता । तदर्थं सत्यस्योपरि पठितानां विज्ञानमतिश्रद्धानिष्ठकृतिसुखभूमाहंकारात्मनां नवानां किं सत्यात् परस्परं च भेद उताभेद इति । तदर्थं अभेदे ज्ञापकं नास्त्युतास्तीति । पूर्वपक्षस्तु । सत्यादीनामात्मान्तानां अभेदे ज्ञापकाभावात् शब्दान्तरन्यायेन भेदस्यैव न्याय्यत्वात् प्राणात्सत्यादयो बहव उत्तमा इति । सिद्धान्तस्तु । विज्ञानादे: सत्यादितोन्यत्वे "सत्यं भगवो विजिज्ञास्य' (छां.7-16-1) इत्यादि प्रश्ऱ्ने विज्ञानादेरुक्तेरसांगत्यापत्ते: तदन्यथानुपपत्तिबलेन "सत्यं भगवो विजिज्ञास्य' इत्यस्य सत्यगुणजिज्ञासापरत्वे सति सत्याविनाभूतविज्ञानोक्ति: । एवं "विज्ञानं भगवो विजिज्ञास्य' (छां.7-17-1) इत्यत्रापि विज्ञानगुणजिज्ञासायां तदविनाभूतगुणोक्तिपरत्वेन सर्वेषामभेदस्य न्यायप्राप्तत्वात् "सत्याद्या अहमन्ता यद्गुणा:' इत्यादि (अध्यात्म)स्मृतेश्ऱ्च तेषामभेदात् विष्णुरेव प्राणादुत्तम इति ।। 23 ।।
।। ॐ कामादितरत्र तत्र चायतनादिभ्य: ॐ ।। 24 ।।
।। ॐ आदरादलोप: ॐ ।। ॐ उपस्थितेस्तद्वचनात् ॐ ।।
एवं सत्यादे: सर्वस्य विष्णुत्वोक्तौ श्रियोप्यधिकारित्वात् प्राणादूर्ध्वं श्रियोऽप्यध्याहार: स्यात् । तथाच प्राणावधित्वमधिकारिवर्गस्योक्तमयुक्तमिति शङ्कनात्सङ्गति: । अत्र प्राणविष्णुसन्निधापिता श्री: किमुपासनायामधिकारिरी अथ नेति चिन्ता । तदर्थं सा बद्धा उत नेति । तदर्थं सीतादिरूपेण भूमौ भवनादिकं जीववद्देहयोगादिरूपजन्माद्येव उत प्रादुर्भावादिरूपमिति । तदर्थं श्रियो भगवदर्चनं जन्मादिहेतुकर्मादिबन्धमोचननिमित्तं उत मुक्तवन्निरुपाधिकभक्त्यतिशयनिमित्तमिति । तदर्थं भक्तिनिमित्तत्वकल्पकं नास्त्युतास्तीति । पूर्वपक्षस्तु । "यदर्चितं ब्रह्मभवादिभिस्सुरै: श्रिया च देव्या मुनिभिश्ऱ्च सात्वतै:' (भागवत.10-33-7) इत्यादौ श्रियोऽपि भगवदुपासना श्रूयते । सा चेतरेषामिव भगवत्प्रीतिद्वारा बन्धमोचनार्था । तस्या: कृतकृत्यत्वे तदयोगात् । भक्त्यतिशयनिमित्तत्वे कल्पकाभावात् । अन्यथा सात्त्वतप्रभृतीनामपि सा तदर्था न स्यात् । एवं च तद्बलात्सीतारुक्मिण्यादिरूपेण भवनतिरोधानादे: कर्माधीनदेहोपादानत्यागरूपत्वेन इतरजीववत् बद्धत्वावगमात् बद्धत्वे सति साधुत्वाच्च अधिकारिणी एवोपासनायां श्रीरिति । सिद्धान्तस्तु । सर्वायतनेत्यादिभाष्योक्तश्रुत्यादिबलेन नित्यं भगवत्सम्बन्धित्वेन अतिशयिततत्प्रसादात् नित्यमुक्तत्वावगमात् तद्बलेन भूमौ भवनादे: ईशेच्छाधीनस्वेच्छामात्रहेतुकतया प्रादुर्भावरूपत्वेन कमर्ाधीनदेहयोगादिरूपत्वाभावावगमेन "यथाश्रीर्नित्यमुक्तापि' इति स्मृत्या चार्चनस्य भक्त्यतिशयनिमित्तत्वकल्पनान्नाधिकारिणी श्रीरिति । फलं तु उपासकानां प्राणावधित्वसमर्थनम् ।। 24 ।।
।। ॐ तन्निर्धारणार्थनियमस्तद्दृष्ये: पृथग्घ्यप्रतिबन्ध: फलम् ॐ ।। 25 ।।
पूर्वत्र श्रिय: कृतार्थता फलाभावेऽपि आदरादुपासनाऽलोपोक्तौ तर्ह्यकृतार्थानां फलाभावात् श्रवणादिसमस्तोपासनस्य लोप एव स्यादिति शङ्कनात्सङ्गति: । अत्र श्रवणमननध्यानरूपत्रिविधमुपासनं व्यस्तं कार्यमुत समस्तमिति चिन्ता । तदर्थं त्रिविधस्यापि फलं नास्त्युतास्तीति । तदर्थं त्रितयस्यापि तत्साधनत्वे मनोपयोगौ न स्त उत स्त इति । पूर्वपक्षस्तु । उपासनं हि भगवद्दर्शनार्थं "द्रष्यव्य:' श्रुते: । तस्य च श्रवणमननाभ्यां वा ध्यानेनैव वोपपत्तौ न त्रितयसाध्यत्वे प्रमाणमस्ति । "द्रष्यव्य: श्रोतव्यो मन्तव्यो निदिध्यासितव्य:' इति श्रुतिस्तु वैकल्पिकसाधनविधानेनाप्युपपन्ना । किं च न त्रितयस्योपयोगोऽस्ति । न चाज्ञातज्ञापनेन श्रवणस्य, तन्नियमजननेन मनस्य, दृशिजननेन ध्यानस्योपयोग इति युक्तम् । तथाच त्रितयस्यापि पृथक्त्वफलत्वेन दर्शनोद्देशेन त्रितयविधानानुपपत्ते: । एवं च प्रमाणोपयेगयोरभावे दर्शनस्य
त्रितयसाध्यत्वाभावेन फलाभावान्न समस्तोपासनं कार्यमिति । सिद्धान्तस्तु । "द्रष्यव्य' इति श्रुतौ दर्शनोद्देशेन त्रितयस्यापि विधानाद्विकल्पद्योतकशब्दाभावेन समुच्चयसाधनतावगमात् समुच्चितानामेव दृशिरूपफलहेतुत्रितयं कार्यमेव । नचोपयोगाभाव: शङ्कय: । दर्शनं प्रति ध्यानस्यैव हेतुत्वेऽपि ध्यानस्य दृशिजननेऽपेक्षिताया: प्रतिबन्धकाज्ञानसंशयविपर्ययनिवृत्ते: सम्पादनेन श्रवणमननयोरुपयोगित्वादिति । फलं तु जिज्ञासासूत्रोक्तत्रितयसमर्थनम् ।। 25 ।।
।। ॐ प्रदानवदेव हि तदुक्तम् ॐ ।। 26 ।।
प्रधानकर्तव्यत्वसिद्धौ तदङ्गमिहनिरूप्यत इति वा पूर्वं श्रवणादित्रयस्यापि फलमुक्तं इहांगमुच्यत इति वा दृशि हेतोर्ध्यानस्य श्रवणमननाख्यमङ्गमुक्तं इह त्रितयस्याप्यंगमुच्यत इति वा सङ्गति: । अत्र प्रकृतश्रवणादित्रयं यथाकथंचिदनुष्ठितं ज्ञानहेतुरुत प्रीतिपूर्वकगुरूपदेशयुक्तमिति चिन्ता । तदर्थं तस्य तादृशगुरूपदेशयुक्तत्वेन फलहेतुत्वे साधकं नास्ति श्रुतिविरोधादिबाधकं चास्त्युत विपरीतमिति । पूर्वपक्षस्तु । गुरूपदेशयुक्तमेव श्रवणादिकं दृशिहेतुरित्यत्र प्रमाणाभावात् प्रत्युत द्रष्यव्य इति श्रुतौ दृश्युद्देशेन श्रवणादित्रयस्यैव विधानेन तद्विरोधरूपस्य ज्ञानस्य गुरुप्रसादाधीनत्वे ज्ञानिनोऽपि मोक्षस्य तदधीनत्वप्रसंगेन कदाचिद्गुरुकोपेन मोक्षाभावस्याप्यापत्त्या "अनियमस्सर्वेषाम्' इत्युक्त (ब्र.सू.3-3-31) भंगरूपस्य बाधकस्य च सत्त्वाच्च न गुरुप्रदानयुक्तं ज्ञानहेतु: किंतु केवलमेव श्रवणादिकम् । नच गुरुकोपो न मोक्षप्रतिबन्धक: । तथात्वे गुरुप्रदानमपि ज्ञानेऽकिंचित्करमिति । सिद्धान्तस्तु । प्रीतिपूर्वकगुरूपदेशरूपांगयुक्तमेव श्रवणादिकं ज्ञानहेतुर्न केवलम् । "आचार्यवान् पुरुषो वेद' इति (6-14-2) श्रुतौ ज्ञानस्य गुरुप्रसादाधीनत्वावगमेन तेन विना श्रवणादिमात्रेण ज्ञानासिद्धे: । "सम्यग्लक्षणसम्पन्नो यद्दद्यात्सुप्रसन्नधी: । शिष्याय सत्यं भवति तत्सर्वं नात्र संशय:' इति "नातिप्रसन्नहृदयो यद्दद्याद्गुरुरप्यसौ । न तत्सत्यं भवेत्तस्मादर्चनीयो गुरुस्सदा' इति स्मृतेश्ऱ्च । नच द्रष्यव्य इति श्रुतिविरोधो बाधक: । श्रवणादे: प्रधानसाधनत्वाद्गुरुदानस्य तदङ्गत्वात् सोमरसाध्यायगस्य दृढमुष्यिनिपीडनाधीनत्वेऽपि तस्य तदङ्गत्ववत् ज्ञानस्य गुरुप्रदानाधीनत्वेऽपि तस्य ज्ञानहेतुश्रवणाद्यङ्गत्वोपपत्ते: । अङ्गस्य च प्रधानसाधनेन सह तुल्यकक्ष्यतया विधानाभावेऽपि दृढमुष्यिनिपीडनादेरिव अथर्ाद्वचनान्तराद्वा प्राप्तत्वेन प्रदानस्य द्रष्यव्यश्रुत्यनुमतत्वात् । नच कदाचित्कोपेन ज्ञानस्य वा ज्ञानिनो मोक्षस्य वाऽभावापातो बाधक इति वाच्यम् । ज्ञानमोक्षयोरीश्ऱ्वरक्लप्तत्वेन तदभावायोगात् । गुरुशापादेश्ऱ्च "ज्ञानिनो गुरुशापेपि' इत्यादि (न्यायविवरणोदाहृत) स्मृत्या ज्ञानादिह्रासहेतुत्वेन साफल्योपपत्तेरिति । फलं तु इतरेत्वर्थसामान्यात्' इत्यत्रोक्त(ब्र.सू.3-3-14) गुरुसापेक्षत्वस्य समर्थनम् ।। 26 ।।
।। ॐ लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॐ ।। 27 ।।
पूर्वप्रकृताङ्गाङ्गिनोमर्ध्येऽत्राङ्गस्य बलवत्वसाधनात्सङ्गति: । अत्र श्रवणादिसाधनं तदंगगुरुप्रदानं चेति द्वयं समबलं उतान्यतरद्बलवदिति चिन्ता । तदर्थं पुरुषत्वसाम्यं गुरुशिष्यप्रयत्नयो: साम्यापादकं भवत्युत नेति । तथान्यतरद्बलवदित्यत्र शिष्यप्रयत्नो बलवानथ गुरुदानं बलवदिति चिन्ता । तदर्थं प्रदानस्य बलवत्त्वे साधकं नास्ति बाधकं चास्त्यथविपरीतमिति । पूर्वपक्षस्तु । प्रदानस्य बलवत्त्वे क्वापीतिकर्तव्यताया: साधनादपि प्राबल्यादशर्नेन इतिकर्तव्यत्वभङ्गप्रसङ्गात् श्रवणादिवैयर्थ्यप्रसङ्गाच्च बाधकाभावात् साधकाभावाच्च न प्रदानं बलवत् किन्तु श्रवणाद्येव प्रधानसाधनत्वात् । मास्तु वा बलवत् गुरुशिष्ययो: पुरुषत्वाविशेषात् गुरुप्रदानं शिष्यप्रयत्नश्ऱ्च द्वयं सममेव स्यात् । नहि कश्ऱ्चिन्न्यूनाधिकभावेऽपि विशेषोऽस्तीति । सिद्धान्तस्तु । न तावत्साम्यं युक्तं पुरुषत्वे गुरुत्वशिष्यत्ववत् तत्प्रयत्नयोरपि न्यूनाधिकभावसम्भवेन पुरुषत्वमात्रस्याप्रयोजकत्वात् न्यूनाधिकभावे प्रदानस्यैवाधिक्यमुक्तम् लिङ्गबाहुल्यरूपसाधकभावात् । हिंसाया: पापजननशक्ताया अपि यागीयहिंसाया: प्रोक्षणांजनपर्यग्निकरणादीतिकर्तव्यताबलेन पुण्यजनकत्वदर्शनेन तत्रेतिकर्तव्यताया: प्राबल्यवत् अत्र प्रदानस्य प्राबल्ये अङ्गत्वभङ्गप्रसङ्गाभावात् । श्रोतव्य इत्यादि श्रुत्या "गुरुप्रसादो बलवान्' इत्यादि (वाराह) स्मृत्या च श्रवणादेरप्यावश्यकत्वेन तद्वैयर्थ्याभावाच्च बाधकाभावाच्चेति । लिङ्गबाहुल्यं च टीकादौ व्यक्तम् । फलं तु सेतिकर्तव्यत्वस्यैव श्रवणादेर्ज्ञानहेतुत्वरूपप्रागुक्तप्रमेयसमर्थनम् । अन्यथा क्वचिद्गुरोरनपेक्षितत्वप्रसङ्गेन प्रागुक्तमयुक्तं स्यादिति ।। 27 ।।
।। ॐ पूर्वविकल्प: प्रकरणात्स्यात्क्रियामानसवत् ॐ ।। 28 ।।
।। ॐ अतिदेशाच्च ॐ ।।
यत्प्रसादो बलवानित्युक्तं स गुरुरत्र चिन्त्यत इति सङ्गति: । अत्र प्रकृतो गुरु: किं पूर्वप्राप्त एवेति नियमोऽथान्योऽपि गृहीतुं शक्य इति चिन्ता । तदर्थं पूर्वत्यागे कारणं नास्ति बाधकं चास्ति उत विपरीतमिति । तथा अन्योऽपि ग्राह्य इति पक्षे स किं य: कश्ऱ्चिदुत पूर्वस्मादनपकृष्य: समग्रानुग्रहकर्तैवेति । पूर्वपक्षस्तु । शुभलाभार्थं हि गुरुस्वीकारो भवति । स च पूर्वप्राप्तगुरुणैव भविष्यतीति तत्त्यागे कारणाभावात् । "(गुरुत्यागे भवेन्मृत्यु: मन्त्रत्यागे दरिद्रता) गुरुमन्त्रपरित्यागी रौरवं नरकं व्रजेत्' इति दोषश्रवणरूपबाधकाच्च पूवर्प्राप्त एव गुरु: नत्वन्योऽपि ग्राह्य इति । अन्योऽपि ग्राह्य इति पक्षे च नियामकाभावाद्य: कश्ऱ्चिदेवेति । सिद्धान्तस्तु । गुरुपरिग्रहो हि न केवलं किंचिच्छुभलाभार्थं किन्तु यावदपेक्षितस्वयोग्यशुभलाभार्थम् । तस्य यदि पूर्वगृहीतो न समर्थ: तर्हि स्वापेक्षितालाभप्रसङ्गेन समग्रानुग्रहार्थत्वरूपकाणसत्त्वादन्योऽपि गुरु: स्वीकार्य: । सोऽपि न यादृशतादृश: किन्तु स्वस्मादनपकृष्य: समग्रानुग्रहकर्तैव । स च समश्ऱ्चेत् पूर्वानुज्ञया स्वीकार्यो न वेति विकल्प: समफलयोर्ध्यानयोरिव न तु स्वीकार्य एवेति नियम: । उत्तमश्ऱ्चेत्पूर्वानुज्ञां विनैव स्वीकार्य: स्यात् । सर्वस्योक्तार्थस्य "पूर्वस्मादुत्तमो लब्ध:' इति (बृहत्तन्त्र) स्मृत्या "समग्रानुग्रहं कश्ऱ्चित्' इति (महासंहिता) स्मृत्या च सिद्धत्वात् "ब्रह्मोपास्व' इति (पौष्यायण) श्रुतौ पूर्वगुरुणैव स्वसमोत्तमस्वीकारायातिदिश्यमानत्वाच्च । नच दोषवचनविरोध: । तस्याधमस्वीकारविषयकत्वेन व्यर्थस्वीकारविषयकत्वेन पूर्वानुज्ञाभावविषयकत्वेन सावकाशत्वादिति । फलं तु इतरेत्वित्यत्रोक्तार्थस्य सर्वज्ञगुरूक्तप्रकारेण गुणादिध्यानं कार्यमित्यस्य समर्थनम् ।। 28 ।। N.M-11
।। ॐ विद्यैव तु निर्धारणात् ॐ ।। 29 ।।
।। ॐ दर्शनाच्च ॐ ।।
यस्योपासनस्य गुरुप्रदानरूपेतिकर्तव्यताफलभेदाधिकारिध्येयादिकं तस्य लघूपायकर्महेतुतावाक्येन मुक्तिहेतुत्वानिर्णयात् सर्वं प्रागुक्तं अभित्तिचित्रायितमिति शङ्कनात्सङ्गति: । अत्र प्रकृतं श्रवणाद्युपासनं न कार्यमुत कार्यमिति चिन्ता । तदर्थं तस्य ज्ञानद्वारा मुक्तिहेतुनिर्णयो न सम्भवत्यथ सम्भवतीति । तदर्थं कर्महेतुत्ववाक्यानां "भाक्तं वा' इत्यत्र (ब्र.सू.3-1-7) परम्परया मुक्तिहेतुत्वादिरूपभाक्तत्ववर्णनं अयुक्तमुत युक्तमिति चिन्ता । तदर्थं कर्मणैवेति तृतीयया तस्य साक्षान्मुक्तिहेतुत्वबोधनस्यापवादकं नास्त्युतास्तीति । तथा ज्ञानद्वारा मुक्तिहेतुत्वनिर्णयपक्षे किं परोक्षज्ञानद्वारमात्रेण उत अपरोक्षज्ञानद्वारमात्रेणापीति । पूवर्पक्षस्तु । "कर्मणैव हि संसिद्धिमास्थिता जनकादय:' इत्यादौ (भ.गी.3-20) अवधारणस्य वक्ष्यमाणदिशा सावकाशत्वेऽपि तृतीयाविभक्त्या कर्मण: संसिद्धिशब्दितमुक्तिं प्रति साक्षाद्धेतुत्वावगमस्यापवादकस्य प्रमाणस्य कस्यचिदभावात् "तरति शोकमात्मवित्' इत्यादे: ज्ञानस्य मुक्तिहेतुतामात्रप्रापकतया कर्मणो मुक्तिहेतुत्वानपवादकत्वात् । एवं च निरपवादकसाक्षान्मुक्तिहेतुबोधकवाक्यबलेन कर्मणोऽपि साक्षान्मुक्तिहेतुत्वावगमेन "भाक्तं वाऽनात्मवित्त्वात्' (ब्र.सू.3-1-7) इति तृतीयाद्यपादे कर्मणो मुक्तिहेतुत्वं गौणमिति वर्णनस्यायुक्तत्वात् ज्ञानद्वारा श्रवणाद्युपासनमेव मुक्तिहेतुरिति निर्णयासम्भवात् लघूपाये सति गुरूपायस्य निश्शङ्कमनुष्ठानायोगाच्च न कार्यमुपासनमिति । मास्तु वा ज्ञानद्वारोपासनं मुक्तिहेतु: तथाऽपि "तमेवं विद्वान्' इति श्रुत्या (पुरुषसूक्त) अपरोक्षस्यैव मुक्तिहेतुत्वावगमात् तस्य च श्रवणादिनैव सिद्धे ध्यानं न सर्वथा कार्यमेवेति । सिद्धान्तस्तु । "नान्य: पन्था:' इति सावधारणहेतुत्ववचनस्य कर्मवचनादपि बलवत्त्वेन तेन साक्षात्कर्महेतुत्वस्यापोदिततया कर्मणैवेत्यादेरपि परम्परया कथंचिन्मुक्तिहेतुत्वस्य प्रागुक्तरीत्या वर्णनीयत्वात् ज्ञानद्वारा मुक्तिहेतुत्वस्योपासने निर्णयसम्भवात् कार्यमेवोपासनम् । द्वारभूतं ज्ञानमपि न परोक्षमात्रं किन्तु "दृष्ट्वैव तं मुच्यते' इत्यादि(कौशिक) श्रुतिबलेन विद्वानिति श्रुतेरपि अपरोक्षपरत्वादपरोक्षज्ञानमपीति श्रवणादित्रितयमपि कार्यमेवेति । स्मृतिरपि सावधारणेत्येतदग्रे निरसिष्यते । फलं तु प्रागुक्तसमर्थनम् ।। 29 ।।
।। ॐ श्रुत्यादिबलीयस्त्वाच्च न बाध: ॐ ।। 30 ।।
यदि श्रुते: सावधारणत्वेन बलवत्त्वं तर्हि स्मृतेरपि तथात्वात् आप्तवाक्यत्वाच्च बलवत्त्वमिति शङ्कनात्सङ्गति: । अत्र ज्ञानफलत्वेन पूर्वत्रप्रकृतो मोक्ष: किं कर्मसाध्योऽथ ज्ञानसाध्य इति चिन्ता । तदर्थं "कर्मणैव' इति स्मृति: "नान्य: पन्था:' इति श्रुतितोऽपि प्रबला उत नेति । तदर्थं कर्मणैवेत्यवधारणं निरवकाशमुत सावकाशमिति । तदर्थं सावकाशकल्पकं नास्त्युतास्तीति । पूर्वपक्षस्तु । कर्मसाध्यो मोक्ष: कर्मणैति स्मृते: । नच सावधारणश्रुतिबाधिता सती स्मृति: दुर्बलेति वाच्यम् । स्मृतेरपि सावधारणत्वात् । नच तदयोगव्यवच्छेदकतया सावकाशं कल्पकाभावात् । नच श्रुतिविरोधे दौर्बल्यं स्मृते: श्रुतेरेव च प्राबल्यमिति "विरोधेत्वनपेक्षं स्यात्' इति पूर्वतन्त्रे सिद्धमिति वाच्यम् । स्मृते: श्रुतिमूलत्वेन प्रामाण्यपक्ष एव हि तत् । कर्मणैवेति स्मृतेश्ऱ्च भगवद्वाक्यत्वेनैव प्रामाण्योपगमेनाप्तवाक्यतया सावधारणतया च प्राबल्येन विद्याश्रुतेर्बाधादिति । सिद्धान्तस्तु । ज्ञानसाध्य एव मोक्ष: न कर्मसाध्य: । ज्ञानसाध्यत्वे बलवच्छतिलिङ्गोपपत्तिस्मृतीनां भावात् निरवकाशावधारणयुक्तत्वेन श्रुतेबर्लवत्त्वात् । तथा बहुकर्मकृतोपीन्द्रस्य दु:खासम्भिन्नसुखरूपमोक्षार्थं तत्त्वज्ञानप्रार्थनलिङ्गस्य "इन्द्रोऽश्ऱ्वमेधान्' इति श्रुतिप्रसिद्धस्य बलवत्त्वात् । तथाऽपि उत्पत्तिनाशवत्फलत्वेनावधृतकर्मणा नित्यपुमर्थो न भवतीत्युपपत्तेश्ऱ्च । "नास्त्यकृत: कृतेन' इति (मुं.1-2-12) श्रुतिसिद्धतया निर्दोषतया च प्रबलत्वात् । "कर्मणा बध्यते' इति स्मृतेश्ऱ्च भगवद्वाक्यतया युक्तिमत्तया च बलवत्त्वात् । एवं बलवतां मोक्षस्य ज्ञानसाध्यत्वनिर्णायकानां अनेकसाधकानां भावादेव कर्मणैवेत्यवधारणस्य कर्मणा संसिद्धिमास्थिता एवेत्ययोगव्यवच्छेदकतया सावकाशत्वात् स्मृते: न कर्मसाध्यत्वापादने प्रामाण्यमिति । फलं तूपासनाकर्तव्यत्वसमर्थनम् ।। 30 ।।
।। ॐ अनुबन्धादिभ्य: ॐ ।। 31 ।।
"दर्शनाच्च' इति (ब्र.सू.3-3-49) पूवर्त्र दर्शनस्य मुक्तिहेतुतया पूर्वनये निर्णीतत्वेन प्रकृतत्वात् तस्य भक्त्यादिसाध्यत्वमत्रोच्यत इति सङ्गति: । प्रकृतं दर्शनं किं भक्त्यादिना विना प्रदानोपेतश्रवणादिमात्रात् भवति उत नेति चिन्ता । तदर्थं दर्शनहेतूपासनं भक्त्यादिना विनापि भवदपि फलपर्यवसायि उत नेति । पूर्वपक्षस्तु । भक्त्यादिना विना प्रदानयुक्तश्रवणादिमात्रादेव दर्शनं भविष्यति । "सम्यग्लक्षणसम्पन्न:' इत्यादि (नारायणतन्त्र) स्मृत्या गुरुप्रसादासाध्यस्य कस्याप्यभावात् । न चोपासनमेव भक्त्यादिहीनस्य नेति युक्तम् । द्वेषेणापि तत्सम्भवात् । नच द्वेषयुतोपासनं न फलपर्यवसायीति युक्तम् । "द्वेषाच्चैद्यादयो नृपा:' इति सप्तमस्कन्धे द्वेषेण ध्यायतामपि मुक्तिस्मरणादिति । सिद्धान्तस्तु । दर्शनं न भक्त्यादिहीनात्प्रदानयुतोपासनाद्भवति । किन्तु भक्त्याद्युपेतादेव । भक्त्यादिना विना भगवतोऽप्युपासनाय पुमर्थाहेतुत्वस्य प्रत्युतानर्थहेतुत्वेन "द्वेषाद्यन्मुक्तिकथनं श्रुतिवाक्यविरोधि तत्' इत्युपक्रम्यानुव्याख्यानोक्तानेकमानसिद्धत्वेन फलपर्यवसाय्युपासनस्य तु गुरुप्रसादस्य च भक्त्यादिनैव सिद्धेरित्यस्य "तथाप्यनादिसंसिद्धभक्त्यादिगुणपूर्णत: । लभेद्गुरुप्रसादम्' इत्यादि (नारायणतन्त्र) सिद्धत्वात् । "द्वेषाच्चैद्यादय:' इत्यादेस्तु स्वाभाविकभक्तविषयतयोपपत्तेरिति । फलं तु भक्त्यर्थकपूर्वपादीयमाहात्म्योक्तिसाफल्यसमर्थनम् ।। 31 ।।
।। ॐ प्रज्ञान्तरपृथक्त्ववद्दृष्यिश्ऱ्च तदुक्तम् ॐ ।। 32 ।।
यद्दर्शने भक्त्यादिकमावश्यकमित्युक्तं तस्मिन्दर्शने तारतम्यमत्र निरूप्यते इति सङ्गति: । प्रकृतं मुक्तिहेतुभगवद्दर्शनं किमेकप्रकारमुतानेकप्रकारमिति चिन्ता । तदर्थं "दृष्ट्वैव तं मुच्यते' (कौशिक श्रुति) "भक्त्या मामभिजानाति' (भ.गीता. 18-55) इत्यादिवचनं सर्वेषामेकरूपज्ञानस्य हेतुतापरमुत नेति । तदर्थं सर्वेषामेकरूपज्ञानस्य हेतुतापरं नेत्यत्र कल्पकं नास्त्युतास्तीति । पूर्वपक्षस्तु । सर्वेषां मुक्तिहेतुज्ञानं एकरूपमेव "दृष्ट्वैव तम्' इति श्रुतौ सर्वेषामविशेषितज्ञानेन मोक्षश्रवणात् । "भक्त्या मामभिजानाति यावान्यश्ऱ्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्' इति सर्वेषां भक्त्यादिना पूर्णज्ञानोत्पत्ते: । सम्पूर्णज्ञानेनैव मोक्षस्य गीतायां स्मरणात् । नच श्रुत्यादिकं विशेषपरं कल्पकाभावात् । नच ज्ञानहेतूपासनतारतम्यमेव कल्पकम् । अनेकविधसाधनवतामपि कदाचित्कर्षकाणामिव साध्यसाम्योपपत्त्या तस्याप्रयोजकत्वात् । ज्ञानस्य न्यूनाधिकरूपविशेषवत्त्वे "भक्त्या' इति स्मृतौ सम्पूर्णज्ञानेनैव मुक्त्युक्ते: तद्धीनानां मुक्त्यभावापातेन "अनियमस्सर्वेषाम्' इत्युक्तभङ्गप्रसङ्गाच्चेति । सिद्धान्तस्तु । अनेकरूपमेवाधिकारिणां भगवद्दर्शनम् । तत्साधनोपासनस्य विचित्रतया तज्जन्यज्ञानेऽपि वैचित्ऱ्यस्यावश्यकत्वात् साधनानुसारित्वात् फलस्य । नच तदन्यथोपपत्त्याऽप्रयोजकम् । "अन्तर्दृष्ययो बहिर्दृष्यय:' इत्यादि (कमठ) श्रुतौ ज्ञानवैचित्ऱ्यस्य प्रमितत्वेन सर्वेषां एकरूपस्य बाधिततया तेनोपासनवैचित्ऱ्यस्यान्यथोपपत्ते: । कादाचित्ककर्षकदृष्यान्तमात्रेण कल्पयितुमनुचितत्वात् । नच सर्वेषां मुक्त्यभावापातदोष: । "दृष्ट्वैव ह्यवताराणाम्' इति (अध्यात्म) स्मृत्या तरतमभावापन्नज्ञानेनैव अधिकारिणां मोक्षावगमेन "भक्त्या' इति स्मृते: सामान्यत: सर्वविषयकज्ञानस्य मुक्तिहेतुपरत्वेन वा हिरण्यगर्भरूपाधिकारिविशेषपरत्वेनवा उपपत्तेरिति । फलं तु यावदित्यत्रोक्तमोक्षतारतम्यसमर्थनम् ।। 32 ।।
।। ॐ न सामान्यादप्युपलब्धेर्मृत्युवन्नहि लोकापत्ति: ॐ ।। 33 ।।
यद्भगवद्दर्शने वैचित्ऱ्यं तद्दर्शनं बिम्बविषयमेव मुक्तिहेतुरिति निरूपणात्सङ्गति: । अत्र प्रकृतं भगवद्दर्शनं किं यत्किञ्चिद्रूपविषयं मुक्तिहेतुरुत बिम्बरूपविषयमिति चिन्ता । तदर्थं रूपविषयकस्यैव मुक्तिहेतुत्वे न स्थानतोऽपीत्यत्र निर्णीतभगवद्रूपाणां साम्यभङ्ग: प्रसज्यतेऽथ नेति । तथा यत्किंचिद्रूपदृष्ये: मुक्तिहेतुत्वे वैफल्यं तस्या: प्रसज्यते न वेति । पूर्वपक्षस्तु । कस्यचिद्रूपस्य मोक्षदानशक्तिरन्यस्य नेत्यङ्गीकारे "न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि' इत्युक्त (ब्र.सू.3-2-11) सर्वरूपसाम्यस्य भंगापत्त्या यत्किंचिद्रूपज्ञानमपि मुक्तिहेतुरेव । किं च सामान्यदृशेर्मुक्तिहेतुत्वे तद्दर्शनस्य वैफल्यप्रसङ्गान्न च तद्युक्तम् । अतो मुक्तिरेव तत्फलमिति सामान्यदृष्यिरपि मुक्तिहेतुरेव । अपि च यदि किंचिद्रूपज्ञानं मुक्तिहेतुरन्यन्नेति विकल्प: तर्हि बिंबज्ञानमपि किंचिन्मुक्तिहेतु: किंचिन्नेत्यनियम इत्युक्तभङ्गप्रसङ्ग इति । सिद्धान्तस्तु । यथा
मृतीनां मृतित्वाविशेषेऽपि मृतिविशेषानन्तरमेव मुक्ति: एवं भगवद्रूपाणां समत्वेऽपि भगवत्सङ्कल्पानुसारेण बिम्बरूपविशेषज्ञानमेव मुक्तिहेतु: न यत्किञ्चिद्रूपज्ञानम् । समोऽपि भगवान् स्वबिम्बदर्शने एवैनं मोचयतीति श्रुते: । नचैवं सामान्यदृशेर्वैफल्यम् । "सामान्यदर्शनाल्लोका:' इति (नारायणतन्त्र) स्मृत्या दर्शने विकल्पवत् बिम्बदर्शने तदनापत्तेरिति । फलं तु बिम्बोपासननैयत्यसमर्थनम् ।। 33 ।।
।। ॐ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्ध: ॐ ।। 34 ।।
दृशिहेतुत्वेन प्रागुक्तभक्तेरत्र स्वातन्त्ऱ्यनिरासात्सङ्गति: । प्रकृतदर्शनं किं भक्तिसामर्थ्येन भवति उत ईश्ऱ्वरशक्त्येति चिन्ता । तदर्थं "भक्तिरेवैनं दर्शयति' इति (माठर) श्रुति: किं भक्ते: स्वातन्त्ऱ्यपरा अथ कर्तुरीश्ऱ्वरस्य दृशिदाने करणत्वपरेति । तदर्थं भक्ते: करणत्वपरत्वे कल्पकं नास्ति भक्तिरेवेति विशिष्योक्तिश्ऱ्च युक्तोत विपरीतमिति । पूर्वपक्षस्तु । "भक्तिरेवैनं दर्शयति' इति भक्ते: कर्तृत्वश्रवणस्य करणत्वपरत्वकल्पने कल्पकाभावात् साधनान्तरेषु सत्सु विशिष्य भक्तेरेवात्रोक्ते: बीजाभावेनायुक्तत्वाच्च भक्तिरेवेश्ऱ्वरप्रसादमनपेक्ष्य स्वशक्त्यैव भगवदापरोक्ष्यं ददातीति । सिद्धान्तस्तु । भक्तेरेव दृशिकर्तृत्वे "एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम (अथ.6-4) इत्यथवर्णश्रुतौ एतै: प्रवचनाद्युपायै: यो दर्शनार्थं यतते तस्यार्थे प्रसन्न: परमात्मा ब्रह्मधाम वायुं विशति तस्याविभर्वति इति भक्त्याद्युपायै: प्रसन्नेश्ऱ्वरस्यैव स्वापरोक्षदातृत्वग्रहणेन विरोधापत्त्या "भक्तिरेवैनम्' इति श्रुते: भक्ते: कर्तृपरत्वायोगेन करणपरत्वात् साधनेषु भक्ते: प्राधान्येन भक्तिरेवेति विशिष्य भक्तेरुक्त्युपपत्ते: । भक्त्यादिसर्वशब्दानां प्रथमेऽध्याये भगवति समन्वयस्योक्तत्वेन प्रकृतिनयन्यायेन स्त्रीलिङ्गभक्तिशब्दस्यापि विष्णौ मुख्यतया श्रुतेर्विष्णुपरतयोपपत्ते: । "भक्तिस्थ: परमो विष्णु:' इत्यादि (मायावैभव) स्मृतिबलात्, अनादिभक्तिप्रसन्नेश्ऱ्वरसामथ्यर्ेन तदपरोक्षज्ञानमिति । फलं तु "तदव्यक्तमाहहि' इत्युक्त (ब्र.सू.3-2-23) अव्यक्तत्वसमर्थनम् ।। 34 ।।
।। ॐ एक आत्मन: शरीरे भावात् ॐ ।। 35 ।।
अनादिभक्तेर्दृष्यिकारणत्वोक्तिरयुक्ता । "स्थानविशेषात्' इत्यत्र (ब्र.सू.3-2-35) भाष्याद्युक्तिदिशा अनादिभक्त्यादिसम्पत्तिरूपयोग्यतासापेक्षत्वस्यैवायोगादिति भावेन शङ्कनात्सङ्गति: । अत्र प्रकृतोपासनादौ अनादियोग्यतापेक्षा नास्त्युतास्तीति चिन्ता । तदर्थं योग्यताया: अनादित्वं न सम्भवत्युत सम्भवतीति । तदर्थं अजुर्नद्यंशानां किं स्वरूपेणोत्पत्तिरस्त्युत नेति । तदर्थं अंशांशिनोभर्ेद उताभेद इति । तदर्थमभेदसाधकं नास्ति बाधकं चास्ति अथ विपरीतमिति । पूर्वपक्षस्तु । अंशांशिनोरभेदे साधकप्रमाणाभावात् प्रत्युतांशांशिनोश्ऱ्चैत्रमैत्रयोरिव ज्ञानसुखदु:खादिभेदोपलम्भस्य अभावप्रसङ्गरूपबाधकभावाच्च भेदावश्यंभावेन अंशिन इन्द्रादेरनादित्वेऽपि अर्जुनाद्यंशस्य स्वरूपेणोत्पत्तिसम्भवेन इन्द्राद्यंशानामर्जुनादीनां सादित्वेन तद्धमर्योग्यतया अपि तथात्वेन योग्याया अनादित्वायोगात् नाऽनादियोग्यतापेक्षास्त्युपासनादाविति । सिद्धान्तस्तु । अंशस्य स्वरूपोत्पत्तिपक्षे तच्छरीरार्जकपूर्वतनतदनुष्ठितकर्माभावात् मोक्षाभावप्रसङ्गेन कर्मनिमित्तशरीरायोगादनन्यगत्या "अंनिस्तु पृथग्जाता अंशास्तस्यैव कर्मणा' इति (परमसंहिता) स्मृत्या च अंशिकर्मार्जितशरीरे अर्जुनाद्यंशानामवस्थानमित्यवश्यं वाच्यत्वात्तस्य चांशांशिनोर्भेदेऽयोगात् तत्कमर्ार्जितशरीरेऽवस्थानान्यथानुपपत्तिरूपेण अंशिगतप्रधानसाधनोपासनादिफलस्यांशेनानुसन्धीयमानत्वेन तदन्यथानुपपत्तिरूपेणांशांशिनोरभेदसाधकमानेन अल्पज्ञानसुखाद्यननुसन्धानस्य मानुषसंपर्कप्राकृतान्नभोजनादिना भगवदिच्छयोपपत्त्या च बाधकाभावेन चांशांशिनोरभेदात् अनाद्यभिन्नांशस्य स्वरूपोत्पत्त्ययोगेन तस्याप्यनादित्वेन तद्धर्मभूतयोग्यताया अप्यनादित्वसम्भवात् अस्त्यनादियोग्यतापेक्षोपासनादौ इति । फलं तु योग्यताहीनानामपि उपासनप्रसङ्गेनाव्यवस्थापत्त्यभाव: ।। 35 ।।
।। ॐ अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॐ ।। 36 ।।
।। ॐ मन्त्रादिवद्वाऽविरोध: ॐ ।।
पूर्वत्र प्रकृतेन्द्रादिदेवतानां तद्योग्यतानुसार्युपासनमत्रोच्यत इति सङ्गति: । अत्र प्रकृत भगवदुपासनं केवलं कार्यमुत ब्रह्मांगदेवतोपासनयुक्तमिति चिन्ता । तदर्थं "तमेवेकं जानथ' (मुं.2-2-5) "पूजयेन्नान्यदेवता' इत्यादौ अन्योपास्ति निषेध: किं सर्वात्मना उत प्राधान्येनेत्यत्र ज्ञापकं नास्त्युतास्तीति । तथान्यदेवतोपासनोऽपि किमेकत्र प्रतीता गुणा: सर्वेषां ध्येया: उत तत्तद्योग्या एवेति । पूर्वपक्षस्तु । "तमेवैकं जानथेत्यादिश्रुतिस्मृतिषु अन्यदेवतोपासनपूजादे: निषिद्धत्वात्स्वातन्त्ऱ्ेणैव पूजादेर्निषेध इत्यत्र ज्ञापकाभावात् केवलमेव भगवदुपासनं कार्यम् । देवतोपास्ते: करणेऽपि एकत्रप्रतीतगुणयुक्तत्वेनैव सर्वदेवतोपास्ति: कार्या । देवत्वादे: सर्वत्रोपास्यत्वदर्शनाद्बाधकाभावाच्चेति । सिद्धान्तस्तु । देवानां वेदेषु प्रतिपादनस्य "आध्ययनाय प्रयोजनाभावात्' इति (ब्र.सू.3-3-15) न्यायेनोपासनार्थत्वेन तदुपासनाभावे वेदेषु तदुक्तेर्वैयर्थ्येन तदुक्त्यन्यथानुपपत्तिरूपसाधकसद्भावात् तत एव "तमेव' इत्यादे: प्राधान्येनोपास्तिनिषेधपरत्वावश्यंभावेन तद्विरोधाभावादन्यदेवतोपास्तियुक्तत्वेनैव भगवदुपासनं कार्यम् । अन्यदेवतोपासनेऽपि "समत्वाद्वोत्तमत्वाद्वा' इतयादि (ब्रह्मतर्क) स्मृत्या देवानां नीचोच्चभावापन्नतया उत्तमगुणा नाधमेषु ध्येया: । किन्तु तत्तद्योग्या एव । यथा भगवद्वाचकवाक्यानां न सर्वेषां सर्वत्रान्वय: किन्तु योग्यानामेव तद्वत् अधमगुणास्तूत्तमेषु ध्येया: । यथाऽधमदेवताप्रतिपादकमन्त्राणामुत्तमप्रतिपादकत्वेन ध्यानं तद्वत् । तथोपासनमपि फलविशेषार्थं उत्तमाधिकारिभिरेव कार्यं न सर्वै: । "उपासनांगदेवानाम्' इत्यादि (बृहत्तन्त्र) स्मृतेरिति फलं तु देवताप्रतिपादकवेदभागसार्थक्यसमर्थनम् ।। 36 ।।
।। ॐ भू न: क्रतुवज्ज्यायस्त्वं तथा च दर्शयति ॐ ।। 37 ।।
पूर्वत्र देवतोपासने गुणोपसंहृतिफलस्य सर्वाप्राप्यत्वात् सा न सर्वै: कार्येत्युक्तौ तर्हि भूमगुणोपास्तिरपि न सर्वै: कार्या । निरतिशयभूमत्वस्य केनाप्यप्राप्यत्वादिति शङ्कोदयात्सङ्गति: । अत्र "यो वै भूमा' इत्यादौ (छां.7-23-1) श्रुतौ भूमगुण: किं न सर्वोपास्य: अथ सर्वोपास्य: इति चिन्ता । तदर्थं तदुपासनमनर्थकमुतार्थवदिति । पूर्वपक्षस्तु । यथा सम्भृत्यादिगुणोपास्तिफलस्य सर्वाप्राप्यत्वान्न सम्भृत्यादिकं सर्वोपास्यम् तथा निरतिशयपूर्णत्वरूपभूमत्वं कस्याप्ययोग्यतया प्राप्तुमिष्यं नेति व्यर्थत्वाद्भूमत्वं न सर्वोपास्यम् । तस्य सर्वोपास्यज्ञानानन्दादिविशेषणत्वेऽपि प्रियशिरस्त्वादिकमिव फलानुपयोगेनानर्थत्वान्न सर्वोपास्यं भूमत्वमिति । सिद्धान्तस्तु । "भूमैव देव: परमो ह्युपास्य:' इति (गौपवन) श्रुत्या ज्ञानानन्दादिगुणेषु सर्वत्र भूमत्वस्य सहभावेनोपासने सत्येव इष्यफलसिद्धि: अन्यथा तु नेत्यवगमेन ज्ञानं भूमं आनन्दश्ऱ्च भूमेत्येवंरूपेण भूमगुणोपास्तेरभिमतफलप्राप्तिहेतुत्वेनार्थवत्त्वात्सर्वैरुपास्यं भूमत्वं यथा दीक्षाप्रायणीयोदयनीयसवनत्रयावभृतात्मक: क्रतु: सर्वयागेष्वनुवर्तन एव साफल्यात् अन्यथा वैफल्याज्ज्यायस्त्वेन सर्वै: कर्तव्यस्तद्वदिति । फलं तु कार्याख्यानादित्यत्रालौकिकगुणोपासनसमर्थनम् ।। 37 ।।
।। ॐ नाना शब्दादिभेदात् ॐ ।। 38 ।।
पूर्वं सामान्येनोक्तस्यात्र विशेषचिन्तनाद्वा भूमत्वस्य सर्वोपास्यत्वे "यावत्' इत्यत्रोक्त (ब्र.सू.3-3-33) तारतम्यभंगापत्तिरिति शंकनाद्वा संगति: । अत्र प्रकृतं भूमत्वं अधिकारिणामेकरूपेण प्रतीयतेऽथ नानारूपेणेति चिन्ता । तदर्थं नानारूपेण प्रतीतौ तस्या: प्रतीते: भ्रान्तित्वमापद्यते उत नेति । तदर्थं भूमत्वमेकरूपमेव न नानारूपमपि सम्भवतीति । पूर्वपक्षस्तु । निरतिशयितपूर्णत्वरूपभूमत्वे तारतम्यस्यासम्भाविततयानुपपन्नत्वेन एकरूपत्वात् । एकरूपस्यापि श्रवणमननापरोक्षज्ञानेषु तारतम्येन भाने श्रवणादेर्मिथ्याज्ञानत्वप्रसंगादेकरूपेण प्रतीयते इत्येव युक्तमिति । सिद्धान्तस्तु । अतीतवत्सरमासपक्षदिनघटिकाद्यानन्त्ये तारतम्यवदिहापि भूमत्वे तारतम्यसम्भवेन भगवद्गुणेषु भगवति च तावदानन्त्यानां सत्त्वेन तत्तदधिकायर्नुसारेण तावत्तावद्भूमत्वस्य श्रवणमननापरोक्षज्ञानेषु प्रतीतौ तावन्मात्रमेवेत्यप्रतीत्या भ्रान्तित्वानापत्ते: नानारूपमेव प्रतीयते इति नानारूपमेवाधिकारिभि: स्वस्वप्राप्यफलानुरोधेनोपास्यमिति । फलं तु प्रागुक्ततारतम्यसमथर्नम् ।। 38 ।।
।। ॐ विकल्पो विशिष्यफलत्वात् ॐ ।। 39 ।।
पूर्वत्र गुणोपास्तौ विशेष: उक्तोऽत्र तु रूपोपास्तौ स उच्यते इति संगति: । अत्र भगवदुपासनं किं बिंबातिरिक्तरूपविषयं न कार्यमेवेति नियम उत कार्यं न वेति विकल्प इति चिन्ता । तदर्थं तदुपासनस्य फलं नास्त्युतास्तीति । तदर्थं तदुपासनस्य मोक्ष: फलमन्यदपीति । पूर्वपक्षस्तु । मुमुक्षुभि: क्रियमाणोपासनस्य अन्यफलकत्वायोगेन मोक्षफलस्य "न सामान्यादप्युपलब्धे:' (ब्र.सू.3-3-53) इत्यत्रोक्तदिशा बिंबोपास्तिसाध्यत्वे मोक्षफलकत्वस्याप्ययोगेन च निष्फलत्वात् प्रत्युत मोक्षोपयोगिबिंबोपास्तिवि नकरत्वाच्च बिंबातिरिक्तनृसिंहाद्युपासनं न कार्यमेवेति । सिद्धान्तस्तु । उपासकानां मोक्षकामित्वेऽपि मोक्षहेतुबिम्बोपासनोपयोगितया अपेक्षितदुरितनिवृत्तिफलकत्वेन सफलत्वात्तादृशफलकामिना कार्यं नृसिंहाद्युपासनम् । तीव्रया स्वबिंबोपासनयैव दुरितं क्षपयितुं समर्थेन तु न कार्यमिति षोडशिग्रहणवत् व्यवस्थितविकल्प: । "मुक्त्यर्थं आत्मयोग्यं हि' इत्यादे: (ब्रह्मतर्क) स्मृतेरिति । फलं तु नृसिंहादिप्रतिपादकग्रन्थसाफल्यसमर्थनम् ।। 39 ।।
।। ॐ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॐ ।। 40 ।।
मोक्षोपयोगिफलत्वेन नृसिंहाद्युपासनस्य कार्यत्वे तदुपयोगित्वात् काम्यरूपाद्युपासनमपि कार्यं स्यादिति शंकनाद्वा नृसिंहाद्युपास्तेरिव काम्यरूपाद्युपास्तेरपि वैकल्पिकत्वसाधनाद्वा संगति: । अत्र कामसाधनभगवद्रूपगुणविषयकमप्युपासनमावश्यकमुत विकल्प इति चिन्ता । तदर्थं तदावश्यकत्वे मोक्षोपयोगादिहेतुरस्त्युत नेति । पूर्वपक्षस्तु । अर्थादिना विना ज्ञानादिसिद्धया अर्थाद्यार्जकं यद्भगवद्रूपं तद्गुणादिकं तदुपासनस्य जीवनादिद्वारा ज्ञानोपयोगित्वात् अर्थकामनावश्यंभावात् आवश्यकमेव काम्यभगवद्रूपाद्युपासनमिति । सिद्धान्तस्तु । अर्थगृहारामक्षेत्रविधुराणामपि ज्ञानसंपादनदर्शनेनावश्यं अर्थादिनैव ज्ञानमिति नियमाभावेन तस्य मोक्षहेतूपासनानुपयोगात् अधिकारिणां मुमुक्षुत्वेनार्थादिकामनाभावाच्च काम्योपासनं मुमुक्षुभिर्न कार्यं अन्यै: कार्यमित्यधिकारिभेदेन वा मुमुक्षुरप्यर्थाद्यर्थं न कार्यं भगवत्प्रीत्यर्थं कार्यमिति फलभेदेन वा व्यवस्थितविकल्प एव नत्वावश्यकमिति नियम: "यस्य यस्य हि' इति (बृहत्तन्त्र) स्मृतेरिति । फलं तु वैराग्यपादोक्तवैराग्यफलकगर्भयातनादिनिरूपणसमर्थनम् ।। 40 ।।
।। ॐ अंगेषु यथाश्रयभाव: ॐ ।। 41 ।।
।। ॐ शिष्येश्ऱ्च ॐ ।। ॐ समाहारात् ॐ ।। ॐ गुणसाधारण्यश्रुतेश्ऱ्च ॐ ।।
पूर्वत्र काम्योपास्तेरधिकारिसंभवेन कार्यत्वेऽपीहांगदेवतोपास्तेस्तदभावेनाकार्यत्वमिति शंकनात्संगति: । अत्र भगवदंगाश्रितत्वेन ब्रह्मादिदेवताविषयकमुपासनं न कायर्मुत कार्यमिति चिन्ता । तदर्थं श्रुतौ देवतानामंगाश्रितत्वकथनं तथोपसनविधानं गुणसाधारणश्रवणं च तथोपासनकार्यत्वापादनक्षमं न भवत्युत भवतीति । तदर्थं तत्किमुपासनं निरधिकारिकमुत साधिकारिकमिति । तदर्थमधिकारिकल्पकं नास्त्युतास्तीति । पूर्वपक्षस्तु । तथोपासनं न कायर्ं हेत्वभावात् । नच "ब्रह्मा शिरसि ललाटे रुद्र:' इत्यादि श्रुतौ देवानामंगाश्रितत्वेनोक्ते: "आध्यायनाय प्रयोजनाभावात्' इति (ब्र.सू.3-3-15) न्यायेनोपासनार्थत्वात्तदुक्त्यन्यथानुपपत्ति: । "यस्मिन्यस्मिन्यो हि चांगे निविष्य: परस्य चिन्त्य: स तथा तथैव' इति (पौत्रायण) श्रुतौ विधानं "साधारण्यात्सर्वगुण: परस्य समाहार्यास्तत्त्वदृ मुमुक्षो:' इति (माण्डव्यश्रुति:) ज्ञानानन्दादिगुणतौल्येन सूर्याद्याश्रय चक्षुस्त्वादीशगुणानामुपास्यत्वश्रवणं च तथोपासनाकार्यत्वे हेतुरिति वाच्यम् । तथोपासनस्य सर्वाधिकारिकत्वे आनन्दादय इत्युक्तचतुर्गुणोपास्तिनियमभंगात् नहि ब्रह्माश्रितशिरस्कत्वादिकं भूमत्वमिवानन्दादिविशेषणं येन प्रागुक्तनियतिव्याघातकं स्यात् । नच देवाधिकारिकं तदुपासनं कल्पकाभावात् । नहि राजा राजसूर्येन यजेतेत्यादौ राजादिपदमिव ब्रह्मा शिरसीत्यादौ देवा एते उपासीरन्निति वाक्यमस्ति । तादृशविशेषविध्यभावेऽपि अधिकारिविशेषकल्पने "चोदनाद्यविशेषात्' (ब्र.सू.3-3-1) इति सर्ववेदान्तनयोक्तन्यायविरोध: । अत: तथोपासनस्य
निरधिकारिकत्वात् श्रुतौ तदुक्त्यादिकं स्वयं व्यर्थं सत् न तथोपासनकार्यतापादनक्षममिति । सिद्धान्तस्त । कार्यमेव तथोपासनम् । नच हेत्वभाव: श्रुतौ तदुक्त्यन्यथानुपपत्त्यादेरनुष्ठापकत्वात् । नच निरधिकारिकत्वदोष: । अंगै: पराद्ये हि देवा विसृष्या:' (काषायण) इति श्रुतौ ब्रह्माश्रितशिरस्कत्वरुद्राश्रितललाटत्वसूर्याश्रितचक्षुष्ट्वादिगुणोपासनस्य परमस्थानप्राप्तिरूपफलश्रवणात् । तस्य च देवप्राप्यत्वेन फलपर्यालोचनया मधुविद्यायामिव देवानामेवाधिकारित्वकल्पनोपपत्तेरिति । फलं तु तद्विद्यासार्थक्यसमर्थनम् ।। 41 ।।
।। ॐ न वा तत्त्सहभावश्रुते: ॐ ।। 42 ।।
।। ॐ दर्शनाच्च ॐ ।।
अत्र प्रागुक्तमेव विशेषहेतुनाक्षिप्य समर्थ्यत इति संगति: । अत्र ब्रह्माश्रितरिस्कतजवादिभगवद्गुणोपासनं न कार्यमुत कार्यमिति चिन्ता । तदर्थं तदुपासनस्य सर्वशाखास्वनुक्तिरकार्यत्वेन विनानुपपन्नोतान्यथोपपन्नेति । तदर्थमन्यथोपपत्तिफकल्पकं नास्त्युतास्तीति । पूर्वपक्षस्तु । न कार्यमेव तथोपासनं सर्वशाखास्वनुक्तत्वात् । अवश्यकार्यत्वे सर्वशाखागतोपासनेन सहभावप्रसंगात् । अत्र सर्वत्रानुक्ति: अकार्यत्वेन विनानुपपन्ना तदेव गमयतीति । सिद्धान्तस्तु । सर्वथा कार्यत्वाभावे क्वचित्तदुक्तेर्वैयर्थ्यप्रसंगात् "सत्यो ज्ञान: परमानन्दरूप:' इत्यादि (कमठ) श्रुत्या ज्ञानादिगुणचतुष्यया अधिकगुणानां देवोपास्यत्वकथनेन तथोपासनस्य देवमात्राधिकारिकत्वेन सर्वत्रानुक्ते: । सर्वैरकार्यत्वेनान्यथोपपत्ते: कार्यमेव तथोपासनमिति । फलं तु प्रागुक्तप्रमेयसमर्थनम् ।। 42 ।।
।। इति श्रीमद्राघवेन्द्रयतिकृतायां न्यायमुक्तावल्यां तृतीयाध्यायस्य तृतीय: पाद: समाप्त: ।।
।। अथ चतुर्थ: पाद: ।
।। ॐ पुरुषार्थोऽत:शब्दादिति बादरायण: ॐ ।। 1 ।।
।। ॐ शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनि: ॐ ।। ॐ आचारदशर्नात् ॐ ।। ॐ तच्छते: ॐ ।। ॐ समन्वारम्भणात् ॐ ।। ॐ तद्वतो विधानात् ॐ ।। ॐ नियमाच्च ॐ ।। ॐ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॐ ।। ॐ तुल्यं तु दर्शनम् ॐ ।।
पूर्वपादोक्तोपासनासाध्यज्ञानमाहात्म्यमत्रोच्यते इति पूर्वपादेनास्य संगति: । अत्र ज्ञानं किं मोक्षमात्रे हेतुरुत मोक्षेतरस्य स्वर्गादिपुरुषार्थहेतुरपीति चिन्ता । तदर्थं तत्र मानं नास्त्युतास्तीति । पूर्वपक्षस्तु । न ज्ञानं मोक्षेतरपुरुषार्थस्यापि हेतु: । मुमुक्षोस्त्रत्रेच्छाभावात् । सौभर्यादेरिवेच्छाया: भावेऽपि तद्धेतुत्वे मानाभावात् । तद्धेतुत्वपरश्रुत्यादे: कमर्ण: तथात्वप्रतिपादकश्रुत्यादिविरोधात् । "कर्मैव देहं दैविकं मानुषं वाप्यन्वारभेन्न परस्तत्र हेतु:' इत्यादि (माठर)श्रुतौ कर्मण एव मोक्षेतरफलहेतुत्वस्य "यदेव विद्यया' इति श्रुतौ ज्ञान्यनुष्ठिते कर्मजन्यफलेऽतिशयाधायकत्वेन ज्ञाने कमर्शेषत्वस्य च श्रवणात् । अत एव ज्ञानकर्मणो: स्वर्गादौ तुल्यकक्षतया हेतुत्वशंकानवकाश: । तथा "नैव दैपदम्' इति स्मृत्या ज्ञानिनामपि देवानां "यज्ञेन यज्ञमयजन्त देवा:' इति कर्मानुष्ठानदर्शनेन ज्ञानस्यैव सर्वमुमर्थहेतुत्वे तदनुपपत्त्या च कर्मण एव हेतुत्वानुमानाच्च । एवमेव जैमिनिराचार्येरंगीकाराच्च । नच ज्ञानिनामाचारो मुक्तवल्लीलयान्यथोपपन्न इति शंक्यं "ज्ञानी च कर्माणि सदोदितानि कुर्यात्' इति (कमठ) श्रुतौ ज्ञानिनोऽपि कर्मविधानात् । विहितत्वस्य च लीलात्वायोगात् । "कुर्वन्नेवेह कर्माणि' इति (ई.2) उत्तरार्धे एवं कर्मकरणे त्वयि पापं कर्म न लिप्यते इति नास्तीति ज्ञानिनोऽपि कर्माकरणे प्रत्यवायश्रवणाच्च । ज्ञान्याचारस्य लीलात्वायोगादत: श्रुत्याचारविरुद्धत्वात् जैमिनिमतविरोधाच्च "यं यं लोकं मनसा' इत्यादिकं (मुं.3-1-10) ज्ञानस्य सर्वपुमर्थहेतुत्वपरं वाक्यं स्वर्गहेतुकर्मशेषेऽपि धनादौ "स्वर्गं धनाद्देहतो वै गृहाच्च प्राप्स्यंति' इत्यादौ प्राधान्योक्तिवत्
कर्मशेषभूतज्ञानप्राधान्योक्तिपरं नेयम् । नतु साक्षाद्ज्ञानस्य सर्वपुमर्थहेतुज्ञानशेषत्वपरम् । निरवकाशकल्पकाभावात्कर्मण: कृतावकृतौ च ज्ञानं मोक्षार्जनक्षममेवेति स्तुतिनये वक्ष्यमाणत्वेन ज्ञानेऽतिशयकरत्वयोगेन तच्छेषत्वायोगाच्चेति । सिद्धान्तस्तु । कमर्णो ज्ञानेऽतिशयाधायकत्वेन तच्छेषत्वायोगेऽपि "ज्ञानादेव स्वर्गो ज्ञानादेवापवर्ग:' इति (कौण्ठवव्य) श्रुतौ ज्ञानादेव स्वर्गादिफलप्राप्ते: कर्मणो ज्ञानजन्यफलेऽतिशयाधायकत्वेन ज्ञानशेषत्वस्य च श्रवणात् "राजसूयजितान् लोकानश्ऱ्वमेधाभिवर्धितान् । प्रा नुहि त्वं महाभाग' इति भारतवाक्येन युधिष्ठिरादीनां राजसूययागादिना फलाधिक्यदर्शनरूपलिंगाच्च ज्ञानस्यैव सर्वमुपर्थहेतुत्वस्य कर्मण: ज्ञानजन्यफलेऽतिशयाधायकत्वेन ज्ञानशेषत्वस्यावगमेन अस्य बादरायणमतत्वेन च कर्मण: तद्धेतुत्वपरवाक्यादीनां तद्धेतुज्ञानशेषपरत्वेन नेयतया तद्विरोधाभावात् "यं यं लोकम्' इत्यादि वाक्यबलात् बादरायणसंमतत्वाच्च ज्ञानं मोक्षेतरसर्वपुमर्थहेतुर्भवत्येवेति । नचैवं जैमिनि बादरायणमतयोविर्रोध: देवमानुषरूपाधिकारिभेदेनाविरोधादिति । फलं तु ज्ञानादावतिशयेन प्रवृत्तिरिति ।। 1 ।।
।। ॐ असार्वत्रिकी ॐ ।। 2 ।।
।। ॐ विभाग: शतवत् ॐ ।। ॐ अध्ययनमात्रवत: ॐ ।।
पूर्वत्र ज्ञानात्सर्वपुमर्थाप्तौ न ज्ञानिनां सर्वेषां अधिकार: किंतु उत्तमानां तत्रापि अप्रतिबद्धानामित्युक्तम् । इह ज्ञाने सर्वेषामधिकारो नेत्युच्यते इति संगति: । सर्वपुमथर्हेतुत्वेन पूर्वत्र प्रकृते ज्ञाने सर्वेषामधिकारोऽस्त्युत नेति चिन्ता । तदर्थं पुरुषविभागो नांगीकार्योऽथांगीकारार्ह इति । तदर्थमर्थित्वादिकमेवाधिकारे तन्त्रमुतान्यदपीति । तदर्थमर्थित्वाद्यधिकारप्रयोजकं नास्त्युतास्तीति । पूर्वपक्षस्तु । "अर्थी समर्थो विद्वानधिक्रियते' इति न्यायसिद्धफलापेक्षित्वाद्यन्यस्य अधिकारप्रयोजकस्याभावात् तस्य च निर्दु:खसुखरूपमोक्षेऽर्थित्वस्य श्रवणादिसामर्थ्यस्य तदुपयुक्तवैदुष्यस्य च संभवेन सर्वेषु भावात् सर्वेषामर्थित्वरूपप्रयोजकसाम्येऽपि केषांचिदेवाधिकारो नान्येषामिति पुरुषविभागांगीकारस्य निर्बीजतया अनुचिततया केषांचिदभावेऽन्येषामप्यभावापातेन ज्ञानस्य निरधिकारिकत्वप्रसंगात् अस्ति ज्ञाने सर्वेषामधिकार इति । सिद्धान्तस्तु । "पठेद्वेदानथार्थानधीयीताथ विचार्य ब्रह्म विन्देत् (कौषरव श्रुति:) "अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यते' (ब्रह्मतर्क) इत्यादिश्रुतिस्मृतिसिद्धस्य सांगसफलयथाशक्तिकृत्स्नाध्ययनवत्त्वरूपप्रयोजकान्तरस्यापि सत्त्वेन अर्थित्वादिमात्रस्यातन्त्रता । "न च मोक्षो हि देवानाम्' इति स्मृत्युक्तदिशा सर्वेषां देवत्वसाम्येऽपि परापरब्रह्मद्वयाधिकशतस्यैव सोमाधिकारो नान्येषामिति पुरुषविभागस्य युक्तत्वात् न सर्वेषां ज्ञानाधिकार इति । फलं तु कर्मापेक्षया ज्ञानेऽतिशयसमर्थनम् ।। 2 ।। N.M-12
।। ॐ नाविशेषात् ॐ ।। 3 ।।
पूर्वं केषांचिदेव ज्ञानाधिकार इत्युक्तमत्र तु केषांचित्साध्येऽपि संपूर्णाधिकारो न सर्वेषामपि समर्थनात्संगति: । प्रकृतो ज्ञानाधिकार: किं सर्वेषां देवादीनामेकप्रकारोऽथ नानाप्रकार इति चिन्ता । तदर्थं "प्रज्ञान्तरपृथक्त्वदृष्यिश्ऱ्च' इत्यत्रोक्त (ब्र.सू.3-3-52) दृष्यितारतम्यमधिकारनानात्वेन विना अधिकारिशक्तिनानात्वेनाप्युपपद्यतेऽथ नेति । पूर्वपक्षस्तु । अधिकारिणामुच्चावचशक्त्यैव प्रागुक्तज्ञानतारतम्योपपत्ते: कल्पकाभावान्न नानारूपेऽधिकार इति । सिद्धान्तस्तु । अधिकारिणां शक्तेरुच्चावचत्वस्य अधिकारोच्चावचत्वनिमित्तत्वेन तदभावेन शक्तितारतम्यस्याप्यभावात् । उपजीव्यत्वादधिकारतारतम्येनैव प्रागुक्तज्ञानतारतम्यस्य निर्वाह्यत्वेन तदन्यथानुपपत्त्या "अथ पुमर्थसाधनानि' इति भाष्योक्त(कौण्डिण्य) श्रुत्या चाधिकारो नानाप्रकार इति देवोत्तमानामेव संपूर्णाधिकारो नान्येषामिति । फलं तु ज्ञानातिशयसमर्थनम् ।। 3 ।।
।। ॐ स्तुतयेऽनुमितिर्वा ॐ ।। 4 ।।
।। ॐ कामकारेण चैके ॐ ।। ॐ उपमर्दं च ॐ ।। ॐ ऊर्ध्वरेतस्तु च शब्दे हि ॐ ।। ॐ परामर्शं जैमिनिरचोदना चापवदति हि ॐ ।। ॐ अनुष्ठेयं बादरायण: साम्यश्रुते: ॐ ।। ॐ विधिर्वा धारणवत् ॐ ।। ॐ स्तुतिमात्रमुपादनादिति चेन्नापूर्वत्वात् ॐ ।। ॐ भावशब्दाच्च ॐ ।। ॐ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॐ ।। ॐ तथा चैकवाक्योपबन्धात् ॐ ।। ॐ अत एवा चाग्नीन्धनाद्यनपेक्षा ॐ ।। ॐ सर्वापेक्षा च यज्ञादिश्रुतेरश्ऱ्ववत् ॐ ।। ॐ शमदमाद्युपेत: स्यात्तथाऽपि तु तद्विधेस्तदंगतया तेषामवश्यानुष्ठेयत्वात् ॐ ।। ॐ सर्वान्नानुमतिश्ऱ्च प्राणात्यये तद्दर्शनात् ॐ ।। ॐ अबाधाच्च ॐ ।। ॐ अपि स्मर्यते ॐ ।। ॐ शब्दश्ऱ्चातोऽकामचारे ॐ ।। ॐ विहितत्वाच्चाश्रमकर्मापि ॐ ।। ॐ सहकारित्वेन च ॐ ।।
एवं पूर्वत्राधिकारिभेदे सिद्धे अत्र त्रिविधाधिकारिभेदेन विरुद्धार्थकत्रिविधवाक्यानामविरोधो वर्ण्यत इति संगति: । अत्र प्रकृतज्ञानवत: किं सदाचारदुराचाराभ्यां विशेषो नास्त्युतास्तीति चिन्ता । तदर्थं "स ब्राह्मण: केन स्याद्येन स्यात्तेनेदृश एव' इति (बृ.5-5-1) वाक्यं किं ज्ञानिमात्रस्य यथेष्याचरविधिपरमुत नियमेन सर्वसदाचारानुष्ठानादिपरमिति । तत्र ज्ञानिन: सत्प्रवृत्त्यादिना विशेषसत्त्वे ज्ञानस्य मुक्तिहेतुत्वनियमभंगादिरूपं ज्ञानकर्मसमुच्चयवादरूपं च बाधकमस्त्युत नेति चिन्ता । तदर्थं ज्ञानिनोऽसत्प्रवृत्ति: मोक्षस्वरूपप्रतिबन्धोत्पत्तौ हेतु: उत मोक्षगतसुखाधिक्यप्रतिबन्धोत्पत्तौ हेतुरिति । तदर्थं असत्प्रवृत्त्यादिना सुखाधिक्यप्रतिबन्धादिरूपविशेषसत्त्वे "यदि ह वा अप्येवंविन्निखिलं भक्षयीतैवमेव स भवति' इति श्रुतौ ज्ञानिन: सर्वान्नभक्षणेऽपि अविशेषोक्तिरयुक्तोत युक्तेति । पूवर्पक्षस्तु । सदसत्प्रवृत्तिभ्यां नास्ति ज्ञानिनो विशेष: "स ब्राह्मण:' इति श्रुतौ ज्ञानिमात्रं प्रति यथेष्याचारस्य विधिलिंङंतस्याच्छब्देन विधानात् सदसत्प्रवृत्तिभ्यां ज्ञानिनो विशेषविधेरप्यभावे सर्वविध्यतिदूरत्वरूपेशलक्षणस्यापि ज्ञानिनि प्रसङ्गात् । न चेदं वाक्यं ज्ञानिमात्रस्य न यथेष्याचारविधिपरं किंतु ज्ञानिविशेषस्येति युक्तम् । सामान्यवाक्यस्य विशेषपरत्वकल्पकाभावात् । एवं च न केवलं यथेष्याचारे विध्यन्यथानुपपत्त्याऽविशेषो ज्ञानि: कल्प्यते किंतु "तेनेदृश एव' इति स्वेच्छाचरणाविशेषश्रवणाच्च । ननु न ज्ञानिमात्रस्य स्वेच्छाचारविधिपरत्वमस्य वाक्यस्योपपद्यते । "प्रातरुत्थायाथ सन्ध्यामुपासीत' इत्यादि श्रुत्यनुरोधेन निषिद्धं कार्यमिति विध्यभावरूपया "ब्राह्मणो न हन्तव्य:' इत्यादिनिषेधरूपया यक्त्या च विध्यादिविधिबन्धवर्जिततया नियमेन सर्वसदाचारानुष्ठानपरत्वमस्य वाक्यस्य परमाप्तजैमिन्याचार्यैर्यद्वर्णितं तथा "यस्त्वात्मरतिरेव स्यादात्मतृप्तश्ऱ्च मानव: । आत्मन्येव च सन्तुष्यस्तस्य कार्यं न विद्यते ।।' (भ.गी.3017) इति स्मृत्या आत्मरति: परमात्मदर्शननिमित्तसुखमाप्त: आत्मन्येव च सन्तुष्य: परमात्मनिमित्तसन्तोषवत्त्वादेवहेतो: आत्मतृप्त: परमात्मप्रसादेन विषयेष्वलंबुद्धिमाप्त: य: तस्य कार्यं नास्तीत्युक्त्यनुरोधेन अनाचरणप्रयुक्तासाम्यनिषेधकेदृश एवेति वाक्यशेषबलेन श्रुत्याद्युक्त्या आचारमध्ये केषांचिच्चरणं केषांचिदचरणमित्येवंरूपकामाचारपरत्वस्य यद्बादरायणाचार्यैर्वर्णितं तदुभयार्थपरत्वे च सति कथं विधिरूपैकार्थत्वपरत्वमुपेत्य ज्ञानिनो यथेष्याचारेप्यविशेष उच्यते इति चेन्मैवम् । तथात्वे वाक्यस्य पारिप्लवार्थत्वापत्त्या प्रामाण्याभावप्रसङ्गात् । किंच मास्तु साधकाभावात् ज्ञानिनो विशेषाभाव: विशेषे साधकभावाद्भविष्यति । तथाहि । यदि ज्ञानिन: सदसत्प्रवृत्तिभ्यां विशेष: स्यात्तर्हि असत्प्रवृत्त्या कुण्ठितशक्तिकस्य ज्ञानस्य मोक्षहेतुत्वभंगप्रसंगेन "अनियमस्सर्वेषाम्' इत्युक्तमोक्षनियमभंग: स्यात् । सत्प्रवृत्तिसमुच्चितस्य ज्ञानस्य मुक्तिहेतुतापत्त्या "विद्यैव तु निर्धारणात्' (ब्र.सू.3-3-48) इत्युक्तिविरोधस्स्यात् । ज्ञानिनोऽसत्प्रवृत्त्या मोक्षाप्रतिबन्धे जिज्ञासोरपि तथा ज्ञानाप्रतिबन्धापातेन वैराग्यपादानर्थक्यप्रसंगात् । नच सत्प्रवृत्त्यादे: न मुक्तिस्वरूपे व्यापार: अपि तु मुक्तावानन्दातिशयाभिव्यक्तितत्प्रतिबन्धयो: व्यापार इति युक्तम् । तथात्वे ज्ञानिन: सर्वान्नभक्षरानुमतिश्रुतिव्याकोप: तत्र सर्वान्नभक्षणेऽपि अविशेषस्यैवोक्ते: । नच तस्य विषयान्तरपरत्वे कल्पकमस्तीति । सिद्धान्तस्तु । अस्त्येव ज्ञानिन: सदसत्प्रवृत्तिभ्यां विशेष: केन स्यादिति वाक्यस्य ज्ञानिमात्रपरतया प्रतीतस्यापि ज्ञानिस्तुतिमात्रपरत्वे सर्वविध्यतिदूरत्वरूपेशलक्षणस्य अनीशेऽतिप्त्याध्यापत्तिरूपबाधकेन विधिपरत्वेऽपि जैमिनिबादरयाणाभ्यामुक्तरीत्या सर्वसदाचारानुष्ठानविधिपरत्वम् । सर्वमध्ये केषांचिद्धर्माणामननुष्ठनामित्येवपरत्वं तदुक्तरीत्या स्वेच्छाचारविधिपरत्वमित्यर्थत्रयपरत्वस्यापि "विधिनियता मनुष्या:, अनियता हि देवा:, ब्रह्मैव स्वेच्छानियत:' इति गौपवनश्रुतौ "स्वेच्छयैव प्रवृत्तिस्तु ब्रह्मणो विधिचोदित:' इत्यादि (ब्राह्म) स्मृतौ च मानुषदेवाविरिंचरूपाधिकारिभेदेन व्यवस्थोक्त्या विरोधाभावेन ज्ञानिमात्रस्य स्वेच्छाचारस्य वाक्यस्य प्रामाण्याभावात् । ज्ञानिनोऽसत्प्रवृत्त्या मोक्षाप्रतिबन्धस्य
"कामचारा: कामभक्षा:' इति (सामशाखा) श्रुत्या ज्ञानिनो निवर्त्यतया प्राप्तस्यारब्धकर्मणोऽपि किंचिदुपभुक्तस्य ज्ञानेनोपमर्दस्य "आत्मानमभिपश्योपमृद्य पुण्यं च पापं च' इति (तुर) श्रुतिसिद्धतया कैमुत्यन्यायेन च सिद्धत्वेन अनियम इत्युक्तनियमभंगरूपस्य "य इमं परमं गुह्यमूर्ध्वरेतस्सु भाषयेत्' इति (माठरश्रुतौ) ऊर्ध्वरेतस्त्वादिगुणयुक्तेष्वेवोपदेशविधानेन ज्ञानेऽसत्प्रवृत्त्या प्रतिबन्धस्य प्रमितत्वेन अतिप्रसंगरूपस्य केवलस्य ज्ञानस्यैव मोक्षस्वरूपनिष्पादकत्वेऽपि "पश्यन्नपीममात्मानं कुर्यात्कर्माविचारयन् । यदात्मनस्सुनियतमानन्दोत्कर्षमा नुयात्' इत्यादि (कौषारवश्रुति:) वाक्यबलेन मोक्षे सुखातिशयार्थे सहकारित्वेन सत्प्रवृत्त्यसत्प्रवृत्तिवर्जनयो: अपेक्षायामपि ज्ञानकर्मसमुच्चयवादापत्तिरूपस्य च बाधकस्याभावात् सर्वान्नानुमतिश्रुतेश्ऱ्च भाष्याद्युक्तलिंगेन प्राणत्यागविषयत्वेन सावकाशत्वात् । किं च ज्ञानिनो निषिद्धस्याकरणे बाधकाभावात् स्वेच्छाचार उच्यते, करणष प्रमाणाभावाद्वा, निषेधकप्रमाणाभावाद्वा, करणे बाधकाभावाद्वा । नाद्यद्वितीयौ । असिद्धे: । न तृतीय: । "एवं पश्यन्न कामचरितं चरेत्' इति (कौण्डिण्यश्रुति:) "अतीतानागतज्ञानी त्रैलोक्योद्धरणक्षम: । एतादृशोऽपि नाचारं श्रौतं स्मार्तं परित्यजेत्' इति च निषेधकश्रुतिस्मृतिभावात् । न चतुर्थ: । "आनन्दो ह्रसतेऽकार्यात्' इति स्मृत्या आनन्दह्रासरूपबाधकस्य भावात् । तस्मादस्त्येव ज्ञानिन: सदसत्प्रवृत्तिभ्यां मक्तिवानन्दह्रासरूपो विशेष इति । फलं तु असदाचारेऽपि मुक्तिसंपादनरूपज्ञानमहिमसमर्थनम् ।। 4 ।।
।। ॐ सर्वथाऽपि तु त एवोभयलिंगात् ॐ ।। 5 ।।
।। ॐ अनभिभवं च दशर्यति ॐ ।। ॐ अन्तरा चापि तु तद्दृष्ये: ॐ ।। ॐ अपि स्मर्यते ॐ ।। ॐ विशेषानुग्रहं च ॐ ।। ॐ अतस्त्वितरज्ज्यायो लिंगाच्च ॐ ।। ॐ तद्भूतस्य तु तद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्य: ॐ ।।
पूर्वत्र विशेषितत्वादित्यत्र (ब्र.सू.3-4-23) प्रकृतै: मन्दमध्योत्तमरूपाधिकारिभिरेव ज्ञानं प्राप्य नान्यैरित्यत्रोच्यत इति संगति: । अत्र ज्ञानं किमयोग्यैरप्याप्यं उत प्रकृतयोग्यैरेवेति चिन्ता । तदर्थं योग्यैरेवाप्यमित्यत्र कल्पकं नास्त्युतास्तीति । तथा योग्यप्राप्यत्वपक्षेऽपि किमयोग्यताया: महाप्रयत्नेनाभिभवेन तेषामपि योग्यतोत्पत्तिरस्त्युत नेति । तदर्थमयोग्यता किं तेषामस्वभाव: उत स्वभाव इति । तदर्थं तस्या: स्वभावत्वेन अनभिभवे ज्ञापकं नास्त्युतास्तीति । पूर्वपक्षस्तु । योग्यानामेवेत्यत्र प्रमाणाभावात् वेदायोग्यस्य प्रयत्नेन वेदप्राप्तिदर्शनेनायोग्यानामपि यत्नेन ज्ञानप्राप्तिरस्त्येव । ज्ञानस्य योग्यमात्रप्राप्यत्वपक्षेऽपि अयोग्यानामयोग्यताभिभवेन विप्रत्वदर्शनात् । न क्षत्रियत्वमस्वाभाविकं अयोग्यत्वं स्वाभाविकं न प्रयत्नेनाप्यनिवर्त्यमिति शंक्यम् । स्वाभाविकत्वे मानाभावात् । स्वाभाविकत्वे यवकलमबीजादेरिव स्वभावानुसारिफलत्वप्रसंगाच्चेति । सिद्धान्तस्तु । देशकालगुरूपसत्त्यादिमहोत्साहेऽपि अयोग्यानां न ज्ञानप्राप्ति: । किं तु योग्यानामेव । इन्द्रविरोचनयोश्ऱ्चतुर्मुखोपदेशे समानेऽपि न सम्यक् ज्ञानप्राप्ति: प्रत्युत विपरीतज्ञानप्राप्तिरित्यस्य छान्योग्येऽष्यमे स्पष्यत्वेनेन्द्रादेर्ज्ञाप्राप्त्यादिलिङ्गेन तथाज्ञानहेतुप्रसादस्य मुक्तियोग्येष्वेव "ृण्वे वीर उग्रम्' इत्यादि (ऋ.6-47-16) सिद्धत्वेन तदन्यथानुपपत्त्या च तथावगमात् । न चायोग्यानामपि महाप्रयत्नेनायोग्यताभिभवेन योग्यतोत्पत्तिरस्त्विति युक्तम् । अयोग्यताया: स्वभावत्वात् । नच ज्ञापकाभाव: । "दैवीमेव सम्पत्तिं देवा:' इति श्रुतौ "असुरा आसुरेणैव स्वभावेन' इति (स्कान्द) स्मृतौ च अनभिभवस्य स्वभावत्वस्य च स्पष्यं श्रवणात् । तथा "नासुरा दैवीं न देवा आसुरीम्' इत्यादि नियमश्रुत्या "नासुराणां दैवं रूपम्' इत्यतद्रूपवत्त्वश्रुत्या "तं भूतिरिति देवा उपासांचक्रिरे' इति (ऐ.2-1-8) देवासुरयोरन्योन्यविपरीतोपासनेन सम्यक्फलविपरीतफलश्रुत्या च देवासुरमानुषाणां देवत्वादिस्वभावत्वप्रतिपादकजैमिन्याचार्यमतेन च "कनीयसा एव देवा: ज्यायसा असुरा:' इति (बृ.3-3-1) श्रुत्या "न जानामि' इति (ब्राह्मे) जनसमूहप्रवेशनिषेधान्यथानुपपत्तिरूपलिंगेन चायोग्यतादे: स्वभावत्वानभिभवयो: तत्तत्स्वभावानुसारिफलसत्त्वावगमादिति । फलं तु मोक्षस्य योग्यतामात्रप्राप्यत्वसमर्थनम् ।। 5 ।।
।। ॐ न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॐ ।। 6 ।।
।। ॐ उपपूर्वमपीत्येके भावशमनवत्तदुक्तम् ॐ ।। ॐ बहिस्तूभयथापि स्मृतेराचाराच्च ॐ ।।
पूर्वं ज्ञानस्यायोग्यप्राप्यत्वमुक्तमत्र तु योग्येष्वपि देवादिपदाकांक्षाशून्यैरेव प्राप्यते न सर्वैरित्युच्यते इति वा प्रागुक्तदेवत्वादे: स्वाभाविकत्वमयुक्तम् । प्रयत्नसाध्यताश्रवणेन देवत्वस्यास्वाभाविकत्वादिति शंकनाद्वानंतरसंगति: । पूर्वत्र देवानां प्रकृतत्वात् संगतं देवपदं देवेतरै: प्राप्तुं योग्यमुत देवैरेवेति चिन्ता । तदर्थं तत्पदप्राप्त्यर्थं इच्छाप्रयत्नकृतौ बाधकं नास्त्युतास्तीति । पूर्वपक्षस्तु । "स्वधर्मनिष्ठ: शतजन्मभि: पुमान् विरिंचतामेति' (भा.4-24-25) "वया विष्णोरेषस्य प्रभृथे हविर्भि: विदेहि रुद्रो रुद्रियं महित्वम्' इत्यादि वाक्यबलेन विरिंचत्वादे: यत्नसाध्यतावगमेन चेतनत्वादिवत् देवत्वादे: स्वाभाविकत्वाभावेन यत्नै: सर्वै: प्राप्तुं शक्यत्वाच्चेतनत्वस्य स्वाभाविकत्वस्य सर्वसंमतत्वात् देवत्वादिप्राप्तौ इच्छाप्रयत्नकृतौ बाधकाभावात् । अन्यथा ज्ञानभक्त्यादीच्छप्रयत्नावपि न स्यातामिति । देवादन्यैर्देवादिपदं प्राप्यमेव किं बहुना भगवदैश्ऱ्वर्यमपि यत्नेन प्राप्यमिति । सिद्धान्तस्तु । देवतापदं भगवदैश्ऱ्वर्यं वा न प्राप्यं तदिच्छाप्रयत्नयोरेवायोगात् । ब्रह्मादिपदेच्छावान् देवादिभि: पात्यते अशक्यतत्पदेच्छुत्वात् राजपदेच्छुवत् । देवादिपदप्रयत्नवान् पतति अयोग्यारोहप्रयत्नवत्वात् अयोग्यवृक्षारोहप्रयत्नयुक्तवदित्यनुमानेन अनर्थावगमात् । नच चेतनत्ववद्देहत्वादिकं न स्वाभाविकं इति अयोग्यत्वादिविशेषणमसिद्धम् । "देवासुरनरत्वाद्या जीवानां तु निसर्गत:' इति वचनेन स्वभावत्वावगमात् "अन्यत्र शुभमाकांक्षन्नपतेदविरोधत:' इति वचनेन ज्ञानाद्याकांक्षायामनर्थाभावस्यैवावगमेऽतिप्रसंगाभावादिति । फलं तु देवतापदवत् ज्ञानमपि योग्यप्राप्यमेवेति प्रागुक्तसमर्थनम् ।। 6 ।।
।। ॐ स्वामिन: फलश्रुतेरित्यात्रेय: ॐ ।। 7 ।।
।। ॐ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॐ ।। ॐ सहकार्यन्तरविधि: पक्षेण तृतीयं तद्वतो विध्यादिवत् ॐ ।।
पूर्वत्र ज्ञानस्येत्थम्भाव उक्त: अत्र तु फलनिष्पादनप्रकार: उच्यते इति संगति: । प्रकृतं ज्ञानं तत्त्वाभिमानिदेवानामेव फलनिष्पादकमुत प्रजानामपीति चिन्ता । तदर्थं क्रियाजन्यफलत्वे प्रयोजककर्तृत्वमेव प्रयोजकमुत कर्तृत्वमात्रमपीति । कर्तृत्वमपीत्यत्र हेतुर्नास्ति बाधकं चास्ति उत विपरीतमिति । तदर्थं कर्तृत्वमपि प्रयोजकमिति पक्षेऽपि किं प्रयोजककतर्ृसमानफलत्वमावश्यकमुत नेति । पूर्वपक्षस्तु । कर्तृत्वस्यापि प्रयोजकत्वे संकोचकमानाभावेन स्वामिफलसमफलमेवावश्यं वाच्यम् । तच्च "स्वामी हि फलमश्ऱ्नुते नास्वामी कमर् कुर्वाण:' इति (माध्यन्दिनायन) श्रुत्या आत्रेयाचार्यमतेन च विरुद्धम् । लोके तक्षादे: प्रयोजकाधीनकर्तुरपि क्रियाजन्यफलादृष्येश्ऱ्च श्रुत्यादिविरोधरूपबाधकाभावात् साधकाभावाच्च न कर्तृत्वमपि प्रयोजकम् । किंतु प्रयोजककर्तृत्वरूपस्वामित्वमपि । सर्वेन्द्रियादिप्रेरकाणां देवानामेव प्रजाकृतश्रवणादिजन्यज्ञानफलं न प्रजानामिति । सिद्धान्तस्तु । तत्त्वाभिमानिदेवानां प्रजाकृतश्रवणादौ प्रयोजककर्तृत्वेन तत्फलस्य संपूर्णस्य "स्वामी हि' इति श्रुत्या "ततो महत्तरं प्रोक्तं देवानाम्' इति (वाराह) स्मृत्याऽऽत्रेयमतेन च सत्त्वावगमेऽपि देवानामिति श्रुतिविहिते ज्ञानदानादिकर्मणि प्रजानां ज्ञानोत्पत्त्यनुग्रहायैव सहकारित्वेनोपादानात् । सत्रे वैदेहादिना गृहपतिना सहकारित्वेनोपात्तानामृत्त्तिजामगृहपतीनामपि फलदर्शनाच्च अस्ति प्रजानामपि कर्तृत्वनिमित्तं ज्ञानजन्यफलमिति । फलं तु अनियम इत्युक्तमुक्तिनियमसमर्थनम् ।। 7 ।।
।। ॐ कृत्स्नभावात्तु गृहिणोपसंहार: ॐ ।। 8 ।।
।। ॐ मौनवदितरेषामप्युपदेशात् ॐ ।।
पूर्वत्र देवानां संपूर्णफलवत्त्वमुक्तमत्र तु संपूर्णवर्णाश्रमधर्मवत्वमुच्यत इति संगति: । अत्राश्रमभेदाभिन्नेषु ज्ञानिमनुष्येषु किं मुक्तौ गृहस्थ उत्तम उत यतिरिति चिन्ता । तदर्थं सर्वकर्मानुष्ठानयोग्यत्वमेव मुक्तावुत्तमत्वे प्रयोजकमुत चिरकालसाधनानुष्ठानमेवेति । तदर्थं मुक्तौ यतेराधिक्ये "आचार्यकुलाद्वेदमधीत्य' इत्यादिगृहस्थमोक्षोपसंहारपरवाक्यविरोधोऽस्त्युत नेति । तदर्थं तत्किं मानुषविषयमुत देवविषयमिति । तदर्थं
देवविषयत्वकल्पकं नास्ति बाधकं चास्ति उत विपरतीतमित । पूर्वपक्षस्तु । आश्रमान्तरस्थानां सर्वसत्कर्मसु योग्यताभावात् गृहस्थानामेव तद्योग्यत्वात्तस्यैवोत्तमत्वे प्रयोजकत्वाद्गृहस्थ एवोत्तमो न यति: । अन्यथा छंदोगोपनिषद्यष्यमाध्यायान्ते "आचार्यकुलाद्वेदमधीत्य' इत्यादिना गृहस्थस्यैव "ब्रह्मलोकमभिसंपद्यते न च पुनरावर्तते' इति (छां.8-15-1) मोक्षोक्तिपूर्वकमुपसंह्रियमाणत्वेन गृहस्थस्यैव मुक्तौ अनुत्तमत्वे तात्पर्यावगमात् तद्विरोध: स्यात् । नचेदं वाक्यं देवपरं कल्पकाभावात् । नच तेषां कृत्स्नगृहस्थधर्मवत्त्वेन मुख्यगृहित्वमेव कल्पकम् । तथात्वे अत्वरया सिद्धिमद्यतिभ्य: त्वरया सिद्धिमद्गृहिणो नीचा इति वादिन: सिद्धान्तिनो मते मानुषयतिभ्यो देवानां मुक्तावाधिक्याभावापातादिति । सिद्धान्तस्तु । गृहस्थस्य सर्वसत्कर्माधिकारसत्त्वेऽपि तावदाचरणनियमाभावेन तत्संपाद्यमोक्षस्य "त्वरयैव गृहिणस्साधयन्ति मुक्तिमत्वरयैव यतय:' इति (न्यायविवरणोदाहृत) श्रुत्या च अचितकालीनसाधनसाध्यत्वात् यतिमोक्षस्य गृहिमोक्षादपि चिरकालसाध्यत्वेनाधिक्यात् यतिरेव मुक्तावधिक: न गृही । न चैवं छंदोगवाक्यविरोध: । "कृत्स्ना ह्येते गृहिण:' इत्यादि (पौत्रायण) श्रुतौ देवानामेव कृत्स्नगृहस्थधर्मवत्त्वेन मुख्यगृहित्वोक्त्या छांदोग्यवाक्येऽपि मुख्यगृहस्थदेवपरत्वस्य मुख्यामुख्यन्यायप्राप्तत्वात् । नचैवं मानुषयतिभ्यो देवानां मुक्तावाधिक्याभावप्रसंगो बाधक: । "कृत्स्ना ह्येते यतय:' इति (पौत्रायण) श्रुतौ कृत्स्नयतिधर्मत्वस्याप्युक्तत्वात् तथा "देवा एव ब्रह्मचारिण:' इति (कौंठरव्य) श्रुतौ सर्वाश्रमधर्मवत्त्वश्रवणाच्च यतितोऽप्याधिक्यसिद्धेरिति । फलं तु ज्ञानाधिकारिणामाधिक्योक्त्या ज्ञानमहिमसमर्थनम् । टीकायां तु गृहस्थ उत्तमो यतिर्वेति संशयानुपदर्शनं तु पूर्वोत्तरपक्षदिशा शिष्यैरेवोहितुं शक्यमिति संदेहान्तरोक्त्यभिप्रायो भावदीपे व्यक्त: ।। 8 ।।
।। ॐ अनाविष्कुर्वन्नन्वयात् ॐ ।। 9 ।।
ज्ञानाधिकारिणामाधिक्यं चेदनकेषां ज्ञानाधिकारिणां ज्ञानसंपादने फलाधिक्यादुपदेशोऽप्याविष्कारेण स्यादिति शंकनात्संगति: । अपरोक्षज्ञानसंगतपरोक्षज्ञानहेतूपदेश: किमाविष्कारेण कार्यमुत नेति चिन्ता । तदर्थमाविष्कारे साधकमस्ति बाधकं च नास्ति उत विपरीतमिति । पूर्वपक्षस्तु । सभाचत्वरादौ स्थित्वोपदेशे बहूनां तत्त्वज्ञानयोग्यानां ज्ञानोदयसंभवात् तेन च फलाधिक्येन साधकभावात् बाधकाभावाच्च आविष्कारेणैवोपदेश: कार्य इति । सिद्धान्तस्तु । आविष्कारेणोपदेशे योग्यानामिवायोग्यानां उपदिष्याथर्ग्रहणप्रसंगात् । अयोग्योपदेशस्य च "मानस्तेनेभ्य:' इत्यादि (2-23-16) श्रुत्या निषिद्धत्वेनानर्थहेतुत्वेन योग्येष्वेव ज्ञानोदयहेतुत्वेन फलातिशयहेतुत्वेन चोपपन्नत्वादनाविष्कारेणैवोपदेश: कार्य इति । फलं तु ज्ञानातिशयसमर्थनम् ।। 9 ।।
।। ॐ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ ।। 10 ।।
पूर्वत्र परोक्षज्ञानस्यातिगोपनाख्येत्थंभावोक्तिरयुक्ता । तस्य दृष्यिरूपफलव्यभिचारेण दृष्ययहेतुत्वादिति शंकानिरासात्संगति: । अत्र पूर्वत्र प्रकृतपरोक्षज्ञानसाध्यमपरोक्षज्ञानं किं साधनसंपूर्तिजन्मन्येव भवतीति नियम: उत तत्र जन्मान्तरेवेत्यनियम इति चिन्ता । तदर्थं तस्मिन्जन्मन्यनुदयो तस्य कदाप्यनुदय एवापद्यते अथ नेति । तदर्थमनियमकल्पकं नास्त्युतास्तीति । पूर्वपक्षस्तु । श्रवणादिसाधनसंपूर्तिजन्मनि अपरोक्षज्ञानानुदये यागादिसाधनसंपूर्तिजन्मन्येव स्वर्गसुखानुदये तद्देहावच्छेदेन तादृशसुखभोगायोगरूपकारणस्येव इह प्रबलकारणाभावात् तस्य तज्जन्मन्यनुदये जन्मान्तरे तदुदय इत्यत्र कल्पकाभावात् कदाप्यनुदयस्यैवापातात् तस्मिन्जन्मन्येवापरोक्षज्ञानोदय इति । सिद्धान्तस्तु । साधनसंपूर्तिजन्मनि यागफलस्वर्गानुदये तद्देहावच्छेदेन भोगायोगस्येव इहापि तद्देहे ज्ञानानुदये प्रारब्धकर्मप्रतिबन्धरूपकारणस्य सत्त्वात् तज्जन्मन्यनुदये जन्मान्तरे तदुदयस्तदभावे तज्जन्मनीत्यनियम एव । नच कल्पकाभाव: "श्रुत्वात्मानं मतिपूर्वं ह्युपास्य इहैव दृष्यिं परमस्य विन्देत्' इति श्रुतौ तथावगामादिति । फलं तु श्रवणादेर्ज्ञानहेतुत्वसमर्थनम् ।। 10 ।।
।। ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृते: ॐ ।। 11 ।।
यथा पूर्वत्र ज्ञानमैहिकमेवेत्यनियम: एवं मोक्षफलमपि तद्देहपातानन्तरमेवेति न नियम इति साधनात्संगति: । अत्र
प्रकृतज्ञानसाध्यो मोक्ष: यच्छरीरे ज्ञानमुत्पन्नं तद्देहपातानन्तरमेव भवतीति नियम उतानियम इत्येवं पूर्ववदेव चिन्तापरम्परा पूर्वपक्षसिद्धान्ताश्ऱ्च ज्ञेया: । विशेषस्तु उत्तरत्र ज्ञानसाधनपूर्तिमज्जन्मनि ज्ञानोदयो जन्मान्तरे वा तदुदय इत्यनियमे प्रारब्धप्रतिबन्धरूपकारणवत् इह तादृशकारणाभावे कल्पकं नेत्येव विशेषशंकायां "ब्रह्मसंस्थोऽमृतमेति' इति ब्रह्मसंस्थस्य मोक्षावधारणान्यथानुपपत्ति: "विद्वानमृतमा नोति' इति श्रुतिश्ऱ्चानियमे कारणीभूतप्रतिबन्धाभावतद्भावकल्पकेति समाधानम् । फलं तु अनियम इत्युक्तसमर्थनम् ।। 11 ।।
।। इति श्रीराघवेन्द्रयतिविरचितायां न्यायमुक्तावल्यां तृतीयाध्यायस्य चतुर्थ: पाद: समाप्त: ।।
।। अथ चतुर्थोऽध्याय: ।।
।। पूर्वत्र "एवं मुक्तिफलानियम:' इति फलपदेन मुक्तिरेव ज्ञानस्य प्रधानं फलं अन्यत्तु आनुषंगिकमिति सूचितं प्रधानं फलमत्राध्याये प्रपंच्यते । तत्र कर्मक्षयोत्क्रान्तिमार्गभोगभेदेन चतुविर्धस्य मोक्षस्य क्रमभावित्वात्तत्सर्वं क्रमात् पादचतुष्ययेऽपि वदिष्यन् आदौ कर्मक्षयाख्यफलमाहाद्यपादे । तत्र सप्तभिर्नयै: अत्यंतावश्यंभावि साधनं विचार्यते ।
।। ॐ आवृत्तिरसकृदुपदेशात् ॐ ।। 1 ।।
।। ॐ लिंगाच्च ॐ ।।
अत्रैहिकमित्यत्र प्रकृतं श्रवणादिकं सकृदनुष्ठेयमुत आवर्तनीयमिति चिन्ता । तदर्थं श्रवणादिविधेरग्निष्योमादिविधिवत् सकृदनुष्ठान एव पर्यवसानमुत अवघातविधिवदावर्तनमेवेति । तदर्थं ज्ञानं हि श्रवणादे: सकृदनुष्ठानेन भवति उत नेति । तदर्थं ज्ञानस्य सुशकत्वं गुण: उत दु:शकत्वमेव गुण: इति । तदर्थं दु:शकत्वस्य गुणत्वकल्पकं नास्त्युतास्तीति । पूर्वपक्षस्तु । श्रवणादिसाधनं अग्निष्योमादिवत्सकृदेवानुष्ठेयम् । तावतैव ज्ञानोदयसंभवेन सकृदनुष्ठान एव श्रवणादिविधे: पर्यवसानात् । नच व्रीहीनवहन्तीत्यादिविधे: सकृदनुष्ठानेन तुषविमोकरूपफलासिद्धे: अवघातावर्तने पर्यवसानवत् इह किं न स्यादिति वाच्यम् । तथात्वे ज्ञानस्य सकृत्साधनानुष्ठानलभ्यत्वरूपसुशकत्वगुणाभावप्रसंगात् । नच ज्ञानस्य दु:शकत्वमेव गुण: कल्पकाभावादिति । सिद्धान्तस्तु । अवगादिवच्छ्रवणादिकमावर्तनीयम् । अवघातस्य सकृदनुष्ठानेन तुषविमोकस्येवेह श्रवणादे: सकृदनुष्ठानेन ज्ञानोदयस्यादर्शनेन तद्विधेरवघातादिविधिवदावर्तन एव पर्यवसानम् । नच ज्ञानस्य श्रवणाद्यावर्तनसाध्यत्वोपगमे सुशकत्वगुणभंग: । महाफलहेतुज्ञाने दु:शकत्वस्यैव गुणत्वात् । नच ज्ञानस्य दु:शकत्वं गुण इत्युपेत्य श्रवणाद्यावर्तनसाध्यत्वोपगमे कल्पकाभावात् । उद्दालकेन श्ऱ्वेतकेतुं प्रति "स एवोऽणिमा' इत्यादितत्त्वस्य नवकृत्व: छान्योग्ये षष्ठे उपदिष्यत्वेन तदन्यथानुपपत्ते: श्रवणावृत्तिकल्पकत्वात् । अन्यथा सकृदेवोपदेशकरणापातात् । तथा तैत्तिरीये भृगुवल्लयां "तस्मा एतत्प्रोवाच अन्नं प्राण: चक्षु: श्रोत्रं मनो वाचम्' इति श्रुत्या अन्नादिरूपविषय एव भृगो: "अधीहि भगवो ब्रह्म' इति पुन: श्रवणमननध्यानानि कुर्विति भावेन "तद्विजिज्ञासस्व' इति वरुणस्योक्ति: । श्रुतस्य पुनरालोचनेनापेक्षितत्वमित्येवं रूपलिंगदर्शनस्य च "नित्यश: श्रवणं च' इति (बृहत्तन्त्र) स्मृते: श्रवणमननध्यानावृत्तिकल्पकत्वादिति । फलं तु ऐहिकमित्यादावभिमतस्य श्रवणादेर्ज्ञानहेतुत्वसमर्थनम् ।। 1 ।।
।। ॐ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॐ ।। 2 ।।
पूर्वं यज्ज्ञानार्थं श्रवणाद्यावर्त्यमित्युक्तं तस्यात्मत्वस्य स्वामित्वशब्दितस्यात्र ध्यानमावश्यकमिति साधनात्संगति: । अत्र प्रकृतात्मत्वोपासनोपदेशौ न नित्यश: कार्यावुत कार्यौ इति चिन्ता । तदर्थमात्मत्वरूपस्वामित्वस्यातिप्रसिद्धत्वं तदुपासनादिप्रतिबन्धकमुत नेति । तदर्थं तस्याप्रतिबन्धकत्वकल्पकं नास्त्युतास्तीति । पूर्वपक्षस्तु । आत्मत्वध्यानोपदेशौ न नित्यश: कार्यौ तस्य स्वामित्वरूपस्य नित्यप्रसिद्धत्वात् । सुप्रसिद्धस्य नित्यं सर्वमनसि विपरिवर्तनेन ध्यानोपदेशवैयथ्यर्ात्
। अप्रसिद्धत्वस्यैव उपदेष्यव्यत्वादौ प्रयोजकत्वात् सुप्रसिद्धस्यापि अवश्यं ध्यानोपदेशौ कार्यावित्यत्र कल्पकाभावादिति । सिद्धान्तस्तु । "आत्मेत्युपासनं कार्यं सर्वथैव मुमुक्षुभि:' इत्यादि (भविष्यत्पर्व) वचनेनान्वयव्यतिरेकाभ्यां विष्णुरात्मेत्युपासनोपदेशयो: मोक्षहेतुत्वावगमेन मोक्षार्थोपासनादे: प्रसिद्धयप्रसिद्धिभ्यां कर्तव्यत्वाद्यसिद्धे: नित्यं सर्वथात्मत्वोपासनोपदेशौ कार्यावेवेति । फलं तु वेदानां स्वामित्वे महातात्पर्यस्य युक्तत्वसमर्थनम् ।। 2 ।।
।। ॐ न प्रतीके न हि स: ॐ ।। 3 ।।
पूर्वोक्तस्वामित्वोपासनाक्षेपेणेह पूर्वपक्षोदयात्संगति: । सप्तमे "नाम ब्रह्मेत्युपास्ते' "वाचं ब्रह्मेत्युपास्ते' इत्यादिरूपेण (छां.7-1-5) श्रुतनामवागादिशब्दितोषास्वाहादिकं ब्रह्माभेदेनोपास्यं उत तत्रस्थत्वेनेति चिन्ता । तदर्थं नामब्रह्मेत्यादिश्रुति: ऐक्याभिप्रायोत ना ्निब्रह्मेत्येवंरूपेण तत्रस्थत्वाभिप्रायेति । तदर्थं मिथ्योपासनमपि पुमर्थहेतुरुत सत्योपासनमिति । पूर्वपक्षस्तु । नामवागादिकं ब्रह्मतयोपास्यं "नाम ब्रह्म' इति सामानाधिकरणश्रुत्या तयोरैक्योपासनस्य श्रुतत्वात् । नच "पृथगुपदेशात्' इत्यत्र (ब्र.सू.2-3-28) जीवब्रह्मभेदस्य सिद्धतया नामब्रह्मैक्यं मिथ्यैवेति चेन्न । पूवर्त्र प्रसिद्धयप्रसिद्धयोरप्रयोजकत्वेन पुमर्थहेतुत्वेनैवात्मत्वोपासनवत् उपास्यवस्तुन: सत्यमिथ्यात्वयोरप्रयोजकत्वेन "यावन्ना नो गतं तत्रास्य यथा कामचारो भवति' इत्यादिवाक्यशेषश्रुतफलवत्त्वेन तथोपासनसम्भवादिति । सिद्धान्तस्तु । "अचेतनासत्यायोग्यान्यनुपास्यान्यफलत्वविपर्ययाभ्याम्' इति संकर्षणसूत्रेण अनुव्याख्यानोक्तवचनैश्ऱ्च मिथ्योपासनाया: अफलत्वविपरीतफलत्वयोरुक्त्या मिथ्योपास्ते: पुमर्थाहेतुतया तथोपास्तेरकर्तव्यत्वात् । "नामादिप्राणपर्यन्तम्' इत्यादि स्मृतिबलाच्च ना ्नि ब्रह्मेत्येव तत्रस्थत्वेनैवोपासनं कार्यं न त्वैक्येनेति । फलं तु प्रागुक्तात्मोपासनसमर्थनम् ।। 3 ।।
।। ॐ ब्रह्मदृष्यिरुत्कर्षात् ॐ ।। 4 ।।
पूर्वत्र नामब्रह्मेतिप्रकृतब्रह्मत्वोपास्तेरत्रावश्यकत्वसाधनात्सङ्गति: । अत्र प्रकृतं ब्रह्मत्वं किं सदा सर्वथोपास्यं न भवति उत भवतीति चिन्ता । तदर्थं तस्य तथोपास्यत्वे हेतुर्नास्त्युतास्तीति । पूर्वपक्षस्तु । न ब्रह्मत्वशब्दितस्योपासनं कार्यं सदा सर्वथेति । सिद्धान्तस्तु । ब्रह्मत्वे सवर्गुणान्तर्भावेन तस्य भगवदुत्कृष्यत्वरूपत्वेन इतरगुणेभ्यो ज्यायस्त्वेन तदुपास्तेर्भगवत्प्रीतिविशेषहेतुत्वेन आत्मत्वोपास्तेरिव एतदुपास्तेरभावे मोक्षासिद्धेश्ऱ्च मोक्षहेतुभगवत्प्रीतिविशेषजनकत्वात्सर्वदा सर्वथैव ब्रह्मत्वमुपास्यम् । तच्च आत्मब्रह्मेत्यात्मत्वविशेषणतयैवेति न चतुर्गुणोपास्तिनियमभंग इति ध्येयम् । फलं तु भू नो ज्यायस्त्वमित्युक्तसमर्थनमिति ।। 4 ।।
।। ॐ आदित्यादिमतयश्ऱ्चांग उपपत्ते: ॐ ।। 5 ।।
पूर्वत्र यद्विशेषणतया ब्रह्मत्वं ध्येयमित्युक्तं तदात्मत्वमेव अंगाश्रितत्ववन्न ध्येयमिति शंकोदयात्संगति: । अत्र देवानां स्वस्वोत्पत्त्यंगाश्रितत्वेनोपासनं देवै: कार्यमिति यदुक्तं "अंगेषु यथाश्रयभाव:' (ब्र.सू.3-3-63) इत्यत्र तत्किं देवानां सदा सर्वथा न कायुमुत कार्यमिति चिन्ता । तदर्थं तथा कार्यत्वे विशेषहेतुर्नास्त्युतास्तीति । पूर्वपक्षस्तु । गुणान्तरेषु सत्स्वपि विशिष्य स्वस्वाश्रयांगत्त्वरूपगुणस्यैव नित्यमुपासने ब्रह्मत्वोपासन इव विशेषहेत्वभावात् सूर्यादिदेवानां जगत्प्रकाशनाद्यर्थं विविधिस्थानेषु संचरणेन नित्यं भगवदंगेष्ववस्थित्यभावेन तथोपास्तेर्मिथ्योपास्तितया संचरणेन नित्यं भगवदंगेष्ववस्थित्यभावेन तथोपास्तेर्मिथ्योपास्तितया अनथर्फलत्वाच्च न तथोपासनं कार्यमिति । सिद्धान्तस्तु । "स्वोत्पत्त्यगं च देवानां विष्णोश्ऱ्चिन्त्यम्' इति (नारायणतन्त्र) स्मृत्या देवानां मुक्तौ भगवदंगप्रवेशस्यावश्यकतया तस्य च सदा तादृशगुणोपासनेन विना सिद्धयभावात् । भगवदगप्रवेशरूपकारणसत्त्वात् नित्यं रूपान्तरेण भगवदंशेषु स्थितत्वेन मिथ्योपासनाऽप्रसक्तेश्ऱ्च स्वाश्रयचक्षुष्कतया सूर्येण, चन्द्राश्रयमनस्कतया चन्द्रेण, ब्रह्माश्रितमूर्धतया ब्रह्मणा, इत्येवंरूपेण देवै: सदा सर्वत्र कार्यमेवोपासनमिति । फलं तु आत्मत्वोपासनसमर्थनमेव सत्यप्याश्रयाश्रयिभावे स्वस्वामिसम्बन्धस्यापि अनुपास्यत्वापातादिति शंकानिरासात् ।। 5 ।।
।। ॐ आसीन: संभवात् ॐ ।। 6 ।।
।। ॐ ध्यानाच्च ॐ ।। ॐ अचलत्वं चापेक्ष्य ॐ ।। ॐ स्मरन्ति च ॐ ।। ॐ यत्रैकाग्रता तत्राविशेषात् ॐ ।।
पूर्वं संमुग्धतयोक्तोपासनस्य ध्यानस्मरणभेदोक्तिपूर्वमितिकर्तव्यताकथनात्संगति: । "उपविश्यासने युंज्वात्' इति (भ.गी.6-12) षष्ठे गीतायां ध्यानांगत्वेन उक्तमासनादिकं किं नावश्यकमुतावश्यकमिति चिन्ता । तदर्थं आसनेन विनोपासनोपयुक्त: हरौ मनोनिवेश: युक्त उत न युक्त इति । पूर्वपक्षस्तु । भगवद्दृष्यिहेतूपासनस्य हरौ मनोनिवेशमात्रेणोपपत्ते: आसनं नावश्यकम् । न चासनेन विना हरौ मनोनिवेश एव न युक्त इति वाच्यम् । प्रत्याहारादिनापि तत्संभवात् । अन्यथा "स्मर्तव्यस्सततं विष्णु:' इत्यादिविधीनामनुपपत्तिप्रसंगात् । यदि चासनाद्युपदेशान्यथानुपपत्त्या तदावश्यकत्वे च "पर्वताग्रे नदी तीरे' "ब्राह्मे मुहूर्ते उत्थाय' (भा.10-77-4) इत्याद्युक्त्यन्यथानुपपत्त्या देशादिनियमोप्यावश्यक: स्यादिति । सिद्धान्तस्तु । मनसो विक्षेपाभावेन हरौ निवेशस्य प्रत्याहारादिना संभवेऽपि "अचलं चेच्छरीरं स्यान्मनसश्ऱ्चाप्यचालनम्' इति (ब्रह्माण्ड) स्मृत्या शरीराचलत्वेनापि मनसो विक्षेपाभावस्यावगमात् । शरीराचलत्वस्य च आसन एव संभवात् । "समं कायशिरोग्रीवम्' इत्यादि (भ.गी.6-13) स्मृतिबलाच्च उपासनोपयुक्ततया सम्यग्भगवति मनोनिवेशनार्थं आवश्यकमेवासनम् । नच नित्योपासनस्यासनावश्यकत्वस्य च विरुद्धत्वादासनस्यावश्यकत्वे "स्मर्तव्यस्सततम्' इति स्मृत्या उपासनविधिविरोध: । स्मरणध्यानरूपेणोपास्तेर्द्वैविध्येन स्मरणोपासनस्य नित्यं कार्यत्वेन तत्रासननियमेऽपि कादाचित्कध्यानरूपेणोपासने तदावश्यकत्वे विरोधाभावात् । अत एव नासनाद्युपदेशवैयर्थ्यम् । नचैवं देशविशेषादेरपि आवश्यकत्वप्रसंग: । आसनादिवत् ध्यानोपयोगिताया वा श्रवणादिवत् ज्ञानोपयोगिताया वा अभावात् । "तमेव देशं सेवेत' इत्यादि (वाराह) स्मृतेश्ऱ्च यत्रैकाग्रता ध्यानस्य स एव देशादिर्ग्राह्यो न पर्वताग्रादिनियम इति । फलं तु आसनाद्युपदेशसार्थकत्वम् ।। 6 ।। N.M-13
।। ॐ आप्रायणात्तत्रापि हि दृष्यम् ॐ ।। 7 ।।
पूर्वत्र विशेषभावादासनमावश्यकं देशविशेषादि तु विशेषणाभावान्नावश्यकमित्युक्तम् । तद्वदिहापि "ध्यानाच्च' इति प्रकृतं ध्यानं ज्ञानपर्यन्तमेव न तु तदनन्तरमपि मुक्तिपर्यन्तं मुक्तौ तत्कृतविशेषाभावादिति शंकोदयात्संगति: । अत्र ध्यानाच्चेति प्रकृतं ध्यानं किं ज्ञानपर्यन्तमेवावश्यकमुत मुक्तिपर्यन्तमपीति चिन्ता । तदर्थं ज्ञानार्थं विहितस्य मुक्तिपयर्न्तमनुष्ठाने हेतुर्नास्त्युतास्तीति । तदर्थं मुक्तावानन्दातिशयो ध्यानादन्येनापि भवत्युत ध्यानेनैवेति । पूर्वपक्षस्तु । मुक्तावानन्दवृद्धे: ध्यानादन्येन श्रवणादिसाधनान्तरेणापि संभवात् ज्ञानार्थं विहितस्य मुक्तिपर्यन्तमनुष्ठाने हेत्वभावान्न मुक्तिपर्यन्तं ध्यानमनुष्ठेयमिति । सिद्धान्तस्तु । "योगरूढस्य तस्यैव शम: कारणमुच्यते' इति (भ.गी.6-3) गीतायां योगारूढस्यापरोक्षज्ञानिन: शम: ध्यानं परमसुखकारणमित्युक्त्या प्राधान्येन ध्यानस्यानन्दवृद्धिहेतुत्वावगमात् । "प्रायणान्तमोंकारमभिध्यायीत' इति (ष.प्र.5-1) श्रुते: । "मुक्ता अपि ह्येनमुपासते' इति (सौपर्ण) श्रुत्युक्तकैमुत्यन्यायाच्च कार्यमेव मुक्तिपर्यन्तं ध्यानमिति । फलं तु यावदधिकारमित्यादौ (ब्र.सू.3-3-33) उक्ततारतम्यसमर्थनम् । अन्यथा मुक्तौ ज्ञानिनां ध्यानफलाभावप्रसंगेन तारतम्याभावापातादिति ।। 7 ।।
।। ॐ तदधिगम उत्तरपूवर्ाघयोरश्ऱ्लेषविनाशौ तद्वयपदेशात् ॐ ।। 8 ।।
।। ॐ इतरस्याप्येवमसंश्ऱ्लेष: पाते तु ॐ ।। ॐ अनारब्धकार्ये एव तु पूर्वे तदवधे: ॐ ।। ॐ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॐ ।। ॐ अतोऽन्यदपीत्येकेषामुभयो: ॐ ।। ॐ यदेव विद्ययेति हि ॐ ।। ॐ भोगेन त्वितरे क्षपयित्वाऽथ सम्पत्स्यते ॐ ।।
एवं प्रासंगिकं समाप्य कर्मक्षयाख्यं मोक्षस्वरूपमेवात्रोच्यत इत्यवसरसंगति: । "एवं मुक्तिफल' इति (ब्र.सू.3-4-51)
पूवर्ोक्तज्ञानान्मुक्तिरयुक्तेति चिन्ता । तदर्थं मुक्तिप्रतिबन्धकानां ज्ञानपूर्वापरभाविकर्मणां ज्ञानान्नाशादिकमयुक्तमुत युक्तमिति चिन्ता । तदर्थं नाशाद्यङ्गीकृतौ बाधकमस्त्युत नेति । पूर्वपक्षस्तु । "एवं मुक्तिफलानियम:' इत्यत्र कर्मकृतप्रतिबन्धाभावे ज्ञानान्मुक्तिर्भवत्येवेत्युक्तमयुक्तम् । ज्ञानात्पूर्वं पश्ऱ्चाच्चानुष्ठितकर्मणां प्रतिबन्धकीभूतानां निवृत्त्ययोगात् । तत्किं पूर्वकर्मणां भोगेन निवृत्तिरुत अग्निना तूलस्येव ज्ञानेन नाश: उत्तरेषामलेप: । आद्ये किं तस्मिन्नेव देहे तेषां भोग उत देहान्तरे । अन्तेऽपि किं क्रमेणोत एकस्मिन्नेव जन्मनि कायव्यूहेन युगपदेव भोग: । नाद्य: । बहुदेहफलकर्मणां भावात् । न द्वितीय: । तथात्वे बहुकालान्तरितज्ञानस्य जीर्णबीजवन्मोक्षहेतुत्वाभावापत्ते: । न तृतीय: । अनियतदेशकालविपाकत्वात् तादृशानामपि योगप्रभावेनैकदेशकालयोरेव भोग इत्यङ्गीकारे च योगसामर्थ्याद्भोगाभावप्रसङ्गात् । तद्भोगकालेषु पुन: कर्मान्तरसंभवेनासमाप्तेश्ऱ्च । नच न करोति ज्ञानी "न हि कश्ऱ्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्' इति (भ.गी.3-5) गीतोक्तिविरोधात् । न चतुर्थ: । "नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि' इति स्मृतिविरोधात् । ज्ञानेनैव कर्मक्षये ज्ञानोत्पत्त्युत्तरकालमेव मोक्षापातात् । किं च ज्ञानिन: प्राचीनपुण्यकर्मणोऽपि ज्ञानेन क्षये "सर्वापेक्षा च यज्ञादिश्रुते:' इत्यत्र (ब्र.सू.3-4-26) ज्ञानोपयोगोक्तिविरोध: । उत्तरस्याश्ऱ्लेषे च स्तुनिनयोक्त (ब्र.सू.3-4-14) आनन्दातिशयहेतुत्वविरोध: स्यादिति । अनेनैव न्यायेन "अनिष्यादिकारिणाम्' इति वैराग्यपादीय एकादशाधिकरणे हरिद्विषां तम:प्राप्त्युक्तिरयुक्ता । द्वेषपूर्तित: प्रागूर्ध्वं सतां कर्मणां भोगेन वा द्वेषपूर्त्या वा नाशस्याश्ऱ्लेषस्य वा अयोगादिति । सिद्धान्तस्तु । भोगेन कर्मणां क्षययोगेऽपि ज्ञानोदयानन्तरं कर्मानुष्ठानभावेऽपि ज्ञानान्मोक्षो युक्त एव । ज्ञानेन पूर्वापरकर्मनाशाश्ऱ्लेषाभ्युपगमान्नोक्तदोष: । ज्ञानेन प्राचीनानां अप्रारब्धाशेषपापकर्मणां पुण्यमध्येपि अप्रारब्धानभीष्यकाम्यपुण्यकर्मणामेव नाशोपगमेन तदन्यपुण्यपापयोर्भावेन "नाभुक्तम्' इतिस्मृतेस्तद्विषयतया तद्विरोधस्य ज्ञानोत्पत्त्युत्तरक्षण एव मोक्षस्य प्राचीनपुण्यज्ञानोपयोगोक्त्यविरोधस्य चोपपत्ते: । तथोत्तरस्यापि पापस्याशुचित्वाद्यनापादकत्वरूपाश्ऱ्लेषस्य अकाम्यपुण्यस्य च मोक्षे सुखातिशयहेतुत्वस्य चोपगमेन स्तुतिनयोक्तविरोधस्याभावात् । प्रारब्धपुण्यपापानां अप्रारब्धकाम्यपूर्वोत्तराभीष्यपुण्यकर्मणां च भोगेन क्षपणसम्भवाच्च । अतो बाधकाभावात् ज्ञानात्कर्मनाशादिकं युक्तमेवेति ज्ञानान्मोक्षो युक्त एव । एवं द्वेषिणोऽपि द्वेषपूर्तित: प्राक्कृताशेषाप्रारब्धपुण्यानां नाशस्य उदीचीनां अशेषपुण्यानामश्ऱ्लेषस्य प्रारब्धपुण्यपापानां भोगेन क्षपणस्योपगमात् द्वेषिणस्तम:प्राप्त्युक्तिरप्युपपन्नेति । फलं तु प्रागुक्तप्रमेयसमर्थनं व्यक्तम् ।। 8 ।।
।। इति श्रीमद्राघवेन्द्रयतिकृतायां न्यायमुक्तावल्यां चतुर्थाध्यायस्य प्रथम: पाद: ।।
।। अथ द्वितीय: पाद: ।।
ज्ञानिनोऽत:पदोक्तमोक्षफलाय ज्ञानभोगाभ्यां कर्मक्षय उक्त: पूर्वपादे । अत्र तु कमर्क्षयसाध्यदेहक्षयक्रम उच्यते इति पूर्वानन्तर्यमस्य पादस्य ध्येयम् ।
।। ॐ वाङ्मनसि दर्शनाच्छब्दाच्च ॐ ।। 1 ।।
।। ॐ अत एव च सर्वाण्यनु ॐ ।।
।। ॐ ज्ञानिनां देहक्षयो द्विविध: । देवानां स्वोत्तमेषु लयोऽन्येषां ब्रह्मनाड्योत्क्रमणेनेति । तत्र देवानामधिकार्युत्तमत्वादादौ तेषां "अविभागो वचनात्' (ब्र.सू.4-2-16) इत्यत: प्राक्तनसप्तभिरधिकरणै: देहलयोभिधीयते । तत्र वाग्देव्या भगवत्प्राप्तिलक्षणमोक्षाय मनोदेवे लयोऽशक्यनिर्णयोऽथ शक्यनिर्णय इति चिन्ता । तदथर्ं मनोवेदस्य उत्तमत्वं निर्णेतुमशक्यमुत शक्यमिति । तदर्थं "वाक्पूर्वरूपं मन उत्तररूपम्' "मन: पूर्वरूपं वागुत्तररूपम्' (ऐ.3-1-1) इति व्यामिश्रोक्ति: वाङ्मनसयोरन्यजन्मोक्त्या समप्राधान्यावगमेन मनस उत्तमत्वनिर्णयाय "विपर्ययेण तु क्रमोऽत उपपद्यते च' (ब्र.सू.2-3-14) इत्यत्र स्वसृष्यतया स्वोत्तमदेव एव लयस्य वाच्यत्वात् वाचो मनोलय: अशक्यनिर्णय इति । सिद्धान्तस्तु । वाचो मनोवश्यत्वस्य सर्वप्रत्यक्षसिद्धत्वात् "मनसा वाग्रे संकल्पयत्यथ वाचा व्याहरति' (ऐ.3-1-1) इति वाक्प्रवृत्ते:
मन:प्रवृत्तिपूर्वकत्वयुक्त्युपेततया विशेषणाच्च मनस उत्तमत्वनिर्णयसम्भवात् वाग्देव्या मनोदेवे लयोऽस्त्येवेति । नच व्यामिश्रोक्तिविरोध: । तस्या: संहिताया: पूर्वोत्तरवर्णदेवतात्वे गुणप्रधानभावे च मांडूकेयतज्ज्येष्ठपुत्रयोर्विवादपरत्वात् । व्यक्तमेतदैतरेयभाष्ये । फलं तु पूर्वपक्षे वाग्देव्या: मोक्षाभावेनानियम: सर्वेषामित्युक्त्याक्षेप: । सिद्धान्ते तत्समाधि: । अत्र वाग्देवी वारुणी सौपर्णी च । मनोदेव: शेष: सुपर्णश्ऱ्च ज्ञेया: । एतेन "अग्नौ सर्वे देवा विलीयन्ते अग्निरिन्द्रे' इत्यादिश्रुतिबलात्सर्वदेवानामपि स्वस्वोत्तमदेवेषु लय: सिद्धो भवति । तत्र व्यामिश्रोक्त्यादिरूपबाधकाभावादिति । अत्र टीकायां मनसि लीयते न वेति संदेहवाक्ये इत्यनिर्णयोऽथ लीयत एवेति निर्णय इति शेषो वा नोभयथापि सम्भवतीति पूर्वपक्षप्रवृत्तिरिति वा तस्याभिप्रायो ध्येय: । तेन न पूर्वपक्षानानुगुण्यमितिशंका कार्या ।। 1 ।।
।। ॐ तन्मन: प्राण उत्तरात् ॐ ।। 2 ।।
अत्राधिकरणत्रये वाङ्मनसि लीयत इत्यादिश्रौतक्रमात्क्रमो ध्येय: । अत्र मनोदेवस्य प्राणदेवादुत्पत्तिर्नास्त्युतास्तीति । पूर्वपक्षस्तु । प्राणदेवस्य चतुर्मुखस्य सर्वत्र प्रवृत्तिहेतुत्वमिव मनोदेवस्यापि शेषादे: सर्वत्र प्रवृत्तिकारणत्वेन तत्तदनुभवसिद्धान्वयव्यतिरेकाभ्यां सिद्धतया चेष्यकत्वसाम्ये मनोदेवस्य प्राणादेवादनूनबलवत्त्वान्न मनोदेव: प्राणे लीयते । अतो नास्ति मोक्ष: । "विपर्ययेण' इत्यत्रोक्तदिशा (ब्र.सू.2-3-14) अधिकबले एव न्यूनबलो लीयते इति वक्तव्यत्वात् । नच मनस: प्राणजत्वात् तत्र लय: शंक्य: । "तत्प्राक्श्रुतेश्ऱ्च' इति (ब्र.सू.2-4-4) सूत्रे भगवदुत्पत्त्योक्तेरिति । सिद्धान्तस्तु । "वाङ्मनसि सम्पद्यन्ते' इत्युक्त्या "मन: प्राणे' इति मनोदेवस्य प्राणदेवे संपत्तिशब्दितलयश्रवणात् मनोदेवोऽपि प्राणदेवे चतुर्मुखे वचनान्तरबलाद्वाणीद्वारा लीयत "मन उदक्रमात्' इत्याद्यैतरेयश्रुतौ (ऐ.2-1-4) ब्रह्मदेहान्मनोदेवस्योत्क्रमणप्रवेशयोरपि तद्देहपातोत्थानयोरभावस्य प्राणदेवोत्क्रमणप्रवेशयोस्तद्भावस्य श्रवणेन मनोदेवादपि प्राणदेवस्याधिक्यावगमेन चेष्यकत्वसाम्याभावाद्भगवदुतपन्नत्वस्य वियत्पदीयन्यायेन प्राणदेवद्वारोपपत्त्या "वायोर्वाव रुद्र उदेति' इति (कौण्डिण्य) श्रुत्या च मनस: प्राणजत्वाच्च अस्ति मनसो मोक्ष इति । फलं तु पूर्ववत् ।। 2 ।।
।। ॐ सोऽध्यक्षो तदुपगमादिभ्य: ॐ ।। 3 ।।
अत्र श्रौतक्रमाद्वा पूर्वनयद्वयफलाक्षेपाद्वा संगति: । अत्र प्राणपदोक्तो विरिंच: भगवत्प्राप्तिरूपमोक्षाय हरौ न लीयतेऽथ लीयत इति चिन्ता । तदर्थं तस्येशाधीनत्वनिश्ऱ्चयो नास्त्युतास्तीति । तदर्थं प्राणस्वातन्त्ऱ्यश्रुतिबाहुल्यं अनद्यमानत्वे सत्यत्तृत्वमाहात्म्यं च निरवकाशमुत सावकाशमिति । पूर्वपक्षस्तु । "न प्राण: किंचिदाश्रित:' इति, "यस्मिन्निदं सर्वमध्या नोत्' इति, "प्राणस्यैतद्वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम्' इति, "वायुना वै गौतमसूत्रेण' (बृ.5-7-2) इत्यादिश्रुतिबाहुल्येन प्राणस्य अनन्याधीनत्वावगमेन ईशाधीनत्वनिश्ऱ्चयान्न तत्र विरिंचस्य लय: । नच "अनन्येश्ऱ्वरता प्राणे तदन्येश्ऱ्वरवर्जनम्' इत्युक्तदिशा विष्ण्वन्येश्ऱ्वरवर्जनपरत्वेन श्रुतीनां सावकाशत्वं शंक्यम् । बहुत्वप्रयुक्तप्राबल्योपेतानां श्रुतीनां अनन्येत्यादिदुर्बलवचनेन गत्यन्तरकल्पनायोगात् । अनद्यमान इति प्राणस्य लयाभावोक्तेश्ऱ्चेति । सिद्धान्तस्तु । अस्त्येव प्राणपदोक्तविरिंचस्य हरौ लय: । प्राणस्यास्वातन्त्ऱ्े श्रुतिबाहुल्यस्येशाधीनत्वेऽपि "प्राण: परस्यां देवतायाम्' इति, "प्राण: परमुपगच्छति' इति, "प्राण: परमनुप्राणिति' इत्यादिश्रुतिबाहुल्यस्य सत्त्वात् । नच साम्येनेशाधीनत्वानिर्णय: । स्वातन्त्ऱ्यश्रुतीनां "सर्वेप्राणमुपगच्छन्ति'इति, "प्राणं देवा अनुप्राणन्ति' "अनन्येश्ऱ्वरता प्राणेतदन्येश्ऱ्वरवर्जनम्' इत्यादि वचनबलेन रुद्रादिसर्वोपजीव्यत्वभगवदन्येश्ऱ्वरवर्जनपरत्वेन सावकाशत्वात् । अनद्यमानत्वस्येशादन्यैरनद्यमानत्वेनोपपत्तेरिति । प्राणस्तेजसीतिश्रुतौ तेजसि श्रीतत्त्वे प्राणस्य लयश्रवणं तु "प्राणस्य तेजसि लयो मार्गमात्रम्' इति स्मृत्या तत्प्राप्तिमात्रपरं न तत्र लयपरम् । विरिंचस्य साक्षात्परमात्मनिलययोग्यत्वात् प्राणस्येव तत्र लय इति ज्ञेयम् । "चक्षुरादिवत्तु तत्सहशिष्ययादिभ्य:' (ब्र.सू.2-4-11) इत्यत्र प्राणस्येशवशत्वोक्तावपि इह स्वातन्त्ऱ्े श्रुतिबाहुल्यविशेषाशंकेति न गतार्थता । फलं तु पूर्वपक्षे विरिंचस्य लयाभावे मोक्षाभावेन तदनुप्रविष्यानामशेषज्ञानिनामपि मोक्षाभावेन पूर्वोक्तनयद्वयाक्षेपद्वारा अनियम इत्युक्ताक्षेपात्सिद्धान्ते तत्समाधिरिति ।। 3 ।।
।। ॐ भूतेषु तच्छते: ॐ ।। 5 ।।
पूर्वोक्ताक्षेपेणात्र शंकनात्संगति: । "वाङ्मनसि' इत्यादिश्रुतौ विशिष्योक्तेभ्योऽन्ये देवा: भगवत्प्राप्तिरूपमोक्षाय किमेकस्मिन्भूतमानिति लीयन्तेऽथ भूतान्तरमानिष्वपीति चिन्ता । तदर्थं "अग्नौ सर्वे देवा विलीयन्ते' इति श्रुति: प्रतीतार्थनिर्णायका भवति न वेति । तदर्थं भूतान्तरमानिषु लये प्रमाणं नास्ति प्रागुक्तन्यायश्ऱ्च अनिर्णायक उतास्ति प्रमाणं प्रागुक्तन्यायश्ऱ्च निर्णायक इति । पूर्वपक्षस्तु । "अग्नौ सर्वे देवा:' इति श्रुते: अग्निदेवे एव सर्वे देवा विलीयन्तेऽन्यत्रापि लीयन्त इत्यत्र प्रमाणाभावाच्च यो यन्नियम: स तत्र लीयत इति प्रागुक्तन्यायस्य नियामकानां बहुत्वेनानिर्णायकत्वात् प्रागुक्तस्वस्वनियामके लय इत्येतदयुक्तमिति । सिद्धान्तस्तु । "भूतेषु देवा विलीयन्ते' इति भाष्योक्तश्रुत्या पंचस्वपि भूतमानिषु यथा स्वस्वनियामके देवा विलीयन्ते नियामकानां बहुत्वेऽपि "अग्नौ सर्वे देवा विलीयन्तेऽग्निरिन्द्रे इन्द्र उमायां उमा रुद्रे' इत्यादिश्रुत्युक्तदिशा निर्णयसम्भवेन प्रागुक्तन्यायस्यानिर्णायकत्वाभावादिति । फलं तु प्रागुक्ताक्षेपसमाधी ।। 4 ।।
।। ॐ नैकस्मिन्दर्शयतो हि ॐ ।। 5 ।।
अत्रापि पूर्वाक्षेपेण शंकनात्संगति: । पूर्वप्रकृतदेवा: भगवत्प्राप्तिलक्षणमोक्षस्य किं अग्नावेव लीयन्तेऽथ पंचस्वपीति चिन्ता । "भूतेषु देवा विलीयन्ते' इति प्रागुक्तश्रुति: सावकाशाथ निरवकाशेति । तदर्थं "अग्नौ सर्वे देवा:' इति श्रुत्यन्यथानुपपत्ति: निरवकाशोत सावकाशा । तदर्थं पंचस्वपीत्यत्र विशेषप्रमाणाभावेन अग्नावितिश्रुत्यन्यतानुपपत्ते: गत्यन्तरकल्पकाभावात् निरवकाशतया भूतेष्विति बहुवचनान्तश्रुते: अग्नौ देवानां लयेऽपि अग्नि: स्वजनकवायौ, वायोश्ऱ्च स्वजनकाकाशे, लयेन परंपरालयाभिप्रायेण सावकाशत्वकल्पनादग्नावेव सर्वदेवानां लय इति पंचस्वपि लय इति प्रागुक्तमयुक्तमिति । सिद्धान्तस्तु । "पृथिव्यां ऋभवो विलीयन्ते' इति, "ऋभव: पृथिव्याम्' इति च, भाष्योक्तविशेषप्रमाणाभ्यां प्रत्येकं पंचस्वपि भूतमानिषु ऋभुप्रभृतिदेवानां लयश्रवणादग्नौ सर्वे देवा इति श्रुते: "अग्नावग्नयो वायाविन्द्र:' इत्यादि श्रुतौ निर्दिष्याग्निपुत्रां प्रायेणाधमानां सर्वेषां भूतान्तराप्रवेशिनां लयविषयत्वेन सावकाशतया भूतेष्वितिश्रुते: परंपरया लयाभिप्रायरूपामुख्यार्थताकल्पकत्वायोगात् निरवकाशभूतेषु इति प्रागुक्तश्रुत्या पंचस्वपि भूतमानिषु देवानां प्रागुक्तपंचस्वपि लय इत्येतद्युक्तमिति । फलं व्यक्तम् ।। 5 ।।
।। ॐ समना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॐ ।। 6 ।।
।। ॐ तदपीते: संसारव्यपदेशात् ॐ ।। ॐ सूक्ष्मं प्रमाणतश्ऱ्च तयोपलब्धे: ॐ ।। ॐ नोपमर्देनात: ॐ ।। ॐ अस्यैव चोपपत्तेरूष्मा ॐ ।। ॐ प्रतिषेधादिति चेन्न शारीरात् ॐ ।। ॐ स्पष्यो ह्येकेषाम् ॐ ।। ॐ स्मर्यते च ॐ ।।
तदधीनत्वयुक्तिविशेषश्रुतिभ्यां प्रागुक्तसिद्धान्तन्यायेनात्र शंकनादापवादकी संगति: । प्राणादुत्तमत्वेन बुद्धिस्थतया प्रकृता, श्रौतक्रमेण वा प्रकृता, चित्प्रकृति: भगवति लीयते न वेति चिन्ता । तदर्थं प्रागुक्तयुक्ति:, "तेज: परस्याम्' इतिविशेषश्रुतिश्ऱ्चेति द्वयमपि निरवकाशमुत सावकाशमिति । तदर्थं कामादित्यत्रोक्तं (ब्र.सू.3-3-40) असंसारित्वं प्रकृतेरयुक्तमुत युक्तमिति । तदर्थं मुक्तत्वं तस्या: किमागन्तुकमुत स्वाभाविकमिति । स्वाभाविकत्वे भगवता सर्वसाम्यमापतत्युत नेति । पूर्वपक्षस्तु । भगवदधीनत्वयुक्ति "तेज' इति श्रुतिभ्यां सापि हरौ लीयत एव । अन्यथा वागादीनां मन:प्रभृतिषु ताभ्यामुक्तलयोऽपि न स्यात् । नच असंसारित्वाल्लयाभाव: तस्यैवानुपपत्ते: । नच मुक्तत्वात्तद्युक्तं तस्यागन्तुकत्वात् । स्वाभाविकत्वे भगवता तस्या: सर्वसाम्यापातात् । नित्यं संसारराहित्ये गुणान्तरै: साम्यस्याप्यापातादिति । सिद्धान्तस्तु । "द्वौ वाव सृत्यनुपक्रमौ प्रकृतिश्ऱ्च परमश्ऱ्च' इति भाष्योक्त (बृहच्छति:) श्रुतौ परमपुरुषत्वसर्वगतत्वनित्यत्वयुक्तिभ्यां कदापि संसाराभावस्य तद्धेतुकनित्यमुक्त्वस्योक्त्या भगवदुपासनादिसाधनासाध्यतया मुक्तत्वस्य स्वाभाविकत्वात् तादृशमुक्तिमत्याश्ऱ्च देव्या: हरेरिव देहत्यागरूपलयायोगात् न प्रकृतिर्लीयते । तदधीनत्वाद्वागादिवत्स्वोत्तमे हरौ लीयत इत्यभिप्रेतानुमानं तु संसारित्वोपाधिग्रस्तात् । "तेज:' इति श्रुतिरपि
"हरेरत्यन्तसामीप्यं लयो लक्ष्म्ा: प्रकीर्तित:' इति वचनादतिसामीप्यार्थतयोपपन्ना । प्रकृतेरीशेन सर्वसाम्यापातस्य च "तदपीते:' "सूक्ष्मम्' "अस्यैव च' इति सूत्रत्रयोक्तै: मोचकत्वामोचकत्व, परमसूक्ष्मत्वसूक्ष्मत्व, ज्ञानानन्दादिगुणपरिमाणाधिक्य, न्यूनत्व, ऊष्मावत्त्वानूष्मावत्त्वहेतुभिर्निरासात् । सर्वसाम्याभावे ब्रह्मादेरिव नित्यमुक्तत्वादिनापि साम्यं न स्यादिति चोद्यस्य च "नोपमर्देन' इति सूत्रे भगवद्विशेषगुणानुपमर्देनैव देशकालव्याप्त्यादिकिंचित्साम्यस्यैव प्रमाणसिद्धत्वोक्त्या निरासान्न "असमो वा एष पर:' इति श्रुतौ हरे: साम्यनिषेधस्य "प्रतिषेधात्' इत्यादिसूत्रत्रयोक्तदिशा जीवविषयत्वादिति । फलं तु पूर्वपक्षे देव्या: संसारित्वात् भगवति लयसद्भावादधिकारित्वेन अधिकारिणां "इयदामननात्' इत्यत्रोक्तप्रमाणावधित्वाक्षेप: सिद्धान्ते तत्समाधानम् ।। 6 ।।
।। ॐ तानि परे तथा ह्याह ॐ ।। 7 ।।
पूर्वत्र "विलीन: परमे ह्यमृतत्वमेति' इत्युक्तौ अस्तु अमृतत्वं "सोऽध्यक्षे' (ब्र.सू.4-2-4) इत्युक्तस्य प्राणस्य, न "भूतेषु देवा विलीयन्ते' इत्युक्तदेवानामिति शंकनात्संगति: । "भूतेषु देवा विलीयन्ते' इत्युक्तदेवा: भगवति न लीयन्तेऽथ लीयन्त इति चिन्ता । तदर्थं किमेते प्राणपदोक्तचतुर्मुखप्रतिबिंबा: उत भगवत्प्रतिबिंबा: अपीति । तदधीनत्वे सति तत्सदृशत्वरूपप्रतिबिंबो हि स्वनियामके बिंबे लीयते । "प्रतिबिंबो हरे: प्राण: प्राणस्यान्ये कला: क्रमात्' इति वचनेन प्राणस्यैकस्यैव भगवत्प्रतिबिंबत्वात् तस्यैकस्यैव तत्र प्रवेशरूपमोक्षो नान्येषां ज्ञानिनामित्यनियम: सर्वेषामित्युक्तमयुक्तमिति प्राप्ते क्रमात्प्राणबिंबत्वेऽपि देवानां "सर्वे देवा: प्राणमाविश्य देवे मुक्ता लयं परमे यान्ति' इति (कौषारव) श्रुत्या प्राणद्वारा परमात्मनि प्रवेशोपपत्ते: । भगवत्प्रतिबिंबविरिंचप्रविष्यानां, विरिंचस्येश्ऱ्वरप्रवेशे, परमात्मप्रवेशस्यापरिहार्यत्वात् । "आभास एव च' इति (ब्र.सू.2-3-50) सूत्रोक्तदिशा सामान्यतोऽशेषजीवानां उक्तरूपप्रतिबिंबत्वाच्च अस्ति तत्र प्रवेशरूपमोक्ष: इति अनियम इत्युक्तं युक्तमिति । फलं तु व्यक्तम् ।। 7 ।।
।। ॐ अविभागो वचनात् ॐ ।। 8 ।।
पूर्वाक्षेपेणात्र शंकनात्संगति: । पूर्वाधिकरणे मोक्षवत्त्वेनोक्ता: देवा: किं मुक्तौ स्वतन्त्रा: उतेशाधीना इति चिन्ता । तदर्थमन्याधीनत्वे संसारदु:खादिप्रसंग: श्रौतसत्यकामत्वाद्यभावप्रसंगश्ऱ्च अस्त्युत नेति । मुक्तानां पराधीनत्वे संसारदु:खादिप्रसंगात् "एते देवा एतमात्मानमनुविश्य सत्या: सत्यकामा:' इत्यादि (गौपवन) श्रुत्युक्तसत्यकामत्वाद्ययोगाच्च न मुक्ता: पराधीना इति प्रागुक्तमीशाधीनत्वादिरूपं प्रति बिंबत्वमयुक्तमिति प्राप्ते "कामेन मे काम आगमात्' इति (तै.आ.3-15-4) "मुक्तानां सत्यकामत्वम्' इति (ब्राह्म) श्रुतिस्मृतिभ्यां श्रौतसत्यकामत्वादेरीशेच्छानुसारित्वादेव दु:खादिप्रसक्तेरप्यभावात्कामितालाभप्रयुक्तत्वात् दु:खादे: भगवदिच्छानुसारेण कामयमानानां मुक्तानां कामितालाभाभावादीशाधीना एव मुक्तावपि ज्ञानिन इति प्रागुक्तं युक्तमिति सिद्धान्त: ।। 8 ।।
।। ॐ तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीत: शताधिकया ॐ ।। 9 ।।
।। ॐ रश्म्यनुसारी ॐ ।। ॐ निशि नेति चेन्न सम्बन्धात् ॐ ।। ॐ यावद्देहभावित्वाद्दर्शयति ॐ ।। ॐ अतश्ऱ्चायनेऽपि हि दक्षिणे ॐ ।।
पूर्वत्राधिकार्युत्तमक्रमेणादौ देवानां स्वस्वोत्तमेषु देहलयान्मोक्ष: सापवाद: सप्तभि: नयैरुक्त: । अत्र तु नये मनुष्याणामुत्क्रमणेन भगवत्प्राप्तिरूपमोक्ष उच्यत इति पूर्वपेटिकयास्य संगतिर्ध्येया । अत्र ज्ञानिनां देहादुत्क्रान्ति: अज्ञमृतिवदेव अथ ज्ञानशक्त्या ततो विलक्षणेति चिन्ता । तदर्थं ज्ञानं किं तन्मृतेर्विलक्षणतासंपादनाशक्तमुत शक्तमिति । तदर्थं प्रारब्धकर्मशेषो ज्ञानशक्तिप्रतिबन्धको भवत्युत नेति । तदर्थं किं ज्ञानं स्वोदयात्फलदानसमर्थं किं वा कर्मावसान एवेति । तदर्थं स्वोदयात्फलदानशक्तत्वेऽतिप्रसंगोऽस्त्युत नेति । पूर्वपक्षस्तु । स्वोदयमारभ्यैव ज्ञानस्याज्ञमृतेर्वैलक्षण्यरूपफलदानशक्तत्वे
ज्ञस्यादिमृतेरपि अज्ञमृतितो वैलक्षण्यसंपादकत्वापातेन प्रारब्धावसान एव फलदानशक्तं न तु तस्मिन्सतीति वाच्यत्वात् "आदेहम्' इति (न्यायविवरणोदाहृत) वचनेन देहपातपर्यन्तविद्यमानप्रारब्धप्रतिबद्धशक्तिकं ज्ञानं नाज्ञमृतितो ज्ञानिमृतेर्वैलक्षण्यसंपादकम् । नच मृतिकाले प्रारब्धं नेति युक्तम् अज्ञमृतेरिव ज्ञमृतेरपि प्रारब्धनिबन्धनत्वात् । "स्वोदयात्फलदं ज्ञानम्' इति तु (न्यायविवरणशेदाहृतश्रुति:) फलान्तरपरं नेयमिति । सिद्धान्तस्तु । स्यादेवं यति ज्ञानमात्रेण वैलक्षण्यसंपादकं ज्ञानिमृतेरित्यंगीकुर्म: तदा स्यादेवातिप्रसंग: । नचैवं किं तु स्वहृदयमारभ्य भगवत्प्राप्तिपर्यन्तं विद्यमानमार्गस्मृतिसहितं विद्याप्रसन्नहृद्गतभगवदनुग्रहसहितमेव । तथा तद्व्ययंच कर्मावसान एव भवति नान्यदेति नातिप्रसंगोऽत: तदुभयसहकृतं ज्ञानमज्ञानिमृतितो ज्ञानिमृतेर्वैलक्षण्यसंपादकं भवत्येवेति ज्ञानपादोक्तज्ञानसामर्थ्यं युक्तमेवेति फलं ध्येयम् । वैलक्षण्यप्रकारश्ऱ्च हृद्गतभगवत्प्रकाशेन प्रकाशितद्वारया ब्रह्मनाड्या यावद्देहभाविसूर्यरश्मिभिरन्तर्व्याप्तया ज्ञानिनो निर्गमनं नाज्ञस्येति तत्प्रकाशितद्वार इत्यादि सूत्रभाष्याद्युक्तदिशा ज्ञेय: । अत्र यद्यपि ज्ञानिन: अस्त्युत्क्रमणमिति सामान्यत: सिद्धौ किमज्ञमृतितो विलक्षणमुत नेति विशेषचिन्ता युक्ता । तथाऽपि वियत्पादे जन्मोक्त्यैव लयं सिद्धवत्कृत्य सृष्यिक्रमेणोत वैपरीत्येनेतिचिन्तावदिहापि देवानामन्योन्यप्रवेशेन देहलयोक्तौ तदन्येषां देहादुत्क्रमणमिति लब्धमेवेति सिद्धवत्कृत्येयं विशेषचिन्तेति न दोष: ।। 9 ।।
।। ॐ योगिन: प्रति स्मर्येते स्मार्ते चेते ॐ ।। 10 ।।
पूर्वाक्षेपेण शंकनात्संगति: । पूर्वत्र प्रधानांगभावेन प्रकृतं विद्या गतिस्मरणं चेत्येतदुभयं गत्यर्थं नावश्यकमुतावश्यकमिति चिन्ता । तदर्थं "अग्निर्ज्योतिरह: शुक्ल:' इत्यादि (भ.गी.8-24) स्मृति: लोकानुसरणसहाया सती गते: कालमृत्यधीनत्वपरा । "यं यं वापि' इति (भ.गी.8-6) स्मृति: लिंगदर्शनं च लोकानुसारादन्यथा नेयमुत "अग्नि:' इत्यादिस्मृति: विद्याद्यधीनत्वपरा यं यं इति वचनमन्यथा नेयमिति । पूर्वपक्षस्तु । "अग्निर्ज्योतिरह:शुक्ल:' इति स्मृतौ "धूमो रात्रि:' इति (भ.गी.8-15) स्मृतौ च ब्रह्मप्राप्तिचन्द्रप्राप्तिगत्यो: क्रमादहरादिरात्ऱ्यादिकालमृत्यधीनतावगमाल्लोके फलानुस्मृतिं विनापि फलप्राप्तिदर्शनाच्च न गतिप्राप्त्यर्थं गतिस्मृति: विद्या चापेक्षिता किंत्वहरादिकालस्मृतिरेव । नच "यं यं वापि स्मरन्' इति स्मृतौ स्मृतिविषयस्यैव प्राप्यत्वोक्तेस्तद्विरोधितया "आचार्यस्तु ते गतिं वक्ता' इति (छां.6-14-1) श्रुत्यर्थगत्युक्तिरूपलिंगविरोधश्ऱ्चैवं सति प्रा नोतीति शंक्यम् । देहत्यागक्षणे दु:खेन स्मरणाच्छास्त्रादिना पूर्वं जानन्निति ज्ञानमात्राथर्त्वेन स्मरन्नित्यस्य नेयत्वात् । एतेन लिंगदर्शनमपि प्रत्युक्तं ज्ञानार्थतया तदुपदेशोपपत्ते: । अन्यथा लोकानुसारविरोधादिति । सिद्धान्तस्तु । आद्यस्मृतौ "ब्रह्मविद:' इति "धूम:' इति स्मृतौ योगीति च विशेषणाच्च ताभ्यां ज्ञानकर्मरूपोपायसाध्यत्वप्रतीत्या कालमृत्यधीनत्वाप्रतीते: विद्यादिकमवश्यमपेक्षितमेव । अन्यथा स्मृत्योस्तद्विशेषणवैयर्थ्यापातात् । अहरादेरभिमानिनयन्यायेन देवतात्वात् कालत्वाभावाच्च "यं यं वापि' इति स्मृतौ त्यागक्षणे स्मृत्ययोग: । महात्मनां देहे सदा हेयत्वबुद्धिभावेन तदा दु:खाभावात् । पामराणामपि काल एव दु:खभावेन तत्क्षणे दु:खाभावाच्च । नच लोकाननुसारित्वदोष: । लोके फलप्राप्तौ कर्षणादिक्रियानुवृत्तेर्दर्शनेनेहापि स्मृतिरूपक्रियावृत्त्यंगीकारात् । लोके क्रिया कर्षणादिरूपा । अत्र तु मानसीति अवान्तरवैलक्षण्यमात्रम् । न तावता तदननुसारिता शंकनीया अतिप्रसंगात् । एतेन लिंगदर्शनमपि नान्यथा नेयमिति । फलं तु ज्ञानस्य चतुर्विधमोक्षहेतुत्वाक्षेपसमाधी ।। 10 ।।
।। इति श्रीराघवेन्द्रयतिकृतायां न्यायमुक्तावल्यां चतुर्थाध्यायस्य द्वितीय: पाद: ।।
।। अथ तृतीय: पाद: ।।
पूर्वत्र ब्रह्मनाड्योत्क्रान्तानां ब्रह्मप्राप्तौ यद्गतिस्मरणं विद्यांतयोक्तं सा गतिस्तद्गम्यं च अत्रोच्यत इति पूर्वपादानंतर्यस्य ध्येयम् । नच गतिगम्ययो: द्वयोरप्युक्तौ पादभेदप्रसंग: शंक्य: । चरमगम्येन सहितस्यैव मार्गत्वेन मार्गरूपैकार्थत्वेऽपि मार्गैकदेशचरमगम्यस्य पृथग्विवक्षया गम्यं चोच्यत इत्युक्ते: ।
।। ॐ अर्चिरादिना तत्प्रथिते: ॐ ।। 1 ।।
पूर्वत्र यद्गतिस्मरणमावश्यकमित्युक्तं सा गति: किं अर्चिर्वायूभयप्राथमिका अचिर्:प्राथमिका वेति चिन्ता । तदर्थं श्रुतिद्वयं निरवकाशमुत सावकाशमिति । तदर्थमुभयप्राथम्यं गतेरविरुद्धमुत विरुद्धमिति । तदर्थं सा किं द्विरूपा उतैकरूपेति गतेरधिकारिभेदेनाक्षिप्तयोर्द्वयोरपि प्राथम्यविरोधेन निरवकाशोत सावकाशेति । "ते अर्चिषामभिसंभवन्ति' (छां.5-10-1) "स वायुमागच्छति' इति (बृ.7-10-1) श्रुतिद्वयेन अर्चिर्वायूभयप्राथमिका गतिरिति प्राप्ते सिद्धान्त: । "द्वावेव मार्गौ प्रथितावर्चिरादिविपश्ऱ्चिताम् । धूमादि: कर्मिणाम्' इति स्मृतावेक एव मागर्: । स चार्चिरादिक एव न तु वाय्वादिक इति प्रथितपदेन प्रसिद्धत्वोक्त्या "तेऽर्चिषमिति श्रुते: प्राबल्यात्तदनुरोधेन अर्चिर्नामिकदेवताप्राथमिका एकैव ब्रह्मगतिर्नानेका । स वायु मा गच्छतीतिश्रुतिस्तु प्रबलश्रुत्यनुरोधेन अर्चिरनन्तरप्राप्त्यर्थतयोपपन्ना । शिष्यं टीकायाम् । फलं तु अधिकारिभेदेन मार्गद्वयस्य व्यवस्थितत्वेऽपि अहमत्राधिकारीत्यनिर्णयाद्गतिस्मृत्यनुपपत्तिस्तत्समाधिश्ऱ्चेति ।। 1 ।।
।। ॐ वायुशब्दादविषविशेषाभ्याम् ॐ ।। 2 ।।
पूर्वत्र ब्रह्मप्राप्तिमार्गे प्रथमप्राप्यदेवतादिनिर्णय: कृत: । अत्र द्वितीयप्राप्यदेवतानिणर्य: क्रियत इति संगति: । पूर्ववैषम्येण शंकनाद्वा संगति: । पूर्वप्रकृतार्चिरादिमार्गे वायुदेवताहर्देवतेत्युभयं द्वितीयप्राप्यमुत वायुदैवतमेवेति चिन्ता । तदर्थं "स वायुम्' इति (बृ.7-10-1) "अर्चिषोऽहरि:' इति (छां.5-10-1) श्रुतिद्वयं द्वयोर्द्वितीयप्राप्यत्वप्रापकं भवत्युत नेति । तदर्थं किं द्वौ मार्गावुतैक एवेति । पूर्वपक्षस्तु । पूर्वत्र द्वावेव मार्गावितिविशेषवचनेन अर्चिष एव प्राथम्यावगमेऽपि इह वायोरेव द्वितीयप्राप्यत्वे विशेषवचनाभावात् "अर्चिषोऽह:' इति "स वायुम्' इति श्रुतिद्वयस्यापि प्रामाण्यात् मार्गभेदेन द्वयोरपि द्वितीयप्राप्यत्वे विरोधाभावाच्छतिद्वयबलात् अहर्वायू द्वावपि द्वितीयप्राप्याविति । सिद्धान्तस्तु । "स वायुमागच्छति' इति सामान्यवचनेन वायोश्ऱ्च प्राप्तप्राथम्यस्य "द्वावेव मार्गौ प्रथितौ' इत्युक्तप्रसिद्धिविरोधेन त्यागेऽपि द्वितीयप्राप्यत्वस्य न्यायप्राप्यत्वात् "स इतो गतो द्वितीयां गतिं वायुमागच्छति' इति विशेषश्रुतेश्ऱ्च वायुरेव द्वितीयप्राप्य: अह: तदनन्तरप्राप्यमिति । मार्गद्वयेन द्वयोर्द्वितीयप्राप्यत्वं तु द्वावेवेतिवचनोक्तप्रसिद्धिविरोधादेव बाधितमिति । फलं तु पूर्वत्रेवेति ।। 2 ।।
।। ॐ तटितोऽधि वरुण: सम्बन्धात् ॐ ।। 3 ।।
"तेऽर्चिषमभिसम्भवन्ति अर्चिषोऽरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ् एति मासांस्तान् । मासेभ्य: संवत्सरम्' इत्यादि छन्दोगश्रुत्याद्युक्त (छां.5-10-1,2) ब्रह्मप्राप्तिमागे यत्र विवाद: तदाद्यं द्वितीयं च प्राप्यं निर्णीतम् । अन्यत्र संवत्सरपर्यन्तं क्रमप्राप्येषु विवादाभावान्निर्णय एव । संवत्सरादनन्तरं प्रजापतिलोकं गन्तुं किं तटिद्वरुणौ द्वावपि मार्गभेदेन प्राप्यावुत मार्गैक्येन तटिल्लोकं प्राप्य वेति चिन्ता । तदर्थं "संवत्सराद्वरुणलोकम्' इति "संवत्सरात्तटितम्' इति च श्रुतिद्वयं तदुभयप्राप्तिप्रापकं न वेति । नेत्यत्र प्रमाणं नास्त्युतास्तीति । पूर्वत्र द्वितीयां गतिं वायुमिति विशेषवचनेन वायोर्द्वितीयप्राप्यत्वनिर्णयेपीह तादृशप्रमाणाभावात् श्रुतिद्वयप्रामाण्यादधिकारिभेदाधीनमार्गभेदेन द्वयोरपि प्राप्य्वोपपत्ते: द्वावपि लोकौ संवत्सरमानिलोकानन्तरं प्राप्याविति संगतिपूर्वपक्षौ । सिद्धान्तस्तु । "तटितो वरुणं गच्छति तटिता ह्यूह्यते वरुणलोक:' इति विशेषश्रुत्या तटिदनन्तरमेव सयुक्तिकं वरुणलोकस्य प्राप्यत्वोक्ते: मार्गद्वयस्य च द्वावेवोत्यत्रोक्तब्रह्मप्राप्तिमार्गैक्यप्रसिद्धिविरोधयुक्ततया द्वयोरेकस्मिन्मार्गै युगपत्प्राप्यत्वविरोधेन श्रुतिद्वयस्य द्वयो: पौर्वापर्येणैव प्राप्तिप्रापकत्वार्थकत्वस्यावश्यंभावात् पूर्वं तटिल्लोकं प्राप्य पश्ऱ्चाद्वरुणलोकं प्रा नोतीति । फलं तु मार्गानिर्णयात्तदनुस्मृत्यनुपपत्तितत्समाधी ।। 3 ।। N.M-14
।। ॐ अतिवाहिकस्तल्लिंगात् ॐ ।। 4 ।।
।। ॐ उभयव्यामोहात्तत्सिद्धे: ॐ ।।
पूर्वत्र भिन्नवाक्यगतभिन्नपदार्थयोस्तटिद्वरुणयो: पौर्वापर्योक्तौ अत्रैकवायुशब्दार्थयेरातिवाहिकमुख्ययो: पौर्वापर्यमुच्यत इति संगति: । द्वितीयां गतिं वायुमागच्छतीतिश्रुतौ वायु: किमातिवाहिकोऽथ मुख्यवायुरिति चिन्ता । तदर्थं तस्य आतिवाहिकत्वे मुख्यस्य प्राप्यत्वं न प्रा नोत्युत प्रा नोतीति । तदर्थं "द्यौ र्वाव विद्युत्तत्पतिं वायुमुपगम्य तेनैव ब्रह्म गच्छति' इतिश्रुतवायुशब्दे मुख्यो वाऽऽतिवाहिको वेति सन्देहेन प्राक्तनेऽपि सन्देहादिनिर्णय: अथ मुख्य इति निर्णय इति । पूर्वत्र तटितो वरुणं गच्छतीति सयुक्तिकवचनबलेन पौर्वापर्यनिर्णयेऽपि इह पूर्व: आतिवाहिक: चरमो मुख्य: इति वा पूर्वो मुख्यश्ऱ्चरम आतिवाहिक इति वा सन्देहे निर्णयाभावात् पूर्वस्यातिवाहिकत्वज्ञापकाभावात् सोमाग्नीन्द्रध्रुवानामपि मार्गे क्रमात्प्राप्यत्वोक्त्या तारतम्यक्रमस्यात्राविवक्षितत्वेन मुख्यस्यापि द्वितीयप्राप्यत्वसम्भवात् मुख्यार्थत्वाच्च मुख्यवायुरेव द्वितीयप्राप्य वायुशब्दार्थो नातिवाहिक: । तथात्वे मुख्यस्य प्राप्यत्वाभावप्रसंगादिति पूर्ववैषम्येणापि शंकनात्संगतिश्ऱ्च । सिद्धान्तस्तु । पूर्वप्राप्यत्व, विद्युच्छब्दितवाणीपतित्वरूपलिंगाभ्यां पूर्वं आतिवाहिकश्ऱ्चरमो मुख्य इति निर्णयसम्भवात् । मुख्यार्थस्यापि पूर्वप्राप्यत्वलिंगेन "उत्क्रान्तस्तु शरीरात्स्वात्' इत्यादि भाष्योक्त (ब्रह्मतर्क) वचनेन च त्यागसम्भवात् पूर्वप्राप्य आतिवाहिक एवेति । फलं तु "इयदामननात्' (ब्र.सू.3-3-35) इत्यत्रोकतप्राणाधिकार्युत्तमत्वस्यायोगस्तत्समाधिश्ऱ्चेति ।। 4 ।।
।। ॐ वैद्युतेनैव ततस्तच्छते: ॐ ।। 5 ।।
पूर्ववैषम्येण शंकनात्संगति: । प्रकृतब्रह्मप्राप्तिमार्गे मुख्यवायोरनन्तरं, ब्रह्मणोऽर्वाक् प्राप्योऽस्ति न वेति चिन्ता । तदर्थं मुख्यब्रह्मणोरन्तराले प्राप्यांगीकारे बाधकं नास्त्युतास्तीति । पूर्वत्र दिवस्पतित्वबाधकेन चरमवायोरातिवाहिकत्वायोगेऽपि इह मुख्यब्रह्मान्तराले कस्यचित्प्राप्यस्यांगीकारे बाधकाभावान्मुख्यवायु: स्वस्मादन्तरमपि ब्रह्मेतरप्रायान्तरयुक्त: अधिकारित्वात्प्राचीनाधिकारिवदित्यनुमानाच्च । नच इयदामननादित्यत्रोक्ताधिकायर्ुत्तमत्वेन बाधकं तद्बाधितं चानुमानमिति शंक्यम् । "सोमं वैश्ऱ्वानरं चेन्द्रं ध्रुवम्' इति पूर्वत्र भाष्योक्त(ब्रह्मतर्क) स्मृताविन्द्रादवरस्य ध्रुवस्येन्द्रानन्तरं प्राप्त्युक्त्योत्तमत्वक्रमानुरोधेन प्राप्तिक्रमाभावात् वायोरनन्तरमपि तदन्य: कश्ऱ्चित्प्राप्योऽस्त्विति प्राप्ते सिद्धान्त: । अधिकार्युत्तमत्वस्य प्राप्यान्तराभ्युपगमाबाधकत्वेऽपि "तत्पुरुषो मानव:' "स एतान् ब्रह्म गमयति' (छां.5-10-2) "विद्युत्पतिर्वायुरेव नयेद्ब्रह्म न चापर:' (बृहत्तन्त्र) इत्यादिश्रुतिस्मृत्यवगतब्रह्मप्रापकत्वं वायो: श्रुतं अन्तराले प्राप्यान्तरकल्पनं बाधत इति स एवान्तिमप्राप्य: । अन्यस्यान्तिमप्राप्यत्वे तस्यैव ब्रह्मप्रापकत्वापत्ते: राजादौ तथा दर्शनादिति । फलं तु वायोरतिशयेन प्राधान्यायोग: तत्समाधिश्ऱ्चेति ।। 5 ।।
।। ॐ कार्यं बादरिरस्य गत्युपपत्ते: ॐ ।। 6 ।।
।। ॐ कार्यात्यये तदध्यक्षेण सहात: परमभिधानात् ॐ ।। ॐ स्मृतेश्ऱ्च ॐ ।। ॐ परं जैमिनिर्मुख्यत्वात् ॐ ।। ॐ दर्शनाच्च ॐ ।। ॐ न च कार्ये पतिपत्त्यभिसन्धि: ॐ ।। ॐ अप्रतीकालंबनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्ऱ्च ॐ ।। ॐ विशेषं च दर्शयति ॐ ।।
ब्रह्मप्राप्तिमार्गे चरमप्राप्तिनिरूपणाद्वा । "स एनान् ब्रह्म' इति पूर्वत्रोदाहृतश्रुतिगतब्रह्मपदार्थनिरूपणाद्वा पूर्वसंगति: । अत्र स एनान् ब्रह्मेति श्रुतं ब्रह्म किं चतुर्मुख एवाथ ब्रह्मैव उतोभयमपीति चिन्ता । तदर्थमुभयमिति पक्षे एकैकपक्षोक्तसाधकबाधके समीकर्तुं न शक्येते किं वा शक्येते इति । तथोभयप्राप्तिपक्षे युगपदुभयप्राप्तेरयोगात्तत्र क्रमे प्रमाणं नास्त्युतास्तीति । पूर्वपक्षस्तु । चतुर्मुख एवेदं श्रुत्युक्तं ब्रह्म । यदिह वाव परमभिपश्यति प्रा नोति प्रा नोति ब्रह्माणं चतुर्मुखम्' इति (कौषारव) श्रुत्या "ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसंचरे । परस्यान्ते परात्मान: प्रविशन्ति परं पदम् ।।' इति स्मृत्या "तथाऽपि प्रकृतेर्बन्धो ब्रह्मणा सह भिद्यते' इत्यादिना चतुर्मुखमुक्तिपयर्न्तं बन्धस्य सन्ततत्वेन ततोर्वाक् चतुर्मुखस्यैव श्रवणादिसाधनैरपरोक्षीकृतत्वात्तस्यैव प्राप्तेर्युक्तत्वादित्युपपत्त्या च चतुर्मुखप्राप्तेरेवावगमेन बाधकेन मुख्यार्थस्यापि परब्रह्मणस्त्यागेन अमुख्यार्थविरिंचग्रहणोपपत्ते: । नच "ब्रह्मविदा नोति परम्' इति (तै.2-1) परब्रह्मप्राप्तिश्रुतिविरोध: । तस्य
सामान्यवाक्यस्य प्रागुक्तविशेषश्रुत्यादिना चतुर्मुखप्राप्त्यनन्तरं अचिरेण प्रलयकाले तेन सह परमा नोतीति सामीप्यार्थतया सावकाशत्वसम्भवादित्याद्य: । स एनान् ब्रह्मेत्यत्र ब्रह्मपदार्थ: परब्रह्मैव ब्रह्मशब्दस्य तत्र मुख्यत्वात् । तस्यैव श्रवणादिसाधनैरेवापरोक्षीकृतत्वाच्चतुर्मुखे च श्रवणादिसाधनार्जितप्रतिपत्ते: चतुर्मुखं प्रा नुवानीतीच्छायाश्ऱ्चाभावादिति द्वितीय: । उभयस्वीकारपक्षस्य चोक्तहेतूनां समीकरणायोगात् युगपत्प्राप्त्ययोगश्ऱ्चेति । क्रमप्राप्तिपक्षस्य च मानाभावेनायोगादिति । सिद्धान्तस्तु चतुर्मुख एव परब्रह्मैवेत्यन्यव्यावृत्त्या तत्तन्मात्रार्थकत्वे विशेषहेत्वभावेनोक्तहेतूनां तत्तदर्थग्रहणमात्रस्यैवोपपादकत्वात् उभयमपि ब्रह्मशब्दार्थत्वेन अत्र प्राप्तिश्रुतौ विवक्षितम् । यत्तु चतुर्मुखग्रहणे प्रतिपत्त्यभिसन्ध्यभावरूपं बाधकमुक्तं यच्च परब्रह्मग्रहणेन "गत्युपपत्ते:' इत्यत्र बन्धस्य सन्ततत्वरूपबाधकमुक्तं तत्राद्यं प्रतीकालम्बनानां परप्राप्त्यनंगीकारेण तेषां प्रतिपत्त्यादेरभावान्न बाधकम् । द्वितीयं "अप्रतीकाश्रया ये हि ते यान्ति परमेव तु' इति (गारुड) प्रमाणबलेन अमुक्तस्थानगतपरब्रह्मप्राप्त्यंगीकारेण चोपपन्नम् । चतुर्मुखप्रप्तिमतां च प्रतीकालम्बनानां अस्त्येव कार्ये प्रतिपत्त्यादीति तेषामपि तन्न बाधकमित्यधिकारिभेदेन पक्षद्वयोक्तहेतूनां उभयार्थत्वांगीकारे समीकर्तुं शक्यत्वात् । "अप्रतीकाश्रया ये हि ते यान्ति परमेव तु । स्वदेहे ब्रह्मदृष्ययैव गच्छेद्ब्रह्म सलोकताम् ।।' इत्युक्ते: याग्यताक्रमेणैव प्रलये पूर्वं च तयो: प्राप्तिरिति । फलं तु गम्यानिर्णयनिर्णयाभ्यां गत्यनुस्मृतितत्समाधी ।। 6 ।।
।। इति श्रीमद्राघवेन्द्रयतिकृतायां न्यायमुक्तावल्यां चतुर्थाध्यायस्य तृतीय: पाद: ।।
।। अथ चतुर्थ: पाद: ।।
कर्मक्षयादि चतुर्विधफले त्रिविधमुक्त्वा अत्रावसरप्राप्तो भोग उच्यते ।
।। ॐ सम्पद्याविहाय स्वेन शब्दात् ॐ ।। 1 ।।
"परं जैमिनि:' इत्यत्र (ब्र.सू.4-3-12) ब्रह्मप्राप्तिमत्त्वेन प्रकृतो मुक्त: किं ब्रह्मातिक्रम्य भोगान् भु ्क्तेऽथानतिक्रम्येति चिन्ता । तदर्थं "एतं सेतुं तीर्त्वाघस्सन्ननन्धो भवति' इति श्रुतिरतिक्रमपरोतानतिक्रमपरेति । अनतिक्रमार्थकत्वे कल्पकं नास्त्युतास्तीति । पूर्वपक्षस्तु । "एतं सेतुम्' इति श्रुतेरन्यार्थपरत्वे कल्पकाभावात् सेतुपदोक्तब्रह्म तीर्त्वातिक्रम्येति ब्रह्मातिक्रमानन्तरमेव स्वरूपाविर्भावरूपमुक्त्युक्त्या ब्रह्मप्राप्तस्यामुक्तत्वावगमात् मुक्तस्यैव भोगभोक्तृत्वात् ब्रह्मातिक्रम्य मुक्त: सन् भोगान् भु ्क्ते इति । सिद्धान्तस्तु । "परंज्योतिरुपसम्पद्य' इति (छां.8-3-4) श्रुतौ ब्रह्मपाप्तस्यैव स्वरूपाविर्भावरूपमुक्तत्वस्योक्ते: "इमां घोरमशिवां नदीं तीर्त्वैतं सेतुमाप्य' इति स्पष्य(मौद्गल्य)श्रुत्यनुरोधेन एतं सेतुं गन्तुं अन्यत्तीर्त्वा इत्येव तस्या: श्रुतेरर्थस्य वाच्यत्वात् "आत्मानमभिसम्पद्यैतेनात्मना यथाकामं सर्वान् कामाननुभवति' इति श्रुतेश्ऱ्च ज्ञानी ब्रह्म प्राप्य तदविहायैव भोगान् भु ्क्ते इति । फलं तु ब्रह्मणश्ऱ्चरमप्राप्यत्वाक्षेपसमाधी ।। 1 ।।
।। ॐ मुक्त: प्रतिज्ञानात् ॐ ।। 2 ।।
पूर्वाक्षेपेणात्र शंकनात्संगति: । "परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' "स तत्र पर्येति' इति पूर्वसूत्रोपात्ते श्रुतिशेषे स इत्युक्ते: किममुक्त उत मुक्त इति चिन्ता । तदर्थं स इति तच्छब्द: किमव्यवहितपूर्वपरामर्शकोऽथ प्राकरणिकपरामर्शक इति । तदर्थमव्यवहितपरामर्शे पर्येतीत्यादिनोक्तक्रियावत्त्वं बाधकमुत नेति । पूर्वपक्षस्तु । पूर्वत्र परंज्योतिसम्पन्नस्याविर्भूतस्वरूपस्य मुक्तस्यैव "स तत्र पर्येति' इति वाक्यस्येशानतिक्रमेण भोगे मानत्वमभिप्रेत्य सूत्रे स्वेनेतिश्रुत्युक्तिरयुक्ता । स्वेनेतिपूर्ववाक्ये निर्गुणोपासकस्य स्वरूपाविर्भावोक्ते: । स तत्रेत्यत्र पुन: दहरविद्योपासकस्यामुक्तस्यैवेह कल्पकत्वात् । न हि क्रियावत्त्वं कृतकृत्यस्य मुक्तस्योपपद्यते । अमुक्तस्य तु अन्यदेतादृशभोगायोगेऽपि ब्रह्मप्राप्तस्य तादृशभोगसम्भवात् । नच द्वितीये "विहारोपदेशात्' इत्यत्र (ब्र.सू.2-3-34) मुक्तस्य स तत्र पर्येतीति विहारोक्तेर्न कर्तृत्वं काल्पनिकमित्युक्तेस्तद्विरोध इति शंक्यं तस्यापीहाक्षेपादिति । सिद्धान्तस्तु ।
"अहरहरेनम्' इतिभाष्योक्त (बृहत्) श्रुतौ ब्रह्मप्राप्तानां सुप्तानाममुक्ततया दिव्यभोगाभावमुक्त्वा मुक्तस्यैव तत्प्राप्त्या तादृशभोगोक्ते: । क्रियावत्त्वस्य कृतिमत्त्वस्य मुक्तेऽपि सिद्धत्वेन तस्य प्रागुक्तपरामर्शकत्वेऽपि बाधकाभावात् स इति तच्छब्दार्थो मुक्त एवेति । फलं तु मुक्तस्य भोगाक्षेपसमाधिश्ऱ्चेति ।। 2 ।।
।। ॐ आत्मा प्रकरणात् ॐ ।। 3 ।।
पूर्वत्र स्वेनेति श्रुतिशेषस्थतच्छब्दार्थ उक्त: । अत्र पूर्ववाक्यस्थज्योति:शब्दार्थ उच्यत इति संगति: । परंज्योतिरित्युक्तज्योति:शब्दार्थ: किमादित्योऽथ ब्रह्मेति चिन्ता । तदर्थं "स तेजसि सूर्ये सम्पन्न:' इति (ष.प्र.5-2) समाख्या बलवत्युत प्रकरणमिति । तदर्थं समाख्या निरवकाशोत सावकाशेति । ज्योति:शब्दस्य "सूर्यमगन्म ज्योति:' इत्यादौ आदित्य इव "ज्योतिश्ऱ्चरण:' इत्यादौ (ब्र.सू.1-1-24) उक्तदिशा भगवति प्रयोगेऽपि "स तेजसि सूर्ये सम्पन्न:' इति (ष.प्र.5-5) समाख्यया ऐकार्थ्यलाभात् । ज्योतिरत्र आदित्य एव न विष्णु: प्रकरणस्य च वैष्णवत्वेऽपि प्रसंगादन्योक्तिसम्भवात् निरवकाशसमाख्यया बाधाच्चेति प्राप्ते सिद्धान्त: । "य आत्मापहतपाप्मा' इत्यादिना (छां.10-7-1) ब्रह्मासाधारणश्रुतिलिंगाभ्यां ब्रह्मोपक्रम्य परंज्योतिरित्यधीतत्वेनास्य वाक्यस्य ब्रह्मप्रकरणस्थत्वात् प्रकरणस्य च समाख्यातो बलवत्त्वात् समाख्यायाश्ऱ्च प्रारब्धकर्ममोक्षपरत्वेन ब्रह्मप्राप्तिमार्गे अन्तरादित्यप्राप्तिपरत्वेन चोपपत्त्या सावकाशत्वात् "परंज्योति: परंब्रह्म' इति (ब्रह्माण्ड) स्मृत्या परंज्योति:शब्दस्य परमात्मन्येव मुख्यत्वाच्च ब्रह्मैव परंज्योति:शब्दार्थ: इति । फलं तु मुक्तस्य ब्रह्मसमीप एव भोग इति प्रागुक्तस्याक्षेपसमाधिश्ऱ्चेति ।। 3 ।।
।। ॐ अविभागेन दृष्यत्वात् ॐ ।। 4 ।।
एवं त्रिभिर्नयैर्मुक्तौ ब्रह्म प्राप्य भोगान् भु ्क्ते इति सिद्धे सति स भोग: किंरूप इति विशेषचिन्तनात्संगति: । मुक्तेषु सायुज्यभाजां भोग: किं भगवदभुक्तस्याथ भगवद्भुक्तशेषस्येति चिन्ता । तदर्थं भुक्तशेषयोगे मुक्ते: परमपुमर्थत्वं हीयत उत नेति । पूर्वपक्षस्तु । मुक्ते: परममुमर्थत्वेन भगवदभुक्तस्यापि भोग्यस्य सौलभ्यात् भगवदभुक्तानेव भु ्क्ते । भगवद्भुक्तशेषनियमे च केषांचित्संजातभोगेच्छानां भोगाभावप्रसंगेन मुक्ते: पुमथर्त्वहानि: । ईश्ऱ्वरस्य नित्यपूर्णानन्दत्वेन कदाचिदभोगस्यापि संभवादिति । सिद्धान्तस्तु । मुक्ते: पुमर्थत्वेन भगवदभुक्तभोगानां सुलभत्वेऽपि "यानेवाहं श्रुणोमि' इति (चतुर्वेदशिखा) श्रुतौ भगवता भुज्यमानभोगभोक्तृत्वश्रवणान्मुक्तानां भगवद्भुज्यमानभोग्यभोक्तृत्वमेवोपेयम् । नचैवं भगवद्भुक्ताशेषभोक्तृत्वस्य यानेवेति श्रुतौ प्रतीते: भगवत्साम्यापत्ति: शंक्या । "मुक्ता: प्राप्य परं विष्णुम्' इति (भविष्यत्पुराण) विशेषस्मृत्या "तानेव' इति सामान्यश्रुते: संकोचात् । नचोक्तरीत्या कदाचिद्भोगाभावप्रसक्त्या मुक्तेरपुमर्थत्वं शंक्यम् । "पूर्णानन्द: पूर्णभुक् पूर्णकतर्ा' इति श्रुतौ पूर्णानन्दत्वेऽपि पूर्णभोगश्रवणेन तस्याभोगाप्रसक्तेरिति । फलं तु "अत्ता' इत्यादौ (ब्र.सू.1-2-9) उक्तस्य हरे: सर्वभोक्तृत्वस्याक्षेप: तत्समाधिश्ऱ्च ।। 4 ।।
।। ॐ ब्राह्मेण जैमिनिरुपन्यासादिभ्य: ॐ ।। 5 ।।
।। ॐ चितिमात्रेण तदात्मकत्वादित्यौडुलोमि: ॐ ।। ॐ एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायण: ॐ ।।
पूर्वाक्षेपेण शंकनात्संगति: । प्रकृतो भोग: किं मुक्तानां न युक्त: उत युक्त इति चिन्ता । तदर्थं तेषां भोगहेतुशरीरं नास्त्युतास्तीति । तथा भौतिकदेहाभावेऽपि देहान्तरेण न युक्त उत युक्त इति । पूर्वत्रोक्तो मुक्तानां ब्रह्मानतिक्रमेण भोगो वा भगवद्भुक्तभोगो वा न युक्त: । तेषां संसारपारंगतत्वेन भोगहेतुदेहाभावात् । तत्सत्त्वे मुक्तत्वव्याघातात् । ब्राह्मदेहादिना भोगस्तु न युक्त: । प्रलयादौ तद्भावेऽपि भोगाभावादिति प्राप्ते सिद्धान्त: । भौतिकादिसर्वस्वदेहाभावेऽपि "स वा एष ब्रह्मनिष्ठ:' इति (माध्यन्दिनायनश्रुति:) "आदत्ते हरिहस्तेन' इति भाष्योक्तश्रुतिस्मृतिभ्यां परमात्मानं प्रविष्यस्य तद्देहेनैव देहिवद्भोगावगमात् । "गच्छामि विष्णुपादाभ्याम्' इति (बृहत्तन्त्र) स्मृत्युक्त्या विष्ण्ववयवैरेव गमनादि करोमीति
पूर्वस्मरणबलेन मुक्तौ तद्देहप्राप्तिमत्त्वयुक्त्या च ब्राह्मदेहेन वा "स वा एष एतस्मान्मर्त्याद्विमुक्तश्ऱ्चिन्मात्री भवति' इत्यादि (सौपर्ण) श्रुत्या "मर्त्यदेहं परित्यज्य' इत्यादि (नारायणाध्यात्म) स्मृत्या भगवदनुगृहीतै: स्वरूपभूतचिन्मात्रदेहावयवैर्वा मुक्त: भोगान्भुंजते कर्माणि च कुर्वन्ति चेति । फलं तु मुक्ते: पुमर्थत्वाक्षेपसमाधी ।। 5 ।।
।। ॐ संकल्पादेव च तच्छते: ॐ ।। 6 ।।
पूर्वत्र भागेऽलौकिकोपकरणानपेक्षोक्ता । अत्र तु लौकिकसाधनापेक्षा नेत्युच्यत इति संगति: । प्रकृतमुक्तभोग: किं तत्तदुपायसाध्यसाधनसाध्य: उत संकल्पमात्रसाध्य इति चिन्ता । तदर्थं भगवदोकस्थत्वयुक्ति: लोकानुसारसहाया सती साधनसाध्यत्वसाधिका भवत्युत नेति चिन्ता । भगवदोकस्थो मुक्तभोगस्तत्तदुपायसाध्यसाधनसाध्य: ओकस्थत्वात् भूम्याद्योकस्थभोगवदिति युक्त्या लोके भोगस्य तत्तदुपायसाध्यसाधनसाध्यत्वदृष्यया लोकानुसाराच्च मुक्तभोगोऽपि तादृश एवेति प्राप्ते सिद्धान्त: । "स यदि पितृलोककामो भवति संकल्पादेवास्य पितर: समुत्तिष्ठन्ति' इति (छां.8-2-1) श्रुते: संकल्पमात्रसाध्यो मुक्तभोगो न तत्तदुपायसाध्यसाधनसाध्य: । प्रागुक्तयुक्तिस्तु श्रुतिबाधिता सती न साधिका । लोकविरोधस्तु निर्दोषभगदोकसि गुण एवेति । फलं तु संसारसमानधर्मतापत्त्या मुक्ते: पुमर्थत्वाक्षेपस्तत्समाधिश्ऱ्चेति ।
।। ॐ अत एव चानन्याधिपति: ॐ ।। 7 ।।
अत्र प्रागुक्तहेत्वतिदेशादन्तरसंगति: । प्रकृतो मुक्त: किं क्ल्प्तपतिभ्योऽन्यपतिनियत: अथ क्ल्प्तपतिनियत एवेति चिन्ता । तदर्थं मुक्तावनपेक्षितमपि भवत्युत नेति । लोके राजगृहप्रविष्यस्य अनपेक्षितस्वावरप्रतिहारादिनियतत्वमिव मुक्तस्यापि परगृहगतत्वात् स्वावरनियतत्वं स्यादन्यथा लोकविरोधादिति प्राप्ते सिद्धान्त: । लोके सत्यसंकल्पत्वाभावेन अनपेक्षितस्वावरनियतत्वसंभवेऽपि मुक्तस्य सत्यसंकल्पत्वादेव नानपेक्षितप्राप्तिर्युक्तेति क्ल्प्तपतिनियता एव मुक्ता: । नहि मुक्तानामवरनियतत्वमपेक्षितम् । तथाच (वाराह)स्मृति: "परमोधिपतिस्तेषाम्' इत्यादिकेति । फलं तु मुक्तस्य संसारसमानधर्मवत्त्वतदभावौ ।। 7 ।।
।। ॐ अभावं बादरिराह ह्येवं ॐ ।। 8 ।।
।। ॐ भावं जैमिनिनिर्विकल्पा नानात् ॐ ।। ॐ द्वादशाहवदुभयविधं बादरायणोऽत: ॐ ।। ॐ तन्वभावे सन्ध्यवदुपपत्ते: ॐ ।। ॐ भावे जाग्रद्वत् ॐ ।। ॐ प्रदीपवदावेशस्तथा हि दर्शयति ॐ ।। ॐ स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॐ ।।
संकल्पादेवेत्यत्रोकतसंकल्पमात्राधीनभोगाक्षेपेणात्र शंकनात्संगति: । "अत्र एव' इत्यस्य (ब्र.सू.4-4-9) प्रागुक्तहेत्वतिदेशकतया प्रासंगिकत्वेनाव्यवधायकत्वात् प्रकृतो मुक्तानां भोग: न युज्यते उत युज्यते इति चिन्ता । तदर्थं देहभावाभावयो: भोग उपपादयितुमशक्य उत शक्य इति । तथा मुक्तानां देहभावाभावौ विरोधादयुक्तावुत युक्ताविति । पूर्वपक्षस्तु । मुक्तानां देहस्य भावे दु:खादिप्रसंगेन निर्दु:खभोगोऽनुपपादन: । अभावे च भोगासम्भव: । नच ब्राह्मेणेत्यत्रोक्तदिशा ब्राह्मदेहेन भोगो युक्त इति वाच्यम् । सायुज्यभाजां तत्संभवेऽपि अन्येषां तदभावात् । नच चिच्छरीरेण तेषां भोगोपपत्ति: । सुप्त्यादौ सतोऽपि तस्य भोगायतनत्वादर्शनात् । अतो देहभावेनाभावेन वा भोगस्य दुरुपपादनत्वान्न युज्यते भोग: । विरोधादयुक्तौ च देहभावाभावपक्षाविति । सिद्धान्तस्तु । युज्यते मुक्तानां भोग: । पक्षद्वयेऽपि भोगस्य सूपपादनत्वात् । बाह्यदेहभावे तस्य जडत्वेऽपि शुद्धसत्त्वात्मकतेजोरूपतया दु:खाद्यनापादकत्वेन तत्र सुखानुभवमात्रस्योपपत्ते: । प्रदीपो यथा तैलाद्येव भुंक्ते न तु तद्गतकार्ष्ण्यादि तद्वत् । "तीर्णो हि तदा सर्वान् शोकान्' इति (बृ.6-3-22) श्रुते: । देहाभावपक्षेऽपि यथा स्व नावस्थायां बाह्यदेहाभिमानाभावेऽपि भोग: तथा मुक्तौ बाह्यदेहाभावेऽपि चिच्छरीरेण भोगोपपत्ते: अनभिमानस्याभावसाम्यात् । सुप्तौ मनस उपरतत्वादभोग: देहभावपक्षौ च "चिन्ता वाचिता' वेति
(उद्दालकश्रुति:) "अशरीरो वाव तदा भवति' इति च (कौण्ठरव्य) श्रुतिसिद्धत्वात् । द्वादशाहस्य यजमानेच्छया एकानेककर्तृकत्वाभ्यां अहीनत्वसत्रत्ववत् मुक्तानां स्वेच्छया तेजोरूपबाह्यदेहभावाभावयोरविरोधाच्च युक्ताविति । तथाच स्मृति: "स्वेच्छया वा शरीराणि तेजोरूपाणि कानिचित् । स्वीकृत्य जागरितवद्भुक्त्वा त्याग: कदाचनेति । फलं तु निर्दु:खभोगाभावान्मुक्ते: पुमर्थत्वाक्षेपस्तत्समाधिश्ऱ्चेति ।। 9 ।।
।। ॐ जगद्वयापारवर्जम् ॐ ।। 9 ।।
।। ॐ प्रकरणादसन्निहितत्वाच्च ॐ ।। ॐ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्ते: ॐ ।। ॐ विकारवर्ति च तथा हि दर्शयति ॐ ।।
एवमनुपपत्तिनिरासेन मुक्तानां भोगे सिद्धेऽत्र मर्यादोच्यते इति संगति: । मुक्ता: किं जगद्वयापारान् कुर्वन्ति न वेति चिन्ता । तदर्थं "सर्वान् कामानाप्त्वेति श्रुतौ (ऐ.2-5-1) सर्वशब्दोऽसंकुचितवृत्तिरुत संकुचितवृत्तिरिति । तदथर्ं तत्संसोचकं नास्त्युतास्तीति । तदर्थं "सर्वेऽस्मै देवा विरिंचविषया वेति । सर्वेस्मै देवा इति श्रुतेर्जीवमात्रविषयत्वात् सर्वान् कामानितिश्रुते: "शरीरभेदादूर्ध्व: उत्क्रम्य' (ऐ.2-5-1) इत्यादिजीवप्रकरणगतत्वेऽपि जीवानां तादृशशक्तिकल्पनेन वा शक्त्यभावेऽपि सत्यकामत्वादेव सर्वैश्ऱ्वयर्सम्भवेन सर्ववाक्यसंकोचकाभावात् कुर्वन्त्येव मुक्ता: जगत्सृष्ययादिव्यापारमिति प्राप्ते सिद्धान्त: । "माहाचमस्य' इत्युपक्रमेण "सर्वेऽस्मै' इति श्रुते: विरिंचविषयतया सर्वमुक्तविषयत्वाभावेन जीवानां सृष्ययादौ शक्तिकल्पनाभावेन तत्र सामर्थ्याभावात् सत्यकामत्वस्य "स्वाधिकानन्दसम्प्राप्तौ सृष्ययादिव्यापृतिष्वपि । मुक्तानां नैव काम: स्यात्' इति (वाराह) स्मृत्या सृष्ययाद्यन्यकामानवत्त्वेनोपपत्ते: । जगद्वयापारवर्जमन्यान् कामान् भुंक्ते मुक्त इति । अत्र मुक्तविरिंचस्याशेषमुक्तनियमनव्यापारोऽन्यदेवानां स्वावरमुक्तनियमनव्यापारश्ऱ्चास्तीति ध्येयम् । फलं तु लक्षणसूत्राक्षेपसमाधी ।। 9 ।।
।। ॐ स्थितिमाह दर्शयतश्ऱ्चैवं प्रत्यक्षानुमाने ॐ ।। 10 ।।
।। ॐ भोगमात्रसाम्यलिंगाच्च ॐ ।।
पूर्वत्र कामपदोक्तविषयभोगेयत्तोक्ता अत्र तु तदभिव्यंग्यस्वरूपसुखस्य यथास्थितिरूपेयत्तोच्यत इति संगति: । मुक्त: किमानन्दवृद्धिह्रासवान् उत यथास्थितिमानिति चिन्ता । तदर्थं तेषामुपासनादिकं किं वृद्धयादिहेतुर्भवत्युत नेति । पूर्वपक्षस्तु । "एतत्साम गायन्नास्ते' (तै.3-10) इत्यादौ मुक्तानामुपासनाश्रवणात् तस्य च वैयर्थ्यान्यथानुपपत्त्या फलत्वावश्यंभावात् मुक्तानां वशित्वरूपैश्ऱ्वर्यबलेन कामिताशेषभोगविशेषसत्त्वाच्च वृद्धिमान् आनन्दस्तदुपरमे च ह्रासवानिति । सिद्धान्तस्तु । एकप्रकारेणैव स्थितिमान् मुक्तानन्द: । "स एष:' इति भाष्योक्त (जाबाल) श्रुतौ वृद्धयाद्यभावमुक्त्वा "दर्शन्नेवात्मानम्' इत्युपासनावचोऽपि आपत्तिविपत्तिशब्दितवृद्धिह्रासनिषेधात् महतां प्रत्यक्षेण मुक्तो न वृद्धयादिमान् कारणशून्यत्वादित्यनुमानेन च वृद्धयाद्यभावस्य सिद्धत्वात् । उपासनयाश्ऱ्च "हरेरुपासना चात्र सदैव सुखरूपिणि' इति (ब्रह्मवैवर्त) स्मृत्या स्वयं फलरूपत्वेन फलान्तरसाधनत्वाभावात् । वशित्वेन कामिताशेषभोगप्राप्तावपि अयोग्ये कामनाविरहात् योग्यस्य च प्राप्तत्वात् भोगविशेषेऽपि तदुपरमादपि न सुखवृद्धिह्रासहेतुतयापि स भोगविशेष: "अवृद्धिह्रासरूपत्वं मुक्तानां प्रायिकं भवेत् । कादाचित्कविशेषस्य नैव तेषां निषिद्धयते' इति (कौर्मे) उक्तदिशा स्वरूपसुखस्य वैचित्ऱ्यहेतुतया वोपपन्न इति । फलं तु संसारसमानधर्मतापत्त्या मुक्तेरपुमर्थत्वाक्षेपसमाधी ।। 10 ।।
।। ॐ अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् ॐ ।। 11 ।।
पूर्वत्र मुक्तानन्दस्य वृद्धयादि नेत्युक्तम् । अत्र तु तदनुभवस्यान्तो नास्तीत्युच्यत इति संगति: । प्रकृतो मुक्त: किं
जन्ममृत्यादिप्राप्तिरूपपुनरावृत्तिमानुत नेति चिन्ता । तदर्थं मुक्तस्य समस्तकालवासित्वं पुनरावृत्तावबाधकमिति । तदर्थं समस्तस्यापि कालस्य समाप्तिरस्त्युत नेति । पूर्वपक्षस्तु । स्वर्गादिस्थस्येव मुक्तस्याप्यस्ति पुनरावृत्ति: । मुक्तस्य समस्तकालवासित्वेऽपि समस्तस्यापि कालस्य कदाचित्समाप्तिसम्भवात् । नच कालस्यानन्त्यात् समाप्तेरसम्भव: । भारतयुद्धे "चतुर्दशीं पंचदर्शीं भूतपूर्वां तु षोडशीम् । इमां तु नाभिजानामि अमावास्यां त्रयोदशी' इति (महाभारते) त्रयोदश्या: असम्भावितपञ्चदशीत्वदर्शनादिति । सिद्धान्तस्तु । कालस्य समस्तस्यापि समाप्ते: व्याहतत्वेन अनन्तकालावसायित्वात् स्वगिर्णो मन्वन्तराद्यवसायितया पुनरावृत्तावपि न मुक्तस्य पुनरावृत्ति: "नच पुनरावर्तते' इति श्रुतेश्ऱ्च । "सर्वान् कामाना नोति' इति श्रुतौ सर्वकामाप्ते: श्रवणेन श्रुतावपुनरावृत्ते: कामितत्वाच्च न पुनरावृत्तिरिति नित्यनिर्दु:खानन्दानुभववन्त एव मुक्ता इति । फलं तु मुक्ते: पुमर्थत्वाक्षेपसमाधी ।। 11 ।।
कल्याणगुणपूर्णाय दोषदूराय विष्णवे ।
नम: श्रीप्राणनाथाय भक्ताभीष्यप्रदायिने ।।
।। इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमत्सुधीन्द्रगुरुपादशिष्यराघवेन्द्रयतिकृतायां न्यायमुक्तावल्यां चतुर्थाध्यायस्य चतुर्थ: पाद: ।। N.M-15