नैषधीयचरितम्‌/द्वितीयः सर्गः

विकिस्रोतः तः
← प्रथमः सर्गः नैषधीयचरितम्‌
द्बितीयः सर्गः
श्रीहर्षः
तृतीयः सर्गः →

अधिगत्य जगत्यधीश्वरादथ मुक्तिं पुरुषोत्तमात्ततः ।
वचसामपि गोचरो न यः स तमानन्दमविन्दत द्विजः ॥ २.१ ॥

अधुनीत खगः स नैकधा तनुमुत्फुल्लतनूरुहीकृताम् ।
करयन्त्रणदन्तुरान्तरे व्यलिखच्चञ्चुपुटेन पक्षती ॥ २.२ ॥

अयमेकतमेन पक्षतेरधिमध्योर्ध्वगजङ्घमङ्घ्रिणा ।
स्खलनक्षण एव शिश्रिये द्रुतकण्डूयितमौलिरालयम् ॥ २.३ ॥

स गरुद्वनदुर्गदुर्ग्रहान्कटु कीटान्दशतः सतः क्वचित् ।
नुनुदे तनुकण्डु पण्डितः पटुचञ्चूपुटकोटिकुट्टनैः ॥ २.४ ॥

अयमेत्य तडाकनीडजैर्लघु पर्यव्रियताथ शाङ्कितैः ।
उदडीयत वैकृतात्करग्रहजादस्य विकस्वरस्वरैः ॥ २.५ ॥

वहतो बहुशैवलक्ष्मता धृतरुद्राक्षमधुव्रतं खगः ।
स नलस्य ययौ करं पुनः सरसः कोकनदभ्रमादिव ॥ २.६ ॥

पतगश्चिरकाललालनादतिविश्रम्भमवापितो नु सः ।
अतुलं विदधे कुतूहलं भुजमेतस्य भजन्महीभुजः ॥ २.७ ॥

नृपमानसमिष्टमानसः स निमज्जत्कुतुकामृतोर्मिषु ।
अवलम्बितकर्णशष्कुलीकलसीकं रचयन्नवोचत ॥ २.८ ॥

मृगया न विगीयते नृपैरपि धर्मागममर्मपारगैः ।
स्मरसुन्दर मां यदत्यजस्तव धर्मः सदयोदयोज्ज्वलः ॥ २.९ ॥

अबलस्वकुलाशिनो झषान्निजनीडद्रुमपीडिनः खगान् ।
अनवद्यतृणार्दिनो मृगान्मृगयाघाय न भूभुजां घ्नताम् ॥ २.१ ॥

यदवादिषमप्रियं तव प्रियमाधाय नुनुत्सुरस्मि तत् ।
कृतमातपसंज्वरं तरोरभिवृष्यामृतमंशुमानिव ॥ २.११ ॥

उपनम्रमयाचितं हितं प्रतिहर्तुं न तवापि सांप्रतम् ।
करकल्पजनान्तराद्विधेः शुचितः प्रापि स हि प्रतिग्रहः ॥ २.१२ ॥

पतगेन मया जगत्पतेरुपकृत्यै तव किं प्रभूयते ।
इति वेद्मि न तु त्यजन्ति मां तदपि प्रत्युपकर्तुमर्तयः ॥ २.१३ ॥

अचिरादुपकर्तुराचरेदथवात्मौपयिकीमुपक्रियाम् ।
पृथुरित्थमथाणुरस्तु सा न विशेषे विदुषामिह ग्रहः ॥ २.१४ ॥

भविता न विचारचारु चेत्तदपि श्रव्यमिदं मदीरितम् ।
खगवागियमित्यतोऽपि किं न मुदं धास्यति कीरगीरिव ॥ २.१५ ॥

स जयत्यरिसार्थसार्थकीकृतनामा किल भीमभूपतिः ।
यमवाप्य विदर्भभूः प्रभुं हसति द्यामपि शक्रभर्तृकाम् ॥ २.१६ ॥

दमनादमनाक्प्रसेदुषास्तनयां तथ्यगिरस्तपोधनात् ।
वरमाप स दिष्टविष्टपत्रितयानन्यसदृग्गुणोदयाम् ॥ २.१७ ॥

भुवनत्रयसुभ्रुवामसौ दमयन्ती कमनीयतामदम् ।
उदियाय यतस्तनुश्रिया दमयन्तीति ततोऽभिधां दधौ ॥ २.१८ ॥

श्रियमेव परं धराधिपाद्गुणसिन्धोरुदितामवेहि ताम् ।
व्यवधावपि वा विधोः कलां मृडचूडानिलयां न वेद कः ॥ २.१९ ॥

चिकुरप्रकरा जयन्ति ते विदुषी मूर्धनि सा बिभर्ति यान् ।
पशुनाप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः ॥ २.२ ॥

स्वदृशोर्जनयन्ति सान्त्वनां खुरकण्डूयनकैतवान्मृगाः ।
जितयोरुदयत्प्रमीलयोस्तदखर्वेक्षणशोभया भया ॥ २.२१ ॥

अपि लोकयुगं दृशावपि श्रुतदृष्टा रमणीगुणा अपि ।
शृउतिगामितया दमस्वसुर्व्यतिभाते सुतरां धरापते ॥ २.२२ ॥

नलिनं मलिनं विवृण्वती पृषतीमस्पृशती तदीक्षणे ।
अपि खञ्जनमज्ञनाञ्चिते विदधाते रुचिगर्वदुर्विधम् ॥ २.२३ ॥

अधरं किल बिम्बनामकं फलमस्मादिति भव्यमन्वयम् ।
लभतेऽधरबिम्बमित्यदः पदमस्या रदनच्छदं वदत् ॥ २.२४ ॥

हतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा ।
कृतमध्यबिलं विलोक्यते धृतगम्भीरखनीखनीलिम ॥ २.२५ ॥

धृतलाञ्छनगोमयाञ्चनं विधुमालेपनपाण्डुरं विधिः ।
भ्रमयत्युचितं विदर्भजानननीराजनवर्धमानकम् ॥ २.२६ ॥

सुषमाविषये परीक्षणे निखिलं पद्ममभाजि तन्मुखात् ।
अधुनापि न भङ्गलक्षणं सलिलोन्मज्जनमुज्झति स्फुटम् ॥ २.२७ ॥

धनुषी रतिपञ्चबाणयोरुदिते विश्वजयाय तद्भ्रुवौ ।
नैलिकेन तदुच्चनासिके त्वयि नालीकविमुक्तिकामयोः ॥ २.२८ ॥

सदृशी तव शूर सा परं जलदुर्गस्थमृणालजिद्भुजा ।
अपि मित्त्रजुषां सरोरुहां गृहयालुः करलीलया श्रियः ॥ २.२९ ॥

वयसी शिशुतातदुत्तरे सुदृशि स्वाभिविधिं विधित्सुनी ।
विधिनापि न रोमरेखया कृतसीम्नी प्रविभज्य रज्यतः ॥ २.३ ॥

अयि तद्वपुषि प्रसर्पतोर्गमिते कान्तिझरैरगाधताम् ।
स्मरयौवनयोः खलु द्वयोः प्लवकुम्भौ भवतः कुचावुभौ ॥ २.३१ ॥

कलसे निजहेतुदण्डजः किमु चक्रभ्रमकारितागुणः ।
स तदुञ्चकुचौ भवन्प्रभाझरचक्रभ्रममातनोति यत् ॥ २.३२ ॥

भजते खलु षण्मुखं शिखी चिकुरैर्निर्मितबर्हगर्हणः ।
अपि जम्भरिपुं दमस्वसुर्जितकुम्भः कुचशोभयेभराट् ॥ २.३३ ॥

उदरं नतमध्यपृष्टतास्फुटदङ्गुष्ठपदेन मुष्टिना ।
चतुरङ्गुलमध्यनिर्गतत्रिवलिभ्राजि कृतं दमस्वसुः ॥ २.३४ ॥

उदरं परिमाति मुष्ट्षिना कुतुकी कोऽपि दमस्वसुः किमु ।
धृततच्चतुरङ्गुलीव यद्वलिभिर्भाति सहेमकाञ्चिभिः ॥ २.३५ ॥

पृथुवर्तुलतन्नितम्बकृन्मिहिरस्यन्दनशिल्पशिक्षया ।
विधिरेककचक्रचारिणं किमु निर्मित्सति मान्मथं रथम् ॥ २.३६ ॥

तरुमूरुयुगेन सुन्दरी किमु रम्भां परिणाहिना परम् ।
तरुणीमपि जुष्णुरेव तां धनदापत्यतपः फलस्तनीम् ॥ २.३७ ॥

जलजे रविसेवयेव ये पदमेतत्पदतामवापतुः ।
ध्रुवमेत्य रुतः सहंसकीकुरुतस्ते विधिपत्त्रदंपती ॥ २.३८ ॥

श्रितपुण्यसरः सरित्कथं न समाधिक्षपिताखिलक्षपम् ।
जलजं गतिमेतु मञ्जुलां दमयन्तीपदनाम्नि जन्मनि ॥ २.३९ ॥

सरसीः परिशीलितुं मया गमिकर्मीकृतनैकनीवृता ।
अतिथित्वमनायि सा दृशोः सदसत्संशयगोचरोदरी ॥ २.४ ॥

अवधृत्य दिवोऽपि यौवतैर्न सहाधीतवतीमिमामहम् ।
कतमस्तु विधातुराशये पतिरस्या वसतीत्यचिन्तयम् ॥ २.४१ ॥

अनुरूपमिमं निरूपयन्नथ सर्वेष्वपि पूर्वपक्षताम् ।
युवसु व्यपनेतुमक्षमस्त्वयि सिद्धान्तधियं न्यवेशयम् ॥ २.४२ ॥

अनया तव रूपसीमया कृतसंस्कारविबोधनस्य मे ।
चिरमप्यवलोकिताद्य सा स्मृतिमारूढवती शुचिस्मिता ॥ २.४३ ॥

त्वयि वीर विराजते परं दमयन्तीकिलकिञ्चितं किल ।
तरुणीस्तन एव दीप्यते मणिहारावलिरामणीयकम् ॥ २.४४ ॥

तव रूपमिदं तया विना विफलं पुष्पमिवावकेशिनः ।
इयमृद्धधना वृथावनी स्ववनी संप्रवदत्पिकापि ॥ २.४५ ॥

अनया सुरकाम्यमानया सह योगः सुलभस्तु न त्वया ।
घनसंवृतयाम्बुदागमे कुमुदेनेव निशाकरत्विषा ॥ २.४६ ॥

तदहं विदधे तथातथा दमयन्त्याः सविधे तव स्तवम् ।
हृदये निहितस्तया भवानपि नेन्द्रेण यथापनीयते ॥ २.४७ ॥

तव संमितिमेव केवलामिधगन्तुं धिगिदं निवेदितम् ।
ब्रुवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम् ॥ २.४८ ॥

तदिदं विशदं वचोमृतं परिपीयाभ्युदितं द्विजाधिपात् ।
अतितृप्ततया विनिर्ममे स तदुद्गारमिव स्मितं सितम् ॥ २.४९ ॥

परिमृज्य भुजाग्रजन्मना पतगं कोकनदेन नैषधः ।
मृदु तस्य मुदेऽकिरद्गिरः प्रियवादामृतकूपकण्ठजाः ॥ २.५ ॥

न तुलाविषये तवाकृतिर्न वचोवर्त्मनि ते सुशीलता ।
त्वदुदाहरणाकृतौ गुणा इति सामुद्रकसारमुद्रणा ॥ २.५१ ॥

न सुवर्णमयी तनुः परं ननु किं वागपि तावकी तथा ।
न परं पथि पक्षपातितानवलम्बे किमु मादृशेऽपि सा ॥ २.५२ ॥

भृशतापभृता मया भवान्मरुदासादि तुषारसारवान् ।
धनिनामितरः सतां पुनर्गुणवत्संनिधिरेव सन्निधिः ॥ २.५३ ॥

शतशः शृउतिमागतैव सा त्रिजगन्मोहमहौषधिर्मम ।
अमुना तव शंसितेन तु स्वदृशैवाधिगतामवैमि ताम् ॥ २.५४ ॥

अखिलं विदुषामनाविलं सुहृदा च स्वहृदा च पश्यताम् ।
सविधेऽपि नसूक्ष्मसाक्षिणीवदनालंकृतिमात्रमक्षिणी ॥ २.५५ ॥

अमितं मधु तत्कथा मम श्रवणप्राघुणकीकृता जनैः ।
मदनानलबोधने भवेत्खग धाय्या धिगधैर्यधारिणः ॥ २.५६ ॥

विषमो मलयाहिमण्डलीविषफूत्कारमयो मयोहितः ।
खग कालकलत्रदिग्भवः पवनस्तद्विरहानलैधसा ॥ २.५७ ॥

प्रतिमासमसौ निशापतिः खग संगच्छति यद्दिनाधिपम् ।
किमु तीव्रतरैस्ततः करैर्मम दाहाय स धैर्यतस्करैः ॥ २.५८ ॥

कुसुमानि यदि स्मरेषवो न तु वज्रं विषवल्लिजानि तत् ।
हृदयं यदमूमुहन्नमूर्मम यच्चातितरामतीतपन् ॥ २.५९ ॥

तदिहानवधौ निमज्जतो मम कंदर्पशराधिनीरधौ ।
भव पोत इवावलम्बनं विधिनाकस्मिकसृष्टसंनिधिः ॥ २.६ ॥

अथवा भवतः प्रवर्तना न कथं पिष्टमियं पिनष्टि नः ।
स्वत एव सतां परार्थता ग्रहणानां हि यथा यथाऋथता ॥ २.६१ ॥

तव वर्त्मनि वर्ततां शिवं पुनरस्तु त्वरितं समागमः ।
अयि साधय साधयेप्सितं स्मरणीयाः समये वयं वयः ॥ २.६२ ॥

इति तं स विसृज्य धैर्यवान्नृपतिः सूनृतवाग्बृहस्पतिः ।
अविशद्वनवेश्म विस्मितः स्मृतिलग्नैः कलहंसशंसितैः ॥ २.६३ ॥

अथ भीमसुतावलोकनैः सफलं कर्तुमहस्तदेव सः ।
क्षितिमण्डलमण्डनायितं नगरं कुण्डिनमण्डजो ययौ ॥ २.६४ ॥

प्रथमं पथि लोचनातिर्थि पथिकाप्रार्थितसिद्धिशंसिनम् ।
कलसं जलसंभृतं पुरः कलहंसः कलयांबभूव सः ॥ २.६५ ॥

अवलम्ब्य दिदृक्षयाम्बरे क्षणमाश्चर्यरसालसं गतम् ।
स विलासवनेऽवनीभृतः फलमैक्षिष्ट रसालसंगतम् ॥ २.६६ ॥

नभसः कलभैरुपासितं जलदैर्भूरितरक्षुपं नगम् ।
स ददर्श पतङ्गपुंगवो विटपच्छन्नतरक्षुपन्नगम् ॥ २.६७ ॥

स ययौ धुतपक्षतिः क्षणं क्षणमूर्ध्वायनदुर्विभावनः ।
विततीकृतनिश्चलच्छदः क्षणमालोककदत्तकौतुकः ॥ २.६८ ॥

तदूदीधितिधारया रयाद्गतया लोकविलोकनामसौ ।
छदहेम कषन्निवालसत्कषपाषाणनिभे नभस्तले ॥ २.६९ ॥

विनमद्भिरधः स्थितैः खगैर्झटिति श्येननिपातशङ्किभिः ।
स निरैक्षि दृशैकयोपरि स्यदझांकारितपत्रपद्धतिः ॥ २.७ ॥

ददृशे न जनेन यन्नसौ भुवि तच्छायमवेक्ष्य तत्क्षणात् ।
दिवि दिक्षु वितीर्णचक्षुषा पृथुवेगद्रुतमुक्तदृक्पथः ॥ २.७१ ॥

न वनं पथि शिश्रियेऽमुना क्वचिदप्युच्चतरद्रुचा रुतम् ॥

न सगोत्रजमन्ववादि वा गतिवेगप्रसरद्रुचा रुतम् ॥ २.७२ ॥

अथ भीमभुजेन पालिता नगरी मञ्चुरसौ धराजिता ।
पतगस्य जगाम दृक्पथं हरशैलोपमसौधराजिता ॥ २.७३ ॥

दयितं प्रति यत्र संतता रतिहासा इव रेजिरे भुवः ।
स्फटिकोपलविग्रहा गृहाः शशभृद्भित्तनिरङ्कभित्तयः ॥ २.७४ ॥

नृपनीलमणीगृहत्विषामुपधेर्यत्र भयेन भास्वतः ।
शरणार्थमुवास वासरेऽप्यसदावृत्त्युदयत्तमं तमः ॥ २.७५ ॥

सितदीप्रमणिप्रकल्पिते यद्गारे हसदङ्करोदसि ।
निखिलान्निशि पूर्णिमा तिथीनुपतस्थेऽतिथिरेकिका तिथिः ॥ २.७६ ॥

सुदतीजनमज्जनार्पितैर्घुसृणैर्यत्र कषायिताशया ।
न निशाखिलयापि वापिका प्रससाद ग्रहिलेव मानिनी ॥ २.७७ ॥

क्षणनीरवया यया निशि श्रितवप्रावलियोगपट्टया ।
मणिवेश्ममयं स्म निर्मलं किमपि ज्योतिरबाह्यमिज्यते ॥ २.७८ ॥

विललास जलाशयोदरे क्वचन द्यौरनुविम्बितेव या ।
परिखाकपटस्फुटस्फुरत्प्रतिबिम्बानवलम्बिताम्बुनि ॥ २.७९ ॥

व्रजते दिवि यद्गृहावलीचलचेलाञ्चलदण्डताडनाः ।
व्यतरन्नरुणाय विश्रमं सृजते हेलिहयालिकालनाम् ॥ २.८ ॥

क्षितिगर्भधराम्बरालयैस्तलमध्योपरिपूरिणां पृथक् ।
जगतां किल याखिलाद्भुताजनि सारैर्निजचिह्नधारिभिः ॥ २.८१ ॥

दधदम्बुदनीलकण्ठतां वहदत्यच्छसुधोज्ज्वलं वपुः ।
कथमृच्छतु यत्र नाम न क्षितिभृन्मन्दिरमिन्दुमौलिताम् ॥ २.८२ ॥

बहुरूपकशालभञ्जिकामुखचन्द्रेषु कलङ्करङ्कवः ।
यदनेककसौधकंधराहरिभिः कुक्षिगतीकृता इव ॥ २.८३ ॥

बलिसद्मदिवं स तथ्यवागुपरि स्माह दिवोऽपि नारदः ।
अधराथ कृता ययेव सा विपरीताजनि भूविभूषया ॥ २.८४ ॥

प्रतिहट्टपथे घरट्टजात्पथिकाह्वानदसक्तुसौरभैः ।
कलहान्न घनान्यदुत्थितादधुनाप्युज्झति घर्घरस्वरः ॥ २.८५ ॥

वरणः कनकस्य मानिनीं दिवमङ्कादमराद्रिरागताम् ।
घनरत्नकपाटपक्षतिः परिरभ्यानुनयन्नुवास याम् ॥ २.८६ ॥

अनलैः परिवेषमेत्य या ज्वलदर्कोपलवप्रजन्मभिः ।
उदयं लयमन्तरा रवेरवहद्बाणपुरीपरार्ध्यताम् ॥ २.८७ ॥

बहुकम्बुमणिर्वराटिकागणनाटत्करकर्कटोत्करः ।
हिमवालुकयाच्छवालुकः पटु दध्वान यदापणार्णवः ॥ २.८८ ॥

यदगारघटाट्टकुट्टिमस्रवदिन्दूपलतुन्दिलापया ।
मुमुचे न पतिव्रतौचिती प्रतिचन्द्रोदयमभ्रगङ्गया ॥ २.८९ ॥

रुचयोस्तमितस्य भास्वतः स्खलिता यत्र निरालयाः किल ।
अनुसायमभुर्विलेपना पणकश्मीरजपण्यवीथयः ॥ २.९ ॥

विततं वणिजापणेऽखिलं पणितुं यत्र जनेन वीक्ष्यते ।
मुनिनेव मृकण्डुसूनुना जगतीवस्तु पुरोदरे हरेः ॥ २.९१ ॥

सममेणमदैर्यदापणे तुलयन्सौरभलोभनिश्चलम् ।
पणिता न जनारवैरवैदपि गुञ्जन्तमलिं मलीमसम् ॥ २.९२ ॥

रविकान्तमयेन सेतुना सकलाहं ज्वलनाहितोष्मणा ।
शिशिरे निशिगच्छतां पुरा चरणौ यत्र दुनोति नो हिमं ॥ २.९३ ॥

विधुदीधितिजेन यत्पथं पयसा नैषधशीलशीतलम् ।
शशिकान्तमयं तपागमे कलितीव्रस्तपति स्म नातपः ॥ २.९४ ॥

परिखावलयच्छलेन या न परेषां ग्रहणस्य गोचरः ।
फणिभाषितभाष्यफक्किकाविषमा कुण्डलनामवापिता ॥ २.९५ ॥

मुखपाणिपदाक्ष्णी पङ्कजै रचिताङ्गेष्वपरेषु चम्पकैः ।
स्वयमादित यत्र भीमजा स्मरपूजाकुसुमस्रजः श्रियम् ॥ २.९६ ॥

जघनस्तनभारगौरवाद्वियदालम्ब्य विहर्तुमक्षमाः ।
ध्रुवमप्सरसोऽवतीर्य यां शतमध्यासत तत्सखीजनः ॥ २.९७ ॥

स्थितिशालिसमस्तवर्णतां न कथं चित्रमयी बिभर्तु या ।
स्वरभेदमुपैतु या कथं कलितानल्पमुखारवा न वा ॥ २.९८ ॥

स्वरुचारुणया पताकया दिनमर्केण समीयुषोत्तृषः ।
लिलिहुर्बहुधा सुधाकरं निशि माणिक्यमया यदालयाः ॥ २.९९ ॥

लिलिहे स्वरुचा पताकया निशि जिह्वानिभया सुधाकरम् ।
श्रितमर्ककरैः पितासु यन्नृपसद्मामलपद्मरागजम् ॥ २.१ ॥

अमृतद्युतिलक्ष्म पीतया मिलितं यद्वलभीपताकया ।
वलयायितशेषशायिनः सखितामादित पीतवाससः ॥ २.१०१ ॥

अश्रान्तश्रुतिपाठपूतरसनाविर्भूतभूरिस्तवाजिह्मब्रह्ममुखौघविघ्नितनवस्वर्गक्रियाकेलिना ।
पूर्वं गाधिसुतेन सामिघटिता मुक्ता नु मन्दाकिनी यत्प्रासाददुकूलवल्लिरनिलान्दोलैरखेलद्दिवि ॥ २.१०२ ॥

यदतिविमलनीलवेश्मरश्मिभ्रमरितभाः शुचिसौधवस्त्रवल्लिः ।
अलभत शमन्स्वसुः शिशुत्वं दिवसकराङ्कतले चला लुठन्ति ॥ २.१०३ ॥

स्वप्राणेश्वरनर्महर्म्यकटकातिथ्यग्रहायोत्सुकं पाथोदं निजकेलिसौधशिखरादारुह्य यत्कामिनी ।
साक्षादप्सरसो विमानकलितव्योमान एवाभवद्यन्न प्राप निमेषमभ्रतरसा यान्ती रसादध्वनि ॥ २.१०४ ॥

वैदर्भीकेलिशैले मरकतशिखरादुत्थितैरंशुदर्भैर्ब्रह्माण्डाघातभग्नस्यदजमदतया ह्रीधृतावाङ्मुखत्वैः ।
कस्या नोत्तानगाया दिवि सुरसुरभेरास्यदेशं गताग्रैर्यद्गोग्रासप्रदानव्रतसुकृतमविश्रान्तमुज्जृम्भते स्म ॥ २.१०५ ॥

विधुकरपरिरम्भादात्मनिष्यन्दपूर्णैः शशिदृषदुपक्ḷप्तैरालवालैस्तरूणाम् ।
विफलितजलसेकप्रक्रियागौरवेण व्यरचि स हृतचित्तस्तत्र भैमीवनेन ॥ २.१०६ ॥

अथ कनकपतत्त्रस्तत्र तां राजपुत्रीं सदसि सदृशभासां विस्फुरन्तीं सखीनाम् ।
उडुपरिषादि मध्यस्थायिशीतांशुलेखानुकरणपटुलक्ष्मीमक्षिलक्षीचकार ॥ २.१०७ ॥

भ्रमणरयविकीर्णस्वर्णभासा खगेन क्वचन पतनयोग्यं देशमन्विष्यताधः ।
मुखविधुमदसीयं सेवितुं लम्बमानः शशिपरिधिरिवोर्ध्वं मण्डलस्तेन तेने ॥ २.१०८ ॥

अनुभवति शचीत्थं सा घृताचीमुखाभिर्न सह सहचरीभिर्नन्दनानन्दमुच्चैः ।
इति मतिरुदयासीत्पक्षिणः प्रेक्ष्य भैमीं विपिनभुवि सखीभिः सार्धमाबद्धकेलिम् ॥ २.१०९ ॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
द्वैतीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥ २.११ ॥