नृसिंहस्तोत्रम्

विकिस्रोतः तः
Jump to navigation Jump to search
नृसिंहस्तोत्रम्
विष्णुस्तोत्राणि
[[लेखकः :|]]

श्री गणेशाय नमः ।
ब्रह्मोवाच ।
नतोऽस्म्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे ।
विश्वस्य सर्गस्थितिसंयमान्गुणैः स्वलीलया सन्दधतेऽव्ययात्मने ॥ १॥

श्रीरुद्र उवाच ।
कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पकः ।
तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल ॥ २॥

इन्द्र उवाच ।
प्रत्यानीताः परम भवता त्रायतां नः स्वभागा
दैत्याक्रान्तं हृदयकमलं त्वद्गृहं प्रत्यबोधि ।
कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते
मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम् ॥ ३॥

ऋषय ऊचुः ।
त्वं नस्तपः परममात्थ यदात्मतेजो येनेदमादिपुरुषात्मगतं ससर्ज ।
तद्विप्रलुप्तममुनाद्य शरण्यपाल रक्षागृहीतवपुषा पुनरन्वमंस्थाः ॥ ४॥

पितर ऊचुः ।
श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजैर्दत्तानि तीर्थसमयेऽप्यपिबत्तिलाम्बु ।
तस्योदरान्नखविदीर्णवपाद्य आर्च्छत्तस्मै नमो नृहरयेऽखिल धर्मगोप्त्रे ॥ ५॥

सिद्धा ऊचुः ।
यो नो गतिं योगसिद्धामसाधुरहारषीद्योगतपोबलेन ।
नानादर्पं तं नखैर्निर्ददार तस्मै तुभ्यं प्रणताः स्मो नृसिंह ॥ ६॥

विद्याधरा ऊचुः ।
विद्यां पृथग्धारणयाऽनुराद्धां न्यषेधदज्ञो बलवीर्यदृप्तः ।
स येन संख्ये पशुबद्धतस्तं मायानृसिंहं प्रणताः स्म नित्यम् ॥ ७॥

नागा ऊचुः ।
येन पापेन रत्नानि स्त्रीरत्नानि हृतानि नः ।
तद्वक्षःपाटनेनासां दत्तानन्द नमोऽस्तु ते ॥ ८॥

मनव ऊचुः ।
मनवो वयं तव निदेशकारिणो दितिजेन देव परिभूतसेतवः ।
भवता खलः स उपसंहृतः प्रभो करवाम ते किमनुशाधि किङ्करान् ॥ ९॥

प्रजापतय ऊचुः ।
प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः ।
स एष त्वया भिन्नवक्षानुशेते जगन्मङ्गलं सत्त्वमूर्तेऽवहारः ॥ १०॥

गन्धर्वा ऊचुः ।
वयं विभो ते नटनाट्यगायका येनात्मसाद्वीर्यबलौजसा कृताः ।
स एष नीतो भवता दशामिमां किमुत्पथस्थः कुशलाय कल्पते ॥ ११॥

चारणा ऊचुः ।
हरे तवांग्घ्रिपङ्कजं भवापवर्गमाश्रिताः ।
यदेव साधु हृच्छयस्त्वयाऽसुरः समापितः ॥ १२॥

यक्षा ऊचुः ।
वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस्त इह दितिसुतेन प्रापिता वाहकत्वम् ।
स तु जनपरितापं तत्कृतं जानता ते नरहर उपनीतः पञ्चतां पञ्चविंशः ॥ १३॥

किम्पुरुषा ऊचुः ।
वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वर ।
अयं कुपुरुषो नष्टो धिक्कृतः साधुभिर्यदा ॥ १४॥

वैतालिका ऊचुः ।
सभासु सत्रेषु तवामलं यशो गीत्वा सपर्यां महतीं लभामहे ।
यस्तां व्यनैषीद्भृशमेष दुर्जनो दिष्ट्या हतस्ते भगवन्यथामयः ॥ १५॥

किन्नरा ऊचुः ।
वयमीश किन्नरगणास्तवानुगा दितिजेन विष्टिममुनाऽनुकारिताः ।
भवता हरे स वृजिनोऽवसादितो नरसिंह नाथ विभवाय नो भव ॥ १६॥

विष्णुपार्षदा ऊचुः ।
अद्यैतद्धरिनररूपमद्भुतं ते दृष्टं नः शरणद सर्वलोकशर्म ।
सोऽयं ते विधिकर ईश विप्रशप्तस्तस्येदं निधनमनुग्रहाय विद्मः ॥ १७॥

॥ इति श्रीमद्भागवतान्तर्गते सप्तमस्कन्धेऽष्टमध्याये नृसिंहस्तोत्रं सम्पूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=नृसिंहस्तोत्रम्&oldid=92989" इत्यस्माद् प्रतिप्राप्तम्