नेमिदूतम्
नेमिदूतम् विक्रमः १९३२ |
श्रीविक्रमविरचितं
नेमिदूतम् ।
प्राणित्राणप्रवणहृदयो बन्धुवर्गं समग्रं
हित्वा भोगान्सह परिजनैरुग्रसेनात्मजां च ।
श्रीमान्नेमिर्विषयविमुखो मोक्षकामश्चकार
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥
सा तत्रोच्चैः शिखरिणि समासीनमेनं मुनीशं
नासान्यस्तानिमिषनयनं ध्याननिर्धूतदोषम् ।
योगासक्तं सजलजलदश्यामलं राजपुत्री
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥
उद्वीक्ष्यैनं शमसुखरतं मेदुराम्भोदनादै-
र्नृत्यत्केकिव्रजमथ नगं प्रोन्मिषन्नीपपुष्पम् ।
सा शोकार्ता क्षितितलमगात्स्यान्न दुःखं हि नार्याः
कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥
तां दुःखार्तां शिशिरसलिलासारसारैः समीरै-
राश्वास्यैवं स्फुटितकुटजामोदमत्तालिनादैः ।
साध्वीमद्रिः पतिमनुगतां तत्पदन्यासपूतः
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥
सिद्धेः सङ्गं समभिलषतः प्राणनाथस्य नेमेः
सा तन्वङ्गी विरहविधुरा तच्छिरोऽधिष्ठितस्य ।
तत्संमोहाद्द्रुतमनुनयं शैलराजं ययाचे
कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५ ॥
सा तं दूना मनसिजशरैर्यादवेशं बभाषे
रक्षेत्स्वामी शरणगमसौ भूपतीनां तु धर्मः ।
तन्मां स्वामिन्नव भवदधीनां समभ्यर्थये त्वां
याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६ ॥
तुङ्गं शृङ्गं परिहर गिरेरेहि यावः पुरी स्वां
रत्नश्रेणीरचितभवनद्योतिताशान्तरालाम् ।
शोभासाम्यं कलयति मनाङ् नालका नाथ यस्या
बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥ ७ ॥
आलोक्यैनं तरलतडिदाक्रान्तनीलाब्दमालं
प्रावृट्कालं विततविकसद्यूथिकाजातिजालम् ।
अन्तर्जाग्रद्विरदहनो जीवितालम्बनेऽलं
न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥ ८॥
अस्मादद्रेः प्रसरति मरुत्प्रेरितः प्रौढनादै-
र्भिन्दानोऽयं विरहिजनताकर्णजाहं पयोदः ।
यं पश्यैताः पथिकवनिताम्भोजचन्द्रातपाभाः
सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥९॥
वीक्ष्याकाशं नवजलधरश्याममुद्दामकामा-
विर्भावेन व्यथितवपुषो योषितो विह्वलायाः ।
काले कोऽस्मिन्वद यदुपते जीवितेशादृतेऽन्यः
सद्यःपाति प्रणयिहृदयं विप्रयोगे रुणद्धि ॥ १० ॥
शैलप्रस्थे जलदतमसा छादिताशाम्बरेण
स्निग्धश्यामाञ्जनचयरुचासादिताभिन्नभावाः ।
यामिन्योऽमूर्विहितवसतेर्वासराश्चाजनेऽस्मि-
न्संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११ ॥
तन्मत्वैवं व्रज निजपुरीं द्वारकां सत्सहायै-
र्गोविन्दाद्यैः सममनुभवासाद्य राज्यं सुखानि ।
कामं तेषां यदुवर पुनःसंगमे भाविनी ते
स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥ १२ ॥
वन्याहारा धृतमुनिजनाचारसाराः सदारा
यां नाथान्ते वयसि सुधियः क्षत्रियाः संश्रयन्ति ।
किं तारुण्ये गिरिवरभुवं सेवसे तां तपोभिः
क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ॥ १३ ॥
कात्र प्रीतिस्तव नगवरे चारु तद्द्वारकाया-
स्त्यक्त्वोद्यानं युवयदुमनोन्मादि यत्रासुरारिः ।
निर्जित्येन्द्रं ससुरमनयत्पारिजातं द्युलोका-
द्दिङ्नागानां पथि परिहरन्स्थूलहस्तावलेपान् ॥ १४ ॥
यत्प्रागासीदनलविलसद्भूषणाभाभिरामं
भात्यारोहन्नवघनजलोद्भिन्नवल्लीचयेन ।
तत्ते नीलोपलतटविभाभिन्नभासाधुनाङ्गं
बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १५ ॥
रम्या हर्म्यैः क्व तव नगरी दुर्गशृङ्गः क्व चाद्रिः
क्वैतत्क्राम्यं तव मृदु वपुः क्व व्रतं दुःखचर्यम् ।
चित्तग्राह्यं हितमिति वचो मन्यसे चेन्ममालं
किंचित्पश्चाद्व्रज लघुगतिर्भूय एवोत्तरेण ॥ १६ ॥
कुर्वन्पान्थांस्त्वरितहृदयान्संगमायाङ्गनाना-
मेनं पश्याधिगतसमयः खं वयस्यं मयूरम् ।
जीमूतोऽयं मदयति विभो कोऽथवान्योऽपि काले
प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ १७ ॥
पूर्वं येन त्वमसि वयसा भूषितोऽङ्गे समग्रे
तैस्तैः क्रीडारससुखसखैर्भव्यभोगैरिदानीम् ।
तत्तारुण्यं सफलय पुरीं द्वारकामेत्य शीघ्रं
सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु ॥ १८ ॥
किं शैलेऽस्मिंस्तव निवसतो न व्यथा कापि चित्ते
संत्यज्य स्वां पुरमनुपमां द्योतते नाथ यस्याः ।
त्वत्सौधेनासितमणिमयाग्रेण हैमोग्रवप्रो
मेघश्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ १९ ॥
यामालोक्य स्वगृहगमनायोत्सुकाः स्युस्त्वदन्ये
पश्याकाशे जलदपटलेऽस्मिन्बलाकावलीं ताम् ।
अन्तर्विद्युत्स्फुरितरुचिरे सुप्रकाशेन्द्रचापे
भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ २० ॥
युक्तं लक्ष्म्या मुदितमनसो यादवेशाः सभाया-
मासीनं यं निजपुरि चिरं त्वामसेवन्त पूर्वम् ।
संप्रत्येकः श्रयसि स नगं नाथ किं वेत्सि नैवं
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ २१ ॥
मुक्तातङ्कास्तव यदुविभो जिह्वयाङ्गं लिहन्तः
संक्रीडन्ते शिशव इव येऽङ्के समाधिस्थितस्य ।
संप्रत्येते पुरमभियतो विप्रयोगेण नेत्रैः
सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ २२ ॥
एतत्तुङ्गं त्यज शिखरिणः शृङ्गमङ्गीकुरुष्व
प्राज्यं राज्यं प्रणयमखिलं पालयन्बन्धुवर्गे ।
रम्ये हर्म्ये चिरमनुभव प्राप्य भोगानखण्डा-
न्सोत्कण्ठानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥ २३ ॥
धूतोन्निद्रार्जुनपरिमलोद्गारिणः पान्थसार्था-
न्ये कुर्वीरञ्जलदमरुतो वेश्मसंदर्शनोत्कान् ।
तैः संस्पृष्टो विरहिहृदयोन्माथिभिः स्वां पुरीं नु
प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥ २४ ॥
नोत्साहस्ते स्वपुरगमने चेद्वियुक्ता त्वयाहं
वृद्धावेतौ तव च पितरौ तज्जनास्ते त्रयोऽमी ।
म्लानास्याब्जाः कलुषतनवो ग्रीष्मतोयाशयाभाः
संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २५ ॥
तन्नः प्राणानव तव मते जीवरक्षैव धर्मो
वासार्थं वः सुरविरचितां तां पुरीमेहि यस्याः ।
वप्रप्रान्ते स्फुरति जलधेर्हारि वेलारमण्याः
सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्मि ॥ २६ ॥
अस्मादद्रेः प्रतिपथमधःसंचरन्दानवारेः
क्रीडाशैलं विमलमणिभिर्भासुरं द्रक्ष्यसि त्वम् ।
अन्तः कान्तारतरसगलद्भूषणैर्यो यदूना-
मुद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥ २७ ॥
तस्योद्याने वरतरुचिते त्वं मुहूर्तं श्रमार्त-
स्तिष्ठेस्तुष्टो विविधतदुपानीतपुष्पोपहारैः ।
पुष्णन्नन्तश्वर परिमलोद्गारसारस्मितानां
छायादानक्षणपरिचितः पुष्पलावीमुखानाम् ॥ २८ ॥
दृष्ट्वा रूपं तव निरुपमं तत्र पीनस्तनीनां
तासामन्तर्मनसिजरसोल्लासलीलालसानाम् ।
कर्णाम्भोजोपगतमधुकृत्संभ्रमोद्यद्विलासै-
र्लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥ २९ ॥
तस्मिन्नुद्यन्मनसिजरसाः प्रांशुशाखावनाम-
व्याजादाविष्कृतकुचवलीनाभिकाञ्चीकलापाः ।
संघास्यन्ते त्वयि मृगदृशस्तान्विचित्रान्विलासा-
न्स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ ३० ॥
त्वां याचेऽहं न नयविदुषां क्वापि कार्ये विलम्बो
गन्तव्या ते सपदि नगरी स्वा यतः सा त्वदम्बा ।
मुक्ताहारा सजलनयना त्वद्वियोगार्तिदीना
कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ ३१ ॥
तस्याधस्ताद्विषमपुलिनां स्वर्णरेखामतीतो
मार्गे दृष्ट्वा पुरमनुपमां तां भवान्वामनस्य ।
भुक्त्वा लोकोपचयमवनिं नाकिनामागतानां
शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम् ॥ ३२ ॥
यस्यां सान्द्रोऽनुपमचलितो वैश्मसु स्वेच्छयैवं
मुष्णन्नङ्गात्सुरतललितादुज्जयन्तीं विगाह्य ।
खेदं तीरे विदलितपुटः सेवते वारनारीं
सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ३३ ॥
अत्र स्तम्भान्मरकतमयान्देहलीं विद्रुमाणां
प्रासादाग्रं विविधमणिभिर्निर्मितं वासवेन ।
भूमिं मुक्ताप्रकररचितां हास्तिकं चापि दृष्ट्वा
संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥ ३४ ॥
अत्रात्युग्रैः किल मुनिवरो वामनः प्राक्तपोभि-
र्लब्ध्वा सिद्धिं निखिलभुवनव्यापिना विग्रहेण ।
ईशं वामं भुजगसदने प्रापयद्दानवाना-
मित्यागन्तून् रमयति जनो यत्र बन्धूनभिज्ञः ॥ ३५ ॥
तामासाद्य प्रवरनगरीं विश्रुतां संनिवासं
कुर्याः पौरैर्नृवर विहितानेकपूजोपचारः ।
आस्तीर्णान्तर्विमलशयनेष्वग्रसौधेषु कामं
नीत्वा खेदं ललितवनितापादरागाङ्कितेषु ॥ ३६ ॥
उद्यानानामुपतटभुवामुज्जयन्त्याः समन्ता-
दाधुन्वद्भिर्विपुलविकसन्मालतीजालकानि ।
अङ्गान्मार्गश्रमजलकणान्सेव्यसेऽस्यां हरद्भि-
स्तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥ ३७ ॥
तत्रोपास्यः प्रथितमहिमा नाथ देवस्त्वयाद्यः
प्रासादस्थः क्षणमनुपमं यं निरीक्ष्य त्वमक्ष्णोः ।
शृण्वन्प्रेक्षामुरजनिनदान्वारिवाहस्य तुल्या-
नामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥ ३८ ॥
त्वद्रूपेणापहृतमलसो विस्मयात्पौरनार्यः
सौन्दर्याधःकृतमनसिजे राजमार्गं प्रयाति ।
प्रातस्तस्यां कुवलयदलश्यामलाङ्गे सलील-
मामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥ ३९ ॥
तस्याः पश्यन्वरगृहततिं तां व्रजेर्द्यां स्पृशन्ती-
मैक्यं प्राप्यासितरजनिषु प्रस्फुरद्रत्नदीपाः ।
विद्योतन्ते निहततिमिरव्योममार्गश्च लोके
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ ४० ॥
पौरैस्तस्यां रथमुपहृतं रम्यमास्थाय यान्तं
द्रष्टुं ग्राम्याः पथि युवतयस्त्वामुपैष्यन्ति तस्मात् ।
शब्दैस्तत्र स्खलदुपलजैरर्थिसार्थीकृतश्री-
स्तोयोत्सर्गस्तनितमुखरो मा च भूर्विक्लवास्ताः ॥ ४१ ॥
त्वामायान्तं पथि यदुवराः केशवाद्या निशम्य
प्रीता बन्धूंस्तव पितृमुखान्सौहृदान्नन्दयन्तः ।
साकं सैन्यै रथमभिमुखं प्रेषयिष्यन्ति तूर्णं
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ १२ ॥
श्रुत्वा तीरे तदनुजलधेरागलं सोपहारो
मान्यो मन्त्री यदि बलपुरात्सीरिणस्त्वामुपेतः ।
तस्यादेया स्वशयविहिता सत्क्रिया तेन वेत्सि
प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥ ४३ ॥
गच्छेर्वेलातटमनु ततस्तोयमुल्लासिमत्स्यं
स्वच्छं काचच्छवि जलनिधेस्तस्य पश्यन्रथस्थः ।
यः कामीव क्षणमपि सरित्कामिनीनां न शक्तो
मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ १४ ॥
तां वेलाङ्के विमलसलिलामागतां द्रक्ष्यसि त्वं
पूर्वोद्दिष्टां सरितमसकृद्वारिभिर्वीचिहस्तैः ।
यामालिङ्ग्योपरमति पिबन्यन्मुखं न क्षणार्धं
ज्ञातास्वादो विपुलजघनां को विहातुं समर्थः ॥ ४५ ॥
तस्मिन्नुच्चैर्दलितलहरीसीकरासारहारी
वारां राशेस्तटजविकसत्केतकामोदरम्यः ।
खेदं मार्गक्रमणजनितं ते हरिष्यत्यजस्रं
शीतो वायः परिणमयिता काननोदुम्बराणाम् ॥ ४६ ॥
नाम्ना रत्नाकरमथ पुरस्ताद्व्रजे वीक्षमाणो
जज्ञे यस्माद्भुवनभयकृत्तत्पुरा कालकूटम् ।
यत्रासाध्यं निवसति जगद्दाहदक्षं जलाना-
मत्यादित्यं हुतवमुखे संभृतं तद्धि तेजः ॥ ४७ ॥
त्वामायान्तं तटवनचरा मेघनीलं मयूरा
दृष्ट्वा दूरान्मधुरविरुतैस्तत्र ये संस्तुवन्ति ।
त्वं तान्दिव्यध्वनिभिरुदधेः सान्द्रितैः संनिकृष्टः
पश्चादद्रिग्रहणगुरुभिर्गजितैर्नर्तयेथाः ॥ १८ ॥
उत्कल्लोला विपुलपुलिनाग्रेऽथ भद्राभिधाना
सा ते सिन्धुर्नयनविषयं यास्यति प्रस्थितस्य ।
वातोद्धूतैर्हसति सलिलैर्या शशाङ्कांशुगौरैः
स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ ४९ ॥
उच्चैर्भिन्नं जवितमुदधौ हारि नीरं रथस्थे
तस्यास्त्वय्युत्तरति सरितो यादवेन्द्र प्रवाहम् ।
वीक्षिष्यन्ते क्षणमनिमिषो व्योमभाजोऽतिदूरा-
देकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ५० ॥
तामुत्तीर्णः पुनरधिवसेरीशपौराभिधानं
नानादेशागतजनचयैः पूर्णरम्यापणं तत् ।
यस्याकाशं स्पृशति निवहो वेश्मनामूर्ध्वभागा-
त्पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥ ५१ ॥
तस्माद्वर्त्मानघ तव कियद्गच्छतो भाति दुर्गं
पङ्काकीर्णं नवतृणचितं तत्र तोयाशयानाम् ।
कुर्वन्नब्दः किल कलुषतां मार्गणैः प्रागरीणां
धारापातैस्त्वमिव कमलान्यभ्यषिञ्चन्मुखानि ॥ ५२ ॥
नानारत्नोपचितशिखरश्रेणिरम्यः पुरस्ते
यास्यत्यक्ष्णोर्विषयमचलो मादनो गन्धपूर्वः ।
यं सोत्कण्ठो नवमिव पुनर्वीक्षितुं कान्त हर्षा-
दन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ ५३ ॥
यस्मिन्पूर्वं किल विरचितां वामभागे भवानीं
देवीं वीक्ष्य त्रिपुरजयिनः स्वेच्छया केलिभाजम् ।
जह्नोः पुत्री तदनु दधतोऽङ्केऽभ्युपेर्ष्यं सपत्नी
शंभोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ ५४ ॥
आरूढस्य स्फटिकमणिभूश्वेतसानुप्रतापे
यस्मिञ्छैले विमलविलसत्कान्तितोयप्रवाहा ।
संक्रामन्त्या तव घनरुचा छायया स्वर्धुनीव
स्यादस्थानोपगतयमुनासंगमेवाभिरम्या ॥ ५५ ॥
भास्वद्भावन्मणिमयबृहत्तुङ्गशृङ्गाग्रसंस्थाः
संप्रत्युद्यत्परिणतफलश्यामला वामभागे ।
यस्मिञ्जम्बुक्षितिरुहचया धारयिष्यन्ति सान्द्राः
शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥ ५६ ॥
श्रुत्वायान्तं द्रुतमुपगतास्तत्र बन्दिव्रजा ये
त्वां यावन्तः प्रथितयशसं येऽर्थिनो दौःस्थ्यदीनाः ।
तान्कुर्वीथाः समभिलषितार्थप्रदानैः कृतार्था-
नापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥ ५७ ॥
आकर्ण्याद्रिप्रतिरवगुरुं वानरास्त्वत्सकाशे
क्रोधाताम्रास्ततमुखरवं तत्र येऽभिद्रवन्ति ।
तान्योघानां विमुखय पुनर्दारुणैर्ज्यानिनादैः
के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ ५८ ॥
तस्मिन्नद्रौ निवसति विभुः स स्वयंभूर्भवो वा
देवः सेवापरसुरगणैर्वन्द्यपादारविन्दः ।
यद्ध्यानेनापहृतदुरिता मानवाः पुण्यभाजः
संकल्पन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ ५९ ॥
नीपामोदोन्मदमधुकरं गुञ्जनं गीतरम्यं
केका वेणुक्वणितमधुरा बर्हिणां चारु नृत्यम् ।
श्रोत्रानन्दी मुरजनिनदस्त्वत्प्रयाणे यदि स्या-
त्संगीतार्थो ननु पशुपतेस्तत्र भावी समग्रः ॥ ६० ॥
तस्माद्गच्छन्नथ पथि भवान्वीक्षिता वेणुनाख्यं
शैलं नीलोपलपरिचयाशेषसानूच्छ्रयं तम् ।
व्याप्याकाशं नवजलभृतां संनिभो यो विभाति
श्यामः पादो बलिनियमनायोद्यतस्येव विष्णो ॥ ६१ ॥
तांस्तान् ग्रामानपि शुचिगिरिं दक्षिणेन व्यतीत्य
द्रष्टास्यग्रे सितमणिमयं सौधसंघं स्वपुर्याः ।
क्रान्त्वा वप्रं वियति विशदैः शोभते योंऽशुजालै
राशीभूतः प्रतिदिशमिव त्र्यम्बकस्याट्टहासः ॥ ६२ ॥
प्रत्यासत्तिं विशदशिखरोत्सङ्गभागे पयोदे
नीलस्निग्धे क्षणमुपगते पुण्डरीकप्रभस्य ।
शोभा काचिद्विलसति मनोहारिणी यस्य संप्र-
त्यंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ६३ ॥
प्राप्योद्यानं पुरपरिसरे केलिशैले यदूनां
विश्रामार्थं क्षणमभिरतिं गोमतीवारि पश्यन् ।
उत्सर्पद्भिर्दधदिव दिवो वर्त्मनो बाजिसंघैः
सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥ ६४ ॥
तत्रासीनो मुररिपुयशो निश्चलः किंनरीभिः
शृण्वंस्तिष्ठञ्च्छ्रुतिसुखकरं गीयमानं मुहूर्तम् ।
शब्दैरश्वस्खलितरवजैर्मेदुरैरम्बुराशेः
क्रीडालोलाः श्रवणपरुषैर्गजितैर्भीषयेस्ताः ॥ ६५ ॥
सान्द्रोन्निद्रार्जुनसुरभितं प्रोन्मिषत्केतकीकं
हृद्यं जातिप्रसवरजसास्वादमत्तालिनादैः ।
नृत्यत्केकामुखरशिखिनं भूषितोपान्तभूमिं
नानाचेष्टैर्जलदललितैर्निर्विशेस्तं नगेन्द्रम् ॥ ६६ ॥
तस्या हर्षादवकृतमहास्ते प्रवेशाय पुर्या
निर्यास्यन्ति प्रवरयदवः संमुखाः शौरिमुख्याः ।
या कालेऽस्मिन्भवनशिखरैः प्रक्षरद्वारि धत्ते
मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ ६७ ॥
शश्वत्सान्द्रस्वतनुमहसं प्रोल्लसद्रत्नदीपा
मानप्रांशुं शिखरनिवहैर्व्योममार्गं स्पृशन्तः ।
गौरं ज्योत्स्नाविमलयशसा शुभ्रवर्णाः सुधाभिः
प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ ६८ ॥
यामुद्दामाखिलसुररिपून्माथिनो दानवारेः
साहाय्याय प्रथितमहसोऽध्यासते योधवर्याः ।
नानादैत्यप्रहरणभवैः संगरेषु स्वकीर्त्या
प्रत्यादिष्टाभरणरुचयश्चन्द्रहासव्रणाङ्कैः ॥ ६९ ॥
व्याधिर्देहान्स्पृशति न भयाद्रक्षितुः शार्ङ्गपाणे-
र्मत्योर्वार्ता श्रवणपथगा कुत्र यद्वासमाजाम् ।
कामक्रीडारससुखजुषां यच्छतामर्थिकामा-
न्वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥ ७० ॥
कर्णे जातिप्रसवममलं केतकं केशपाशे
कस्तूरीभिः कृतविरचना गण्डयोः पत्रवली ।
कण्ठे माला ग्रथितकुटजा मण्डनं भावि काम्यं
सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ ७१ ॥
यस्यां रम्यं युवजनमनोहारि वाराङ्गनानां
लास्यं तालानुगतकरणं भास्वति त्वत्प्रवेशे ।
वाञ्छन्तीनां तदवगमनादङ्गभाजां प्रसादं
त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥ ७२ ॥
संसक्तानां नवरतरसे कामिभिः कुण्ठ्यमानाः
पृष्ठेऽष्वन्तः कृतविरचनाधर्मवार्यङ्गनानाम् ।
यस्यां ग्रीष्मे शिशिरकिरणस्यांशुभिर्यामिनीषु
व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ ७३ ॥
गत्वा पूर्वं रजनिसमये धूप्यमानेषु लीला-
वेश्मस्वन्तर्युवतिनिहितै रत्नदीपैर्निरस्ताः ।
जालैर्यत्रान्धतमसचयाः साध्यसेनेव भूयो
धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ ७४ ॥
रात्रौ यस्यामुपसखि भृशं गात्रसंकोचभाजां
रागेणान्धैः शयनभवनेषूल्लसद्दीपवत्सु ।
प्रेम्णा कान्तैरभिकुचयुगं हृद्यगन्धिर्वधूनां
ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ ७५ ॥
गायन्तीभिस्त्वदमलयशो वारसीमन्तिनीभिः
साकं माद्यन्मधुरमुरजं तारसारान्यपुष्टम् ।
यस्यां रम्यं सुरभिसमये सोत्सवाः सीरिमुख्या
बद्धापानं बहिरुपवनं कामिनो निर्विशन्ति ॥ ७६ ॥
उद्यत्कामालसयुवतिभिः सेव्यमानैः सरोज-
स्कन्धान्यस्यां सुमधुररसानक्षयानापिबद्भिः ।
निर्गम्यन्ते शरदि यदुभिः सद्मपृष्ठे स्वकीर्त्या
नित्यज्योत्स्नाः प्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥ ७७ ॥
कान्तोत्तंसास्तुहिनसमये कुङ्कुमालिप्तदेहाः
सान्द्रच्छाये शुचिनि तरुभिर्गोमतीरम्यतीरे ।
रूपोल्लासाद्विजितरतयः कुन्दकाले सलीलं
संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥ ७८ ॥
यस्यां पुष्पोपचयममलं भूषणं साधुहृद्यं
गन्धद्रव्यं व्यजननिवहं सूक्ष्ममिच्छानुकूलम् ।
न्यस्तः प्रीत्या त्रिदशपतिना वासुदेवस्य सद्म-
न्येकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥ ७९ ॥
एणाङ्काश्मावनिषु शिशिरैः कुङ्कुमार्द्रैः पदाङ्कैः
शीतोत्कम्पाद्गतिविगलितैर्बालकैः केशपाशात् ।
भ्रष्टैः पीनस्तनपरिलसद्रम्यमाल्यैश्च यस्यां
नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ ८० ॥
बाणस्याजौ हरविजयिनो वासुदेवस्य यस्यां
प्राप्यासत्तिं चरति गतभीः पुष्पचापो निरस्तः ।
यस्माद्द्वेधाकृतयुवमनोमोहमात्मप्रकर्षै-
स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥ ८१ ॥
यायास्तस्माद्रथपरिवृतस्त्वं प्रवेशाय यस्यां
तत्प्राचीनं पुरि हरिमुखैर्गोपुरं यादवेन्द्रैः ।
यत्राशोकः कलयति नवस्तोरणाभां तथान्यो
हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥ ८२ ॥
उद्यद्वालव्यजनमनिलोल्लासिकाशप्रसूनाः
श्वेतच्छत्त्रं विकसितसिताम्भोजभाजो विलोक्य ।
तत्यां पौरा विशदयशसं न श्रियः शारदीना
नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥ ८३ ॥
पुष्पाकीर्णं पुरि सह तदा यस्त्वया राजमार्गं
यास्यत्युद्यद्ध्वनिजवसनं चन्दनाम्भश्छटाङ्कम् ।
शौरिं पीताम्बरधरमनुक्ष्माधरं मेघमेनं
प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ ८४ ॥
यातं तस्याः पुरि पुरि बलादुत्सवैः कामिनोत्कं
हर्षोत्कर्षं नरपतिपथेनैष्यतस्तौ ययोस्तु ।
स्त्रीणामेको रमयति शतान्यङ्गनां पाययित्वा
काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्म्मनास्याः ॥ ८५ ॥
सौधश्रेणीर्विततविलसत्तोरणास्ता व्यतीत्य
स्वावासं तं मणिचयरुचा भासुरं प्राप्स्यसि त्वम् ।
यस्मिन्कस्मै न भवति मुदे साग्रभूमिर्घनानां
यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥ ८६ ॥
नत्वा पूर्वं पितृमुखगुरूंस्तान्विसृज्याथ बन्धू-
न्सौधं मञ्चद्वयमपि ततोऽलं कुरुष्वार्द्रचित्तः ।
यन्निःश्रीकं हरति न मनस्त्वां विना यादवेन्दो
सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ ८७ ॥
इत्युक्तेऽस्या वदसि विमुखं मुक्तिकान्तानुरक्तं
दृष्ट्वा नेमिं किल जलधरः संनिधौ भूधरस्थः ।
तत्कारुण्यादिव जलधरश्रेणिमुक्ताश्रु धत्ते
खद्योतालीविलसितनिभां विद्यदुन्मेषदृष्टिम् ॥ ८८ ॥
तत्सख्यूचे तमभिवचनं वाञ्छितं साधयास्या
बालामेनां नय निजगृहं शैलशृङ्गं विहाय ।
त्वत्संयोगान्ननु धृतिसमेतानवद्याङ्गयष्टि-
र्या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः ॥ ८९ ॥
अस्वीकारात्सुभग भवतः क्लिष्टशोभां कियद्भि-
र्मृद्वीमन्तर्विरहशिखिना वासरैर्दह्यमानाम् ।
एनां शुष्यद्वदनकमलां दूरविध्वस्तपत्रां
जातां मन्ये तुहिनमथितां पद्मिनीं वान्यरूपाम् ॥ ९० ॥
आकाङ्क्षन्त्या मृदुकरपरिष्वङ्गसौख्यानि सख्याः
पश्यामुष्या मुखमनुदिनं म्लानमस्मेरमश्रि ।
उद्यत्तापात्कुमुदमिव ते कैरविण्या वियोगा-
दिन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति ॥ ९१ ॥
शय्योत्सङ्गे निशि पितृगृहे प्राप्य निद्रां पुरासौ
त्वं क्व स्वामिन्व्रजसि सहसेति ब्रुवाणा प्रबुद्धा ।
ऊचेऽस्माभिर्न खलु नयनेनापि यो वीक्षिताङ्गः
कच्चिद्भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ ९२ ॥
एतद्दुःखापनयरसिके प्राक्सखीनां समाजे
गायत्यासां किमपि मधुरं गीतमादाय वीणाम् ।
तद्ध्यानेनापहृतहृदया गातुकामा ललज्जे
भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥ ९३ ॥
त्वत्प्राप्त्यर्थं विरचितवती तत्र सौभाग्यदेव्याः
पूजामेषा सुरभिकुसुमैरेकचित्ता मुहूर्तम् ।
देवज्ञान्वानयति निपुणान्स्म क्षणं भाषयन्ती
प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥ ९४ ॥
याते पाणिग्रहणसमयेऽद्रिं विहाय त्वयीमां
त्यक्त्वा माल्यं सपदि रचिता यानया विप्रयोगे।
तामेवैषा वहति शिरसा खे निधाय प्रदेशे
गण्डाभोगात्कठिनविषमामेकवेणीं करेण ॥ ९५ ॥
गीताद्यैर्वा श्रुतमुखकरैः प्रस्तुतैर्वा विनोदैः
पौराणीभिः कृतनुतिमिमां त्वद्वियोगात्कथाभिः ।
तुष्टिं नेतुं रजनिषु पुनर्नालिवर्गः क्षमोऽभू-
त्तामुन्निद्रामवनिशयनां सौधवातायनस्थः ॥ ९६ ॥
या प्रागस्याः क्षणमिव नवर्गीतवार्ताविनोदै-
रासीच्छय्यातलविगलितैर्गल्लभागैर्विलङ्घ्य ।
रात्रिं संवत्सरशतसमां वीक्षते सन्नगात्री
तामेवोष्णैर्विरहजनितैरश्रुभिर्यापयन्ती ॥ ९७ ॥
पश्यन्ती त्वन्मयमिव जगन्मोहनावासमग्नं
ध्यायन्ती त्वां मनसि निहितं तत्क्षणं तद्विरामे ।
मूर्तिं भित्तायपि च लिखितामीक्षितुं ते पुरस्ता-
दाकाङ्क्षन्ती नयनसलिलोत्पीडरुद्धावकाशम् ॥ ९८ ॥
अन्तर्भिन्ना मनसिजशरैर्मीलिताक्षी मुहूर्तं
लब्ध्वा संज्ञां दिशि दिशि मुहुर्वीक्ष्यमाणार्तिदीना ।
शय्योत्सङ्गे नवकिसलयाग्रेऽपि भद्रं न लेभे
साभ्रेऽह्नीव स्थलकमलिनी न प्रबुद्धा न सुप्ता ॥ ९९ ॥
वृत्तान्तेऽस्मिंस्तदनु कथिते मातुरस्यास्तयैत-
द्वृत्तं ज्ञातं निशि सह मया प्रेषितः सौविदल्लः ।
सख्याः पश्यन्नयमपि दशां तां तदावेक्ष्य जातं
प्रत्यक्षं ते निखिलमचिराद्भ्रातरुक्तं मया यत् ॥ १०० ॥
प्रेक्ष्यैतस्मिन्नपि मृगदृशस्तामवस्थामसह्या-
मस्याः प्रातः कथयति पुरा विस्तरात्सैतदम्बा ।
श्रुत्वा दुःखं दुहितुरसृजद्बाष्पमच्छिन्नधारं
प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥ १०१ ॥
आहूयैनामवददथ सा निर्दयो योऽत्यजत्त्वा-
मित्थं भद्रे कथय किमियद्धार्यते तन्न दुःखम् ।
त्यक्त्वा लोलं नयनयुगलं तेऽरुणत्वं रुदत्या
मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ १०२॥
अन्तस्तापान्मृदुंभुजयुगं ते मृणालस्य दैन्यं
म्लानिं चैतन्मिहिरकिरणक्लिष्टशोभस्य धत्ते ।
प्लुष्टः श्वासैर्विरह शिखिना स द्वितीयस्तवायं
यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥ १०३ ॥
वत्से शोकं त्यज सृज पुनः स्वच्छतां मृष्टवाणीं
यच्छस्वैवं प्रयतमनसानुग्रहं मे कुरुष्व ।
भर्तुर्भूयो न भवति रहः संगतायास्तथा ते
सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ १०४ ॥
आरोप्याङ्के मधुरवचसाश्वासितेत्थं जनन्या
तत्याजाधि क्षणमपि न या त्वद्वियोगात्कृशाङ्गी ।
संप्रत्येषा विसृजति तनुं कोमलाङ्गी यथा नो
वक्तुं धीरस्तनितवचनैर्मानिनी प्रक्रमेथाः ॥ १०५ ॥
मातुः शिक्षाशतमलमवज्ञाय दुःखं सखीना-
मन्तश्चित्तेष्वजनयदियं पाणिपङ्केरुहाणि ।
हस्ताभ्यां प्राक्सपदि रुदती रुन्धती
कोमलाभ्यां मन्द्रस्निग्धैर्ध्वनिभिरबला वेणिमोक्षोत्सुकानि ॥ १०६ ॥
वृद्धः साध्व्या सुभग तव यः प्रेषितोऽभूत्प्रवृत्तिं
ज्ञातुं तस्मात्कुशलिनमियं रैवताद्रौ द्विजातिः ।
त्वामाकोच्छुसितहृदयासीत्क्षणं सुन्दरीणां
कान्तोदन्तः सुहृदुपगतः संगमासीत्किंचिदूनः ।। १०७॥
इत्थं कृच्छ्राद्विधुरवपुषो वासरान्वर्षतुल्या-
नस्याः सख्या जनकसदने त्वद्वियोगान्नयन्त्याः ।
त्वामाकोच्छुसितहृदयासीत्क्षणं सुन्दरीणां
कान्तोदन्तः सुहृदुपगतः संगमास्ििचदूनः ।। १०७॥
इत्थं कृच्छ्राद्विधुरवपुषो वासरान्वर्षतुल्या-
नस्याः सख्या जनकसदने त्वद्वियोगान्नयन्त्याः ।
अन्तश्चित्ते त्वयि सुखलवः स प्रपेदे प्रवेशं
संकल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥ १०८ ॥
प्राप्यानुज्ञामथ पितुरियं त्वां सहासाभिरस्मि-
न्संप्रत्यद्रौ शरणमबला प्राणनाथं प्रपन्ना ।
अर्हस्येनां विषमविशिखादक्षितुं त्वं हि कृच्छा-
त्पूर्वाभाष्यं सुलभविपदा प्राणिनामेतदेव ॥ १०९ ॥
धर्मज्ञस्त्वं यदि सहचरीमेकचित्तां च रक्तां
किं मामेवं विरह शिखिनोपेक्ष्यसे दह्यमानाम् ।
तत्वीकारात्कुरु मयि कृपां यादवाधीश बाला
त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥ ११० ॥
दुर्लङ्घयत्वं शिखरिणि पयोधौ च गाम्भीर्यमुर्व्यां
स्थैर्य तेजः शिखिनि मदने रूपसौन्दर्यलक्ष्मीम् ।
बुद्धिं क्षान्तिं नृवर कलया गीतवृन्दं गुणानां
हन्तैकस्थं क्वचिदपि न ते चण्डि सादृश्यमस्ति ॥ १११ ॥
एतानीत्थं विधुरमनसा स्वीकृतायास्त्वया मे
दुःखार्तायाः क्षितिभृति दिनानीश कल्पोपमानि ।
आसन्नस्सिन्मदनदहनोद्दीपकानि प्रकाशं
दिक्संसक्तप्रविरलघनव्यस्तसूर्यातपानि ॥ ११२ ॥
रात्रौ निन्द्रां कथमपि चिरात्प्राप्य यावद्भवन्तं
लब्धं खप्ने प्रणयवचनैः किंचिदिच्छामि वक्तुम् ।
तावत्तस्या भवति दुरितैः प्राक्तनै विरामः
क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥ ११३ ॥
मन्नाथेन ध्रुवमवजितो रूपलक्ष्म्या तपोभि-
स्तद्वैरान्मामिषुभिरबलां हन्त्यशक्तो मनोभूः ।
दृग्भ्यां क्लुप्तेष्विति मम निशि स्रस्तरे चिन्तयन्त्या
मुक्तास्थूलास्तरुकिसलयेष्श्रुलेशाः पतन्ति ॥ ११४ ॥
अस्मिन्नेते शिखरिणि मया यादवेशान्तिकान्ते
जीमूताम्भःकणचयमुषः संचरन्तः पुरस्तात् ।
संसेव्यन्ते विषमविशिखोत्तंसया नीपवाताः
पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ ११५ ॥
संचिन्त्यैवं हृदि मयि दयां धारयंस्तत्प्रसीद
स्वामिन्निर्वापय वपुरिदं स्वाङ्गसङ्गामृतेन ।
यत्संताप्यानिशमतितरां प्राणलावण्यशेष
गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ ११६ ॥
दुःखं येनानवधि बुभुजे त्वद्वियोगादिदानीं
संयोगात्तेऽनुभवतु सुखं तद्वपुर्मे चिराय ।
यस्माजन्मान्तरविरचितैः कर्मभिः प्राणभाजां
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ ११७ ॥
प्रावृट् प्रान्तं प्रियतम गता दुर्दशा दुःखदेव
प्रायोऽन्योन्यैः रतिकरमितः सांप्रतं संगमाय ।
भोगानेकोत्सवसुखसुखानिच्छया मन्दिरे खे
निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ ११८ ॥
इत्येतस्याः सफलय चिराद्वाक्यमासाद्य सद्यः
खं वेश्मैनां नय नवरसैः खस्थचित्तां कुरुष्व ।
तल्पे प्राक्त्वां निशि वदति या स्मेक्षमाणेव मोहा-
हृष्टः स्वप्ने कितव रमयन्कामपि त्वं मयेति ॥ ११९ ॥
त्वत्संयोगाकुलितहृदयोत्कण्ठया राजपुत्री
त्वामेषा च त्वरयति चिरात्स्नेहपूर्णा प्रयातु ।
प्रायेणैताः प्रियजनमनोवृत्तयोऽप्राप्तिभावा-
दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ १२० ॥
तस्माद्बालां स्मरशरचयैर्दुःसहैर्जर्जराङ्गीं
संभाष्यैनां नय निजगृहान्सत्वरं यादवेन्द्र ।
प्रीत्या चास्या मधुरवचनाश्वासनाभिः प्रयान्तं
प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ १२१ ॥
त्वामर्थेऽस्याः किमिति नितरां प्रार्थये नाथ भूयो
यस्मादीदृग्जगति महतां लक्षणं सुप्रसिद्धम् ।
स्नेहादेते न खलु मुखरा याचिताः संभवन्ति
प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ १२२ ॥
गत्वा शीघ्रं स्वपुरमतुलं प्राप्य राज्यं त्रिलोक्याः
कीर्तिं शुद्धां वितनु सुहृदां पूरयाशां च पित्रोः ।
राजीमत्या सह नवघनस्येव वर्षासु भूयो
मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥ १२३ ॥
तत्सख्योक्ते वचसि सदयस्तां सतीमेकचित्तां
संबोध्येशः स भवविरतो रम्यधर्मोपदेशैः ।
चक्रे योगान्निजसहचरी मोक्षसौख्याप्तिहेतोः
केषां न स्यादभिमतफला प्रार्थना ह्युत्तमेषु ॥ १२४ ॥
श्रीमान्योगादचलशिखरे केवलज्ञानमस्मि-
न्नेमिर्देवोरगनरगणैः स्तूयमानोऽधिगम्य |
तामानन्दं शिवपुरि परित्याज्य संसारभाजां
भोगानिष्टानविरतसुखं भोजयामास शश्वत् ॥ १२५ ॥
तदुःखार्थं प्रवरकवितुः कालिदासस्य काव्या-
दन्त्यं पादं सुपदरचितान्मेघदूतागृहीत्वा ।
श्रीमन्नेमेश्वरितविशदं साङ्गणस्याङ्गजन्मा
चक्रे काव्यं बुधजनमनःप्रीतये विक्रमाख्यः ॥ १२६ ॥
इति साङ्गणसूनुश्रीविक्रमकविविरचितं नेमिदूतं समाप्तम् ।