न्यायकुसुमाञ्जली/द्वितीयस्तबकः

विकिस्रोतः तः

द्वितीयस्तबकः[सम्पाद्यताम्]

झ्र्कु.2.201ट तदेवं सामान्यतः (70)सिद्धे अलौकिके हतौ- तत्साधनेनावश्यं भवितव्यम्। न च तच्छक्यमस्मदादिभिद्र्रष्टुम्। न चादृष्टेन व्यवहारः- ततो लोकोत्तरः सर्वानुभावी सम्भाव्यते। झ्र्कु.2.202ट (71)ननु नित्यनिर्दोषवेदद्वारको योगकर्मसिद्धसर्वज्ञद्वारको वा धर्मसम्प्रदायः स्यात्। किं परमे·ारकल्पनयेति चेत्- (72)अत्रोच्यते- प्रमायाः परतन्त्रत्वात् सर्गप्रलयसम्भवात्। (73)तदन्यस्मिन्नना·ाासान्न विधान्तरसम्भवः।।1।। झ्र्कु.2.203ट तथा हि...प्रमाज्ञानहेत्वतिरिक्तहेत्वधीना कार्यत्वे सति तद्विशेषत्वात् अप्रमावत्। यदि च तावन्मात्राधीना भवेत्, अप्रमाऽपि प्रमैव भवेत्। अस्ति हि तत्र ज्ञानहेतुः। अन्यथा ज्ञानमपि सा न स्यात्। झ्र्कु.2.204ट ज्ञानत्वेऽप्यतिरिक्तदोषानुप्रवेशादप्रमेति चेत्- एवं तर्हि दोषाभावमधिकमासाद्य प्रमाऽपि जायेत; नियमेन तदपेक्षणात्। अस्तु दोषाभावोऽधिकः, भावस्तु नेष्यत इति चेत्- भवेदप्येवम्, यदि नियमेन दोषैर्भावरूपैरेव भवितव्यम्। न त्वेवम्; विशेषादर्शनादेरभावस्यापि दोषत्वात्। कथमन्यथा ततः संशयविपर्ययौ? ततस्तदभावो भाव एवेति कथं स नेष्यते? झ्र्कु.2.205ट स्यादेतत्- शब्दे तावत् विप्रलिप्सादयो भावा एव दोषाः। ततस्तदभावे स्वत एव शाब्दी प्रमेति चेत्- न- अनुमानादौ लिङ्गविपर्यासादीनां (74)भावानामपि दोषत्वे तदभावमात्रेण प्रमानुत्पत्तेः। "अन्यत्र यथातथाऽस्तु। शब्दे तु विप्रलिप्साद्यभावे वक्तृगुणापेक्ष#ा नास्ती'ति चेन्न- गुणाभावे तदप्रमाण्यस्य वक्तृदोषापेक्षा नास्तीति विपर्ययस्यापि (75)तुल्यत्वात्। अप्रामाण्यं प्रति दोषाणामन्वयव्यतिरेकौ स्त इति चेन्न- प्रामाण्यं प्रत्यपि गुणानां तयोः सत्त्वात्। झ्र्कु.2.206ट पौरुषेयविषये इयमस्तु व्यवस्था। अपौरुषेये तु दोषनिवृत्त्यैव प्रामाण्यमिति चेन्न- गुणनिवृत्त्याऽप्रामाण्यस्यापि सम्भवात्। तस्या अप्रामाण्यं प्रति सामथ्र्यं नोपलब्धमिति चेत्- दोषनिवृत्तेः प्रामाण्यं प्रति क्व सामथ्र्यमुपलब्धम्? "लोकवचसी'ति चेत्- तुल्यम्। तदप्रामाण्ये दोषा एव कारणम्; गुमनिवृत्तिस्त्ववर्जनीयसिद्धसन्निधिरिति चेत्- प्रामाण्यं प्रति गुणेष्वपि तुल्यमेतत्। गुणानां दोषोत्सारणप्रयुक्तः सन्निधिरिति चेत्- दोषाणामपि गुणोत्सारणप्रयुक्त इत्यस्तु। निःस्वभावत्वमेवमपौरुषेयस्य वेदस्य स्यादिति चेत्- आत्मानमुपालभस्व। तस्मात् यथा- द्वेषरागाभावाविनाभावेऽपि रागद्वेषयो (76)रनुविधाननियमात् प्रवृत्तिनिवृत्तिप्रयत्नयो रागद्वेषकारणकत्वम्; न तु निवृत्तिप्रयत्नो द्वेषहेतुकः, प्रवृत्तिप्रयत्नस्तु सत्यपि रागानुविधाने द्वेषाभावहेतुक इति विभगो युज्यते; विशेषाभावात्- तथा प्रकृतेऽपि। झ्र्कु.2.207ट तथाऽपि वेदानामपौरुषेयत्वे सिद्धे अपेतवक्तृदोषत्वादेव प्रामाण्यं सेत्स्यति। ततः सिद्धे प्रामाण्ये गुणाभावेऽपि तदिति दोषाभाव एव हेतुः; अकारणं गुणा इति चेन्न- अपेतवक्तृगुणत्वेन सत्प्रतिपक्षत्वप्रसङ्गात्। "स्वत एव प्रामाण्यनिश्चयः। किं तु शङ्काम#ात्रमनेनापनीयते; दोषनिबन्धनत्वात्तस्य तदभावेऽभावात्। अतो नेदमनुमानवत् (अनुमानं) सत्प्रतिसाधनीकर्तुमुचितमिति चेत्-न-गुणनिवृत्तिनिबन्धनायाश्शङ्कायास्सुलभत्वात्। तस्याः केवलाया अप्रामाण्यं प्रत्यनङ्गत्वान्न शङ्केति चेत्- दोषनिवृत्तेरपि केवलायाः प्रामाण्यंप्रत्यनङ्गत्वान्न तया शङ्कानिवृत्तिरिति तुल्यमिति। झ्र्कु.2.208ट एवं प्रामाण्यं परतो ज्ञायते अनभ्यासदशायां सांशयिकत्वात् अप्रामाण्यवत्। यदि तु स्वतो ज्ञायेत, कदाचिदपि प्रामाण्यसंशयो न स्यात् ज्ञानत्वसंशयवत्; निश्चिते तदनवकाशात्। नहि साधकबाधकप्रमा(साधकप्रमा)णाभावमवधूय समानधर्मादि दर्शनादेवासौ; तथा सति तदनुच्छेदप्रसङ्गात्। झ्र्कु.2.209ट अथ प्रमाणवदप्रमाणेऽपि तत्प्रत्ययदर्शनात् विशेषादर्शनात् भवति शङ्केत्यभिप्रायः- तत् किं प्रमाणज्ञानोपलम्भेऽपि न तत्प्रामाण्यमुपलब्धम्, प्रमाणज्ञानमेव वा नोपलब्धम्? आद्ये कथं स्वतः प्रामाण्यग्रहः; प्रत्ययप्रतीतावपि तदप्रतीतेः। द्वितीये कथं तत्र शङ्का; धर्मिण एवानुपलब्धेरिति। झ्र्कु.2.210ट यदपि झटिति प्रचुरतरसमर्थप्रवृत्त्यन्यथानुपपत्त्या स्वतः प्रामाण्यमुच्यते- तदपि नास्ति; अन्यथैवोपपत्तेः। झटिति प्रवृत्तिर्हि झटिति तत्कारणोपनिपातमन्तरेणानुपपद्यमाना तमाक्षिपेत्। प्रचुरप्रवृत्तिरपि स्वकारणप्राचुर्यम्। इच्छा च प्रवृत्तेः कारणम्।तत्कारणमपीष्टाभ्युपायताज्ञानम्। तदपि तज्जातीयत्वलिङ्गानुभवप्रभवम्। सोऽपीन्द्रियसन्निकर्षादिजन्मा। न तु प्रामाण्यग्रहस्य क्वचिदप्युपयोगः। उपयोगे वा स्वत एवेति कुत एतत्? ततः समर्थप्रवृत्तिप्राचुर्यमपि प्रामाण्यप्राचुर्यात्तद्ग्रहणप्राचुर्याद्वा स्वतस्त्वं तु तस्य क्वोपयुज्यते। न हि पिपासूनां झटिति प्रचुरा समर्था च प्रवृत्तिरम्भसीति पिपासोपशमनशक्तिस्तस्य प्रत्यक्षा स्यात्। झ्र्कु.2.211ट स्यादेतत्- प्रामाण्यग्रहे सति सर्वमेतदुपपद्यते। स च स्वतो यदि न स्यात्, न स्यादेव; परतःपक्षस्यानवस्थादुःस्थत्वादिति- चेत्- न- तदग्रहेऽप्यर्थसन्देहादपि सर्वस्योपपत्तेः। न चानवस्थावपि; प्रामाण्यस्यावश्यज्ञेयत्वानभ्युपगमात्। अन्यथा स्वतःपक्षेऽप#ि सा स्यात्। झ्र्कु.2.212ट लिङ्गं निश्चितमेव निश्चायकम्। ततस्तन्निश्चयार्थमवश्यं लिङ्गान्तरापेक्षायामनवस्थेति चेत्- तत्किमनुपपद्यमानोऽर्थः अनिश्चित एव स्वोपपादकमाक्षिपति; येनानवस्था न स्यात्। प्रत्यक्षेण तस्य निश्चयात्तस्य च सत्तयैव निश्चायकत्वान्नैवमिति चेत्- ममापि प्रत्यक्षेण लिङ्गनिश्चयात् तस्य च सत्तयैव निश्चायकत्वान्नैवमिति तुल्यम्। झ्र्कु.2.213ट लिङ्गज्ञानस्य प्रामाण्यानिश्चये कथं तन्निश्च(लिङ्गनिर्ण)यस्स्यादिति चेत्- अनुपपद्यमानार्थज्ञानप्रामाण्यानिश्चये कथं तन्निश्चय इति तुल्यम्। न हि निश्चयेन स्वप्रामाण्यनिश्चयेन वा विषयं निश्चाययति प्रत्यक्षम्; अपि तु स्वसत्तयेत्युक्तमिति चेत्- तुल्यम्। झ्र्कु.2.214ट तथाऽपि यदि तत् लिङ्गाभासः स्यात्, तदा का वार्तेति चेत्- अनुपपद्यमानोऽप्यर्थो यद्याभासः स्यात्, तदा का वार्तेति तुल्यम्। सोऽपि प्रामाण्यमाक्षिपतीत्युत्सर्गः। स च क्वचिद्वाधकेनापोद्यत इति चेत्- लिङ्गेऽप्येवमिति तुल्यम्। तर्हि प्रामाण्यानुमान#ेऽपि शङ्का तदवस्थैवेति निष्फलः प्रयास इति चेत्- एतदपि तादृगेव। अनुपपद्यमानोऽर्थ एवासौ तथाविधः कश्चित् यः स्वप्नेऽपि नाभासः स्यात्। ततो नाऽऽशङ्केति चेत्- लिङ्गेऽप्येवमिति समः समाधिः। झ्र्कु.2.215ट कः पुनरसावर्थः, यः स्वप्नेऽपि नाभासः स्यात्? यदनुपलम्भे विभ्रमावकाशः, (77)यादृगुपलम्भे च तद्बाधव्यवस्था। अन्यथा हि तथाभूतस्यापि व्यभिचारे साऽपि न स्यात्। मा भूदिति चेन्न- भवितव्यं हि तत्त्वातत्वविभागेन (तत्त्वातत्त्वव्यवस्था) अन्यथा व्याघातात्। कथं हि नियामकनिःशेषविशेषोपलम्भेऽपि विपरीतारोपः? तथाभावे वा तदतिरिक्तविशेषानुपलम्भे कथं बाधकम्? तदभावे त्वबाधस्य कथं भ्रान्तत्वमिति। झ्र्कु.2.216ट स्यादेतत्- परतःप्रामाण्येऽपि नित्यत्वाद्वेदानामनपेक्षत्वम्; महाजनपरिग्रहाच्च प्रामाण्यमिति को विरोधः? न; उभयस्याप्यसिद्धेः। झ्र्कु.2.217ट न हि वर्णा एव तावान्नित्यः। तथा हि- "इदानीं श्रुतपूर्वो गकारो नास्ति' (स्तीति) "निवृत्तः कोलाहल' इति प्रत्यक्षेणैव शब्दध्वंसः प्रतीयते। न हि शब्द एवान्यत्र गतः; अमूर्तत्वात्। नाप्यावृतः; तत एव सम्बन्धविच्छेदानुपपत्तेः। नाप्यनवहितः श्रोता; अवधानेऽप्यनुपलब्धेः। नापीन्द्रियं दुष्टम्; शब्दान्तरोपलब्धेः। नापिसहकार्यन्तराभावः; अन्वयव्यतिरेकवतः(कतः) तस्यासिद्धेः। (78) नाप्यतीन्द्रियम्; तत्कल्पनायां प्रमाणाभावात्। अन्यथा घटादावपि तत्कल्पनाप्रसङ्गात्। न च शब्द(स्य) नित्यत्वसिद्धौ तत्कल्पनेति युक्तम्; निराकरिष्यमाणत्वात्। झ्र्कु.2.218ट यत्त्वेकदेशिनो नैवमिच्छन्ति तान् प्रत्युच्यते- विवादाध्यासितः शब्दप्रध्वंस इन्द्रियग्राह्रः ऐन्द्रियिकाभावत्वात् घटाभाववत्। नैतदेवम्; इन्द्रियासन्निकृष्टत्वादतीन्द्रियाधारत्वाद्वेति चेन्न- इदं ह्रुपाध्युद्भावनं वा स्यात्, व्यापकानुपलब्ध्या सत्प्रतिपक्षत्वं वा। न प्रथमः; स्वरूपयोग्यतां प्रति (ग्यतायां)सहकारियोग्यताया अनुपाधित्वात्। तस्यास्तामपेक्ष्यैव सर्वदा व्यवस्थितेः। नाप्यैन्द्रियिकाधारत्वप्रयुक्तमभावस्य प्रत्यक्षत्वम्; धर्माद्यभावस्यापि तथात्वप्रसङ्गात्। अत एव नोभयप्रयुक्तम्। झ्र्कु.2.219ट नापि द्वितीयः; प्रथमस्यासिद्धेः। अस्ति हि श्रोत्रशब्दाभावयोः स्वाभाविको विशेषणविशेष्यभावः। विशेष्यस्यातीन्द्रियत्वात्कथमैन्द्रियिकविशिष्टज्ञानविषयत्वम्? तथा विशेष्यमव्यवस्थापयतश्च कथं विशेषणत्वमिति चेत्- न; तथा विशेष्यव्यवस्थापनायाः फलत्वात्।न तु तदेव विशेषणत्वम्; आत्माश्रयप्रसङ्गात्- विशेषणभावेन समवायाभावयोग्र्रहणम्, तथा ग्रहणमेव च विशेषणत्वमिति। तस्मात् सम्बन्धान्तरमन्तरेण तदुपश्लिष्टस्वभावत्वमेव हि तयोः। सैव च विशिष्टप्रत्ययजननयोग्यता विशेषणतेत्युच्यते। सा चात्र दुर्निवारा। प्रतियोग्यधिकरणेन स्वभावत एवाभावस्य मिलितत्वात्। झ्र्कु.2.220ट तथाऽपि तया तथैव प्रतीतिः कर्तव्येति चेन्न- गृह्रमाणविशेष्यत्वाव(ष्याव)च्छिन्नत्वाद्व्याप्तेः। अन्यथा संयुक्तसमवायेन रूपादौ विशिष्टविकल्पधीजननदर्शनात् गन्धादावपि तथात्वप्रसङ्गात्। झ्र्कु.2.221ट तथाऽपि नेन्द्रियविशेषणतया कस्यचित् ग्रहणं दृष्टम्; अपि त्विन्द्रियसम्बद्धविशेषणतया; सा चातो निवर्तत इति चेन्न- अस्य प्रतिबन्धस्येन्द्रियसन्निकृष्टार्थप्रतिसम्बन्धिविषयत्वात्। अन्यथा संयुक्तसमवायेन गन्धादावुपलब्धिदर्शनात् समवायेनादर्शनाच्छब्दस#्याग्रहणप्रसङ्गात्। झ्र्कु.2.222ट नाप्यभावत्वे सति अतीन्द्रियाधारत्वात्सत्प्रतिपक्षत्वम्; योग्यताविरहप्रयुक्तत्वाद्व्याप्तेः। न चातीन्द्रियाधारत्वमेव तस्य योग्यताविरहः; तद्विपर्ययस्यैव योग्यतात्वापत्तेः। न चैवमेव; धर्मादिप्रध्वंसग्रहणप्रसङ्गात्। दृश्याधारत्वं दृश्यप्रतियोगिताचेति द्वयमप्यस्य योग्यतेति चेन्न- उभयनिरूपणीयत्वनियमानभ्युपगमात्। प्रतियोगिमात्रनिरूपणीयो ह्रभावः। झ्र्कु.2.223ट अन्यथा "इह भूतले घटो नास्ती'त्येषाऽपि प्रतीतिः प्रत्यक्षा न स्यात्। संयोगो ह्रत्र निषिध्यते। तदभावश्च भूतलवद् घटेऽपि वर्तते। तत्र यदि प्रत्यक्षतया भूतलस्योपयोगः, घटस्यापि तथैव स्यात्। अविशेषात्। अथ घटस्यान्यथोपयोगः; भूतलस्याप्यन्यथैव स्यात्, अविशेषात्। कथमन्यथेति चेत्- प्रतियोगिनिरूपणार्थमभावसन्निकर्षार्थं च । तत्र प्रतियोगिनिरूपणं स्मरणलक्षणमनुपलभ्यमानेनापीति, न तदर्थमध्यक्षगोचरत्वमपेक्षणीयमन्यतरस्यापि; कुत उभयस्य। सन्निकर्षस्तु भूतलघटसंयोगाभावस्येन्द्रियेण साक्षान्नास्ति। येनास्ति, तेनापि यदीन्द्रियं न सन्निकृष्येत, कथमिव तं गमयेत्। न चोपलब्धोपलभ्यमानाभ्यामेवेन्द्रियं सन्निकृष्यते; इतरेतराश्रयप्रसङ्गात्। झ्र्कु.2.224ट तस्मात् सन्निकर्षे सति योग्यत्वात् भूतलमप्युपलभ्यते; न तु तस्योपलभ्यमानत्वमभावोपलब्धेरङ्गमिति युक्तमुत्पश्यामः। प्रकृते तु न प्रतियोगिनिरूपणार्थं तदुपयोगः तस्य संयोगवत् आधारानिरूप्यत्वात्। नापि सन्निकर्षार्थम्; तदभावस्य साक्षादिन्द्रियसन्निकर#्षादिति। झ्र्कु.2.225ट न चेदेवम्; कुत एषा प्रतीतिः, इदानीं श्रुतपूर्वः शब्दो नास्तीति? "अनुमाना'दिति चेन्न शब्दस्यैव पक्षीकरणे (80)हेतोरनाश्रयत्वात्। अनित्यत्वमात्रसाधनेऽभावस्य नियतकालत्वासिद्धेः। आकाशस्य पक्षत्वे तद्वत्तयाऽनुपलभ्यमानत्वस्य हेतोरनैकान्तिकत्वात्। शब्दसद्भावकालेऽपि तस्य सत्त्वात्। एवं कालपक्षेऽपि दोषात्। झ्र्कु.2.226ट अहमिदानीं निःशब्दश्रोत्रवान् शब्दोपलब्धिरहितत्वात् बधिरवदिति चेत्-न-दृष्टान्तस्य साध्यविकलत्वात्, व्याहतत्वाच्च; बधिरश्च श्रोत्रवांश्चेति व्याहतम्। तस्यापि च श्रवसो निश्शब्दत्वे प्रमाणं नास्ति। अनुपभोग्यस्योत्पादवैयथ्र्यं प्रमाणमिति चेत्-न-आद्यादिशब्दवदुपपत्तेः। तेषां शब्दान्तरारम्भं प्रत्युपयोगः; अन्त्यस्य न तथेति चेत्-न-अन्त्यत्वासिद्धेः। सर्वेषां चोत्पादवतां प्रयोजनतदभावयोरस्मादृशैरनाकलनात्; सुषुप्त्यवस्थायां ·ाासप्र·ाासप्रयोजनवच्च तदुपपत्तेः। आरम्भे सति प्रयोजनमवश्यमिति व्याप्तेः। न त्व#ापाततः प्रयोजनानुपलम्भमात्रेणारम्भनिवृत्तिः; तथा सति कर्णशष्कुल्यवच्छेदोत्पाद एव नभसस्तं प्रति निवर्तेत; बधिरस्य तेनानुपयोगात्। विवादकाले बधिरकर्णः शब्दवान् योग्यदेश(81)स्थानावृतकर्णशष्कुलीसुषिरत्वात् तदितरकर्णशष्कुलीसुषिरवदिति। झ्र्कु.2.227ट निःशब्दाः पणववीणावेणवः (82)तदेकज्ञानसंसर्गयोग्यत्वे सति तदनुपलम्भेऽप्युपलभ्यमानत्वात्। यत् यदेकज्ञानसंसर्ग(83)योग्यं(य) तस्यानुपलम्भेऽप्युपलभ्यते तत् तदभाववत्, यथाऽघटं भूतलमिति चेत्-न-एकज्ञानसंसर्गयोग्यत्वाभावात्; शब्दस्य श्रौतत्वात्, वीणाद#ीनां चाक्षुषत्वात्। अभिमानमात्रादिति चेन्न, तथाऽपि शब्दप्रध्वंसस्यातद्देशत्वात्, अत्यन्ताभावस्य च कालनियमात्। झ्र्कु.2.228ट स्यादेतत्- शब्दवदाकाशोपाधयो हि भेर्यादयः। तेन तेषु विधीयमानः शब्दः आकाश एव विहितो भवति; प्रतिषिद्ध्यमानश्च तत्रैव प्रतिषिद्धो भवति, शरीरे सुखादिवत् इति चेत् न- तत्र सोपाधावात्मनि प्रत्यक्षसिद्धे सुखादिनिषेधस्यापि प्रत्यक्षासिद्धत्वात्। न चैवमिहापि; तदुपहितस्य नभसोऽप्रत्यक्षत्वात्। उपाधयस्तावत् प्रत्यक्षा इति चेन्न- तैरभावानिरूपणात्। निरूपणे वा प्रत्यक्षेणापि ग्रहणप्रसङ्गात्। न चैवं सति पारमार्थिकाधिकरणनिरूपणीयत्वमभावस्य। न च तेऽपि प्रत्यक्षसिद्धाः (84) सर्वत्र; शब्दकारणव्यवधानेऽप्युपलब्धस्य शब्दस्य नास्तिताप्रतीतेः। आनुमानिकैस्तैस्तथा व्यवहार इति चेन्न- हेतोस्तद्वत्तयानुपलभ्यमानत्वस्यानैकान्तिकत्वात्; अभावप्रतीतिकाले सन्दिग्धाश्रयत्वाच्च। उपलभ्यमानविशेष्यत्वपक्षे चासिद्धेः; इन्द्रियव्यवधानात्, शब्दलिङ्गस्य चानुपलम्भात्। झ्र्कु.2.229ट अपि च नष्टाश्रयाणां द्रव्यगुणकर्मणां नाशोपलम्भः कथम्? न कथञ्चिदिति चेत्- आश्रयनाशात्कार्यनाश इति कुत एतत्? अनुमानतस्तथोपलम्भादिति चेत्- न- तुल्यन्यायेनोक्तोत्तरत्वात्। तन्तुषु नष्टेष्वपि यदि पटो, न नश्येत्, तद्वदेवोपलभ्येतेति चेत्- एतस्य तर्कस्यानुग्राह्रमभिधीयताम्। झ्र्कु.2.230ट यदत्रोपलभ्यते न तत् कार्यपरम्परावत्, योग्यस्य तथानुपलभ्यमानत्वे सति उपलभ्यमानत्वादिति चेत्-न-तन्त्ववयवानां पटानाधारत्वे साध्ये सिद्धसाधनात्। पटप्रध्वंसवत्त्वे साध्ये बाधितत्वात् तस्य स्वप्रतियोगिकारणमात्रदेशत्वात्। झ्र्कु.2.231ट ये पटध्वंसवन्तस्तन्तवः, तदभाववन्त एते अंशवः इति साध्यमिति चेन्न- तन्तुनाशोत्तरकाले पटनाशात्तद्वत्तानुपपत्तेः। योग्यतामात्रसाधने च पटप्रध्वंसासिद्धेः; तस्य नाशानाशयोः समानत्वात्। झ्र्कु.2.232ट अनन्यगतिकतया विशिष्टनिषेधे कृते विशेषणानामप्यभावः प्रतीतो भवति; गुणक्रियावत्पटाधारास्तन्तवो न सन्ति स्वावयवेष्विति हि प्रत्यय इति चेत्- तथाऽपि गुणकर्मणां पटस्य च प्रध्वंसः किमधिकरणः प्रतीयत इति वक्तव्यम्। अ·ााधिकरण एवेति चेत्- भ्रान्तिस्तर्ह#ीयम्; तस्यातद्देशत्वात्। आश्रयावच्छेदकतया तेषामप्यदूरविप्रकर्षेण तद्देशत्वम् एवंभूतेनापि देशेन तन्निरूपणम्; योग्यताया अव्यभिचारादिति चेत्- न तर्हि प्रतियोगिसमवायिदेशेनैव प्रध्वंसनिरूपणमिति नियमः; प्रकारान्तरेणापि निरूपणात्। झ्र्कु.2.233ट तस्मात् यस्य यावती ग्रहणसामग्री, तं विहाय तस्यां सत्यां तदभावो यत्र क्वचिन्निरूप्यो देशे काले वा। इयांस्तु विशेषः- सा सती चेत्, प्रत्यक्षेण। असत्येव ज्ञाता चेत्, (85)अनुमानादिनेति स्थितिः। झ्र्कु.2.234ट एतेन "सद्भ्यामभावो निरूप्यते' इत्यादिशास्त्र(86)विरोधः परिह्मतो वेदितव्यः; उभयनिरूपणीयप्रतियोगिविषयत्वात् अनुमानविषयत्वाच्च। अन्यथा आश्रयासिद्धिप्रसङ्गात्। तत्रापि न ग्रङणे नियमः, ज्ञानमात्रं तु विवक्षितम्; तावन्मात्रस्यैव तदुपयोगात्। क्वचित् ग#्रहणस्य सामग्रीसम्पातायातत्वात्। झ्र्कु.2.235ट यदिचाधिकरणग्रहे शास्त्रस्य निर्भरः स्यात्, "वढद्धठ्ठड़14;नेर्दाह्रं विनाश्यानुविनाशवत्तद्विनाशः' इति नोदाहरेत्; असिद्धत्वात्। न हि वढिद्धठ्ठड़14;नविनाशस्तदवयवपरम्परास्वक्ष(87)निरूप्यः तासामनिरूपणात्। नाप्यन्यत्र गमनाभावादिना पारिशेष्यादनुमेयः; हेतोरेव निरूपयितुमशक्यत्वात्; आश्रयानुपलब्धेः। नापि निमित्तविनाशात् सर्वमिदमेकवारेण सेत्स्यतीति युक्तम; तस्यानैकान्तिकत्वात्। तेजसा विशेषितत्वादयमदोष इति चेन्न- व्याप्त्यसिद्धेः। न हीन्धनविनाशात् तेजोद्रव्यमवश्यं विनश्यतीति क्वचित्सिद्धम्; (88)प्रत्यक्षवृत्तेरनभ्युपगमात्।झ्र्कु.2.236ट तस्मात् यत्त्यागेनान्यत्र गमनं न सम्भाव्यते, तेन निमित्तादिनापि देशेन प्रध्वंसो निरूप्यते इत्यकामेनापि स्वीकरणीयम्; गत्यन्तराभावात्। अत एव तमसः प्रत्यक्षत्वेऽप्यभावत्वमामनन्त्याचार्याः। एतेन शब्दप्रागभावो व्याख्यातः। झ्र्कु.2.237ट एवं (89)व्यवस्थिते अनुमानमप्युच्यते- शब्दोऽनित्यः (90)उत्पत्तिधर्मकत्वात् घटवत्। न चेदं प्रत्यभिज्ञानबाधितम्; तस्य ज्वालादिप्रत्यभिज्ञानेनाविशेषात्। झ्र्कु.2.238ट नैवम्; अबाधितस्य तस्य स्वतः प्रमाणत्वादिति चेत्- तुल्यम्। "ज्वालायां तन्नास्ति; विरुद्धधर्माध्यासेन (91)बाधितत्वात्। अन्यथा भेदव्यवहारविलोपप्रसङ्गः। निमित्ताभावात्। आकस्मिकत्वे वाऽतिप्रसङ्ग' इति चेत्- तुल्यम्,(92)शब्देऽपि तीव्रतीव्रतरत्वमन्दमन्दतरत्वादेर्भावात्। झ्र्कु.2.239ट तदिह न स्वाभाविकमिति चेन्न- स्वाभाविकत्वावधारणन्यायस्य तत्र तत्र सिद्धस्यात्रापि तुल्यत्वात्। न ह्रपां शैत्यद्रवत्वे स्वाभाविके, तेजसो वा औष्ण्यभास्वरत्वे इत्यत्रान्यत्प्रमाणमस्ति प्रत्यक्षाद्विना। "तत्तथैव युज्यते; अन्यस्योपाधेरनुपलम्भात्, नियमेन तद्गतत्वेन चोपलम्भा'दिति चेत्- तुल्यमेतत्। झ्र्कु.2.240ट तथाऽप्यतीन्द्रियान्यधर्मत्वशङ्का स्यादिति चेत्- एतदपि तादृगेव। तत् किं यद्गतत्वेन यदुपलभ्यते, तस्यैव स धर्मः? नन्वेवं पीतः शङ्खः, रक्तः स्फटिकः, नीलः पट इत्यपि तथा स्यात्; अविशेषात्। न; पीतत्वादीनामन्यधर्मत्वस्थितौ शङ्खादीनां च तद्विरुद्धधर्मत्वे स्थिते, जपाकुसुमाद्यन्वयव्यतिरेकानुविधानाच्च बाधेन भ्रान्तत्वावधारणात्। न चेह तार- तारतरत्वादेरन्यधर्मत्वस्थितिः; नापि शुकशारिकादिगकाराणां तद्विरुद्धधर्मत्वम्; नाप्यन्यस्य तद्धर्मिणोऽन्वयव्यतिरेकावनुविधत्ते। तथाऽपि शङ्कास्यादिति चेत्- एवमियं सर्वत#्र। तथा च न क्वचित् (93)कस्यचित् किञ्चित्कुतश्चित् सिद्ध्येत्। नचैतच्छङ्कितुमपि शक्यते; अप्रतीते संस्काराभावात्; संस्कारानुपनीतस्य चारोपयितुमशक्यत्वात्। झ्र्कु.2.241ट न च ध्वनिधर्मा एव गृह्रन्ते; स्पर्शाद्यनन्तर्भावेण भावेषु त्वगादीनामव्यापारात् न च श्रवणेनैव तद्ग्रहणम्; अवायवीयत्वेन तस्य वायुधर्माग्राहकत्वात् चक्षुर्वत्। तार-तारतरत्वादयो वा न वायुधर्माः श्रावणत्वात् कादिवत्। वायुर्वा न श्रवणग्राह्रधर्मा मूर्तत्वात् पृथिवीवत्। यदि च नैवम्; कादीनामपि वायवीयत्वप्रसङ्गः। ततः किम्? अवयविगुणत्वेऽनित्यत्वम्; परमाणुगुणत्वेऽग्रहणम्। द्वयमप्येतदनिष्टं भवतः। अवश्यं च श्रवसा ग्राह्रजातीयगुणवता भवितव्यम्, बहिरिन्द्रियत्वात् घ्राणादिवत्। झ्र्कु.2.242ट सन्तु ध्वनयोऽपि नाभासाः। तथा च तद्धर्मग्रहणं श्रवसोपपत्स्यत इति चेन्न- तारस्तारतरो वाऽयं गकार इत्यत्र ध्वनीनामस्फुरणात्। न च व्यक्त्या विना सामान्यस्फुरणं कारणाभावात्। व्यक्तिस्फुरणसामग्रीनिविष्टा हि जातिस्फुरणसामग्री। कुत एतत्। अन्वयव्यतिरेकाभ्यां तथाऽवगमात्; ऐन्द्रिकेष्वेव घटादिषु सामान्यग्रहणात्; अतीन्द्रियेषु च मनःप्रभृतिष्वग्रहणात्। स्वरूपयोग्यतैव तत्र निमित्तम्; अकारणं व्यक्तियोग्यतेति चेत्- एवं तर्हि सत्ताद्रव्यत्वपार्थिवत्वादीनां स्वरूपयोग्यत्वे परमाण्वादिष्वपि ग्रहणप्रसङ्गः; अयोग्यत्वे घटादिष्वपि तदनुपलम्भापत्तिरिति दुरुत्तरं व्यसनम्। तस्माद्व्यक्तिग्रहणयोग्यतान्तर्गतैव जातिग्रहणयोग्यतेति तदनुपलम्भे जातेरनुपलम्भ एव। झ्र्कु.2.243ट तथा च न तारत्वादीनामारोपसम्भव इति स्वाभाविकत्वस्थितौ विरुद्धधर्माध्यासेन भेदस्य पारमार्थिकत्वात्प्रत्यभिज्ञानमप्रमाणमिति न तेन बाधः। झ्र्कु.2.244ट नापि सत्प्रतिपक्षत्वम्; मिथो विरुद्धयोर्वास्तवतुल्यबलत्वाभावात्। एकस्यान्यतमाङ्गवैकल्यचिन्तायामस्य वैकल्ये तस्यैव (94)वाच्यत्वात्। अवैकल्ये, त्वादीयेनैव विकलेन भवितव्यमिति हीनस्य न सत्प्रतिपक्षत्वम्। तथाऽपि नित्यः शब्दः (95)अद्रव्यद्रव्यत्वाद#ित्यत्रापि साधनदशायां किञ्चिद्वाच्य'मिति चेत्- असिद्धिः। झ्र्कु.2.245ट द्रव्यं शब्दः साक्षात्सम्बन्धेन गृह्रमाणत्वाद्घटवदिति सिद्ध्यतीति चेन्न- एतस्याप्यसिद्धेः। न हि श्रोत्रगुणत्वे द्रव्यत्वे वाऽसिद्धे साक्षात्सम्बन्धे शब्दस्य प्रमाणमस्ति। "परिशेषोऽस्ति। तथा हि- सदाद्यभेदेन सामान्यादित्रयव्यावृत्तौ मूर्तद्रव्यसमवायनिषेधेन कर्मत्वनिषेधात् द्रव्यगुणत्वपरिशेषे संयोगसमवाययोरन्यतरः सम्बन्धः' इति चेन्न- बाधकबलेन परिशेषे द्रव्यत्वस्यापि निषेधाल्लिङ्गग्राहकप्रमाणबाधापत्तेः। बाधके सत्यपि वा द्रव्यत्वाप्रतिषेधे कर्मत्वादीनामप्यप्रतिषेधप्रसक्तौ परशेषासिद्धेः। तस्मादेकदेशपरिशेषो न प्रमाणम्। सन्देहसङ्कोचमात्रहेतुत्वात्। अथ द्रव्यत्वे किं बाधकम्? उच्यते- शब्दो न द्रव्यं बहिरिन्द्रियव्यवस्थाहेतुत्वाद्रूपादिवत्। इति परिशेषाद्गुणत्वेन (96)समवायि(य)सिद्धौ लिङ्गग्राहकप्रमाणबाधितत्वान्नाव्यवहितसम्बन्धग्राह्रत्वेन द्रव्यत्वसिद्ध#ि#ः। न चासिद्धेन सत्प्रतिपक्षत्वम्; असिद्धस्य हीनबलत्वात्। झ्र्कु.2.246ट ननु शब्दस्तावद(97)श्रोत्रगुणो नैवेति त्वयैव साधितं प्रबन्धेन। न च श्रोत्रगुणः; तेन गृह्रमाणत्वात्। यद् येनेन्द्रियेण गृह्रते, नासौ तस्य गुणः; यथा गृह्रमाणो गन्धादिः। श्रोत्रं वा न स्ववगुणग्राहकम् इन्द्रियत्वात् घ्राणवत् इति न गुणत्वसिद्धिरितिचेत्- ततः किम्? न चैतदपि; घ्राणादिसमवेतगन्धाद्यग्रहे स्वगुणत्वस्याप्रयोजकत्वात्। (98)अयोग्यत्वं हि तत्रोपाधिः। झ्र्कु.2.247ट अन्यथा- सुखादिर्नात्मगुणः तेन गृह्रमाणत्वात् रूपादिवत्। न वा तेन गृह्रते तत्समवेतत्वाददृष्टवत्। आत्मा वा न तद्ग्राहकः तदाश्रयत्वात् गन्धाद्याश्रयघटादिवदित्याद्यपि शङ्क्येत। तस्मात् स्वगुणः परगुणे वाऽयोग्यो न गृह्यते; गृह्रते तु योग्यो योग्योन। तत् किमत्रानुपपन्नम्। कु.2.झ्र्248ट अवश्यं च श्रोत्रेण विशेषगुणग्राहिणा भवितव्यम् इन्द्रियत्वात्। अन्यथा तन्निर्माणवैयथ्र्यात्। (99)तदन्यस्येन्द्रियान्तरेणैव ग्रहणात्। न च द्रव्यविशेषग्रहणे तदुपयोगः; (100)विशेषगुणयोग्यतामाश्रित्यैवेन्द्रियस्य द्रव्यग्राहकत्वात्; न द्रव्यस्वरूपयोग्यतामात्रेण। अन्यथा चान्द्रमसं तेजः स्वरूपेण योग्यमिति तदप्युपलभ्येत; आत्मा वा मनो ग्राह्र इति सुषुप्त्यवस्थायामप्युपलभ्येत; अनुद्भूतरूपेऽपि वा चक्षुः प्रवर्तते। तस्मात् गुणयोग्यतामेव पुरस्कृत्येन्द्रियाणि द्रव्यमुपाददते; नातोऽन्यथेति स्थितिः। अत एव न#ाकाशादयश्चाक्षुषाः। झ्र्कु.2.249ट अस्तु तर्हि शब्दो नित्यः नित्याकाशैक(101)गुणत्वात् तद्गतपरममहत्(102)परिमाणवदिति प्रत्यनुमानमिति चेन्न- अकार्यत्वस्योपाधेर्विद्यमानत्वात्। अन्यथा- आत्मविशेषगुणा नित्याः तदेकगुणत्वात्तद्गतपरममहत्त्ववदित्यपि स्यात्। "अस्य प्रत्यक्षबाधितत्वादहेतुत#्व'मिति चेन्न- निरुपाधेर्बाधानवकाशात्। स्वभावप्रतिबद्धस्य च तत्परित्यागे स्वभावपरित्यागप्रसङ्गात्। तस्माद्बाधेन वोपाधिरुन्नीयते, अन्यथा वेति न कश्चिद्विशेषः। झ्र्कु.2.250ट एतेन श्रावणत्वाच्छब्दत्ववदित्यपि परास्तम्; अत्रापि तस्यैवोपाधित्वात्। अन्यथा गन्धरूपरसस्पर्शा अपि नित्याः प्रसज्येरन्; घ्राणाद्येकैकेन्द्रियग्राह्रत्वात् गन्धत्वादिवदित्यपि प्रयोगसौकर्यात्। झ्र्कु.2.251ट विरोधव्यभिचारावसम्भावितावेवात्रेत्यसिद्धिरेव (103)शिष्यते। साऽपि नास्ति। तथा हि- शब्दस्तावत् "पूर्वोक्त(104)न्यायेन स्वाभाविकतीव्रमन्दतरतमादिभावेन प्रकर्षनिकर्षवानुपलभ्यते। इयं च प्रकर्षनिकर्षवत्ता कारणभेदानुविधायिनी सर्वत्रोपलब्धा। अकारणका ह#ि नित्याः प्रकर्षवन्त एव भवन्ति, यथाऽऽकाशादयः; निकृष्टा एव वा , यथा परमाण्वादयः। न तु किञ्चदतिशयानाः कुतश्चिदपकृष्यन्ते। तदियं नित्येभ्यो व्यावर्तमाना कारणवत्सु (तां) च भवन्ती जायमानतामादायैव विश्राम्यतीति प्रतिबन्धसिद्धौ प्रयुज्यते- शब्दो जायते, प्रकर#्षनिकर्षाभ्यामुपतत्वात् माधुर्यादिवत्। अन्यथा नियामकमन्तरेण भवन्ती नित्येष्वपि सा स्यात् (भवतीति नित्येऽपि स्यात्); नियमहेतोरभावात्। शब्दादन्यत्रेयं गतिरिति चेन्न- साध्यधर्मिणं विहायेति प्रत्यवस्थानस्य सर्वानुमानसुलभत्वात्। न चेह (105) व्यञ्जकतारतम्याद्व्यञ्जनीयतारतम्यम्; अस्वाभाविकत्वप्रसङ्गात्। व्यवस्थितं च स्वाभाविकत्वम्। न च व्यञ्जकोत्पादकाभ्यामन्यस्यानुविधानमस्ति। न च स्वाभाविकत्वौपाधिकत्वाभ्यामन्यः प्रकारः सम्भवति। झ्र्कु.2.252ट ठस्यादेतत्। तथाऽप्युत्पत्तेर्नित्यत्वेन को विरोधः? येन प्रतिबन्धसिद्धिः स्यात्। असिद्धे च तस्मिन्, भवतां व्यापकत्वासिद्धः, अस्माकमप्रयोजकः सौगतानां सन्दिग्धविपक्षवृत्ति(व्यावृत्ति)रयमुपक्रान्तो हेतुः' इति चेत्- न। इदं ह्रुत्पत्तिमत्त्वं विनाशकारणसन्निधिविरुद्धेभ्यो नित्येभ्यः स्वव्यापकनिवृत्तौ निवर्तमानं विनाशकसन्निधिमति विनाशिनि विश्राम्यतीति। "विनाशकारणसन्निधानेनावश्यं जायमानस्य भवितव्यमिति कुतो निर्णीत'मिति चेत्- न तदसन्निधानं हि न तावदाकाशादेरिव स्वभावविरोधात्; उत्पत्तिविनाश(शक)योः संसर्गदर्शनात्। अविरुद्धयोरसन्निधिस्तु देशविप्रकर्षाद्धिमवद्विन्ध्ययोरिव स्यात्। देशयोरपि विप्रकर्षो विरोधाद्वा हेत्वभावाद्वा। पूर्वोक्तादेव न प्रथमः। द्वितीयस्तु पटकुङ्कुमयोरिव स्यात्, यदि कुङ्कुमसमागमादर्वागिव प्रध्वंसकसंसर्गादर्वागेव पटो विनश्येत्। यथा हिविनाशकारणं विना न विनाशः, तथा यदि कुङ्कुमसमागमं विना न विनाशः पटस्येति स्यात्, कस्तयोः संसर्ग वारयेत्। तस्मादविरुद्धयोरसंसर्गः कालविप्रकर्षनियमेन व्याप्तः। स (106)चातो निवर्तमानः स्वव्याप्यमुपादाय निवर्तत इति प्रतिबन्धसिद्धिः। झ्र्कु.2.253ट ठस्यादेतत्। यद्येवमास्थिरश्शब्दः, कथमर्थेन सङ्गतिरस्योपवभ्यते' इति चेत्- यथैवार्थस्यास्थिरस्य (107)तेन। "जातिरेव पदार्थः, न व्यक्तिरिति चेन्न- शब्दात्तदलाभप्रसङ्गात्। आक्षेपत इति चेत्- कः खल्वयमाक्षेपो नाम? तावदनुमानम्; अनन्ताभिःसह सङ्गतिवदविन#ाभावस्यापि ग्रहीतुमशक्यत्वात्। शक्यत्वे वा, सङ्गतेरपि तथैव सुग्रहत्वात् व्यक्तिमात्ररूपेणाविनाभाव' इति चेन्न- व्यक्तित्वस्य सामान्यस्याभावात्। भावे वा, तदाक्षेपेऽपि विशेषानाक्षेपात्। वाच्यत्वमपि वा तथैवास्तु? किमाक्षेपेण; सङ्गतेरविरोधादिति। झ्र्कु.2.254ट अर्थापत्तिराक्षेप इति चेन्न- व्यक्त्या झ्र्किं्तट विना किमनुपपन्नम्? "जाति'रिति चेन्न- तन्नाशानुत्पाददशायामपि सत्त्वात्। "तथाऽपि न व्यक्तिमात्रं विने'ति चेन्न- मात्रार्थाभावात्। "व्यक्तिज्ञानमन्तरेण जातिज्ञानमनुपपन्न'मिति चेन्न- तदभावेऽप्युत्पादात्। "व्यक्तिविषयतां (त्वं)विना जातिविषयता तस्यानुप(तानुप)पन्ने'ति चेन्न- एवं तह्र्रेकज्ञानगोचरतायां किमनुपपन्नं (108)किं प्रतिपादयेदिति। "जातीनामन्वयानुपपत्त्या व्यक्तिरवसीयत' इति चेन्न- (109)परस्पराश्रयप्रसङ्गात्। झ्र्कु.2.255ट स्यादेतत्- प्रतिबन्धं विनाऽपि पक्षधर्मताबलात् यथा लिङ्गं विशेषे पर्यवस्यति, तथा सङ्गतिं विनाऽपि शब्दः शक्तिविशेषाद्विशेषे पर्यवस्यति। स एवाऽऽक्षेप इत्युच्यते इति चेत्- न तावत् प्रतीतिः क्रमेण; अपेक्षणीयाभावेन विरम्यव्यापारायोगात्। जातिप्रत#्यायनमपेक्षत इति चेत्- कृतं तर्हि शब्दशक्तिक(क्तिभेदक)ल्पनया; तावतैव तत्सिद्धेः। ओमिति चेन्न- व्यक्त्यनालम्बनाया जातिप्रतीतेरसम्भवादित्युक्तत्वात्; प्रमाणान्तरापातप्रसङ्गाच्च। स्मरणं तदित्ययमदोष इति चेन्न- अननुभूतानन्वयप्रसङ्गात्। अस्त्वेकैव प्रतीतिरितिचेत्- कृतं तर्हि शक्तिभेद(द्वय)कल्पनया। झ्र्कु.2.256ट एवं च यथा सामान्यविषया शक्तिरेकैव तद्वति पर्यवस्यति, तथा सामान्याश्रयासङ्गतिस्तद्वति पर्यवस्येदिति। न च नित्या अपि वर्णाः स्वरानुपूव्र्यादिहीनाः पदार्थैः सङ्गम्यन्ते। न च तद्विशिष्टत्वमपि तेषां नित्यम्। तस्मात्तत्तज्जातीयक्रोडड्डत्ध्;निविष्टा एव पदार्थाः पदानि च सम्बध्यन्ते, नातोऽन्यथेति, नैतदनुरोधेनापि शब्दस्य नित्यत्वमाशङ्कनीयमिति। झ्र्कु.2.257ट यदा च वर्णा एव न नित्याः, तदा कैव कथा पुरुषविवक्षाधीनानुपूव्र्यादिविशिष्टवर्णसमूहरूपाणां पदानाम्? कुतस्तरां च तत्समूहरचनाविशेषस्वभावस्य वाक्यस्य? कुतस्तमां (मां च?)तत्समूहस्य वेदस्य? झ्र्कु.2.258ट परतन्त्रपुरुष (110)परम्पराधीनतया प्रवाहाविच्छेदमेव नित्यतां ब्राूम इति चेत्- एतदपि नास्ति; सर्गप्रलयसम्भवात्। अहोरात्रस्याहोरात्रपूर्वकत्वनियमात्, कर्मणां विषमविपाकसमयतया युगपद्वृत्तिनिरोधानुपपत्तेः, वर्णादिव्यवस्थानुपपत्तेः, समयानुपलब्धौ(नुपपत#्तौ)शाब्दव्यवहारविलोपप्रसङ्गात्, घटा(टपटा)दिसम्प्रदायभङ्गप्रसङ्गाच्च कथमेवमिति चेत्- झ्र्कु.2.259ट उच्यते- वर्षादिवद् भवोपाधिः वृत्तिरोधः सुषुप्तिवत्। उद्भिद्वृश्चिकवद्वर्णाः मायावत्समयादयः।।2।। तत्पूर्वकत्वमात्रे सिद्धसाधनात्(नम्), अनन्तरतत्पूर्वकत्वे अप्रयोजकत्वात्; वर्षादिदिनपूर्वकतद्दिननियमभङ्गवदुपपत्तेः। राश्यादिविशेषसंसर्गरूपकालोपाधिप्रयुक्तं हि तत्; तदभाव एव व्यावृत्तेः। तथेहापि सर्गानुवृत्तिनिमित्तब्राहृाण्डड्डत्ध्;स्थितिरूपकालोपाधिनिबन्धन(धिप्रयुक्त)त्वात्तस्य, तदभाव एव व्यावृत्तौ को दोषः। न च तदनुत्पन्नमन·ारं वा; अवयवित्वात्। झ्र्कु.2.260ट वृत्तिनिरोधस्यापि सुषुप्त्यवस्थावदुपपत्तेः। न हि-"अनियतविपाकसमयानि कर्माणी'ति तदानीं कृत्स्नान्येव भोगा(111)विमुखानि। न ह्रचेतयतः कश्चिदभोगो नाम; विरोधात्। कस्तर्हि तदानीं शरीरस्योपयोगः? तं प्रति न कश्चित्। तर्हि किमर्थमनुवर्तते? उत्तरभोगार्थम#्; चक्षुरादिवत्। प्राणिति किमर्थं? ·ाासप्र·ााससन्तानेनाऽऽयुषोऽवस्थाभेदार्थम्; तेन भो(भेदे भो)गविशेषसिद्धेः। झ्र्कु.2.261ट एकस्यैव तत् कथञ्चिदुपपद्यते, न तु वि·ास्येति चेत्- अनन्ततया अनियतविपाकसमयतया उपमद्र्योपमर्दकस्वभावतया च कर्मणाम्, वि·ास्य, एकस्य वा को विशेषः, येन तन्न भवेत्। भवति च सर्वस्यैव (112)सुस्वापः। क्रमेण, न तु युगपदिति चेन्न- कारणक्रमायत्तत्वात्कार्यक्रमस्य। न च स्वहेतुबलायातैः कारणैः क्रमेणैव भवितव्यम्; अनियतत्वादेव सर्वग्रासवत्। ग्रहाणां ह्रन्यदा समागमानियमेऽपि, तथा कदाचित् स्यात्, यथा कलाद्यनियमेऽपि सर्वमण्डड्डत्ध्;लोपरागः स्यात्- त्रिदोषसन्निपातवद्वा। यथा हि वातपित्तश्लेष्मणां चयप्रकोपप्रशमक्रमानियमेऽपि एकदा सन्निपातः स्यात्, तदा देहसंहारः, तथा कालानलपवनमहार्णवानां सन्निपाते ब्राहृाण्डड्डत्ध्;देहप्रलयावस्थायां युगपदेव भोगरहिताश्चेतनास्स्युरिति को विरोधः?। तथाऽपि विदेहाः कर्मिण इति दुर्घटमिति चेत्- किमत्र दुर्घटम्; भोगविरोधवत् शरीरेन्द्रियविषयनिमित्तनिरोधादेव तदुपपत्तेः। झ्र्कु.2.262ट वृश्चिकतण्डुड्डत्ध्;लीय(113)कादिवत् वर्णादिव्यवस्थाऽप्युपपद्यते। यथा हि वृश्चिकपूर्वकत्वेऽपि वृश्चिकस्य, गोमयादाद्यः; तण्डुड्डत्ध्;लीयकपूर्वकत्वेऽपि तण्डुड्डत्ध्;लीयकस्य, तण्डुड्डत्ध्;लकणादाद्यः; वन्हिपूर्वकत्वेऽपि वन्हेः, अरणेराद्यः; एवं क्षीरदधिघृततैलकदली(114)काण्डड्डत्ध्;ादयः तथा मानुषपशुगोब्रााहृणपूर्वकत्वेऽपि तेषाम्, प्राथमिकास्तत्तत्कर्मोपनिबद्धभूतभेदहेतुका एव। स एव हेतुः सर्वत्रानुगत इति सर्वेषां तत्सान्तानिकानां समानजातीयत्वमिति किमसङ्गतम्। गतं तर्हि गोपूर्वकोऽयं गोत्वादित्यादिना। न गतम्; योनिजेष्वेव व्यवस्थापनात्। मानसास्त्वन्यथापीति। गोमयवृश्चिकादिवदिदानीमपि किंझ्र्पि तथा किंट न स्यादिति चेन्न- कालविशेषनियतत्वात्कार्यविशेषाणाम्। न हि वर्षासु गोमयाच्छालूक इति हेमन्तेऽपि स्या(पि किं न स्या)त्। झ्र्कु.2.263ट समयोऽप्येकेनैव, मायाविनेव, व्युत्पाद्यव्युत्पादकभावावस्थितनानाकार्याधिष्ठानात् व्यवहारत एव सुकरः। यथा हि मायावी सूत्रसञ्चाराधिष्ठितं दारुपुत्रकम्, "इदमानये'ति प्रयुङ्क्ते। स च दारुपुत्रकस्तथा करोति। तदा चेतनव्यवहारादिव (115)तद्धर्शी बालो व्युत्पाद्यते तथा- इहापि स्यात्। क्रियाव्युत्पत्तिरपि तत एव कुलालकुविन्दादीनाम्। झ्र्कु.2.264ट सर्गादावेव किं प्रमाणमिति चेत् वि·ासन्तानोऽयं दृश्यसन्तानशून्यैः समवायिभिरारब्धः सन्तानत्वात् आरणेयसन्तानवत्। वर्तमानब्राहृाण्डड्डत्ध्;परमाणवः पूर्वमुत्पादितसजातीयसन्तानान्तराः नित्यत्वे सति तदारम्भकत्वात् प्रदीपपरमाणुवदित्यादि। झ्र्कु.2.265ट अवयवानामावापोद्वापा(116)दुत्पत्तिविनाशौ च स्याताम्, सन्तानाविच्छेदश्चेति को विरोध इति चेन्न- एवं हि (117)प(घ)टादिसन्तानाविच्छेदोऽपि स्यात्। विपर्ययस्तु दृश्यते। कन्थादि (118) (कत्र्रादि) भोगविशेषसम्पादनप्रयुक्तोऽसाविति चेन्न- द्व्यणुकेषु तदभ#ावात्। तथा च तत्रा(तद)वयवानामपगमाभावेऽनादित्वप्रसङ्गे द्व्यणुकत्वव्याघातः। तस्मात् यत्कार्यं यन्निबन्धनस्थितिः, तदपगमे तन्निवृत्तिः। यत् यद्धेतुकम्, तदुपगमे तस्योत्पत्तिः। न च कार्यस्य स्थितिनिबन्धनं नित्यमेव; नित्यस्थितिप्रसङ्गात्। न च नित्य एव हेतुः;अकादाचित्कत्वप्रसङ्गात्। तत् अतिनिस्तरङ्गमेतत्। ईदृश्यां च वस्तुस्थितौ भोगोऽपि कर्मभिरेवमेव वस्तुस्वभावानतिक्रमेण सम्पादनीय इति द्व्यणुकवत् पिपीलिकाण्डड्डत्ध्;ादेब्र्राहृाण्डड्डत्ध्;पर्यन्तस्यापि वि·ास्येयमेव गतिरिति प्रतिबन्धसिद्धिः। झ्र्कु.2.266ट तथा च ब्राहृाण्डेड्डत्ध्; परमाणुसाद्भवितरि परमाणुषु च स्वतन्त्रेषु पृथगासीनेषु तदन्तःपातिनः प्राणिगणाः (119)क्व वर्तन्ताम्, कुपितकपिकपोलान्तर्गतोदुम्बरमशकसमूहवत्, दवदहनदह्रमानदारूदरविघूर्णमानघुणसङ्घातवत्, प्रलयपवनोल्लासनीयौर्वानलनिपातिपोतसांयात्रिकसार#्थवद्वेति। झ्र्कु.2.267ट (120)अपि च- जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्मणोः। ह्यासदर्शनतो ह्यासः सम्प्रदायस्य मीयताम्।।3।। पूर्वं हि मानस्यः प्रजाः समभवन्; ततोऽपत्यैकप्रयोजनमैथुनसम्भवाः; ततः कामा(ला?)वर्जनीयसन्निधिजन्मानः; इदानीं देशकालाद्यवस्थया पशुधर्मादेव भूयिष्ठाः। पूर्वं चरुप्रभृतिषु संस्काराः (121) समाधायिषत; ततः क्षेत्रप्रभृतिषु; ततो गर्भादितः; इदानीं तु जातेषुलौकिक(लोक)व्यवहारमाश्रित्य। पूर्वं सहरुाशाखो वेदोऽध्यगायि; ततो व्यस्तः; ततः षडड्डत्ध्;ङ्ग एकः;त् इदानीं तु क्वचिदेका शाखेति। (122)पूर्वं ऋतवृत्तयो ब्रााहृणाः प्राद्योतिषत; ततोऽमृतवृत्तयः; (123)ततो मृतवृत्तयः; सम्प्रति प्रमृतसत्यानृतकुसीदपाशुपाल्य·ावृत्ति(124)व#ृत्तियो भूयांसः। पूर्वं दुःखन ब्रााहृणैरतिथयोऽलभ्यन्त; ततः क्षत्रियातिथयोऽपि संवृत्ताः; ततो (125)वैश्याऽऽवेशिनोऽपि; सम्प्रति शूद्रान्नभोजिनोऽपि। (126)पूर्वममृतभुजः; ततो विघसभुजः; ततोऽन्नभुजः; सम्प्रत्यघभुज एव। पूर्वं चतुष्पाद्धर्म (127)आसीत्; ततस्तनूयमाने तपसि त्रिपात्; ततो म्लायति ज्ञाने द्विपात्; सम्प्रति जीर्यति यज्ञे दानैकपात्। सोऽपि पादो (128)दुरागतादिविपादिकाशतदुःस्थः अश्रद्धामलकलङ्कितः कामक्रोधादिकण्टकशतजर्जरः प्रत्यहमपचीयमानवीर्यतया इतस्ततः स्खलन्निवोपलम्भते। झ्र्कु.2.268ट ठइदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते' इति चेन्न- स्मृत्यनुष्ठानानुमितानां शाखानामुच्छेददर्शनात्। स्वातन्त्र्येण स्मृतीनामाचारस्य च प्रामाण्यानभ्युपगमात्। मन्वादीनामतीन्द्रियार्थदर्शने प्रमाणाभावात्। आचारात् स्मृतिः, स्मृतेश्चाचार इत्यनादिताभ#्युपगमे अन्धपरम्पराप्रसङ्गात्। झ्र्कु.2.269ट आसंसारमनाम्नातस्य च वेदत्वव्याघातेनानुमानायोगात्। उत्पत्तितोऽभिव्यक्तितोऽभिप्रायतो वाऽनवच्छिन्नवर्णमात्रस्य निर्थकत्वात्। झ्र्कु.2.270ट यदि च शिष्टाचारत्वादिदं हितसाधनम्, कर्तव्यं वेत्यनुमितम्, किं वेदानुमानेन; तदर्थस्यानुमानत एव सिद्धेः। न च धर्मवेदनत्वात् इदमेवानुमानम् अनुमेयो वेदः; प्रत्यक्षसिद्धत्वात्; अशब्दत्वाच्च। झ्र्कु.2.271ट अथ शिष्टाचारत्वात्प्रमाणमूलोऽयमिति चेत्- ततस्सिद्धसाधनम्; प्रत्यक्षमूलत्वाभ्युपगमात्; तदसम्भवेऽप्यनुमानसम्भवात्। नित्यमज्ञायमानत्वात्तत् अप्रत्यायकं कथमनुमानं कथं च मूलमिति चेत्- वेदः किमज्ञायमानः प्रत्यायकः; अप्रत्यायक एव वा मूलम्; येन जडड्डत्ध्;तमतमाद्रियसे। अनुमितत्वात् ज्ञायमान एवेति चेत्- लिङ्गमप्येवमेवास्तु। अनुमेयप्रतीतेः प्राक्तनी लिङ्गप्रतीतिरपेक्षिता; कारणत्वात्; न तु पश्चात्तनीति चेत्- शब्दप्रतीतिरप्येवमेव। झ्र्कु.2.272ट आचारस्वरूपेण शब्दमूलत्वमनुमीयते। तेन तु शब्देन कर्तव्यता प्रतीयत इति चेन्न- आचारस्वरूपस्य प्रत्यक्षसिद्धत्वेन मूलान्तरानपेक्षणात्। तस्मात्कर्तव्यतायां प्रत्यक्षाभावात्, अप्रमिततया च शब्दानुमानानवकाशात्, प्रत्यक्षश्रुतेरसम्भवात्, शिष्टाचारत्वेन#ैव कर्तव्यतामनुमाय तया मूलशब्दानुमानम्। तथा च किं तेन; तदर्थस्य प्रागेव सिद्धेः। झ्र्कु.2.273ट (129)ठतथाऽप्यागममूलत्वमेव तस्य; व्याप्तेः' इति चेत्- अत एव तर्हि तस्य प्रत्यक्षानुमानमूलत्वमनुमेयम्। आदिमतस्तत्त्वं स्यात्; अयं त्वनादिरिति चेत्- आचारोऽपि (130) तर्हीदम्प्रथमस्तथा स्यात्, अयं त्वनादिर्विनाऽप्यागमं भविष्यति। आचारकर्तव्यतानुम#ानयोरेवमनादित्वमस्तु; किं नश्छिन्नमिति चेत्- प्रथमं ताव"न्नित्यानुमेयो वेद'इति; द्वितीयं च "देशनैव धर्मे प्रमाण'मिति। झ्र्कु.2.274ट (131)अथायमाशयः- वैदिका अप्याचाराः राजसूया·ामेधादयः समुच्छिद्यमानाः दृश्यन्ते; यत इदानीं नानुष्ठीयन्ते। न चैते प्रागपि नानुष्ठिता एव; तदर्थस्य वेदराशेरप्रामाण्यप्रसङ्गात् समुद्रतरणोपदेशवत्। न चैवमेवास्तु; दर्शाद्युपदेशेन तुल्ययोगक्षेमत्वात्। एवम्, पुनः स कश्चित् कालो भविता, यत्रैतेऽनुष्ठास्यन्ते। तथाऽन्ये(था चान्ये)प्याचाराः समुच्छेत्स्यन्ते अनुष्ठास्यन्ते च, इति न विच्छेदः। ततस्तद्वदागममूलता इति चेत्- एवं तर्हि प्रवाहादौ लिङ्गाभावे कर्तव्यत्वागमयोरननुमानात्, असत्यां प्रत्यक्षश्रुतौ आचारसङ्कथाऽपि कथमिति सर्वविप्लवः। तस्मात् प्रत्यक्षश्रुतिरेव मूलमाचारस्य; सा चेदानीं नास्तीति शाखोच्छेदः। झ्र्कु.2.275ट अधुनाऽप्यस्ति साऽन्यत्रेति चेत्- अत्र कथं नास्ति? किमुपाध्यायवंशानामन्यत्र गमनात्, तेषामेवोच्छेदाद्वा, आहोस्वित् स्वाध्यायविच्छेदात्। न प्रथमद्वितीयौ; सर्वेषामन्यत्र गमने उच्छेदे वा नियमेन भारतवर्षे शिष्टाचारस्याप्युच्छेदप्रसङ्गात्; तस्याध्य#ेतृसमानकर्तृकत्वात्। अन्यत आगतैराचारप्रवर्तने अध्ययनप्रवर्तनमपि स्यात्। न तृतीयः; आध्यात्मिक(132)शक्तिसम्पन्नानामन्तेवासिनामविच्छेदे तस्यासम्भवात्। तस्मा(133)दायुरारोग्यबलवीर्यश्रद्धाशमदमग्रहणधारणादिशक्तेरहरहरपचीयमानत्वात् स्वाध्यायानुष्ठाने शीर्यमाणे कथञ्चिदनुवर्तेते; वि·ापरिग्रहाच्च न सहसा सर्वोच्छेद इति युक्तमुत्पश्यामः। झ्र्कु.2.276ट (134)गतानुगतिको लोक इत्यप्रामाणिक एवाचारः, न तु शाखोच्छेदः; अनेकशाखागतेतिकर्तव्यतापूरणीयत्वादेकस्मिन्नपि कर्मण्यना·ाासप्रसङ्गादिति चेत्- न- एवं हि (135)महाजनपरिग्रहस्योपप्लवसम्भवे (प्लवे) वेदा अपि गतानुगतिकतयैव लोकैः परिगृह्रन्त इति, न वेदाःप्रमाणं स्युः। तथा च वृश्चिकभिया पलायमानस्याशीविषमुखे निपातः। (136) एतमेव च कालक्रमभाविशाखोच्छेद(137)भाविनमना·ाासमाशङ्कमानैर्महर्षिभिः प्रतिविहितम्। अतो नोक्तदोषोऽपि। झ्र्कु.2.277ट न चायमुच्छेदो ज्ञानक्रमेण; येन श्लाघ्यः स्यात्। अपि तु प्रमादमदमानाऽऽलस्यनास्तिक्यपरिपाकक्रमेण। (138)ततश्चोच्छेदान्तरं पुनः प्रवाहः, तदनन्तरं च पुनरुच्छेद इति सारस्वतमिव रुाोतः; अन्यथा कृतहानप्रसङ्गात्। (139)तथा च भाविप्रवाहवद् भवन्नप्ययमुच्छेदपूर्वक इत्यनुमीयते। स्मरति च भगवान्व्यासो गीतासु भगवद्वचनम्- "यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्।। परित्राणाय साधूनां विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय सम्भवामि युगे युगे।।' गी. (4.7.8) इति। झ्र्कु.2.278ट कः पुनरयं महाजनपरिग्रहः? (140)हेतुदर्शनशून्यैर्गहणधारणार्थानुष्ठानादिः। स ह्रत्र न स्यात् ऋते निमित्तम्। झ्र्कु.2.279ट न ह्रत्रालस्यादिर्निमित्तम्; दुःखमयकर्मप्रधानत्वात्। नाप्यन्यत्र सिद्धप्रामाण्येऽभ्युपायेऽनधिकारेणास्मिन्ननन्यगतिकतयाऽनुप्रवेशः; परैः पूज्यानामप्यत्रा(141)प्रवेशात्। नापि भक्ष्यपेयाद्यद्वैतरागः; तद्विभागव्यवस्थापरत्वात्। नापि कुतर्काभ्यासाह#ितव्यामोहः; आकुमारं प्रवृत्तेः। नापि सम्भवद्विप्रलम्भपाषण्डड्डत्ध्;संसर्गः; पित्रादिक्रमेण प्रवर्तनात्। नापि योगाभ्यासाभिमानेनाव्यग्रताभिसन्धिः; प्राथमिकस्य कर्मकाण्डेड्डत्ध्; (काण्डड्डत्ध्; एव) सुतरां व्यग्रत्वात्। नापि जीविका; प्रागुक्तेन न्यायेन दृष्टफलाभावात्। नापि कुहकवञ्चना; प्रकृते तदसम्भवात्। झ्र्कु.2.280ट सम्भवति (142)त्वेते हेतवो बौद्धाद्यागमपरिग्रहे। (143)तथा हि, भूयस्तत्र कर्मलाघवमिति अलसाः- इतः पतितानामप्यनुप्रवेश इति अनन्यगतिकाः- भक्ष्याद्यनियम इति रागिणः- स्वेच्छया परि(यार्थपरि)ग्रह इति कुतर्काभ्यासिनः- पित्रादिक्रमाभावात् प्रवृत्तिरिति प#ाषण्डड्डत्ध्;संसर्गिणः- "उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते' इत्यादि श्रवणादव्यग्रताभिमानिनः- सप्तघटिकाभोजनादिसिद्धेर्जीविकेति अयोग्याः- आदित्यस्तम्भनम् पाषाणपाटनम्, शाखाभङ्गः, भूतावेशः, प्रतिमाजल्पनम्, धातुवाद इत्यादि धन्धनात् (वञ्चनात्) कुहकवञ्चितास्तान् (144)परिगृण्हन्तीति सम्भाव्यते। अतो न ते महाजनपरिगृगीता इति विभागः। झ्र्कु.2.281ट स्यादेतत्- यद्येवं सर्वकर्मणां वृत्तिविरोधः, न किञ्चिदुत्पद्यते, न किञ्चिद्विनश्यतीति स्तिमिताकाशकल्पे जगति कुतो विशेषात् पुनः सर्गः? प्रकृतिपरिणतेरिति साङ्ख्यानां शोभते। ब्राहृपरिणतेरिति भास्करगोत्रे युज्यते। वासनापरिपाकादिति सौगतमतमनुधावति।कालविशेषादिति चोपाधिविशेषाभावादयुक्तम्। असतां चोपलक्षणानां न विशेषकत्वम्; सर्वदा तुल्यरूपत्वात्। न च ज्ञानद्वारा; अनित्यस्य तस्य तदानीमभावात्; नित्यस्य च विषयतः स्वरूपतश्चाविशेषादिति चेत्- न- झ्र्कु.2.282ट शरीरसङ्क्षोभश्रमजनितनिद्राणां प्राणिनामायुःपरिपाकक्रमसम्पादनैकप्रयोजन·ााससन्तानानुवृत्तिवत् महाभूतसम्प्लवसङ्क्षोभलब्धसंस्काराणां परमाणूनां मन्दतरतमादिभावेन कालावच्छेदैकप्रयोजनस्य प्रचयाख्यसंयोगपर्यन्तस्य कर्मसन्तानस्ये·ारनिः·ासितस्यानुवृत्त#े#ः। कियानसावित्यत्र, अविरोधात् आगमप्रसिद्धिमनतिक्रम्य तावन्तमेव कालमित्यनुमन्यते। ब्राहृाण्डड्डत्ध्;ान्तरव्यवहारो वा कालोपाधिः। तदवच्छिन्ने काले पुनः सर्गः। यथा खल्वलाबुलतायां विततानि फलानि, तथा परमे·ारशक्तावनुस्यूतानि सहरुाशोऽण्डड्डत्ध्;ानीति श्रूयते। झ्र्कु.2.283ट (145)एवं विच्छेदसम्भवे कस्य केन परिग्रहः, यतः प्रामाण्यं स्यात्। ज्ञापकश्चायमर्थः न कारकः। ततः कारकाभावान्निवर्तमानं कार्यं ज्ञापकाभिमतः कथङ्कारमास्थापयेत्? झ्र्कु.2.284ट स्यादेतत्- (146)सन्ति कपिलादय एव साक्षात्कृतधर्माणः कर्मयोगसिद्धाः। त एवं संसाराङ्गारेषु पच्यमानान् प्राणिनः पश्यन्तः परमकारुणिकाः प्रियहितोपदेशेनानुग्रहीष्यन्ति; कृतं परमे·ारेणानपेक्षितकीटादिसङ्ख्यापरिज्ञानवता- इति-चेन्न- तदन्य(तोऽन्य)स्मिन्नना·ाासात्। तथा हि- अतीन्द्रियार्थदर्शनोपायो मावनेत्यभ्युपगमेऽपि नासौ सत्यमेव साक्षात्कारमुत्पादयति; यतः समा·ासिमः। प्रमाणान्तरसंवादादिति चेन्न- अहिंसादि। (147)हितसाधनमित्यत्र तदभावात्। आगमोऽस्तीति चेन्न- भावनामात्रमूलत्वेन तस्याप्यना·ाासविषयत्वात्। एकदेशसंवादेनापि प्रवृत्तिरिति चेन्न- (148)स्वप्नाख्यानवदन्यथाऽपि सम्भवात्। न चानुपलब्धे भावनाऽपि। चोरसर्पादयो ह्रुपलब्धा एव भीरुभिर्भाव्यन्ते। झ्र्कु.2.285ट न च कर्मयोगयोर्हितसाधनत्वं कुतश्चिदुपलब्धम्। न चैत(च त)योः स्वरूपेणोपलम्भः क्वचिदुपयुज्यते, भावनासाध्यो वा। न चास्मिन्नन्वयव्यतिरेकौ सम्भवतः; देहान्तरयोग्यत्वात्फलस्य; अप्रतीततया तदनु(दननु?)ष्ठाने (149)तदभावाच्च। न च कर्तृभोक्तृरूपोभयदेहप्रतिसन्धानादेव तदुपपद्यते; तदभावात्। न ह्रेतस्य पूर्वकर्मणः फलमिदमनुभवामीति कश्चित्प्रतिसन्धत्तेः। झ्र्कु.2.286ट केचित्तथा भविष्यन्तीति सम्भावनामात्रेऽप्यना·ाासात्। विनिगमनायां प्रमाणाभावात्। प्रतिपन्निशीथनिद्राणप्रातःप्रतिबुद्धसमस्तोपाध्यायवत् अन्योन्यसंवादात् कपिलादिषु समा·ाास इति चेन्न- एकजन्मप्रतिसन्धानवत् जन्मान्तरप्रतिसन्धाने प्रमाणाभवात्। (150)तथाऽपि चाधिकारिविशेषेण ब्रााहृणत्वाद्यप्रतिसन्धानेऽनुष्ठानरूपस्या·ाासस्याभावात्। न हि पूर्वजन्मनि मातापित्रोब्र्रााहृण्यात्तदुत्तरत्र ब्रााहृण्यमिति नियमः; येन सर्गादौ वर्णादिधर्मव्यवस्था स्यात्। ई·ारवत् अदृष्टविशेषोपनिबद्धभूतविशेषा(तभेदा)नुपलम्भात्। अतीन्द्रियार्थदर्शित्वे चाना·ाासस्योक्तत्वात्। झ्र्कु.2.287ट एतेन ब्राहृाण्डड्डत्ध्;ान्तरसञ्चारिवर्णव्यवस्थया सम्प्रदायप्रवर्तनमपास्तम्- सञ्चारशक्तेरभावात्। वर्षान्तरसञ्चरणमेव हि दुष्करम्। कुतो लोकान्तरसञ्चारः? कुतस्तरां च ब्राहृाण्डड्डत्ध्;ान्तरगमनम्?। "अणिमादिसम्पत्तेरेवमपि स्या'दिति चेन्न- (151)अत्रापि प्रमाणाभावात्। सम्भावनामात्रेण समा·ाासानुपपत्तेः। (152)अथ महाजनपरिग्रहान्यथानुपपत्तिरेवात्र प्रमाणमिति चेन्न- (153)एवम्भूतैककल्पनयैवोपपत्तौ भूयः कल्पनाया गौरवप्रसङ्गात्। विदेहनिर्माणश्क्तेरणिमादिविभूतेश्चावश्याभ्युपगन्तव्यत्वात्। अस्त्वेक एवेति चेत्- न तर्ही·ारमन्तरेणान्यत्र समा·ाास इति। झ्र्कु.2.267ट (120)अपि च- जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्मणोः। ह्यासदर्शनतो ह्यासः सम्प्रदायस्य मीयताम्।।3।। पूर्वं हि मानस्यः प्रजाः समभवन्; ततोऽपत्यैकप्रयोजनमैथुनसम्भवाः; ततः कामा(ला?)वर्जनीयसन्निधिजन्मानः; इदानीं देशकालाद्यवस्थया पशुधर्मादेव भूयिष्ठाः। पूर्वं चरुप्रभृतिषु संस्काराः (121) समाधायिषत; ततः क्षेत्रप्रभृतिषु; ततो गर्भादितः; इदानीं तु जातेषुलौकिक(लोक)व्यवहारमाश्रित्य। पूर्वं सहरुाशाखो वेदोऽध्यगायि; ततो व्यस्तः; ततः षडड्डत्ध्;ङ्ग एकः;त् इदानीं तु क्वचिदेका शाखेति। (122)पूर्वं ऋतवृत्तयो ब्रााहृणाः प्राद्योतिषत; ततोऽमृतवृत्तयः; (123)ततो मृतवृत्तयः; सम्प्रति प्रमृतसत्यानृतकुसीदपाशुपाल्य·ावृत्ति(124)व#ृत्तियो भूयांसः। पूर्वं दुःखन ब्रााहृणैरतिथयोऽलभ्यन्त; ततः क्षत्रियातिथयोऽपि संवृत्ताः; ततो (125)वैश्याऽऽवेशिनोऽपि; सम्प्रति शूद्रान्नभोजिनोऽपि। (126)पूर्वममृतभुजः; ततो विघसभुजः; ततोऽन्नभुजः; सम्प्रत्यघभुज एव। पूर्वं चतुष्पाद्धर्म (127)आसीत्; ततस्तनूयमाने तपसि त्रिपात्; ततो म्लायति ज्ञाने द्विपात्; सम्प्रति जीर्यति यज्ञे दानैकपात्। सोऽपि पादो (128)दुरागतादिविपादिकाशतदुःस्थः अश्रद्धामलकलङ्कितः कामक्रोधादिकण्टकशतजर्जरः प्रत्यहमपचीयमानवीर्यतया इतस्ततः स्खलन्निवोपलम्भते। झ्र्कु.2.268ट ठइदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते' इति चेन्न- स्मृत्यनुष्ठानानुमितानां शाखानामुच्छेददर्शनात्। स्वातन्त्र्येण स्मृतीनामाचारस्य च प्रामाण्यानभ्युपगमात्। मन्वादीनामतीन्द्रियार्थदर्शने प्रमाणाभावात्। आचारात् स्मृतिः, स्मृतेश्चाचार इत्यनादिताभ#्युपगमे अन्धपरम्पराप्रसङ्गात्। झ्र्कु.2.269ट आसंसारमनाम्नातस्य च वेदत्वव्याघातेनानुमानायोगात्। उत्पत्तितोऽभिव्यक्तितोऽभिप्रायतो वाऽनवच्छिन्नवर्णमात्रस्य निर्थकत्वात्। झ्र्कु.2.270ट यदि च शिष्टाचारत्वादिदं हितसाधनम्, कर्तव्यं वेत्यनुमितम्, किं वेदानुमानेन; तदर्थस्यानुमानत एव सिद्धेः। न च धर्मवेदनत्वात् इदमेवानुमानम् अनुमेयो वेदः; प्रत्यक्षसिद्धत्वात्; अशब्दत्वाच्च। झ्र्कु.2.271ट अथ शिष्टाचारत्वात्प्रमाणमूलोऽयमिति चेत्- ततस्सिद्धसाधनम्; प्रत्यक्षमूलत्वाभ्युपगमात्; तदसम्भवेऽप्यनुमानसम्भवात्। नित्यमज्ञायमानत्वात्तत् अप्रत्यायकं कथमनुमानं कथं च मूलमिति चेत्- वेदः किमज्ञायमानः प्रत्यायकः; अप्रत्यायक एव वा मूलम्; येन जडड्डत्ध्;तमतमाद्रियसे। अनुमितत्वात् ज्ञायमान एवेति चेत्- लिङ्गमप्येवमेवास्तु। अनुमेयप्रतीतेः प्राक्तनी लिङ्गप्रतीतिरपेक्षिता; कारणत्वात्; न तु पश्चात्तनीति चेत्- शब्दप्रतीतिरप्येवमेव। झ्र्कु.2.272ट आचारस्वरूपेण शब्दमूलत्वमनुमीयते। तेन तु शब्देन कर्तव्यता प्रतीयत इति चेन्न- आचारस्वरूपस्य प्रत्यक्षसिद्धत्वेन मूलान्तरानपेक्षणात्। तस्मात्कर्तव्यतायां प्रत्यक्षाभावात्, अप्रमिततया च शब्दानुमानानवकाशात्, प्रत्यक्षश्रुतेरसम्भवात्, शिष्टाचारत्वेन#ैव कर्तव्यतामनुमाय तया मूलशब्दानुमानम्। तथा च किं तेन; तदर्थस्य प्रागेव सिद्धेः। झ्र्कु.2.273ट (129)ठतथाऽप्यागममूलत्वमेव तस्य; व्याप्तेः' इति चेत्- अत एव तर्हि तस्य प्रत्यक्षानुमानमूलत्वमनुमेयम्। आदिमतस्तत्त्वं स्यात्; अयं त्वनादिरिति चेत्- आचारोऽपि (130) तर्हीदम्प्रथमस्तथा स्यात्, अयं त्वनादिर्विनाऽप्यागमं भविष्यति। आचारकर्तव्यतानुम#ानयोरेवमनादित्वमस्तु; किं नश्छिन्नमिति चेत्- प्रथमं ताव"न्नित्यानुमेयो वेद'इति; द्वितीयं च "देशनैव धर्मे प्रमाण'मिति। झ्र्कु.2.274ट (131)अथायमाशयः- वैदिका अप्याचाराः राजसूया·ामेधादयः समुच्छिद्यमानाः दृश्यन्ते; यत इदानीं नानुष्ठीयन्ते। न चैते प्रागपि नानुष्ठिता एव; तदर्थस्य वेदराशेरप्रामाण्यप्रसङ्गात् समुद्रतरणोपदेशवत्। न चैवमेवास्तु; दर्शाद्युपदेशेन तुल्ययोगक्षेमत्वात्। एवम्, पुनः स कश्चित् कालो भविता, यत्रैतेऽनुष्ठास्यन्ते। तथाऽन्ये(था चान्ये)प्याचाराः समुच्छेत्स्यन्ते अनुष्ठास्यन्ते च, इति न विच्छेदः। ततस्तद्वदागममूलता इति चेत्- एवं तर्हि प्रवाहादौ लिङ्गाभावे कर्तव्यत्वागमयोरननुमानात्, असत्यां प्रत्यक्षश्रुतौ आचारसङ्कथाऽपि कथमिति सर्वविप्लवः। तस्मात् प्रत्यक्षश्रुतिरेव मूलमाचारस्य; सा चेदानीं नास्तीति शाखोच्छेदः। झ्र्कु.2.275ट अधुनाऽप्यस्ति साऽन्यत्रेति चेत्- अत्र कथं नास्ति? किमुपाध्यायवंशानामन्यत्र गमनात्, तेषामेवोच्छेदाद्वा, आहोस्वित् स्वाध्यायविच्छेदात्। न प्रथमद्वितीयौ; सर्वेषामन्यत्र गमने उच्छेदे वा नियमेन भारतवर्षे शिष्टाचारस्याप्युच्छेदप्रसङ्गात्; तस्याध्य#ेतृसमानकर्तृकत्वात्। अन्यत आगतैराचारप्रवर्तने अध्ययनप्रवर्तनमपि स्यात्। न तृतीयः; आध्यात्मिक(132)शक्तिसम्पन्नानामन्तेवासिनामविच्छेदे तस्यासम्भवात्। तस्मा(133)दायुरारोग्यबलवीर्यश्रद्धाशमदमग्रहणधारणादिशक्तेरहरहरपचीयमानत्वात् स्वाध्यायानुष्ठाने शीर्यमाणे कथञ्चिदनुवर्तेते; वि·ापरिग्रहाच्च न सहसा सर्वोच्छेद इति युक्तमुत्पश्यामः। झ्र्कु.2.276ट (134)गतानुगतिको लोक इत्यप्रामाणिक एवाचारः, न तु शाखोच्छेदः; अनेकशाखागतेतिकर्तव्यतापूरणीयत्वादेकस्मिन्नपि कर्मण्यना·ाासप्रसङ्गादिति चेत्- न- एवं हि (135)महाजनपरिग्रहस्योपप्लवसम्भवे (प्लवे) वेदा अपि गतानुगतिकतयैव लोकैः परिगृह्रन्त इति, न वेदाःप्रमाणं स्युः। तथा च वृश्चिकभिया पलायमानस्याशीविषमुखे निपातः। (136) एतमेव च कालक्रमभाविशाखोच्छेद(137)भाविनमना·ाासमाशङ्कमानैर्महर्षिभिः प्रतिविहितम्। अतो नोक्तदोषोऽपि। झ्र्कु.2.277ट न चायमुच्छेदो ज्ञानक्रमेण; येन श्लाघ्यः स्यात्। अपि तु प्रमादमदमानाऽऽलस्यनास्तिक्यपरिपाकक्रमेण। (138)ततश्चोच्छेदान्तरं पुनः प्रवाहः, तदनन्तरं च पुनरुच्छेद इति सारस्वतमिव रुाोतः; अन्यथा कृतहानप्रसङ्गात्। (139)तथा च भाविप्रवाहवद् भवन्नप्ययमुच्छेदपूर्वक इत्यनुमीयते। स्मरति च भगवान्व्यासो गीतासु भगवद्वचनम्- "यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्।। परित्राणाय साधूनां विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय सम्भवामि युगे युगे।।' गी. (4.7.8) इति। झ्र्कु.2.278ट कः पुनरयं महाजनपरिग्रहः? (140)हेतुदर्शनशून्यैर्गहणधारणार्थानुष्ठानादिः। स ह्रत्र न स्यात् ऋते निमित्तम्। झ्र्कु.2.279ट न ह्रत्रालस्यादिर्निमित्तम्; दुःखमयकर्मप्रधानत्वात्। नाप्यन्यत्र सिद्धप्रामाण्येऽभ्युपायेऽनधिकारेणास्मिन्ननन्यगतिकतयाऽनुप्रवेशः; परैः पूज्यानामप्यत्रा(141)प्रवेशात्। नापि भक्ष्यपेयाद्यद्वैतरागः; तद्विभागव्यवस्थापरत्वात्। नापि कुतर्काभ्यासाह#ितव्यामोहः; आकुमारं प्रवृत्तेः। नापि सम्भवद्विप्रलम्भपाषण्डड्डत्ध्;संसर्गः; पित्रादिक्रमेण प्रवर्तनात्। नापि योगाभ्यासाभिमानेनाव्यग्रताभिसन्धिः; प्राथमिकस्य कर्मकाण्डेड्डत्ध्; (काण्डड्डत्ध्; एव) सुतरां व्यग्रत्वात्। नापि जीविका; प्रागुक्तेन न्यायेन दृष्टफलाभावात्। नापि कुहकवञ्चना; प्रकृते तदसम्भवात्। झ्र्कु.2.280ट सम्भवति (142)त्वेते हेतवो बौद्धाद्यागमपरिग्रहे। (143)तथा हि, भूयस्तत्र कर्मलाघवमिति अलसाः- इतः पतितानामप्यनुप्रवेश इति अनन्यगतिकाः- भक्ष्याद्यनियम इति रागिणः- स्वेच्छया परि(यार्थपरि)ग्रह इति कुतर्काभ्यासिनः- पित्रादिक्रमाभावात् प्रवृत्तिरिति प#ाषण्डड्डत्ध्;संसर्गिणः- "उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते' इत्यादि श्रवणादव्यग्रताभिमानिनः- सप्तघटिकाभोजनादिसिद्धेर्जीविकेति अयोग्याः- आदित्यस्तम्भनम् पाषाणपाटनम्, शाखाभङ्गः, भूतावेशः, प्रतिमाजल्पनम्, धातुवाद इत्यादि धन्धनात् (वञ्चनात्) कुहकवञ्चितास्तान् (144)परिगृण्हन्तीति सम्भाव्यते। अतो न ते महाजनपरिगृगीता इति विभागः। झ्र्कु.2.281ट स्यादेतत्- यद्येवं सर्वकर्मणां वृत्तिविरोधः, न किञ्चिदुत्पद्यते, न किञ्चिद्विनश्यतीति स्तिमिताकाशकल्पे जगति कुतो विशेषात् पुनः सर्गः? प्रकृतिपरिणतेरिति साङ्ख्यानां शोभते। ब्राहृपरिणतेरिति भास्करगोत्रे युज्यते। वासनापरिपाकादिति सौगतमतमनुधावति।कालविशेषादिति चोपाधिविशेषाभावादयुक्तम्। असतां चोपलक्षणानां न विशेषकत्वम्; सर्वदा तुल्यरूपत्वात्। न च ज्ञानद्वारा; अनित्यस्य तस्य तदानीमभावात्; नित्यस्य च विषयतः स्वरूपतश्चाविशेषादिति चेत्- न- झ्र्कु.2.282ट शरीरसङ्क्षोभश्रमजनितनिद्राणां प्राणिनामायुःपरिपाकक्रमसम्पादनैकप्रयोजन·ााससन्तानानुवृत्तिवत् महाभूतसम्प्लवसङ्क्षोभलब्धसंस्काराणां परमाणूनां मन्दतरतमादिभावेन कालावच्छेदैकप्रयोजनस्य प्रचयाख्यसंयोगपर्यन्तस्य कर्मसन्तानस्ये·ारनिः·ासितस्यानुवृत्त#े#ः। कियानसावित्यत्र, अविरोधात् आगमप्रसिद्धिमनतिक्रम्य तावन्तमेव कालमित्यनुमन्यते। ब्राहृाण्डड्डत्ध्;ान्तरव्यवहारो वा कालोपाधिः। तदवच्छिन्ने काले पुनः सर्गः। यथा खल्वलाबुलतायां विततानि फलानि, तथा परमे·ारशक्तावनुस्यूतानि सहरुाशोऽण्डड्डत्ध्;ानीति श्रूयते। झ्र्कु.2.283ट (145)एवं विच्छेदसम्भवे कस्य केन परिग्रहः, यतः प्रामाण्यं स्यात्। ज्ञापकश्चायमर्थः न कारकः। ततः कारकाभावान्निवर्तमानं कार्यं ज्ञापकाभिमतः कथङ्कारमास्थापयेत्? झ्र्कु.2.284ट स्यादेतत्- (146)सन्ति कपिलादय एव साक्षात्कृतधर्माणः कर्मयोगसिद्धाः। त एवं संसाराङ्गारेषु पच्यमानान् प्राणिनः पश्यन्तः परमकारुणिकाः प्रियहितोपदेशेनानुग्रहीष्यन्ति; कृतं परमे·ारेणानपेक्षितकीटादिसङ्ख्यापरिज्ञानवता- इति-चेन्न- तदन्य(तोऽन्य)स्मिन्नना·ाासात्। तथा हि- अतीन्द्रियार्थदर्शनोपायो मावनेत्यभ्युपगमेऽपि नासौ सत्यमेव साक्षात्कारमुत्पादयति; यतः समा·ासिमः। प्रमाणान्तरसंवादादिति चेन्न- अहिंसादि। (147)हितसाधनमित्यत्र तदभावात्। आगमोऽस्तीति चेन्न- भावनामात्रमूलत्वेन तस्याप्यना·ाासविषयत्वात्। एकदेशसंवादेनापि प्रवृत्तिरिति चेन्न- (148)स्वप्नाख्यानवदन्यथाऽपि सम्भवात्। न चानुपलब्धे भावनाऽपि। चोरसर्पादयो ह्रुपलब्धा एव भीरुभिर्भाव्यन्ते। झ्र्कु.2.285ट न च कर्मयोगयोर्हितसाधनत्वं कुतश्चिदुपलब्धम्। न चैत(च त)योः स्वरूपेणोपलम्भः क्वचिदुपयुज्यते, भावनासाध्यो वा। न चास्मिन्नन्वयव्यतिरेकौ सम्भवतः; देहान्तरयोग्यत्वात्फलस्य; अप्रतीततया तदनु(दननु?)ष्ठाने (149)तदभावाच्च। न च कर्तृभोक्तृरूपोभयदेहप्रतिसन्धानादेव तदुपपद्यते; तदभावात्। न ह्रेतस्य पूर्वकर्मणः फलमिदमनुभवामीति कश्चित्प्रतिसन्धत्तेः। झ्र्कु.2.286ट केचित्तथा भविष्यन्तीति सम्भावनामात्रेऽप्यना·ाासात्। विनिगमनायां प्रमाणाभावात्। प्रतिपन्निशीथनिद्राणप्रातःप्रतिबुद्धसमस्तोपाध्यायवत् अन्योन्यसंवादात् कपिलादिषु समा·ाास इति चेन्न- एकजन्मप्रतिसन्धानवत् जन्मान्तरप्रतिसन्धाने प्रमाणाभवात्। (150)तथाऽपि चाधिकारिविशेषेण ब्रााहृणत्वाद्यप्रतिसन्धानेऽनुष्ठानरूपस्या·ाासस्याभावात्। न हि पूर्वजन्मनि मातापित्रोब्र्रााहृण्यात्तदुत्तरत्र ब्रााहृण्यमिति नियमः; येन सर्गादौ वर्णादिधर्मव्यवस्था स्यात्। ई·ारवत् अदृष्टविशेषोपनिबद्धभूतविशेषा(तभेदा)नुपलम्भात्। अतीन्द्रियार्थदर्शित्वे चाना·ाासस्योक्तत्वात्। झ्र्कु.2.287ट एतेन ब्राहृाण्डड्डत्ध्;ान्तरसञ्चारिवर्णव्यवस्थया सम्प्रदायप्रवर्तनमपास्तम्- सञ्चारशक्तेरभावात्। वर्षान्तरसञ्चरणमेव हि दुष्करम्। कुतो लोकान्तरसञ्चारः? कुतस्तरां च ब्राहृाण्डड्डत्ध्;ान्तरगमनम्?। "अणिमादिसम्पत्तेरेवमपि स्या'दिति चेन्न- (151)अत्रापि प्रमाणाभावात्। सम्भावनामात्रेण समा·ाासानुपपत्तेः। (152)अथ महाजनपरिग्रहान्यथानुपपत्तिरेवात्र प्रमाणमिति चेन्न- (153)एवम्भूतैककल्पनयैवोपपत्तौ भूयः कल्पनाया गौरवप्रसङ्गात्। विदेहनिर्माणश्क्तेरणिमादिविभूतेश्चावश्याभ्युपगन्तव्यत्वात्। अस्त्वेक एवेति चेत्- न तर्ही·ारमन्तरेणान्यत्र समा·ाास इति। झ्र्कु.2.288ट कारं कारमलौकिकाद्भुतमयं मायावशात् संहरन्। हारं हारमपीन्द्रजालमिव यः कुर्वन् जगत्क्रीडड्डत्ध्;ति।। तं देवं निरवग्रहस्फुरदभिध्यानानुभावं भवम्। वि·ाासैकभुवं शिवं प्रति नमन् भूयासमन्त्येष्वपि।।।4।। इति न्यायकुसुमाञ्जलौ द्वितीयस्तबकः।।