नैषधीयचरितम् सर्गाः १-५

विकिस्रोतः तः
Jump to navigation Jump to search

नैषधीयचरितम् सम्पूर्णम्

प्रथमः सर्गः[सम्पाद्यताम्]

निपीय यस्य क्षितिरक्षिणः कथाः
तथाद्रियन्ते न बुधाः सुधामपि ।
नला सितच्छत्रितकीर्तिमण्डलः
स राशिरासीन्महसां महोज्ज्वलः ॥1॥
रसैः कथा यस्य सुधावधीरणी
नलः स भूजानिरभूह्गुणाद्भुतः ।
सुवर्णदण्डैकसितातपत्रित
ज्वलत्प्रतापावलिकीर्तिमण्डलः ॥2॥
पवित्रमत्रातनुते जगद्युगे
स्मृता रसक्षालनयेव यत्कथा ।
कथं न सा मद्गिरमाविलामपि
स्वसेविनीमेव पवित्रयिष्यति ॥3॥
अधीतिबोधाचरणप्रचारणै
र्दशाश्चतस्रः प्रणयन्नुपाधिभिः ।
चतुर्दशत्वं कृतवान्कृतः स्वयं
न वेद्मि विद्यासु चतुर्दश स्वयम् ॥4॥
अमुष्य विद्या रसनाग्रनर्तकी
त्रयीव नीताङ्गगुणेन विस्तरम् ।
अगाहताष्टादशतां जिगीषया
नवद्वयद्वीपपृथग्जयश्रियाम् ॥5॥
दिगीशवृन्दांशविभूतिरीशिता
दिशां स कामप्रसरावरोधिनीम् ।
बभार शास्त्राणि दृशं द्वयाधिकां
निजत्रिनेत्रावतरत्वबोधिकाम् ॥6॥
पदैश्चतुर्भिः सुकृते स्थिरीकृते
कृतेऽमुना के न तपः प्रपेदिरे ।
भुवं यदेकाङ्घ्रिकनिष्ठया स्पृश
न्दधावधर्मोऽपि कृशस्तपस्विताम् ॥7॥
यदस्य यात्रासु बलोद्धतं रजः
स्फुरत्प्रतापानलघूममञ्जिम ।
तदेव गत्वा पतितं सुधाम्बुधौ
दधाति पङ्कीभवदङ्कतां विधौ ॥8॥
स्फुरद्धनर्निस्वनतद्धनाशुग
प्रगल्भवृष्टिव्ययितस्य संगरे ।
निजस्य तेजः शिखिनः परश्शता
वितेनुरिङ्गालमिवायशः परे ॥9॥
अनल्पदग्धारिपुरानलोज्ज्वलैः
निजप्रतापैर्वलयं ज्वलद्भुवः ।
प्रदक्षिणीकृत्य जयाय सृष्ट्या
रराज नीराजनया स राजघः ॥10॥
निवारितास्तेन महीतलेऽखिले
निरीतिभावं गमितेऽतिवृष्टयः ।
न तत्यजुर्नूनमनन्यविश्रमाः
प्रतीपभूपालमृगीदृशां दृशः ॥11॥
सितांशुवर्णैर्वयति स्म तह्गुणैः
महासिवेम्नः सहकृत्वरी बहुम् ।
दिगङ्गनाङ्गावरणं रणाङ्गणे
यशः पटं तद्भटचातुरीतुरी ॥12॥
प्रतिपभूपैरिव किं ततो भिया
विरुद्धधर्मैरपि मेत्तृतोज्झिता ।
अमित्रजिन्मित्रजिदोजसा स यद्
विचारदृक्चारदृगप्यवर्तत ॥13॥
तदोजसस्तद्यशसः स्थिताविमौ
वृथेति चित्ते कुरुते यदा यदा ।
तनो ति भानोः परिवेषकैतवात्
तदा विधिः कुण्डलनां विधोरपि ॥14॥
अयं दरिद्रो भवितेति वैधसीं
विपिं ललाटेऽर्थिजनस्य जाग्रतीम् ।
मृषां न चक्रेऽल्पितकल्पपादपः
प्रणीय दारिद्रदरिद्रतां नलः ॥15॥
विभज्य मेरुर्न यदर्थिसात्कृतो
न सिन्धुरुत्सर्गजलव्यययैर्मरुः ।
अमानि तत्तेन निजायशोयुगं
द्विफालबद्धाश्चिकुराः शिरः स्थितम् ॥16॥
अजस्रमभ्यासमुपेयुषा समं
मुदैव देवः कविना बुधेन च ।
दधौ पटीयान्समयं नयन्नयं
 दिनेश्वरश्रीरुदयं दिने दिने ॥17॥
अधोविधानात्कमलप्रवालयोः
शिरः सु दानादखिलक्षमाभुजाम् ।
पुरेदमूर्ध्व भवतीति वेधसा
पदं किमस्याङ्कितमूर्ध्वरेखया ॥18॥
जगज्जयं तेन च कोशमक्षयं
प्रणीतवान् शैशवशेषवानयम् ।
सखा रतीशस्य ऋतुर्यथा वनं
वपुस्तथालिङ्गदथास्य यौवनम् ॥19॥
अधारि पद्मेषु तदङ्घ्रिणा घृणा
क्व तच्छयच्छायलवोऽपि पल्लवे ।
तदास्यदास्येऽपि गतोऽधिकारितां
न शारदः पार्धिकशर्वरीश्वरः ॥20॥
किमस्य लोम्नां कपटेन कोटिभिः
विधिर्न लेखाभिरजीगणह्गुणान् ।
न रोमकूपौघमिषाज्जगत्कृता
कृताश्च किं दूषणशून्यबिन्दवः ॥21॥
अमुष्य दोर्भ्यामरिदुर्गलुण्ठने
ध्रुवं गृहीतार्गलदीर्घपीनता ।
उरः श्रिया तत्र च गोपुरस्फुरत्
कपाटदुर्धर्षतिरः प्रसारिता ॥22॥
स्वकेलिलेशस्मितनिन्दितेन्दुनो
निजांशदृक्तर्जितपद्मसंपदः ।
अतद्द्वयीजित्वरसुन्दरान्तरे
न तन्मुखस्य प्रतिमा चराचरे ॥23॥
सरोरुहं तस्य दृशैव निर्जितं
जिताः स्मितेनैव विधोरपि श्रियः ।
कुतः परं भव्यमहो महीयसी
तदाननस्योपमितौ दरिद्रता ॥24॥
स्ववालभारस्य तदुत्तमाङ्गजैः
समं चमर्येव तुलाभिलाषिणः ।
अनागसे शंसति बालचापलं
पुनः पुनः पुच्छविलोलनच्छलात् ॥25॥
महीभृतस्तस्य च मन्मथश्रिया
निजस्य चित्तस्य च तं प्रतीच्छया ।
द्विधा नृपे तत्र जगत्त्रयीभुवां
नतभ्रुवां मन्मथविभ्रमोऽभवत् ॥26॥
निमीलनभ्रंशजुषा दृशा भृशं
निपीय तं यस्त्रिदशीर्बिरर्जितः ।
अमूस्तमभ्यासभरं विवृण्वते
निमेषनिः स्वैरधुनापि लोचनैः ॥27॥
अदस्तदाकर्णि फलाढ्यजीवितं
दृशोर्द्वयं नस्तदवीक्षि चाफलम् ।
ति स्म चक्षुः श्रवसां प्रिया नले
स्तुवन्ति निन्दन्ति हृदातदात्मनः ॥28॥
विलोकयन्तीभिरजस्रभावना-
बलादमुं नेत्रनिमीलनेष्वपि ।
अलम्भि मर्त्याभिरमुष्य दर्शने
न विघ्नलेशोऽपि निमेषनिर्मितिः ॥29॥
न का निशि स्वप्नगतं ददर्श
तं जगाद गोत्रस्खलिते च का न तम् ।
तदात्मताध्यातधवा रते च का
चकार वा न स्वमनोभवोद्भवम् ॥30॥
श्रियास्य योग्याहमिति स्वमीक्षितुं
करे तमालोक्य सुरूपया धृतः ।
विहाय भैमीमपदर्पया कया
न दर्पणः श्वासमलीमसः कृतः ॥31॥
यथोह्यमानः खलु भोगभोजिना
प्रसह्य वैरोचनिजस्य पत्तनम् ।
विदर्भजाया मदनस्तथा मनो-
नलावरुद्धं वयसैव वेशितः ॥32॥
नृपेऽनुरूपे निजरूपसंपदां
दिदेश तस्मिन्बहुशः श्रुतिं गते ।
विशिष्य सा भीमनरेन्द्रनन्दना
मनोभवाज्ञैकवशंवदं मनः ॥33॥
उपासनामेत्य पितुः स्म रज्यते
दिने दिने सावसरेषु बन्दिनाम् ।
पठत्सु तेषु प्रतिभूपतीनलं
विनिद्ररोमाजनि शृण्वती नलम् ॥34॥
कथा प्रसङ्गेषु मिथः सखीमुखात्
तृणेऽपि तन्व्या नलनामनि श्रुते ।
द्रुतं विधूयान्यदभूयतानया
मुदा तदाकर्णनसज्जकर्णया ॥35॥
स्मरात्परासोरनिमेषलोचना-
द्बिभेमि तद्भन्नमुदाहरेति सा ।
जनेन यूनः स्तुवता तदास्पदे
निदर्शनं नैषधमभ्यषेचयत् ॥36॥
नलस्य पृष्टा निषधागता गुणान्
मिषेण दूतद्विजबन्दिचारणाः ।
निपीय तत्कीर्तिकथामथानया
चिराय तस्थे विमनायमानया ॥37॥
प्रीयं प्रियां च त्रिजगज्जयिश्रियौ
लिखाधिलीलागृहभित्ति कावपि ।
इति स्म सा कारुवरेण लेखितं
नलस्य च स्वस्य च सख्यमीक्षते ॥38॥
मनोरथेन स्वपतीकृतं नलं
निशि क्व सा न स्वपती स्म पश्यति ।
अदृष्टमप्यर्थमदृष्टवैभवात्
करोति सुप्तिर्जनदर्शनातिथिम् ॥39॥
निमीलितादक्षियुगाच्च निद्रया
हृदोऽपि बाह्येन्द्रियमौनमुद्रितात् ।
अदर्शि संगोप्य कदाप्यवीक्षितो
रहस्यमस्याः स महन्महीपतिः ॥40॥
अहो अहोभिर्महिमा हिमागमेऽ–
प्यभिप्रपेदे प्रति तां स्मरार्दिताम् ।
तपर्तुपूर्तावपि मेदसां भरा
विभावरीभिर्बिभरांबभूविरे ॥41॥
स्वकान्तिकीर्तिव्रजमौक्तिकस्रजः
श्रयन्तमन्तर्घटनागुणश्रियम् ।
कदाचिदस्या युवधैर्यलोपिनं
नलोऽपि लोकादशृणोह्गुणोत्करम् ॥42॥
तमेव लब्ध्वावसरं ततः स्मरः
शरीरशोभाजयजातमत्सरः ।
अमोघशक्त्या निजयेन मूर्तया
तया विनिर्जेतुमियेष नैषधम् ॥43॥
अकारि तेन श्रवणातिथिर्गुणः
क्षमाभुजा भीमनृपात्मजालयः ।
तदुच्चधैर्यव्ययसंहितेषुणा
स्मरेण च स्वात्मशरासनाश्रयः ॥44॥
अमुष्य धीरस्य जयाय साहसी
तदा खलु ज्यां विशिखैः सनाथयन् ।
निमज्जयामास यशांसि संशये
स्मरस्त्रिलोकीविजयार्जितान्ययि ॥45॥
अनेन भैमीं घटयिष्यतस्तथा
विधेरवन्ध्येच्छतया व्यलासि तत् ।
अभेदि तत्तादृगनङ्गमार्गणै-
र्यदस्य पौष्पैरपि धैयकञ्चुकम् ॥46॥
किमन्यदद्यापि यदस्त्रतापितः
पितामहो वारिजमाश्रयत्यहो ।
स्मरं तनुच्छायतया तमात्मनः
शशाक शङ्के स न लङ्घितुं नलः ॥47॥
उरोभुवा कुम्भयुगेन जृम्भितं
नवोपहारेण वयः कृतेन किम् ।
त्रपासरिदृर्गमपि प्रतीर्य सा
नलस्य तन्वी हृदयं विवेश यत् ॥48॥
अपह्नुवानस्य जनाय यन्निजा
मधीरतामस्य कृतं मनोभुवा ।
अबोधि तज्जागरदुःखसाक्षिणी
निशा च शय्या च शशाङ्ककोमला ॥49॥
स्मरोपतप्तोऽपि भृशं न स प्रभु-
र्विदर्भराजं तनयामयाचत ।
त्यजन्त्यसूञ्शर्म च मानिनोवरं
त्यजन्ति न त्वेकमयाचितव्रतम् ॥50॥
मृषाविषादाभिनयादयं क्वचि-
ज्जुगोप निःश्वासततिं वियोगजाम् ।
विलेपनस्याधिकचन्द्रभागता
विभावनाच्चापललाप पाण्डुताम् ॥51॥
शशाक निह्नोतुमयेन तत्प्रिया
मयं बभाषे यदलीकवीक्षिताम् ।
समाज एवालपितासु वैणिकै-
र्मुमूर्च्छ यत्पञ्चममूर्च्छनासु च ॥52॥
अवाप सापत्रपतां स भूपति-
र्जितेन्द्रियाणां धुरि कीर्तितस्थितिः ।
असंवरे शंबरवैरिविक्रमे
क्रमेण तत्र स्फुटतामुपेयुषि ॥53॥
अलं नलं रोद्दुममी किलाभव-
न्गुणा विवेकप्रमुखा न चापलम् ।
स्मरः स रत्यामनिरुद्धमेव यत्-
सृजत्ययं सर्गनिसर्ग ईदृशः ॥54॥
अनङ्गचिह्नं स विना शशाक नो
यदासितुं संसदि यत्नवानपि ।
क्षणं तदारामविहारकैतवान्
निषेवितुं देशमियेष निर्जनम् ॥55॥
अथ श्रिया भर्त्सितमत्स्यलाच्छनः
समं वयस्यैः स्वरहस्यवेदिभिः ।
पुरोपकण्ठोपवनं किलेक्षिता
दिदेश यानाय निदेशकारिणः ॥56॥
अमी ततस्तस्य विभूषितं सितं
जवेऽपि मानेऽपि च पौरुषाधिकम् ।
उपाहरन्नश्वमजस्रचञ्चलैः
खुराञ्चलैः क्षोदितमन्दुरोदरम् ॥57॥
अथान्तरेणावटुगामिनाध्वना
निशीथिनीनाथमहः सहोदरैः ।
निगालगाद्देवमणेरिवोत्थितै-
र्विराजितं केसरकेशरश्मिभिः ॥58॥
अजस्रभूमीतटकुट्टनोत्थितै-
रुपास्यमानं चरणेषु रेणुभिः ।
रयप्रकर्षाध्ययनार्थमागतै-
र्जनस्य चेतोभिरिवाणिमाङ्कितैः ॥59॥
चलाचलप्रोथतया महीभृते
स्ववेगदर्पानिव वक्तुमुत्सुकम् ।
अलं गिरा वेद किलायमाशयं
स्वयं हयस्येति च मौनमास्थितम् ॥60॥
महारथस्याध्वनि चक्रवर्तिनः
परानपेक्षोद्वहनाद्यशः सितम् ।
रदावदातांशुमिषादनीदृशां
हसन्तमन्तर्बलमर्वतां रवेः ॥61॥
सितत्विषश्चञ्चलतामुपेयुषो
मिषेण पुच्छस्य च केसरस्य च ।
स्फुटं चलच्चामरयुग्मचिह्ननै-
रनिह्नुवानं निजवाजिराजताम् ॥62॥
अपि द्विजिह्वाभ्यवहारपौरुषे
मुखानुषक्तायतवल्गुवल्गया ।
उपेयिवांसं प्रतिमल्लतां रय-
स्मये जितस्य प्रसभं गरुत्मतः ॥63॥
स सिन्धुजं शीतमहः सहोदरं
हरन्तमुच्चैः श्रवसः श्रियं हयम् ।
जिताखिलक्ष्माभृदनल्पलोचन-
स्तमारुरोह क्षितिपाकशासनः ॥64॥
निजा मयूखा इव तीक्ष्णदीधितिं
स्फुटारविन्दाङ्कितपाणिपङ्कजम् ।
तमश्ववारा जवनाश्वयायिनं
प्रकाशरूपा मनुजेशमन्वयुः ॥65॥
चलन्नलंकृत्य महारयं हयं
स्ववाहवाहोचितवेषपेशलः ।
प्रमोदनिः स्पन्दतराक्षिपक्ष्मभि-
र्व्यलोकि लोकैर्नगरालयैर्नलः ॥66॥
क्षणादथैष क्षणदापतिप्रभः
प्रभञ्जनाध्येयजवेन वाजिना ।
सहैव ताभिर्जनदृष्टिवृष्टिभि-
र्बहिः पुरोऽभूत्पुरुहूतपौरुषः ॥67॥
ततः प्रतीच्छ प्रहरेति भाषिणी
परस्परोल्लासितशल्यपल्लवे ।
मृषामृघं सादिबले कुतूहला-
न्नलस्य नासीरगते वितेनतुः ॥68॥
प्रयातुमस्माकमियं कियत्पदं
धरा तदम्भोधिरपि स्थलायताम् ।
इतीव वाहैर्निजवेगदर्पितैः
पयोधिरोधक्षममुद्धतं रजः ॥69॥
हरेर्यदक्रामि पदैककेन खं
पदैश्चतुर्भिः क्रमणेऽपि तस्य नः ।
त्रपा हरीणामिति नम्रिताननै-
र्न्यवर्ति तैरर्धनभः कृतक्रमैः ॥70॥
चमूचरास्तस्य नृपस्य सादिनो
जिनोक्तिषु श्राद्धतयेव सैन्धवाः ।
विहारदेशं तमवाप्य मण्डली-
मकारयन् भूरितुरंगमानपि ॥71॥
द्विषद्भिरेवास्य विलङ्घिता दिशो
यशोभिरेवाब्धिरकारि गोष्पदम् ।
इतीव धारामवधीर्य मण्डली
क्रियाश्रियाऽमण्डि तुरंगमैः स्थली ॥72॥
अचीकरच्चारु हयेन या भ्रमी-
र्निजातपत्रस्य तलस्थले नलः ।
मरुत्किमद्यापि न तासु शिक्षते
वितत्य वात्यामयचक्रङ्क्रमान् ॥73॥
विवेश गत्वा स विलासकाननं
ततः क्षणात्क्षोणिपतिर्धृतीच्छया ।
प्रवालरागच्छुरितं सुषुप्सया
हरिर्धनच्छायमिवार्णसां निधिम् ॥74॥
वनान्तपर्यन्तमुपेत्य सस्पृहं
क्रमेण तस्मिन्नवतीर्णदृक्पथे ।
न्यवर्ति दृष्टिप्रकरैः पुरौकसा-
मनुव्रजद्बन्धुसमाजबन्धुभिः ॥75॥
ततः प्रसूने च फले च मञ्जुले
स संमुखस्थाङ्गुलिना जनाधिपः ।
निवेद्यमानं वनपालपाणिना
व्यालोकयत्काननकामनीयकम् ॥76॥
फलानि पुष्पाणि च पल्लवे करे
वयोतिपातोद्गतवातवेपिते ।
स्थितैः समादाय महर्षिवार्धकाद्
वने तदातिथ्यमशिक्षि शाखिभिः ॥77॥
विनिद्रपत्रालिगतालिकैतवान्-
मृगाङ्कचूडामणिवर्जनार्जितम् ।
दधानमाशासु चरिष्णु दुर्यशः
स कौतुकी तत्र ददर्श केतकम् ॥78॥
वियोगभाजां हृदि कण्टकैः कटु-
र्निधीयसे कर्णिशरः स्मरेण यत् ।
ततो दुराकर्षतया तदन्तकृद्-
विगीयसे मन्मथदेहदाहिना ॥79॥
त्वदग्रसूचीसचिवेन कामिनो-
र्मनोभवः सीव्यति दुर्यशः पटौ ।
स्फुटं स पत्रैः करपत्रमूर्तिभि
र्वियोगिहृद्दारुणि दारुणायते ॥80॥
धनुर्मधुस्विन्नकरोऽपि भीम-
जापरं परागैस्तव धूलिहस्तयन् ।
प्रसूनधन्वा शरसात्करोति मा-
मिति क्रुधाक्रुश्यत तेन कैतकम् ॥81॥
विदर्भसुभ्रूस्तनतुङ्गताप्तये
घटानिवापश्यदलं तपस्यतः ।
फलानि धूमस्य धयानधोमुखान्-
स दाडिमे दोहदधूपिनि द्रुमे ॥82॥
वियोगिनीमैक्षत दाडिमीमसौ
प्रियस्मृतेः स्पष्टमुदीतकण्टकाम् ।
फलस्तनस्थानविदीर्णरागिहृ-
द्विशच्छुकास्यस्मरकिंशुकाशुगाम् ॥83॥
स्मरार्धचन्द्रेषुनिभे क्रशीयसां
स्फुटं पलाशेऽध्वजुषां पलाशनात् ।
स वृन्तमालोकत खण्डमन्वितं
वियोगिहृत्खण्डिनि कालखण्डजम् ॥84॥
नवा लता गन्धवहेन चुम्बिता
करम्बिताङ्गी मकरन्दशीकरैः ।
दृशा नृपेण स्मितशोभिकुञ्चला
दरादराभ्यां दरकम्पिनी पपे ॥85॥
विचिन्वतीः पान्थपतङ्गहिंसनै-
रपुण्यकर्माण्यलिकज्जलच्छलात् ।
व्यलोकयच्चम्पककोरकावलीः
स शम्बरारेर्बलिदीपिका इव ॥86॥
अमन्यतासौ कुसुमेषुगर्भगं
परागमन्धंकरणं वियोगिनाम् ।
स्मरेण मुक्तेषु पुरा पुरारये
तदङ्गभस्मेव शरेषु संगतम् ॥87॥
पिकाद्वने शृण्वति भृङ्गहुं कृतै-
र्दशामुदञ्चत्करुणे वियोगिनाम् ।
अनास्थया सूनकरप्रसारिणीं
ददर्श दूनः स्थलपद्मिनीं नलः ॥88॥
रसालसालः समदृश्यतामुना
स्फुरद्द्विरेफारवरोषहुंकृतिः ।
समीरलोलैर्मुकुलैर्वियोगिने
जनाय दित्सन्निव तर्जनाभियम् ॥89॥
दिने दिने त्वं तनुरेधि रेऽधिकं
पुनः पुनर्मूर्च्छ च तापमृच्छ च ।
इतीव पान्थाञ्शपतः पिकान्द्विजान्-
सखेदमैक्षिष्ट स लोहितेक्षणान् ॥90॥
अलिस्रजा कुङ्मलमुच्चशेखरं
निपीय चाम्पेयमधीरया धिया ।
स धूमकेतुं विषदे वियोगिना-
मुदीतमातङ्कितवानशङ्कत ॥91॥
गलत्परागं भ्रमिभह्गिभिः पतत्-
प्रसक्तभृङ्गावलि नागकेसरम् ।
स मारनाराचनिघर्षणस्खल-
ज्ज्वलत्कणं शाणमिव व्यलोकयत् ॥92॥
तदङ्गमुद्दिश्य सुगन्धि पातुकाः
शिलीमुखालीः कुसुमाहुणस्पृशः ।
स्वचापदुर्निर्गतमार्गणभ्रमात्-
स्मरः स्वनन्तीरवलोक्य लज्जितः ॥93॥
मरुल्ललत्पल्लवकण्टकैः क्षतं
समुच्छलच्चन्दनसारसौरभम् ।
स वारनारीकुचसंचितोपमं
ददर्श मालूरफलं पचेलिमम् ॥94॥
युवद्वयीचित्तनिमज्जनोचित-
प्रसूनशून्येतरगर्भगह्वरम् ।
स्मरेषुधीकृत्य धिया भयान्धसा
स पाटलायाः स्तबकं प्रकम्पितः ॥95॥
मुनिद्रुमः कोरकितः शितिद्युति-
र्वनेऽमनाऽमन्यत सिंहिकासुतः ।
तमिस्नपक्षत्रुटिकूटभक्षितं
कलाकलापं किल वैधवं वमन् ॥96॥
पुरा हठाक्षिप्ततुषारपाण्डुर-
च्छदावृतेर्वीरुधि बद्धविभ्रमाः ।
मिलत्रिमीलं ससृजुर्विलोकिता
नभस्वतस्तं कुसुमेषु केलयः ॥97॥
गता यदुत्सङ्गतले विशालतां
द्रुमाः शिरोभिः फलगौरवेण ताम् ।
कथं न धात्रीमति मात्रनामितैः
स वन्दमानानभिनन्दति स्म तान् ॥98॥
नृपाय तस्मै हिमितं वनानिलैः
सुधीकृतं पुष्परसैरहर्महः ।
विनिर्मितं केतकरेणुभिः सितं
 वियोगिनेऽदत्त न कौमदीमुदः ॥99॥
अयोगभाजोऽपि नृपस्य पश्यता
तदेव साक्षादमृतांशुमाननम् ।
पिकेन रोषारुणचक्षुषा मुहुः
कुहूरुताहूयत चन्द्रवैरिणी ॥100॥
अशोकमर्थान्वितनामताशया-
गतान् शरण्यं गृहशोचिनोऽद्वगान् ।
अमन्यतावन्तमिवैष पल्लवैः
प्रतीष्टकामज्वलदस्त्रजालकम् ॥101॥
विलास वापीतटवीचिवादनात्-
पिकालिगीतेः शिखिलास्यलाघवात् ।
वनेऽपि तौर्यत्रिकमारराध तं
क्व भोगमाप्नोति न भाग्यभाग्जनः ॥102॥
तदर्थमध्याप्य जनेन तद्वने
शुका विमुक्ताः पटवस्तमस्तुवन् ।
स्वरामृतेनोपजगुश्च सारिका-
स्तथैव तत्पौरुषगायनीकृताः ॥103॥
इतीष्टगन्धाढ्यमटन्नसौ वनं
पिकोपगीतोऽपि शुकस्तुतोऽपि च ।
अविन्दतामोदभरं बहिश्चरं
विदर्भसुभ्रुविरहेण नान्तरम् ॥104॥
करेण मीनं निजकेतनं दध-
द्द्रुमालवालाम्बुनिवेशशङ्कया ।
व्यतर्कि सर्वर्तुघने घने मधुं
स मित्रमत्रानुसरन्निव स्मरः ॥105॥
लताबलालास्यकलागुरुस्तरु-
प्रसूनगन्धोत्करपश्यतोहरः ।
असेवतामुं मधुगन्धवारिणि
प्रणीतलीलाप्लवनो वनानिलः ॥106॥
अथ स्वमादाय भयेन मन्थ-
नाच्चिरत्नाधिकमुच्चितं चिरात् ।
निलीय तस्मिन्निव सन्नपांनिधि-
र्वने तडाको ददृशेऽवनीभुजा ॥107॥
पयोनिलीनाभ्रमुकामुकावली-
रदाननन्तोरगपुच्छसुच्छवीन् ।
जलार्धरुद्धस्य तटान्तभूमिदो
मृणालजालस्य मिषाद्बभार यः ॥108॥
तटान्तविश्रान्ततुरंगमच्छटा-
स्फुटानुविम्बोदयचुम्बनेन यः ।
बभौ चलद्वीचिकशान्तशातनैः
सहस्रमुच्चैः श्रवसामिवाश्रयन् ॥109॥
सिताम्बुजानां निवहस्य यश्छला-
द्बभावलिश्यामलितोदरश्रियाम् ।
तमः समच्छायकलङ्कसंकुलं
कुलं सुधांशोर्बहलं वहन्वहु ॥110॥
रथाङ्गभाजा कमलानुषङ्गिणा
शिलीमुखस्तोमसखेन शार्ङ्गिणा ।
सरोजिनीस्तम्बकदम्बकैतवान्-
मृणालशेषाहिभुवान्वयायि यः ॥111॥
तरङ्गिणीरङ्कजुषः स्ववल्लभा-
स्तरङ्गरेखा बिभरांबभूव यः ।
दरोद्गतैः कोकनदौघकोरकै-
र्धृतप्रवालाङ्कुरसंचयश्च यः ॥112॥
महीयसः पङ्कजमण्डलस्य य-
श्छलेन गौरस्य च मेचकस्य च ।
नलेन मेने सलिले निलीनयो-
स्त्विषं विमुञ्चन्विधुकालकूटयोः ॥113॥
चलीकृता यत्र तरङ्गरिङ्गणै-
रबालशैवाललतापरम्पराः ।
ध्रुवं दधुर्वाडवहव्यवाडव-
स्थितिप्ररोहत्तमभूमधूमताम् ॥114॥
प्रकाममादित्यमवाप्य कण्टकैः
करम्बितामोदभरं विवृण्वती ।
धृतस्फुटश्रीगृहविग्रहा दिवा
सरोजिनी यत्प्रभवाप्सरायिता ॥115॥
यदम्बुपूरप्रतिबिम्बितायति-
र्मरुत्तरङ्गैस्तरलस्तटद्रुमः ।
निमज्ज्य मैनाकमहीभृतः सत-
स्ततान पक्षान्धुवतः सपक्षताम् ॥116॥
पयोधिलक्ष्मीमुषि केलिपल्वले
रिरंसुहंसीकलनादसादरम् ।
स तत्र चित्रं विचरन्तमन्तिके
हिरण्मयं हंसमबोधि नैषधः ॥117॥
प्रियासु बालासु रतक्षमासु च
द्विपत्रितं पल्लवितं च बिभ्रतम् ।
स्मरार्जितं रागमहीरुहाङ्कुरं
मिषेण चञ्च्वोश्चरणद्वयस्य च ॥118॥
महीमहेन्द्रस्तमवेक्ष्य स क्षणं
शकुन्तमेकान्तमनोविनोनदिम् ।
प्रियावियोगाद्विधुरोऽपि निर्भरं
कुतूहलाक्रान्तमना मनागभूत् ॥119॥
अवश्यभव्येष्वनवग्रहग्रहा
यया दिशा धावति वेधसः स्पृहा ।
तृणेन वात्येव तयानुगम्यते
जनस्य चित्तेन भृशावशात्मना ॥120॥
अथावलम्ब्य क्षणमेकपादिकां
तदा निदद्रावुपपल्वलं खगः ।
स तिर्यगावर्जितकंधरः शिरः
पिधाय पक्षेण रति क्लमालसः ॥121॥
सनालमात्मानननिर्जितप्रभं
ह्रिया नतं काञ्चनमम्बुजन्म किम् ।
अबुद्ध तं विद्रुमदण्डमण्डितं
स पीत मम्भः प्रभुचामरं नु किम् ॥122॥
कृतावरोहस्य हयादुपानहौ
ततः पदे रेजतुरस्य बिभ्रती ।
तयोः प्रवालैर्वनयोस्तथाम्बुजै-
र्नियोद्धुकामे किमु बद्धवर्मणी ॥123॥
विधाय मूर्तिं कपटेन वामनीं
स्वयं बलिध्वंसिविडम्बिनीमयम् ।
उपेतपार्श्वश्चरणेन मौनिना
नृपः पतङ्गं समधत्त पाणिना ॥124॥
तदात्तमात्मानमवेत्य संभ्रमात्-
पुनः पुनः प्रायसदुत्प्लवाय सः ।
गतो विरुत्योड्डयने निराशतां
करौ निरोद्धुर्दशति स्म केवलम् ॥125॥
ससंभ्रमोत्पातिपतत्कुलाकुलं
सरः प्रपद्योत्कतयाऽनुकम्प्रताम् ।
तमूर्मिलोलैः पतगग्रहान्नृपं
न्यवारयद्वारिरुहैः करैरिव ॥126॥
पतत्रिणा तद्रुचिरेण वञ्चितं
श्रियः प्रयान्त्याः प्रविहाय पल्वलम् ।
चलत्पदाम्भोरुहनूपुरोपमा
चुकूज कूले कलहंसमण्डली ॥127॥
न वासयोग्या वसुधेयमीदृश-
स्त्वमङ्ग ! यस्याः पतिरुज्झितस्थितिः ।
इति प्रहाय क्षितिमाश्रिता नभः
खगास्तमाचुकुशुरारवैः खलु ॥128॥
न जातरूपच्छदजातरूपता
द्विजस्य दृष्टेयमिति स्तुवन्मुहुः ।
अवादि तेनाथ स मानसौकसा
जनाधिनाथः करपञ्जरस्पृशा ॥129॥
धिगस्तु तृष्णातरलं भवन्मनः
समीक्ष्य पक्षान्मम हेमजन्मनः ।
तवार्णवस्येव तुषारशीकरै-
र्भवेदमीभिः कमलोदयः कियान् ॥130॥
न केवलं प्राणिवधो वधो मम
त्वदीक्षणाद्विश्वसितान्तरात्मनः ।
विगर्हितं धर्मधनैर्निबर्हणं
विशिष्य विश्वासजुषां द्विषामपि ॥131॥
पदे पदे सन्ति भटा रणोद्भटा
न तेषु हिंसारस एष पूर्यते ।
धिगीदृशं ते नृपते ! कुविक्रमं
कृपाश्रये यः कृपणे पतत्रिणि ॥132॥
फलेन मूलेन च वारिभूरुहां
मुनेरिवेत्थं मम यस्य वृत्तयः ।
त्वयाद्य तस्मिन्नपि दण्डधारिणा
कथं न पत्या धरणी हृणीयते ॥133॥
इतीदृशैस्तं विरचय्य वाङ्मयैः
सचित्रवैलक्ष्यकृपं नृपं खगः ।
दयासमुद्रे स तदाशयेऽतिथी-
चकार कारुण्यरसापगा गिरः ॥134॥
मदेकपुत्रा जननी जरातुरा
नवप्रसूतिर्वरटा तपस्विनी ।
गतिस्तयोरेष जनस्तमर्दय-
न्नहो विधे ! त्वां करुणा रुणद्धि न ॥135॥
मुहूर्तमात्रं भवनिन्दया दया-
सखाः सखायः स्रवदश्रवो मम ।
निवृत्तिमेष्यन्ति परं दुरुत्तर-
स्त्वयैव मातः ! सुतशोकसागरः ॥136॥
मदर्थसंदेशमृणालमन्थरः
प्रियः कियद्दूर इति त्वयोदिते ।
विलोकयन्त्या रुदतोऽथ पक्षिणः
प्रिये ! स कीदृग्भविता तव क्षणः ॥137॥
कथं विधातर्मयि पाणिपङ्कजा-
त्तव प्रियाशैत्यमृदुत्वशिल्पिनः ।
वियोक्ष्यसे वल्लभयेति निर्गता
लिपिर्ललाटन्तपनिष्ठुराक्षरा ॥138॥
अयि !स्वयूथ्यैरशनिक्षतोपमं
ममाद्य वृत्तान्तमिमं बतोदिता ।
मुखानि लोलाक्षि ! दिशामसंशयं
दशापि शून्यानि विलोकयिष्यसि ॥139॥
ममैव शोकेन विदीर्णवक्षसा
त्वया विचित्राङ्गि ! विपद्यते यदि ।
तदास्मि दैवेन हतोऽपि हा हतः
स्फुटं यतस्ते शिशवः परासवः ॥140॥
तवापि हा हा विरहात्क्षुधाकुलाः
कुलायकूलेषु विलुठ्य तेषु ते ।
चिरेण लब्धा बहुभिर्मनोरथै-
र्गताः क्षणेनास्फुटितेक्षणा मम ॥141॥
सुताः ! कमाहूय चिराय चुंकृतै-
र्विधाय कम्प्राणि मुखानि कं प्रति ।
कथासु शिष्यध्वमिति प्रमील्य सः
स्त्रुतस्य सेकाद्बुबुधे नृपाश्रुणः ॥142॥
इत्थममुं विलपन्तममुञ्च-
द्दीनदयालुतयावनिपालः ।
रुपमदर्शि धृतोऽसि यदर्थं
गच्छ यथेच्छमथेत्यभिधाय ॥143॥
आनन्दजाश्रुभिरनुस्रियमाणमार्गान्-
प्राक्शोकनिर्गमितनेत्रपयः प्रवाहान् ।
चक्रे स चक्रनिभचङ्क्रमणच्छलेन
नीराजनां जनयतां निजबान्धवानाम् ॥144॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तच्चिन्तामणिमन्त्रचिन्तनफले शृङ्गारभङ्ग्या महा-
काव्ये चारुणि नैषधीयचरिते सर्गोऽयमादिर्गतः ॥145॥

द्वितीयः सर्गः[सम्पाद्यताम्]

अधिगत्य जगत्यधीश्वरात्
अथ मुक्तिं पुरुषोत्तमात्ततः ।
वचसामपि गोचरो न
यः स तामानन्दमविन्दत द्विजः ॥1॥
अधुनीत खगः स नैकधा
तनुमुत्फुल्लतनूरुहीकृताम् ।
करयन्त्रणदन्तुरान्तरे
व्यलिखच्चञ्चुपुटेन पक्षती ॥2॥
अयमेकतमेन पक्षतेरधिम्
अध्योर्ध्वगजङ्घमङ्घ्रिणा ।
स्खलनक्षण एव शिश्रिये
द्रुतकण्डूयितमौलिरालयम् ॥3॥
स गरुद्वनदुर्गदुर्ग्रहान्
कटु कीटान्दशतः सतः क्वचित् ।
नुनुदे तनुकण्डु पण्डितः
पटुचञ्चूपुटकोटिकुट्टनैः ॥4॥
अयमेत्य तडागनीडजै-
र्लघु पर्यव्रियताथ शङ्कितैः ।
उदडीयत वैकृतात्कर-
ग्रहजादस्य विकस्वरस्वरैः ॥5॥
वहतो बहुशैवलक्ष्मतां
धृतरुद्राक्षमधुव्रतं खगः ।
स नीलस्य ययौ करं
पुनः सरसः कोकनदभ्रमादिव ॥6॥
पतगश्चिरकाललालनात्
अतिविश्रम्भमवापितो नु सः ॥7॥
नृपमानसमिष्टमानसः
स निमज्जत्कुतुकामृतोर्मिषु ।
अवलम्बितकर्णशष्कुली-
कलसीकं रचयन्नवोचत ॥8॥
मृगया न विगीयते
नृपैरपि धर्मागममर्मपारगैः ।
स्मरसुन्दर ! मां यदत्
यजस्तव धर्मः स दयोदयोज्ज्वलः ॥9॥
अबलस्वकुलाशिनोझषान्
निजनीडद्रुमपीडिनः खगान् ।
अनवद्यतृणार्दिनो मृगान्
मृगयाधाय न भूभुजां घ्नताम् ॥10॥
यदवादिषमप्रियं तव
प्रियमाधाय नुनुत्सुरस्मि तत् ।
कृतमातपसंज्वरं तरोः
अभिवृष्यामृतमंशुमानिव ॥11॥
उपनम्रमयाचितं हितं
परिहर्तु न तवापि सांप्रतम् ।
करकल्पजनान्तराद्विधेः
शुचितः प्रापि स हि प्रतिग्रहः ॥12॥
पतगेन मया जगत्पतेः
उपकृत्यैव तव किं प्रभूयते ।
इति वेद्मि न तु त्यजन्ति
मां तदपि प्रत्युपकर्तुमर्तयः ॥13॥
अचिरादुपकर्तुराचरेत्-
अथ वात्मौपयिकीमुपक्रियाम् ।
पृथुरित्थमथाणुरस्तु सा
न विशेषे विदुषामिह ग्रहः ॥14॥
भविता न विचारचारु
चेत्तदपि श्रव्यमिदं मदीरितम् ।
खगवागियमित्यतोऽपि
किं न मुदं धास्यति कीरगीरिव ॥15॥
स जयत्यरिसार्थसार्थ-
कीकृतनामा किल भीमभूपतिः ।
यमवाप्य विदर्भभूः प्रभुं
हसति द्यामपि शक्रभर्तृकाम् ॥16॥
दमनादमनाक्प्रसेदुषस्-
तनयां तथ्यगिरस्तपोधनात् ।
वरमाप स दिष्टविष्टपत्रि-
तयानन्यसदृग्गुणोदयाम् ॥17॥
भुवनत्रयसुभ्रुवामसौ
दमयन्ती कमनीयतामदम् ।
उदियाय यतस्तनुश्रिया
दमयन्तीति ततोऽभिधां दधौ ॥18॥
श्रियमेव परं धराधिपाह्-
गुणसिन्धोरुदितामवेहि ताम् ।
व्यवधावपि वा विधोः कलां
मृडचूडानिलयां न वेद कः ॥19॥
चिकुरप्रकरा जयन्ति ते
विदुषी मूर्धनि साबिभर्ति यान् ।
पशुनाप्यपुरस्कृतेन तत्-
तुलनामिच्छतु चामरेण कः ॥20॥
स्वदृशोर्जनयन्ति सान्त्वनां
खुरकण्डूयनकैतवान्मृगाः ।
जितयोरुदयत्प्रमीलयोः
तदखर्वेक्षणशोभया भयात् ॥21॥
अपि लोकयुगं दृशावपि
श्रुतदृष्टा रमणीगुणा अपि ।
श्रुतिगामितया दमस्वसुः
व्यतिभाते सुतरां धरापते ! ॥22॥
नलिनं मलिनं विवृण्वती
पृषतीमस्पृशती तदीक्षणे ।
अपि खञ्जनमञ्जनाञ्चिते
विदधाते रुचिगर्वदुर्विधम् ॥23॥
अधरं किल बिम्बनामकं
फलमस्मादिति भव्यमन्वयम् ।
लभतेऽधरबिम्बमित्यदः
पदमस्या रदनच्छदं वदत् ॥24॥
हृतसारमिवेन्दुमण्डलं
दमयन्तीवदनाय वेधसा ।
कृतमध्यबिलं विलोक्यते
धृतगम्भीरखनीखनीलिम ॥25॥
धृतलाञ्छनगोमयाञ्चनं
विधुमालेनपाण्डुरं विधिः ।
भ्रमयत्युचिटं विदर्भ-
जानननीराजनवर्धमानकम् ॥26॥
सुषमाविषये परीक्षणे
निखिलं पद्ममभाजि तन्मुखात् ।
अधुनापि न मङ्गलक्षणं
सलिलोन्मज्जनमुज्झति स्फुटम् ॥27॥
धनुषी रतिपञ्चबाणयोः
उदिते विश्वजयाय तद्भ्रुवौ ।
नलिके न तदुच्चनासिके
त्वयि नालीकविमुक्तिकामयोः ॥28॥
सदृशी तव शूर ! सा परं
जलदुर्गस्थमृणालजिद्भुजा ।
अपि मित्रजुषां सरोरुहां
गृहयालुः करलीलया श्रियः ॥29॥
वयसी शिशुतातदुत्तरे
सुदृशि स्वाभिविधिं विधित्सुनी ।
विधिनापि न रोमरेखया
कृतसीम्नी प्रविभज्य रज्यतः ॥30॥
अपि तद्वपुषि प्रसप्रतोः
गमिते कान्तिझरैरगाधताम् ।
स्मरयौवनयोः खलु द्वयोः
प्लवकुम्भौ भवतः कुचावुमौ ॥31॥
कलसे निजहेतुदण्डजः
किमु चक्रभ्रमकारितागुणः ।
स तदुच्चकुचौ भवन्प्रभा-
झरचक्रभ्रममातनोति यत् ॥32॥
भजते खलु षण्मुखं शिखी
चिकुरैर्निर्मितबर्हगर्हणः ।
अपि जम्भरिपुं दमस्व-
सुर्जितकुम्भः कुचशोभयेभराट् ॥33॥
उदरं नतमध्यपृष्ठता-
स्फुटदङ्गुष्ठपदेन मुष्टिना ।
चतुरङ्गुलमध्यनिर्गत-
त्रिबलिभ्राजि कृतं दमस्वसुः ॥34॥
उदरं परिमाति मुष्टिना
कुतुकी कोऽपि दमस्वसुः किमु ।
धृततच्चतुरङ्गुलीव यद्व-
लिभिर्माति सहेमकाञ्चिभिः ॥35॥
पृथुवर्तुलतन्नितम्बकृन्-
मिहिरस्यन्दनशिल्पशिक्षया ।
विधिरेककचक्रचारिणं
किमु निर्मित्सति मान्मथं रथम् ॥36॥
तरुमूरुयुगेन सुन्दरी
किमु रम्भां परिणाहिना परम् ।
तरुणीमपि जिष्णुरेव
तां धनदापत्यतपः फलस्तनीम् ॥37॥
जलजे रविसेवयेव ये
पदमेतत्पदतामवापतुः ।
ध्रुवमेत्य रुतः सहंसकी-
कुरुतस्ते विधिपत्रदंपती ॥38॥
श्रितपुण्यसरः सरित्कथं
न समाधि क्षपिताखिलक्षपम् ।
जलजं गतिमेतु मञ्जुलां
दमयन्तीपदनाम्नि जन्मनि ॥39॥
सरसीः परिशीलितुं मया
गमिकर्मीकृतनैकनीवृता ।
अतिथित्वमनायि सा दृशोः
सदसत्संशयगोचरोदरी ॥40॥
अवधृत्य दिवोऽपि यौवतै-
र्नसहाधीतवतीमिमामहम् ।
कतमस्तु विधातुराशये
पतिरस्या वसतीत्यचिन्तयम् ॥41॥
अनुरूपमिमं निरूपयन्-
नथ सर्वेष्वपि पूर्वपक्षताम् ।
युवसु व्यपनेतुमक्षमः
त्वयि सिद्धान्तधियं न्यवेशयम् ॥42॥
अनया तव रूपसीमया
कृतसंस्कारविबोधनस्य मे ।
चिरमप्यवलोकिताद्य सा
स्मृतिमारूढवती शुचिस्मिता ॥43॥
त्वयि वीर ! विराजते परं
दमयन्तीकिलकिञ्चितं किल ।
तरुणीस्तन एव दीप्यते
मणिहारावलिरामणीयकम् ॥44॥
तव रूपमिदं तया विना
विफलं पुष्पमिवावकेशिनः ।
इयमुद्धधना वृथावनी
स्ववनी संप्रवदत्पिकापि का ॥45॥
अनया सुरकाम्यमानया
सह योगः सुलभस्तु न त्वया ।
धनसंवृतयाम्बुदागमे
कुमुदेनेव निशाकरत्विषा ॥46॥
तदहं विदधे तथा तथा
दमयन्त्याः सविधे तव स्तवम् ।
हृदये निहितस्तया भवान्-
अपि नेन्द्रेण यथापनीयते ॥47॥
तव संमतिमेव केवलामधि-
गन्तुं धिगिदं निवेदितम् ।
ब्रुवते हि फलेन साधवो
न तु कण्ठेन निजोपयोगिताम् ॥48॥
तदिदं विशदं वचोमृतं
परिपीयाभ्युदितं द्विजाधिपात् ।
अतितृप्ततया विनिर्ममे
स तदुद्गारमिव स्मितं सितम् ॥49॥
परिमृज्य भुजाग्रजन्मना
पतगं कोकनदेन नैषधः ।
मृदु तस्य मुदेऽकिरद्गिरः
प्रियवादामृतकूपकण्ठजाः ॥50॥
न तुलाविषये तवाकृति-
र्न वचोवर्त्मनि ते सुशीलता ।
त्वदुदाहरणाकृतौ गुणा
इति समामुद्रकसारमुद्रणा ॥51॥
न सुवर्णमयी तनुः परं
ननु किं वागपि तावकी तथा ।
न परं पथि पक्षपातितान्-
अवलम्बे किमु मादृशेऽपि सा ॥52॥
भृशतापभृता मया
भवान्मरुदासादि तुषारसारवान् ।
धनिनामितरः सतां पुन-
र्गुणवत्संनिधिरेव सन्निधिः ॥53॥
शतशः श्रुतिमागतैव सा
त्रिजगन्मोहमहौषधिर्मम ।
अमुना तव शंसितेन तु
स्वदृशैवाधिगतामवैमि ताम् ॥54॥
अखिलं विदुषामनाविलं
सुहृदा च स्वहृदा च पश्यताम् ।
सविधेऽपि नसूक्ष्मसाक्षिणी
वदनालंकृतिमात्रमक्षिणी ॥55॥
अमितं मधु तत्कथा मम
श्रवणप्राघुणकीकृता जनैः ।
मदनानलबोधने भवेत्-
खग ! धाय्या धिगधैर्यधारिणः ॥56॥
विषमो मलयाहिमण्डली-
विषफूत्कारमयो मयोहितः ।
खर्ग ! कालकलत्रदिग्-
भवः पवनस्तद्विरहानलैधसा ॥57॥
प्रतिमासमसौ निशापतिः
खग ! संच्छति यद्दिनाधिपम् ।
किमु तीव्रतरैस्ततः करै-
र्मम दाहाय स धैर्यतस्करैः ॥58॥
कुसुमानि यदि स्मरेषवो
न तु वज्रं विषवल्लिजानि तत् ।
हृदयं यदमूमुहन्ननूर्मम
यच्चातितरामतीतपन् ॥59॥
तदिहानवधौ निमज्जतो
मम कंदर्पशराधिनीरघौ ।
भव पोत इवावलम्बनं
विधिनाकस्मिकसृष्टसंनिधिः ॥60॥
अथवा भवतः प्रवर्तना
न कथं पिष्टमियं पिनष्ट नः ।
स्वत एव सतां परार्थता
ग्रहणानां हि यथा यथार्थता ॥61॥
तव वर्त्मनि वर्ततां शिवं
पुनरस्तु त्वरितं समागमः ।
अयि ! साधय साधयेप्सितं
स्मरणीयाः समये वयं वयः ॥62॥
इति तं स विसृज्य धैर्यवान्-
नृपतिः सूनृतवाग्बृहस्पतिः ।
अविशद्वनवेश्म विस्मितः
स्मृतिलग्नैः कलहंसशंसितैः ॥63॥
अथ भीमसुतावलोकनैः
सफलं कर्तुमहस्तदेव सः ।
क्षितिमण्डलमण्डनायितं
नगरं कुण्डिनमण्डजो ययौ ॥64॥
प्रथमं पथि लोचनातिथिं
पथिकप्रार्थितसिद्धिशंसिनम् ।
कलसं जलसंभृतं पुरः
कलहंसः कलयांबभूव सः ॥65॥
अवलम्ब्य दिदृक्षयाम्बरे
क्षणमाश्चर्यरसालसं गतम् ।
स विलासवनेऽवनीभृतः
फलमैक्षिष्ट रसालसंगतम् ॥66॥
नभसः कलभैरुपासितं
जलदैर्भूरितरक्षुपं नगरम् ।
स ददर्श पतङ्गपुंगवो
विटपच्छन्नतरक्षुपन्नगम् ॥67॥
स ययौ धुतपक्षतिः क्षणं
क्षणमूर्ध्वायनदुर्विभावनः ।
विततीकृतनिश्चलच्छदः
क्षणमालोककदत्तकौतुकः ॥68॥
तनुदीधितिधारया
रयाद्गतया लोकविलोकनामसौ ।
छदहेम कषन्निवालसत्-
कषपाषाणनिभे नभस्तले ॥69॥
विनमद्भिरधः स्थितैः खगै-
र्झटिति श्येननिपातशङ्किभिः ।
स निरैक्षि दृशैकयोपरि
स्यदझांकारितपत्रपद्धतिः ॥70॥
ददृशे न जनेन यन्नसौ
भुवि तच्छायमवेक्ष्य तत्क्षणात् ।
दिवि दिक्षु वितीर्णचक्षुषा
पृथुवेगद्रुतमुक्तदृक्पथः ॥71॥
न वनं पथि शिश्रियेऽमुना
क्वचिदप्युच्चतरद्रुचारुतम् ।
न संगोत्रजमन्ववादि
वा गतिवेगप्रसरद्रुचा रुतम् ॥72॥
अथ भीमभुजेन पालिता
नगरी मञ्जुरसौ धराजिता ।
पतगस्य जगाम दृक्पथं
हरशैलोपमसौधराजिता ॥73॥
दयितं प्रति यत्र संतता
रतिहासा इव रेजिरे भुवः ।
स्फटिकोपलविग्रहा
गृहाः शशभृद्भित्तनिरङ्कभित्तयः ॥74॥
नृपनीलमणीगृहत्विषाम्-
उपधेर्यत्र भयेन भास्वतः ।
शरणार्थमुवास वासरेऽ-
प्यसदावृत्त्युदयत्तमं तमः ॥75॥
सितदीप्रमणिप्रकल्पिते
यदगारे हसदङ्करोदसि ।
निखिलान्निशि पूर्णिमा तिथी-
नूपतस्थेऽतिथिरेकिका तिथिः ॥76॥
सुदतीजनमज्जनार्पितै-
र्घुसृणैर्यत्र कषायिताशया ।
न निशाखिलयापि वापिका
प्रससाद ग्रहिलेव मानिनी ॥77॥
क्षणनीरवया यया निशि
श्रितवप्रावलियोगपट्टया ।
मणिवेश्ममयं स्म निर्मलं
किमपि ज्योतिरबाह्यमिज्यते ॥78॥
विललास जलाशयोदरे
क्वचन द्यौरनुबिम्बितेव या ।
परिखाकपटस्फुटस्फुटत्-
प्रतिबिम्बानवलम्बिताम्बुनि ॥79॥
व्रजते दिवि यद्गृहावली-
चलचेलाञ्चलदण्डताडनाः ।
व्यतरन्नरुणाय विश्रमं
सृजते हेलिहयालिकालनाम् ॥80॥
क्षितिगर्भधराम्बरालयैः
तलमध्योपरिपूरिणां पृथक् ।
जगतां किल याखिलाद्भुता-
जनि सारैर्निजचिह्नधारिभिः ॥81॥
दधदम्बुदनीलकण्ठतां
वहदत्यच्छसुधोज्जलं वपुः ।
कथमृच्छतु यत्र नाम न
क्षितिभृन्मन्दिरमिन्दुमौलिताम् ॥82॥
बहुरूपकशालभञ्जिका-
मुखचन्द्रेषु कलङ्करङ्कवः ।
यदनेककसौधकंधरा-
हरिभिः कुक्षिगतीकृता इव ॥83॥
बलिसद्मदिवं स तथ्यवाग्
उपरि स्माह दिवोऽपि नारदः ।
अधराथ कृता ययेव सा
विपरीताजनि भूविभूषया ॥84॥
प्रतिहट्टपथे घरट्टजात्
पथिकाह्वानदसक्तुसौरभैः ।
कलहान्न घनाद्यदुत्थितात्
अधुनाप्युज्झति घर्घरस्वरः ॥85॥
वरणः कनकस्य मानिनीं
दिवमङ्कादमराद्रिरागताम् ।
घनरत्नकपाटपक्षतिः
परिरभ्यानुनयन्नुवास याम् ॥86॥
अनलैः परिवेषमेत्य या
ज्वलदर्कोपलवप्रजन्मभिः ।
उदयं लयमन्तरा रवे-
रवहद्बाणपुरीपरार्ध्यताम् ॥87॥
बहुकम्बुमणिर्वराटिका-
गणनाटत्करकर्कटोत्करः ।
हिमवालुकयाच्छवालुकः
पटु दध्वान यदापणार्णवः ॥88॥
यदगारघटाट्टकुट्टिम-
स्रवदिन्दूपलतुन्दिलापया ।
मुमुचे न पतिव्रतौचिती
प्रतिचन्द्रोदयमभ्रगङ्ग्या ॥89॥
रुचयोऽस्तमितस्य भास्वतः
स्खलिता यत्र निरालयाः किल ।
अनुसायमभुर्विलेपना-
पणकश्मीरजपण्यवीथयः ॥90॥
विततं वणिजापणेऽखिलं
पणितुं यत्र जनेन वीक्ष्यते ।
मुनिनेव मृकण्डुसूनुना
जगतीवस्तु पुरोदरे हरेः ॥91॥
सममेणमदैर्यदापणे
तुलयन्सौरभलोभनिश्चलम् ।
पणिता न जनारवैरवैत्
अपि गुञ्जन्तमलिं मलीमसम् ॥92॥
रविकान्तमयेन सेतुना
सकलाहं ज्वलनाहितोष्मणा ।
शिशिरे निशि गच्छतां पुरा
चरणौ यत्र दुनोति नो हिमम् ॥93॥
विधुदीधितिजेन यत्पथं
पयसा नैषधशीलशीतलम् ।
शशिकान्तमयं तपागमे
कलितीव्रस्तपति स्म नातपः ॥94॥
परिखावलयच्छलेन या
न परेषां ग्रहणस्य गोचरः ।
फणिभाषितभाष्यफक्किका-
विषमा कुण्डलनामवापिता ॥95॥
मुखपाणिपदाक्ष्णि पङ्कजै
रचिताङ्गेष्वपरेषु चम्पकैः ।
स्वयमादित यत्र भामजा
स्मरपूजाकुसुमस्रजः श्रियम् ॥96॥
जघनस्तनभारगौरवाद्
वियदालम्ब्य विहर्तुमक्षमाः ।
ध्रुवमप्सरसोऽवतीर्य यां
शतमध्यासत तत्सखीजनः ॥97॥
स्थितिशालिसमस्तवर्णतां
न कथं चित्रमयी बिभर्तु या ।
स्वरभेदमुपैतु या कथं
कलितानल्पमुखारवा न वा ॥98॥
स्वरुचारुणया पताकया
दिनमर्केण समीयुषोत्तृषः ।
लिलिहुर्बहुधा सुधाकरं
निशि माणिक्यमया यदालयाः ॥99॥
लिलिहे स्वरुचा पताकया
निशि जिह्वानिभया सुधाकरम् ।
श्रितमर्ककरैः पिपासु
यन्नृपसद्मामलपद्मरागजम् ॥100॥
अमृतद्युतिलक्ष्म पीतया
मिलितं यद्वलभीपताकया ।
वलयायितशेषशायिनः
सखितामादित पीतवाससः ॥101॥
अश्रान्तश्रुतिपाठपूतरसनाविर्भूतभूरिस्तवा-
जिह्मब्रह्ममुखौघविघ्नितनवस्वर्गक्रियाकेलिना ।
पूर्व गाधिसुतेन सामिघटिता मुक्ता नु मन्दाकिनी
यत्प्रासाददुकूलवल्लिरनिलान्दोलैरखेलद्दिवि ॥102॥
यदतिविमलनीलवेश्मरश्मिभ्रमरितभाः शुचिसौधवस्त्रवल्लिः ।
अलभत शमनस्वसुः शिशुत्वं दिवसकराङ्कतले चला लुठन्ती ॥103॥
स्वप्राणेश्वरनर्महर्म्यकटकातिथ्यग्रहायोत्सुकं
पाथोदं निजकेलिसौधशिखरादारुह्य यत्कामिनी ।
साक्षादप्सरसो विमानकलितव्योमान एवाभव-
द्यन्न प्राय निमेषमभ्रतरसा यान्ती रसादध्वनि ॥104॥
वैदर्भीकेलिशैले मरकतशिखरादुत्थितैरंशुदर्भै-
र्ब्रह्माण्डाघातभग्नस्यदजमदतया ह्रीधृतावाङ्मुखत्वैः ।
कस्या नोत्तानगाया दिवि सुरसुरभेरास्यदेशं गताग्रै-
र्यद्गोग्रासप्रदानव्रतसुकृतमविश्रान्तमुज्जृम्भते स्म ॥105॥
विधुकरपरिरम्भादात्मनिष्यन्दपूर्णैः
शशिदृषदुपक्लृप्तैरालवालैस्तरूणाम् ।
विफलितजलसेकप्रक्रियागौरवेण
व्यरचि स हृतचित्तस्तत्र भैमीवनेन ॥106॥
अथ कनकपतत्रस्तव तां राजपुत्रीं
सदसि सदृशभासां विस्फुरन्तीं सखीनाम् ।
उडुपरिषदि मध्यस्थायिशीतांशुलेखा-
नुकरणपटुलक्ष्मीमक्षिलक्षीचकार ॥107॥
भ्रमणरयविकीर्णस्वर्णभासा खगेन
क्वचन पतनयोग्यं देशमन्विष्यताधः ।
मुखविधुमदसीयं सेवितुं लम्बमानः
शशिपरिधिरिवोर्ध्वं मण्डलस्तेन तेने ॥108॥
अनुभवति शचीत्थं सा घृताचीमुखाभि-
र्न सह सहचरीभिर्नन्दनानन्दमुच्चैः ।
इति मतिरुदयासीत् पक्षिणः प्रेक्ष्य भैमीं
विपिनभुवि सखीभिः सार्धमाबद्धकेलिम् ॥109॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
द्वैतीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महा-
काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥110॥

तृतीयः सर्गः[सम्पाद्यताम्]

आकुञ्चिताभ्यामथ पक्षतिभ्यां
नमोविभागात्तरसावतीर्य ।
निवेशदेशाततधूतपक्षः
पपात भूमावुपभैमि हंसः ॥1॥
आकस्मिकः पक्षपुटाहतायाः
क्षितेस्तदा यः स्वन उच्चचार ।
द्रागन्यविन्यस्तदृशः स तस्याः
संभ्रान्तमन्तः करणं चकार ॥2॥
नेत्राणि वैदर्भसुतासंखीनां
विमुक्ततत्तद्विषयग्रहाणि ।
प्रापुस्तमेकं निरुपाख्यरूपं
ब्रह्मेव चेतांसि यतव्रतानाम् ॥3॥
हंसं तनौ सन्निहितं चरन्तं
मुनेर्मनोवृत्तिरिव स्विकायाम् ।
ग्रहीतुकामादरिणा शयेन
यत्नादसौ निश्चलतां जगाहे ॥4॥
तामिङ्गितैरप्यनुमाय मायाम्-
अयं न भैम्या वियदुत्पपात ।
तत्पाणिमात्मोपरिपातुकं
तु मोघं वितेने प्लुतिलाघवेन ॥5॥
व्यर्थीकृतं पत्ररथेन तेन
तथाऽवसाय व्यवसायमस्याः ।
परस्परामर्पितहस्ततालं
तत्कालमालीभिरहस्यतालम् ॥6॥
उच्चाटनीयः करतालिकानां
दानादिदानीं भवतीभिरेषः ।
यान्वेति मां दुह्यति मह्ममेव
सात्रेत्युपालम्भि तयालिवर्गः ॥7॥
धृताल्पकोपा हसिते सखीनां
छायेव भास्वन्तमभिप्रयातुः ।
श्यामाथ हंसस्य करानवाप्तेः
मन्दाक्षलक्ष्या लगति स्म पश्चात् ॥8॥
शस्ता न हंसाभिमुखी पुनस्ते
यात्रेति ताभिश्छलहस्यमाना ।
साह स्म नैवाशकुनीभवेन्मे
भाविप्रियावेदक एष हंसः ॥9॥
हंसोऽप्यसौ हंसगतेः सुदत्याः
पुरः पुरश्चारु चलन्वमासे ।
वैलक्ष्यहेतोर्गतिमेतदीयाम्
अग्रेऽनुकृत्योपहसन्निवोच्चैः ॥10॥
पदे पदे भाविनि भाविनी तं
यथा करप्राप्यमवैति नूनम् ।
तथा सखेलं चलता लतासु
प्रतार्य तेनाचकृषे कृशाङ्गी ॥11॥
रुषा निषिद्धालिजनां यदैनां
छायाद्वितीयां कलयांचकार ।
तदा श्रमाम्भः कणभूषिताङ्गीं
स कीरवन्मानुषवागवादीत् ॥12॥
अये ! कियद्यावदुपैषि दूरं
व्यर्थे परिश्राम्यसि वा किमित्थम् ।
उदेति ते भीरपि किं नु बाले !
विलोकयन्त्या न घना वनालीः ॥13॥
वृथार्पयन्तीमपथे पदं त्वां
मरुल्ललत्पल्लवपाणिकम्पैः ।
आलीव पश्य प्रतिषेधतायं
कपोतहुंकारगिरा वनाली ॥14॥
धार्यः कथंकारमहं भवत्या
वियद्विहारी वसुधैकगत्या ।
अहो ! शिशुत्वं तव खण्डितं न
स्मरस्य सख्या वयसाप्यनेन ॥15॥
सहस्रपत्रासनपत्रहंस-
वंशस्य पत्राणि पतत्रिणः स्मः ।
अस्मादृशां चाटुरसामृतानि
स्वर्लोकलोकेतरदुर्लभानि ॥16॥
स्वर्गापगाहेममृणालिनीनां
नालामृणालाग्रभुजो भजामः ।
अन्नानुरूपां तनुरूपऋद्धिं
कार्ये निदानाद्धि गुणानधीते ॥17॥
धातुर्नियोगादिह नैषधीयं
लीलासरः सेवितुमागतेषु ।
हैमेषु हंसेष्वहमेक एव
भ्रमामि भूलोकविलोकनोत्कः ॥18॥
विधेः कदाचिद्भ्रमणीविलासे
श्रमातुरेभ्यः स्वमहत्तरेभ्यः ।
स्कन्धस्य विश्रान्तिमदां तदादि
श्राम्यामि नाविश्रमविश्वगोऽपि ॥19॥
बन्धाय दिव्ये न तिरश्चि कश्चित्
पाशादिरासादितपौरुषः स्यात् ।
एकं विना मादृशि तन्नरस्य
स्वर्भोगभाग्यं विरलोदयस्य ॥20॥
इष्टेन पूर्तेन नलस्य वश्याः
स्वर्भोगमत्रापि सृजन्त्यमर्त्याः ।
महीरुहा दोहदसेकशक्ते-
राकालिकं कोरकमुद्गिरन्ति ॥21॥
सुवर्णशैलादवतीर्य तूर्णं
स्वर्वाहिनीवारिकणावकीर्णैः ।
तं वीजयामः स्मरकेलिकाले
पक्षैर्नृपं चामरबद्धसख्यैः ॥22॥
क्रियेत चेत्साधुविभक्तिचिन्ता
व्यक्तिस्तदा सा प्रथमाभिधेया ।
या स्वौजसां साधयितुं विलासैः
तावत्क्षमानामपदं बहु स्यात् ॥23॥
राजा स यज्वा विबुधव्रजत्रा
कृत्वाध्वराज्योपमयैव राज्यम् ।
भुङ्क्ते श्रितश्रोत्रियसात्कृतश्रीः
पूर्वं त्वहो शेषमशेषमन्त्यम् ॥24॥
दारिद्र्यदारिद्रविणौघवर्षै
रमोघमेघव्रतमर्थिसार्थे ।
संतुष्टमिष्टानि तमिष्टदेवं
नाथन्ति के नाम न लोकनाथम् ॥25॥
अस्मत्किल श्रोत्रसुधां विधाय
रम्भा चिरं भामतुलां नलस्य ।
तत्रानुरक्ता तमनाप्य भेजे
तन्नामगन्धान्नलकूबरं सा ॥26॥
स्वर्लोकमस्माभिरितः प्रयातैः
केलीषु तद्गानगुणान्निपीय ।
हा हेति गायन्यदशोचि तेन
नाम्नैव हाहा हरिगायनोऽभूत् ॥27॥
शृण्वन्सदारस्तदुदारभावं
हृष्यन्मुहुर्लोम पुलोमजायाः ।
पुण्येन नालोकत लोकपालः
प्रमोदबाष्पावृतनेत्रमालः ॥28॥
सापीश्वरे शृण्वति तद्गुणौधान्
प्रसह्य चेतो हरतोऽर्धशम्भुः ।
अभूदपर्णाङ्गुलिरुद्धकर्णा
कदा न कण्डूयनकैतवेन ॥29॥
अलं सजन्धर्मविधौ विधाता
रुणद्धि मौनस्य मिषेण वाणीम् ।
तत्कण्ठमालिङ्ग्य रसस्य तृप्तां
न वेद तां वेदजडः स वक्राम् ॥30॥
श्रियस्तदालिङ्गनभूर्न भूता
व्रतक्षतिः कापि पतिव्रतायाः ।
समस्तभूतात्मतया न भूतं
तद्भर्तुरीर्ष्याकलुषाणुनापि ॥31॥
धिक् तं विधेः पाणिमजातलज्जं
निर्माति यः पर्वणि पूर्णमिन्दुम् ।
मन्ये स विज्ञः स्मृततन्मुखश्रीः
कृत्वार्धमौज्झद्धरमूर्ध्नि यस्तम् ॥32॥
निलीयते ह्रीविधुरः स्वजैत्रं
श्रुत्वा विधुस्तस्य मुखं मुखान्नः ।
सूरे समुद्रस्य कदापि पूरे
कदाचिदभ्रभ्रमदभ्रगर्भे ॥33॥
संज्ञाप्य नः स्वध्वजभृत्यवर्गान्
दैत्यारिरत्यब्जनलास्यनुत्यै ।
तत्संकुचन्नाभिसरोजपीताद्
धातुर्विलज्जं रमते रमायाम् ॥34॥
रेखाभिरास्ये गणनादिवास्य
द्वात्रिंशता दन्तमयीभिरन्तः ।
चतुर्दशाष्टादश चात्र विद्या
द्वेधापि सन्तीति शशंस वेधाः ॥35॥
श्रियौ नरेन्द्रस्य निरीक्ष्य तस्य
स्मरामरेन्द्रावपि न स्मरामः ।
वासेन तस्मिन्क्षमयोश्च सम्यग्-
बुद्धौ न दध्मः खलु शेष बुद्धौ ॥36॥
विना पतत्रं विनतातनूजैः समीरणैरीक्षणलक्षणीयैः ।
मनोभिरासीदनणुप्रमाणै-
र्न लङ्घिता दिक्कतमा तदश्वैः ॥37॥
संग्रामभूमीषु भवत्यरीणाम्
अस्रैर्नदीमातृकतां गतासु ।
तद्बाणधारापवनाशनानां
राजव्रजीयैरसुभिः सुभिक्षम् ॥38॥
यशो यदस्याजनि संयुगेषु
कण्डुलभावं भजता भुजेन ।
हेतोर्गुणादेव दिगापगाली
कूलंकषत्वव्यसनं तदीयम् ॥39॥
यदि त्रिलोकी गणनापरा स्यात्-
तस्याः समाप्तिर्यदि नायुषः स्यात् ।
पारेपरार्धे गणितं यदि स्याद्-
गणेयनिःशेष गुणोऽपि स स्यात् ॥40॥
अवारितद्वारतया तिरश्चाम्-
अन्तःपुरे तस्य निविश्य राज्ञः ।
गतेषु रम्येष्वधिकं विशेषम्
अध्यापयामः परमाणुमध्याः ॥41॥
पीयूषधारानधराभिरन्तः
तासां रसोदन्वति मज्जयामः ।
रम्भादिसौभाग्यरहःकथाभिः
काव्येन काव्यं सृजतादृताभिः ॥42॥
 काभिर्न तत्राभिनवस्मराज्ञा-
विश्वासनिक्षेपवणिक् क्रियेऽहम् ।
जिह्रेति यन्नैव कुतोऽपि तिर्यक्
कश्चित्तिरश्चस्त्रपते न तेन ॥43॥
वार्तापि नासत्यपि सान्यमेति
योगादरन्ध्रे हृदि यां निरुन्धे ।
विरञ्चिनानाननवादधौत
समाधिशास्त्रश्रुतिपूर्णकर्णः ॥44॥
नलाश्रयेण त्रिदिवोपभोगं
तवानवाप्यं लभते बतन्या ।
कुमुद्वतीवेन्दुपरिग्रहेण
ज्योत्स्नोत्सवं दुर्लभमम्बुजिन्या ॥45॥
तन्नैषधानूढतया दुरापं
शर्म त्वयास्मत्कृतचाटुजन्म ।
रसालवन्या मधुपानुविद्धं
सौबाग्यमप्राप्तवसन्तयेव ॥46॥
तस्यैव वा यास्यसि किं न हस्तं
दृष्टं मनः केन विधेः प्रविश्य ।
अजातपाणिग्रहणासि तावत्
रूपस्वरूपातिशयाश्रयश्च ॥47॥
निशा शशाङ्कं शिवया गिरीशं
श्रिया हरिं योजयतः प्रतीतः ।
विधेरपि स्वारसिकः प्रयासः
परस्पर योग्यसमागमाय ॥48॥
वेलातिगस्त्रैणगुणआब्धिवैणिः
न योगयोग्यासि नलेतरेण ।
संदर्भ्यते दर्भगुणेन मल्ली-
माला न मृद्वी भृशकर्कशेन ॥49॥
विधिं वधूसृष्टिमपृच्छमेव
तद्यानयुग्यो नलकेलियोग्याम् ।
त्वन्नामवर्णा इव कर्णपीता
मयास्य संक्रीडति चक्रिचक्रे ॥50॥
अन्येन पत्या त्वयि योजितायां
विज्ञत्वकीर्त्या गतजन्मनो वा ।
जनापवादार्णवमुत्तरीतुं
विधा विधातुः कतमा तरीः स्यात् ॥51॥
आस्तां तदप्रस्तुतचिन्तयालं
मयासि तन्वि ! श्रमितातिवेलम् ।
सोऽहं तदागः परिमार्ष्टुकामः
किमीप्सितं ते विदधेऽभिधेहि ॥52॥
इतीरयित्वा विरराम पत्री
स राजपुत्रीहृदयं बुभुत्सुः ।
ह्रदे गभीरे हृदि चावगाढे
शंसन्ति कार्यावतरं हि सन्तः ॥53॥
किंचित्तिरश्चीनविलोलमौलिः
विचिन्त्य वाच्यं मनसा मुहूर्तम् ।
पतत्रिणं सा पृथिवीन्द्रपुत्री
जगाद वक्रेण तृणीकृतेन्दुः ॥54॥
धिक्चापले वत्सिमवत्सलत्वं
यत्प्रेरणादुत्तरलीभवन्त्या ।
समीरसङ्गादिव नीरभङ्ग्या
मया तटस्थस्त्वमुपद्रुतोऽसि ॥55॥
आदर्शतां स्वच्छतया प्रयासि
सतां स तावत्खलु दर्शनीयः ।
आगः पुरस्कुर्वति सागसं मां
यस्यात्मनीदं प्रतिबिम्बितं ते ॥56॥
अनार्यमप्याचरितं कुमार्या
भवान्मम क्षाम्यतु सौम्य ! तावत् ।
हंसोऽपि देवांशतयासि वन्द्यः
श्रीवत्सलक्ष्मेव हि मत्स्यमूर्तिः ॥57॥
मत्प्रीतिमाधित्ससि कां त्वदीक्षा-
मुदं मदक्ष्णोरपि यातिशेताम् ।
निजामृतैर्लोचनसेचनाद्वा
पृथक्किमिन्दुः सृजति प्रजानाम् ॥58॥
मनस्तु यं नोज्झति जातु यातु
मनोरथः कण्ठपथं कथं सः ।
का नाम बाला द्विजराजपाणि-
ग्रहाभिलाषं कथयेदलज्जा ॥59॥
वाचं तदीयां परिपीय मृद्वीं
मृद्वीकया तुल्यरसां स हंसः ।
तत्याज तोषं परपुष्टघुष्टे
घृणां च वीणाक्वणिते वितेन ॥60॥
मन्दाक्षमन्दाक्षरमुद्रमुक्त्वा
तस्यां समाकुञ्चितवाचि हंसः ।
तच्छंसिते किंचन संशयालुः
गिरा मुखाम्भोजमयं युयोज ॥61॥
करेण वाञ्छेव विधुं विधर्तुं
यमित्थमात्थादरिणी तमर्थम् ।
पातुं श्रुतिभ्यामपि नाधिकुर्वे
वर्णे श्रुतेर्वर्ण इवान्तिमः किम् ॥62॥
अवाप्यते वा किमियद्भवत्या
चित्तैकपद्यामपि विद्यते यः ।
यत्रान्धकारः किल चेतसोऽपि
जिह्मेतरैर्ब्रह्म तदप्यवाप्यम् ॥63॥
ईशाणिमैश्वर्यविवर्तमध्ये
लोकेशलोकेशयलोकमध्ये ।
तिर्यञ्चमप्यञ्च मृषानभिज्ञ-
रसज्ञतोपज्ञसमज्ञमज्ञम् ॥64॥
मध्ये श्रुतीनां प्रतिवेशिनीनां
सरस्वती वासवती मुखे नः ।
ह्रियेव ताभ्यश्चलतीयमद्धा
पथान्न सत्सङ्गगुणेन नद्धा ॥65॥
पर्यङ्कतापन्नसरस्वदङ्कां
लङ्कां पुरीमप्यभिलाषि चित्तम् ।
कुत्रापि चेद्वस्तुनि ते प्रयाति
तदप्यवेहि स्वशये शयालु ॥66॥
इतीरिता पत्ररथेन तेन
ह्रीणा च हृष्टा च बभाण भैमी ।
चेतो नलङ्कामयते मदीर्यं
नान्यत्र कुत्रापि च साभिलाषम् ॥67॥
विचिन्त्य बालाजनशीलशैलं
लज्जानदीमज्जदनङ्गनागम् ।
आचष्ट विस्पष्टमभाषमाणा-
मेनां स चक्राङ्गपतङ्गशक्रः ॥68॥
नृपेण पाणिग्रहणे स्पृहेति
नलं मनः कामयते ममेति ।
आश्लेषि न श्लेषकवेर्भवत्याः
श्लोकद्वयार्थः सुधिया मया किम् ॥69॥
त्वच्चेतसः स्थैर्यविपर्ययं तु
संभाव्य भाव्यस्मि तमज्ञ एव ।
लक्ष्ये हि बालाहृदि लोलशीले
दरापराद्धेषुरपि स्मरः स्यात् ॥70॥
महीमहेन्द्रः खलु नैषधेन्दुः
तद्वोधनीयः कथमित्थमेव ।
प्रयोजनं सांशयिकं प्रतीदृक्
पृथग्जनेनेव स मद्विधेन ॥71॥
पितुर्नियोगेन निजेच्छया वा
युवानमन्यं यदि वा वृणीषे ।
त्वदर्थमर्थित्वकृति प्रतीतिः
कीदृङ्मयि स्यान्निषधेश्वरस्य ॥72॥
त्वपायि किं शङ्कितविक्रियेऽस्मिन्
नधिक्रिये वा विषये निदातुम् ।
इतः पृथक्प्रार्थयसे तु यद्यत्
कुर्वे तदुर्वीपतिपुत्रि ! सर्वम् ॥73॥
श्रवः प्रविष्टा इव तद्गिरस्ता
विधूय वैमत्यधुतेन मूर्ध्ना ।
ऊचे ह्रियोऽपि श्लथितानुरोधा
पुनर्धरित्रीपुरुहूतपुत्री ॥74॥
मदन्यदानं प्रति कल्पना या
वेदस्त्वदीये हृदि तावदेषा ।
निशोऽपि सोमेतरकान्तशङ्का
मोंकारमग्रेसरमस्य कुर्याः ॥75॥
सरोजिनीमानसरागवृत्तेः
अनर्कसंपर्कमतर्कयित्वा ।
मदन्यपाणिग्रहशङ्कितेयम्-
अहो महीयस्तव साहसिक्यम् ॥76॥
साधु त्वया तर्कितमेतदेव
स्वेनानलं यत्किल संश्रयिष्ये ।
विनामुना स्वात्मनि तु प्रहर्तु
मृषागिरं त्वां नृपतौ न कर्तुम् ॥77॥
मद्विप्रलभ्यं पुनराह यस्त्वां
तर्कः स किं तत्फलवाचि मूकः ।
अशक्यशङ्काव्यभिचारहेतुः
वाणी न वेदा यदि सन्तु के तु ॥78॥
अनैषधायैव जुहोति तातः
किं मां कृशानौ न शरीरशेषाम् ।
ईष्टे तनूजन्मतनोः स नूनं
मत्प्राणनाथस्तु नलस्तथापि ॥79॥
तदेकदासीत्वपदादुदग्रे
मदीप्सिते साधु विधित्सुता ते ।
अहेलिनां किं नलिनी विधत्ते
सुधाकरेणापि सुधाकरेण ॥80॥
तदेकलुब्धे हृदि मेऽस्ति लब्धुं
चिन्ता न चिन्तामणिमप्यनर्ष्यम् ।
चित्ते ममैकः सकलत्रिलोकी-
सारो निधिः पद्ममुखः स एव ॥81॥
श्रुतः स दृष्टश्च हरित्सु मोहात्
द्यातः स नीरन्ध्रितबुद्धिधारम् ।
ममाद्य तत्प्राप्तिरसुव्ययो वा
हस्ते तवास्ते द्वयमेकशेषः ॥82॥
संचीयतामाश्रुतपालनोत्थं
मत्प्राणविश्राणनजं च पुण्यम् ।
निवार्यतामार्य ! वृथा विशङ्का
भद्रेऽपि मुद्रेयमये ! भृशं का ॥83॥
अलं विलङ्घ्य प्रियविज्ञ ! याच्ञां
कृत्वापि वाग्यं विविधं विधेये ।
यशः पथादाश्रवतापदोत्थात्
खलु स्खलित्वास्तखलोक्तिखेलात् ॥84॥
स्वजीवमप्यार्तमुदे ददद्भ्यः
तव त्रपा नेदृशबद्धमुष्टेः ।
मह्यं मदीयान्यदसूनदित्सोः
धर्मः कराद्भ्रश्यति कीर्तिधौतः ॥85॥
दत्त्वात्मजीवं त्वयि जीवदेऽपि
शुध्यामि जीवाधिकदे तु केन ।
विधेहि तन्मां त्वदृणान्यशोद्धुम्
अमुद्रदारिद्र्यसमुद्रमग्नाम् ॥86॥
क्रीणीष्व मज्जीवितमेव पण्वम्
अन्यन्न चेदस्ति तदस्तु पुण्यम् ।
जीवेशदातर्यदि ते न दातुं
यशोऽपि तावत्प्रभवामि गातुम् ॥87॥
वराटिकोपक्रिययापि लभ्यान्
नेभ्याः कृतज्ञानथवाद्रियन्ते ।
प्राणैः पणः स्वं निपुणं भणन्तः
क्रीणन्ति तानेव तु हन्त सन्तः ॥88॥
स भूभृदष्टावपि लोकपालाः
तैर्मे तदेकाग्रधियः प्रसेदे ।
न हीतरस्माद्धटते यदेत्य
स्वयं तदाप्तिप्रतिभूर्ममाभूः ॥89॥
अकाण्डमेवात्मभुवार्जितस्य
भूत्वापि मूलं मयि वीरणस्य ।
भवान्न मे किं नलदत्वमेत्य
कर्ता हृदश्चन्दनलेपकृत्यम् ॥90॥
अलं विलम्ब्य त्वरितुं हि वेला
कार्ये किल स्थैर्यसहे विचारः ।
गुरूपदेशं प्रतिमेव तीक्ष्णा
प्रतीक्षते जातु न कालमर्तिः ॥91॥
अभ्यर्थनीयः स गतेन राजा
त्वया न शुद्धान्तगतो मदर्थम् ।
प्रियास्यदाक्षिण्यवलात्कृतो हि
तदोदयेदन्यवधूनिषेधः ॥92॥
शुद्धान्तसंभोगनितान्ततुष्टे
न नैषधे कार्यमिदं निगाद्यम् ।
अपां हि तृप्ताय न वारिधारा
स्वादुः सुगन्धिः स्वदते तुषारा ॥93॥
त्वया विधेया न गिरो मदर्थाः
कुधा कदुष्णे हृदि नैषधस्य ।
पित्तेन दूने रसने सितापि
तिक्तायते हंसकुलावतंस ! ॥94॥
धरातुरासाहि मदर्थयाच्ञा
कार्या न कार्यान्तरचुम्बिचित्ते ।
तदार्थितस्यानवबोधनिद्रा
बिभर्त्यवज्ञाचरणस्य मुद्राम् ॥95॥
विज्ञेन विज्ञाप्यमिदं नरेन्द्रे
तस्मात्त्वयास्मिन्समयं समीक्ष्य ।
आत्यन्तिकासिद्धिविलम्बिसिध्द्योः
कार्यस्य कार्यस्य शुभा विभाति ॥96॥
इत्युक्तवत्या यदलोपि लज्जा
सानौचिती चेतसि नश्चकास्तु ।
स्मरस्तु साक्षी तददोषतायाम्
उन्माद्य यस्तत्तदवीवदत्ताम् ॥97॥
उन्मत्तमासाद्य हरः स्मरश्च
द्वावप्यसीमां मुदमुद्वहेते ।
पूर्वः परस्पर्धितया प्रसूनं नूनं
द्वितीयो विरहाधिदूनम् ॥98॥
तथाभिधात्रीमथ राजपुत्रीं
निर्णीय तां नैषधबद्धरागाम् ।
अमोचि चञ्चूपुटमौनमुद्रा
विहायसा तेन विहस्य भूयः ॥99॥
इदं यदि क्ष्मापतिपुत्रि ! तत्त्वं
पश्यामि तन्न स्वविधेयमस्मिन् ।
त्वामुच्चकैस्तापयता नृपं च
पञ्चेषुणैवाजनि योजनेयम् ॥100॥
त्वद्वद्धबुद्धेर्बहिरिन्द्रियाणां
तस्योपवासव्रतिनां तपोभिः ।
त्वमद्य लब्ध्वामृततृप्तिभाजां
स्वदेवभूयं चरितार्थमस्तु ॥101॥
तुल्यावयोर्मूर्तिरभून्मदीया
दग्धा परं सास्य न ताप्यतेऽपि ।
इत्यभ्यसूयन्निव देहतापं
तस्यातनुस्त्वद्विरहाद्विधत्ते ॥102॥
लिपिं दृशा भित्तिविभूषणं त्वां
नृपः पिबन्नादरनिर्निमेषः ।
चक्षुर्झरैरर्पितमात्मचक्षू-
रागं स धत्ते रचितं त्वया नु ॥103॥
पातुर्दृशालेख्यनयीं नृपस्य
त्वामादरादस्तनिमीलयास्ते ।
ममेदमित्यश्रुणि नेत्रवृत्तेः
प्रीतेर्निमेषच्छिदया विवादः ॥104॥
त्वं हृद्गता भैमि ! बहिर्गतापि
प्राणायिता नासिकयास्यगत्या ।
न चित्रमाक्रामति तत्र चित्रम्
एतन्मनो यद्भवदेकवृत्ति ॥105॥
अजस्रमारोहसि दूरदीर्घो
संकल्पसोपानततिं तदीयाम् ।
श्वासान्स वर्षत्यधिकं पुनर्य-
द्यानात्तव त्वन्मयतां तदाप्य ॥106॥
हृत्तस्य यन्मन्त्रयते रहस्त्वां
तद्व्यक्तमामन्त्रयते मुखं यत् ।
तद्वैरिपुष्पायुधमित्रचन्द्र-
सख्यौचिती सा खलु तन्मुखस्य ॥107॥
स्थितस्य रात्रावधिशय्य शय्यां
मोहे मनस्तस्य निमज्जयन्ती ।
आलिङ्ग्य या चुम्बति लोचने सा
निद्राधुना न त्वदृतेऽङ्गना वा ॥108॥
स्मरेण निस्तक्ष्य वृथैव बाणैः
लावण्यशेषां कृशतामनायि ।
अनङ्गतामप्ययमाप्यमानः
स्पर्धां न सार्धे विजहाति तेन ॥109॥
त्वत्प्रापकात्त्रस्यति नैनसोऽपि
त्वय्येष दास्येऽपि न लज्जते यत् ।
स्मरेण बाणैरतितक्ष्य तीक्ष्णैः
लूनः स्वभावोऽपि कियान्किमस्य ॥110॥
स्मारं ज्वरं घोरमपत्रपिष्णोः
सिद्धागदङ्कारचये चिकित्सौ ।
निदानमौनादविशद्विशाला
साङ्क्रामिकी तस्य रुजेव लज्जा ॥111॥
बिभेति रुष्टासि किलेत्यकस्मात्
स त्वां किलापेति हसत्यकाण्डे ।
यान्तीमिव त्वामनु यात्यहेतोः
उक्तस्त्वयेव प्रतिवक्ति मोघम् ॥112॥
भवद्वियोगाच्छिदुरार्तिधारा-
यमस्वसुर्मज्जति निःशरण्यः ।
मूर्च्छामयद्वीपमहान्ध्यपङ्के
हा हा महीभृद्भटकुञ्जरोऽयम् ॥113॥
सव्यापसव्यत्यजनाद्द्विरुक्तैः
पञ्चेषुबाणैः पृथगर्जितासु ।
दशासु शेषा खलु तद्दशा या
तया नभः पुष्प्यतु कोरकेण ॥114॥
त्वयि स्मराधेः सततास्मितेन
प्रस्थापितो भूमिभृतास्मि तेन ।
आगत्य भूतः सफलो भवत्या
भावप्रतीत्या गुणलोभवत्याः ॥115॥
धन्यासि वैदर्भि ! गुणैरुदारैः
यया समाकृष्यत नैषधोऽपि ।
इतः स्तुतिः कः खलु चन्द्रिकाया
यदब्धिमप्युत्तरलीकरोति ॥116॥
नलेन भायाः शशिना निशेव
त्वया स भायान्निशया शशीव ।
पुनः पुनस्तद्युगयुग्विधाता
योग्यामुपास्ते नु युवां युयुक्षुः ॥117॥
स्तनद्वये तन्वि ! परं तवैव
पृथो यदि प्राप्स्यति नैषधस्य ।
अनल्पवैदग्ध्यविवर्धिनीनां
पत्रावलीनां वलना समाप्तिम् ॥118॥
एकः सुधांशुर्न कथंचन स्यात्
तृप्तिक्षमस्त्वन्नयनद्वयस्य ।
त्वल्लोचनासेचनकस्तदस्तु
नलास्यशीतद्युतिसद्वितीयः ॥119॥
अहो तपः कल्पतरुर्नलीयः
त्वत्पाणिजाग्रस्फुरदङ्कुरश्रीः ।
त्वद्भ्रूयुगं यस्य खलु द्विपत्री
तवाधरो रज्यति यत्कलम्बः ॥120॥
यस्ते नवः पल्लवितः कराभ्यां
स्मितेन यः कोरकितस्तवास्ते ।
अङ्गम्रदिम्ना तव पुष्पितो यः
स्तनश्रिया यः फलितस्तवैव ॥121॥
कांसीकृतासीत्खलु मण्डलीन्दोः
संसक्तरश्मिप्रकरा स्मरेण ।
तुला च नाराचलता निजैव
मिथोनुरागस्य समीकृतौ वाम् ॥122॥
सत्त्वस्रुतस्वेदमधूत्थसान्द्रे
तत्पाणिपद्मे मदनोत्सवेषु ।
लग्नोत्थितास्त्वत्कुचपत्रलेखाः
तन्निर्गतास्तं प्रविशन्तु भूयः ॥123॥
बन्धाढ्यनानारतमल्लयुद्ध
प्रमोदितैः केलिवने मरुद्भिः ।
प्रसूनवृष्टिं पुनरुक्तमुक्तां
प्रतीच्छतं भैमि ! युवां युवानौ ॥124॥
अन्योन्यसंगमवशादधुना विभातां
तस्यापि तेऽपि मनसी विकसद्विलासे ।
स्रष्टुं पुनर्मनसिजस्य तनुं प्रवृत्त-
मादाविवि ह्यणुककृत्परमाणुयुगमम् ॥125॥
कामः कौसुमचापदुर्जयममुं जेतुं नृपं त्वां धनु-
र्वल्लीमव्रणवंशजामधिगुणामासाद्य माद्यत्यसौ ।
ग्रीवालंकृतिपट्टसूत्रलतया पृष्ठे कियल्लम्बया
भ्राजिष्णुं कषरेखयेव निवसत्सिन्दूरसौन्दर्यया ॥126॥
त्वह्गुच्छावलिमौक्तिकानि गुलिकास्तं राजहंसं विभो-
र्वेध्यं विद्धि मनोभुवः स्वमपि तां मञ्जुं धनुर्मञ्जरीम् ।
यन्नित्याङ्कनिवासलालिततमज्याभुज्यमानं लस-
न्नाभीमध्यबिला विलासमखिलं रोमालिरालम्बते ॥127॥
पुष्पेषुश्चिकुरेषु ते शरचयं त्वद्भालमूले धनू
रौद्रे चक्षुषि तज्जितस्तनुमनुभ्राष्ट्रं च यश्चिक्षिपे ।
निर्विद्याश्रयदाश्रयं स वितनुस्त्वां तज्जयायाधुना
पत्रालिस्त्वदुरोजशैलनिलया तत्पर्णशालायते ॥128॥
इत्यालपत्यथ पतत्रिणि तत्र भैमीं
सख्यश्चिरात्तदनुसंधिपराः परीयुः ।
शर्मास्तु ते विसृज मामिति सोऽप्युदीर्य
वेगाज्जगाम निषधाधिपराजधानीम् ॥129॥
चेतोजन्मशरप्रसूनमधुभिर्व्यामिश्रतामाश्रयत्-
त्प्रेयोदूतपतङ्गपुङ्गवगवीहैयङ्गवीनं रसात् ।
स्वादं स्वादमसीममिष्टसुरभि प्राप्तापि तृप्तिं न सा
तापं प्राय नितान्तमन्तरतुलामानर्च्छ मूर्च्छामपि ॥130॥
तस्या दृशो नृपतिबन्धुमनुव्रजन्त्यास्तं
वाप्यवारि न चिरादवधीवभूव ।
पार्श्वेऽपि विप्रचकृषे यदनेनदृष्टेः
आरादपि व्यवदधे न तु चित्तवृत्तेः ॥131॥
अस्तित्वं कार्यसिद्धेः स्फुटमथ कथयन्पक्षतेः कम्पभेदैः
आख्यातुं वृत्तमेतन्निषधनरपतौ सर्वमेकः प्रतस्थे ।
कान्तारे निर्गतासि प्रियसखि ! पदवी विस्मृता किं नु मुग्धे ।
मा रोदीरेहि यामेत्युपहृतवचसो निन्युरन्यां वयस्याः ॥132॥
सरसि नृपमपश्यद्यत्र तत्तीरभाजः
स्मरतरलमशोकानोकहस्योपमूलम् ।
किसलयदलतल्पम्लायिनं प्राप तं स
ज्वलदसमशरेषुस्पर्धिपुष्पार्द्धिमौलेः ॥133॥
परवति दमयन्ति ! त्वां न किंचिद्वदामि
द्रुतमुपनम किं मामाह सा शंस हंस ! ।
इति वदति नलेऽसौ तच्छशंसोपनम्रः
प्रियमनु सुकृतां हि स्वस्पृहाया विलम्बः ॥134॥
कथितमपि नरेन्द्रः शंसयामास हंसं
किमिति किमिति पृच्छन्भाषितं स प्रियायाः ।
अधिगतमथ सान्द्रानन्दमाध्वीकमत्तः
स्वयमपि शतकृत्वस्तत्तथान्वाचचक्षे ॥135॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तार्तीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महा-
काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥136॥

चतुर्थ सर्गः[सम्पाद्यताम्]

अथ नलस्य गुणं गुणमात्मभूः
सुरभि तस्य यशः कुसुमं धनुः ।
श्रुतिपथोपगतं सुमनस्तया
तमिषुमाशु विधाय जिगाय ताम् ॥1॥
यदतनुज्वरभाक्तनुते स्म
सा प्रियकथासरसीरसमज्जनम् ।
सपदि तस्य चिरान्तरतापिनी
परिणतिर्विषमा समपद्यत ॥2॥
ध्रुवमधीतवंतीयमधीरतां
दयितदूतपतद्गतवेगतः ।
स्थितिविरोधकरीं द्व्यणुकोदरी
तदुदितः स हि यो यदनन्तरः ॥3॥
अतितमां समपादि जडाशयं
स्मितलवस्मरणेऽपि तदाननम् ।
अजनि पङ्गुरपाङ्गनिजाङ्गण-
भ्रमिकणेऽपि तदीक्षणखञ्जनः ॥4॥
किमु तदन्तरुभौ भिषजौ दिवः
स्मरनलौ विशतः स्म विगाहितुम् ।
तदभिकेन चिकित्सितुमाशु तां
मखभुजामधिपेन नियोजितौ ॥5॥
कुसुमचापजतापसमाकुं
कमलकोमलमैक्ष्यत तन्मुखम् ।
अहरहर्वहदभ्यधिकाधिकां
रविरुचिग्लपितस्य विधोर्विधाम् ॥6॥
तरुणतातरणिद्युतिनिर्मित-
द्रढिम तत्कुचकुम्भयुगं तदा ।
अनलसंगतितापमुपैतु नो
कुसुमचापकुलालविलासजम् ॥7॥
अधृत यद्विरहोष्मणि भज्जितं
मनसिजेन तदूरुयुगं तदा ।
स्पृशति तत्कदनं कदलीतरुः
यदि मरूज्वलदूषरदूषितः ॥8॥
स्मरशराहतिनिर्मितसंज्वरं
करयुगं हसति स्म दमस्वसुः ।
अनपिधानपतत्तपनातपं
तपनिपीतसरः सरसीरुहम् ॥9॥
मदनतापभरेण विदीर्य नो
यदुदपाति हृदा दमनस्वसुः ।
निबिडपीनकुचद्वययन्त्रणा
तभपराधमधात्प्रतिबध्नती ॥10॥
निविशते यदि शूकशिखा पदे
सृजति सा कियतीमिव न व्यथाम् ।
मृदुनोर्वितनोतु कथं न ताम्-
अवनिभृत्तु निविश्य हृदि स्थितः ॥11॥
मनसि सन्तमिव प्रियमीक्षितुं
नयनयोः स्पृहयान्तरुपेतयोः ।
ग्रहणशक्तिरभूदिदमीययोः
अपि न संमुखवास्तुनि वस्तुनि ॥12॥
हृदि दमस्वसुरश्रुझरप्लुते
प्रतिफलद्विरहात्तमुखानतेः ।
हृदयभाजमराजत चुम्बितुं
नलमुपेत्य किलागमि तन्मुखम् ॥13॥
सुहृदमग्निमुदञ्चयितुं स्मरं
मनसि गन्धवहेन मृगीदृशः ।
अकलि निःश्वसितेन विनिर्गमा-
नुमितनिह्नुतवेशनमायिता ॥14॥
विरहपाण्डिमरागतमोमषी-
शितिमतन्निजपीतिमवर्णकैः ।
दश दिशः खलु तद्दृगकल्पयल्-
लिपिकरी नलरूपकचित्रिताः ॥15॥
स्मरकृतां हृदयस्य मुहुर्दशां बहु
वदन्निव निःश्वसितानिलः ।
व्यधित वाससि कम्पमदः श्रिते
त्रसति कः सति नाश्रयबाधने ॥16॥
करपदाननलोचननामभिः
शदतलैः सुतनोर्विरहज्वरे ।
रविमहो बहुपीतचरं चिराद्
अनिशतापमिषादुदसृज्यत ॥17॥
उदयति स्म तदद्भुतमालिभिः
धरणिभृद्भुवि तत्र विमृश्य यत् ।
अनुमितोऽपि च बाष्पनिरीक्षणाद्
द्व्यविभिचचार न तापकरो नलः ॥18॥
हृदि विदर्भभुवः प्रहरञ्शरै
रतिपतिर्निषधाधिपतेः कृते ।
कृततदन्तरगस्वदृढव्यधैः
फलदनीतिरमूर्च्छदलं खलु ॥19॥
विधुरमानि तया यदि भानुमान्
कथमहो स तु तद्धृदयं तथा ।
अपि वियोगभरास्फुटनस्फुटी-
कृतदृषत्त्वमजिज्वलदंशुभिः ॥20॥
हृदयदत्तसरोरुहया तया
क्व सदृगस्तु वियोगनिमग्नया ।
प्रियधनुः परिरभ्य हृदा रत्तिः
किमनुमर्तुमशेत चितार्चिषि ॥21॥
अनलभावमियं स्वनिवासिनो
न विरहस्य रहस्यमबुध्यत ।
प्रशमनाय विधाय तृणान्यसू-
ञ्ज्वलति तत्र यदुज्झितुमैहत ॥22॥
प्रकृतिरेतु गुणः स न योषितां
कथमिमां हृदयं मृदु नाम यत् ।
तदिषुभिः कुसुमैरपि दुन्वता
सुविवृतं विबुधेन मनोभुवा ॥23॥
रिपुतरा भवनादविनिर्यतीं
विधुरुचिर्गृहजालबिलैर्नु ताम् ।
इतरथात्मनिवारणशङ्कया
ज्वरयितुं विशवेशधराविशत् ॥24॥
हृदि विदर्भभुवोऽश्रुभृति स्फुटं
विनमदास्यतया प्रतिबिम्बितम् ।
मुखदृगोष्ठमरोपि मनोभुवा
तदुपमाकुसुमान्यखिलाः शराः ॥25॥
विरहपाण्डुकपोलतले विधुः
व्यधित भीमभुवः प्रतिबिम्बितः ।
अनुपलक्ष्यसितांशुतया मुखं
निजसखं सुखमङ्कमृगार्पणात् ॥26॥
विरहतापिनि चन्दनपांशुभिः
वपुषि सार्पितपाण्डिममण्डना ।
विषधराभबिसाभरणा दधे
रतिपतिं प्रति शंभुविभीषिकाम् ॥27॥
विनिहितं परितापिनि चन्दनं
हृदि तया धृतबुद्बुदमाबभौ ।
उपनमन्सुहृदं हृदयेशयं
विधुरिवाङ्कगतोडुपरिग्रहः ॥28॥
स्मरहुताशनदीपितया तया
बहु मुहुः सरसं सरसीरुहम् ।
श्रयितुमर्धपथे कृतमन्तरा
श्वसितनिर्मितमर्मरमुज्झितम् ॥29॥
प्रियकरग्रहमेवमवाप्स्यति
स्ननयुगं तव ताम्यति किं न्विति ।
जगदतुर्निहिते हृदि नीरजे
दवथुकुङ्मलेन पृथुस्तनीम् ॥30॥
त्वदितरो न हृदापि मया धृतः
पतिरितीव नलं हृदयेशयम् ।
स्मरहविर्भुजि बोधयति स्म सा
विरहपाण्डुतया निजशुद्धताम् ॥31॥
विरहतप्ततदङ्गनिवेशिता
कमलिनी निमिषद्दलमुष्टिभिः ।
किमपनेतुमचेष्टत किं परा-
भवितुमैहत तद्दवथुं पृथुम् ॥32॥
इयमनङ्गशरावलिपन्नग-
क्षतविसारिवियोगविषावशा ।
शशिकलेव खरांशुकरार्दिता
करुणनीरनिधौ निदधौ न कम् ॥33॥
ज्वलति मन्मथवेदनया निजे
हृदि तयार्द्रमृणाललतार्पिता ।
स्वजयिनोस्त्रपया सविधस्थयोः
मलिनतामभजद्भुजयोर्भृशम् ॥34॥
पिकलतेश्रुतिकम्पिनि शैवलं
हृदि तया निहितं विचलद्बभौ ।
सतततद्गतहृच्छयकेतुना
हृतमिव स्वतनूघनघर्षिणा ॥35॥
न खलु मोहवशेन तदाननं
नलमनः शशिकान्तमबोधि तत् ।
इतरथा राशिनोऽभ्युदये ततः
कथमसुस्रुवदस्रुमयं पयः ॥36॥
रतिपतेर्विजयास्त्रमिषुर्यथा
जयति भीमसुतापि तथैव सा ।
स्वविशिखानिव पञ्चतया ततो
नियतमैहत योजयितुं स ताम् ॥37॥
शशिमयं दहनास्त्रमुदित्वरं
मनसिजस्य विमृश्य वियोगिनी ।
झटिति वारुणमश्रुमिषादसौ
तदुचितं प्रतिशस्त्रमुपाददे ॥38॥
अतनुना नवमम्बुदमाम्बुदं
सुतनुरस्त्रमुदस्तमवेक्ष्य सा ।
उचितमायतनिःश्वसितच्छला-
च्छ्सनशस्त्रममुञ्चदमुं प्रति ॥39॥
रतिपतिग्रहितानिलहेतितां
प्रतियती सुदती मलयानिले ।
तदुरुतापभयात्तमृणालिका-
मयमियं भुजगास्त्रमिवादित ॥40॥
न्यधित तद्धृदि शल्यमिव द्वयं
विरहितां च तथापि च जीवितम् ।
किमथ तत्र निहत्य निखातवा-
व्रतिपतिः स्तनबिल्वयुगेन तत् ॥41॥
अतिशरव्ययता मदनेन तां
निखिलपुष्पमयस्वरशरव्ययात् ।
स्फुटमकारि फलान्यपि मुञ्चता
तदुरसि स्तनतालयुगार्पणम् ॥42॥
अथ मुहुर्बहुनिन्दितचन्द्रया
स्तुतविधुंतुदया च तया मुहुः ।
पतितया स्मरतापमये गदे
निजगदेऽश्रुविमिश्रमुखी सखी ॥43॥
नरसुराब्जभुवामिव यावता
भवति यस्य युगं यदनेहसा ।
विरहिणामपि तद्गतवद्युव-
क्षणमितं न कथं गणितागमे ॥44॥
जनुधत्त सती स्मरतापिता
हिमवतो न तु तन्महिमादृता ।
ज्वलति भालतले लिखितः सती-
विरह एव हरस्य न लोचनम् ॥45॥
दहनजा न पृथुर्दवथुव्यथा
विरहजैव पृथुर्यदि नेदृशम् ।
दहनमाशु विशन्ति कथं स्त्रियः
प्रियमपासुमुपासितुमुद्धुराः ॥46॥
हृदि लुठन्ति कला नितराममू-
र्विरहिणीवधपङ्ककलङ्किताः ।
कुमुदसख्यकृतस्तु बहिष्कृताः
सखि ! विलोकय दुर्विनयं विधोः ॥47॥
अयि ! विधुं परिपृच्छ गुरोः
कुतः स्फुटमशिक्ष्यत दाहवदान्यता ।
ग्लपितशंभुगलाद्गरलात्त्वया
किमुदधौ जड ! वा वडवानलात् ॥48॥
अयमयोगिवभूवधपातकैः
भ्रमिमवाप्य दिवः खलु पात्यते ।
शितिनिशादृषदि स्फुटदुत्पतत्-
कणगणाधिकतारकिताम्बरः ॥49॥
त्वमभिधेहि विधुं सखि ! मद्गिरा
किमिदमीदृगधिक्रियते त्वया ।
न गणितं यदि जन्म पयोनिधौ
हरशिरःस्थितिभूरपि विस्मृता ॥50॥
निपततापि न मन्दरभूभृता
त्वमुदधौ शशलाच्छन ! चूर्णितः ।
अपि मुनेर्जठरार्चिषि जीर्णतां
वत गतोऽसि न पीतपयोनिधेः ॥51॥
किमसुभिर्ग्लपितैर्जड ! मन्यसे
मयि निमज्जतु भीमसुतामनः ।
मम किल श्रुतिमाह तदर्थिकां
नलमुखेन्दुपरां विबुधः स्मरः ॥52॥
मुखरय स्वयशोनवडिण्डिमं
जलनिधेः कुलमुज्ज्वलयाधुना ।
अपि गृहाण वधूवधपौरुषं
हरिणलाञ्छन ! मुञ्च कदर्थनाम् ॥53॥
निशि शशिन् ! भज कैतवभानु-
तामसति भास्वति तापय पाप ! माम् ।
अहमहन्यवलोकयितास्मि ते
पुनः अहर्पतिनिह्नुतदर्पताम् ॥54॥
शशकलङ्क ! भयंकर ! मादृशां
ज्वलसि यन्निशि भूपतिं श्रितः ।
तद्भृतस्य तवेदृशभूतताद्
भुतकरी परमूर्धविधूननी ॥55॥
श्रवणपूरतमालदलाङ्कुरं
शशिकुरङ्गमुखे सखि ! निक्षिप ।
किमपि तुन्दिलितः स्थगयत्यमुं
सपदि तेन तदुच्छसिमि क्षणम् ॥56॥
असमये मति रुन्मिषति ध्रुवं
करगतैव गता यदियं कुहूः ।
पुनरुपैति निरुध्यनिवास्यते
सखि ! मुखं न विधोः पुनरीक्ष्यते ॥57॥
अयि ! ममैष चकोरशिशुर्मुनेः
व्रजति सिन्धुपिबस्य न शिष्यताम् ।
अशितुमब्धिमधीतवतोऽस्य च
शशिकराः पिबतः कति शीकराः ॥58॥
कुरु करे गुरुमेवकमयोघनं
बहिरतो मुकुरं च कुरुष्व मे ।
विशति तत्र यदैव विधुस्तदा
सखि ! सुखादहितं जहि तं द्रुतम् ॥59॥
उदर एव धृतः किमुदन्वता
न विषमो वडवानलवद्विधुः ।
विषवदुज्झितमप्यमुना न स
स्मरहरः किममुं बुभुजे विभुः ॥60॥
असितमेकसुराशितमप्यभून्न
पुनरेष विधुर्विशदं विषम् ।
अपि निपीय सुरैर्जनितक्षयं
स्वयमुदेति पुनर्नवमार्णवम् ॥61॥
विरहिवर्गवधव्यसनाकुलं
कलय पापमशेषकलं विधुम् ।
सुरनिपीतसुधाकरपापकं
ग्रहविदो विपरीतकथाः कथम् ॥62॥
विरहिभिर्बहुमानमवापि यः
स बहुलः खलु पक्ष इहाजनि ।
तदमितिः सकलैरपि यत्र तैः
व्यरचि सा च तिथिः किममाकृता ॥63॥
स्वरिपुतीक्ष्णसुदर्शनविभ्रमात्
किमु विधुं ग्रसते स विधुंतुदः ।
निपतितं वदने कथमन्यथा
बलिकरम्भनिभं निजमुज्झति ॥64॥
वदनगर्भगतं न निजेच्छया
शशिनमुज्झति राहुरसंशयम् ।
अशित एव गलत्ययमत्ययं
सखि ! विना गलनालबिलाध्वना ॥65॥
ऋजुदृशः कथयन्ति पुराविदो
मधुभिदं किल राहुशिरश्छिदम् ।
विरहिमूर्धमिदं निगदन्ति न
क्व नु शशी यदि तज्जठरानलः ॥66॥
स्मरसखौ रुचिभिः स्मरवैरिणा
मखमृगस्य यथा दलितं शिरः ।
सपदि संदधतुर्भिषजौ दिवः
सखि ! तथा तमसोऽपि करोतु कः ॥67॥
नलविमस्तकितस्य रणे रिपोः
मिलति किं न कबन्धगलेन वा ।
मृतिभिया भृशमुत्पततस्तम्
आग्रहशिरस्तदसृग्दृढबन्धनम् ॥68॥
सखि ! जरां परिपृच्छ तमः शिरः
सममसौ दधतापि कबन्धताम् ।
मगधराजवपुर्दलयुग्मवत्किम्
इति न व्यतिसीव्यति केतुना ॥69॥
वद विधुंतुदमालि ! मदीरितैः
त्यजसि किं द्विजराजधिया रिपुम् ।
किमु दिवं पुनरेति यदीदृशः
पतित एष निषेव्य हि वारुणीम् ॥70॥
दहति कण्ठमयं खलु तेन किं
गरुडवद्द्विजवासनयोज्झितः ।
प्रकृतिरस्य विधुंतुद ! दाहिका
मयि निरागसि का वद विप्रता ॥71॥
सकलया कलया किल दंष्ट्रया
समवधाय यमाय विनिर्मितः ।
विरहिणीगणचर्वणसाधनं
विधुरतो द्विजराज इति श्रुतिः ॥72॥
स्मरमुखं हरनेत्रहुताशनाज्
ज्वलदिदं चकृषे विधिना विधुः ।
बहुविधेन वियोगिवधैनसा
शशमिषादथ कालिकयाङ्कितः ॥73॥
(द्विजपतिग्रसनाहितपातक
प्रभवकुष्ठसितीकृतविग्रहः ।
विरहिणीवदनेन्दुजिघत्सया
स्फुरति राहुरयं न निशाकरः ॥1॥)
इति विधोर्विविधोक्तिवगर्हणं
व्यवहितस्य वृथेति विमृश्य सा ।
अतितरां दधती विरहज्वरं
हृदयभाजमुपालभत स्मरम् ॥74॥
हृदयमाश्रयसे यदि ममाकं
ज्वलयसीत्थमनङ्ग ! तदेव किम् ।
स्वयमपि क्षणदग्धनिजेन्धनः क्व
भवितासि हतारा ! हुताशवत् ॥75॥
पुरभिदा गमितस्त्वमदृश्यतां
त्रिनयनत्वपरिप्लुतिशङ्कया ।
स्मर ! निरैष्यत कस्यचनापि न
त्वयि किमक्षिगते नयनैस्त्रिभिः ॥76॥
सहचरोऽसि रतेरिति विश्रुतिः
त्वयि वसत्यपि मे न रतिः कुतः ।
अथ न संप्रति संगतिरस्ति वा-
मनुमृता न भवन्तमियं किल ॥77॥
रतिवियुक्तमनात्मपरज्ञ ! किं
स्वमिव मामपि तापितवानसि ।
कथमतापभृतस्तव संगमा-
दितरथा हृदयं मम दह्यते ॥78॥
अनुममार न मार ! कथं नु सा
रतिरतिप्रथितापि पतिव्रता ।
इयदनाथवधूवधपातकी
दयितयापि तयासि किमुज्झितः ॥79॥
सुगत एव विजित्य जितेन्द्रियः
त्वदुरुकीर्तितनुं यदनाशयत् ।
तव तनूमवशिष्टवतीं ततः
समिति भूतमयीमहरद्धरः ॥80॥
फलमलभ्यत यत्कुसुमैस्त्वया
विषमनेत्रमनङ्ग ! विगृह्णता ।
अहद नीतिरवाप्तभया ततो
न कुसुमैरपि विग्रहमिच्छति ॥81॥
अपि धयन्नितरामरवत्सुधां
त्रिनयनात्कथमापिथ तां दशाम् ।
भण रतेरधरस्य रसादरात्
अमृतमाप्तघृणः खलु नापिबः ॥82॥
भुवनमोहनजेन किमेनसा
तव बभूव परेत ! पिशाचता ।
यदधुना विरहाधमलीमसाम्
अभिभवन्भ्रमसि स्मर ! मद्विधाम् ॥83॥
बत ददासि न मृत्युमपि स्मर !
स्खलति तेऽकृपया न धनुः करात् ।
अथ मृतोऽसि मृतेन च मुच्यते
न खलु मुष्टि रुरीकृतबन्धनः ॥84॥
दृगुपहत्यपमृत्युविरूपताः
शमयतेऽपरनिर्जरसेविता ।
अतिशयान्ध्यवपुः क्षतिपाण्डुताः
स्मर ! भवन्ति भवन्त्यमुपासितुः ॥85॥
स्मर ! नृशंसतमस्त्वमतो विधिः
सुमनसः कृतवान्भवदायुधम् ।
यदि धनुर्दृढमाशुगमायसं
तव सृजेत्त्रिजगत्प्रलयं व्रजेत् ॥86॥
स्मररिपोरिव रोपशिखी पुरां
दहतु ते जगतामपि मा त्रयम् ।
इति विधिस्त्वदिषून्कुसुमानि किं
मधुभिरन्तरसिञ्चदनिर्वृतः ॥87॥
विधिरनंशममेद्यमवेक्ष्य ते
जनमनः खलु लक्षमकल्पयत् ।
अपि स वज्रमदास्यत चेत्तदा
त्वदिषुभिर्वदलिष्यदसावपि ॥88॥
अपि विधिः कुसुमानि तवाशुगान्
स्मर ! विधाय न निर्वृतिमाप्तवान् ।
अदित पञ्च हि ते स नियम्य तां
स्तदपि तैर्बत जर्जरितं जगत् ॥89॥
उपहरन्ति न कस्य सुपर्वणः
सुमनसः कति पञ्च सुरद्रुमाः ।
तव तु हीनतया पृथगेकिकां
धिगियतापि न तेऽङ्ग ! विगर्हणा ॥90॥
कुसुममप्यतिदुर्णयकारि ते
किमु वितीर्य धनुर्विधिरग्रहीत् ।
किमकृतैष तवैकतदास्पदे
द्वयमभूदधुना हि नलभ्रुवौ ॥91॥
षड्टतवः कृपया स्वकमेककं
कुसुममक्रमनन्दितनन्दनाः ।
ददति षड्भवते कुरुते भवान्
धनुरिवैकमिषूनिवपञ्च तैः ॥92॥
यदतनुस्त्वमिदं जगते हितं
क्व स मुनिस्तव यः सहते हतीः ।
विशिखमाश्रवणं परिपूर्ण चेद्
अविचलद्भुतमुज्झितुमीशिषे ॥93॥
सह तया स्मर ! भस्म झटित्यभूः
पशुपतिं प्रति यामिषुमग्रहीः ।
ध्रुवमभूदधुना वितनोः शरः
तव पिकस्वर एव स पञ्चमः ॥94॥
स्मर ! स मद्दुरितैरफलीकृतो
भगवतोऽपि भवद्दहनश्रमः ।
सुरहिताय हुतात्मतनुः पुनः
ननु जनुर्दिवि तत्क्षणमापिथ ॥95॥
विरहिणो विमुखस्य विधूदये
शमनदिक्पवनः स न दक्षिणः ।
सुमनसो नमयन्नटनौ धनुः
तव तु बाहुरसौ यदि दक्षिणः ॥96॥
किमु भवन्तमुमापतिरेककं
मदमुदान्धमयोगिजनान्तकम् ।
यदजयत्तत एव न गीयते
स भगवान्मदनान्धकमृत्युजित् ॥97॥
त्वमिव कोऽपि परापकृतौ कृती
न ददृशे न च मन्मथ ! शुश्रुवे ।
स्वमदहो दहनाज्ज्वलतात्मना
ज्वलयितुं परिरभ्य जगन्ति यः ॥98॥
त्वमुचितं नयनार्चिषि शंभुना
भुवनशान्तिकहोमहविः कृतः ।
तव वयस्यमपास्य मधुं मधुं
हतवता हरिणा बत किं कृतम् ॥99॥
इति कियद्वचसैव भृशं प्रिया-
धरपिपासु तदाननमाशु तत् ।
अजनि पांशुमप्रियवाग्ज्वलन्
मदनशोषणबाणहतेरिव ॥100॥
प्रियसखीनिवहेन सहाथ सा
व्यरचयद्गिरमर्धसमस्यया ।
हृदयमर्मणि मन्मथसायकैः
क्षततमा बहु भाषितुमक्षमा ॥101॥
अकरुणादव सूनशरादसून्
सहजयापदि धीरतयात्मनः ।
असव एव ममाद्य विरोधिनः
कथमरीन्सखि ! रक्षितुमात्थ माम् ॥102॥
हितगिरं न शृणोषि किमाश्रवे !
प्रसभमप्यव जीवितमात्मनः ।
सखि ! हिता यदि मे भवसीदृशी
मदरिमिच्छसि या मम जीवितम् ॥103॥
अमृतदीधितिरेष विदर्भज !
भजसि तापममुष्य किमंशुभिः ।
यदि भवन्ति मृताः सखि ! चन्द्रिकाः
शशमृतः क्व तदा परितप्यते ॥104॥
व्रज धृतिं त्यज भीतिमहेतुकाम्
अयमचण्डमरीचिरुदञ्चति ।
ज्वलयति स्फुटमातपमुर्मुरैः
अनुभवं वचसा सखि ! लुम्पसि ॥105॥
अयि ! शपे हृदयाय तवैव तद्
यदि वधोर्न रुचेरसि गोचरः ।
रुचिफलं सखि ! दृश्यत एव तज्
ज्वलयति त्वचमुल्ललयत्यसून् ॥106॥
विधुविरोधितिथेरभिधायिनीं
ननु न किं पुनरिच्छसि कोकिलाम् ।
सखि ! किमर्थगवेषणया गिरं
किरति सेयमनर्थमयीं मयि ॥107॥
हृदय एव तवास्ति स वल्लभः
तदपि किं दमयन्ति ! विषीदसि ।
हृदि परं न बहिः खलु वर्तते
सखि ! पयस्तत एव विषद्यते ॥108॥
स्फुटति हारमणौ मदनोष्मणा
हृदयमप्यनलंकृतमद्य ते ।
सखि ! हतास्मि तदा यदि हृद्यपि
प्रियतमः स मम व्यवधापितः ॥109॥
इदमुदीर्य तदैव मुमूर्च्छ सा
मनसि मूर्च्छितमन्मथपावका ।
क्व सहतामवलम्बलवच्छिदाम्
अनुपपत्तिमतीमतिदुःखिता ॥110॥
अधित कापि मुखे सलिलं सखी
प्यधित कापि सरोजदलैः स्तनौ ।
व्यधित कापि हृदि व्यजनानिलं
न्यधित कापि हिमं सुतनौस्तनौ ॥111॥
उपचचार चिरं मृदुशीतलैः
जलजनालमृणालजलादिभिः ।
प्रियसखीनिवहः स तथा क्रमाद्
इयमवाप यथा लघु चेतनाम् ॥112॥
अथ कले ! कलय श्वसिति स्फुटं
चलति पक्ष्म चले ! परिभावय ।
अधरकम्पनमुन्नय मेनके !
किमपि जल्पति कल्पलते ! श्रृणु ॥113॥
रचय चारुमति ! स्तनयोर्वृतिं
कलय केशिनि ! कैश्यमसंयतम् ।
अवगृहाण तरङ्गिणि ! नेत्रयोः
जलझराविति शुश्रुविरे गिरः ॥114॥
कलकलः स तदालिजनाननाद्
उदलसद्विपुलस्त्वरितेरितैः ।
यमधिगम्य सुतालयमीयिवान्
धृतदरः स विदर्भपुरंदरः ॥115॥
कन्यान्तः पुरबाधनाय यदधाकारान्न दोषा नृपं
द्वौ मन्त्रिप्रवरश्च तुल्यमगदंकारश्च तावूचतुः ।
देवाकर्णय सुश्रुतेन चरकस्योक्तेन जानेऽखिलं
स्यादस्या नलदं विना न दलने तापस्य कोऽपि क्षमः ॥116॥
ताभ्यामभूद्युगपदप्यभिधीयमानं
भेदव्यपाकृति मिथःप्रतिघातमेव ।
श्रोत्रे तु तस्य पपतुर्नृपतेर्न किंचिद्
भैम्यामनिष्टशतशङ्कितयाकुलस्य ॥117॥
द्रुतविगमितविप्रयोगचिह्नामपि
तनयां नृपतिः पदप्रणम्राम् ।
अकलयदसमाशुगाधिमग्नां
झटिति पराशयवेदिनो हि विज्ञाः ॥118॥
व्यतरदथ पिताशिषं सुतायै
नतशिरसे सहसोन्नमय्य मौलिम् ।
दयितमभिमतं स्वयंवरे ! त्वं गुणम्
अयमाप्नुहि वासरैः कियद्भिः ॥119॥
तदनु स तनुजासखीरवादीत्
तुहिनऋतौ गत एव हीदृशीनाम् ।
कुसुममपि शरायते शरीरे तद्
उचितमाचरतोपचारमस्याः ॥120॥
कतिपयदिवसैर्वयस्यया वः
स्वयमभिलष्य वरिष्यते वरीयान् ।
क्रशिमशमनयानया तदाप्तुं रुचि-
रुचिताथ भवद्विधाविधाभिः ॥121॥
एवं यद्वदता नृपेण तनया नापृच्छि लज्जास्पदं
यन्मोहः स्मरभूरकल्पि वपुषः पाण्डुत्वतापादिभिः ।
पच्चाशीः कपटादवादि सदृशी स्यात्तत्र या सान्त्वना
तन्मत्यालिजनो मनोब्धिमतनोदानन्दमन्दाक्षयोः ॥122॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुबे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तुर्यः स्थैर्यविचारणप्रकरणभ्रातर्ययं तन्महा-
काव्येऽत्र व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वलः ॥123॥

पञ्चम सर्गः[सम्पाद्यताम्]

यावदागमयतेऽथ नरेन्द्रान्स
स्वयंवरमहाय महीन्द्रः ।
तावदेव ऋषिरिन्द्रदिदृक्षुः
नारदस्त्रिदशधाम जगाम ॥1॥
नात्र चित्रमनु तं प्रययौ
यत्पर्वतः स खलु तस्य सपक्षः ।
नारदस्तु जगतो गुरुरुच्चै-
र्विस्मयाय गगनं विललङ्घे ॥2॥
गच्छता पथि विनैव विमानं
व्योम तेन मुनिना विजगाहे ।
साधने हि नियमोऽन्यजनानां
योगिनां तु तपसाखिलसिद्धिः ॥3॥
खण्डितेन्द्रभवनाद्यभिमा-
नाल्लङ्घते स्म मुनिरेष विमानान् ।
अर्थितोऽप्यतिथितामनुमेने
नैव तत्पतिभिरङ्घ्रिविनम्रैः ॥4॥
तस्य तापनभिया तपनः स्वं
तावदेव समकोचयदर्चिः ।
यावदेव दिवसेन शशीव
द्रागतप्यत न तन्महसैव ॥5॥
पर्यभूद्दिनमणिर्द्विजराजं
यत्करैरहह तेन तदा तम् ।
पर्यभूत्खलु करैर्द्विजराजः
कर्म कः स्वकृतमत्र न भुङ्क्ते ॥6॥
विष्टरं तटकुशालिभिरद्धिः
पाद्यमर्ध्यमथ कच्छरुहाभिः ।
पद्मवृन्दमधुभिर्मधुपर्कं
स्वर्गसिन्धुरदितातिथयेऽस्मै ॥7॥
स व्यतीत्य वियदन्तरगाधं
नाकनायकनिकेतनमाप ।
संप्रतीर्य भवसिन्धुमनार्दि
ब्रह्म शर्मभरचारु यतीव ॥8॥
अर्चनाभिरुचितोच्चतराभिः
चारु तं सदकृतातिथिमिन्द्रः ।
यावदर्हकरणं किल साधोः
प्रत्यवायधुतये न गुणाय ॥9॥
नामधेयसमतासखमद्रेरद्रि-
भिन्मुनिमथाद्रियत द्राक् ।
पर्वतोऽपि लभतां कथमर्चां
न द्विजः स विबुधप्रभुलम्भी ॥10॥
तद्भुजादतिवितीर्णसपर्याद्
दयुद्रुमानपि विवेद मुनीन्द्रः ।
स्वः सहस्थितिसुशिक्षितया
तान्दानपारमितयैव वदान्यान् ॥11॥
मुद्रितान्यजनसंकथनः सन्
नारदं बलरिपुः समवादीत् ।
आकरः स्वपरभूरिकथानां
प्रायशो हि सुहृदोः सहवासः ॥12॥
तं कथानुकथनप्रसृतायां
दूरमालपनकौतुकितायाम् ।
भूभृतां चिरमनागतिहेतुं
ज्ञातुमिच्छुरवदच्छतमन्युः ॥13॥
प्रागिव प्रसुवते नृपवंशाः
किंनु संप्रति न वीरकरीरान् ।
ये परप्रहरणैः परिणामे
विक्षताः क्षितितले निपतन्ति ॥14॥
पार्थिवं हि निजमाजिषु वीरा
दूरमूर्ध्वगमनस्य विरोधि ।
गौरवाद्वपुरपास्य भजन्ते
मत्कृतामतिथिगौरवऋद्धिम् ॥15॥
साभिशापमिव नातिथयस्ते
मां यदद्य भगवन्नुपयन्ति ।
तेन न श्रियमिमां बहु मन्ये
स्वोदरैकभृतिकार्यकदर्याम् ॥16॥
पूर्वपुण्यविभवव्ययलब्धाः
श्रीभरा विपद एव विमृष्टाः ।
पात्रपाणिकमलार्पणमासां
तासु शान्तिकविधिर्विधिदृष्टः ॥17॥
तद्विमृज्य मम संशयशिल्पि स्फीतमत्र विषये सहसाघम् ।
भूयतां भगवतः श्रुतिसारैः
अद्य वाग्भिरघमर्षणऋग्भिः ॥18॥
इत्युदीर्य मघवा विनयर्धिं
वर्धयन्नवहितत्वभरेण ।
चक्षुषां दशशतीमनिमेषां
तस्थिवान्मुनिमुखे प्रणिधाय ॥19॥
वीक्ष्य तस्य विनये परिपाकं
पाकशासनपदं स्पृशतोऽपि ।
नारदः प्रमदगद्गदयोक्त्या
विस्मितः स्मितपुरः सरमूचे ॥20॥
भिक्षिता शतमखी सुकृतं यत्
तत्परिश्रमविदः स्वविभूतौ ।
तत्फले यदि परं तव हेला
क्लेशलब्धमधिकादरदं तु ॥21॥
संसपदस्तव गिरामपि दूरा
यन्न नाम विनयं विनयन्ते ।
श्रद्दधाति क इवेह न साक्षाद्
आह चेदनुभवः परमाप्तः ॥22॥
श्रीभरानतिथिसात्करवाणि
स्वोपभोगपरता न हितेति ।
पश्यतो बहिरिवान्तरपीयं
दृष्टिसृष्टिरधिका तव कापि ॥23॥
आः स्वभावमधुरैरनुभावैः
तावकैरतितरां तरलाः स्मः ।
द्यां प्रशाधि गलितावधिकालं
साधु साधु विजयस्व बिडौजः ॥24॥
संख्यविक्षततनुस्रवदस्रक्षालि-
ताखिलनिजाघलघूनाम् ।
यत्त्विहानुपगमः शृणु राज्ञां
तज्जगद्युवमुदं तमुदन्तम् ॥25॥
सा भुवः किमपि रत्नमनर्घे
भूषणं जयति तत्र कुमारी ।
भीमभूपतनया दमयन्ती
नाम या मदनशस्त्रममोघम् ॥26॥
संप्रति प्रतिमुहूर्तमपूर्वा
कापि यौवनजवेन भवन्ती ।
आशिखं सुकृतसारभृते सा
क्वापि यूनि भजते किल भावम् ॥27॥
कथ्यते न कतमः स इति त्वं
मां विवक्षुरसि किं चलदोष्ठः ।
अर्धवर्त्मनि रुणत्सि न पृच्छां
निर्गमेण न परिश्रमयैनाम् ॥28॥
यत्पथावधिरणुः परमः सा
योगिधीरपि न पश्यति यस्मात् ।
बालया निजमनः परमाणौ
ह्रीदरीशयहरीकृतमेनम् ॥29॥
सा शरस्य कुसुमस्य शरव्यं
सूचिता विरहवाचिभरङ्गैः ।
तातचित्तमपि धातुरधत्त स्व-
स्वयंवरमहाय सहायम् ॥30॥
मन्मथाय यदथादित राज्ञां
हूतिदूत्यविधये विधिराज्ञाम् ।
तेन तत्परवशाः पृथिवीशाः
संगरं गरमिवाकलयन्ति ॥31॥
येषु येषु सरसा दमयन्ती
भूषणेषु यदि वापि गुणेषु ।
तत्र तत्र कलयापि विशेषो यः
स हि क्षितिभृतां पुरुषार्थः ॥32॥
शैशवव्ययदिनावधि तस्या
यौवनोदयिनि राजसमाजे ।
आदरादहरहः कुसुमेषोः
उल्ललास मृगयाभिनिवेशः ॥33॥
इत्यमी वसुमतीकमितारः
सादरास्त्वदतिथीभवितुं न ।
भीमभूसुरभुवोरभिलापे
दूरमन्तरमहो नृपतीनाम् ॥34॥
तेन जाग्रदधृतिर्दिवमागां
संख्यसौख्यमनुसर्तुमनु त्वाम् ।
यन्मृधं क्षितिभृतां न विलोके
तन्निमग्नमनसां भुवि लोके ॥35॥
वेद यद्यपि न कोऽपि भवन्तं
हन्त हन्त्रकरुणं विरुणद्धि ।
पृच्छयसे तदपि येन विवक-
प्रोञ्छनाय विषये रससेकः ॥36॥
एवमुक्तवति देवऋषीन्द्रे
द्रागभेदि मघवाननमुद्रा ।
उत्तरोत्तरशुभो हि विभूनां
कोऽपि मञ्जुलतमः क्रमवादः ॥37॥
कानुजे मम निजे दनुजारौ
जाग्रति स्वशरणे रणचर्चा ।
यद्भुजाङ्कमुपधाय जयाङ्कं
शर्मणा स्वपिमि वीतविशङ्कः ॥38॥
विश्वरूपकलनादुपपन्नं
तस्य जैमिनिमुनित्वमुदीये ।
विग्रहं मखभुजामसहिष्णुः
व्यर्थतां मदशनिं स निनाय ॥39॥
ईदृशानि मुनये विनयाब्धिः
तस्थिवान् स वचनान्युपहृत्य ।
प्रांशुनिःश्वसितपृष्ठचरी वाङ्
नारदस्य निरियाय निरोजाः ॥40॥
स्वारसातलभवाहवशङ्की
निर्वृणोमि न वसन्वसुमत्याम् ।
द्यां गतस्य हृदि मे दुरुदर्कः
क्ष्मातलद्वयभटाजिवितर्कः ॥41॥
वीक्षितस्त्वमसि मामथ गन्तुं
तन्मनुष्यजगतेऽनुमनुष्व ।
किं भुवः परिवृढा न विवोढुं
तत्र तामुपगता विवदन्ते ॥42॥
इत्युदीर्य स ययौ मुनिरुर्वो
स्वर्पतिं प्रतिनिवर्त्य बलेन ।
वारितोऽप्यनुजगाम सयत्नं
तं कियन्त्यपि पदान्यपराणि ॥43॥
पाणये बलरिपोरथ भैमी-
शीतकोमलकरग्रहमर्हम् ।
भेषजं चिरचिताशनिवास-
व्यापदामुपदिदेश रतीशः ॥45॥
नाकलोकभिषजोः सुषमा या
पुष्पचापमपि चुम्बति सैव ।
वेद्मि तादृगभिषज्यदसौ तद्-
द्वारसंक्रमितवैद्यकविद्यः ॥46॥
मानुषीमनुसरत्यथ पत्यौ
खर्वभावमवलम्ब्य मघोनी ।
खण्डितं निजमसूचयदुच्चैः
मानमाननसरोरुहनत्या ॥47॥
यो मघोनि दिवमुच्चरमाणे
रम्भया मलिनिमालमलम्भि ।
वर्ण एव स खलूज्ज्वलमस्याः
शान्तमान्तरमभाषत भङ्ग्या ॥48॥
जीवितेन कृतमप्सरसां तत्
प्राणमुक्तिरिह युक्तिमती नः ।
इत्यनक्षरमवाचि धृताच्या
दीर्घनिःश्वसितनिर्गमितेन ॥49॥
साधु नः पतनमेवमितः स्यात्
इत्यभण्यत तिलोत्तमयापि ।
चामरस्य पतनेन कराब्जात्
तद्विलोलनचलद्भुजनालात् ॥51॥
उर्वशी गुणवशीकृतविश्वा
तत्क्षणस्तिमितभावनिभेन ।
शक्रसौहृदसमापनसीमः
तम्भकार्यमपुषद्वपुषैव ॥52॥
कापि कामपि बभाण बुभुत्सुं
शृण्वति त्रिदशभर्तरि किंचित् ।
एष कश्यपसुतामभिगन्ता
पश्य कश्यपसुतः शतमन्युः ॥53॥
आलिमात्मसुभगत्वसगर्वा
कापि शृण्वति मघोनि बभाषे ।
वीक्षणेऽपि सघृणासि नृणां
किं यासि न त्वमपि सार्थगुणेन ॥54॥
अन्वयुर्द्युतिपयः पितृनाथाः
तंमुदाथ हरितां कमितारः ।
वर्त्म कर्षतु पुरः परमेकस्तद्
गतानुगतिको न महार्घः ॥55॥
प्रेषिताः पृथगथो दमयन्त्यै
चित्तचौर्यचतुरा निजदूत्यः ।
तहुरुं प्रति च तैरुपहाराः
संख्यसौख्यकपटेन निगूढाः ॥56॥
चित्रमत्र विबुधैरपि यत्तैः
स्वर्विहाय बत भूरनुसस्रे ।
द्यौर्न काचिदथवास्ति निरुढा
सैव सा चलति यत्र हि चित्तम् ॥57॥
किं घनस्य जलधेरथवैवं
नैव संशयितुमप्यलभन्त ।
स्यन्दनं परमदूरमपश्यन्
निःस्वनश्रुतिसहोपनतं ते ॥59॥
सूतविश्रमदकौतुकिभावं
भावबोधचतुरं तुरगाणाम् ।
तत्र नेत्रजनुषः फलमेते
नैषधं बुबुधिरे विबुधेन्द्राः ॥60॥
वीक्ष्य तस्य वरुणस्तरुणत्वं
तद्बभार निबिडं जडभूयम् ।
नौचिती जलपतेः किमु सास्य
प्राज्यविस्मयरसस्तिमितस्य ॥61॥
रूपमस्य विनिरूप्य तथातिम्
लानिमाप रविवंशवतंसः ।
कीर्त्यते यदधुनापि स देवः
काल एव सकलेन जनेन ॥62॥
यं बभार दहनः खलु तापं
रूपधेयभरमस्य विमृश्य ।
तत्र भूदनलता जनिकर्त्री मा
तदप्यनलतैव तु हेतुः ॥63॥
कामनीयकमधः कृतकामं
काममक्षिभिरवेक्ष्य तदीयम् ।
कौशिकः स्वमखिलं परिपश्यन्
मन्यते स्म खलु कौशिकमेव ॥64॥
रामणीयकगुणाद्वयवादं
मूर्तमुत्थितममुं परिभाव्य ।
विस्मयाय हृदयानि वितेरुः
तेन तेषु न सुराः प्रबभूवुः ॥65॥
प्रैयरूपकविशेषनिवेशैः
संवदद्भिरमराः श्रुतपूर्वैः ।
एष एव स नलः किमितीदं
मन्दमन्दमितरेतरमूचुः ॥66॥
तेषु तद्विधवधूवरणार्हं
भूषणं स समयः स रथाध्वा ।
तस्य कुण्डिनपुरं प्रतिसर्पन्
भूपतेर्व्यवसितानि शशंसुः ॥67॥
धर्मराजसलिलेशहुताशैः
प्राणातां श्रितममुं जगतस्तैः ।
प्राप्य हृष्टचलविस्तृततापैः
चेतसा निभृतमेतदचिन्ति ॥68॥
नैव नः प्रियतमोभयथासौ
यद्यमुं न वृणुते वृणुते वा ।
एकतो हि धिगमूमगुणज्ञम्
अन्यतः कथमदः प्रतिलम्भः ॥69॥
मां वरिष्यति तदा यदि मत्
तो वेद नेयमियदस्य महत्त्वम् ।
ईदृशी च कथमाकलयित्री
मद्विशेषमपरान्नृपपुत्री ॥70॥
नैषधे बत वृते दमयन्त्या
व्रीडितो नहि बहिर्भवितास्मि ।
स्वां गृहेऽपि वनितां कथमास्यं
ह्रीनिमीलि खलु दर्शयिताहे ॥71॥
इत्यवेत्य मनसात्मविधेयं
किंचन त्रिविबुधी बुबुधे न ।
नाकनायकमपास्य तमेकं
सा स्म पश्यति परस्परमास्यम् ॥72॥
किं विधेयमधुनेति विमुग्धं
स्वानुगाननमवेक्ष्य ऋभुक्षाः ।
शंसति स्म कपटे पटुरुच्चैः
वञ्चनं समभिलष्य नलस्य ॥73॥
सर्वतः कुशलवानसि किच्चित्वं
स नैषध इति प्रतिभा नः ।
स्वासनार्धसुहृदस्त्वयि
रेखां वीरसेननृपतेरिव विद्मः ॥74॥
क्व प्रयास्यसि नलेत्यलमुक्त्वा
यात्रयात्र शुभयाजनि यन्नः ।
तत्तयैव फलसत्वरया त्वं
नाध्वनोऽर्धमिदमागमितः किम् ॥75॥
एष नैषध ! स दण्डभृदेष
ज्वालजालजटिलः स हुताशः ।
यादसां स पतिरेष च शेषं
शासितारमधिगच्छ सुराणाम् ॥76॥
अर्थितो वयममी समुपेमः
त्वां नलेति फलितार्थमवेहि ।
अध्वनः क्षणमपास्य च खेदं
कुर्महे भवति कार्यनिवेदम् ॥77॥
ईदृशीं गिरमुदीर्य बिडौजा
जोषमास न विशिष्य बभाषे ।
नात्र चित्रमभिधाकुशलत्वे
शैशवावधि गुरुर्गुरुरस्य ॥78॥
अर्थिनामहृषिताखिललोमा
स्वं नृपः स्फुटकदम्बकदम्बम् ।
अर्चनार्थमिव तच्चरणानां
स प्रणामकरणादुपनिन्ये ॥79॥
दुर्लभं दिगधिपैः किममीभिः
तादृशं कथमहो मदधीनम् ।
ईदृशं मनसिकृत्य विरोधं
नैषधेन समशायि चिराय ॥80॥
जीवितावधि वनीयकमात्रैः
याच्यमानमखिलैः सुलभं यत् ।
अर्थिने परिवृढाय सुराणां किं
वितीर्य परितुष्यति चेतः ॥81॥
भीमजा च हृदि मे परमास्ते
जीवितादपि धनादपि गुर्वी ।
न स्वमेव मम सार्हति यस्याः
षोडशीमपि कलां किल नोर्वी ॥82॥
मीयतां कथमभीप्सितमेषां
दीयतां कथमयाचितमेव ।
तं धिगस्तु कलयन्नपि वाञ्छाम्
अर्थिवागवसरं सहते यः ॥83॥
प्रापितेन चटुकाकुविडम्बं
लम्भितेन बहुयाचनलज्जाम् ।
अर्थिना यदघमर्जति दाता
तन्न लुम्पति विलम्ब्य ददानः ॥84॥
यत्प्रदेयमुपनीय वदान्यैः
दीयते सलिलमर्थिजनाय ।
सार्थनोक्तिविफलत्वविशङ्का
त्रासमूर्च्छदपमृत्युचिकित्सा ॥85॥
अर्थिने न तृणवद्धनमात्रं किं
तु जीवनमपि प्रतिपाद्यम् ।
एवमाह कुशवज्जलदापी
दव्यदानविधिरुक्तिविदग्धः ॥86॥
पङ्कसंकरविगर्हितमर्हं
न श्रियः कमलमाश्रयणाय ।
अर्थिपाणिकमलं विमलं
तद्वासवेश्म विदधीत सुधीस्तत् ॥87॥
याचमानजनमानसवृत्तेः
पूरणाय बत जन्म न यस्य ।
तेन भूमिरतिभारवतीयं
न द्रुमैर्न गिरिभिर्न समुद्रैः ॥88॥
मा धनानि कृपणः खलु जीवं
स्तृष्णयार्पयतु जातु परस्मै ।
तत्र चैष कुरुते मम चित्रं
यत्तु नार्पयति तानि मृतोऽपि ॥89॥
माममीभिरिह याचितवद्भिः
दातृजातमवमत्य जगत्याम् ।
यद्यशो मयि निवेक्षितमेतन्
निष्क्रयोऽस्तु कतमस्तु तदीयः ॥90॥
लोक एष परलोकमुपेता
हा विहाय निधने धनमेकः ।
इत्यमुं खलु तदस्य निनीषत्-
यर्थिबन्धुरुदयद्दयचित्तः ॥91॥
दानपात्रमधर्मणमिहैक-
ग्राहि कोटिगुणितं दिवि दायि ।
साधुरेति सुकृतैर्यदि कर्तुं
पारलौकिककुसीदमसीदत् ॥92॥
एवमादि स विचिन्त्य मुहूर्तं
तानवोचत पतिर्निषधानाम् ।
अर्थिदुर्लभमवाप्य सहर्षान्
याच्यमानमुखमुल्लसितश्रि ॥93॥
नास्ति जन्यजनकव्यतिभेदः
सत्यमन्नजनितो जनदेहः ।
वीक्ष्य वः खलु तनूममृतादं
दृङ्गिमज्जनमुपैति सुधायाम् ॥94॥
मत्तपः क्व नु तनु क्व फलं वा
यूयमीक्षणपथं व्रजथेति ।
ईदृशं परिणमन्ति पुनर्नः
पूर्वपूरुषतपांसि जयन्ति ॥95॥
प्रत्यतिष्ठिपदिलां खलु देवीं
कर्म सर्वसहनव्रतजन्म ।
यूयमप्यहह पूजनमस्या
यन्निजैः सृजथ पादपयोजैः ॥96॥
जीवितावधि किमप्यधिकं वा
यन्मनीषितमितो नरडिम्भात् ।
तेन वश्चरणमर्चतु सोऽयं
ब्रूत वस्तु पुनरस्तु किमीदृक् ॥97॥
एवमुक्तवति वीतविशङ्के
वीरसेनतनये विनयेन ।
वक्रभावविषमामथ शक्रः
कार्यकैतवगुरुर्गिरमूचे ॥98॥
पाणिपीडनमहं दमयन्त्याः
कामयेमहि महीमिहिकांशो ! ।
दूत्यमत्र कुरु नः स्मरभीतिं
निर्जितस्मर ! चिरस्य निरस्य ॥99॥
आसते शतमधिक्षिति भूपाः
तोयराशिरसि ते खलु कूपाः ।
किं ग्रहा दिवि न जाग्रति ते ते
भास्करस्य कतमस्तुलयास्ते ॥100॥
विश्वदृश्वनयना वयमेव
त्वह्गुणाम्बुधिमगाधमवेमः ।
त्वामिहैवमनिवेश्य रहस्ये
निर्वृतिं नहि लभेमहि सर्वे ॥101॥
शुद्धवंशजनितोऽपि गुणस्य
स्थानतामनुभवन्नपि शक्रः ।
क्षिप्नुरेमृजुमाशु सपक्षं
सायकं धनुरिवाजनि वक्रः ॥102॥
तेन तेन वचसैव मघोनः
स स्म वेद कपटं पटुरुच्चैः ।
आचरत्तदुचितामथ वाणी-
मार्जवं हि कुटिलेषु न नीतिः ॥103॥
सेयमुच्चतरता दुरितानाम्
अन्यजन्मनि मयैव कृतानाम् ।
युष्मदीयमपि या महिमनं
जेतुमिच्छति कथापथपारम् ॥104॥
वित्थ चित्तमखिलस्य न कुर्यां
धुर्यकार्यपरिपन्थि तु मौनम् ।
ह्रीर्गिरास्तु वरमस्तु पुनर्मा
स्वीकृतैव परवागपरास्ता ॥105॥
यन्मतौ विमलदर्पणिकायां
संमुखस्थमखिलं खलु तत्त्वम् ।
तेऽपि किं वितरथेदृशमाज्ञां
या न यस्य सदृशी वितरीतुम् ॥106॥
यामि यामिह वरीतुमहो
तदृततां नु करवाणि कथं वः ।
ईदृशां न महतां बत जाता
वञ्चने मम तृणस्य घृणापि ॥107॥
उद्भ्रमामि विरहान्मुहुरस्या
मोहमेमि च मुहूर्तमहं यः ।
ब्रुत वः प्रभवितास्मि रहस्यं
रक्षितुं स कथमीदृगवस्थः ॥108॥
यां मनोरथमयीं हृदि कृत्वा
यः श्वसिम्यथ कथं स तदग्रे ।
भावगुप्तिमवलम्बितुमीशे
दुर्जया हि विषया विदुषापि ॥109॥
यामिकाननुपमृद्य च मादृक्
तां निरीक्षितुमपि क्षमते कः ।
रक्षिलक्षजयचण्डचरित्रे
पुंसि विश्वसिति कुत्र कुमारी ॥110॥
आदधीचि किल दातृकृतार्घं
प्राणमात्रपणसीम यशो यत् ।
आददे कथमहं प्रियया
तत् प्राणतः शतगुणेन पणेन ॥111॥
अर्थना मयि भवद्भिरिवास्यै
कर्तुमर्हति मयापि भवत्सु ।
भीमजार्थपरयाचनचाटौ
यूयमेव गुरवः करणीयाः ॥112॥
अर्थिताः प्रथमतो दमयन्तीं
यूयमन्वहमुपास्य मया यत् ।
ह्रीर्न चेद्व्यतियतामपि तद्वः
सा ममापि सुतरां न तदस्तु ॥113॥
कुण्डिनेन्द्रसुतया किल पूर्वं
मां वरीतुमुररीकृतमास्ते ।
व्रीडमेष्यति परं मयि दृष्टे
स्वीकरिष्यति न सा खलु युष्मान् ॥114॥
तत्प्रसीदत विधत्त न खेदं
दूत्यमत्यसदृशं हि ममेदम् ।
हास्यतैव सुलभा न तु साध्यं
तद्विधित्सुभिरनौपयिकेन ॥115॥
ईदृशानि गदितानि तदानीम्
आकलय्य स नलस्य बलारिः ।
शंसति स्म किमपि स्मयमानः
स्वानुगाननविलोकनलोलः ॥116॥
नाभ्यधायि नृपते !
भवतेदं रोहिणीरमणवंशभुवैव ।
लज्जते न रसना तव
वाम्यादर्थिषु स्वयमुरीकृतकाम्या ॥117॥
भङ्गुरं न वितथं न कथं वा
जीवलोकमवलोकयसीमम् ।
येन धर्मयशसी परिहातुं
धीरहो चलति धीर ! तवापि ॥118॥
कः कुलेऽजनि जगन्मुकुटे वः
प्रार्थकेप्सितमपूरि न येन ।
इन्दुरादिरजनिष्ट कलङ्की
कष्टमत्र स भवानपि मा भूत् ॥119॥
यापदृष्टिरपि या मुखमुद्रा
याचमानमनु या च न तुष्टिः ।
त्वादृशस्य सकलः स कलङ्कः
शीतभासि शशकृः परमङ्कः ॥120॥
नाक्षराणि पठता किमपाठि
प्रस्मृतः किमथवा पठितोऽपि ।
इत्थमर्थिचयसंशय दोला-
खेलनं खलु चकार नकारः ॥121॥
अब्रवीत्तमनलः क्व नलेदं
लब्धमुज्झसि यशः शशिकल्पम् ।
कल्पवृक्षपतिमर्थिनमित्थं
नाप कोऽपि शतमन्युमिहान्यः ॥122॥
न व्यहन्यत कदापि मुदं यः
स्वः सदामुपनयन्नभिलाषः ।
तत्पदे त्वदभिषेककृतां नः
स त्यजत्वसमतामदमद्य ॥123॥
अब्रवीदथ यमस्तमहृष्टं
वीरसेनकुलदीप ! तमस्त्वाम् ।
यत्किमप्यभिबुभूषति
तत्किं चन्द्रवंशवसतेः सदृशं ते ॥124॥
रोहणः किमपि यः कठिनानां
कामधेनुरपि या पशुरेव ।
नैनयोरपि वृथाऽभवदर्थी
ही विधित्सुरसि वत्स ! किमेतत् ॥125॥
याचितश्चिरयति क्व नु धीरः
प्राणने क्षणमपि प्रतिभूः कः ।
शंसति द्विनयनी दृढनिद्रां
द्राङ्गिमेषमिषघूर्णनपूर्णा ॥126॥
अभ्रपुष्पमपि दित्सति शीतं
सार्थिना विमुखता यदभाजि ।
स्तोककस्य खलु चञ्चुपुटेन
म्लानिरुल्लसति तद्धनसङ्घे ॥127॥
ऊचिवानुचितमक्षरमेनं
पाशपाणिरपि पाणिमुदस्य ।
कीर्तिरेव भवतां प्रियदारा
दाननीरझरमौक्तिकहारा ॥128॥
चर्म वर्म किल यस्य नभेद्यं
यस्य वज्रमयमस्थि च तौ चेत् ।
स्थायिनाविह न कर्णदधीची
तन्न धर्ममवधीरय धीर ! ॥129॥
अद्य यावदपि येन निबद्धौ
न प्रभू विचलितुं बलिविन्ध्यौ ।
आस्थितावितथतागुणपाशः
त्वादृशा स विदुषा दुरपासः ॥130॥
प्रेयसी जितसुधांशुमुखश्रीः
या न मुञ्चति दिगन्तगतापि ।
भङ्गिसङ्गमकुरङ्गदृगर्थे
कः कदर्थयति तामपि कीर्तिम् ॥131॥
यान्वरं प्रति परेऽर्थयितार
स्तेऽपि यं वयमहो स पुनस्त्वम् ।
नैव नः खलु मनोरथमात्रं
शूर ! पूरय दिशोऽपि यशोभिः ॥132॥
अर्थिता त्वयि गतेषु सुरेषु
म्लानदानजनिजोरुयशः श्रीः ।
अद्य पाण्डु गगनं सुरशाखी
केवलेन कुसुमेन विधत्तम् ॥133॥
प्रवसते भरतार्जुनवैन्यंवत्
स्मृतिधृतोऽपि नल ! त्वमभीष्टदः ।
स्वगमनाफलतां यदि शङ्कसे
तदफलं निखिलं खलु मङ्गलम् ॥134॥
इष्टं न प्रति ते प्रतिश्रुतिरभूद्याद्य स्वराह्लादिनी
धर्मार्था सृज तां श्रुतिप्रतिभटीकृत्यान्विताख्यापदाम् ।
त्वत्कीर्तिः पुनती पुनस्त्रिभुवनं शुभ्राद्वयादेशना-
द्द्रव्याणां शितिपीतलोहितहरिन्नामान्वयं लुम्पतु ॥135॥
यं प्रासूत सहस्रपादुदभवत्पादेन खञ्जः कथं
स च्छायातनयः सुतः किल पितुः सादृश्यमन्विच्छति ।
एतस्योत्तरमद्य नः समजनि त्वत्तेजसां लङ्घने
साहस्रैरपि पङ्गुरङ्घ्रिभिरभिव्यक्तीभवन्भानुमान् ॥136॥
इत्याकर्ण्य क्षितीशस्त्रिदशपरिषदस्ता गिरश्चाटुगर्भा
वैदर्भीकामुकोऽपि प्रसभविनिहितं दूत्यभारं बभार ।
अङ्गीकारं गतेऽस्मिन्नमरपरिवृढः संभृतानन्दमूचे
भूयादन्तर्धिसिद्धेरनुविहितभवच्चित्तता यत्र तत्र ॥137॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तस्य श्रीविजयप्रशस्तिरचनातातस्य नव्ये महा-
काव्ये चारुणि नैषधीयचरिते सर्गोऽगमत्पञ्चमः ॥138॥