नैषधीयचरितम्‌/चतुर्दशः सर्गः

विकिस्रोतः तः
← त्रयोदशः सर्गः नैषधीयचरितम्‌
चतुर्दशः सर्गः
श्रीहर्षः
पञ्चदशः सर्गः →

अथाधिगन्तुं निषधेश्वरं सा प्रसादनामाद्रियतामराणाम् ।
यतः सुराणां सुरभिर्नृणां तु सा वेधसासृज्यत कामधेनुः ॥ १४.१ ॥

प्रदक्षिणप्रक्रमणालवालविलेपधूपाचरणाम्बुसेकैः ।
इष्टं च मृष्टं च फलं सुवाना देवा हि कल्पद्रुमकाननं नः ॥ १४.२ ॥

श्रद्धामयीभूय सुपर्वणस्तान्ननाम नामग्रहणाग्रकं सा ।
सुरेषु हि श्रद्दधतां नमस्य सर्वाऋथसिद्ध्यङ्गमिथः समस्या ॥ १४.३ ॥

यत्तान्निजे सा हृदि भावनाया बलेन साक्षादकृताखिलस्थान् ।
अभूदभीष्टप्रतिभूः स तस्या वरं हि दृष्टा ददते परं ते ॥ १४.४ ॥

सभाजनं तत्र ससर्ज तेषां सभाजने पश्यति विस्मिते सा ।
आमुद्यते यत्सुमनोभिरेवं फलस्य सिद्धौ सुमनोभिरेव ॥ १४.५ ॥

वैशद्यहृद्यैर्म्रदिमाभिरामैरामोदिभिस्तानथ जातिजातैः ।
आनर्च गीत्यन्वितषट्पदैः सा स्तवप्रसूनस्तबकैर्नवीनैः ॥ १४.६ ॥

हृत्पद्मसद्मन्यधिवास्य बुद्ध्या दध्यावथैतानियमेकताना ।
सुपर्वणां हि स्फुटभावना या सा पूर्वरूपं फलभावनायाः ॥ १४.७ ॥

भक्त्या तयैव प्रससाद तस्यास्तुष्टं स्वयं देवचतुष्टयं ततः ।
स्वेनानलस्य स्फुटतां यियासोः फूत्कृत्यपेक्षा कियती खलु स्यात् ॥ १४.८ ॥

प्रसादमासाद्य सुरैः कृतं सा सस्मार सारस्वतसूक्तिसृष्टेः ।
देवा हि नान्यद्वितरन्ति किंतु प्रसद्य ते साधुधियं ददन्ते ॥ १४.९ ॥

शेषं नलं प्रत्यमरेण गाथा या या समर्था खलु येन येन ।
तां तां तदन्येन सहालगन्तीं तदा विशेषं प्रतिसंदधे सा ॥ १४.१ ॥

एकैकवृत्तेः प्रतिलोकपालं पतिव्रतात्वं जगृहुर्दिशां याः ।
वेद स्म गाथा मिलितास्तदासावाशा इवैकस्य नलस्य वश्याः ॥ १४.११ ॥

या पाशिनैवाशनिपाणिनैव गाथा यमेनैव समाग्निनैव ।
तामेव मेने मिलितां नलस्य सैषा विशेषाय तदा नलस्य ॥ १४.१२ ॥

निश्चित्य शेषं तमसौ नरेशं प्रमोदमेदस्वितरान्तराभूत् ।
देव्या गिरां भावितभङ्गिराख्यच्चित्तेन चिन्तार्णवयादसेयम् ॥ १४.१३ ॥

सा भङ्गिरस्याः खलु वाचि कापि यद्भारती मूर्तिमतीयमेव ।
श्लिष्टं निगद्यादृत वासवादीन्विशिष्य मे नैषधमप्यवादीत् ॥ १४.१४ ॥

जग्रन्थ सेयं मदनुग्रहेण वचःस्रजः स्पष्टयितुं चतस्रः ।
द्वे ते नलं लक्षयितुं क्षमेते ममैव मोहोऽयमहो महीयान् ॥ १४.१५ ॥

श्लिष्यन्ति वाचो यदमूरमुष्याः कवित्वशक्तेः खलु ते विलासाः ।
भूपाललीलाः किल लोकपालाः समाविशन्ति व्यतिभेदिनोऽपि ॥ १४.१६ ॥

त्यागं महेन्द्रादिचतुष्टस्य किमभ्यनन्दत्क्रमसूचिअस्य ।
किं प्रेरयामास नले च तन्मां सा सूक्तिरस्या मम कः प्रमोहः ॥ १४.१७ ॥

परस्य दारान्खलु मन्यमानैरस्पृश्यमानाममरैर्धरित्रीम् ।
भक्त्यैव भर्तुश्चरणौ दधानां नलस्य तत्कालमपश्यदेषा ॥ १४.१८ ॥

सुरेषु नापश्यदवैक्षताक्ष्णोर्निमेषमुर्वीभृति संमुखी सा ।
इह त्वमागत्य नले मिलेति संज्ञानदानादिव भाषमाणम् ॥ १४.१९ ॥

नाबुद्ध बाला विबुधेषु तेषु क्षोदं क्षितेरैक्षत नैषधे तु ।
पत्ये सृजन्त्याः परिरम्भमुर्व्याः संभूतसंभेदमसंशयं सा ॥ १४.२ ॥

स्वेदः स्वदेहस्य वियोगतापं निर्वापयिष्यन्निव संसिसृक्षोः ।
हीराङ्कुरश्चारुणि हेमनीव नले तयालोकि न दैवतेषु ॥ १४.२१ ॥

सुरेषु मालाममलामपश्यन्नले तु बाला मलिनीभवन्तीम् ।
इमां किमासाद्य नलोऽद्य मृद्वीं श्रद्धास्यते मामिति चिन्तयेव ॥ १४.२२ ॥

श्रियं भजन्तां कियदस्य देवाश्छाया नलस्यास्ति तथापि नैषाम् ।
इतीरयन्तीव तया निरैक्षि सा नैषधे न त्रिदशेषु तेषु ॥ १४.२३ ॥

चिह्नैरमीभिर्नलसंविदस्याः संवादमाप प्रथमोपजाता ।
सा लक्षणव्यक्तिभिरेव देवप्रसादमासादितमप्यबोधि ॥ १४.२४ ॥

नले निधातुं वरणस्रजं तां स्मरः स्म रामां त्वरयत्यथैनाम् ।
अपत्रपा तां निषिषेध तेन द्वयानुरोधं तुलितं दधौ सा ॥ १४.२५ ॥

स्रजा समालिङ्गयितुं प्रियं सा रसादधत्तैव बहुप्रयत्नम् ।
स्तम्भत्रपाभ्यामभवत्तदीये स्पन्दस्तु मन्दोऽपि न पाणिपद्मे ॥ १४.२६ ॥

तस्या हृदि व्रीडमनोभवाभ्यां दोलाविलासं समवाप्यमाने ।
स्थितं धृतैणाङ्ककुलातपत्रे शृङ्गारमालिङ्गदधीश्वरश्रीः ॥ १४.२७ ॥

करः स्रजा सज्जतरस्तदीयः प्रियोन्मुखः सन्विरराम भूयः ।
प्रियाननस्यार्धपथं ययौ च प्रत्याययौ चातिचलः कटाक्षः ॥ १४.२८ ॥

तस्याः प्रियं चित्तमुपेतमेव प्रभूबभूवाक्षि न तु प्रयातुम् ।
सत्यः कृतः स्पष्टमभूत्तदानीं तयाक्ष्णि लज्जेति जनप्रवादः ॥ १४.२९ ॥

कथं कथंचिन्निषधेश्बरस्य कृत्वास्यपद्मं दरवीक्षितश्रि ।
वाग्देवताया वदनेन्दुबिम्बं त्रपावती साकृत सामिदृष्टम् ॥ १४.३ ॥

अजानतीवेदमवोचदेनामाकूतमस्यास्तदवेत्य देवी ।
भावस्त्रपोर्मिप्रतिसीरया ते न दीयते लक्षयितुं ममापि ॥ १४.३१ ॥

देव्याः श्रुतौ नेति नलार्धनाम्नि गृहीत एव त्रपया निपीता ।
अथाङ्गुलीरङ्गुलिभिर्मृशन्ती दूरं सा नमयांचकार ॥ १४.३२ ॥

करे विधृत्येश्वरया गिरां सा पान्था पथीन्द्रस्य कृता विहस्य ।
वामेति नामैव बभाज सार्धं पुरन्ध्रिसाधारणसंविभागम् ॥ १४.३३ ॥

विहस्य हस्तेऽथ विकृष्य देवी नेतुं प्रयाताऽभि महेन्द्रमेताम् ।
भ्रमादियं दत्तमिवाहिदेहे ततश्चमत्कृत्य करं चकर्ष ॥ १४.३४ ॥

भैमीं निरीक्ष्याभिमुखीं मघोनः स्वाराज्यलक्ष्मीरभृताभ्यसूयाम् ।
दृष्ट्वा ततस्तत्परिहारिणीं तां व्रीडं बिडौजःप्रवणाभ्यपादि ॥ १४.३५ ॥

त्वत्तः श्रुतं नेति नले मयातः परं वदस्वेत्युदिताथ देव्या ।
हीमन्मथद्वैरथरङ्गभूमी भैमी दृशा भाषितनैषधाभूत् ॥ १४.३६ ॥

हसत्सु भैमीं दिविषत्सु पाणौ पाणिम् प्रणीयाप्सरसां रसात्सा ।
आलिङ्ग्य नीत्वाकृत पान्थदुर्गां भूपालदिक्पालकुलाध्वमध्यम् ॥ १४.३७ ॥

आदेशितामप्यवलोक्य मन्दं मन्दं नलस्यैव दिशा चलन्तीम् ।
भूयः सुरानर्धपथादथासौ तानेव तां नेतुमना नुनोद ॥ १४.३८ ॥

मुखाब्जमावर्तनलोलनालं कृत्वालिहूंहूंरवलक्ष्यलक्ष्यम् ।
भीमोद्भवा तां नुनुदेऽङ्कपालीं देव्या नवोढेव दृढां विवोढुः ॥ १४.३९ ॥

देवी कथंचित्खलु तामदेवद्रीचीं भवन्तीं स्मितसिक्तसृक्का ।
आह स्म मां प्रत्यपि ते पुनः का शङ्का शशाङ्कादधिकाष्यबिम्बे ॥ १४.४ ॥

एषामकृत्वा चरणप्रणाममेषामनुज्ञामनवाप्य सम्यक् ।
सुपर्ववैरे तव वैरसेनिं वरीतुमीहा कथमौचितीयम् ॥ १४.४१ ॥

इतीरिते विश्वसितां पुनस्तामादाय पाणौ दिविषत्सु देवी ।
कृत्वा प्रणम्रां वदति स्म सा तान् भक्तेयमर्हत्यधुनानुकम्पाम् ॥ १४.४२ ॥

युष्मान्वृणीते न बहून्सतीयं शेषावमानाच्च भवत्सु नैकम् ।
तद्वः समेतान्नृपमेनमंशान्वरीतुमन्विष्यति लोकपालाः ॥ १४.४३ ॥

भैम्या स्रजःसञ्जनया पथि प्राक्स्वयंवरं संजनयांबभूव ।
संभोगमालिङ्गनयास्य वेधाः शेषं तु कं हन्तुमियद्यतध्वे ॥ १४.४४ ॥

वर्णाश्रमाचारपथात्प्रजाभिः स्वाभिः सहैवास्खलते नलाय ।
प्रसेदुषो वेदृशवृत्तभङ्ग्या दित्सैव कीर्तेर्भुवमानयद्वः ॥ १४.४५ ॥

इति श्रुतेऽस्या वचसैव हास्यात्कृत्वा सलास्याधरमास्यबिम्बम् ।
भ्रूविभ्रमाकूतकृताभ्यनुज्ञेष्वेतेषु तां साथ नलाय निन्ये ॥ १४.४६ ॥

मन्दाक्षनिस्पन्दतनोर्मनोभूदुष्प्रेरमप्यानयति स्म तस्याः ।
मधूकमालामधुरं करं सा कण्ठोपकण्ठं वसुधासुधांशोः ॥ १४.४७ ॥

अथाभिलिख्येव समर्प्यमाणां राजिं निजस्वीकरणाक्षराणाम् ।
दूर्वाङ्कुराढ्यां नलकण्ठनाले वधूर्मधूकस्रजमुत्ससर्ज ॥ १४.४८ ॥

तां दूर्वया श्यामलयातिवेलं शृङ्गारभाषंनिभया सुशोभाम् ।
मालां प्रसूनायुधपाशभासं कण्ठेन भूभृद्बिभरांबभूव ॥ १४.४९ ॥

दूर्वाग्रजाग्रत्पुलकावलिं तां नलाङ्गमङ्गाद्भृशमुल्लसन्तीम् ।
मानेन मन्ये नमितानना सा सासूयमालोकत पुष्पमालाम् ॥ १४.५ ॥

कापि प्रमोदास्फुटनिर्जिहानवर्णेव या मङ्गलगीतिरासाम् ।
सैवाननेभ्यः पुरसुन्दरीणामुच्चैरुलूलुध्वनिरुच्चचार ॥ १४.५१ ॥

सा निर्मले तस्य मधूकमाला हृदि स्थिता च प्रतिबिम्बिता च ।
कियत्यमग्ना कियती च मग्ना पुष्पेषुबाणालिरिव व्यलोकि ॥ १४.५२ ॥

रोमाणि सर्वाण्यपि बालभावाद्वरश्रियं वीक्षितुमुत्सुकानि ।
तस्यास्तदा कण्टकिताङ्गयष्टेरुद्ग्रीविकादानमिवान्वभूवन् ॥ १४.५३ ॥

रोमाङ्कुरैर्दन्तुरिताखिलाङ्गी रम्याधरा सा सुतरां विरेजे ।
शरव्यदण्डैः श्रितमण्डनश्रीः स्मारी शरोपासनवेदिकेव ॥ १४.५४ ॥

चेष्टा व्यनेशन्निखिलास्तदास्याः स्मरेषुवातैरिव ता विधूताः ।
अभ्यर्थ्य नीताः कलिना मुहूर्तं लाभाय तस्य बहु चेष्टितुं वा ॥ १४.५५ ॥

तन्न्यस्तमाल्यस्पृशि यन्नलस्य स्वेदं करे पञ्चशरश्चकार ।
भविष्यदुद्वाहमहोत्सवस्य हस्तोदकं तज्जनयांबभूव ॥ १४.५६ ॥

तूलेन तस्यास्तुलना मृदोस्तत्कम्प्राऽस्तु सा मन्मथबाणवातैः ।
चित्रीयितं तत्तु नलो यदुच्चैरभूत्स भूभृत्पृथुवेपथुस्तैः ॥ १४.५७ ॥

दृशोरपि न्यस्तमिवास्त राज्ञां रागाद्दृगम्बुप्रतिबिम्बिमाल्यम् ।
नृपस्य तत्पीतवतोरिवाक्ष्णोः प्रालम्ब्यमालम्बनयुक्तमन्तः ॥ १४.५८ ॥

स्तम्भस्तथालम्भितमां नलेन भैमीकरस्पर्शमुदः प्रसादः ।
कंदर्पलक्ष्यीकरणार्पितस्य स्तम्भस्य दम्भं स चिरं यथापत् ॥ १४.५९ ॥

उत्सृज्य साम्राज्यमिवाथ भिक्षां तारुण्यमुल्लङ्घ्य जरामिवारात् ।
तं चारुमाकारमुपेक्ष्य यान्तं निजां तनूमाददिरे दिगीशाः ॥ १४.६ ॥

मायानलत्वं त्यजतो निलीनैः पूर्वैरहंपूर्विकया मघोनः ।
भीमोद्भवासात्त्विकभावशोभा दिदृक्षयेवाविरभावि नेत्रैः ॥ १४.६१ ॥

गोत्रानुकूलत्वभवे विवाहे तत्प्रातिकूल्यादिव गोत्रशत्रुः ।
पुरश्चकार प्रवरं वरं यमायन्सखायं ददृशे तया सः ॥ १४.६२ ॥

स्वकामसंमोहमहान्धकारनिर्वापमिच्छन्निव दीपिकाभिः ।
उद्गत्वरीभिश्छुरितं वितेने निजं वपुर्वायुसखः शिखाभिः ॥ १४.६३ ॥

पत्यौ वृते भीमजया न वह्नावह्ना स्वमह्नाय निजुह्नुवे यः ।
जनादपत्रप्य स हा सहायस्तस्य प्रकाशोऽभवदप्रकाशः ॥ १४.६४ ॥

सदण्डमालक्तकनेत्रचण्डं तमःकिरं कायमधत्त कालः ।
तत्कालमन्तःकरणं नृपाणामध्यासितुं कोप इवोपनम्रः ॥ १४.६५ ॥

दृग्गोचरोऽभूदथ चित्रगुप्तः कायस्थ उच्चैर्गुण एतदीयः ।
ऊर्ध्वं तु पत्त्रस्य मषीद एको मषेर्ददञ्चोपरि पत्त्रमन्यः ॥ १४.६६ ॥

तस्यां मनोबन्धविमोचनस्य कृतस्य तत्कालमिव प्रचेताः ।
पाशं दधानः करबद्धवासं विभुर्बभावाप्यमवाप्य देहम् ॥ १४.६७ ॥

सहद्वितीयः स्त्रियमभ्युपेयादेवं स दुर्बुध्य नयोपदेशम् ।
अन्यां सभार्यः कथमृच्छतीति जलाधिपोऽभूदसहाय एव ॥ १४.६८ ॥

देव्यापि दिव्याऽनु तनुः प्रकाशीकृता मुदश्चक्रभृतः सृजन्ती ।
अनिह्नुतैस्तामवधार्य चिह्नैस्तद्वाचि बाला शिथिलाद्भुताभूत् ॥ १४.६९ ॥

विलोकके नायकमेलकेऽस्मिन्रूपान्यताकौतुकदर्शिभिस्तैः ।
बाधा बतेन्द्रादिभिरिन्द्रजालविद्याविदां वृत्तिवधाद्व्यधायि ॥ १४.७ ॥

विलोक्य तावाप्तदुरापकामौ परस्परप्रेमरसाभिरामौ ।
अथ प्रभुः प्रीतमना बभाषे जाम्बूनदोर्वीधरसार्वभौमः ॥ १४.७१ ॥

वैदर्भि दत्तस्तव तावदेष वरो दुरापः पृथिवीश एव ।
दूत्यं तु यत्त्वं कृतवानमायं नल प्रसादस्त्वयि तन्ममायम् ॥ १४.७२ ॥

प्रत्यक्षलक्ष्यामवलम्ब्य मूर्तिं हुतानि यज्ञेषु तवोपभोक्ष्ये ।
संशेरतेऽस्माभिरवीक्ष्य भुक्तं मखं हि मन्त्राधिकदेवभावे ॥ १४.७३ ॥

भवानपि त्वद्दयितापि शेषे सायुज्यमासादयतं शिवाभ्याम् ।
प्रेत्यास्मि कीदृग्भवितेति चिन्ता संतापमन्तस्तनुते हि जन्तोः ॥ १४.७४ ॥

तवोपवाराणसि नामचिह्नं वासाय पारेसि पुरं पुरास्ति ।
निर्वातुमिच्छोरपि तत्र भैमीसंभोगसंकोचभियाधिकाशि ॥ १४.७५ ॥

धूमावलिश्मश्रु ततः सुपर्वा मुखं मखास्वादविदां तमूचे ।
कामं मदीक्षामयकामधेनोः पयायतामभ्युदयस्त्वदीयः ॥ १४.७६ ॥

या दाहपाकौपयिकी तनुर्मे भूयात्त्वदिच्छावशवर्तिनी सा ।
तया पराभूततनोरनङ्गात्तस्याः प्रभुः सन्नधिकस्त्वमेधि ॥ १४.७७ ॥

अस्तु त्वया साधितमन्नमीनरसादि पीयूषरसातिशायि ।
यद्भूप विद्मस्तव सूपकारक्रियासु कौतूहलशालि शीलम् ॥ १४.७८ ॥

वैवस्वतोऽपि स्वत एव देवस्तुष्टस्तमाचष्ट धराधिराजम् ।
वरप्रदानाय तवावदानैश्चिरं मदीया रसनोद्धुरेयम् ॥ १४.७९ ॥

सर्वाणि शस्त्राणि तवाङ्गचक्रैराविर्भवन्तु त्वयि शत्रुजैत्रे ।
अवाप्यमस्मादधिकं न किंचिज्जागर्ति वीरव्रतदीक्षितानाम् ॥ १४.८ ॥

कृच्छ्रं गतस्यापि दशाविपाकं धर्मान्न चेतः स्खलतु त्वदीयम् ।
अमुञ्चतः पुण्यमनन्यभक्तेः स्वहस्तवास्तव्य इव त्रिवर्गः ॥ १४.८१ ॥

स्मिताञ्चितां वाचमवोचदेनं प्रसन्नचेता नृपतिं प्रचेताः ।
प्रदाय भैमीमधुना वरौ तु ददामि तद्यौतककौतुकेन ॥ १४.८२ ॥

यत्राभिलाषस्तव तत्र देशे नन्वस्तु धन्वन्यपि तूर्णमर्णः ।
आपो वहन्तीह हि लोकयात्रां यथा न भूतानि तथाऽपराणि ॥ १४.८३ ॥

प्रसारितापः शुचिभानुनास्तु मरुः समुद्रत्वमपि प्रपद्य ।
भवन्मनस्कारलवोद्गमेन क्रमेलकानां निलयः पुरेव ॥ १४.८४ ॥

अम्लानिरामोदभरश्च दिव्यः पुष्पेषु भूयाद्भवदङ्गसङ्गात् ।
दृष्टं प्रसूनोपमया मयान्यन्न धर्मशर्मोभयकर्मठं यत् ॥ १४.८५ ॥

वाग्देवतापि स्मितपूर्वमुर्वीसुपर्वराजं रभसाद्बभाषे ।
त्वत्प्रेयसीसंमदमाचरन्त्या मत्किं न किंचिद्ग्रहणोचितं ते ॥ १४.८६ ॥

अर्थो विनैवाऋथनयोपसीदन्नाल्पोऽपि धीरैरवधीरणीयः ।
मान्येन मन्ये विधिना वितीर्णः स प्रीतिदायो बहु मन्तुमर्हः ॥ १४.८७ ॥

अवामावामार्धे सकलमुभयाकारघटनाद्द्विधाभूतं रूपं भगवदभिधेयं भवति यत् ।
तदन्तर्मन्त्रं मे स्मरहरमयं सेन्दुममलं निराकारं शश्वज्जप नरपते सिध्यतु सते ॥ १४.८८ ॥

सर्वाङ्गीणरसामृतस्तिमितया वाचा स वाचस्पतिः स स्वर्गीयमृगीदृशामपि वशीकाराय मारायते ।
यस्मै यः स्पृहयत्यनेन स तदेवाप्नोति इं भूयसा येनायं हृदये स्थितः सुकृतिना अम्न्मन्त्रचिन्तामणिः ॥ १४.८९ ॥

पुष्पैरभ्यर्च्य गन्धादिभिरपि सुभगैश्चारुहंसेन मां चेन्निर्यान्तीं मन्त्रमूर्तिं जपति मयि मतिं न्यस्य मय्येव भक्तः ।
तत्प्राप्ते वत्सरान्ते शिरसि करमसौ यस्य कस्यापि धत्ते सोऽपि श्लोकानकाण्डे रचयति रुचिरान्कौतुकं दृश्यमस्याः ॥ १४.९ ॥

गुणानामास्थानीं नृपतिलकनारीति विदितां रसस्फीतामन्तस्तव च तव वृत्ते च कवितुः ।
भवित्री वैदर्भीमधिकमधिकण्ठं रचयितुं परीरम्भक्रीडाचरणशरणामन्वहमहम् ॥ १४.९१ ॥

भवद्वृत्तस्तोतुर्मदुपहितकण्ठस्य कवितुर्मुखात्पुण्यैः श्लोकैस्त्वयि घनमुदेयं जनमुदे ।
ततः पुण्यश्लोकः क्षितिभुवनलोकस्य भविता भवानाख्यातः सन्कलिकलुषहारी हरिरिव ॥ १४.९२ ॥

देवी च ते च जगदुर्जगदुत्तमाङ्गरत्नाय ते कथय कं वितराम कामम् ।
किंचित्त्वया नहि पतिव्रतया दुरापं भस्मास्तु यस्तव बत व्रतलोपमिच्छुः ॥ १४.९३ ॥

कूटकायमपहाय नो वपुर्बिभ्रतस्त्वमसि वीक्ष्य विस्मिता ।
आप्तुमाकृतिमतो मनीषितां विद्यया हृदि तवाप्युदीयताम् ॥ १४.९४ ॥

इत्थं वितीर्य वरमम्बरमाश्रयत्सु तेषु क्षणादुदलसद्विपुलः प्रणादः ।
उत्तिष्ठतां परिजनालपनैर्नृपाणां स्वर्वासिवृन्दहतदुन्दुभिनादसान्द्रः ॥ १४.९५ ॥

न दोषं विद्वेषादपि निरवकाशं गुणमये वरेण प्राप्तास्त्रे न समरसमारम्बसदृशम् ।
जगुः पुण्यश्लोकं प्रतिनृपतयः किंतु विदधुः स्वनिश्वासैर्भैमीहृदयमुदयन्निर्भरदयम् ॥ १४.९६ ॥

भूभृद्भिर्लम्भिताऽसौ करुणरसनदीमूर्तिमद्देवतात्वं तातेनाभ्यर्थ्ययोग्याःसपदिनिजसखीर्दापयामासतेभ्यः ।
वैदर्भ्यास्तेऽप्यलाभात्कृतगमनमनःप्राणवाञ्छां विजघ्नुः सख्यः संशिक्ष्य विद्याः सततधृतवयस्यानुकाराभिराभिः ॥ १४.९७ ॥

अहह सह मघोना श्रीप्रतिष्ठासमाने निलयमभि नलेऽथ स्वं प्रतिष्ठासमाने ।
अपतदमरभर्तुर्मूर्तिबद्धेव कीर्तिर्गलदलिमधुबाष्पा पुष्पवृष्टिर्नभस्तः ॥ १४.९८ ॥

स्वस्यामरैर्नृपतिमंशममुं त्यजद्भिरंशच्छिदाकदनमेव तदाध्यगामि ।
उत्का स्म पश्यति निवृत्य निवृत्य यान्ती वाग्देवतपि निजविभ्रमधाम भैमीम् ॥ १४.९९ ॥

सानन्दंतनुजाविवाहनमहे भीमः स भूमीपतिर्वैदर्भीनिषधेश्वरौ नृपजनानिष्टोक्तिनिर्मृष्टये ।
स्वानि स्वानि धराधिपाश्च शिबिराण्युद्दिश्य यान्तः क्रमादेको द्वौ बहबश्चकार सृजतः स्मातेनिरे मङ्गलम् ॥ १४.१ ॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
यातस्तस्य चतुर्दशः शरदिजज्योत्स्नाच्छसूक्तेर्महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥ १४.१०१ ॥