सामग्री पर जाएँ

नैष्कर्म्यसिद्धिः/प्रथमोऽध्यायः

विकिस्रोतः तः
नैष्कर्म्यसिद्धिः
सुरेश्वरः
द्वितीयोऽध्यायः →

नैष्कर्म्यसिद्धिः

अथ प्रथमोऽध्यायः ।

आब्रह्मस्तम्बपर्यन्तैः सर्वप्राणिभिः सर्वप्रकारस्यापि

दुःखस्य स्वरसत एव जिहासितत्वात्तन्निवृत्त्यर्था

प्रवृत्तिरस्ति स्वरसत एव ।

दुःखस्य च देहोपादानैकहेतुत्वाद्देहस्य च

पूर्वोपचितधर्माधर्ममूलत्वादनुच्च्हित्तिः ।

तयोश्चविहितप्रतिषिद्धकर्ममूलत्वादनिवृत्तिः ।

कर्मणश्च रागद्वेषास्पदत्वाद्रागद्वेषयोश्च

शोभनाशोभनाध्यासनिबन्धनत्वादध्यासस्य

चाविचारितसिद्धद्वैतवस्तुनिमित्तत्वाद्द्वैतस्य

च शुक्तिकारजतादिवत्सर्वस्यापि

स्वतस्सिद्धाद्वितीयात्मानवबोधमात्रोपादानत्वादव्यावृत्तिः ।

अतः सर्वानर्थहेतुरात्मानवबोध एव । सुखस्य

चानागमापायिनोऽपरतन्त्रस्यात्मस्वभावत्वात्तस्यानवबोधः

पिधानम् । अतस्तस्यात्यन्तोच्च्हित्तावशेषपुरुषार्थपरि

समाप्तिः । अज्ञाननिवृत्तेश्च सम्यग्ज्ञानस्वरूपलाभ

मात्रहेतुत्वात्तदुपादानम् । अशेषानर्थहेत्वात्मानवबोध

विषयस्य चानागमिकप्रत्यक्षादिलौकिकप्रमाणाविषयत्वा

द्वेदान्तागमवाक्यादेव सम्यग्ज्ञानम् ।

अतोऽशेषवेदान्तसारसंग्रहप्रकरणमिदमारभ्यते ।

तत्राभिलषितार्थप्रचयाय प्रकरणार्थसंसूत्रणाय

चायमाद्यः श्लोकः ।

खानिलाग्न्यब्धरित्र्यन्तं स्रक्फणीवोद्गतं यतः ।

ध्वान्तच्च्हिदे नमस्तस्मै हरये बुद्धिसाक्षिणे ॥ १॥

स्वसम्प्रदायस्य चोदितप्रमाणपूर्वकत्वज्ञापनाय

विशिष्टगुणसम्बन्धसंकीर्तनपूर्विका गुरोर्नमस्कारक्रिया ।

अलब्ध्वातिशयं यस्माद्व्यावृत्तास्तमबादयः ।

गरीयसे नमस्तस्मा अविद्याग्रन्थिभेदिने ॥ २॥

नमस्कारनिमित्तस्वाशयाविष्करणार्थः ।

वेदान्तोदरसंगूढं संसारोत्सारि वस्तुगम् ।

ज्ञानं व्याकृतमप्यन्यैर्वक्ष्ये गुर्वनुशिक्षया ॥ ३॥

किंविशयं प्रकरणमिति चेत्तदुपन्यासः ।

यत्सिद्धाविदमः सिद्धिर्यदसिद्धौ न किंचन ।

प्रत्यग्धर्मैकनिष्ठस्य याथात्म्यं वक्ष्यते स्फुटम् ॥ ४॥

विवक्षितप्रकरणार्थप्ररोचनायानुक्तदुरुक्ताप्रामाण्यकारण

शङ्काव्युदासेनस्वगुरोः प्रामाण्योपवर्णनम् ।

गुरूक्तो वेदराद्धान्तस्तत्र नो वच्म्यशक्तितः ।

सहस्रकिरणव्याप्ते खद्योतः किं प्रकाशयेत् ॥ ५॥

गुरुणैव वेदार्थस्य परिसमापितत्वात्प्रकरणोक्तौ

ख्यात्याद्यप्रामाण्य

कारणाशङ्केति चेत्तद्व्युदासार्थमाह ।

न ख्यातिलाभपूजार्थं ग्रन्थोऽस्माभिरुदीर्यते ।

स्वबोधपरिशुद्ध्यर्थं ब्रह्मविन्निकषाश्मसु ॥ ६॥

अनर्थानर्थहेतुपुरुषार्थतद्धेतुप्रकरणार्थसंग्रहज्ञाप

 

नायोपन्यासः । ऐकात्म्याप्रतिपत्तिर्या स्वात्मानिभवसंश्रया ।

साऽविद्या संसृतेर्बीजं तन्नाशो मुक्तिरात्मनः ॥ ७॥

पुरुषार्थहेतोरवशिष्टत्वात्तदभिव्याहारः ।

वेदावसानवाक्योत्थसम्यग्ज्ञानाशुशुक्षणिः ।

दन्दहीत्यात्मनो मोहं न कर्माप्रतिकूलतः ॥ ८॥

प्रतिज्ञातार्थसंशुद्ध्यर्थं पूर्वपक्षोक्तिः ।

तत्र ज्ञानमभ्युपगम्य तावदुपन्यासः ।

मुक्तेः क्रियाभिः सिद्धत्वाज्ज्ञानं तत्र करोति किम् ।

कथं चेच्च्हृणु तत्सर्वं प्रणिधाय मनो यथा ॥ ९॥

अकुर्वतः क्रियाः काम्या निषिद्धास्त्यजतस्तथा ।

नित्यनैमित्तिकं कर्म विधिवच्चानुतिष्ठतः ॥ १०॥

किमतो भवति ।

काम्यकर्मफलं तस्माद्देवादीमं न ढौकते ।

निषिद्धस्य निरस्तत्वान्नारकीं नैत्यधोजनिम् ॥ ११॥

देहारम्भकयोश्च धर्माधर्मयोर्ज्ञानिना सह कर्मिणः

समानौ चोद्यपरिहारौ ।

वर्तमानमिदं याभ्यां शरीरं सुखदुःखदम् ।

आरब्धं पुण्यपापाभ्यां भोगादेव तयोः क्षयः ॥ १२॥

काम्यप्रतिषिद्धकर्मफलत्वात्संसारस्य

तन्निरासेनैवाशेषानर्थनिरासस्य सिद्धत्वात्किं

नित्यानुष्ठानेनेति चेत्तन्न । तदकरणादप्यनर्थप्रसक्तेः ।

नित्यानुष्ठानतश्चैनं प्रत्यवायो न संस्पृशेत् ।

अनादृत्यात्मविज्ञानमतः कर्माणि संश्रयेत् ॥ १३॥

अभ्युपेत्यैवमुच्यते न तु यथावस्थितात्मवस्तुविषयं

ज्ञानमस्ति । तत्प्रतिपादकप्रमाणाभावात् ।

यावन्त्यश्चेह विद्यन्ते श्रुतयस्स्मृतिभिस्सह ।

विदधत्युरुयत्नेन कर्मातो भूरिसाधनम् ॥ १४॥

स्यात्प्रमाणसम्भवो भवदपराधादिति चेत्तन्न । यतः ।

यत्नतो वीक्षमाणोऽपि विधिं ज्ञानस्य न क्वचित् ।

श्रुतौ स्मृतौ वा पश्यामि विश्वासो नान्यतोऽस्ति नः ॥ १५॥

स्यात्प्रवृत्तिरन्तरेणापि विधिं लोकवदिति चेत्तन्न । यतः ।

अन्तरेण विधिं मोहाद्यः कुर्यात्साम्परायिकम् ।

न तत्स्यादुपकाराय भस्मनीव हुतं हविः ॥ १६॥

अभ्युपगतप्रामाण्यवेदार्थविज्जैमिन्यनुशासनाच्च ।

"आम्नायस्य क्रियार्थत्वादानर्थक्यम् " इतोऽन्यथा ।

इति साटोपमाहोच्चैर्वेदविज्जैमिनिः स्वयम् ॥ १७॥

मन्त्रवर्णाच्च ।

"कुर्वन्नेवेह कर्माणि जिजीविषेच्च्हतं समाः " ।

इति मन्त्रोऽपि निश्शेषं कर्मण्यायुरवासृजत् ॥ १८॥

ज्ञानिनश्च वस्तुनि वाक्यप्रामाण्याभ्युपगमाद्वाक्यस्य च

क्रियापदप्रधानत्वात्ततश्चाभिप्रेतज्ञानाभावः ।

विरहय्य क्रियां नैव संहन्यन्ते पदान्यपि ।

न समस्त्यपदं वाक्यं यत्स्याज्ज्ञानविधायकम् ॥ १९॥

ज्ञानाभ्युपगमेऽपि न दोषः । यतः ।

कर्मणोऽङ्गाङ्गिभावेन स्वप्रधानतयाऽथवा ।

सम्बन्धस्येह संसिद्धेर्ज्ञाने सत्यप्यदोषतः ॥ २०॥

यस्माज्ज्ञानाभ्युपगमानभ्युपगमेऽपि न ज्ञानान्मुक्तिः ।

अतः सर्वाश्रमाणां हि वाङ्मनःकायकर्मभिः ।

स्वनुष्ठितैर्यथाशक्ति मुक्तिः स्यान्नान्यसाधनात् ॥ २१॥

असदर्थप्रलापोऽयमिति दूषणसंभावनायाह ।

इति हृष्टधियां वाचः स्वप्रज्ञाऽऽध्मातचेतसाम् ।

घुष्यन्ते यज्ञशालासु धूमानद्धधियां किल ॥ २२॥

दूषणोपक्रमावधिज्ञापनायाह ।

अत्राभिदध्महे दोषान् क्रमशो न्यायबृंहितैः ।

वचोभिः पूर्वपक्षोक्तिघातिभिर्नातिसंभ्रमात् ॥ २३॥

चतुर्विधस्यापि कर्मकार्यस्य मुक्तावसंभवान्न मुक्तेः

कर्मकार्यत्वम् ।

अज्ञानहानमात्रत्वान्मुक्तेः कर्म न साधनम् ।

कर्मापमार्ष्टि नाज्ञानं तमसीवोत्थितं तमः ॥ २४॥

कर्मकार्यत्वाभ्युपगमेऽपि दोष एव ।

एकेन वा भवेन्मुक्तिर्यदि वा सर्वकर्मभिः ।

प्रत्येकं चेद्वृथान्यानि सर्वेभ्योऽप्येककर्मता ॥ २५॥

सर्वप्रकारस्यापि कर्मण उत्पत्तित एव विशिष्टसाध्याभि

संबन्धान्न परिशेष्यन्यायसिद्धिः ।

दुरितक्षपणार्थत्वान्न नित्यं स्याद्विमुक्तये ।

स्वर्गादिफलसंबन्धात्काम्यं कर्म तथैव न ॥ २६॥

प्रमाणासंभवाच्च ।

साध्यसाधनभावोऽयं वचनात्पारलौकिकः ।

नाश्रौषं मोक्षदं कर्म श्रुतेर्वक्त्रात्कथंचन ॥ २७॥

अभ्युपगताभ्युपगमाच्च श्वश्रूनिर्गच्च्होक्तिवद्भवतो

निष्प्रयोजनः प्रलापः ।

निषिद्धकाम्ययोस्त्यागस्त्वयापीष्टो यथा मया ।

नित्यस्याफलवत्त्वाच्च न मोक्षः कर्मसाधनः ॥ २८॥

एवं तावत् "मुक्तेः क्रियाभिः सिद्धत्वात् " इति

निरस्तोऽयं

पक्षः । अथाधुना सर्वकर्मप्रवृत्तिहेतुनिरूपणेन

यथावस्थितात्मवस्तुविषयकेवलज्ञानमात्रादेव

सकलसंसारानर्थनिवृत्तिरितीमं पक्षं द्रढयितुकाम

आह ।

इह चेदं परीक्ष्यते । किं यथा प्रतिषिद्धेषु

यादृच्च्हिकेषु च कर्मसु

स्वाभाविकस्वाशयोत्थनिमित्तवशादेवेदं

हितमिदमहितमिति विशेषान् परिकल्प्य

मृगतृष्णिकोदकपिपासुरिव

लौकिकप्रमाणप्रसिद्धान्येव साधनान्युपादाय

हितप्राप्तयेऽहितनिरासाय च स्वयमेव प्रवर्तते निवर्तते च

तथैवादृष्टार्थेषु काम्येषु नित्येषु च कर्मसु किं

वान्यदेव तत्र प्रवृत्तिनिवृत्तिनिमित्तमिति । किंचातः ।

यद्येवं श्रुणु । यदि तावद्यथावस्थितवस्तुसम्यग्ज्ञानं

प्रमाणभूतं लौकिकमागमिकं वा प्रवृत्तिनिमित्तमिति

निश्चीयते निवृत्तिशास्त्रं च नाभ्युपगम्यते तदा

हताः कर्मत्यागिनो भ्रान्तिविज्ञानमात्रावष्टम्भादलौकिक

प्रमाणोपात्तकर्मानुष्ठानत्यागित्वाच्च ।  अथ

मृगतृष्णिकोदकपिपासुप्रवृत्तिनिमित्तवदयथावस्तुभ्रान्ति

विज्ञानमेव सर्वप्रवृत्तिनिमित्तं तदा वर्द्धामहे वयं

हताः स्थ यूयमिति ।

हितं संप्रेप्सतां मोहादहितं च जिहासताम् ।

उपायान्प्राप्तिहनार्थान् शास्त्रं भासयतेऽर्कवत् ॥ २९॥

एवं तावत्प्रत्यक्षानुमानागमप्रमाणावष्टम्भादात्मनो

निरतिशयसुखहिताव्यतिरेकसिद्धेरहितस्य च

षष्ठगोचरवत्स्वत एवानभिसंबन्धादेवंस्वाभाव्या

त्मानवबोधमात्रादेव हितं मे स्यादहितं मे मा भूदिति

मिथ्याज्ञानं तूषरशुक्तिकानवबोधोत्थमिथ्याज्ञानवत्

प्रवृत्तिनिमित्तमिति निर्धारितम् । शास्त्रं च न

पदार्थशक्त्याधानकृदिति । अथैतस्यैवोत्तरत्र प्रपञ्च

आरभ्यते ।

न परीप्सां जिहासां वा पुंसः शास्त्रं करोति हि ।

निजे एव तु ते यस्मात्पश्वादावपि दर्शनात् ॥ ३०॥

उक्तं तावदनवबुद्धवस्तुयाथात्म्य एव

विधिप्रतिषेशशास्त्रेष्वधिक्रियत इति ।

लिप्सतेऽज्ञानतोऽलब्धं कण्ठे चामीकरं यथा ।

वर्जितं च स्वतो भ्रान्त्या च्हायायामात्मनो यथा ॥ ३१॥

भयान्मोहावनद्धात्मा रक्षः परिजिहीर्षति ।

पच्चापरिहृतं वस्तु तथालब्धं च लिप्सते ॥ ३२॥

तत्रैतेषु चतुर्षु विषयेषु प्राप्तये परीहाराय

च विभज्य न्यायः प्रदर्श्यते ।

प्राप्तव्यपरिहार्येषु ज्ञात्वोपायाञ्च्हृतेः पृथक् ।

कृत्वाथ प्राप्नुयात्प्राप्यं तथानिष्टं जहात्यपि ॥ ३३॥

अथावशिष्टयोः स्वभावत एव ।

परिहृतावाप्तयोर्बोधाद्धानप्राप्ती न कर्मणा ।

मोहमात्रान्तरायत्वात्क्रियया ते न सिध्यतः ॥ ३४॥

कस्मात्पुनरात्मवस्तुयाथात्म्यावबोधमात्रादेवाभिलषित

निरतिशयसुखावाप्तिनिश्शेषदुःखनिवृत्ती भवतो न तु

कर्मणेति । उच्यते ।

कर्माज्ञानसमुत्थत्वान्नालं मोहापनुत्तये ।

सम्यग्ज्ञानं विरोध्यस्य तामिस्रस्यांशुमानिव ॥ ३५॥

नन्वात्मज्ञानमप्यविद्योपादानम् । न हि

शास्त्रशिष्याचार्याद्यनुपादायात्मज्ञानमात्मानं

लभतः इति । नैष दोषः । यत आत्मज्ञानं हि

स्वतस्सिद्धपरमार्थात्मवस्तुस्वरूपमात्राशयादेवाविद्यातदुत्

पन्न

कारकग्रामप्रध्वंसि स्वात्मोपतावेव शास्त्रादपेक्ष्यते

नोत्पन्नमविद्यानिवृत्तौ । कर्म पुनः स्वात्मोत्पत्तावुत्पन्नं

च । न हिक्रिया कारकनिस्स्पृहा कल्पकोटिव्यवहितफलदानाय

स्वात्मानं बिभर्ति साध्यमानमात्ररूपत्वात्तस्याः । न च

क्रियात्मज्ञानवत्स्वात्मप्रतिलम्भकाल एव स्वर्गादिफलेन

कर्तारं संबध्नाति । आत्मज्ञानं पुनः पुरुषार्थसिद्धौ

नोत्पद्यमानस्वरूपव्यतिरेकेणान्यद्रूपान्तरं साधनान्तरं

वापेक्षते ।  कुत एतत् । यतः ।

बलवद्धि प्रमाणोत्थं सम्यग्ज्ञानं न बाध्यते ।

आकाङ्क्षते न चाप्यान्यद्बाधनं प्रति साधनम् ॥ ३६॥

स्वपक्षस्य हेत्ववष्टम्भेन समर्थितत्वानिराशङ्क

मुपसंह्रियते ।

तस्माद्दुःखोदधेर्हेतोरज्ञानस्यापनुत्तये ।

सम्यग्ज्ञानं सुपर्याप्तं क्रिया चेन्नोक्तहेतुतः ॥ ३७॥

ननु बलवदपि सम्यग्ज्ञानं सदप्रमाणोत्थेन

बाध्यमानमुपलभामहे यत उत्पन्नपरमार्थबोधस्यापि

कर्तृत्वभोक्तृत्वरागद्वेषाद्यनवबोधोत्थप्रत्यया

आविर्भवन्ति । न ह्यबाधिते सम्यग्ज्ञाने तद्विरुद्धानां

प्रत्ययानां सम्भवोऽस्ति । नैतदेवम् । कुतः ।

बाधितत्वादविद्याया विद्यां सा नैव बाधते ।

तद्वासना निमित्तत्वं यान्ति विद्यास्मृतेर्ध्रुवन् ॥ ३८॥

"कर्माज्ञानसमुत्थत्वात् " इत्युक्तो हेतुस्तस्य च

समर्थनं पूर्वमेवाभिहितं "हितं सम्प्रेप्सताम् "

इत्यादिना । तदभ्युच्चयार्थमविद्यान्वयेन च

संसारान्वयित्वं प्रदर्शयिष्यामीत्यत आह ।

ब्राह्मण्याद्यात्मके देहे लात्वा नात्मेति भावनाम् ।

श्रुतेः किङ्करतामेति वाङ्मनःकायकर्मसु ॥ ३९॥

यस्मात्कर्माज्ञानसमुत्थमेव तस्मात्तद्व्यावृत्तौ निवर्तत

इत्युच्यते ।

दग्धाखिलाधिकारश्चेद्ब्रह्मज्ञानाग्निना मुनिः ।

वर्तमानः श्रुतेर्मूर्ध्नि नैव स्याद्वेदकिङ्करः ॥ ४०॥

अथेतरो घनतराविद्या पटलसंवीतान्तःकरणोऽङ्गीकृत

कर्तृत्वाद्यशेषकर्माधिकारकारणो

विधिप्रतिषेधचोदनासंदंशोपदष्टः

कर्मसु प्रवर्तमानः ।

शुभैः प्राप्नोति देवत्वं निषिद्धैर्नारकीं गतिम् ।

उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवशः ॥ ४१॥

आब्रह्मस्तम्बपर्यन्ते घोरे दुःखोदधौ

घटीयन्त्रवदारोहावरोहन्यायेनाधममध्यमोत्तमसुखदुःख

मोहविद्युच्चपलसंपातदायिनीर्विचित्रयोनीश्चण्डोत्पिञ्जल

कश्वसनवेगाभिहताम्भोधिमध्यवर्तिशुष्कालाबुवच्च्हुभा

शुभव्यामिश्रकर्मवायुसमीरितः ।

एवं चङ्क्रम्यमाणोऽयमविद्याकामकर्मभिः ।

पाशितो जायते कामी म्रियते चासुखावृतः ॥ ४२॥

यथोक्तेऽर्थ आदरविधानाय प्रमाणोपन्यासः ।

श्रुतिश्चेमं जगादार्थं कामस्य विनिवृत्तये ।

तन्मूला संसृतिर्यस्मात्तन्नाशोऽज्ञानहानतः ॥ ४३॥

का त्वसौ श्रुतिरिति चेत् ।

"यदा सर्वे प्रमुच्यन्त " "इति नु " इति च

वाजिनः ।

कामबन्धनमेवेदं व्यासोऽप्याह पदेपदे ॥ ४४॥

एष संसारपन्था व्याख्यातः । अथेदानीं तद्व्यावृत्तये

कर्माण्यारादुपकारकत्वेन यथा मोक्षहेतुतां प्रतिपद्यन्ते

तथाभिधीयते ।

तस्यैवं दुःखतप्तस्य कथंचित्पुण्यशीलनात् ।

नित्येहाक्षालितधियो वैराग्यं जायते हृदि ॥ ४५॥

कीदृग्वैराग्यमुत्पद्यत इति । उच्यते ।

नरकाद्भीर्यथास्याभूत्तथा काम्यफलादपि ।

यथार्थदर्शनात्तस्मान्नित्यं कर्म चिकीर्षति ॥ ४६॥

एवं नित्यनैमित्तिककर्मानुष्ठानेन ।

शुध्यमानं तु तच्चित्तमीश्वरार्पितकर्मभिः ।

वैराग्यं ब्रह्मलोकादौ व्यनक्त्यथ सुनिर्मलम् ॥ ४७॥

यस्माद्रजस्तमोमलोपसंसृष्टमेव चित्तं

कामबडिशेनाकृष्य विषयदुरन्तसूनास्थानेष निक्षिप्यते

तस्मान्नित्यनैमित्तिककर्मानुष्ठानपरिमार्जनेनापविद्ध

रजस्तमोमलं प्रसन्नमनाकृलं संमार्जितस्फटिकशिलाकल्पं

बाह्यविषयहेतुकेन च रागद्वेषात्मकेनातिग्रहबडिशेना

नाकृष्यमाणं विधूताशेषकल्मषं प्रत्यङ्मात्रप्रवणं

चित्तदर्पणमवतिष्टते । अत इदमभिधीयते ।

व्युत्थिताशेषकामेभ्यो यदा धीरवतिष्ठते ।

तदैव प्रत्यगात्मानं स्वयमेवाविविक्षति ॥ ४८॥

अतःपरमवसिताधिकाराणि कर्माणि प्रत्यक्प्रवणवत्वसूनौ

कृतसंप्रत्तिकानि चरितार्थानि सन्ति ।

प्रत्यक्प्रवणतां बुद्धेः कर्माण्युत्पाद्य शुद्धितः ।

कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव ॥ ४९॥

यतो नित्यकर्मानुष्ठानस्यैष महिमा ।

तस्मान्मुमुक्षुभिः कार्यमात्मज्ञानाभिलाषिभिः ।

नित्यं नैमित्तिकं कर्म सदैवात्मविशुद्धये ॥ ५०॥

यथोक्तेऽर्थे सर्वज्ञवचनं प्रमाणम् ।

"आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।

योगारूढस्य तस्यैव शम" एवेति च स्मृतिः ॥ ५१॥

नित्यकर्मानुष्ठानाद्धर्मोत्पत्तिर्धर्मोत्पत्तेः

पापहानिस्ततश्चित्तशुद्धिस्ततः

संसारयाथात्म्यावबोधस्ततो वैराग्यं ततो मुमुक्षुत्वं

ततस्तदुपायपर्येषणं

ततः सर्वकर्मतत्साधनसंन्यासस्ततो

योगाभ्यासस्ततश्चित्तस्य प्रत्यक्प्रवणता

ततस्तत्त्वमस्यादिवाक्यार्थपरिज्ञानं

ततोऽविद्योच्च्हेदस्ततश्च स्वात्मन्ये

वावस्थानं "ब्रह्मैव सन् ब्रह्माप्येति "

"विमुक्तश्च विमुच्यते " इति ।

पारम्पर्येण कर्मैवं स्यादविद्यानिवृत्तये ।

ज्ञानवन्नाविरोधित्वात्कर्माविद्यां निरस्यति ॥ ५२॥

न च कर्मणः कार्यमण्वपि मुक्तौ संभाव्यते नापि मुक्तौ

यत्संभवति तत्कर्मापेक्षते ।  तदुच्यते ।

उत्पाद्यमाप्यं संस्कार्यं विकार्यं च क्रियाफलम् ।

नैवं मुक्तिर्यतस्तस्मात्कर्म तस्या न साधनम् ॥ ५३॥

एवं तावत्केवलं कर्म साक्षादविद्यापनुत्तये न

पर्याप्तमिति प्रपञ्चितम् । मुक्तौ च मुमुक्षुज्ञानत

द्विषयस्वाभाव्यानुरोधेन सर्वप्रकारस्यापि कर्मणोऽसंभव

उक्तो "हितं संप्रेप्सताम् " इत्यादिना ।

यादृशश्चारादुपकारकत्वेन ज्ञानोत्पत्तौ कर्मणां

समुच्चयः संभवति तथा प्रतिपादितम् । अविद्योच्च्हित्तौ तु

लब्धात्मस्वभावस्यात्मज्ञानस्यैवासाधारणं

साधकतमत्वं

नान्यस्य प्रधानभूतस्य गुणभूतस्य चेत्येतदधुनोच्यते ।

तत्र ज्ञानं गुणभूतं तावदहेतुरित्येतदाह ।

संनिपत्य न च ज्ञानं कर्माज्ञानं निरस्यति ।

साध्यसाधनभावत्वादेककालानवस्थितेः ॥ ५४॥

समप्रधानयोरप्यसंभव एव ।

बाध्यबाधकभावाच्च पञ्चास्योरणयोरिव ।

एकदेशानवस्थानान्न समुच्चयता तयोः ॥ ५५॥

कुतो बाध्यबाधकभावः । यस्मात् ।

अयथावस्त्वविद्या स्याद्विद्या तस्या विरोधिनी ।

समुच्चयस्तयोरेवं रविशार्वरयोरिव ॥ ५६॥

तस्मादकारकब्रह्मात्मनि परिसमाप्तावबोधस्याशेषकर्म

चोदनानामचोद्यस्वाभाव्यात्कुण्ठता । कथं तत् ।

अभिधीयते ।

बृहस्पतिसवे यद्वत्क्षत्रियो न प्रवर्तते ।

ब्राह्मणत्वाद्यहंमानी विप्री वा क्षत्रकर्मणि ॥ ५७॥

यथायं दृष्टान्त एवं दार्ष्टान्तिकोऽपीत्येतदाह ।

विदेहो वीतसन्देहो नेतिनेत्यवशेषितः ।

देहाद्यनात्मदृक्तद्वत्क्रियां वीक्षतेऽपि न ॥ ५८॥

तस्यार्थस्याविष्करणार्थमुदाहरणम् ।

मृत्स्नेभके यथेभत्वं शिशुरध्यस्य वल्गति ।

अध्यस्यात्मानि देहादीन्मूढस्तद्वत्विचेष्टते ॥ ५९॥

न च वयं ज्ञानकर्मणोः सर्वत्रैव प्रत्याचक्ष्महे । यत्र

प्रयोज्यप्रयोजकभावो ज्ञानकर्मणोस्तत्र नास्मत्पित्रापि शक्यते

निवारयितुम् । तत्र विभागप्रदर्शनायोदाहरणं प्रदर्श्यते ।

स्थाणुं चोरधियालाय भीतो यद्वत्पलायते ।

बुद्ध्यादिभिस्तथात्मानं भ्रान्तोऽध्यारीप्य चेष्टते ॥ ६०॥

एवं यत्रयत्र ज्ञानकर्मणोः प्रयोज्यप्रयोजकभावस्तत्र

सर्वत्रायं न्यायः । यत्र तु न समकालं नापि

क्रमेणोपपद्यते

समुच्चयः सविषय उच्यते ।

स्थाणोः सतत्त्वविज्ञानं यथा नाङ्गं पलायते ।

आत्मनस्तत्त्वविज्ञानं तद्वन्नाङ्गं क्रियाविधौ ॥ ६१॥

यस्माद्गुणस्यैतत्स्वाभाव्यम् ।

यद्धि यस्यानुरोधेन स्वभावमनुवर्तते ।

तत्तस्य गुणभूतं स्यान्न प्रधानाद्गुणो यतः ॥ ६२॥

यस्मात् ।

कर्मप्रकरणाकाङ्क्षिज्ञानं कर्मगुणो भवेत् ।

यद्धि प्रकरणे यस्य तत्तदङ्गं प्रचक्षते ॥ ६३॥

स्वरूपलाभमात्रेण यत्त्वविद्यां निहन्ति नः ।

न तदङ्गं प्रधानं वा ज्ञानं स्यात्कर्मणः क्वचित् ॥ ६४॥

समुच्चयपक्षवादिनाप्यवश्यमेतदभ्युपगन्तव्यम् ।

यस्मात् ।

अज्ञानमनिराकुर्वज्ज्ञानमेव न सिध्यति ।

विपन्नकारकग्रामं ज्ञानं कर्म न ढौकते ॥ ६५॥

इदं चापरं कारणं ज्ञानकर्मणोः समुच्चयनिबर्हि ।

हेतुस्वरूपकार्याणि प्रकाशतमसोरिव ।

विरोधीनि ततो नास्ति साङ्गत्यं ज्ञानकर्मणोः ॥ ६६॥

एवमुपसंहृते केचित्स्वसम्प्रदायबलावष्टम्भादाहुर्यदे

तद्वेदान्तवाक्यादहं ब्रह्मेति विज्ञानं समुत्पद्यते तन्नैव

स्वोत्पत्तिमात्रेणाज्ञानं निरस्यति । किं तर्हि । अहन्यहनि

द्राघीयसा कालेनोपासीनस्य सतो भावनोपचयान्निश्शेषम्

अज्ञानमपगच्च्हति "देवो भूत्वा देवानप्येति " इति

श्रुतेः । अपरे तु ब्रुवते वेदान्तवाक्यजनितमहं ब्रह्मेति

विज्ञानं संसर्गात्मकत्वादात्मवस्तुयाथात्म्यावगाह्येव न

भवति । किं तर्हि ।

एतदेव गङ्गास्रोतोवत्सततमभ्यस्यतोऽन्यदेवावाक्यार्थात्मकं

विज्ञानान्तरमुत्पद्यते । अस्य पक्षद्वयस्य निवृत्तय

इदमभिधीयते ।

सकृत्प्रवृत्त्या मृद्नाति क्रियाकारकरूपभृत् ।

अज्ञानमागमज्ञानं साङ्गत्यं नास्त्यतोऽनयोः ॥ ६७॥

एवं तावदनानात्वे ब्रह्मणि ज्ञानकर्मणोः समुच्चयो

निराकृतः । अथाधुना पक्षान्तराभ्युपगमेनापि

प्रत्यवस्थाने पूर्ववदनाश्वासो यथा तथाभिधीयते ।

अनुत्सारितनानात्वं ब्रह्म यस्यापि वादिनः ।

तन्मतेनापि दुस्साध्यो ज्ञानकर्मसमुच्चयः ॥ ६८॥

तस्य विभागोक्तिर्दूषणविभागप्रज्ञप्तये ।

ब्रह्मात्मा वा भवेत्तस्य यदि वानात्मरूपकम् ।

आत्मानाप्तिर्भवेन्मोहादितरस्याप्यनात्मनः ॥ ६९॥

तत्र यदि तावद्वास्तवेनैव वृत्तेन ब्रह्म

प्राप्तमात्मस्वाभाव्यात्केवलमासुरमोहापिधानमात्र

मेवानाप्तिनिमित्तं तस्मिन्पक्षे ।

मोहापिधानभङ्गाय नैव कर्माणि कारणम् ।

ज्ञानेनैव फलावाप्तेस्तत्र कर्म निरर्थकम् ॥ ७०॥

अनात्मरूपके तु ब्रह्मणि न कर्म साधनभावं प्रतिपद्यते

नापि ज्ञानं कर्मसमुच्चितमसमुच्चितं वा यस्मादन्यस्य

स्वत एव साधकस्य ब्रह्मणोऽप्यन्यत्वं स्वत एव सिद्धम् ।

तत्रैवम् ।

अन्यस्यान्यात्मताप्राप्तौ न क्वचिद्धेतुसंभवः ।

तस्मिन् सत्यपि नो नष्टः परात्मानं प्रपद्यते ॥ ७१॥

अपरस्मिंस्तु पक्षे विधिः ।

परमात्मानुकूलेन ज्ञानाभ्यासेन दुःखिनः ।

द्वैतिनोऽपि प्रमुच्येरन्न परात्मविरोधिना ॥ ७२॥

इतरस्मिंस्तु पक्षे विधेरेवानवकाशत्वम् । कथम् ।

समस्तव्यस्तभूतस्य ब्रह्मण्येवावतिष्ठतः ।

ब्रूत कर्मणि को हेतुः सर्वानन्यत्वदर्शिनः ॥ ७३॥

सर्वकर्मनिमित्तसंभवासंभवाभ्यां सर्वकर्मसङ्करश्च

प्राप्नोति । यस्मात् ।

सर्वजात्यादिमत्त्वेऽस्य नितरां हेतसंभवः ।

विशेषं ह्यनुपादाय कर्म नैव प्रवर्तते ॥ ७४॥

स्याद्विधिरध्यात्मभिमानादिति चेन्नैवम् । यस्मात् ।

न चाध्यात्माभिमानोऽपि विदुषोऽस्त्यासुरत्वतः ।

विदुषोऽप्यासुरश्चेत्स्यान्निष्फलं ब्रह्मदर्शनम् ॥ ७५॥

अज्ञानकार्यत्वान्न समकालं नापि क्रमेण

ज्ञानकर्मणोर्वस्त्ववस्तु

तन्त्रत्वात्सङ्गतिरस्तीत्येवं निराकृतोऽपि काशं कुशं

वावलम्ब्याह ॥

अथाध्यात्मं पुनर्यायादाश्रितो मूढतां भवेत् ।

स करोत्येव कर्माणि को ह्यज्ञं विनिवारयेत् ॥ ७६॥

सिद्धत्वाच्च न साध्यम् । यतः ।

सामान्येतररूपाभ्यां कर्मात्मैवास्य योगिनः ।

निश्श्वासोच्च्ह्वासवत्तस्मान्न नियोगमपेक्षते । ॥ ७७॥

अस्तु तर्हि भिन्नाभिन्नात्मकं ब्रह्म । तथा च सति

ज्ञानकर्मणो संभवतो भेदाभेदविषयत्वात्तयोः । तत्र

तावदयं पक्ष एव न संभवति । किं कारणम् । न हि

भिन्नोऽयमित्यभेदबुद्धिमनिराकृत्य भेदबुद्धिः

पदार्थमालिङ्गते । एवं ह्यनभ्युपगमे भिन्नाभिन्न

पदार्थयोरलौकिकत्वं प्रसज्येत । अथ निष्प्रमाणकम

प्याश्रीयते तदप्युभयपक्षाभ्युपगमादभेदपक्षे दुःखि

ब्रह्म स्यादत आह ।

भिन्नाभिन्नं विशेषैश्चेद्दुःखि स्याद्ब्रह्म ते ध्रुवम् ।

अशेषदुःखिता च स्यादहो प्रज्ञात्मवादिनाम् ॥ ७८॥

तस्मात्सम्यगेवाभिहितं न ज्ञानकर्मणोः समुच्चय

इत्युपसंह्रियते ।

तमोऽङ्गत्वं यथा भानोरग्नेश्शीताङ्गता यथा ।

वारिणश्चोष्णता यद्वज्ज्ञानस्यैवं क्रियाङ्गता ॥ ७९॥

यथोक्तोपपत्तिबलेनैव पूर्वपक्षस्योत्सारितत्वाद्वक्तव्यं

नावशेषितमित्यतः प्रतिपत्तिकर्मवत्पूर्वपक्षपरिहाराय

यत्किञ्चिद्वक्तव्यमित्यत इदमभिधीयते ।

"मुक्तेः क्रियाभिः सिद्धत्वात् " इत्याद्यनुचितं बहु ।

यदभाणि तदन्याय्यं यथा तदधुनोच्यते ॥ ८०॥

योऽयं काम्यानां प्रतिषिद्धानां च त्यागः प्रतिज्ञायते

सा प्रतिज्ञा तावन्न शक्यतेऽनुष्ठातुम् । किं कारणम् ।

कर्मणो हि निर्वृत्तात्मनो द्वाभ्यां प्रकाराभ्यां निवृत्तिः

संभवत्यारब्धफलस्योपभोगेनानारब्धफलस्याशुभस्य

प्रायश्चित्तैरिति । तृतीयोऽपि त्यागप्रकारोऽकर्त्रा

त्मावबोधात् स त्वात्मज्ञानानभ्युपगमाद्भवता

नाभ्युपगम्यते । तत्र यान्यनुपभुक्तफलान्यनारब्धफलानि

तानीश्वरेणापि केनचिदपि न शक्यन्ते परित्यक्तुम् ।

अथारब्धफलानि त्यज्यन्ते तान्यपि न शक्यन्ते त्यक्तुम् ।

किं कारणम् । अनिवृत्तेः । अनिर्वृत्तं हि चिकीर्षितं

कर्म शक्यते त्यक्तुं प्रवृत्तिनिवृत्ती प्रति कर्तुः

स्वातन्त्र्यात् । निर्वृत्ते तु कर्मणि तदसंभवाद्दुरनुष्ठेयः

प्रतिज्ञानार्थः । अशक्यप्रतिज्ञानाच्च ।

न च शक्यते प्रतिज्ञातुं यावज्जीवं काम्यानि

प्रतिषिद्धानि च कर्माणि न करिष्यामीति सुनिपुणानामपि

सूक्ष्मापराधदर्शनात् । प्रमाणाभावाच्च ।

न च प्रमाणमस्ति मोक्षकामो नित्यनैमित्तिके कर्मणी

कुर्यात्काम्यप्रतिषिद्धे च वर्जयेदारब्धफले चोपभोगेन

क्षपयेदिति । आनन्त्याच्च । न चोपचितानां

कर्मणामियत्तास्ति संसारस्यानादित्वात् । न च काम्यैः

प्रतिषिधैर्वा तेषां निवृत्तिरस्ति शुद्ध्यशुद्धिसाम्ये

सत्यविरोधादित्याह ।

न कृत्स्नकाम्यसंत्यागोऽनन्तत्वात्कर्तुमिष्यते ।

निषिद्धकर्मणश्चेत्तु व्यतीतानन्तजन्मसु ॥ ८१॥

स्यान्मतं व्यतीताननन्तजन्मोपात्तानां कर्मणाम् ।

क्षयो नित्येन तेषां चेत्प्रायश्चित्तैर्यथैनसः ।

निष्फलत्वान्न नित्येन काम्यादेर्विनिवारणाम् ॥ ८२॥

प्रमाणाभावाच्च । कथम् ।

पापापनुत्तये वाक्यात्प्रायश्चित्तं यथा तथा ।

गभ्यते काम्यहानार्थं नित्यं कर्म न वाक्यतः ॥ ८३॥

अथापि स्यात्काम्यैरेव काम्यानां पूर्वजन्मोपचितानां क्षयो

भविष्यतीति । तन्न । यतः ।

पाप्मनां पाप्मभिर्नास्ति यथैवेह निराक्रिया ।

काम्यैरपि तथैवास्तु काम्यानामविरोधतः ॥ ८४॥

एवं तावत् "मुक्तेः क्रियाभिः सिद्धत्वात् " इति

निराकृतम् ॥

अथात्मज्ञानस्य सद्भावे प्रमाणासंभव

उक्तस्तत्परिहारायाह ।

श्रुतयस्स्मृतिभिस्सामानन्त्यात्कामिनामिह ।

विदधत्युरुयत्नेन कर्मातो बहुकामदम् ॥ ८५॥

न च बाहुल्यं प्रामाण्ये कारणभावं प्रतिपद्यते । अत आह ।

प्रामाण्याय न बाहुल्यं न ह्येकत्र प्रमाणताम् ।

वस्तुन्यटन्ति मानानि त्वेकत्रैकस्य मानता ॥ ८६॥

यत्तूक्तं "यत्नतो वीक्षमाणोऽपि " इति --  तत्रापि

भवत एवापराधः । कस्मात् । यतः ।

"परीक्ष्य लोकान् " इत्याद्या आत्मज्ञानविधायिनीः ।

नैष्कर्म्यप्रवणास्साध्वीः श्रुतीः किं न शृणोषि ताः ॥

८७॥

ननु " आत्मेत्येवोपासीत " "आत्मा वा अरे

द्रष्टव्यः" इत्यपूर्वविधिश्रुतेः

पुरुषस्यात्मदर्शनक्रियायां नियोगोऽवसीयत इति । नैवम् ।

अपुरुषतन्त्रत्वाद्वस्तुयाथात्म्यज्ञानस्य

सकलानर्थबीजात्मानवबोधोत्सारिणो मुक्तिहेतोरिति ।

विध्यभ्युपगमेऽपि नापूर्वविधिरयम् । अत आह ।

नियमः परिसंख्या वा विध्यर्थोऽपि भवेद्यतः ।

अनात्मादर्शनेनैव परात्मानमुपास्महे ॥ ८८॥

यच्चोक्तं "विश्वासो नान्यतोऽस्ति नः" इति -- तदपि

निद्रातुरचेतसा त्वया स्वप्नायमानेन प्रलपितम् । किं

कारणम् । न हि वयं प्रमाणबलेनैकात्म्यं प्रतिपद्यामह

ऐकात्म्यस्य स्वत एवानुभवमात्रात्मकत्वात् । अत एव

सर्वप्रमाणावतारासंभवं वक्ष्यति ।

प्रमाणव्यवस्थायाश्चनुभवमात्राश्रयत्वात् ।

अत आह ।

वाक्यैकगम्यं यद्वस्तु नान्यस्मात्तत्र विश्वसेत् ।

नाऽप्रमेये स्वतस्सिद्धेऽविश्वासः कथमात्मनि ॥ ८९॥

यदप्युक्तं "अन्तरेण विधिम् " इति--

तदप्यबुद्धिपूर्वकमिव नः प्रतिभाति ।

यस्मात्कालान्तरफलदायिषु कर्मस्वेतद्घटते ।

आत्मलाभकाल एव फलदायिनि त्वात्मज्ञाने

नैतत्समञ्जसमित्याह ।

ज्ञानात्फले ह्यवाप्तेऽस्मिन्प्रत्यक्षे भवघातिनि ।

उपकाराय तन्नेति न न्याय्यं भाति नो वचः ॥ ९०॥

यदपि जैमिनीयं वचनमुद्घाटयसि -- तदपि

तद्विवक्षापरिज्ञानादेवोद्भाव्यते । किं कारणम् । यतो न

जैमिनेरयमभिप्राय आम्नायः । सर्व एव क्रियार्थ इति ।

यदि ह्ययमभिप्रायोऽभविष्यत् " अथातो ब्रह्मजिज्ञासा ।

जन्माद्यस्य यतः "

इत्येवमादिब्रह्मवस्तुस्वरूपमात्रयाथात्म्यप्रकाशनपरं

गम्भीरन्यायसंदृब्धं सर्ववेदान्तार्थमीमांसनं

श्रीमच्च्हारीरकं नासूत्रयिष्यत् । असूत्रयच्च ।

तस्माज्जैमिनेरेवायमभिप्रायो यथैव विधिवाक्यानां

स्वार्थमात्रे प्रामाण्यमेवमैकात्म्यवाक्यानामप्यनधिगत

वस्तुपरिच्च्हेदसाम्यादिति । अत इदमभिधीयते ।

अधिचोदनं य आम्नायस्तस्यैव स्यात्क्रियार्थता ।

तत्त्वमस्यादिवाक्यानां ब्रूत कर्मार्थता कथम् ॥ ९१॥

अपि च । ऐकात्म्यपक्ष इवादृष्टार्थकर्मसु भवत्पक्षेऽपि

प्रवृत्तिर्दुर्लक्ष्या । यतः ।

स्वर्गं यियासुर्जुहुयादग्निहोत्रं यथाविधि ।

देहाद्व्युत्थापितस्यैवं कर्तृत्वं जैमिनेः कथम् ॥ ९२॥

न च प्रत्याख्याताशेषशरीरादिकर्मसाधनस्वभाव

स्यात्ममात्रस्य कर्मस्वधिकारः । यस्मात् ।

सर्वप्रमाणासंभाव्यो ह्यहंवृत्त्यैकसाधनः ।

युष्मदर्थमनादित्सुर्जैमिनिः प्रेर्यते कथम् ॥ ९३॥

प्रवृत्तिकारणाभावाच्च । यस्मात् ।

सुखदुःखादिभिर्योग आत्मनो नाहमेक्ष्यते ।

पराक्त्वात्प्रत्यगात्मत्वाज्जैमिनिः प्रेर्यते कथम् ॥ ९४॥

किंच ।

न तावद्योग एवास्ति शरीरेणात्मनः सदा ।

विषयैर्दूरतो नास्ति स्वर्गादौ स्यात्कथं सुखम् ॥ ९५॥

यस्मादन्यथा नोपपद्यते ।

नराभिमानिनं तस्मात्कारकाद्यात्मदर्शिनम् ।

मन्त्र आहोररीकृत्य "कुर्वन्" इति न निर्द्वयम् ॥ ९६॥

यच्चोक्तं "विरहय्य " इति तदपि न सम्यगेव । तथापि

तु न या काचित्क्रिया यत्र क्व चाध्याहरणीया किं तु या

यत्राभिप्रेतसंबन्धं घटयितुं शक्नोत्याकाङ्क्षां च

वाक्यस्य पूरयति सैवाध्याहरणीया । एवंविशिष्टा च

क्रियास्माभिरभ्युपगतैव । सा तूपादित्सितवाक्यार्था

विरोधिन्येव नाभूतार्थप्रादुर्भावफलेति ।

षड्भावविकाररहितात्मवस्तुनो निर्धूताशेष

द्वैतानर्थस्यापराधीनप्रकाशस्य

विजिज्ञापयिषितत्वादस्यस्मीत्यादिक्रियापदं

स्वमहिमसिद्धार्थप्रतिपादनसमर्थमभ्युपगन्तव्यं न

विपरीतार्थप्रतिपादनपरमिति ।

धावेदिति न दानार्थे पदं यद्वत्प्रयुज्यते ।

एधीत्यादि तथा नेच्च्हेत्स्वतः सिद्धार्थवाचिनि ॥ ९७॥

न च यथोक्तवस्तुवृत्तप्रतिपादनव्यतिरेकेण

तत्त्वमस्यादिवाक्यं वाक्यार्थान्तरं वक्तीति

शक्यमध्यवसातुमित्याह ।

तत्त्वमस्यादिवाक्यानां स्वतस्सिद्धार्थबोधनात् ।

अर्थान्तरं न संद्रष्टुं शक्यते त्रिदशैरपि ॥ ९८॥

यस्मादेवम् ।

अतः सर्वाश्रमाणां तु वाङ्मनःकायकर्मभिः ।

स्वनुष्ठितैर्न मुक्तिः स्याज्ज्ञानादेव हि सा यतः ॥ ९९॥

तस्माच्च कारणादेतदप्युपपन्नम् ।

स्वमनोरथसंक्लृप्तप्रज्ञाध्मातधियामतः ।

श्रोत्रियेष्वेव वाचस्ताः शोभन्ते नात्मवेदिषु ॥ १००।

इति प्रथमोऽध्यायः ॥ १॥