नैषधीयचरितम्‌/चतुर्थः सर्गः

विकिस्रोतः तः
← तृतीयः सर्गः नैषधीयचरितम्‌
चतुर्थः सर्गः
श्रीहर्षः
पञ्चमः सर्गः →

अथ नलस्य गुणं गुणमात्मभूः सुरभि तस्य यशःकुसुमं धनुः ।
श्रुतिपथोपरतं सुमनस्तया तमिषुमाशु विधाय जिगाय तान् ॥ ४.१ ॥

यदतनुज्वरभाक्तनुते स्म सा प्रियकथासरसीरसमञ्जनम् ।
सपदि तस्य चिरान्तरतापिनी परिणतिर्विषमा समपद्यत ॥ ४.२ ॥

ध्रुवमधीतवतीयमधीरतां दयितदूतपतद्गतवेगतः ।
स्थितिविरोधकरीं द्व्यणुकोदरी तदुदितः स हि यो यदनन्तरः ॥ ४.३ ॥

अतितमां समपादि जडाशयं स्मितलवस्मरणेऽपि तदाननम् ।
अजनि पङ्गुरपाङ्गनिजाङ्गणभ्रमिकणेऽपि तदीक्षणखञ्जनः ॥ ४.४ ॥

किमु तदन्तरुभौ भिषजौ दिवः स्मरनलौ विशतः स्म विगाहितुम् ।
तदभिकेन चिकित्सतुमाशु तां मखभुजामधिपेन नियोजितौ ॥ ४.५ ॥

कुसुमचापजतापसमाकुलं कमलकोमलमैक्ष्यत तन्मुखम् ।
अहरहर्वहदभ्यधिकाधिका रविरुचिग्लपितस्य विधोर्विधाम् ॥ ४.६ ॥

तरुणतातरणिद्युतिनिर्मितद्रढिम तत्कुचकुम्भयुगं तदा ।
अनलसंगतितापमुपैतु नो कुसुमचापकुलाअलविलासजम् ॥ ४.७ ॥

अधृत थद्विरहोष्मणि मज्जितं मनसिजेन तदूरुयुगं तदा ।
स्पृशति तत्कदं कदलीतरुर्यदि मरुज्वलदूषरदूषितः ॥ ४.८ ॥

स्मरशराहतिनिर्मितसंज्वरं करयुगं हसति स्म दमस्वसुः ।
अनपिधानपतत्तपनातपं तपनिपीतसरः सरसीरुहम् ॥ ४.९ ॥

मदनतापभरेण विदीर्य नो यदुदपाति हृदा दमनस्वसुः ।
निबिडपीनकुचद्वययन्त्रणा तमपराधमधात्प्रतिबध्नती ॥ ४.१ ॥

निविशते यदि शूकशिखा पदे सृजति सा कियतीमिव न व्यथाम् ।
मृदुतनोर्वितनोतु कथं न तामवनिभृत्तु निविश्य हृदि स्थितः ॥ ४.११ ॥

मनसि सन्तमिव प्रियमीक्षितुं नयनयोः स्पृहयान्तरुपेतयोः ।
ग्रहणशक्तिरभूदिदमीययोरपि न संमुखवास्तुनि वस्तुनि ॥ ४.१२ ॥

हृदि दमस्वसुरश्रुझरप्लुते प्रतिफलद्विरहात्तमुखानतेः ।
हृदयभाजमराजत चुम्बितुं नलमुपेत्य किलागमि तन्मुखम् ॥ ४.१३ ॥

सुहृदमग्निमुदञ्चयितुं स्मरं मनसि गन्धवहेन मृगीदृशः ।
अकलि निःश्वसितेन विनिर्गमानुमितनिह्नुतवेशनमायिता ॥ ४.१४ ॥

विरहपाण्डिमरागतमोमषीशितिमतन्निजपीतिमवर्णकैः ।
दश दिशः खलु तदृगकल्पयल्लिपिकरी नलरूपकचित्रिताः ॥ ४.१५ ॥

स्मरकृतां हृदयस्य मुहुर्दशां बहु वयन्निव निःश्वसितानिलः ।
व्यधित वाससि कम्पमदः श्रिते त्रसति कः सति नाश्रयबाधने ॥ ४.१६ ॥

करपदाननलोचननामभिः शतदलैः सुतनोर्विरहज्वरे ।
रविमहो बहुपीतचरं चिरादनिशतापमिषादुदसृज्यत ॥ ४.१७ ॥

उदयति स्म तदद्भुतमालिभिर्धरणिभृद्भुवि तत्र विमृश्य यत् ।
अनुमितोऽपि च बाष्पनिरीक्षणाद्व्यभिचचार न तापकरो नलः ॥ ४.१८ ॥

हृदि विदर्भभुवः प्रहरञ्शरै रतिपतिर्निषधाधिपतेः कृते ।
कृततदन्तरगस्वदृढव्यधः फलदनीरितमूर्च्छदलं खलु ॥ ४.१९ ॥

विधुरमानि तया यदि भानुमान्कथमहो स तु तद्धृदयं तथा ।
अपि वियोगभरास्फुटनस्फुटीकृतदृषत्त्वमजिज्वलदंशुभिः ॥ ४.२ ॥

हृदयदत्तसरोरुहया तया क्व सदृगस्तु वियोगनिमग्नया ।
प्रियधनुः परिरभ्य हृदा रतिः किमनुमर्तुमशेत चितार्चिषि ॥ ४.२१ ॥

अनलभावमियं स्वनिवासिनो न विरहस्य रहस्यमबुध्यत ।
प्रशमनाय विधाय तृणान्यमूञ्ज्वलति तत्र यदुज्झितुमैहत ॥ ४.२२ ॥

प्रकृतिरेतु गुणः स न योषितां कथमिमां हृदयं मृदु नाम यत् ।
तदिषुभिः कुसुमैरपि दुन्वता सुविवृतं विबुधेन मनोभुवा ॥ ४.२३ ॥

रिपुतरा भवनादविनिर्यतीं विधुरुचिर्गृहजालबिलैर्नुताम् ।
इतरथात्मनिवारणशङ्कया ज्वरयितुं बिशवेशधराविशत् ॥ ४.२४ ॥

हृदि विदर्भभुवोऽश्रुभृति स्फुटं विनमदास्यतया प्रतिबिम्बितम् ।
मुखदृगोष्ठमरोपि मनोभुवा तदुपमाकुसुमान्यखिलाः शराः ॥ ४.२५ ॥

विरहपाण्डुकपोलतले विधुर्व्यधित भीमभुवः प्रतिबिम्बितः ।
अनुपलक्ष्यसितांशुतया मुखं निजसखं सुखमङ्कमृगार्पणात् ॥ ४.२६ ॥

विरहतापिनि चन्दनपांशुभिर्वपुषि सार्पितपाण्डिममण्डना ।
विषधराभबिसाभरणा दधे रतिपतिं प्रति शंभुविभीषिकाम् ॥ ४.२७ ॥

विनिहितं परितापिनि चन्दनं हृदि तया धृतबुद्बुदमाबभौ ।
उपनमन्सुहृदं हृदयेशयं विधुरिवाङ्कगतोडुपरिग्रहः ॥ ४.२८ ॥

स्मरहुताशनदीपितया तया बहु मुहुः सरसं सरसीरुहम् ।
श्रयितुमर्धपथे कृतमन्तरा श्वसितनिर्मितमर्मरमुज्झितम् ॥ ४.२९ ॥

प्रियकरग्रहमेवमवाप्स्यति स्तनयुगं तव ताम्यति किं न्विति ।
जगदतुर्निहिते हृदि नीरजे दवथुकुड्मलनेन पृथुस्तनीम् ॥ ४.३ ॥

त्वदितरोऽपि हृदा न मया धृतः पतिरितीव नलं हृदयेशयम् ।
स्मरहविर्भुजि बोधयति स्म सा विरहपाण्डुतया निजशुद्धताम् ॥ ४.३१ ॥

विरहतप्ततदङ्गनिवेशिता कमलिनी निमिषद्दलमुष्टिभिः ।
किमपनेतुमचेष्टत किं पराभवितुमैहत तद्दवथुं पृथुम् ॥ ४.३२ ॥

इयमनङ्गशरावलिपन्नगक्षतविसारिवियोगविषावशा ।
शशिकलेव खरांशुकरार्दिता करुणनीरनिधौ निदधौ न कम् ॥ ४.३३ ॥

ज्वलति मन्मथवेदनया निजे हृदि तयार्द्रमृणाललतार्पिता ।
स्वजयिनोस्त्रपया सविधस्थयोर्मलिनतामभजद्भुजयोर्भृशम् ॥ ४.३४ ॥

पिकरुतिश्रुतिकम्पिनि शैवलं हृदि तया निहितं विचलद्बभौ ।
सततद्गतहृच्छयकेतुना हृतमिव स्वतनूधनघर्षिणा ॥ ४.३५ ॥

न खलु मोहबशेन तदाननं नलमनः शशिकान्तमबोधि तत् ।
इतरथा शशिनोभ्युदये ततः कथमसुस्रुवदस्रुमयं पयः ॥ ४.३६ ॥

रतिपतेर्विजयास्त्रमिषुर्यथा जयति भीमसुतापि तथैव सा ।
स्वविशिखानिव पञ्चतया ततो नियतमैहत योजयितुं स ताम् ॥ ४.३७ ॥

शशिमयं दहनास्रमुदित्वरं मनसिजस्य विमृश्य वियोगिनी ।
झटिति वारुणमश्रुमिषादसौ तदुचितं प्रतिशस्त्रमुपाददे ॥ ४.३८ ॥

अतनुना नवमम्बुदमाम्बुदं सुतनुरस्त्रमुदस्तमवेक्ष्य सा ।
उचितमायतनिःश्वसितच्छलाच्छ्वसनशस्त्रममुञ्चदमुं प्रति ॥ ४.३९ ॥

रतिपतिप्रहितानिलहेतितां प्रतियती सुदती मलयानिले ।
तदुरुतापभयात्तमृणालिकामयमियं भुजगास्त्रमिवादित ॥ ४.४ ॥

न्यधित तद्धृदि शल्यमिव द्वयं विरहितां च तथापि च जीवितम् ।
किमथ तत्र निहत्य निखातवान्रतिपतिः स्तनबिल्वयुगेनं तत् ॥ ४.४१ ॥

अतिशरव्ययता मदनेन तां निखिलपुष्पमयस्वशरव्ययात् ।
स्फुटमकारि फलान्यपि मुञ्चता तदुरसि स्तनतालयुगार्पणम् ॥ ४.४२ ॥

अथ मुहुर्बहुनिन्दितचन्द्रया स्तुतविधुं तुदया च तया मुहुः ।
पतितया स्मरतापमये गदे निजगदेऽश्रुविमिश्रमुखी सखी ॥ ४.४३ ॥

नरसुराब्जभुवामिव यावता भवति यस्य युगं यदनेहसा ।
विरहिणामपि तद्रतवद्युवक्षणमितं न कथं गणितागमे ॥ ४.४४ ॥

जनुरधत्त सती स्मरतापिता हिमवतो न तु तन्महिमादृता ।
ज्वलति भालतले लिखितः सतीविरह एव हरस्य न लोचनम् ॥ ४.४५ ॥

दहनजा न पृथुर्दवथुव्यथा विरहजैव पृथुर्यदि नेदृशम् ।
दहनमाशु विशन्ति कथं स्त्रियः प्रियमपासुमुपासितुमुद्धुराः ॥ ४.४६ ॥

हृदि लुठन्ति कला नितराममूर्विरहिणीवधपङ्ककलङ्किता ।
कुमुदसख्यकृतस्तु बहिष्कृताः सखि विलोकय दुर्विनयं विधोः ॥ ४.४७ ॥

अयि विधुं परिपृच्छ गुरोः कुतः स्फुटमशिक्ष्यत दाहवदान्यता ।
ग्लपितशंभुगलाद्गरलात्त्वया किमुदधौ जड वा वडवानलात् ॥ ४.४८ ॥

अयमयोगिवधूवधपातबैर्भ्रमिमवाप्य दिवः खलु पात्यते ।
शितिनिशादृषदि स्फुटदुत्पतत्कणगणाधिकतारकिताम्बरः ॥ ४.४९ ॥

त्वमभिधेहि विधुं सखि मद्गिरा किमिदमीदृगधिक्रियते त्वया ।
न गणितं यदि जन्म पयोनिधौ हरशिरः स्थितिभूरपि विस्मृता ॥ ४.५ ॥

निपततापि न मन्दरभूभृता त्वमुदधौ शशलाञ्छन चूर्णितः ।
अपि मुनेर्जठरार्चिषि जीर्णतां बत गतोऽसि न पीतपयोनिधेः ॥ ४.५१ ॥

किमसुभिर्ग्लपितैर्जड मन्यसे मयि निमज्जतु भीमसुतामनः ।
मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः स्मरः ॥ ४.५२ ॥

मुखरय स्वयशोनवडिण्डिमं जलनिधेः कुलमुज्ज्वलयाधुना ।
अपि गृहाण वधूवधपौरुषं हरिणलाञ्छन मुञ्च कदर्थनाम् ॥ ४.५३ ॥

निशि शशिन्भज कैतवभानुतामसति भास्वति तापय पाप माम् ।
महमहन्यवलोकयितास्मि ते पुनरहर्पतिनिह्नुतदर्पताम् ॥ ४.५४ ॥

शशकलङ्क भयंकर मादृशां ज्वलसि यन्निशि भूतपतिं श्रितः ।
तदमृतस्य तवेदृशभूतताद्भुतकरी परमूर्धविधूननी ॥ ४.५५ ॥

श्रवणपूरतमालदलाङ्कुरं शशिकुरङ्गमुखे सखि निक्षिप ।
किमपि तुन्दिलितः स्थगयत्यमुं सपदि तेन तदुच्छ्वसिमि क्षणम् ॥ ४.५६ ॥

असमये मतिरुन्मिषति ध्रुवं करगतैव गता यदियं कुहूः ।
पुनरुपैति निरुध्य निवास्यते सखि मुखं न विधोः पुनरीक्ष्यते ॥ ४.५७ ॥

अयि ममैष चकोरशिशुर्मुनेर्व्रजति सिन्धुपिबस्य न शिष्यताम् ।
अशितुमब्धिमधीतवतोऽस्य च शशिकराः पिबतः कति शीकराः ॥ ४.५८ ॥

कुरु करे गुरुमेकमयोघनं बहिरतो मुकुरं च कुरुष्व मे ।
विशति तत्र यदैव विधुस्तदा सखि सुखादहितं जहि तं द्रुतम् ॥ ४.५९ ॥

उदर एव धृतः किमुदन्वता न विषमो वडवानलवद्विधुः ।
विषवदुज्झितमप्यमुना न स स्मरहरः किममुं बुभुजे विभुः ॥ ४.६ ॥

असितमेकसुराशितमप्यभून्न पुनरेष विधुर्विशदं विषम् ।
अपि निपीय सुरैर्जनितक्षयं स्वयमुदेति पुनर्नवमार्णवम् ॥ ४.६१ ॥

विरहिवर्गवधव्यसनाकुलं कलय पापमशेषकलं विधुम् ।
सुरनिपीतसुधाकमपापकं ग्रहविदो विपरीतकथाः कथम् ॥ ४.६२ ॥

विरहिभिर्बहु मानमवापि यः स बहुलः खलु पक्ष इहाजनि ।
तदमितिः सकलैरपि यत्र तैर्व्यरचि सा च तिथिः किममीकृता ॥ ४.६३ ॥

स्वरिपुतीक्ष्णसुदर्शनविभ्रमात्किमु विधुं ग्रसते स विधुंतुदः ।
निपतितं वदने कथमन्यथा बलिकरम्भनिभं निजमुज्झति ॥ ४.६४ ॥

वदनगर्भगतं न निजेच्छया शशिनमुज्झति राहुरसंशयम् ।
अशित एव गलत्ययमत्ययं सखि विना गलनालबिलाध्वना ॥ ४.६५ ॥

ऋजुदृशः कथयन्ति पुराविदो मधुभिदं खलु राहुशिरश्छिदम् ।
विरहिमूर्धभिदं निगदन्ति न क्व न शशी यदि तज्जठरानलः ॥ ४.६६ ॥

स्मरसखौ रुचिभिः स्मरवैरिणा मखमृगस्य यथा दलितं शिरः ।
सपदि संदधतुर्भिषजौ दिवः सखि तथा तमसोऽपि करोतु कः ॥ ४.६७ ॥

नलविमस्तकितस्य रणे रिपुर्मिलति किं न कबन्धगलेन वा ।
मृतिभिया भृशमुत्पततस्तमोग्रहशिरस्तदसृग्दृढबन्धनम् ॥ ४.६८ ॥

सखि जरां परिपृच्छ तमः शिरः सममसौ दधतापि कबन्धताम् ।
मगधराजवपुर्दलयुग्मवत्किमिति न व्यतिसीव्यति केतुना ॥ ४.६९ ॥

वद विधुंतुदमालि मदीरितैस्त्यजसि किं द्विजराजधिया रिपुम् ।
किमु दिवं पुनरेति यदीदृशः पतित एष निषेव्य हि वारुणीम् ॥ ४.७ ॥

दहति कण्ठमयं खलु तेन किं गरुडवद्द्विजवासनयोज्झितः ।
प्रकृतिरस्य विधुंतुद दाहिका मयि निरागसि का वद विप्रता ॥ ४.७१ ॥

सकलया कलया किल दंष्ट्रया समवधाय यमाय विनिर्मितः ।
विरहिणीगणचर्वणसाधनं विधुरतो द्विजराज इति श्रुतिः ॥ ४.७२ ॥

स्मरमुखं हरनेत्रहुताशनाज्ज्वलदिदं चकृषे विधिना विधुः ।
बहुविधेन वियोगिवधैनसा शशमिषादथ कालिकयाङ्कितः ॥ ४.७३ ॥

द्विजपतिग्रसनाहितपातकप्रभवकुष्ठसितीकृतविग्रहः ।
विरहिणीवदनेन्दुजिघत्सया स्फुरति राहुरयं न निशाकरः ॥ ४.७४ ॥

इति विधोर्विविधोक्तिविगर्हणं व्यवहितस्य वृथेति विमृश्य सा ।
अतितरां दधती विरहज्वरं हृदयभाजमुपालभत स्मरम् ॥ ४.७५ ॥

हृदयमाश्रयसे यदि मामकं ज्वलयसीत्थमनङ्ग तदैव किम् ।
स्वयमपि क्षणदग्धनिजेन्धनः क्व भवितासि हताश हुताशवत् ॥ ४.७६ ॥

पुरभिदा गमितस्त्वमदृश्यतां त्रिनयनत्वपरिप्लुतिशङ्कया ।
स्मर निरैष्यत कस्यचनापि न त्वयि किमक्षिगते नयनैस्त्रिभिः ॥ ४.७७ ॥

सहचरोऽसि रते रिति विश्रुतिस्त्वयि वसत्यपि मे न रतिः कुतः ।
अथ न संप्रति संगतिरस्ति वामनुमृता न भवन्तमियं किल ॥ ४.७८ ॥

रतिवियुक्तमनात्मपरज्ञ किं स्वमिव मामपि तापितवानसि ।
कथमतापभृतस्तव संगमादितरथा हृदयं मम दह्यते ॥ ४.७९ ॥

अनुममार न मार कथं नु सा रतिरतिप्रथितापि पतिव्रता ।
इयदनाथवधूवधपातकी दयितयापि तयासि किमुज्झितः ॥ ४.८ ॥

सुगत एव विजित्य जितेन्द्रियस्त्वदुरुकीर्तितनुं यदनाशयत् ।
तव तनूमवशिष्टवतीं ततः समिति भूतमयीमहरद्धरः ॥ ४.८१ ॥

फलमलभ्यत यत्कुसुमैस्त्वया विषमनेत्रमनङ्ग विगृह्णता ।
अहह नीतिरवाप्तभया ततो न कुसुमैरपि विग्रहमिच्छति ॥ ४.८२ ॥

अपि धयन्नितरामरवत्सुधां त्रिनयनात्कथमापिथ तां दशाम् ।
भण रतेरधरस्य रसादरादमृतमाप्तघृणः खलु नापिबः ॥ ४.८३ ॥

भुवनमोहनजेन किमेनसा तव बभूव परेत पिशाचता ।
यदधुना विरहाधिमलीमसामभिभवन्भ्रमसि स्मर मद्विधाम् ॥ ४.८४ ॥

वत ददासि न मृत्युमपि स्मर स्खलति ते कृपया न धनुः करात् ।
अथ मृतोऽसि मृतेन च मुच्यते न खलु मुष्टिरुरीकृतबन्धनः ॥ ४.८५ ॥

दृगुपहत्यपमृत्युविरूपताः शमयतेऽपरनिर्जरसेविता ।
अतिशयान्ध्यवपुः क्षतिपाण्डुताः स्मर भवन्ति भवन्तमुपासितुः ॥ ४.८६ ॥

स्मर नृशंसतमस्त्वमतो विधिः सुमनसः कृतवान्भवदायुधम् ।
यदि धनुर्दृढमाशुगमायसं तव सृजेत्त्रिजगत्प्रलयं व्रजेत् ॥ ४.८७ ॥

स्मररिपोरिव रोपशिखी पुरां दहतु ते जगतामपि मा त्रयम् ।
इति विधिस्त्वदिषून्कुसुमानि किं मधुभिरन्तरसिञ्चदनिर्वृतः ॥ ४.८८ ॥

निधिरनंशमभेद्यमवेक्ष्य ते जनमनः खलु लक्षमकल्पयत् ।
अपि स वज्रमदास्यत चेत्तदा त्वदिषुभिर्व्यदलिष्यदसावपि ॥ ४.८९ ॥

अपि विधिः कुसुमानि तवाशुगान् स्मर विधाय न निर्वृतिमाप्तवान् ।
अदित पञ्च हि ते स नियम्य तांस्तदपि तैर्बत जर्जरितं जगत् ॥ ४.९ ॥

उपहरन्ति न कस्य सुपर्वणः सुनमसः कति पञ्च सुरद्रुमाः ।
तव तु हीनतया पृथगेकिकां धिगियतापि न तेऽङ्ग विगर्हणा ॥ ४.९१ ॥

कुसुममप्यतिदुर्णयकारि ते किमु वितीर्य धनुर्विधिरग्रहीत् ।
किमकृतैष तवैकतदास्पदे द्वयमभूदधुना हि नलभुवौ ॥ ४.९२ ॥

षड्टतवः कृपया स्वकमेककं कुसुममक्रमनन्दितनन्दनाः ।
ददति यद्भवते कुरुते भवान्धनुरिवैकमिषूनिव पञ्च तैः ॥ ४.९३ ॥

यदतनुस्त्वमिदं जगते हितं क्व स मुनिस्तव यः सहते हतीः ।
विशिखमाश्रवणं परिपूर्य चेदविचलद्भुजमुज्झितुमीशिषे ॥ ४.९४ ॥

सह तया स्मर भस्म झटित्यभूः पशुपतिं प्रति यामिषुमग्रहीः ।
ध्रुवमभूदधुना वितनोः शरस्तव पिकस्वर एव स पञ्चमः ॥ ४.९५ ॥

स्मर स मद्दुरितैरफलीकृतो भगवतोऽपि भवद्दहनश्रमः ।
सुरहिताय हुतात्मतनुः पुनर्ननु जनुर्दिवि तत्क्षणमापिथ ॥ ४.९६ ॥

विरहिणो विमुखस्य विधूदये शमनदिक्पवनः स न दक्षिणः ।
सुमनसो नमयन्नटनौ धनुस्तव तु बाहुरसौ यदि दक्षिणः ॥ ४.९७ ॥

किमु भवन्तमुमापतिरेककं मदमुदान्धमयोगिजनान्तकम् ।
यदजयत्तत एव न गीयते स भगवान्मदनान्धकमृत्युजित् ॥ ४.९८ ॥

त्वमिव कोऽपि परापकृतौ कृती न ददृशे न च मन्मथ शुश्रुवे ।
स्वमदहो दहनाज्ज्वलतात्मना ज्वलयितुं परिरभ्य जगन्ति यः ॥ ४.९९ ॥

त्वमुचितं नयनार्चिषि शंभुना भुवनशान्तिकहोमहविः कृतः ।
तव वयस्यमपास्य मधुं मधुं हतवता हरिणा बत किं कृतम् ॥ ४.१ ॥

इति कियद्वचसैव भृशं प्रियाधरपिपासु तदाननमाशु तत् ।
अजनि पांशुलमप्रियवाग्ज्वलन्मदनशोषणबाणहतेरिव ॥ ४.१०१ ॥

प्रियसखीनिवहेन सहाथ सा व्यरचयद्गिरमर्धसमस्यया ।
हृदयमर्मणि मन्मथसायकैः क्षततमा बहु भाषितुमक्षमा ॥ ४.१०२ ॥

अकरुणादव सूनशरादसून्सहजयापदि धीरतयात्मनः ।
असव एव ममाद्य विरोधिनः कथमरीन्सखि रक्षितुमात्थ माम् ॥ ४.१०३ ॥

हितगिरं न शृणोषि किमाश्रवे प्रसभमप्यव जीवितमात्मनः ।
सखि हिता यदि मे भवसीदृशी मदरिमिच्छसि या मम जीवितम् ॥ ४.१०४ ॥

अमृतदीधितिरेष विदर्भजे भजसि तापममुष्य किमंशुभिः ।
यदि भवन्ति मृताः सखि चन्द्रिकाः शशभृतः क्व तदा ॥ ४.१०५ ॥

परितप्यते व्रज धृतिं त्यज भीतिमहेतुकामयमचण्डमरीचिरुदञ्चति ।
ज्वलयति स्फुटमातपमुर्मुरैरनुभवं वचसा सखि लुम्पसि ॥ ४.१०६ ॥

अयि शपे हृदयाय अवैव तद्यदि विधोर्न रुचेरसि गोचरः ।
रुचिफलं सखि दृश्यत एव तज्ज्वलयति त्वचमुल्ललयत्यसून् ॥ ४.१०७ ॥

विधुविरोधितिथेरभिधायिनीं ननु न किं पुनरिच्छसि कोकिलाम् ।
सखि किमर्थगवेषणया गिरं किरति सेयमनर्थमयीं मयि ॥ ४.१०८ ॥

हृदय एव तवास्ति स वल्लभस्तदपि किं दमयन्ति विषीदसि ।
हृदि परं न बहिः खलु वर्तते सखि यतस्तत एव विषद्यते ॥ ४.१०९ ॥

स्फुटति हारमणौ मदनोष्मणा हृदयमप्यनलंकृतमद्य ते ।
सखि हतास्मि तदा यदि हृद्यपि प्रियतमः स मम व्यवधापितः ॥ ४.११ ॥

इदमुदीर्य तदैव मुमूर्च्छ सा मनसि मूर्च्छितमन्मथपावका ।
क्व सहतामवलम्बलवच्छिदामनुपपत्तिमतीमतिदुःखिता ॥ ४.१११ ॥

अधित कापि मुखे सलिलं सखी प्यधित कापि सरोजदलैः स्तनौ ।
व्यधित कापि हृदि व्यजनानिलं व्यधित कापि हिमं सुतनोस्तनौ ॥ ४.११२ ॥

उपचचार चिरं मृदुशीतलैर्जलजनालमृणालजलादिभिः ।
प्रियसखीनिवहः स तथा क्रमादियमवाप यथा लघु चेतनम् ॥ ४.११३ ॥

अथ कले कलय श्वसिति स्फुटं चलति पक्ष्म चले परिभावय ।
अधरकम्पनमुन्नय मेनके किमयि जल्पति कल्पलते शृणु ॥ ४.११४ ॥

रचय चारुमते स्तनयोर्वृतिं कलय केशिनि कैश्यमसंयतम् ।
अवगृहाण तरङ्गिणि नेत्रयोर्जलझराविति शुश्रुविरे गिरः ॥ ४.११५ ॥

कलकलः स तदालिजनाननादुदलसद्विपुलस्त्वरितेरितैः ।
यमधिगम्य सुतालयमीय्वान्धृतदरः स विदर्भपुरंदरः ॥ ४.११६ ॥

कन्यान्तः पुरबाधनाय यदधीकारान्न दोषा नृपं द्वौ मन्त्रिप्रवरश्च तुल्यमगदंकारश्च तावूचतुः ।
देवाकर्णय सुश्रुतेन चरकस्योक्तेन जानेऽखिलं स्यादस्या नलदं विना न दलने तापस्य कोऽपि क्षमः ॥ ४.११७ ॥

ताभ्यामभूद्युगपदप्यभिधीयमानं भेदव्यपाकृति मिथः प्रतिघातमेव ।
श्रोत्रे तु तस्य पवतुर्नृपतेर्न किंचिद्भैम्यामनिष्टशतशङ्कितयाकुलस्य ॥ ४.११८ ॥

द्रुतविगमितविप्रयोगचिह्नामपि तनयां नृपतिः पदप्रणम्राम् ।
अकलयदसमाशुगाधिमग्नां झटिति पराशयवेदिनो हि विज्ञाः ॥ ४.११९ ॥

व्यतरदथ पिताशिषं सुतायै नतशिरसे सहसोन्नमय्य मौलिम् ।
दयितमभिमतं स्वयंवरे त्वं गुणमयमाप्नुहि वासरैः कियद्भिः ॥ ४.१२ ॥

तदनु स तनुजासखीरवादीत्तुहिनऋतौ गत एव हीदृशीनाम् ।
कुसुममपि शरायते शरीरे तदुचितमाचरतोपचारमस्याः ॥ ४.१२१ ॥

कतिपयदिवसैर्वयस्यया वः स्वयमभिलष्य वरिष्यते वरीयान् ।
ऋशिमशमनयानया तदाप्तुं रुचिरुचिताथ भविद्विधाविधाभिः ॥ ४.१२२ ॥

एवं यद्वदता नृपेण तनया नापृच्छि लज्जास्पदं यन्मोहः स्मरभूरकल्पि वपुषः पाण्डुत्वतापादिभिः ।
यच्चाशीः कपटादवादि सदृशी स्यात्तत्र या सान्त्वना तन्मत्वालिजनो मनोब्धिमतनोदानन्दमन्दाक्षयोः ॥ ४.१२३ ॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुबे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तुर्यः स्थैर्यविचारणप्रकरणभ्रातर्ययं तन्महाकाव्येऽत्र व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वलः ॥ ४.१२४ ॥