निर्वाणमञ्जरी

विकिस्रोतः तः

अहं नामरो नैव मर्त्यो न दैत्यो
   न गन्धर्वयक्षः पिशाचप्रभेदः ।
पुमान्नैव न स्त्री तथा नैव षण्डः
   प्रकृष्टप्रकाशस्वरूपः शिवोऽहम् ॥ १ ॥

अहं नैव बालो युवा नैव वृद्धो
   न वर्णी न च ब्रह्मचारी गृहस्थः ।
वनस्थोऽपि नाहं न संन्यस्तधर्मा
   जगज्जन्मनाशैकहेतुः शिवोऽहम् ॥ २ ॥

अहं नैव मेयस्तिरोभूतमाया
   तथैवेक्षितुं मां पृथङ्नास्त्युपायः ।
समाश्लिष्टकायत्रयो अप्यद्वितीयः
   सदातीन्द्रियः सर्वरूपः शिवोऽहम् ॥ ३ ॥

अहं नैव मन्ता न गन्ता न वक्ता
   न कर्ता न भोक्ता न मुक्ताश्रमस्थः ।
यथाहं मनोवृत्तिभेदस्वरूप-
   स्तथा सर्ववृत्तिप्रदीपः शिवोऽहम् ॥ ४ ॥

न मे लोकयात्राप्रवाहप्रवृत्ति-
   र्न मे बन्धबुद्ध्या दुरीहानिवृत्तिः ।
प्रवृत्तिर्निवृत्त्यास्य चित्तस्य वृत्ति-
   र्यतस्तन्वहं तत्स्वरूपः शिवोऽहम् ॥ ५ ॥

निदानं यदज्ञानकार्यस्य कार्यं
   विना यस्य सत्त्वं स्वतो नैव भाति ।
यदाद्यन्तमध्यान्तरालान्तराल-
   प्रकाशात्मकं स्यात्तदेवाहमस्मि ॥ ६ ॥

यतोऽहं न बुद्धिर्न मे कार्यसिद्धि-
   र्यतो नाहमङ्गं न मे लिङ्गभङ्गम् ।
हृदाकाशवर्ती गताङ्गत्रयार्तिः
   सदा सच्चिदानन्दमूर्तिः शिवोऽहम् ॥ ७ ॥

यदासीद्विलासाद्विकारं जगद्य-
   द्विकाराश्रयं नाद्वितीयत्वतः स्यात् ।
मनोबुद्धिचित्ताहमाकारवृत्ति-
   प्रवृत्तिर्यतः स्यात्तदेवाहमस्मि ॥ ८ ॥

यदन्तर्बहिर्व्यापकं नित्यशुद्धं
   यदेकं सदा सच्चिदानन्दकन्दम् ।
यतः स्थूलसूक्ष्मप्रपञ्चस्य भानं
   यतस्तत्प्रसूतिस्तदेवाहमस्मि ॥ ९ ॥

यदर्केन्दुविद्युत्प्रभाजालमाला-
   विलासास्पदं यत्स्वभेदादिशून्यम् ।
समस्तं जगद्यस्य पादात्मकं स्या-
   द्यतः शक्तिभानं तदेवाहमस्मि ॥ १० ॥

यतः कालमृत्युर्बिभेति प्रकामं
   यतश्चित्तबुद्धीन्द्रियाणां विलासः ।
हरिब्रह्मरुद्रेन्द्रचन्द्रादिनाम-
   प्रकाशो यतः स्यात्तदेवाहमस्मि ॥ ११ ॥

यदाकाशवत्सर्वगं शान्तरूपं
   परं ज्योतिराकारशून्यं वरेण्यम् ।
यदाद्यन्तशून्यं परं शङ्कराख्यं
   यदन्तर्विभाव्यं तदेवाहमस्मि ॥ १२ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छ्ङ्करभगवत्पाद कृतौ
निर्वाणमञ्जरी संपूर्णा

"https://sa.wikisource.org/w/index.php?title=निर्वाणमञ्जरी&oldid=329155" इत्यस्माद् प्रतिप्राप्तम्