नैषधीयचरितम् सर्गाः ६-१०

विकिस्रोतः तः

नैषधीयचरितम् सम्पूर्णम्

षष्ठ सर्गः[सम्पाद्यताम्]

दूत्याय दैत्यारिपतेः प्रवृत्तो
द्विषां निषेद्धा निषधप्रधानम् ।
स भीमभूमीपतिराजधानीं
लक्षीचकाराथ रथस्यदस्य ॥1॥
भैम्या समं नाजगणद्वियोगं
स दूतधर्मे स्थिरधीरधीराः ।
पयोधिपाने मुनिरन्तरायं
दुर्वारमप्यौर्वसिवौर्वशेयः ॥2॥
नलप्रणालीमिलदम्बुजाक्षी-
संवादपीयूषपिपासवस्ते ।
तदध्ववीक्षार्थमिवानिमेषा
देशस्य तस्याभरणीबभूवुः ॥3॥
तां कुण्डिनाख्यापदमात्रगुप्ताम्
इन्द्रस्य भूमेरमरावतीं सः ।
मनोरथः सिद्धिमिव क्षणेन
रथस्तदीयः पुरमाससाद ॥4॥
भैमीपदस्पर्शकृतार्थरथ्या
सेयं पुरीत्युत्कलिकाकुलस्ताम् ।
नृपौ निपीय क्षणमीक्षणाभ्यां
भृशं निराश्वास सुरैः क्षताशः ॥5॥
स्विद्यत्प्रमोदाश्रुलवेन वामं
रोमाञ्चभृत्पक्ष्मभिरस्य चक्षुः ।
अन्यत्पुनः कम्प्रमपि स्फुरत्त्वात्
तस्याः पुरः प्राप नवोपभोगम् ॥6॥
रथादसौ सारथिना सनाथा
द्राजावतीर्याथ पुरं विवेश ।
निर्गत्य बिम्बादिव भानवीयात्
सौधाकरं मण्डलमंशुसङ्घः ॥7॥
चित्रं तदा कुण्डिनवेशिनः सा
नलस्य मूर्तिर्ववृते न दृश्या ।
बभूव तच्चित्रतरं तथापि
विश्वैकदृश्यैव यदस्य मूर्तिः ॥8॥
जनैर्विदग्धैर्भवनैश्च मुग्धैः
पदे पदे विस्मयकल्पवल्लीम् ।
तां गाहमानास्य चिरं नलस्य
दृष्टिर्ययौ राजकुलातिथित्वम् ॥9॥
हेलां दधौ रक्षिजनेऽस्त्रसज्जे
लीनश्चरामीति हृदा ललज्जे ।
द्रक्ष्यामि भैमीमिति संतुतोष
दूतं विचिन्त्य स्वमसौ शुशोच ॥10॥
अथोपकार्याममरेन्द्रकार्यात्
कक्षासु रक्षाधिकृतैरदृष्टः ।
भैमीं दिदृक्षुर्बहु दिक्षु त्रक्षुः
दिशन्नसौ तामविशद्विशङ्कः ॥11॥
अयं क इत्यन्यनिवारकाणां
गिरा विभूर्द्वारि विभुज्य कण्ठम् ।
दृशं ददौ विस्मयनिस्तरङ्गां
स लङ्घितायामपि राजसिंहः ॥12॥
अन्तः पुरान्तः स विलोक्य बालां
कांचित्समालब्धुमसंवृतोरुम् ।
निमीलिताक्षः परया भ्रमन्त्या
संघट्टमासाद्य चमच्चकार ॥13॥
अनादिसर्गस्रजि वानुभूता
चित्रेषु वा भीमसुता नलेन ।
जातेव यद्वा जितशम्बरस्य
सा शाम्बरीशिल्पमलक्षि दिक्षु ॥14॥
अलीकभैमीसहदर्शनान्न
तस्यान्यकन्याप्सरसो रसाय ।
भैमीभ्रमस्यैव ततः प्रसादाद्
भैमीभ्रमस्तेन न तास्वलम्भि ॥15॥
भैमीनिराशे हृदि मन्मथेन
दत्तस्वहस्ताद्विरहाद्विहस्तः ।
स तामलीकामवलोक्य तत्र
क्षणादपश्यन्व्यषदद्विबुद्धः ॥16॥
प्रियां विकल्पोपहृतां स यावद्
दिगीशसंदेशमजल्पदल्पम् ।
अदृश्यवाग्भीषितभूरिभीरु-
भवो रवस्तावदचेतयत्तम् ॥17॥
पश्यन्स तस्मिन्मरुतापि तन्व्याः
स्तनौ परिस्प्रष्टुमिवास्तवस्त्रौ ।
अक्षान्तपक्षान्तमृगाङ्कमास्यं
दधार तिर्यग्वलितं विलक्षः ॥18॥
अन्तःपुरे विस्तृतवागुरोऽपि
बालावलीनां वलितैर्गुणौघैः ।
न कालसारं हरिणं तदक्षित्
वयं प्रभुर्बद्धुमभून्मनोभूः ॥19॥
दोर्मूलमालोक्य कचं रुरुत्सोः
ततः कुचौ तावनुलेपयन्त्याः ।
नाभीमथैष श्लथवाससोऽनु
मिमील दिक्षु क्रमकृष्टचक्षुः ॥20॥
मीलन्न शेकेऽभिमुखागताभ्यां
धर्तुं निपीड्य स्तनसान्तराभ्याम् ।
स्वाङ्गान्यपेतो विजगौ स पश्चात्
पुमङ्गसङ्गोत्पुलके पुनस्ते ॥21॥
निमीलनस्पष्टविलोकनाभ्यां
कदर्थितस्ताः कलयन्कटाक्षैः ।
स रागदर्शीव भृशं ललज्जे
स्वतः सतां ह्रीः परतोऽतिगुर्वी ॥22॥
रोमाञ्चिताङ्गीमनु तत्कटाक्षैः
भ्रान्तेन कान्तेन रतेर्निदिष्टः ।
मोघः शरौघः कुसुमानि नाभूत्
तद्धैर्यपूजां प्रति पर्यवस्यन् ॥23॥
हित्वैव वर्त्मैकमिह भ्रमन्त्याः
स्पर्शः स्त्रियाः सुत्यज इत्यवेत्य ।
चतुष्पथस्याभरणं बभूव
लोकावलोकाय सतां स दीपः ॥24॥
उद्वर्तयन्त्या हृदये निपत्य
नृपस्य दृष्टिर्न्यवृतद्द्रुतैव ।
वियोगिवैरात्कुचयोर्नखाङ्कैः
अर्धेन्दुलीलैर्गलहस्तेतेव ॥25॥
तन्वीमुखं द्रागधिगत्य चन्द्रं
वियोगिनस्तस्य मिमीलिताभ्याम् ।
द्वयं द्रढीयः कृतमीक्षणाभ्यां
तदिन्दुता च स्वसरोजता च ॥26॥
चतुष्पथे तं विनिमीलिताक्षं
चतुर्दिगेताः सुखमग्रहीष्यन् ।
संघट्टय तस्मिन्भृशभीनिवृतात्
तस्ता एव तद्वर्त्म न चेददास्यन् ॥27॥
संघट्टयन्त्यास्तरसात्मभूषा-
हीराङ्कुरप्रोतदुकूलहारी ।
दिशा नितम्बं परिधाप्य तन्व्याः
तत्पापसंतापमवाप भूपः ॥28॥
हतः कयाचित्पथि कन्दुकेन
संघट्ट्य भिन्नः करजैः कयापि ।
कयाचनाक्तः कुचकुङ्कुमेन
संभुक्तकल्पः स बभूव ताभिः ॥29॥
छायामयः प्रैक्षि कयापि हारे
निजे स गच्छन्नथ नेक्ष्यमाणः ।
तच्चिन्तयान्तर्निरचायि चारु
स्वस्यैव तन्व्या हृदयं प्रविष्टः ॥30॥
तच्छायसौन्दर्यनिपीतधैर्याः
प्रत्येकमालिङ्गदमू रतीशः ।
रतिप्रतिद्वन्द्वितमासु नूनं
नामूषु निर्णीतरतिः कथंचित् ॥31॥
तस्माददृश्यादपि नातिबिभ्युः
तच्छायरूपाहितमोहलोलाः ।
मन्यन्त एवादृतमन्मथाज्ञाः
प्राणानपि स्वान्सुदृशस्तृणानि ॥32॥
जागर्ति तच्छायदृशां पुरा यः
स्पृष्टे च तस्मिन्विससर्प कम्पः ।
द्रुते द्रुतं तत्पदशब्दभीत्या
स्वहस्तितश्चारुदृशां परं सः ॥33॥
उल्लास्यतां स्पृष्टनलाङ्गमङ्गं
तासां नलच्छायपिबाऽपि दृष्टिः ।
अश्मैव रत्यास्तदनर्ति पत्या
छेदेऽप्यबोधं यदहर्षि लोम ॥34॥
यस्मिन्नलस्पृष्टकमेत्य हृष्टा
भूयोऽपि तं देशमगान्मृगाक्षी ।
निपत्य तत्रास्य धरारजःस्थे
पादे प्रसीदेति शनैरवादीत् ॥35॥
भ्रमन्नमुष्यामुपकारिकायाम्
आयस्य भैमीविरहात्क्रशीयान् ।
असौ मुहुः सौधपरम्पराणां
व्यधत्त विश्रान्तिमधित्यकासु ॥36॥
उल्लिख्य हंसेन दले नलिन्याः
तस्मै यथादर्शि तथैव भैमी ।
तेनाभिलिख्योपहृतस्वहारा
कस्या न दृष्टाजनि विस्मयाय ॥37॥
कौमारगन्धीनि निवारयन्ती
वृत्तानि रोमावलिवेत्रचिह्ना ।
सालिख्य तेनैक्ष्यत यौवनीयद्
वःस्थामवस्थां परिचेतुकामा ॥38॥
पश्याः पुरंघ्रीः प्रात सान्द्रचन्द्र-
रजःकृतक्रीडकुमारचक्रे ।
चित्राणि चक्रेऽध्वनि चक्रवर्ति-
चिह्नं तदङ्घ्रिप्रतिमासु चक्रम् ॥39॥
तारुण्यपुण्यामवलोकयन्त्योः
अन्योन्यमेणेक्षणयोरभिख्याम् ।
मध्ये मुहूर्तं स बभूव गच्छन्
नाकस्मिकाच्छादनविस्मयाय ॥40॥
पुरःस्थितस्य क्वचिदस्य भूषा-
रत्नेषु नार्यः प्रतिबिम्बितानि ।
व्योमन्यदृश्येषु निजान्यपश्यन्
विस्मित्य विस्मित्य सहस्रकृत्वः ॥41॥
तस्मिन्विषज्यार्धपथात्तपातं
तदङ्गरागच्छुरितं निरीक्ष्य ।
विस्मेरतामापुरविस्मरन्त्यः
क्षिप्तं मिथः कन्दुकमिन्दुमुख्यः ॥42॥
पुंसि स्वभर्तृव्यतिरिक्तभूते
भूत्वाप्यनीक्षानियमव्रतिन्यः ।
छायासु रूपं भुवि वीक्ष्य तस्य
फलं दृशोरानशिरे महिष्यः ॥43॥
विलोक्य तच्छायमतर्कि ताभिः
पतिं प्रति स्वं वसुधापि धत्ते ।
यथा वयं किं मदनं तथैनं
त्रिनेत्रनेत्रानलकीलनीलम् ॥44॥
रूपं प्रतिच्छायिकयोपनीतम्
आलोकि ताभिर्यदि नाम कामम् ।
तथापि नालोकि तदस्य रूपं
हारिद्रभङ्गाय वितीर्णभङ्गम् ॥45॥
भवन्नदृश्यः प्रतिबिम्बदेह-
व्यूहं वितन्वन्मणिकुट्टिमेषु ।
पुरं परस्य प्रविशन्वियोगी
योगीव चित्रं स रराज राजा ॥46॥
पुमानिवास्पर्शि मया व्रजन्त्या
छाया मया पुंस इव व्यलोकि ।
ब्रुवन्निवातर्कि मयापि कश्चित्
इति स्म स स्त्रैणगिरः शृणोति ॥47॥
अम्बां प्रणत्योपनता नताङ्गी
नलेन भैमी पथि योगमाप ।
स भ्रान्तिभैमीषु न तां व्यविक्त
सा तं च नादृश्यतया ददर्श ॥48॥
प्रसूप्रसादाधिगता प्रसून-
माला नलस्योद्भ्रमवीक्षितस्य ।
क्षिप्तापि कण्ठाय तयोपकण्ठे
स्थितं तमालम्बत सत्यमेव ॥49॥
स्रग्वासनादृष्टजनप्रसादः
सत्येयमित्यद्भुतमाप भूपः ।
क्षिप्तामदृश्यत्वमितां च माला-
मालोक्य तां विस्मियते स्म बाला ॥50॥
अन्योन्यमन्यत्रवदीक्षमाणौ
परस्परेणाध्युषितेऽपि देशे ।
आलिङ्गितालीकपरस्परान्तः
तथ्यं मिथस्तौ परिषस्वजाते ॥51॥
स्पर्शे तमस्याधिगतापि भैमी
मेने पुनर्भ्रान्तिमदर्शनेन ।
नृपः स पश्यन्नपि तामुदीतः
तम्भो न धर्तुं सहसा शशाक ॥52॥
स्पर्शातिहर्षादृतसत्यमत्या
प्रवृत्य मिथ्याप्रतिलब्धबाधौ ।
पुनर्मिथस्तथ्यमपि स्पृशन्तौ
न श्रद्दधाते पथि तौ विमुग्धौ ॥53॥
सर्वत्र संवाद्यमबाधमानौ
रूपश्रियातिथ्यकरं परं तौ ।
न शेकतुः केलिरसाद्विरन्तु
मलीकमालोक्य परस्परं तु ॥54॥
परस्परस्पर्शरसोर्मिसेकात्
तयोः क्षणं चेतसि विप्रलम्भः ।
स्नेहातिदानादिव दीपिकार्चिः
निमिष्य किंचिद्द्वगुणं दिदीपे ॥55॥
वेश्माप सा धैर्यवियोगयोगाद्
बोधं च मोहं च मुहुर्दधाना ।
पुनः पुनस्तत्र पुरः स पश्यन्
बभ्रामतां सुभ्रुवमुद्भ्रमेण ॥56॥
पद्भ्यां नृपः संचरमाण एष
चिरं परिभ्रम्य कथंकथंचित् ।
विदर्भराजप्रभवाभिरामं
प्रासादमभ्रंकषमाससाद ॥57॥
सखीशतानां सरसैर्विलासैः
स्मरावरोधभ्रममावहन्तीम् ।
विलोकयामास सभां स भैम्याः
तस्य प्रतोलीमणिवेदिकायाम् ॥58॥
कण्ठः किमस्याः पिकवेणुवीणाः
तिस्रो जिताः सूचयति त्रिरेखः ।
इत्यन्तरस्तूयत यत्र कापि
नलेन बाला कलमालपन्ती ॥59॥
एतं नलं तं दमयन्ति ! पश्य
त्यजार्तिमित्यालिकुलप्रबोधान् ।
श्रुत्वा स नारीकरवर्तिसारी-
मुखात्स्वमाशङ्कत यत्र दृष्टम् ॥60॥
यत्रैकयालीकनलीकृताली
कण्ठे मृषाभीमभवीभवन्त्या ।
तदृक्पथे दौहदिकोपनीता
शालीनमाधायि मधूकमाला ॥61॥
चन्द्राभमाभ्रं तिलकं दधाना
तद्वन्निजास्येन्दुकृतानुबिम्बम् ।
सखीमुखे चन्द्रसमे ससर्ज
चन्द्रानवस्थामिव कापि यत्र ॥62॥
दलोदरे काञ्चनकेतकस्य
क्षणान्मसीभावुकवर्णलेखम् ।
तस्यैव यत्र स्वमनङ्गलेखं
लिलेख भैमी नखलेखिनीभिः ॥63॥
विलेखितुं भीमभुवो लिपीषु
सख्याऽतिविख्यातिभृतापि यत्र ।
अशाकि लीलाकमलं न पाणिः
अपारि कर्णोत्पलमक्षि नैव ॥64॥
भैमीमुपावीणयदेत्य यत्र
कलिप्रियस्य प्रियशिष्यवर्गः ।
गन्धर्ववध्वः स्वरमध्वरीण-
तत्कण्ठनालैकधुरीणवीणः ॥65॥
नावा स्मरः किं हरभीतिर्गुप्ते
पयोधरे खेलति कुम्भ एव ।
इत्यर्धचन्द्राभनखाङ्कचुम्बि-
कुचा सखी यत्र सखीभिरूचि ॥66॥
स्मराशुगीभूय विदर्भसुभ्रु-
वक्षो यदक्षभि खलु प्रसूनैः ।
स्रजं सृजन्त्या तदशोधि तेषु
यत्रैकया सूचिशिखां निखाय ॥67॥
स्मराशुगीभूय विदर्भसुभ्रू
वक्षो यदक्षोभि खलु प्रसूनैः ।
स्रजं सृजन्त्या तदशोधि तिषु
यत्रैकया सुचिशिखां निखाय ॥67॥
यत्रावदत्तामतिभीय भैमी
त्यज त्यजेदं सखि ! साहसिक्यम् ।
त्वमेव कृत्वा मदनाय दत्से
बाणान्प्रसूनानि गुणेन सज्जाम् ॥68॥
आलिख्य सख्याः कुचपत्रभङ्गी
मध्ये सुमध्या मकरीं करेण ।
यत्रालपत्तामिदमालि ! यानं
मन्ये त्वदेकावलिनाकनद्याः ॥69॥
तामेव सा यत्र जगाद भूयः
पयोधियादः कुचकुम्भयोस्ते ।
सेयं स्थिता तावकहृच्छयाङ्क-
प्रियास्तु विस्तारयशः प्रशस्तिः ॥70॥
शारीं चरन्तीं सखि ! मारयैताम्
इत्यक्षदाये कथिते कयापि ।
यत्र स्वघातभ्रमभीरुशारी-
काकूत्थसाकूतहसः स जज्ञे ॥71॥
भैमीसमीपे स निरीक्ष्य यत्र
ताम्बूलजाम्बूनदहंसलक्ष्मीम् ।
कृतप्रियादूत्यमहोपकारम्
अरालमोहद्रढिमानमूहे ॥72॥
तस्मिन्नियं सेति सखीसमाजे
नलस्य संदेहमथ व्युदस्यन् ।
अपृष्ट एव स्फुटमावचक्षे
स कोऽपि रूपातिशयः स्वयं ताम् ॥73॥
भैमीविनोदाय मुदा सखीभिः
तदाकृतीनां भुवि कल्पितानाम् ।
नातर्कि मध्ये स्फुटमप्युदीतं
तस्यानुबिम्बं मणिवेदिकायाम् ॥74॥
हुताशकीनाशजलेशदूतीः
निराकरिष्योः कृतकाकुयाच्ञाः ।
भैम्या वचोभिः स निजां तदाशां
न्यवर्तयद्दूरमपि प्रयाताम् ॥75॥
विज्ञप्तिमन्तः सभयः स भैम्या
मध्येसभं वासवसम्भलीयाम् ।
संभालयामास भृशं कृशाशः
तदालिवृन्दैरभिनन्द्यमानाम् ॥76॥
लिपिर्न दैवी सुपठा भुवीति
तुभ्यं मयि प्रेषितवाचिकस्य ।
इन्द्रस्य दूत्यां रचय प्रसादं
विज्ञापयन्त्यामवधानदानैः ॥77॥
सलीलमालिङ्गनयोपपीडम्
अनामयं पृच्छति वासवस्त्वाम् ।
शेषस्त्वदाश्लेषकथापनिद्रैः
तद्रोमभिः संदिदिशे भवत्यै ॥78॥
यः प्रेर्यमाणोऽपि हृदा मघोनः
त्वदर्थनायां ह्रियमापदागः ।
स्वयंवरस्थानजुषस्तमस्य
बधान कण्ठं वरणस्रजाशु ॥79॥
नैनं त्यज क्षीरधिमन्थनाद्यैः
अस्यानुजायोद्गमितामरैः श्रः ।
अस्मै विमथ्येक्षुरसोदमन्यां
श्राम्यन्तु नोत्थापयितुं श्रियं ते ॥80॥
लोकस्रजि द्यौर्दिवि चादितेया
अप्यादितेयेषु महान्महेन्द्रः ।
किंकर्तुमर्थी यदि सोऽपि रागाज्
जागर्ति कक्षा किमतः परापि ॥81॥
पदं शतेनाप मखैर्यदिन्द्रः
तस्मै स ते याचनचाटुकारः ।
कुरु प्रसादं तदलंकुरुष्व
स्वीकारकृद्भ्रूनटनश्रमेण ॥82॥
मन्दाकिनीनन्दनयोर्विहारे
देवे धवे देवरि माधवे च ।
श्रेयः श्रिया यातरि यच्च सख्यां
तच्चेतसा भविनि ! भावयस्व ॥83॥
रज्यस्व राज्ये जगतामितीन्द्रात्
याच्ञाप्रतिष्ठां लभसे त्वमेव ।
लघूकृतस्वं बलियाचनेन
तत्प्राप्तये वामनमामनन्ति ॥84॥
यानेव देवान्नमसि त्रिकालं
न तत्कृतघ्नीकृतिरौचिती ते ।
प्रसीद तानप्यनृणान्विधातुं
पतिष्यतस्त्वत्पदयोस्त्रिसंध्यम् ॥85॥
इत्युक्तवत्या निहितादरेण
भैम्या गृहीता मघवत्प्रसादः ।
स्रक्पारिजातस्य ऋते नलाशां
वासैरशेषामपुरूपदाशाम् ॥86॥
आर्ये ! विचार्यालमिहेति कापि
योग्यं सखि ! स्यादिति काचनापि ।
ओंकार एवोत्तरमस्तु वस्तु
मङ्गल्यमत्रेति च काप्यवोचात् ॥87॥
अनाश्रवा वः किमहं कदापि
वक्तुं विशेषः परमस्ति शेषः ।
इतीरिते भीमजया न दूतीम्
आलिङ्गदालीश्च मुदामियत्ता ॥88॥
भैमीं च दूत्यं च न किंचिदापम्
इति स्वयं भावयतो नलस्य ।
आलोकमात्राद्यदि तन्मुखेन्दोः
अभून्न भिन्नं हृदयारविन्दम् ॥89॥
ईषत्स्मितक्षालितसृक्विभागा
दृक्संज्ञया वारिततत्तदालिः ।
स्रजा नमस्कृत्य तयैव शक्रं
तां भीमभूरुत्तरयांचकार ॥90॥
स्तुतौ मघोनस्त्यज साहसिक्यं
वक्तुं कियत्तं यदि वेद वेदः ।
मृषोत्तरं साक्षिणि हृत्सु नॄणाम्
अज्ञातृविज्ञापि ममापि तस्मिन् ॥91॥
आज्ञां तदीयामनु कस्य नाम
नकारपारुष्यमुपैतु जिह्वा ।
प्रह्वा तु तां मूर्ध्नि विधाय मालां
बालापराध्यामि विशेषवाग्भिः ॥92॥
तपः फलत्वेन हरेः कृपेयमि-
मं तपस्येव जनं नियुङ्के ।
भवत्युपायं प्रति हि प्रवृत्ता-
वुपेयमाधुर्यमधैर्यसर्जि ॥93॥
शुश्रूषिताहे तदहं तमेव
पतिं मुदेऽपि व्रतसंपदेऽपि ।
विशेषलेशोऽयमदेवदेहमं-
शागतं तु क्षितिभृत्तयेह ॥94॥
अश्रौषमिन्द्रादरिणीर्गिरस्ते
सतीव्रतातिप्रतिलोमतीव्राः ।
स्वं प्रागहं प्रादिषि नामराय
किं नाम तस्मै मनसा नराय ॥95॥
तस्मिन्विमृश्यैव वृते हृदैषा
मैन्द्री दया मामनुतापिकाभूत् ।
निर्वातुकामं भवसंभवानां
धीरं सुखानामवधीरणेव ॥96॥
वर्षेषु यद्भारतमार्यधुर्याः
स्तुवन्ति गार्हस्थ्यमिवाश्रमेषु ।
तत्रास्मि पत्युर्वरिवस्ययेह
शर्मोर्मिकिर्मीरितधर्मलिप्सुः ॥97॥
स्वर्गे सतां शर्म परं न धर्मा
भ्रवन्तिं भूमाविह तच्च ते च ।
शक्या मखेनापि मुदोऽमराणां
कथं विहाय त्रयमेकमीहे ॥98॥
साधोरपि स्वः खलु गामिताधो
गमी स तु स्वर्गमितः प्रयाणे ।
इत्यायती चिन्तयतो हृदि द्वे
द्वयोरुदर्कः किमु शर्करे न ॥99॥
प्रक्षीण एवायुषि कर्मकृष्टे
नरान्न तिष्ठत्युपतिष्ठते यः ।
बुभुक्षते नाकमपथ्यकल्पं
धीरस्तमापातसुखोन्मुखं कः ॥100॥
इतीन्द्रदूत्याः प्रतिवाचमर्धे
प्रत्युह्य सैषाभिदधे वयस्याः ।
किंचिद्विवक्षोल्लसदोष्ठलक्ष्मी-
जितापनिद्रद्दलपङ्कजास्याः ॥101॥
अनादिधाविस्वपरम्पराया
हेतुस्रजः स्रोतसि वेश्वरे वा ।
आयत्तधीरेष जनस्तदार्याः !
किमीदृशः पर्यनुयोगयोग्यः ॥102॥
नित्यं नियत्या परवत्यशेषे
कः संविदानोऽप्यनुयोगयोग्यः ।
अचेतना सा च न वाचमर्हेद्
वक्ता तु वक्त्रश्रमकर्म भुङ्क्ते ॥103॥
क्रमेलकं निन्दति कोमलेच्छुः
क्रमेलकः कण्टकलम्पटस्तम् ।
प्रीतौ तयोरिष्टभुजोः समायां
मध्यस्थता नैकतरोपहासः ॥104॥
गुणा हरन्तोऽपि हरेर्नरं मे
न रोचमानं परिहापयन्ति ।
न लोकमालोकयथापवर्गा
त्रिवर्गमर्वाञ्चममुञ्चमानम् ॥105॥
आकीटमाकैटभवैरि तुल्यः
स्वाभीष्टलाभात्कृतकृत्यभावः ।
भिन्नस्पृहाणां प्रति चार्थमर्थं
द्विष्टत्वमिष्टत्वमपव्यवस्थम् ॥106॥
अध्वाग्रजाग्रन्निभृतापदन्धुः
बन्धुर्यदि स्यात्प्रतिबन्धुमर्हः ।
जोषं जनः कार्यविदस्तु वस्तु
प्रच्छया निजेच्छा पदवीं मुदस्तु ॥107॥
इत्थं प्रतीपोक्तिमतिं सखीनां
विलुप्य पाण्डित्यबलेन बाला ।
अपि श्रुतस्वर्पतिमन्त्रिसूक्तिं
दूतीं बभाषेऽद्भुतलोलमौलिम् ॥108॥
परेतभर्तुर्मनसेव दूतीं
नभस्वतेवानिलसख्यभाजः ।
त्रिस्रोतसेवाम्बुपतेस्तदाशु
स्थिरास्थमायातवतीं निरास्थम् ॥109॥
भूयोऽर्थमेनं यदि मां त्वमात्थ
तदा पदावालभसे मघोनः ।
सतीव्रतैस्तीव्रमिमं तु मन्तुम्
अन्तर्वरं वज्रिणि मार्जितास्मि ॥110॥
इत्थं पुनर्वागवकाशनाशान्
महेन्द्रदूत्यामपयातवत्याम् ।
विवेश लोलं हृदयं नलस्य
जीवः पुनः क्षीबमिव प्रबोधः ॥111॥
श्रवणपुटयुगेन स्वेन साधूपनीतं
दिगधिपकृपयाप्तादीदृशः संविधानात् ।
अलभत मधु बालारागवागुत्थमित्थं
नषधजनपदेन्द्रः पातुमानन्दसान्द्रम् ॥112॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं ममल्लदेवी च यम् ।
षष्ठः खण्डनखण्डतोऽपि सहजात्क्षोदक्षमे तन्महा-
काव्येऽयं व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वलः ॥113॥

सप्तमः सर्गः[सम्पाद्यताम्]

अथ प्रियासादनशीलनादौ
मनोरथः पल्लवितश्चिरं यः ।
विलोकनेनैव स राजपुत्र्याः
पत्या भुवः पूर्णवदभ्यमानि ॥1॥
प्रतिप्रतीकं प्रथमं प्रियायाम्
अथान्तरानन्दसुधासमुद्रे ।
ततः प्रमोदाश्रुपरम्पराणां
ममज्जतुस्तस्य दृशौ नृपस्य ॥2॥
ब्रह्माद्वयस्यान्वभवत्प्रमोदं
रोमाग्र एवाग्रनिरीक्षितेऽस्याः ।
यथौचितीत्थं तदशेषदृष्टा-
वथ स्मराद्वैतमुदं तथासौ ॥3॥
वेलामतिक्रम्य पृथुं मुखेन्दोः
आलोकपीयूषरसेन तस्याः ।
नलस्य रागाम्बुनिधौ विवृद्धे
तुङ्गौ कुचावाश्रयतः स्म दृष्टि ॥4॥
मग्ना सुधायां किमु तन्मुखेन्दोः
लग्ना स्थिता तत्कुचयाः किमन्तः ।
चिरेण तन्मध्यममुञ्चतास्य
दृष्टिः क्रशीयः स्खलनाद्भिया नु ॥5॥
प्रियाङ्गपान्था कुचयोर्निवृत्य
निवृत्य लोला नलदृग्भ्रमन्ती ।
बभौतमां तन्मृगनाभिलेप-
तमः समासादितदिग्भ्रमेव ॥6॥
विभ्रम्य तच्चारुनितम्बचक्रे
दूतस्य दृक्तस्य खलु स्खलन्ती ।
स्थिरा चिरादास्य तदूरुरम्भाः
तम्भावुपाश्लिष्य करेण गाढम् ॥7॥
वासः परं नेत्रमहं न नेत्रं
किमु त्वमालिङ्ग्य तन्मयापि ।
उरोनितम्बोपु कुरु प्रसादम्
इतीव सा तत्पदयोः पपात ॥8॥
दृशोर्यथाकाममथोपहृत्स
स प्रेयसीमालिकुलं च तस्याः ।
इदं प्रमोदाद्भुतसंभृतेन
महीमहेन्द्रो मनसा जगाद ॥9॥
पदे विधातुर्यदि मन्मथो वा
ममाभिषिच्येत मनोरथो वा ।
तदा घटेतापि न वा तदेतत्
प्रतिप्रतीकाद्भुतरूपशिल्पम् ॥10॥
तरङ्गिणी भूमिभृतः प्रभूता
जानामि श्रृङ्गाररसस्य सेयम् ।
लावण्यपूरोऽजनि यौवनेन
तस्यां तथोच्चैस्तनताघनेन ॥11॥
अस्यां वपुर्व्यूहविधानविद्यां
किं द्योतयामास नवां स कामः ।
प्रत्यङ्गसङ्गस्फुटलब्धभूमा
लावण्यसीमा यदिमामुपास्ते ॥12॥
जम्बालजालात्किमकर्षि जम्बू-
नद्या न हारिद्रनिभप्रभेयम् ।
अप्यङ्गयुग्मस्य न सङ्गचिह्नम्
उन्नीयते दन्तुरता यदत्र ॥13॥
सत्येव साम्ये सदृशादशेषाद्
गुणान्तरेणोच्चकृषे यदङ्गैः ।
अस्यास्ततः स्यात्तुलनापि नाम
वस्तु त्वमीषामुपमापमानः ॥14॥
पुराकृतिस्त्रैणमिमां विधातुम्
अभूद्विधातुः खलु हस्तलेखः ।
येयं भवद्भाविपुरंघ्निसृष्टिः
सास्यै यशस्तज्जयजं प्रदातुम् ॥15॥
भव्यानि हानीरगुरेतदङ्गाद्
यथा यथानर्ति तथा तथा तैः ।
अस्याधिकस्योपमयोपमाता
दाता प्रतिष्ठां खलु तेभ्य एव ॥16॥
नास्पर्शि दृष्टापि विमोहिकेयं
दोषैरशेषैः स्वभियेति मन्ये ।
अन्येषु तैराकुलितस्तदस्यां
वसत्यसापत्न्यसुखी गुणौघः ॥17॥
औज्झि प्रियाङ्गैर्घृणयैव रूक्षा
न वारिदुर्गात्तु वराटकस्य ।
न कण्टकैरावरणाच्च कान्तिः
धूलीभृता काञ्चनकेतकस्य ॥18॥
प्रत्यङ्गमस्यामभिकेन रक्षां
कर्तुं मघोनेव निजास्त्रमस्ति ।
वज्रं च भूषामणिमूर्तिधारि
नियोजितं तद्दयुतिकार्मुकं च ॥19॥
अस्याः सपक्षैकविधोः कचौघः
स्थाने मुखस्योपरि वासमाप ।
पक्षस्थतावद्बहुचन्द्रकोऽपि
कलापिनां येन जितः कलापः ॥20॥
अस्या यदास्येन पुरस्तिरश्च
तिरस्कृतं शीतरुचान्धकारम् ।
स्फुटस्फुटद्भङ्गिकचच्छलेन
तदेव पश्चादिदमस्ति बद्धम् ॥21॥
अस्याः कचानां शिखिनश्च किंनु
विधिं कलापौ विमतेरगाताम् ।
तेनायमेभिः किमपूजि पुष्पैः
भर्त्सि दत्त्वा स किमर्धचन्द्रम् ॥22॥
केशान्धकारादथ दृश्यभाल-
स्थललार्धचन्द्रा स्फुटमष्टमीयम् ।
एनां यदासाद्य जगज्जयाय
मनोभुवा सिद्धिरसाधि साधु ॥23॥
पौष्पं धनुः किं मदनस्य दाहे
श्यामीभवत्केसरशेषमासीत् ।
व्यधाद्द्विधेशस्तदपि क्रुधा किं
भैमीभ्रुवौ येन विधिर्यधत्त ॥24॥
भ्रूम्यां प्रियाया भवता मनोभू-
चापेन चापे घनसारभावः ।
निजां यदप्लोषदशामपेक्ष्य
संप्रत्यनेनाधिकवीर्यतार्जि ॥25॥
स्मारं धनुर्यद्विधुनोज्झितास्या
यास्येन भूतेन च लक्ष्मलेखा ।
एतद्भ्रुवौ जन्म तदाप युग्मं
लीलाचलत्वोचितबालभावम् ॥26॥
इषुत्रयेणैव जगत्त्रयस्य
विनिर्जयात्पुष्पमयाशुगेन ।
शेषा द्विबाणी सफलीकृतेयं
प्रियादृगम्भोजपदेऽभिषिच्य ॥27॥
सेयं मृदुः कौसुमचापयष्टिः
स्मरस्य मुष्टिग्रहणार्हमध्या ।
तनोति नः श्रीमदपाङ्गमुक्तां
मोहाय या दृष्टिशरौघवृष्टिम् ॥28॥
आघूर्णितं पक्ष्मलमक्षिपद्मं
प्रान्तद्युतिश्वैत्यजितामृतांशु ।
अस्या इवास्याश्चलदिन्द्रनील-
गोलामलश्यामलतारतारम् ॥29॥
कर्णोत्पलेनापि मुखं सनाथं
लभेत नेत्रद्युतिनिर्जितेन ।
यद्येतदीयेन ततः कृतार्था
स्वचक्षुषी किं कुरुते कुरङ्गी ॥30॥
त्वचः समुत्तार्य दलानि रीत्या
मोचात्वचः पञ्चषपाटनायाम् ।
सारौर्गृहीतैर्विधिरुत्पलौघात्
अस्यामभूदीक्षणरूपशिल्पी ॥31॥
चकोरनेत्रैणदृगुत्पलानां
निमेषयन्त्रेण किमेष कृष्टः ।
सारः सुधोद्गारमयः प्रयत्नैः
विधातुमेतन्नयने विधातुः ॥32॥
ऋणीकृता किं हरिणीभिरासीत्
अस्याः सकाशान्नयनद्वयश्रीः ।
भूयोगुणेयं सकला बलाद्यत्
ताभ्योऽनयाऽलभ्यत बिभ्यतीभ्यः ॥33॥
दृशौ किमस्याश्चपलस्वभावे
न दूरमाक्रम्य मिथो मिलेताम् ।
न चेत्कृतः स्यादनयोः प्रयाणे
विघ्नः श्रवः कूपनिपातभीत्या ॥34॥
केदारभाजा शिशिरप्रवेशात्
पुण्याय मन्ये मृतमुत्पलिन्या ।
जाता यतस्तत्कुसुमेक्षणेयं
यातश्च तत्कोरकदृक्चकोरः ॥35॥
नासादसीया तिलपुष्पतूणं
जगत्त्रयव्यस्तशरत्रयस्य ।
श्वासानिलामोदभरानुमेयां
दधद्द्विबाणीं कुसुमायुधस्य ॥36॥
बन्धूकबन्धूभवदेतदस्या
मुखेन्दुनानेन सहोज्जिहाना ।
रागश्रिया शैशवयौवनीयां
स्वमाह संध्यामधरोष्ठलेखा ॥37॥
अस्या मुखेन्दावधरः सुधाभू-
बिम्बस्य युक्तः प्रतिबिम्ब एषः ।
तस्याथ वा श्रीर्द्रुमभाजि देशे
संभाव्यमानास्य तु विद्रुमे सा ॥38॥
जानेऽतिरागादिदमेव बिम्बं
बिम्बस्य च व्यक्तमितोऽधरत्वम् ।
द्वयोर्विशेषावमाक्षमाणां
नाम्नि भ्रमोऽभूदनयोर्जनानाम् ॥39॥
मध्योपकण्ठावधरोष्ठभागौ
भातः किमप्युच्छृसितौ यदस्याः ।
तत्स्वप्नसंभोगवितीर्णदन्त-
दंशेन किं वा न मयापराद्धम् ॥40॥
विद्या विदर्भेन्द्रसुताधरोष्ठे
नृत्यन्ति कत्यन्तरभेदभाजः ।
इतीव रेखाभिरपश्रमस्ताः
संख्यातवान् कौतुकवान्विधाता ॥41॥
संभुज्यमानाद्य मया निशान्ते
स्वप्नेऽनुभूता मधुराधरेयम् ।
असीमलावण्यरदच्छदेत्थं
कथं मयैव प्रतिपद्यते वा ॥42॥
यदि प्रसादीकुरुते सुधांशोः
एषा सहस्रांशमपि स्मितस्य ।
तत्कौमुदीनां कुरुते तमेव
निमिच्छय देवः सफलं स जन्म ॥43॥
चन्द्राधिकैतन्मुखचन्द्रिकाणां
दरायतं तत्किरणाद्धनानाम् ।
पुरः सरस्रस्तपृषद्द्वितीयं
रदावलिद्वन्द्वति बिन्दुवृन्दम् ॥44॥
सेयं ममैतद्विरहार्तिमूर्च्छा
तमीविभातस्य विभाति संध्या ।
महेन्द्रकाष्ठागतरागकर्त्री
द्विजैरमीभिः समुपास्यमाना ॥45॥
राजौ द्विजानामिह राजदन्ताः
संबिभ्रति श्रोत्रियबिभ्रमं यत् ।
उद्वेगरागादिमृजावदाताः
चत्वार एते तदवैमि मुक्ताः ॥46॥
शिरीषकोषादपि कोमलाया
वेधा विधायाङ्गमशेषमस्याः ।
प्राप्तप्रकर्षः सुकुमारसर्गे
समापयद्वाचि मृदुत्वमुद्राम् ॥47॥
प्रसूनबाणाद्वयवादिनी सा
काचिद्द्विजेनोपनिषत्पिकेन ।
अस्याः किमास्यद्विजराजतो वा
नाधीयते भैक्षभुजा तरुभ्यः ॥48॥
पद्माङ्कसद्मानमवेक्ष्य लक्ष्मीम्
एकस्य विष्णोः श्रयणात्सपत्नीम् ।
आस्येन्दुमस्या भजते जिताब्जं
सरस्वती तद्विजिगीषया किम् ॥49॥
कण्ठे वसन्ती चतुरा यदस्याः
सरस्वती वादयते विपञ्चीम् ।
तदेव वाग्भूय मुखे मृगाक्ष्याः
श्रोतुः श्रुतौ याति सुधारसत्वम् ॥50॥
विलोकितास्या मुखमुन्नमय्य
किं वेधसेयं सुषमासमाप्तौ ।
धृत्युद्भवा यच्चिबुके चकास्ति
निम्ने मनागङ्गुलियन्त्रणेव ॥51॥
प्रियामुखीभूय सुखी सुधांशुः
जयत्ययं राहुभयव्ययेन ।
इमां दधाराधरबिम्बलीलां
तस्यैव बालं करचक्रवालम् ॥52॥
अस्या मुखस्यास्तु न पूर्णमास्यं
पूर्णस्य जित्वा महिमा हिमांशुम् ।
भ्रूलक्ष्म खण्डं दधदर्धमिन्दुः
भालस्तृतीयः खलु यस्य भागः ॥53॥
व्यधत्त धाता मुखपद्ममस्याः
सम्राजमम्भोजकुलेऽखिलेऽपि ।
सरोजराजौ सृजतोऽदसीयां
नेत्राभिधेयावत एव सेवाम् ॥54॥
दिवारजन्यो रविसोमभीते
चन्द्राम्बुजे निक्षिपतः स्वलक्ष्मीम् ।
आस्य यदास्या न तदा तयोः श्री-
एकश्रियेदं तु कदा न कान्तम् ॥55॥
अस्या मुखश्रीप्रतिबिम्बमेव
जलाच्च तातान्मुकुराच्च मित्रात् ।
अभ्यर्थ्य धत्तः खलु पद्मचन्द्रौ
विभूषणं याचितकं कदाचित् ॥56॥
अर्काय पत्ये खलु तिष्ठमाना
भृङ्गैर्मितामक्षिभिरम्बुकेलौ ।
भैमीमुखस्य श्रियमम्बुजिन्यो
याचन्ति विस्तारितपद्महस्ताः ॥57॥
अस्या मुखेनैव विजित्य नित्य-
स्पर्धी मिलत्कुङ्कुमरोषभासा ।
प्रसह्य चन्द्रः खलु नह्यमानः
स्यादेव तिष्ठत्परिवेषपाशः ॥58॥
विधोर्विधिर्बिम्बशतानि लोपं
लोपं कुहूरात्रिषु मासि मासि ।
अभङ्गुरश्रीकममुं किमस्या
मुखेन्दुमस्थापयदेकशेषम् ॥59॥
कपोलपत्रान्मकरात्सकेतुः
भ्रूम्यां जिगीषुर्धनुषा जगन्ति ।
इहावलम्ब्यास्ति रतिं मनोभू
रज्यद्वयस्यो मधुनाधरेण ॥60॥
वियोगबाष्पाञ्चितनेत्रपद्म-
च्छद्मार्पितोत्सर्गपयः प्रसूनौ ।
कर्णो किमस्या रतितत्पतिभ्यां
निवेद्यपूपौ विधिशिल्पमीदृक् ॥61॥
इहाविशद्येन पथातिवक्रः
शास्त्रौघनिष्यन्दसुधाप्रवाहः ।
सोऽस्याः श्रवः पत्रयुगे प्रणालि-
रेखेव धावत्यभिकर्णकूपम् ॥62॥
अस्या यदष्टादश संविभज्य
विद्याः श्रुती दध्रतुरर्धमर्धम् ।
कर्णान्तरुत्कीर्णगभीररेखः
किं तस्य संख्यैव नवा नवाङ्कः ॥63॥
मन्येऽमुना कर्णलतामयेन
पाशद्वयेन च्छिदुरेतरेण ।
एकाकिपाशं वरुणं विजिग्येऽ–
नङ्गीकृतायासतती रतीशः ॥64॥
आत्मैव तातस्य चतुर्भुजस्य
जातश्चतुर्दोरुचितः स्मरोऽपि ।
तच्चापयोः कर्णलते भ्रुवोर्ज्ये
वंशत्यगंशौ चिपिटे किमस्याः ॥65॥
ग्रीवाद्भुतैवावटुशोभितापि
प्रसाधिता माणवकेन सेयम् ।
आलिङ्ग्यतामप्यबलम्बमाना
सुरूपताभागखिलोर्ध्वकाया ॥66॥
कवित्वगानप्रियवादसत्यान्
यस्या विधाता व्यधिताधिकण्ठम् ।
रेखात्रयन्यासमिषादमीषां
वासाय सोऽयं विबभाज सीमाः ॥67॥
बाहू प्रियाया जयतां मृणालं
द्वन्द्वे जयो नाम न विस्मयोऽस्मिन् ।
उच्चैस्तु तच्चित्रममुष्य भग्नः
योलोक्यते निर्व्यथनं यदन्तः ॥68॥
अजीयतावर्तशुभंयुनाभ्यां
दोर्भ्यां मृणालं किमु कोमलाभ्याम् ।
निःसूत्रमास्ते घनपङ्कमृत्सु
मूर्तासु नाकीर्तिषु तन्निमग्नम् ॥69॥
रज्यन्नखस्याङ्गुलिपञ्चकस्य
मिषादसौ हैङ्गुलपद्मतूणे ।
हैमैकपुङ्खास्ति विशुद्धपर्वा
प्रियाकरे पञ्चशरी स्मरस्य ॥70॥
अस्याः करस्पर्धनगर्धनर्द्धिः
बालत्वमापत् खलु पल्लवो यः ।
भूयोऽपि नामाधरसाम्यगर्वं
कुर्वन्कथं वास्तु न स प्रवालः ॥71॥
अस्यैव सर्गाय भवत्करस्य
सरोजसृष्टिर्मम हस्तलेखः ।
इत्याह धाता हरिणेक्षणायां
किं हस्तलेखीकृतया तयाऽस्याम् ॥72॥
किं नर्मदाया मम सेयमस्या
दृश्याभितो बाहुलतामृणाली ।
कुचौ किमुत्तस्थतुरन्तरीये
स्मरोष्मशुष्यत्तरबाल्यवारः ॥73॥
तालं प्रभु स्यादनुकर्तुमेता
वुत्थानसुस्थौ पतितं न तावत् ।
परं च नाश्रित्य तरुं महान्तं
कुचौ कृशाङ्ग्याः स्वत एव तुङ्गौ ॥74॥
एतत्कुचस्पर्धितया घटस्य
ख्यातस्य शास्त्रेषु निदर्शनत्वम् ।
तस्माच्च शिल्पान्मणिकादिकारी
प्रसिद्धनामाजनि कुम्भकारः ॥75॥
गुच्छालयस्वच्छतमोदबिन्दु
वृन्दाभमुक्ताफलफेनिलाङ्के ।
माणिक्यहास्य विदर्भसुभ्रू
पयोधरे रोहति रोहितश्रीः ॥76॥
निःशङ्कसंकोचितपङ्कजोयम्
अस्यामुदीतो मुखमिन्दुबिम्बः ।
चित्रं तथापि स्तनकोकयुग्मं
न स्तोकमप्यञ्चति विप्रयोगम् ॥77॥
आभ्यां कुचाभ्यामिभकुम्भयोः श्री-
रादीयतेऽसावनयोर्न ताभ्याम् ।
भयेन गोपायितमौक्तिकौ तौ
प्रव्यक्तमुक्तभरणाविमौ यत् ॥78॥
कराग्रजाग्रच्छतकोटिरर्थी
ययोरिमौ तौ तुलयेत्कुचौ चेत् ।
सर्वं तदा श्रीफलमुन्मदिष्णु
जातं वटीमप्यधुना न लब्धुम् ॥79॥
स्तनावटे चन्दनपङ्किलेऽस्या
जातस्य यावद्युवमानसानाम् ।
हारावलीरत्नमयूखधारा-
काराः स्फुरन्ति स्खलनस्य रेखाः ॥80॥
क्षीणेन मध्येऽपि सतोदरेण
यत्प्राप्यते नाक्रमणं वलिभ्यः ।
सर्वाङ्गशुद्धौ तदनङ्गराज्य
विजृम्भितं भीमभुवीह चित्रम् ॥81॥
मध्यं तनूकृत्य यदीदमीयं
वेधा न दध्यात्कमनीयमंशम् ।
केन स्तनौ संप्रति यौवनेऽस्याः
सृजेदनन्यप्रतिमाङ्गयष्टेः ॥82॥
गौरीव पत्या सुभगा कदाचित्
कर्तेयमप्यर्धतनूसमस्याम् ।
इतीव मध्ये विदधे विधाता
रोमावलीमेचकसूत्रमस्याः ॥83॥
रोमावलीरज्जुमुरोजकुम्भौ
गम्भीरमासाद्य च नाभिकूपम् ।
सद्रष्टितृष्णा विरमेद्यदि स्यान्
नैषां बतैषा सिचयेन गुप्तिः ॥84॥
उन्मूलितालानविलाभनाभिः
छिन्नस्खलच्छृङ्खलरोमराजिः ।
मत्तस्य सेयं मदनद्विपस्य
प्रस्वापवप्रोच्चकुचास्तु वास्तु ॥85॥
रोमावलिभ्रूकुसुमैः स्वमौर्वी-
चापेषुभिर्मध्यललाटमूर्ध्नि ।
व्यस्तैरपि स्थास्नुभिरेतदीयै-
र्जैत्रः स चित्रं रतिजानिवीरः ॥86॥
पुष्पाणि बाणाः कुचमण्डनानि
भ्रुवौ धनुर्भालमलंकरिष्णु ।
रोमावली मध्यविभूषणं ज्या
तथापि जेता रतिजानिरेतैः ॥87॥
अस्याः खलु ग्रन्थिनिबद्धकेश-
मल्लीकदम्बप्रतिबिम्बवेषात् ।
स्मरप्रशस्ती रजताक्षरेयं
पृष्ठस्थलीहाटकपट्टिकायाम् ॥88॥
चक्रेण विश्वं युधि मत्स्यकेतुः
पितुर्जितं वीक्ष्य सुदर्शनेन ।
जगज्जिगीषत्यमुना नितम्बम्
अयेन किं दुर्लभदर्शनेन ॥89॥
रोमवलीदण्डनितम्बचक्रे
गुणं च लावण्यजलं च बाला ।
तारुण्यमूर्तेः कुचकुम्भकर्तुः
बिभर्ति शङ्केः सहकारिचक्रम् ॥90॥
अङ्गेन केनापि विजेतुमस्या
गवेष्यते किं चलपत्रपत्रम् ।
न चेद्विशेषादितरच्छदेभ्यः
तस्यास्तु काम्पस्तु कुतो भयेन ॥91॥
भ्रूश्चित्रलेखा च तिलोत्तमास्या
नासा च रम्भा च यदूरुसृष्टिः ।
दृष्टा ततः पूरयतीयमेकान्
एकाप्सरः प्रेक्षणकौतुकानि ॥92॥
रम्भापि किं चिह्नयति प्रकाण्डं
न चात्मनः स्वेन न चैतदूरु ।
स्वस्यैव येनोपरि सा ददाना
पत्राणि जागर्त्यनयोर्भ्रमेण ॥93॥
विधाय मूर्धानमदश्चरं चेन्-
मुञ्चेत्तपोभिः स्मरसामभावम् ।
जाड्यं च नाञ्चेत्कदली बलीयस्-
तदा यदि स्यादिदमूरुचारुः ॥94॥
ऊरुप्रकाण्डद्वितयेन तन्व्याः
करः पराजीयत वारणीयः ।
युक्तं ह्रिया कुण्डलनच्छलेन
गोपायति स्वं मुखपुष्करं सः ॥95॥
अस्यां मुनीनामपि मोहमूहे
भृगुर्महान्यत्कुचशैलशीली ।
नानारदाह्लादि मुखं श्रितोरुः
व्यासो महाभारतसर्गयोग्यः ॥96॥
क्रमाद्गता पीवरताधिजङ्घं
वृक्षाधिरूढं विदुषी किमस्याः ।
अपि भ्रमीभङ्गिभिरावृताङ्गं
वासो लतावेष्टितकप्रवीणम् ॥97॥
अरुन्धतीकामपुरंघ्रिलक्ष्मी-
जन्भद्विषद्दारनवाम्बिकानाम् ।
चतुर्दशीयं तदिहोचितैव
गुल्फद्वयाप्ता यददृश्यसिद्धिः ॥98॥
अस्याः पदौ चारुतया महान्ता-
वपेक्ष्य सौक्ष्म्याल्लवभावभाजः ।
जाता प्रवालस्य महीरुहाणां
जानीमहे पल्लवशब्दलब्धिः ॥99॥
जगद्वधूमूर्धसु रूपदर्पाद्
यदेतयादायि पदारविन्दम् ।
तत्सान्द्रसिन्दूरपरागरागैः
ध्रुवं प्रवालप्रबलारुणं तत् ॥100॥
रुषारुणा सर्वगुणैर्जयन्त्या
भैम्याः पदं श्रीः स्म विधेर्वृणीते ।
ध्रुवं स तामच्छलयद्यतः सा
भृशारुणैतत्पदभाग्विभाति ॥101॥
यानेन तन्व्या जितदन्तिनाथौ
पादाब्जराजौ परिशुद्धपार्ष्णी ।
जाने न शुश्रूषयितुं स्वमिच्छू
नतेन मूर्ध्ना कतरस्य राज्ञः ॥102॥
कर्णाक्षिदन्तच्छदबाहुपाणि-
पादादिनः स्वाखिलतुल्यजेतुः ।
उद्वेगभागद्वयताभिमाना-
दिहैव वेधा व्यधित द्वितीयम् ॥103॥
तुषारनिःशेषितमब्जसर्गं
विधातुकामस्य पुनर्विधातुः ।
पञ्चस्विहास्याङ्घ्रिकरेष्वभिख्या-
भिक्षाधुना माधुकरीसदृक्षा ॥104॥
एष्यन्ति यावद्गणनाद्दिगन्तान्
नृपाः स्मरार्ताः शरणे प्रवेष्टुम् ।
इमे पदाब्जे विधिनापि सृष्टाः
तावत्य एवाङ्गुलयोऽत्र लेखाः ॥105॥
प्रियानखीभूतवतो मुदेदं
व्यधाद्विधिः साधुदशत्वमिन्दोः ।
एतत्पदच्छद्मसरागपद्म-
सौभाग्यभाग्यं कथमन्यथा स्यात् ॥106॥
यशः पदाङ्गुष्ठनखौ मुखं च
बिभर्ति पूर्णेन्दुचतुष्टयं या ।
कला चतुःषष्टिरुपैतु वासं
तस्यां कथं सुभ्रुवि नाम नास्याम् ॥107॥
सृष्टातिविश्वा विधिनैव तावत्
तस्यापि नीतोपरि यौवनेन ।
वैदग्ध्यमध्याप्य मनोभुवेयम्
अवापिता वाक्पथपारमेव ॥108॥
इति स चिकुरादारभ्यैनां नखावधि वर्णयन्
हरिणरमणीनेत्रां चित्राम्बुधौ तरदन्तरः ।
हृदयभरणोद्वेलनन्दः सखीवृतभीमजा-
नयनविषयीभावे भावं दधार धराधिपः ॥109॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
गौडर्वीशकुलप्रशस्तिभणितिभ्रातर्ययं तन्महा-
काव्ये चारुणि वैरसेनिचरिते सर्गोऽगमत्सप्तमः ॥110 ॥
 

अष्टमः सर्गः[सम्पाद्यताम्]

अथाद्भुतेनास्तनिमेषमुद्रम्
उन्निद्रलोमानममुं युवानम् ।
दृशा परुस्ताः सुदृशः समस्ताः
सुता च भीमस्य महीमघोनः ॥1॥
कियच्चिरं दैवतभाषितानि
निह्नोतुमेनं प्रभवन्तु नाम ।
पलालजालैः पिहितः स्वयं हि
प्रकाशमासादयतीक्षुडिम्भः ॥2॥
अपाङ्गमप्याय दृशोर्न रश्मिः
नलस्य भैमीमभिलष्य यावत् ।
स्मराशुगः सुभ्रुवि तावदस्यां
प्रत्यङ्गमापुङ्खशिखं ममज्ज ॥3॥
यदक्रमं विक्रमशक्तिसाम्याद्
उपाचरद्द्वावपि पञ्चबाणः ।
कथं न वैमत्यममुष्य चक्रे
शरैरनर्धार्धविभागभाग्मिः ॥4॥
तस्मिन्नलोऽसाविति सान्वरज्यत्
क्षणं क्षणं क्वेह स इत्युदास्त ।
पुनः स्म तस्यां वलतेऽस्य चित्तं
दूत्यादनेनाथ पुनर्न्यवर्ति ॥5॥
कयाचिदालोक्य नलं ललज्जे
कयापि तद्भासि हृदा ममज्जे ।
तं कापि मेने स्मरमेव कन्या
भेजे मनोभूवशभूयमन्या ॥6॥
कस्त्वं कुतो वेति न जातु शेकुः
तं प्रष्टुमप्यप्रतिभातिभारात् ।
उत्तस्थुरभ्युत्थितिवाञ्छयेव
निजासनान्नैकरसाः कृशाङ्ग्यः ॥7॥
स्वाच्छन्द्यमानन्दपरंपराणां
भैमी तमालोक्य किमप्यवाप ।
महारयं निर्झरिणीव वाराम्
आसाद्य धाराधरकेलिकालम् ॥8॥
तत्रैव मग्ना यदपश्यदग्रे
नास्या दृगस्याङ्गमयास्यदन्यत् ।
नादास्यदस्यै यदि बुद्धिधारां
विच्छिद्य विच्छिद्य चिरान्निमेषः ॥9॥
दृशापि सालिङ्गितमङ्गमस्य
जग्राह नाग्रावगताङ्गहर्षैः ।
अङ्गान्तरेऽनन्तरमीक्षिते तु
निवृत्य सस्मार न पूर्वदृष्टम् ॥10॥
हित्वैकमस्यापघनं विशन्ती
तद्दृष्टिरङ्गान्तरभुक्तिसीमाम् ।
चिरं चकारोभयलाभलोभात्
स्वभावलोला गतमागतं च ॥11॥
निरीक्षितं चाङ्गमवीक्षितं च
दृशा पिबन्ती रभसेन तस्य ।
समानमानन्दमियं दधाना
विवेद भेदं न विदर्भसुभ्रूः ॥12॥
सूक्ष्मे घने नैषधकेशपाशे
निपत्य निस्पन्दतरीभवद्भ्याम् ।
तस्यानुबन्धं न विमोच्य गन्तुम्
अपारि तल्लोचनखञ्जनाभ्याम् ॥13॥
भूलोकभर्तुर्मुखपाणिपाद-
पद्मैः परीरम्भमवाप्य तस्य ।
दमस्वसुर्दृष्टिसरोजराजिः
चिरं न तत्याज सबन्धुबन्धम् ॥14॥
तत्कालमानन्दमयी भवन्ती
भवत्तरानिर्वचनीयमोहा ।
सा मुक्तसंसारिदशारसाभ्यां
द्विस्वादमुल्लासमभुङ्क्त मिष्टम् ॥15॥
दूते नलश्रीभृति भाविभावा
कलङ्किनीयं जनि मेति नूनम् ।
न संव्यधान्नैषधकायमायं
विधिः स्वयंदूतमिमां प्रतीन्द्रम् ॥16॥
पुण्ये मनः कस्य मुनेरपि स्यात्
प्रमाणमास्ते यदधेऽपि धावत् ।
तच्चिन्ति चित्तं परमेश्वरस्तु
भक्तस्य हृष्यत्करुणो रुणद्धि ॥17॥
सालीकदृष्टे मदनोन्मदिष्णुः
यथाप शालीनतमा न मौनम् ।
तथैव तथ्येऽपि नले न लेभे
मुग्धेषु कः सत्यमृषाविवेकः ॥18॥
व्यर्थीभवद्भावपिधानयत्ना
स्वरेण साथ श्लथगद्गदेन ।
सखीचये साध्वसबद्धवाचि
स्वयं तमूचे नमदाननेन्दुः ॥19॥
नत्वा शिरोरत्नरुचापि पाद्यं
संपाद्यमाचारविदातिथिभ्यः ।
प्रियाक्षरालीरसधारयापि
वैधी विधेया मधुपर्कतृप्तिः ॥20॥
स्वात्मापि शीलेन तृणं विधेयं
देया विहायासनभूर्निजापि ।
आनन्दबाष्पैरपि कल्प्यमम्भः
पृच्छा विधेया मधुभिर्वचोभिः ॥21॥
पदोपहारेऽनुपनम्रतापि
संभाव्यतेऽपां त्वरयापराधः ।
तत्कर्तुमर्हाञ्जलिसञ्जनेन
स्वसंभृतिः प्राञ्जलतापि तावत् ॥22॥
पुरा परित्यज्य मयात्यसर्जि
स्वमासनं तत्किमिति क्षणं न ।
अनर्हमप्येतदलंक्रियेत
प्रयातुमीहा यदि चान्यतोऽपि ॥23॥
निवेद्यतां हन्त समापयन्तौ
शिरीषकोषभ्रदिमाभिमानम् ।
पादौ कियद्दूरमिमौ प्रयासे
निधित्सते तुच्छदयं मनस्ते ॥24॥
अनायि देशः कतमस्त्वयाद्य
वसन्तमुक्तस्य दशां वनस्य ।
त्वदाप्तसंकेततया कृतार्था
श्रव्यापि नानेन जनेन संज्ञा ॥25॥
तीर्णः किमर्णोनिधिरेव नैष
सुरक्षितेऽभूदिह यत्प्रवेशः ।
फलं किमेतस्य तु साहसस्य
न तावदद्यापि विनिश्चिनोमि ॥26॥
तव प्रवेशे सुकृतानि हेतुः
मन्ये मदक्ष्णोरपि तावदत्र ।
न लक्षितो रक्षिभटैर्यदाभ्यां
पीतोऽसि तन्वा जितपुष्पधन्वा ॥27॥
यथाकृतिः काचन ते यथा वा
दौवारिकान्धंकरणी च शक्तिः ।
रुच्यो रुचीभिर्जितकाञ्चनीभिः
तथासि पीयूषभुजां सनाभिः ॥28॥
न मन्मथस्त्वं स हि नास्तिमूर्तिः
न चाश्विनेयः स हि नाद्वितीयः ।
चिह्नैः किमन्यैरथवा तवेयं
श्रीरेव ताभ्यामधिको विशेषः ॥29॥
आलोकतृप्तीकृतलोक ! यस्त्वाम्
असूत पीयूषमयूखमेनम् ।
कः स्पर्धितुं धावति साधु सार्धम्
उदन्वता नन्वयमन्ववायः ॥30॥
भूयोऽपि बाला नलसुन्दरं तं
मत्वामरं रक्षिजनाक्षिबन्धात् ।
आतिथ्यचाटून्यपदिश्य तत्स्थां
श्रियं प्रियस्यास्तुत वस्तुतः सा ॥31॥
वाग्जन्मवैफल्यमसह्यशल्यं
गुणाद्भुते वस्तुनि मौनिता चेत् ।
खलत्वमल्पीयसि जल्पितेऽपि
तदस्तु बन्दिभ्रमभूमितैव ॥32॥
कंदर्प एवेदमविन्दत त्वां
पुण्येन मन्ये पुनरन्यजन्म ।
चण्डीशचण्डाक्षिहुताशकुण्डे
जुहाव यन्मन्दिरमिन्द्रियाणाम् ॥33॥
शोभायशोभिर्जितशैवशैलं
करोपि लज्जागुरुमौलिमैलम् ।
दस्रौ हठश्रीहरणादुदस्रौ
कंदर्पमप्युज्झितरूपदर्पम् ॥34॥
अवैमि हंसावलयो वलक्षाः
त्वत्कान्तिकीर्तेश्चपलाः पुलाकाः ।
उड्डीय युक्तं पतिताः स्रवन्ती-
वेशन्तपूरं परितः प्लवन्ते ॥35॥
भवत्पदाङ्गुष्ठमपि श्रिता श्रीः
ध्रुवं न लब्धा कुसुमायुधेन ।
रतीशजेतुः खलु चिह्नमस्मिन्
नर्धेन्दुरास्ते नखवेषधारी ॥36॥
राजा द्विजानामनुमासभिन्नः
पूर्णां तनूकृत्य तनूं तपोभिः ।
कुहूषु दृश्येतरतां किमेत्य
सायुज्यमाप्नोति भवन्मुखस्य ॥37॥
कृत्वा दृशौ ते बहुवर्णचित्रे
किं कृष्णसारस्य तयोर्मृगस्य ।
अदूरजाग्रद्विदरप्रणाली-
रेखामयच्छद्विधिरर्धचन्द्रम् ॥38॥
मुग्धः स मोहात्सुभगान्न देहात्
ददद्भवद्भ्रूरचनाय चापम् ।
भ्रूमङ्गजेयस्तव यन्मनोभूः
अनेन रूपेण यदातदाभूत् ॥39॥
मृगस्य नेत्रद्वितयं तवास्ये
विधौ विधुत्वानुमितस्य दृश्यम् ।
तस्यैव चञ्चत्कचपाशवेषः
पुच्छ स्फुरच्चामरगुच्छ एषः ॥40॥
आस्तामनङ्गीकरणाद्भवेन
दृश्यः स्मरो नेति पुराणवाणी ।
तवैव देहं श्रितया श्रियेति
नवस्तु वस्तु प्रतिभाति वादः ॥41॥
त्वया जगत्युच्चितकान्तिसारे
यदिन्दुनाशीलि शिलोञ्छवृत्तिः ।
आरोपि तन्माणवकोऽपि मौलौ
स यज्वराज्येऽपि महेश्वरेण ॥42॥
आदेहदाहं कुसुमायुधस्य
विधाय सौन्दर्यकथादरिद्रम् ।
त्वदङ्गशिल्पात्पुनरीश्वरेण
चिरेण जाने जगदन्वकम्पि ॥43॥
मही कृतार्था यदि मानवोऽसि
जितं दिवा यद्यमरेषु कोऽपि ।
कुलं त्वयालंकृतमौरगं चेन्
नाधोऽपि कस्योपरि नागलोकः ॥44॥
सेयं न धत्तेऽनुपपत्तिमुच्चैः
मच्चित्तवृत्तिस्त्वयि चिन्त्यमाने ।
ममौ स भद्रं चुलुके समुद्रः
त्वयात्तगाम्भीर्यमहत्त्वमुद्रः ॥45॥
संसारसिन्धावनुबिम्बमत्र
जागर्ति जाने तव वैरसेनिः ।
बिम्बानुबिम्बौ हि विहाय धातुः
न जातु दृष्टातिसरूपसृष्टिः ॥46॥
इयत्कृतं केन महीजगत्याम्
अहो महीयः सुकृतं जनेन ।
पादौ यमुद्दिश्य तवापि पद्या-
रजःसु पद्मस्रजमारभेते ॥47॥
ब्रवीति मे किं किमियं न जाने
संदेहदोलामवलम्ब्य संवित् ।
कस्यापि धन्यस्य गृहातिथिस्त्व-
मलीकसंभावनयाथवालम् ॥48॥
प्राप्त्यैव तावत्तव रूपसृष्टिं
निपीय दृष्टिर्जनुषः फलं मे ।
अपि श्रुती नामृतमाद्रियेतां
तयोः प्रसादीकुरुषे गिरं चेत् ॥49॥
इत्थं मधूत्थं रसमुद्गिरन्ती
तदोष्ठबन्धूकधनुर्विसृष्टा ।
कर्णात्प्रसूनाशुगपञ्चबाणी
वाणीमिषेणास्य मनो विवेशः ॥50॥
अमज्जदाकण्ठमसौ सुधासु
प्रियं प्रियाया वचनं निपीय ।
द्विषन्मुखेऽपि स्वदते स्तुतिर्या
तन्मिष्टता नेष्टमुखे त्वमेया ॥51॥
पौरस्त्यशैलं जनतोपनीतां
गृह्णन् यथाह्नः पतिरर्घ्यपूजाम् ।
तथातिथेयीमथ संप्रतीच्छ
प्रियार्पितामासनमाससाद ॥52॥
अयोधि तद्धैर्यमनोभवाभ्यां
तामेव भैमीमवलम्ब्य भूमीम् ।
आह स्म यत्र स्मरचापमन्तः
छिन्नं भ्रुवो तज्जयभङ्गवार्ताम् ॥53॥
अथ स्मरज्ञामवधीर्य धैर्याद्
उचे स तद्वागुपवीणितोऽपि ।
विवेकधाराशतधौतमन्तः
सतां न कामः कलुषीकरोति ॥54॥
हरित्पतीनां सदसः प्रतीहि
त्वदीयमेवातिथिमागतं माम् ।
वहन्तमन्तर्गुरुणादरेण
प्राणानिव स्वःप्रभुवाचिकानि ॥55॥
विरम्यतां भूतवती सपर्या
निविश्यतामासनमुज्झितं किम् ।
या दूतता नः फलिना विधेया
सैवातिथेयी पृथुरुद्भवित्री ॥56॥
कल्याणि ! कल्यानि तवाङ्गकानि
कच्चित्तमां चित्तमनाविलं ते ।
अलं विलम्बेन गिरं मदीयाम्
आकर्णयाकर्णतटायताक्षि ! ॥57॥
कौमारमारभ्य गणा गुणानां
हरन्ति ते दिक्षु धृताधिपत्यान् ।
सुराधिराजं सलिलाधिपं च
हुताशनं चार्यमनन्दनं च ॥58॥
चरच्चिरं शैशवयौवनीयद्
वैराज्यभाजि त्वयि खेदमेति ।
तेषां रुचश्चौरतरेण चित्तं
पञ्चेषुणा लुण्ठितधैर्यवित्तम् ॥59॥
तेषामिदानीं किल केवलं सा
हृदि त्वदाशा विलसत्यजस्रम् ।
आशास्तु नासाद्य तनूरुदाराः
पूर्वादयः पूर्ववदात्मदाराः ॥60॥
अनेन सार्धं तव यौवनेन
कोटिं परामच्छिदुरोऽध्यरोहत् ।
प्रेमापि तन्वि ! त्वयि वासवस्य
गुणोऽपि चापे सुमनः शरस्य ॥61॥
प्राचीं प्रयाते विरहादयं ते
तापाच्च रूपाच्च शशाङ्कशङ्की ।
परापराधैर्निदधाति भानौ
रुषारुणं लोचनवृन्दमिन्द्रः ॥62॥
त्रिनेत्रमात्रेण रुषा कृतं यत्
तदेव योऽद्यापि न संवृणोति ।
न वेद रुष्टेऽद्य सहस्रनेत्रे
गन्ता स कामः खलु कामवस्थाम् ॥63॥
पिकस्य वाङ्मात्रकृताद्व्यलीकान्
नराधनं शीलति शूलिनोऽपि ॥64॥
तमोमयीकृत्य दिशः परागैः
स्मरेषवः शक्रदृशां दिशन्ति ।
कुहूगिरश्चञ्चुपुटं द्विजस्य
राकारजन्यामपि सत्यवाचम् ॥65॥
शरैः प्रसूनैस्तुदतः स्मरस्य
स्मर्तुं स किं नाशनिना करोति ।
अभेद्यमस्याहह वर्म न स्यात्
अनङ्गता चेद्गिरिशप्रसादः ॥66॥
धृताधृतेस्तस्य भवद्वियोगात्
अन्यान्यशय्यारचनाय लूनैः ।
अप्यन्यदारिद्र्यहराः प्रवालैः
जाता दरिद्रास्तरवोऽमराणाम् ॥67॥
रवैर्गुणास्फालभवैः स्मरस्य
स्वर्णाथकर्णौ बधिरावभूताम् ।
गुरोः श्रृणोति स्मरमोहनिद्रा-
प्रबोधदक्षाणि किमक्षराणि ॥68॥
अनङ्गतापप्रशमाय तस्य
कदर्थ्यमाना मुहुरामृणालम् ।
मधौ मधौ नाकमदीनलिन्यो
वरं वहन्तां शिशिरेऽनुरागम् ॥69॥
दमस्वसः ! सेयमुपैति तृष्णा
हरेर्जगत्यग्रिमलेख्यलक्ष्मीम् ।
दृशां यदब्धिस्तव नाम दृष्टि-
त्रिभागलोभार्तिमसौ बिभर्ति ॥70॥
अग्याहिता नित्यमुपासते यां
देदीप्यमानां तनुमष्टमूर्तेः ।
आशापतिस्ते दमयन्ति ! सोऽपि
स्मरेण दासीभवितुं न्यदेशि ॥71॥
त्वद्गोचरस्तं खलु पञ्चबाणः
करोति संताप्य तथा विनीतम् .
स्वयं यथा स्वादिततप्तभूयः
परं न संतापयिता स भूयः ॥72॥
अदाहि यस्तेन दशार्धबाणः
पुरा पुरारेर्नयनालयेन ।
न निर्दहस्तं भवदक्षिवासी
न वैरशुद्धेरधुनाधमर्णः ॥73॥
सोमाय कुप्यन्निव विप्रयुक्तः
स सोममाचामति हूयमानम् ।
नामापि जागर्ति हि यत्र रात्रोः
तेजस्विनस्तं कतमे सहन्ते ॥74॥
शरैरजस्रं कुसुमायुधस्य
कदर्थ्यमानस्तरुणि ! त्वदर्थे ।
अभ्यर्चयद्भिर्विनिवेद्यमानात्
अप्येष मन्ये कुसुमाद्बिभेति ॥75॥
स्मरेन्धने वक्षसि तेन दत्ता
संवर्तिका शैवलवल्लिचित्रा ।
चकास्ति चेतोभवपावकस्य
धूमाविला कीलपरम्परेव ॥76॥
पुत्री सुहृद्येन सरोरुहाणां
यत्प्रेयसी चन्दनवासिता दिक् ।
धैर्यं विभुः सोऽपि तवैव हेतोः
स्मरप्रतापज्वलने जुहाव ॥77॥
तं दह्यमानैरपि मन्मथैद्यं
हस्तैरुपास्ते मलयः प्रवालैः ।
कृच्छ्रेऽप्यसौ नोज्झति तस्य सेवां
सदा यदाशामवलम्बते यः ॥78॥
स्मरस्य कीर्त्येव सितीकृतानि
तद्दोःप्रतापैरिव तापितानि ।
अङ्गानि धत्ते स भवद्वियोगात्
पाण्डूनि चण्डज्वरजर्जराणि ॥79॥
यस्तन्वि ! भर्ता घुसृणेन सायं
दिशः समालम्भनकौतुकिन्याः ।
तदा स चेतः प्रजिघाय तुभ्यं
यदा गतो नैति निवृत्य पान्थः ॥80॥
तथा न तापाय पयोनिधीनाम्
अश्वामुखोत्थः क्षुधितः शिखावान् ।
निजः पतिः संप्रति वारिपोऽपि
यथा हृदिस्थः स्मरतापदुःस्थः ॥81॥
यत्प्रत्युत त्वन्मृदुबाहुवल्ली-
स्मृतिस्रजं गुम्फति दुर्विनीता ।
ततो विधत्तेऽधिकमेव तापं
तेन श्रिता शैत्यगुणा मृणाली ॥82॥
न्यस्तं ततस्तेन मृणालदण्ड-
खण्डं बभासे हृदि तापभाजि ।
तच्चित्तमग्नैर्मदनस्य बाणैः
कृतं शतच्छिद्रमिव क्षणेन ॥83॥
इति त्रिलोकीतिलकेषु तेषु
मनोभुवो विक्रमकामचारः ।
अमोघमस्त्रं भवतीमवाप्य
मदान्धतानर्गलचापलस्य ॥84॥
सारोत्थधारेव सुधारसस्य
स्वयंवरः श्वो भविता तवेति ।
संतर्पयन्ती दमयन्ति ! तेषां
श्रुतिः श्रुती नाकजुषामयासीत् ॥85॥
समं सपत्नीभवदुःखतीक्ष्णैः
स्वदारनासापथिकैर्मरुद्भिः ।
अनङ्गशौर्यानलतापदुःस्थैः
अथ प्रतस्थे हरितां मरुद्भिः ॥86॥
अपास्तपाथेपसुधोपयोगैः
त्वच्चुम्बिनैव स्वमनोरथेन ।
क्षुधं च निर्वापयता तृषं च
स्वादीयसाऽध्वा गमितः सुखं तैः ॥87॥
प्रिया मनोभूशरदावदाहे
देवीस्त्वदर्थेन निमज्जयद्भिः ।
सुरेषु सारैः क्रियतेऽधुना तैः
पादार्पणानुग्रहभूरियं भूः ॥88॥
अलंकृतासन्नमहीविभागैः
अयं जनस्तैरमरैर्भवत्याम् ।
अवापितो जङ्गमलैखलक्ष्मीं
निक्षिप्य संदेशमयाक्षराणि ॥89॥
एकैकमेते परिरभ्य पीन-
स्तनोपपीडं त्वयि संदिशन्ति ।
त्वं मूर्च्छतां नः स्मरभिल्लशल्यैः
मुदे विशल्यौषधिवल्लिरेधि ॥90॥
त्वत्कान्तिमस्माभिरयं पिपासन्
मनोरथाश्वासनयैकयैव ।
निजः कटाक्षः खलु विप्रलभ्यः
कियन्ति यावद्भण वासराणि ॥91॥
निजे स-जास्मासु भुजै भजन्त्या-
वादित्यवर्गे परिवेषवेषम् ।
प्रसीद निर्वापय तापमङ्गैः
अनङ्गलीलालहरीतुषारैः ॥92॥
दयस्व किं घातयसि त्वमस्मान्
अनङ्गचण्डालशरैरदृश्यैः ।
भिन्ना वरं तीक्ष्णकटाक्षबाणैः
प्रेमस्तव प्रेमरसात्पवित्रैः ॥93॥
त्वदर्थिनः सन्तु परस्सहस्राः
प्राणास्तु नस्त्वच्चरणप्रसादः ।
विशङ्कसे कैतवनर्तितं चेत्
अन्तश्चरः पञ्चशरः प्रमाणम् ॥94॥
अस्माकमध्यासितमेतदन्तः
तावद्भवत्या हृदयं चिराय ।
बहिस्त्वयालंक्रियतामिदानीम्
उरो मुरं विद्विषतः श्रियेव ॥95॥
दयोदयश्चेतसि चेत्तवाभूत्
अलंकुरु द्यां विफलो विलम्बः ।
भुवः स्वरादेशमथाचरामो
भूमौ धृतिं यासि यदि स्वभूमौ ॥96॥
धिनोति नास्माञ्जलजेन पूजा
त्वयान्वहं तन्वि ! वितन्यमाना ।
तव प्रसादोपनते तु मौलौ
पूजास्तु नस्त्वत्पदपङ्कजाभ्याम् ॥97॥
स्वर्णैर्वितीर्णैः करवाम वाम-
नेत्रे ! भवत्या किमुपासनासु ।
अङ्ग ! त्वदङ्गानि निपीतपीत-
दर्पाणि पाणिः खलु याचते नः ॥98॥
वयं कलादा इव दुर्विदग्धं
त्वद्गौरिमस्पर्धि दहेम हेम ।
प्रसूननाराचशरासनेन
सहैकवंशप्रभवभ्रु ! बभ्रु ॥99॥
सुधासरःसु त्वदनङ्गतापः
शान्तो न नः किं पुरप्यसरःसु ।
निर्वाति तु त्वन्ममताक्षरेण
सूनाशुगेषोर्मधुसीकरेण ॥100॥
खण्डः किमु त्वद्गिर एव खण्डः
किं शर्करा तत्पथशर्करैव ।
कृशाङ्गि ! तद्भङ्गिरसोत्थकच्छ-
तृणं नु दिक्षु प्रथितं तदिक्षुः ॥101॥
ददाम किं ते सुधयाऽधरेण
त्वदास्य एव स्वयमास्यते हि ।
चन्द्रं विजित्य स्वयमेव भावि
त्वदाननं तन्मखभागभोजि ॥102॥
प्रिये ! वृणीष्वामरभावमश्मत्
इति त्रपाकृद्वचनं न किं नः ।
त्वत्पादपद्मे शरणं प्रविश्य
स्वयं वयं येन जिजीविषामः ॥103॥
नास्माकमस्मान्मदनापमृत्योः
स्त्राणाय पीयूषरसायनानि ।
प्रसीद अस्मादधिकं निजं तु
प्रयच्छ पातुं रदनच्छदं नः ॥104॥
प्लुष्टः स्वैश्चापरोपैः सह स हि मकरेणात्मभूः केतुनाऽभू-
द्धत्तां नस्त्वत्प्रसादादथ मनसिजतां मानसो नन्दनः सन् ।
भ्रूभ्यां ते तन्वि ! धन्वी भवतु तव सितैर्जैत्रभल्लः स्मितैः स्ता
दस्तु त्वन्नेत्रचञ्चत्तरशफरयुगाधीनमीनध्वजाङ्कः ॥105॥
स्वप्नेन प्रापितायाः प्रतिरजनि तव श्रीषु मग्नः कटाक्षः
श्रोत्रे गीतामृताब्धौ त्वगपि ननु तनूमञ्जरीसौकुमार्ये ।
नासा श्वासाधिवासेऽधरमधुनि रसज्ञा चरित्रेषु चित्तं
तन्नस्तन्वङ्गि ! कैश्चिन्न करणहरिणैर्वागुरा लङ्घितासि ॥106॥
इति धृतसुरसार्थवाचिकस्रङ्गि
जरसनातलपत्रहारकस्य ।
सफलय मम दूततां वृणीष्व
स्वयमवधार्य दिगीशमेकमेषु ॥107॥
आनन्दयेन्द्रमथ मन्मथमग्नमग्निं
केलीभिरुद्धर तनूदरि ! नूतनाभिः ।
आसादयोदितदयं शमने मनो वा
नो वा यदीत्थमथ तद्वरुणं वृणीथाः ॥108॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तस्यागादयमष्टमः कविकुलादृष्टाध्वपान्थे महा-
काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥109॥

नवमः सर्गः[सम्पाद्यताम्]

इतीयमक्षिभ्रुवविभ्रमेङ्गित-
स्फुटामनिच्छां विवरीतुमुत्सुका ।
तदुक्तिमात्रश्रवणेच्छयाऽशृणोद्
दिगीशसंदेशगिरं न गौरवात् ॥1॥
तदर्पितामश्रुतवद्विधाय
तां दिगीशसंदेशमयीं सरस्वतीम् ।
इदं तमुर्वीतलशीतलद्युतिं
जगाद वैदर्भनरेन्द्रनन्दिनी ॥2॥
मयाङ्ग ! पृष्टः कुलनामनी भवान्
अमू विमुच्यैव किमन्यदुक्तवान् ।
न मह्यमत्रोत्तरधारयस्य किं
ह्रियेऽपि सेयं भवतोऽधमर्णता ॥3॥
अदृश्यमाना क्वचिदीक्षिता क्वचिन्
ममानुयोगे भवतः सरस्वती ।
क्वचित्प्रकाशां क्वचिदस्फुटार्णसं
सरस्वतीं जेतुमनाः सरस्वतीम् ॥4॥
गिरः श्रुता एव तव श्रवः सुधाः
श्लथा भवन्नाम्नि तु न श्रुतिस्पृहा ।
पिपासुता शान्तिमुपैति वारिजा
न जातु दुग्धान्मधुनोऽधिकादपि ॥5॥
बिभर्ति वंशः कतमस्तमोपहं
भवादृशं नायकरत्नमीदृशम् ।
तमन्यसामान्यधियावमानितं
त्वया महान्तं बहु मन्तुमुत्सहे ॥6॥
इतीरयित्वा विरतां स तां पुनः
गिरानुजग्राहतरां नराधिपः ।
विरुत्य विश्रान्तवतीं तपात्यये
घनाघनश्चातकमण्डलीमिव ॥7॥
अये ! ममोदासितमेव जिह्वया
द्वयेऽपि तस्मिन्ननतिप्रयोजने ।
गरौ गिरः पल्लवनार्थलाघवे
मितं च सारं च वचो हि वाग्मिता ॥8॥
वृथा कथेयं मयि वर्णपद्धतिः
कयानुपूर्व्या समकेति केति च ।
क्षमे समक्षव्यवहारमावयोः
पदे विधातुं खलु युष्मदस्मदी ॥9॥
यदि स्वभावान्मम नोज्ज्वलं कुलं
ततस्तदुद्भावनमौचिती कुतः ।
अथावदातं तदहो विडम्बना
तथा कथा प्रेष्यतयोपसेदुषः ॥10॥
इति प्रतीत्यैव मयावधीरिते
तवापि निर्बन्धरसो न शोभते ।
हरित्पतीनां प्रतिवाचिकं प्रति
श्रमो गिरां ते घटते हि संप्रति ॥11॥
तथापि निर्बन्धति ! तेऽथवा स्पृहाम्
इहानुरुन्धे मितया न किं गिरा ।
हिमांशुवंशस्य करीरमेव मां
निशम्य किं नासि फलेग्रहिग्रहा ॥12॥
महाजनावारपरम्परेदृशी
स्वनाम नामाददते न साधवः ।
अतोऽभिधातुं न तदुत्सहे पुनः
जनः किलाचारमुचं विगायति ॥13॥
अदोऽयमालप्य शिखीव शारदो
बभूव तूष्णीमहितापकारकः ।
अथास्यरागस्य दधा पदे पदे
वचांसि हंसीव विदर्भजाददे ॥14॥
सुधांशुवंशाभरणं भवानिति
श्रुतेऽपि नापैति विशेषसंशयः ।
कियत्सु मौनं वितता कियत्सु वाङ्-
महत्यहो वञ्चनचातुरी तव ॥15॥
मयापि देयं प्रतिवाचिकं न ते
स्वनाम मत्कर्णसुधामकुर्वते ।
परेण पुंसा हि ममापि संकथा
कुलाबलाचारसहासनासहा ॥16॥
हृदाभिनन्द्य प्रतिबन्द्यनुत्तरः
प्रियागिरः सस्मितमाह स स्म ताम् ।
वदामि वामाक्षि ! परेषु मा क्षिप
स्वमीदृशं माक्षिकमाक्षिपद्वचः ॥17॥
करोषि नेमं फलिनं मम श्रमं
दिशोऽनुगृह्णासि न कंचन प्रभुम् ।
त्वमित्थमर्हासि सुरानुपासितुं
रसामृतस्नानपवित्रया गिरा ॥18॥
सुरेषु संदेशयसीदृशीं बहुं
रसस्रवेण स्तिमितां न भारतीम् ।
मदर्पिता दर्पकतापितेषु या
प्रयाति दावार्दितदाववृष्टिताम् ॥19॥
यथा यथेह त्वदुपेक्षयानया
निमेषमप्येष जनो विलम्बते ।
रुषा शरव्यीकरणे दिवौकसां
तथा तथाद्य त्वरते रतेः पतिः ॥20॥
इयच्चिरस्यावदधन्ति मत्पथे
किमिन्द्रनेत्राण्यशनिर्न निर्ममौ ।
धिगस्तु मां सत्वरकार्यमन्थरं
स्थितः परप्रेष्यगुणोऽपि यत्र न ॥21॥
इदं निगद्य क्षितिभर्तरि स्थिते
तयाभ्यधायि स्वगतं विदग्धया ।
अधिस्त्रि तं दूतयतां भुवः स्मरं
मनो दधत्या नयनैपुणव्यये ॥22॥
जलाधिपस्त्वामदिशन्मयि ध्रुवं
परेतराजः प्रजिधाय स स्फुटम् ।
मरुत्वतैव प्रहितोऽसि निश्चितं
नियोजितश्चोर्ध्वमुखेन तेजसा ॥23॥
अथ प्रकाशं निभृतस्मिता सती
सतीकुलस्याभरणं किमप्यसौ ।
पुनस्तदाभाषणविभ्रमोन्मुखं
मुखं विदर्भाधिपसंभवा दधौ ॥24॥
वृथापरीहास इति प्रगल्भता
न नेति च त्वादृशि वाग्विगर्हणा ।
भवत्यवज्ञा च भवत्यनुत्तरात्
अतः प्रदित्सुः प्रतिवाचमस्मि ते ॥25॥
कथं नु तेषां कृपयापि वागसा-
वसावि मानुष्यकलाञ्छने जने ।
स्वभावभक्तिप्रवणं प्रतीश्वराः
कया न वाचा मुदमुद्गिरन्ति वा ॥26॥
अहो महेन्द्रस्य कथं मयौचिती
सुराङ्गनासंगमशोभिताभृतः ।
ह्रदस्य हंसावलिमांसलश्रियो
बलाकयेव प्रबला विडम्बना ॥27॥
पुरः सुरीणां भण केव मानवी
न यत्र तास्तत्र तु शोभिकापि सा ।
अकाञ्चनेऽकिंचन नायिकाङ्गके
किमारकूटाभरणेन न श्रियः ॥28॥
यथा तथा नाम गिरः किरन्तु
ते श्रुती पुनर्मे बधिरे तदक्षरे ।
पृषत्किशारी कुरुतामसंगतां
कथं मनोवृत्तिमपि द्विपाधिपे ॥29॥
अदो निगद्यैव नतास्यया तया
श्रुतौ लगित्वाभिहितालिरालपत् ।
प्रविश्य यन्मे हृदयं ह्रियाह तद्
विनिर्यदाकर्णय मन्मुखाध्वना ॥30॥
बिभेमि चिन्तामपि कर्तुमीदृशीं
चिराय चित्तार्पितनैषधेश्वरा ।
मृणालतन्तुच्छिदुरा सतीस्थितिः
लवादपि त्रुट्यति चापलात्किल ॥31॥
ममाशयः स्वप्नदशाज्ञयापि वा
नलं विलङ्घ्येतरमस्पृशद्यदि ।
कुतः पुनस्तत्र समस्तसाक्षिणी
निजैव बुद्धिर्विबुधैर्न पृच्छ्यते ॥32॥
अपि स्वमस्वप्नमसूषुपन्नमी
परस्य दाराननवैतुमेव माम् ।
स्वयं दुरध्वार्णवनाविकाः कथं
स्पृशन्तु विज्ञाय हृदापि तादृशीम् ॥33॥
अनुग्रहः केवलमेष मादृशे
मनुष्यजन्मन्यपि यन्मनो जने ।
स चेद्विधेयस्तदमी तमेव मे
प्रसद्य भिक्षां वितरीतुमीशताम् ॥34॥
अपि द्रढीयः शृणु मत्प्रतिश्रुतं
स पीडयेत्पाणिमिमं न चेन्नृपः ।
हुताशनोद्बन्धनवारिकारितां
निजायुषस्तत्करवै स्ववैरिताम् ॥35॥
निषिद्धमप्याचरणीयमापदि
क्रिया सती नावति यत्र सर्वथा ।
घनाम्बुना राजपथे हि पिच्छिले
क्वचिद्बुधैरप्यपथेन गम्यते ॥36॥
स्त्रिया मया वाग्मिषु तेषु शक्यते
न जातु सम्यग्वितरीतुमुत्तरम् ।
तदत्र मद्भाषितसूत्रपद्धतौ
प्रबन्धृतास्तु प्रतिबन्धृता न ते ॥37॥
निरस्य दूतः स्म तथा विसर्जितः
प्रियोक्तिरप्याह कदुष्णमक्षरम् ।
कुतूहलेनेव मुहुः कुहूरवं
विडम्ब्य डिम्भेन पिकः प्रकोपितः ॥38॥
अहो मनस्त्वामनु तेऽपि तन्वते
त्वमप्यमीभ्यो विमुखीति कौतुकम् ।
क्व वा निधिर्निर्धनमेति किंच तं
स वाक्कवाटं घटयन्निरस्यते ॥39॥
सहाखिलस्त्रीषु वहेऽवहेलया
महेन्द्ररागाद्गुरुमादरं त्वयि ।
त्वमीदृशि श्रेयसि संमुखेऽपि तं
पराङ्मुखी चन्द्रमुखि ! न्यवीवृतः ॥40॥
दिवौकसं कामयते न मानवी
नवीनमश्रावि तवाननादिदम् ।
कथं न वा दुर्ग्रहदोष एष ते
हितेन सम्यग्गुरुणापि शाम्यते ॥41॥
अनुग्रहादेव दिवौकसां नरो
निरस्य मानुष्यकमेति दिव्यताम् ।
अयोविकारे स्वरितत्वमिष्यते
कुतोऽयसां सिद्धरसस्पृशामपि ॥42॥
हरिं परित्यज्य नलाभिलाषुका
न लज्जसे वा विदुषिब्रुवा कथम् ? ।
उपेक्षितेक्षोः करभाच्छमीरतात्
उरुं वदे त्वां करभोरु ! भोरिति ॥43॥
विहाय हा सर्वसुपर्वनायकं
त्वया धृतः किं नरसाधिमभ्रमः ।
मुखं विमुच्य श्वसितस्य धारया
वृथैव नासापथधावनश्रमः ॥44॥
तपोऽनले जुह्वति सूरयस्तनुः
दिवे फलायान्यजनुर्भविष्णवे ।
करे पुनः कर्षति सैव विह्वला
बलादिव त्वां बलसे न बालिशे ! ॥45॥
यदि स्वमुद्बन्धुमना विना नलं
भवेर्भवन्तीं हरिरन्तरिक्षगाम् ।
दिविस्थितानां प्रथितः पतिस्ततो
हरिष्यति न्याय्यमुपेक्षते हि कः ॥46॥
निवेक्ष्यसे यद्यनले नलोज्झिता
सुरे तदस्मिन्महती दया कृता ।
चिरादनेनार्थनयापि दुर्लभं
स्वयं त्वयैवाङ्ग ! यदङ्गमर्प्यते ॥47॥
जितं जितं तत्खलु पाशपाणिना
विना नलं वारि यदि प्रवेक्ष्यसि ।
तदा त्वदाख्यान्बहिरप्यसूनसौ
पयःपतिर्वक्षसि वक्ष्यतेतराम् ॥48॥
करिष्यसे यद्यत एव दूषणात्
उपायमन्यं विदुषी स्वमृत्यवे ।
प्रियातिथिः स्वेन गृहागता कथं
न धर्मराजं चरितार्थयिष्यसि ? ॥49॥
निषेधवेषो विधिरेष तेऽथवा
तवैव युक्ता खलु वाचि वक्रता ।
विजृम्भितं यस्य किल ध्वनेरिदं
विदग्धनारीवदनं तदाकरः ॥50॥
भ्रमामि ते भैमि ! सरस्वतीरस-
प्रवाहचक्रेषु निपत्य कत्यदः ।
त्रपामपाकृत्य मनाक्कुरु स्फुटं
कृतार्थनीयः कतमः सुरोत्तमः ॥51॥
मतः किमैरावतकुम्भकैतव-
प्रगल्भपीनस्तनदिग्धवस्तव ।
सहस्रनेत्रान्न पृथग्मते मम
त्वदङ्गलक्ष्मीमवगाहितुं क्षमः ॥52॥
प्रसीद तस्मै दमयन्ति ! संततं
त्वदङ्गसङ्गप्रभवैर्जगत्प्रभुः ।
पुलोमजालोचनतीक्ष्णकण्टकैः
तनुं घनामातनुतां स कण्टकैः ॥53॥
अबोधि तत्त्वं दहनेऽनुरज्यसे
स्वयं खलु क्षत्रियगोत्रजन्मनः ।
विना तमोजस्विनमन्यतः कथं
मनोरथस्ते वलते विलासिनि ! ॥54॥
त्वयैकसत्या तनुतापशङ्कया
ततो निवर्त्य न मनः कथंचन ।
हिमोपमा तस्य परीक्षणक्षणे
सतीषु वृत्तिः शतशो निरूपिता ॥55॥
स धर्मराजः खलु धर्मशीलया
त्वयास्ति चित्तातिथितामवापितः ।
ममापि साधुः प्रतिभात्ययं क्रमः
चकास्ति योग्येन हि योग्यसंगमः ॥56॥
अजातविच्छेदलवैः स्मरोद्भवैः
अगस्त्यभासा दिशि निर्मलत्विषि ।
धुतावधिं कालममृत्युशङ्किता
निमेषवत्तेन नयस्व केलिभिः ॥57॥
शिरीषमृद्वी वरुणं किमीहसे
पयः प्रकृत्या मृदुवर्गवासवम् ।
विहाय सर्वान्वृणुते स्म किं न
सा निशापि शीतांशुमनेन हेतुना ॥58॥
असेवि यस्त्यक्तदिवा दिवानिशं
श्रियः प्रियेणानणुरामणीयकः ।
सहामुना तत्र पयःपयोनिधौ
कृशोदरि ! क्रीड यथामनोरथम् ॥59॥
इति स्फुटं तद्वचसस्तयादरात्
सुरस्पृहारोपविडम्बनादपि ।
कराङ्कसुप्तैककपोलकर्णया
श्रुतं च तद्भाषितमश्रुतं च तत् ॥60॥
चिरादनध्यायमवाङ्मुखी मुखे
ततः स्म सा वासयते दमस्वसा ।
कृतायतश्वासविमोक्षणाथ तं
क्षणाद्बभाषे करुणं विचक्षणा ॥61॥
विभिन्दता दुष्कृतिनीं मम श्रुतिं
दिगिन्द्रदुर्वाचिकसूचिसंचयैः ।
प्रयातजीवामिव मां प्रति स्फुटं
कृतं त्वयाप्यन्तकदूततोचितम् ॥62॥
त्वदास्यनिर्यन्मदलीकदुर्यशोम्
अषीमयं सल्लिपिरूपभागिव ।
श्रुतं ममाविश्य भवद्दुरक्षरं
सृजत्यदः कीटवदुत्कटा रुजः ॥63॥
तमालिरूचेऽथ विदर्भजेरिता
प्रगाढमौनव्रतयैकया सखी ।
त्रपां समाराधयतीयमन्यया
भवन्तमाह स्वरसज्ञया मया ॥64॥
तमर्चितुं मद्वरणस्रजा नृपं
स्वयंवरः संभविता परेद्यवि ।
ममासुभिर्गन्तुमनाः पुरः सरैः
तदन्तरायः पुनरेष वासरः ॥65॥
तदद्य विश्रम्य दयालुरेधि मे
दिनं निनीषामि भवद्विलोकिनी ।
नखैः किलाख्यायि विलिख्य पक्षिणा
तवैव रूपेण समः स मत्प्रियः ॥66॥
दृशोर्द्वयी ते विधिनास्ति वञ्चिता
मुखस्य लक्ष्मीं तव यन्न वीक्षते ।
असावपि श्वस्तदिमां नलानने
विलोक्य साफल्यमुपैतु जन्मनः ॥67॥
ममैव पाणौकरणेऽग्निसाक्षिकं
प्रसङ्गसंपादितमङ्ग ! संगतम् ।
न हा सहाधीतिधृतः स्पृहा कथं
तवार्यपुत्रीयमजर्यमर्जितुम् ? ॥68॥
दिगीश्वरार्थे न कथंचन त्वया
कदर्थनीयास्मि कृतोऽयमञ्जलिः ।
प्रसद्यतां नाद्य निगाद्यमीदृशं
दृशौ दधे बाष्परयास्पदे भृशम् ॥69॥
वृणे दिगीशानिति का कथा तथा
त्वयीति नेक्षे नलभामपीहया ।
सतीव्रतेऽग्नौ तृणयामि जीवितं
स्मरस्तु किं वस्तु तदस्तु भस्म यः ॥70॥
न्यवेशि रत्नत्रितये जिनेन यः
स धर्मचिन्तामणिरुज्झितो यया ।
कपालिकोपानलभस्मनः कृते
तदेव भस्म स्वकुले स्तृतं तया ॥71॥
निपीय पीयूषरसौरसीरसौ
गिरः स्वकंदर्पहुताशनाहुतीः ।
कृतान्तदूतं न तया यथोदितं
कृतान्तमेव स्वममन्यतादयम् ॥72॥
स भिन्नमर्मापि तदर्तिकाकुभिः
स्वदूतधर्मान्न विरन्तुमैहत ।
शनैरशंसन्निभृतं विनिश्वसन्
विचित्रवाक्चित्रशिखण्डिनन्दनः ॥73॥
दिवोधवस्त्वां यदि कल्पशाखिनं
कदापि याचेत निजाङ्गणालयम् ।
कथं भवेरस्य न जीवितेश्वरी
न मोघयाच्ञः स हि भीरु ! भूरुहः ॥74॥
शिखी विधाय त्वदवाप्तिकामनां
स्वयंहुतस्वांशहविः स्वमूर्तिषु ।
क्रतुं विधत्ते यदि सार्वकामिकं
कथं स मिथ्यास्तु विधिस्तु वैदिकः ॥75॥
सदा तदाशामधितिष्ठतः करं
वरं प्रदातुं चलिताद्बलादपि ।
मुनेरगस्त्याद्वृणुते स धर्मराड्
यदि त्वदाप्तिं भण का तदा गतिः ॥76॥
क्रतोः कृते जाग्रति वेत्ति कः कति
प्रभोरपां वेश्मनि कामधेनवः ? ।
त्वदर्थमेकामपि याचते स चेत्
प्रचेतसः पाणिगतैव वर्तसे ॥77॥
न संनिधात्री यदि विघ्नसिद्धये
पतिव्रता पत्युरनिच्छया शची ।
स एव राजव्रजवैशसात्कुतः
परस्परस्पर्धिवरः स्वयंवरः ? ॥78॥
निजस्य वृत्तान्तमजानतां मिथो
मुखस्य रोषात्परुषाणि जल्पतः ।
मृधं किमच्छत्रकदण्डताण्डवं
भुजाभुजि क्षोणिभुजां दिदृक्षसे ॥79॥
अपार्थयन्याजकफूत्कृतिश्रमं
ज्वलेद्रुषा चेद्वपुषा तु नानलः ।
अलं नलः कर्तुमनग्निसाक्षिकं
विधिं विवाहे तव सारसाक्षि ! कम् ? ॥80॥
पतिंवरायाः कुलजं वरस्य वा
यमः कमप्याचरितातिथिं यदि ।
कथं न गन्ता विफलीभविष्णुतां
स्वयंवरः साध्वि ! समृद्धिमानपि ? ॥81॥
अपः प्रति स्वामितयाऽपरः सुरः
स ता निषेधेद्यदि नैषधक्रुधा ।
नलाय लोभात्ततपाणयेऽपि ते
पिता कथं त्वां वद संप्रदास्यते ॥82॥
इदं महत्तेऽभिहितं हितं मया
विहाय मोहं दमयन्ति ! चिन्तय ।
सुरेषु विघ्नैकपरेषु को नरः
करस्थमप्यर्थमवाप्तुमीश्वरः ? ॥83॥
इमा गिरस्तस्य विचिन्त्य चेतसा
तथेति संप्रत्ययमाससाद सा ।
निवारितावग्रहनीरनिर्झरे
नभोनभस्यत्वमलम्भयदृशौ ॥84॥
स्फुटोत्पलाभ्यामलिदंपतीव तद्
विलोचनाभ्यां कुचकुङ्मलाशया ।
निपत्य बिन्दू हृदि कज्जलाविलौ
मणीव नीलौ तरलौ विरेजतुः ॥85॥
धुतापतत्पुष्पशिलीमुखाशुगैः
शुचेस्तदासीत्सरसी रसस्य सा ।
रयाय बद्धादरयाश्रुधारया
सनालनीलोत्पललीललोचना ॥86॥
अथोद्भ्रमन्ती रुदती गतक्षमा
ससंभ्रमा लुप्तरतिः स्खलन्मतिः ।
व्यधात्प्रियप्राप्तिविधातनिश्चयान्
मृदूनि दूना परिदेवतानि सा ॥87॥
त्वरस्व पञ्चेषुहुताशनात्मनः
तनुष्व मद्भस्ममयं यशश्चयम् ।
विधे ! परेहाफलभक्षणव्रती
पताद्य तृष्यन्नसुभिर्ममाफलैः ॥88॥
भृशं वियोगानलतप्यमान !
किं विलीयसे न त्वमयोमयं यदि ।
स्मरेषुभिर्भेद्य ! न वज्रमप्यसि
ब्रवीषि न स्वान्त ! कथं न दीर्यसे ॥89॥
विलम्बसे जीवित  ! किं द्रव द्रुतं
ज्वलत्यदस्ते हृदयं निकेतनम् ।
जहासि नाद्यापि मृषा सुखासिकाम्
अपूर्वमालस्यमिदं तवेदृशम् ॥90॥
दृशौ ! मृषा पातकिनो मनोरथाः
कथं पृथू वामपि विप्रलेभिरे ।
प्रियश्रियः प्रेक्षणघाति पातकं
स्वमश्रुभिः क्षालयतं शतं समाः ॥91॥
प्रियं न मृत्युं न लभे त्वदीप्सितं
तदेव न स्यान्मम यत्त्वमिच्छसि ।
वियोगमेवेच्छ मनः ! प्रियेण मे
तव प्रसादान्न भवत्वसौ मम ॥92॥
न काकुवाक्यैरतिवाममङ्गजं
द्विषत्सु याचे पवनं तु दक्षिणम् ।
दिशापि मद्भस्म किरत्वयं तया
प्रियो यया वैरविधिर्वधावधिः ॥93॥
अमूनि गच्छन्ति युगानि न क्षणः
कियत्सहिष्ये न हि मृत्युरस्ति मे ।
स मां न कान्तः स्फुटमन्तरुज्झिता
न तं मनस्तच्च न कायवायवः ॥94॥
मदुग्रतापव्ययशक्तशीकरः
सुराः ! स वः केन पपे कृपार्णवः ।
उदेति कोटिर्न मुदे मदुत्तमा
किमाशु संकल्पकणश्रमेण वः ॥95॥
ममैव वाहर्दिनमश्रुदुर्दिनैः
प्रसह्य वर्षासु ऋतौ प्रसञ्जिते ।
कथं नु शृण्वन्तु सुषुप्य देवता
भवत्वरण्येरुदितं न मे गिरः ॥96॥
इयं न ते नैषध ! दृक्पथातिथिः
त्वदेकतानस्य जनस्य यातना ।
ह्रदे ह्रदे हा न कियद्गवेषितः
स वेधसाऽगोपि खगोऽपि वक्ति यः ॥97॥
ममापि किं नो दयसे दयाघन !
त्वदङ्घ्रिमग्नं यदि वेत्थ मे मनः ।
निमज्जयन्संतमसे पराशयं
विधिस्तु वाच्यः क्व तवागसः कथा ? ॥98॥
कथावशेषं तव सा कृते गते-
त्युपैष्यति श्रोत्रपथं कथं न ते ? ।
दयाणुना मां समनुग्रहीप्यसे
तदापि तावद्यदि नाथ ! नाधुना ॥99॥
ममादरीदं विदरीतुमान्तरं
तदर्थिकल्पद्रुम ! किंचिदर्थये ।
भिदां हृदि द्वारमवाप्य मा स मे
हतासुभिः प्राणसमः समं गमः ॥100॥
इति प्रियाकाकुभिरुन्मिषन्भृशं
दिगीशदूत्येन हृदि स्थिरीकृतः ।
नृपं स योगेऽपि वियोगमन्मथः
क्षणं तमुद्भ्रान्तमजीजनत्पुनः ॥101॥
महेन्द्रदूत्यादि समस्तमात्मनः
ततः स विस्मृत्य मनोरथस्थितैः ।
क्रियाः प्रियाया ललितैः करम्बिता
वितर्कयन्नित्थमलीकमालपत् ॥102॥
अयि प्रिये ! कस्य कृते विलप्यते
विलिप्यते हा मुखमश्रुबिन्दुभिः ।
पुरस्त्वयालोकि नमन्नयं न किं
तिरश्चलल्लोचनलीलया नलः ॥103॥
चकास्ति बिन्दुच्युतकातिचातुरी
घनास्रुबिन्दुस्रुतिकैतवात्तव ।
मसारताराक्षि ! ससारमात्मना
तनोषि संसारमसंशयं यतः ॥104॥
अपास्तपाथोरुहि शायितं करे
करोषि लीलाकमलं किमाननम् ।
तनोषि हारं कियदस्रुणः स्रवैः
अदोषनिर्वासितभूषणे हृदि ॥105॥
दृशोरमङ्गल्यमिदं मिलज्जलं
करेण तावत्परिमार्जयामि ते ।
अथापराधं भवदङ्घ्रिपङ्कजद्
वयीरजोभिः सममात्ममौलिना ॥106॥
मम त्वदच्छाङ्घ्रिनखामृतद्युतेः
किरीमाणिक्यमयूखमञ्जरी ।
उपासनामस्य करोतु रोहिणी
त्यज त्यजाकारणरोषणे ! रुषम् ॥107॥
तनोषि मानं मयि चेन्मनागपि
त्वयि श्रये तद्बहुमानमानतः ।
विनम्य वक्रं यदि वर्तसे कियन्
नमामि ते चण्डि ! तदा पदावधि ॥108॥
प्रभुत्वभूम्नानुगृहाण वा न वा
प्रणाममात्राधिगमेऽपि कः श्रमः ? ॥109॥
स्मरेषुमाथं सहसे मृदुः कथं
हृदि द्रढीयः कुचसंवृते तव ।
निपत्य वैसारिणकेतनस्य वा
व्रजन्ति बाणा विमुखोत्पतिष्णुताम् ॥110॥
स्मितस्य संभावय सृक्वणा कणान्
विधेहि लीलाचलमञ्चलं भ्रुवः ।
अपाङ्गरथ्यापथिकीं च हेलया
प्रसद्य संधेहि दृशं ममोपरि ॥111॥
समापय प्रावृषमस्रुविप्नुषां
स्मितेन विश्राणय कौमुदीमुदः ।
दृशावितः खेलतु खञ्जनद्वयी
विकासि पङ्केरुहमस्तु ते मुखम् ॥112॥
सुधारसोद्वेलनकेलिमक्षर-
स्रजा सृजान्तर्मम कर्णकूपयोः ।
दृशौ मदीये मदिराक्षि ! कारय
स्मितश्रिया पायसपारणाविधिम् ॥113॥
ममासनार्धे भव मण्डनं न न
प्रिये ! मदुत्सङ्गविभूषणं भव ।
अहं भ्रमादालपमङ्ग ! मृष्यतां
विना ममोरः कतमत्तवासनम् ॥114॥
अधीतपञ्चाशुगबाणवञ्चने !
स्थिता मदन्तर्बहिरेषि चेदुरेः ।
स्मराशुगेभ्यो हृदयं बिभेतु न
प्रविश्य तत्त्वन्मयसंपुटे मम ॥115॥
परिष्वजस्वानवकाशबाणता
स्मरस्य लग्ने हृदयेद्वयेऽस्तु नौ ।
दृढा मम त्वत्कुचयोः कठोरयोः
उरस्तटीयं परिचारिकोचिता ॥116॥
तवाधराय स्पृहयामि यन्मधु-
स्रवैः श्रवः साक्षिकमाक्षिका गिरः ।
अधित्यकासु स्तनयोस्तनोतु ते
ममेन्दुलेखाभ्युदयाद्भ्रुतं नखः ॥117॥
न वर्तसे मन्मथनाटिका कथं
प्रकाशरोमावलिसूत्रधारिणी ।
तवाङ्गहारे रुचिमेति नायकः
शिखामणिश्च द्विजराड्विदूषकः ॥118॥
शुभाष्टवर्गस्त्वदनङ्गजन्मनः
तवाधरेऽलिख्यत यत्र लेखया ।
मदीयदन्तक्षतराजिरञ्जनैः
स भूर्जतामर्जतु बिम्बपाटलः ॥119॥
गिरानुकम्पस्व दयस्व चुम्बनैः
प्रसीद शुश्रूषयितुं मया कुचौ ।
निशेव चान्द्रस्य करोत्करस्य
यन्मम त्वमेकासि नलस्य जीवितम् ॥120॥
मुनिर्यथात्मानमथ प्रबोधवान्
प्रकाशयन्तं स्वमसावबुध्यत ।
अपि प्रपन्नां प्रकृतिं विलोक्य ताम्
अवाप्तसंस्कारतयासृजद्गिरः ॥121॥
अये ! मयात्मा किमनिह्नुतीकृतः
किमत्र मन्ता स तु मां शतक्रतुः ।
पुरः स्वभक्त्याथ नमन्ह्रियाविलो
विलोकिताहे न तदिङ्गितान्यपि ॥122॥
स्वनाम यन्नाम मुधाभ्यधामहो
महेन्द्रकार्ये महदेतदुज्झितम् ।
हनूमदाद्यैर्यशसा मया पुनर्द्विषां
हसैर्दूत्यपथः सितीकृतः ॥123॥
धियात्मनस्तावदचारु नाचरं
परस्तु तद्वेद स यद्वदिष्यति ।
जनावनायोद्यमिनं जनार्दनं
क्षये जगज्जीवपिबं शिवं वदन् ॥124॥
स्फुटत्पदः किं हृदयं त्रपाभराद्
यदस्य शुद्धिर्विबुधैर्विबुध्यताम् ।
विदन्तु ते तत्त्वमिदं तु दन्तुरं
जनानने कः करमर्पयिष्यति ॥125॥
मम श्रमश्चेतनयानया फली
बलीयसालोपि च सैव वेधसा ।
न वस्तु दैवस्वरसाद्विनाश्वरं
सुरेश्वरोऽपि प्रतिकर्तुमीश्वरः ॥126॥
इति स्वयं मोहमहोर्मिनिर्मितं
प्रकाशनं शोचति नैषधे निजम् ।
तथाव्यथामग्नतदुद्दिधीर्षया
दयालुरागाल्लघु हेमहंसराट् ॥127॥
नलं स तत्पक्षरवोर्ध्ववीक्षिणं
स एष पक्षीति भणन्तमभ्यधात् ।
नयादयैनामति मा निराशताम्
असून्विहातेयमतः परं परम् ॥128॥
सुरेषु पश्यन्निजसापराधताम्
इयत्प्रयस्यापि तदर्थसिद्धये ।
न कूटसाक्षीभवनोचितो भवान्
सतां हि चेतः शुचितात्मसाक्षिका ॥129॥
इतीरिणापृच्छय नलं विदर्भजाम्
अपि प्रयातेन खगेन सान्त्वितः ।
मृदुर्बभाषे भगिनीं दमस्य स
प्रणम्य चित्तेन हरित्पतीन्नृपः ॥130॥
ददेऽपि तुभ्यं कियतीः कदर्थनाः
सुरेषु रागप्रसवावकेशिनीः ।
अदम्भदूत्येन भजन्तु वा दयां
दिशन्तु वा दण्डममी ममागसा ॥131॥
अयोगजामन्वभवं न वेदनां
हिताय मेऽभूदियमुन्मदिष्णुता ।
उदेति दोषादपि दोषलाघवं
कृशत्वमज्ञानवशादिवैनसः ॥132॥
तवेत्ययोगस्मरपावकोऽपि मे
कदर्थनात्यर्थतयाऽगमद्दयाम् ।
प्रकाशमुन्माद्य यदद्य कारयन्
मयात्मनस्त्वामनुकम्पते स्म सः ॥133॥
अमी समीहैकपरास्तवामराः
स्वकिंकरं मामपि कर्तुमीशिषे
विचार्य कार्यं सृज मा विधान्मुधा
कृतानुतापस्त्वयि पार्ष्णिविग्रहम् ॥134॥
उदासितेनैव मयेदमुद्यसे
भिया न तेभ्यः स्मरतानवान्न वा ।
हितं यदि स्यान्मदसुव्ययेन ते
तदा तव प्रेमणि शुद्धिलब्धये ॥135॥
इतीरितैर्नैषधसूनृतामृतैः
विदर्भजन्मा भृशमुल्ललास सा ।
ऋतोरधिश्रीः शिशिरनुजन्मनः
पिकस्वरैर्दूरविकस्वरैर्यथा ॥136॥
नलं तदावेत्य तमाशये निजे
घृणां विगानं च मुमोच भीमजा ।
जुगुप्समाना हि मनो धृतं तदा
सतीधिया दैवतदूतधावि सा ॥137॥
मनोभुवस्ते भविनां मनः पिता
निमज्जयन्नेनसि तन्न लज्जसे ।
अमुद्रि सत्पुत्रकथा त्वयेति सा
स्थिता सती मन्मथनिन्दिनी धिया ॥138॥
प्रसूनमित्येव तदङ्गवर्णना
न सा विशेषात्कतमत्तदित्यभूत् ।
तदा कदम्बं तदवर्णि लोमभिः
मुदस्रुणा प्रावृषि हर्षमागतैः ॥139॥
मयैव संबोध्य नलं व्यलापि यत्
स्वमाह मद्बुद्धमिदं विमृश्य तत् ।
असाविति भ्रान्तिमसाद्दमस्वसुः
स्वभाषितस्वोद्भ्रमविभ्रमक्रमः ॥140॥
विदर्भराजप्रभवा ततः परं
त्रपासखी वक्तुमलं न वा नलम् ।
पुरस्तमूचेऽभिमुखं यदत्रपा
ममज्ज तेनैव महाह्रदे ह्रियः ॥141॥
यदापवार्यापि न दातुमुत्तरं
शशाक सख्याः श्रवसि प्रियस्व सा ।
विहस्य सख्येव तमव्रवीत्तदा
ह्रियाऽधुना मौनधना भवत्प्रिया ॥142॥
पदातिथेयाँल्लिखितस्य ते स्वयं
वितन्वती लोचननिर्झरानियम् ।
जगाद यां सैव मुखान्मम त्वया
प्रसूनवाणोपनिषन्निशम्यताम् ॥143॥
असंशयं स त्वयि हंस एव मां
शशंस न त्वद्विरहाप्तसंशयाम् ।
क्व चन्द्रवंशस्य वतंस ! मद्वधान्
नृशंसता संभविनी भवादृशे ॥144॥
जितस्तवयास्येन विधुः स्मरः श्रिया
कृतप्रतिज्ञौ मम तौ वधे कुतः ।
तवेति कृत्वा यदि तज्जितं मया
न मोघसङ्कल्पधराः किलामराः ॥145॥
निजांशुनिर्दग्धमदङ्गभस्मभिः
मुधा विधुर्वाञ्छति लाञ्छनोन्मृजाम् ।
त्वदास्यतां यास्यति तावतापि किं
वधूवधेनैव पुनः कलङ्कितः ॥146॥
प्रसीद यच्छ स्वशरान्मनोभुवे
स हन्तु मां तैर्धुतकौसुमाशुगः ।
त्वदेकचित्ताहमसून्विमुञ्चती
त्वमेव भूत्वा तृणवज्जयामि तम् ॥147॥
श्रुतिः सुराणां गुणगयनी यदि
त्वदङ्घ्रिमग्नस्य जनस्य किं ततः ।
स्तवे रवेरप्सु कृताप्लवैः कृते
न मुद्वती जातु भवेत्कुमुद्वती ॥148॥
कथासु शिष्यै वरमद्य न ध्रिये
ममावगन्तासि न भावमन्यथा ।
त्वदर्थमुक्तासुतया सुनाथ ! मां
प्रतीहि जावाभ्यधिक ! त्वदेकिकाम् ॥149॥
महेन्द्रहेतेरपि रक्षणं भयाद्
यदर्थिसाधारणमस्त्रभृद्द्रतम् ।
प्रसूनबाणादपि मामरक्षतः
क्षतं तदुच्चैरवकीर्णिनस्तव ॥150॥
तवास्मि मां धातुकमप्युपेक्षसे
मृषामरं हाऽमरगौरवात्स्मरम् ।
अवेहि चण्डालमनङ्गमङ्ग ! तं
स्वकाण्डकारस्य मघोः सखा हि सः ॥151॥
लघौ लघावेव पुरः परे बुधैः
विधेयमुत्तेजनमात्मतेजसः ।
तृणे तृणेढि ज्वलनः खलु ज्वलन्
क्रमात्करीषद्रुमकाण्डमण्डलम् ॥152॥
सुरापराधस्तव वा कियानयं
स्वयंवरायामनुकम्प्रता मयि ।
गिरापि वक्ष्यन्ति मखेषु तर्पणाद्
इदं न देवा मुखलज्जयैव ते ॥153॥
व्रजन्तु ते तेऽपि वरं स्वयंवरं
प्रसाद्य तानेव मया वरिष्यसे ।
न सर्वथा तानपि न स्पृशेद्दया
न तेऽपि तावन्मदनस्त्वमेव वा ॥154॥
इतीयमालेख्यगतेऽपि वीक्षिते
त्वयि स्मरव्रीडसमस्ययानया ।
पदे पदे मौनमयान्तरीपिणी
प्रवर्तिता सारघसारसारणी ॥155॥
चण्डालस्ते विषामविशिखः स्पृश्यते दृश्यते न
ख्यातोऽनङ्गस्त्वयि जयति यः किंनु कृत्ताङ्गुलीकः ।
कृत्वा मित्त्रं मधुमधिवनस्थानमन्तश्चरित्वा
सख्याः प्राणान्हरति हरितस्त्वद्यशस्तज्जुषन्ताम् ॥156॥
अथ भीमभुवैव रहोऽभिहितां
नतमौलिरपत्रपया स निजाम् ।
अमरैः सह राजसमाजगतिं
जगतीपतिरभ्युपगत्य ययौ ॥157॥
श्वस्तस्याः प्रियमाप्तुसुद्धुरधियो धाराः सृजन्त्या रया-
न्नम्रोन्नम्रकपोलपालिपुलकैर्वेतस्वतीरस्रुणः ।
चत्वारः प्रहराः स्मरार्तिभिरभूत्सापि क्षपा दुःक्षया
तत्तस्यां कृपयाखिलैव विधिना रात्रिस्त्रियामा कृता ॥158॥
तदखिलमिह भूतं भूतगत्या जगत्याः
पतिरभिलपति स्म स्वात्मदूतत्वतत्त्वम् ।
त्रिभुवनजनयावद्दृत्तवृत्तान्तसाक्षा-
त्कृतिकृतिषु निरस्तानन्दमिन्द्रादिषु द्राक् ॥159॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
संदृब्धार्णववर्णनस्य नवमस्तस्य व्यरंसीन्महा-
काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥160॥

दशमः सर्गः[सम्पाद्यताम्]

रथैरथायुः कुलजाः कुमाराः
शस्त्रेषु शास्त्रेषु च दृष्टपाराः ।
स्वयंवरं शंबरवैरिकाय-
व्यूहश्रियः श्रीजितयक्षराजाः ॥1॥
नाभूदभूमिः स्मरसायकानां
नासीदगन्ता कुलजः कुमारः ।
नास्थादपन्था धरणेः कणोऽपि
व्रजेषु राज्ञां युगपद्व्रजत्सु ॥2॥
योग्यैर्व्रजद्भिर्नृपजां वरीतुं
वीरैरनर्हैः प्रसभेन हर्तुम् ।
द्रष्टुं परैस्तान्परिकर्तुमन्यैः
स्वमात्रशेषाः ककुभो बभूवुः ॥3॥
लोकैरशेषैरविनिश्रियं ताम्
उद्दिश्य दिश्यैर्विहिते प्रयाणे ।
स्ववर्तितत्तज्जनयन्त्रणार्ति-
विश्रान्तिमायुः ककुभां विभागाः ॥4॥
तलं यथेयुर्न तिला विकीर्णाः
सैन्यैस्तथा राजपथा बभूवुः ।
भैमीं स लब्धामिव तत्र मेने
कः प्राप भूभृद्भवितुं पुरस्तात् ॥5॥
नृपः पुरस्थैः प्रतिबद्धवर्त्मा
पश्चात्तनैः कश्चन नुद्यमानः ।
यन्त्रस्थसिद्धार्थपदाभिषेकं
लब्ध्वाप्यसिद्धार्थममन्यत स्वम् ॥6॥
राज्ञां पथि स्त्यानतयानुपूर्व्या
विलङ्घनाशक्तिविलम्बभाजाम् ।
आह्वानसंज्ञानमिवाग्रकम्पै-
र्ददुर्विदर्भेन्द्रपुरीपताकाः ॥7॥
प्राग्भूय कर्कोटक आचकर्ष
सकम्बलं नागबलं यदुच्चैः ।
भुवस्तले कुण्डिनगामि राज्ञां
तद्वासुकेश्चाश्वतरोऽन्वगच्छत् ॥8॥
आगच्छदुर्विन्द्रचमूसमुत्थै-
र्भूरेणुभिः पाण्डुरिता मुखश्रीः ।
विस्पष्टमाचष्ट हरिद्वधूनां
रूपं पतित्यागदशानुरूपम् ॥9॥
आखण्डलो दण्डधरः कृशानुः
पाशीति नाथैः ककुभां चतुर्भिः ।
भैम्येव बद्ध्वा स्वगुणेन कृष्टैः
स्वयंवरे तत्र गतं न शेषैः ॥10॥
मन्त्रैः पुरं भीमपुरोहितस्य
तद्बद्धरक्षं विशति क्व रक्षः ।
तत्रोद्यमं दिक्पतिराततान
यातुं ततो जातु न यातुधानः ॥11॥
कर्तुं शशाकाभिमुखं न भैम्या
मृगं दृगम्भोरुहतर्जितम् यत् ।
अस्या विवाहाय ययौ विदर्भां-
स्तद्वाहनस्तेन न गन्धवाहः ॥12॥
जातौ न वित्ते न गुणे न कामः
सौन्दर्य एव प्रवणः स वामः ।
स्वच्छस्वशैलेक्षितकुत्सबेरः
तां प्रत्यगान्न स्त्रितमां कुबेरः ॥13॥
भमीविवाहं सहते स्म कस्माद्
अर्धं तनुर्या गिरिजात्मभर्तुः ।
तेनाव्रजन्त्या विदधे विदर्भा-
नीशानयानाय तयान्तरायः ॥14॥
स्वयंवरं भीमनरेन्द्रजाया
दिशः पतिन प्रविवेश शेषः ।
प्रयातु भारं स निवेश्य कस्मिन्-
नहिर्महीगौरवसासहिर्यः ॥15॥
ययौ विमृश्योर्ध्वदिशः पतिर्न
स्वयंवरं वीक्षितधर्मशास्त्रः ।
व्यलोकि लोके श्रुतिषु स्मृतौ वा
समं विवाहः क्व पितामहेन ॥16॥
भैमीनिरस्तं स्वमवेत्य दूती-
मुखात्किलेन्द्रप्रमुखा दिगीशाः ।
स्यदे मुखेन्दौ च वितत्य मान्द्यं
चित्तस्य ते राजसमाजमीयुः ॥17॥
नलभ्रमेणापि भजेत भैमी
कदाचिदस्मानिति शेषिताशा ।
भून्महेन्द्रादिचतुष्टयी सा
चतुर्नली काचिदलीकरूपा ॥18॥
प्रयस्यतां तद्भवितुं सुराणां
दृष्टेन पृष्टेन परस्परेण ।
नैवानुमेने नलसाम्यसिद्धिः
स्वाभाविकात्कृत्रिममन्यदेव ॥19॥
पूर्णेन्दुमास्यं विदधुः पुनस्ते
पुनर्मुखीचक्रुरनिद्रमब्जम् ।
स्ववक्त्रमादर्शतलेऽथ दर्शं
दर्शं बभञ्जुर्न तथातिमञ्जु ॥20॥
तेषां तदा लब्धुमनीश्वराणां
श्रियं निजास्येन नलाननस्य ।
नालं तरीतुं पुनरुक्तिदोषं
बर्हिर्मुखानामनलाननत्वम् ॥21॥
प्रियावियोगक्वथितादिवैला-
च्चन्द्राच्च राहुग्रहपीडितात्ते ।
ध्माताद्भवेन स्मरतोऽपि सारैः
स्वं कल्पयन्ति स्म नलानुकल्पम् ॥22॥
नलस्य पश्यत्वियदन्तरं
तैर्भैमीति भूपान्विधिराहृतास्यै ।
स्पर्धां दिगीशानपि कारयित्वा
तस्यैव तेभ्यः प्रथिमानमाख्यत् ॥23॥
सभा नलश्रीयमकैर्यमाद्यैः
नलं विनाभूद्धृतदिव्यरत्नैः ।
भामाङ्गणप्राधुणिके चतुर्भि-
र्देवद्रुमैर्द्यौरिव पारिजाते ॥24॥
तत्रागमद्वासुकिरीशभूषा
भस्मोपदेहस्फुटगौरदेहः ।
फणीन्द्रवृन्दप्रणिगद्यमान-
प्रसीदजीवाद्यनुजीविवादः ॥25॥
द्वीपान्तरेभ्यः पुटभेदनं तत्
क्षणादवापे सुरभूमिभूपैः ।
तत्कालमालम्बि न केन यूना
स्मरेषुपक्षानिलतूललीला ॥26॥
रम्येषु हर्म्येषु निवेशनेन
सपर्यया कुण्डिननाकनाथः ।
प्रियोक्तिदानादरनम्रताद्यै-
रुपाचरच्चारु स राजचक्रम् ॥27॥
चतुःसमुद्रीपरिखे नृपाणाम्
अन्तः पुरे वासितकीर्तिदारे ।
दानं दया सूनृतमातिथेयी
चतुष्टयी रक्षणसौविदल्ला ॥28॥
अभ्यागतैः कुण्डिनवासवस्य
परोक्षवृत्तेष्वपि तेषु तेषु ।
जिज्ञासितस्वेप्सितलाभलिङ्गं
स्वल्पोऽति नावापि नृपैर्विशेषः ॥29॥
अङ्के विदर्भेन्द्रपुरस्य शङ्के
न संममौ नैष तथा समाजः ।
यथा पयोराशिरगस्त्यहस्ते
यथा जगद्वा जठरे मुरारेः ॥30॥
पुरे पथि द्वारगृहाणि तत्र
चित्रीकृतान्युत्सववाञ्छयेव ।
नभोऽपि किर्मीरमकारि तेषां
महीभुजामाभरणप्रभाभिः ॥31॥
विलासवैदग्ध्यविभूषणश्री-
स्तेषां यथासीत्परिचारकेऽपि ।
अज्ञासिषुः स्त्रीशिशुबालिशास्तं
यथागतं नायकमेव कंचित् ॥32॥
न स्वेदिनश्चामरमारुतैर्न
निमेषनेत्राः प्रतिवस्तुचित्रैः ।
म्लानस्रजो नातपवारणेन
देवा नृदेवा बिभिदुर्न तत्र ॥33॥
अन्योन्यभाषानवबोधभीतेः
संस्कृत्रिमाभिर्व्यवहारवत्सु ।
दिग्भ्यः समेतेषु नृपेषु तेषु
सौवर्गवर्गो न जनैरचिह्नि ॥34॥
ते तत्र भैम्याश्चरितानि चित्रे
चित्राणि पौरैः पुरि लेखितानि ।
निरीक्ष्य निन्युर्दिवसं निशां च
तत्स्वप्नसंभोगकलाविलासैः ॥35॥
सा विभ्रमं स्वप्नगतापि तस्यां
निशि स्वलाभस्य ददे यदेभ्यः ।
तदर्थिनां भूमिभुजां वदान्या
सती सती पूरयति स्म कामम् ॥36॥
वैदर्भदूतानुनयोपहूतैः
शृङ्गारभङ्गीरनुभावयद्भिः ।
स्वयंवरस्थानजनाश्रयस्तै-
र्दिने परत्रालमकारि वीरैः ॥37॥
भूषाभिरुच्चैरपि संस्कृते यं
वीक्ष्याकृत प्राकृतबुद्धिमेव ।
प्रसूनबाणे विबुधाधिनाथ-
स्तेनाथ साऽशोभि सभा नलेन ॥38॥
धृताङ्गरागे कलितद्युशोभां
तस्मिन्सभां चुम्बति राजचन्द्रे ।
गता बताक्ष्णोर्विषयं विहाय
क्व क्षात्त्रनक्षत्त्रकुलस्य कान्तिः ॥39॥
द्राग्दृष्टयः क्षोणिभुजाममुष्मीन्
नाश्चर्यपर्युत्सुकिता निपेतुः ।
अनन्तरं दन्तुरितभ्रुवां तु
नितान्तमीर्ष्याकलुषा दृगन्ताः ॥40॥
सुधांशुरेषु प्रथमो भुवीति
स्मरो द्वितीयः किमसावितीमम् ।
दस्रस्तृतीयोऽयमिति क्षितीशाः
स्तुतिच्छलान्मत्सरिणो निनिन्दुः ॥41॥
आद्यं विधोर्जन्म स एष
भूमौ द्वैतं युवासौ रतिवल्लभस्य ।
नासत्ययोर्मूर्तितृतीयताय-
मिति स्तुतस्तैः कृतमत्सरैः सः ॥42॥
मायानलोदाहरणान्मिथस्तै-
रूचे समाः सन्त्यमुना कियन्तः ।
आत्मापकर्षे सति मत्सराणां
द्विषः परस्पर्धनया समाधिः ॥43॥
गुणेन केनापि जनेऽनवद्ये
दोषान्तरोक्तिः खलु तत्खलत्वम् ।
रूपेण तत्संसददूषितस्य
सुरैर्नरत्वं यददूषि तस्य ॥44॥
नलानसत्यानवदत्स सत्यः
कृतोपवेशान्सविधे सुवेषान् ।
नोभाविलाभूः किमु दर्पकश्च
भवन्ति नासत्ययुतौ भवन्तः ॥45॥
अमी तमीदृग्जगुरत्र मध्ये
कस्यापि नोत्पत्तिरभूदिलायाम् ।
अदर्पकाः स्मः सविधे स्थितास्ते
नासत्यतां नात्र बिभर्ति कश्चित् ॥46॥
तेभ्यः परान्नः परिकल्पयस्व
श्रिया विदूरीकृतकामदेवान् ।
अस्मिन्समाजे बहुषु भ्रमन्ती
भैमी किलास्मासु घटिष्यतेऽसौ ॥47॥
असाम यन्नाम तवेह रूपं
स्वेनाधिगत्य श्रितमुग्धभावाः ।
तन्नो धिगाशापतितान्नरेन्द्र
धिक्चेदमस्मद्विबुधत्वमस्तु ॥48॥
सा वागवाज्ञायितमां नलेन
तेषामनाशङ्कितवाक्छलेन ।
स्त्रीरत्नलाभोचितयत्नमग्न-
मेनं हि न स्म प्रतिभाति किंचित् ॥49॥
यः स्पर्धया येन निजप्रतिष्ठां
लिप्सुः स एवाह तदुन्नतत्वम् ।
कः स्पर्धितुः स्वाभिहितस्वहानेः
स्थानेऽवहेलां बहुलां न कुर्यात् ॥50॥
गीर्देवतागीतयशःप्रशस्तिः
श्रिया तडित्त्वल्ललिताभिनेता ।
मुदा तदाऽवैक्षत केशवस्तं
स्वयंवराडम्बरमम्बरस्थः ॥51॥
अष्टौ तदाष्टासु हरित्सु दृष्टीः
सदो दिदृक्षुर्निदिदेश देवः ।
लैङ्गीमदृष्ट्वापि शिरःश्रियं यो
दृष्टौ मृषावादितकेतकीकः ॥52॥
एकेन पर्यक्षिपदात्मनाद्रिं
चक्षुर्मुरारेरभवत्परेण ।
तैर्द्वादशात्मा दशभिस्तु शेषै-
र्दिशो दशालोकत लोकपूर्णाः ॥53॥
प्रदक्षिणं दैवतहर्म्यमद्रिं
सदैव कुर्वन्नपि शर्वरीशः ।
द्रष्टा महेन्द्रानुजदृष्टिमूर्त्या
न प्राप तद्दर्शनविघ्नतापम् ॥54॥
आलोकमाना वरलोकलक्ष्मीं
तात्कालिकीमप्सरसो रसोत्काः ।
जनाम्बुधौ यत्र निजाननानि
वितेनुरम्भोरुहकाननानि ॥55॥
न यक्षलक्षैः किमलक्षि नो वा
सिद्धैः किमध्यासि समाप्तशोभा ।
सा किंनरैः किं न रसादसेवि
नादर्शि हर्षेण महर्षिभिर्वा ॥56॥
वाल्मीकिरश्लाघत तामनेक-
शाखत्रयीभूरुहराजिभाजा ।
क्लेशं विना कण्ठपथेन यस्य
दैवी दिवः प्राग्भुवमागमद्वाक् ॥57॥
प्राशंसि संसद्गुरुणापि चार्वी
चार्वाकतासर्वविदूषकेण ।
आष्थानपट्टं रसनां यदीयां
जानामि वाचामधिदेवतायाः ॥58॥
नाकेऽपि दीव्यत्तमदिव्यवाचि
वचःस्रगाचार्यकवित्कविर्यः ।
दैतेयनीतेः पथि सार्थवाहः
काव्यः स काव्येन सभामभाणीत् ॥59॥
अमेलयद्भीमनृपः परं न
नाकर्षदेतान्दमनस्वसैव ।
इदं विधातापि विचिन्त्य यूनः
स्वशिल्पसर्वस्वमदर्शयन्नः ॥60॥
एकाकिभावेन पुरा पुरारिः
यः पञ्चतां पञ्चशरं निनाय ।
तद्भीसमाधानममुष्य काय
निकायलीलाः किममी युवानः ॥61॥
पूर्णेन्दुबिम्बाननुमासभिन्ना-
नस्थापयत्क्वापि निधाय वेधाः ।
तैरेव शिल्पी निरमादमीषां
मुखानि लावण्यमयानि मन्ये ॥62॥
मुधार्पितं मूर्धसु रत्नमेभि-
र्यन्नाम तानि स्वयमेत एव ।
स्वतःप्रकाशे परमात्मबोधे
बोधान्तरं न स्फुरणाऋथमर्थ्यम् ॥63॥
प्रवेक्ष्यतः सुन्दरवृन्दमुच्चै-
रिदं मुदा चेदितरेतरं तत् ।
न शक्ष्यतो लक्षयितुं विमिश्रं
दस्रौ सहस्रैरपि वत्सराणाम् ॥64॥
स्थितैरियद्भिर्युवभिर्विदग्धै-
र्दग्धेऽपि कामे जगतः क्षतिः का ।
एकाम्बुबिन्दुव्ययमम्बुराशेः
पूर्णस्य कः शंसति शोषदोषम् ॥65॥
इति स्तुवन्हुंकृतिवर्गणाभि-
र्गन्धर्ववर्गेण स गायतैव ।
ओंकारभूम्ना पठतैव वेदान्
महर्षिवृन्देन तथाऽन्वमानि ॥66॥
न्यवीविशत्तानथ राजसिंहान्
सिंहासनौघेषु विदर्भराजः ।
शृङ्गेषु यत्र त्रिदशैरिवैभिः
अशोभि कार्तस्वरभूधरस्य ॥67॥
विचिन्त्य नानाभुवनागतांस्ता-
नमर्त्यसंकीर्त्यचरित्रगोत्रान् ।
कथ्याः कथंकारममी सुतायाम्
इति व्यषादि क्षितिपेन तेन ॥68॥
श्रद्धालुसंकल्पितकल्पनायां
कल्पद्रुमस्याथ रथाङ्गपाणेः ।
तदाकुलोऽसौ कुलदैवतस्य
स्मृतिं ततान क्षणमेकतानः ॥69॥
तच्चिन्तनानन्तरमेव देवः
सरस्वतीं सस्मितमाह स स्म ।
स्वयंवरे राजकगोत्रवृत्त-
वत्त्रीमिह त्वां करवाणि वाणि ॥70॥
कुलं च शीलं च बलं च यूनां
जानासि नानाभुवनागतानाम् ।
एषामतस्त्वं भव वावदूका
मूकायितुं कः समयस्तवायम् ॥71॥
जगत्त्रयीपण्डितमण्डितैषा
सभा न भूता च न भाविनी च ।
राज्ञां गुणज्ञापनकैतवेन
संख्यावतः श्रावय वाङ्मुखानि ॥72॥
इतीरिता तच्चरणात्परागं
गीर्वाणचूडामणिमृष्टशेषम् ।
तस्य प्रसादेन सहाज्ञयासा-
वादाय मूर्ध्नादरिणी बभार ॥73॥
मध्येसभं सावततार बाला
गन्धर्वविद्याधरकण्ठनाला ।
त्रयीमयीभूतवलीविभङ्गा
साहित्यनिर्वर्तितदृक्तरङ्गा ॥74॥
आसीदथर्वा त्रिवलित्रिवेदी
मूलाद्विनिर्गत्य वितायमाना ।
नानाभिचारोचितमेचकश्रीः
श्रुतिर्यदीयोदररोमरेखा ॥75॥
शिक्षैव साक्षाच्चरितं यदीयं
कल्पश्रियाकल्पविधिर्यदीयः ।
यस्याः समस्तार्थनिरुक्तिरूपै-
र्निरुक्तिविद्या खलु पर्यणंसीत् ॥76॥
जात्या च वृत्तेन च भिद्यमानं
छन्दो भुजद्वन्द्वमभूद्यदीयम् ।
श्लोकार्धविश्रान्तिमयीभविष्णु
पर्वद्वयीसन्धिसुचिह्नमध्यम् ॥77॥
असंशयं सा गुणदीर्घभाव-
कृता दधाना विततिं यदीया ।
विधायिका शब्दपरम्पराणां
किं वारचि व्याकरणेन काञ्ची ॥78॥
स्थितैव कण्ठे परिणम्य हार-
लता बभूवोदिततारवृत्ता ।
ज्योतिर्मयी यद्भजनाय विद्या
मध्येङ्गमङ्केन भृता विशङ्के ॥79॥
अवैमि वादिप्रतिवादिगाढ-
खपक्षरागेण विराजमाने ।
ते पूर्वपक्षोत्तरपक्षशास्त्रे
रदच्छदौ भूतवती यदीयौ ॥80॥
ब्रह्मार्थकर्मार्थकवेदभेदा
द्विधा विधाय स्थितयात्मदेहम् ।
चक्रे पराच्छादनचारु यस्या
मीमांसया मांसलमूरुयुग्मम् ॥81॥
उद्देशपर्वण्यपि लक्षणेऽपि
द्विधोदितैः षोडशभिः पदार्थैः ।
आन्वीक्षिकीं यद्दशनद्विमालीं
तां मुक्तिकामाकलितां प्रतीमः ॥82॥
तर्का रदा यद्वदनस्य तर्क्या
वादेऽस्य शक्तिः क्व तथाऽन्यथा तैः ।
पत्त्रं क्व दातुं गुणशालिपूगं
क्व वादतः खण्डयितुं प्रभुत्वम् ॥83॥
सपल्लवं व्यासपराशराभ्यां
प्रणीतभावादुभयीभविष्णु ।
तन्मत्स्यपद्माद्युपलक्ष्यमाणं
यत्पाणियुग्मं ववृते पुराणम् ॥84॥
आकल्पविच्छेदविवर्जितो यः
स धर्मशास्त्रव्रज एव यस्याः ।
पश्यामि मूर्धा श्रुतिमूलशाली
कण्ठस्थितः कस्य मुदे न वृत्तः ॥85॥
भ्रुवौ दलाभ्यां प्रणवस्य यस्या-
स्तद्बिन्दुना भालतमालपत्त्रम् ।
तदर्धचन्द्रेण विधिर्विपञ्ची
निक्वाणनाकोणधनुः प्रणिन्ये ॥86॥
द्विकुण्डली वृत्तसमाप्तिलिप्या
कराङ्गुली काञ्चनलेखनीनाम् ।
कैश्यं मषीणां स्मितभा कठिन्याः
काये यदीये निरमायि सारैः ॥87॥
या सोमसिद्धान्तमयाननेव
शून्यात्मतावादमयोदरेव ।
विज्ञानसामस्त्यमयान्तरेव
साकारतासिद्धिमयाखिलेव ॥88॥
भीमस्तयागद्यत मोदितुं ते
वेला किलेयं तदलं विषद्य ।
मया निगाद्यं जगतीपतीनां
गोत्रं चरित्रं च विचित्रमेषाम् ॥89॥
अविन्दतासौ मकरन्दलीलां
मन्दाकिनी यच्चरणारविन्दे ।
अत्रावतीर्णा गुणवर्णनाय
राज्ञां तदाज्ञावशगास्मि कापि ॥90॥
तत्कालवेद्यैः शकुनस्वराद्यै-
राप्तामवाप्तां नृपतिः प्रतीत्य ।
तां लोकपालैकधुरीण एष
तस्यै सपर्यामुचितां दिदेश ॥91॥
दिगन्तरेभ्यः पृथिवीपतीना-
माकर्षकौतूहलसिद्धविद्याम् ।
ततः क्षितीशः स निजां तनूजां
मध्येमहाराजकमाजुहाव ॥92॥
दासीषु नासीरचरीषु जातं
स्फीतं क्रमेणालिषु वीक्षितासु ।
स्वाङ्गेषु रूपोत्थमथाद्भुताब्धि-
मुद्वेलयन्तीमवलोककानाम् ॥93॥
स्निग्धत्वमायाजललेपलोप-
सयत्नरत्नांशुमृजांशुकाभाम् ।
नेपथ्यहीरद्युतिवारिवर्ति-
स्वच्छायसच्छायनिजालिजालाम् ॥94॥
विलेपनामोदमुदागतेन
तत्कर्णपूरोत्पलसर्पिणा च ।
रतीशदूतेन मधुव्रतेन कर्णे
रहः किंचिदिवोच्यमानाम् ॥95॥
विरोधिवर्णाभरणाश्मभासां
मल्लाजिकौतूहलमीक्षमाणाम् ।
स्मरस्वचापभ्रमचालिते नु
भ्रुवौ विलासाद्वलिते वहन्तीम् ॥96॥
सामोदपुष्पाशुगवासिताङ्गीं
किशोरशाखाग्रशयालिमालाम् ।
वसन्तलक्ष्मीमिव राजभिस्तैः
कल्पद्रुमैरप्यभिलष्यमाणाम् ॥97॥
पीतावदातारुणनीलभासां
देहोपदेहात्किरणैर्मणीनाम् ।
गोरोचनाचन्दनकुङ्कुमैण-
नाभीविलेपान्पुनरुक्तयन्तीम् ॥98॥
स्मरं प्रसूनेन शरासनेन
जेतारमश्रद्दधतीं नलस्य ।
तस्मै स्वभूषादृषदंशुशिल्पं
बलद्विषः कार्मुकमर्पयन्तीम् ॥99॥
विभूषाणेभ्योऽवरमंशुकेषु
ततोऽवरं सान्द्रमणिप्रभासु ।
सम्यक्पुनः क्वापि न राजकस्य
पातुं दृशा धातृधृतावकाशाम् ॥100॥
प्राक्पुष्पवर्षैर्वियतः पतद्भि-
र्द्रष्टुं न दत्तामथ न द्विरेफैः ।
तद्भीतिभुग्नेन ततो मुखेन
विधेरहो वाञ्छितविघ्नयत्नः ॥101॥
एतद्वरं स्यामिति राजकेन
मनोरथातिथ्यमवापिताय ।
सखीमुखायोत्सृजतीमपाङ्गात्
कर्पूरकस्तूरिकयोः प्रवाहम् ॥102॥
स्मितेच्छुदन्तच्छदकम्पकिंचि-
द्दिगम्बरीभूतरदांशुवृन्दैः ।
आनन्दितोर्वीन्द्रमुखारविन्दै-
र्मन्दं नुदन्तीं हृदि कौमुदीनाम् ॥103॥
प्रत्यङ्गभूषाच्छमणिच्छलेन
यल्लग्नतन्निश्चललोकनेत्राम् ।
हाराग्रजाग्रद्गरुडाश्मरश्मि-
पीनाभनाभीकुहरान्धकाराम् ॥104॥
तद्गौरसारस्मितविस्मितेन्दु-
प्रभाशिरःकम्परुचोऽभिनेतुम् ।
विपाण्डुतामण्डितचामराली-
नानामरालीकृतलास्यलीलाम् ॥105॥
तदङ्गभोगावलिगायनीनां
मध्ये निरुक्तिक्रमकुण्ठितानाम् ।
स्वयं धृतामप्सरसां प्रसादं
ह्रियं हृदो मण्डनमर्पयन्तीम् ॥106॥
तारा रदानां वदनस्य चन्द्रं
रुचा कचानां च नभो जयन्तीम् ।
आकण्ठमक्ष्णोर्द्वितयं मधूनि
महीभुजः कस्य न भोजयन्तीम् ॥107॥
अलंकृताङ्गाद्भुतकेवलाङ्गीं
स्तवाधिकाध्यक्षनिवेद्यलक्ष्मीम् ।
इमां विमानेन सभां विशन्तीं
पपावपाङ्गैरथ राजराजिः ॥108॥
आसीदसौ तत्र न कोऽपि भूप-
स्तन्मूर्तिरूपोद्भवदद्भुतस्य ।
उल्लेसुरङ्गानि मुदा न यस्य
विनद्ररोमाङ्कुरदन्तुराणि ॥109॥
अङ्गुष्ठमूर्ध्ना विनिपीडिताया
मध्येन भागेन च मध्यमायाः ।
आस्फोटि भैमीमवलोक्य तत्र
न तर्जनी केन जनेन नाम ॥110॥
अस्मिन्समाजे मनुजेश्वरेण
तां खञ्जनाक्षीमंवलोक्य केन ।
पुनः पुनर्लोलितमौलिना न
भ्रुवोरुदक्षेपितरां द्वयी वा ॥111॥
स्वयंवरस्याजिरमाजिहानां
विभाव्य भैमीमथ भूमिनाथैः ।
इदं मुदा विह्वलचित्तभावाद-
वापि खण्डाक्षारजिह्मजिह्वम् ॥112॥
रम्भादिलोभात्कृतकर्मभिर्मा
शून्यैव भूर्भूत्सुरभूमिपान्थैः ।
इत्येतयालोपि दिवोऽपि पुंसां
वैमत्यमत्यप्सरसा रसायाम् ॥113॥
रूपं यदाकर्ण्य जनाननेभ्य-
स्तत्तद्दिगन्ताद्वयमागमाम ।
सौन्दर्यसारादनुभूयमाना-
दस्यास्तदस्माद्बहु नाकनीयः ॥114॥
रसस्य शृङ्गार इति श्रुतस्य
क्व नाम जागर्ति महानुदन्वान् ।
कस्मादुदस्थादियमन्यथा श्री-
र्लावण्यवैदग्ध्यनिधिः पयोधेः ॥115॥
साक्षात्सुधांशुर्मुखमेव भैम्या
दिवः स्फुटं लाक्षणिकः शशाङ्कः ।
एतद्भुवौ मुख्यमनङ्गचापं
पुष्पं पुनस्तद्गुणमात्रवृत्त्या ॥116॥
लक्ष्ये धृतं कुण्डलिके सुदत्या
ताटङ्कयुग्मं स्मरधन्विने किम् ।
सव्यापसव्यं विशिखा विसृष्टा-
स्तेनानयोर्यान्ति किमन्तरेव ॥117॥
तनोत्यकीर्तिं कुसुमाशुगस्य
सैषा बतेन्दीवरकर्णपूरौ ।
यतः श्रवःकुण्डलिकापराद्धशरं
खलः ख्यापयिता तमाभ्याम् ॥118॥
रजःपदं षट्पदकीटजुष्टं
हित्वात्मनः पुष्पमयं पुराणम् ।
अद्यात्मभूराद्रियतां स भैम्या
भ्रूयुग्ममन्तर्धृतमुष्टि चापम् ॥119॥
पद्मान्हिमे प्रावृषि खञ्जरीटा-
न्क्षिप्नुर्यमादाय विधिः क्वचित्तान् ।
सारेण तेन प्रतिवर्षमुच्चैः
पुष्णाति दृष्टिद्वयमेतदीयम् ॥120॥
एतादृशोरम्बुरुहैर्विशेषं
भृङ्गौ जनः पृच्छतु तद्गुणज्ञौ ।
इतीव धाताकृत तारकालि-
स्त्रीपुंसमाध्यस्थ्यमिहाक्षियुग्मे ॥121॥
व्यधत्ते सौधे रतिकामयोस्त-
द्भक्तं वयोऽस्या हृदि वासभाजोः ।
तदग्रजाग्रत्पृथुशातकुम्भ-
कुम्भौ न संभावयति स्तनौ कः ॥122॥
अस्या भुजाभ्यां विजिताद्बिसाक्तिं
पृथक्करोऽगृह्यत तत्प्रसूनम् ।
इहेष्यते तन्न गृहाः श्रियः कै-
र्न गीयते वा कर एव लोकैः ॥123॥
छद्मैव तच्छम्बरजं बिसिन्या-
स्तत्पद्ममस्यास्तु भुजाग्रसदम् ।
उत्कण्टकादुद्गमनेन नाला-
दुत्कण्टकं शातशिखैर्नखैर्यत् ॥124॥
जागर्ति मर्त्येषु तुलार्थमस्या
योग्येति योग्यानुपलम्भनं नः ।
यद्यस्ति नाके भुवनेऽथ वाध-
स्तदा न कौतस्कुतलोकबाधः ॥125॥
नमः करेभ्योऽस्तु विधेर्न वास्तु
स्पृष्टं धियाप्यस्य न किं पुनस्तैः ।
स्पर्शादिदं स्याल्लुलितं हि शिल्पं
मनोभुवोऽनङ्गतयानुरूपम् ॥126॥
इमां न मृद्वीमसृजत्कराभ्यां
वेधा कुशाध्यासनकर्कशाभ्याम् ।
शृङ्गारधारां मनसा न शान्ति-
विश्रान्तिधन्वाध्वमहीरुहेण ॥127॥
उल्लास्य धातुस्तुलिता करेण
श्रोणौ किमेषा स्तनयोर्गुरुर्वा ।
तेनान्तरालैस्त्रिभिरङ्गुलीना-
मुदीतमध्यत्रिवलीविलासा ॥128॥
निजामृतोद्यन्नवनीतजाङ्गी-
मेतां क्रमोन्मीलितपीतिमानम् ।
कृत्वेन्दुरस्या मुखमात्मनाभू-
न्निद्रालुना दुर्घटमम्बुजेन ॥129॥
अस्याः स चारुर्मधुरेव कारुः
श्वासं वितेने मलयानिलेन ।
अमूनि सूनैर्विदधेऽङ्गकानि
चकार वाचं पिकपञ्चमेन ॥130॥
कृतिः स्मरस्यैव न धातुरेषा
नास्या हि शिल्पीतरकारुजेयः ।
रूपस्य शिल्पे वयसाऽपि वेधा
निजीयते स स्मरकिङ्करेण ॥131॥
गुरोरपीमां भणदोष्ठकण्ठं
निरुक्तिगर्वच्छिदया विनेतुम् ।
श्रमः स्मरस्यैव भवं विहाय
मुक्तिं गतानामनुतापनाय ॥132॥
आख्यातुमक्षिव्रजसर्वपीतां
भैमीं तदेकाङ्गनिखातदृक्षु ।
गाथासुधाश्लेषकलाविलासै-
रलंचकाराननचन्द्रमिन्द्रः ॥133॥
स्मितेन गौरी हरिणी दृशेयं
वीणावती सुस्वरकण्ठभासा ।
हेमेव कायप्रभयाङ्गशेषैस्तन्वी
मतिं क्रामति मे न कापि ॥134॥
इति स्तुवानः सविधे नलेन
विलोकितः शङ्कितमानसेन ।
व्याकृत्य मर्त्योचितमर्थमुक्ते-
राखण्डलस्तस्य नुनोद शङ्काम् ॥135॥
स्वं नैषधादेशमहो विधाय
कार्यस्य हेतोरपि नानलः सन् ।
किं स्थानिवद्भावमधत्त दुष्टं
तादृक्कृतव्याकरणः पुनः सः ॥136॥
इयमियमधिरथ्यं याति नेपथ्यमञ्जु-
र्विशतिविशति वेदीमुर्वशी सेयमुर्व्याः ।
इति जनजनितैः सानन्दनादैर्विजघ्ने
नलहृदि परभैमीवर्णनाकर्णनाप्तिः ॥137॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तर्केष्वप्यसमश्रमस्य दशमस्तस्य व्यरंसीन्महा-
काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥138॥