निबन्धावली

विकिस्रोतः तः
निबन्धावली
[[लेखकः :|]]


रत्नकीर्ति निबन्धावली ॥
॥ सर्वज्ञसिद्धिः ॥

नमस्तारायै यस्मिन्नवज्ञा नरकप्रसूतिर्भक्तिश्च सर्वाभिमतप्रदायिनी ।
अव्याहतं यो जगदेकबन्धुः स ज्ञायते सर्वविदत्र निर्मलम् ॥

इह हि धर्मज्ञादपरम नवशेषज्ञमनिच्छन्नपि कुमारिलो धर्मज्ञ एव केवले प्रतिषिद्धे वेदमुपादेयमभिमन्यमानः पठति

धर्मज्ञत्वनिषेधस्तु केवलोऽत्रोपयुज्यते ।
सर्वमन्यद्विजानंस्तु पुरुषः केन वार्यते ॥
इति ।

तदयमाचार्योऽपि सर्वसर्वज्ञचरणरेणुसनाथं यावदाकाशं जगदिच्छन्नपि त्रिभुवनचूडामणीभूतसपरिकरहेयोपादेयतत्त्वज्ञपुरुषपुण्डरीकप्रसाधनादप्यप्रमाणकजडवैदिकशब्दराशिप्रमुखसकलदुर्मतिप्रवादप्रतिहतिरित्यन्तर्नयन्नाह

हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः ।
यः प्रमाणमसाविष्टो न तु सर्वस्य वेदकः ॥
इत्यादि ॥

तदिदानीमुपयुक्तसर्वज्ञमेव तावत्प्रसाधयामः । पर्यन्ते तु सर्वसर्वज्ञदोहदमप्यपनेष्यामः । स्वास्थ्यमास्थीयताम् ।

यो यः सादरनिरन्तरदीर्घकालाभ्याससहितचेतोगुणः स सर्वः स्फुटीभावयोग्यः ।

यथा युवत्याकारः कामिनः पुरुषस्य ।

यथोक्ताभ्याससहितचेतोगुणाश्वामी चतुरार्यसत्यविषया आकारा इति स्वभावो हेतुः ।

तत्र न तावदाश्रयद्वारेण हेतुद्वारेण वासिद्धिसंभावना । संकल्परूढानां चतुरार्यसत्याकाराणां चेतोगुणत्वमात्रस्य च हेतोः प्रत्यात्मवेद्यत्वात् । नापि सादरनिरन्तरदीर्घकालाभ्यासलक्षणं हेतुविशेषणमसंभावनीयम् । तथा हि संसारस्वभावं (निबन्ध्२) दुःखातिशयमपनेतुमियं संकल्पारूढा चतुरार्यसत्याकारभावना प्रारब्धा । अस्याश्चासंभावना नाम किं (१) भाव्यस्य संकल्पारूढत्वासंभवात्(२) अनर्थित्वात्(३) हेयरूपानिश्चयात्(४) हेयस्य नित्यत्वात्(५) तस्याहेतुत्वात्(६) तद्धेतोर्नित्यत्वात्(७)हेयहेत्वपरिज्ञानात्(८) तद्बाधकाभावात्(९) बाधकापरिज्ञानात्(१०) चित्तस्य दोषात्मकत्वात्(११) तस्य व्यवस्थितगुणत्वात्(१२) भवान्तराभावात्(१३) ध्वस्तदोषपुनरुद्भवाद्वेति त्रयोदश विकल्पाः ॥

तत्र न तावदाद्यः पक्षः । सपरिकरहेयोपादेयात्मकस्य चतुरार्यसत्याकारस्य भाव्यस्य विकल्पारूढस्य प्रत्यात्मवेद्यत्वात् ॥

नापि द्वितीयः । दुःखमात्रस्यापि परित्यागार्थित्वेन व्याप्तेः सर्वजनानुभवसिद्धत्वात् ॥

नापि तृतीयः । संसारात्मनो दुःखस्वरूपस्य प्रतीतेः । कथमस्य दुःखात्मकत्वमिति चेत् । संक्षेपतः

कथितं साक्षाद्दुःखप्रकृति नरकं प्रेततिर्यक्खरूपं
मर्त्ये शर्म क्वचन तदपि ग्रस्तमेवासुखेन ।
देवानां च क्षयमुपगते पुण्यपाथेयपिण्डे
चण्डज्वालाव्यतिकरमुचो हन्त भोगास्त एव ॥िति ॥

न च चतुर्थः । वार्तमानिकपञ्चस्कन्धात्मकस्य दुःखस्योत्पाददर्शनात् ॥ न च पञ्चमः । दुःखस्य कादाचित्कत्वात् ॥ नापि षष्ठः । कार्यकादाचित्कत्वस्य अनित्यहेतुकत्वेन व्याप्तत्वात् ॥

नापिं सप्तमः । दुःखे विपर्यासतृष्णाप्रवृतिशक्तिकर्मभिः सहितस्यात्मदृष्टिलक्षणस्य हेतोः सांसारिकपञ्चस्कन्धलक्षणकार्यान्यथानुपपत्तितो निश्चयात् । यदाहुः
हंकारस्तावत्तदनु ममकारस्तदुभयप्रसूतो रागादिस्तदहितमतेर्द्वेषदहनः ।
ततः शेषः क्लेशस्तत उदयिनः कर्मविसराद्विसारी संसारः शरणरहितो दारुणतरः ॥
तस्मात्तृष्णाविपर्यासावात्मदृष्टिपुरःसरौ ।
संसारिस्कन्धजनकौ निर्णीतौ कार्यहेतुतः ॥

आत्मदर्शनस्य चाविद्यात्वमात्मप्रतिक्षेपतो द्रष्टव्यम् । तदभावेऽपि क्षणभङ्गप्रस्तावे परलोकादिकमनाकुलमवस्थापितम् ॥

न चाष्टमः । आत्मदृष्टिरूपायाः अविद्यायाः प्रतिपक्षभूतस्य नैरात्म्यदर्शनस्य संभवात् ॥

(निबन्ध्३)
नापिनवमः । नैरात्म्यदर्शनस्य मार्गशब्दवाच्यस्य प्रमाणतो निश्चितत्वात् ॥

दशमोऽप्यसंभवी । दोषावस्थायां चित्तस्य संस्कारापेक्षत्वात् । यो हि यत्स्वभावस्तस्मिन् स्वभावे व्यवस्थितो न संस्कारमपेक्षते । यथा दोषमपनीय तपनीयमक्षयदशायामवस्थितम् । अपेक्षते च चित्तमविद्यावस्थायां संस्कारमिति व्यापकविरुद्धोपलब्धिः । प्रतिषेध्यस्य तत्स्वभावत्वस्य यद्व्यापकं संस्कारनिरपेक्षत्वं तद्विरुद्धं तदपेक्षत्वमिति चित्तस्य दोषात्मकत्वक्षतिः ॥

एकादशोऽप्ययुक्तः । चेतसस्तत्तत्संस्कारातिशये प्रज्ञातिशयदर्शनात् ॥

न च द्वादशः । परलोकप्रसाधनात् । तथा हि,

यच्चित्तं तच्चित्तान्तरं प्रतिसन्धत्ते ।
यथेदानीन्तनं चित्तम् ।
चित्तं च मरणकालभावीति स्वभावहेतुः ।

न चार्हच्चरमचित्तेन व्यभिचारः । तस्यागममात्रतः प्रतीतत्वात् । निःक्लेशचित्तान्तरजननाद्वा । हेतोर्वा क्लेशे सतीति विशेषणादित्यनागतभवसिद्धिः । एवं यच्चित्तं तच्चित्तान्तरपूर्वकं यथेदानीन्तनं चित्तम् । चित्तं च जन्मसमयभावीत्यर्थतः कार्यहेतुरित्यतीतभवसिद्धिः ॥

न च त्रयोदशः । दोषकारणस्यात्मदर्शनस्य यद्विरुद्धं नैरात्म्यदर्शनं तस्य निरुपद्रवत्वात् । भूतार्थत्वात् । स्वभावत्वाच्च । सर्वदावस्थितेः । तन्नायं विशेषणासिद्धोऽपि हेतुः । तथापी दृशोऽभ्यासो न कस्य चिद्दॄश्यत इति चेत् । न दृश्यताम् । संभावना तावदशक्यप्रतिषेधा । इदानीन्तनजनप्रवृतिश्चाव्याहतेति नापरं गम्यते । अत एवेदं संभावनानुमानमुच्यते ॥

न चैष विरुद्धो हेतुः । सपक्षे कामिन्याकारे संभवात् । न चानैकान्तिकः । अभ्याससहितचेतो गुणस्फुटप्रतिभासयोः कार्यकारणयोर्घटकुम्भकारयोरिव सर्वोपसंहारेण प्रत्यक्षानुपलम्भतः कार्यकारणभावसिद्धावभ्याससहितचेतोगुणत्वस्य साधनस्य स्फुटप्रतिभासकरणयोग्यतया व्याप्तिसिद्धेः । तथा हि व्याप्त्यधिकरणे कामातुरवर्तिनि युवत्याकारे सादरनिरन्तरदीर्घकालाभ्याससहितचेतोगुणात्पूर्वमनुपलब्धिः स्फुटाभस्य । पश्चादभ्याससंवेदनं स्फुटाभसंवेदनमिति । त्रिविधप्रत्यक्षानुपलम्भसाध्यः कार्यकारणभावः स्फुटप्रतिभासाभ्याससचिवचित्ताकारयोरियमुपपन्ना सर्वोपसंहारवती व्याप्तिः । अतोऽनैकान्तिकताप्यसंभविनीत्यनवद्यो हेतुः ॥

ननु कथमनुमानतः सर्वज्ञसिद्धिप्रत्याशा । तस्य परोक्षत्वेन तत्प्रतिबद्धलिङ्गानिश्चयात्(निबन्ध्४) किं च सर्वज्ञसत्तासाधने सर्वो हेतुर्न त्रयीं दोषजातिमतिपतति । सर्वज्ञे हि धर्मिण्यसिद्धत्वम् । असर्वज्ञे हि विरुद्धत्वम् । उभयात्मकेप्यनैकान्तिकत्वमिति ॥

अपि च अभ्यासात्कारणात्कार्यस्य स्फुटाभस्य प्रतीतौ नावश्यं कारणानि कार्यवन्ति भवन्तीत्यनैकान्तिकता । अथ स्फुटीभावयोग्यतानुमीयते । सापि शक्तिरुच्यते । सा च कार्येऽनन्तरा सान्तरा वा । तत्राद्या कार्यसमधिगम्या । न चाधिगतकार्यस्य तया कश्चिदुपयोगः । द्वितीया तु कार्यावसायमैकान्तिकं न साधयेत् ॥

न च कार्याप्रतीतौ योग्यतानिश्चयः संभवी । नापि योग्यतामात्रसाधनेकृतार्थः साघनवादी । सर्वज्ञज्ञाने कार्ये विवादस्य तादवस्थ्याद् । भवतु स्फुटीभावस्य सिद्धिः । तथापि कः प्रस्तावः सर्वज्ञविवादे साधनमारब्धवतः स्फुटत्वं चेतसः साधयितुम् ॥

किं च प्रसिद्धानुमाने भूतलस्य धर्मिणः कुम्भकारघटयोरपि धर्मयोः प्रतीतत्वात्कार्यकारणभावो ग्रहीतुं शक्यत एव । प्रस्तुते तु कामातुरसन्तानवर्तिनो युवत्याकारस्य धर्मिणस्तत्प्रगताभ्यासस्फुटत्वयोरपि धर्मयोः परोक्षत्वात् । कथं कार्यकारणगृहीतिः । यथा च नैयायिकं प्रति युष्माभिरुच्यते प्रत्यक्षतो न कार्यमात्रं पुरुषव्याप्तं सिध्यति । किं त्ववान्तरमेव घटजातीयं कार्यमिति तथा नाकारमात्रमभ्यासपूर्वकं सिध्यति । किं त्ववान्तरमेव युवत्याकारसामान्यमिति व्यक्तमेव । न चाभ्यासकार्यः स्फुटीभावः । तदभावेऽपि स्वप्ने दर्शनात् ॥

किं च सर्वविदोऽपि यदि चतुरार्यसत्यपरिज्ञानतः सर्वज्ञतास्थितिः, तर्हि घटादिकतिपयवस्तुज्ञानेऽपि सर्वज्ञतेति साध्वी शुद्धिः । अपि च

ज्ञानवान्मृग्यते कश्चित्तदुक्तप्रतिपत्तये ।
अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः ॥

इति युष्माभिरेवोच्यते । न च सर्वज्ञानवान् विशेषनिष्ठतयाधिगन्तुं शक्यते । न चास्य सत्तामात्रसिद्धौ कश्चिदुपयोगः, प्रवृत्तेरनङ्गत्वादिति सर्वमसमञ्जसम् ॥

अत्रोच्यते । न वयं साक्षात्सर्वज्ञसत्ताप्रतिज्ञायां हेतुव्यापारमनुमन्यामहे । भूधराधीनवह्निसत्तावत् । किन्तु चतुरार्यसत्याकारस्वरूपे धर्मिणि स्फुटाभत्वस्य साध्यस्यायोगव्यवच्छेदार्थं पर्वतेऽग्निमात्रायोगव्यवच्छेदवत् । स्फुटाभत्वं तु कामिन्याकारादिदृष्टान्ते दृष्टमेव । तच्च पर्वतीयाग्निवत् । पक्षधर्मताबलतः सत्यचतुष्टयाधिकरणं सिध्यत्सर्वज्ञतामाचक्ष्महे ।
यथोक्तम्

इत्यभ्यासबलात्परिस्फुटदशाकोटिः स्फुरत्संभवी
हेयादेयतदङ्गलक्षणगुणः सर्वज्ञता सैव नः ॥ इति ।

तदत्राभ्याससहितचतुरार्यसत्याकारः समग्रो धर्मी सामग्र्यमभ्यासविशिष्टचेतोगुणत्वमात्रं हेतुः स्फुटीभावयोग्यतासाध्यम् । यथा साग्नित्वानग्नित्वसन्देहे (निबन्ध्५) पर्वतात्मा प्रमाणप्रतीतो धर्मी । तथात्रापि सर्वज्ञत्वासर्वज्ञत्वविवादेऽहि प्रत्यात्मविदितः सत्यचतुष्टयाकारो धर्मी । तस्मात्स्फुटाभत्वेन साध्येन दृष्टान्ते व्याप्तिसिद्धेरस्त्येव तत्प्रतिबद्धलिङ्गनिश्चयः । साध्यसन्देहेऽपि धर्मिणश्चतुरार्यसत्याकारस्य सिद्धेर्न त्रिविधदोषजातेरवसरः । योग्यतायाः प्रसाधनेन च कारणात्कार्यप्रतीतावनैकान्तिकत्वमित्यप्यनभ्युपगमप्रतिहतम् । योग्यता च सान्तरैव साध्यते । इयं च न गमयतु नामैकान्ततः कार्यसत्त्वम् । अनुपपद्यमानं पुनरस्य संभवमाक्षिपत्येव । तदा भाविनि कार्ये सन्देहेऽपि कारणयोग्यता निश्चीयत एव । ब्रीह्यादौ भाविफलानिश्चयेपि योग्यतानिश्चयेन प्रवृत्तेः । अन्यथा शिलाशकलादेरप्युपादानप्रसङ्गः ।

तज्जातीयस्य शरावस्थपङ्कोप्तस्य सामर्थ्यमुपलब्धमिति चेत् । अत्रापि कामिन्याकारे भावनाजातीयस्य स्फुटीभावकरणयोग्यता दृष्टेति समानम् ।

एवं योग्यतामात्रसाधनेनैव कृतार्थः साधनवादी । सर्वज्ञकारणभावात्तदभाववादिनां निर्दलनात् । कार्यस्य व त्रैकालिकस्य सम्भावनाप्रसाधनात् । मुत्त्क्यर्थिनां च प्रवृत्तेरविरोधात् । वादिनोऽपि तन्मात्रसाधनस्याभिप्रेतत्वात् । अतएव कः प्रस्तावः सर्वज्ञसत्ताविवादे स्फुटीभावसाधनस्येत्याद्यप्यनवकाशम् । सर्वज्ञशब्देन स्फुटीभावयोग्यताया विवक्षितत्वात् । तथा कार्यकारणप्रतीतिरपि संभवत्येव । तथा हि कामिन्यभ्याससन्ततिसहचारि संभ्रमकायवचोदर्शनमेव कामिन्याकारस्य तद्भावनायाश्च दर्शनम् । तथाभूतकायवचोऽदर्शनमेव भावनाया अदर्शनम् । एवं स्फुटप्रतिभाससन्ततिसहचारिविशिष्टकायवचोदर्शनं स्फुटप्रतिभासदर्शनम् । तथावस्थितकायवचोऽदर्शनमेव स्फुटप्रतिभासादर्शनमित्यस्त्येव प्रस्तुतेऽपि प्रत्यक्षानुपलम्भतः कार्यकारणभावप्रतीतिः । इयं च तथावस्थकामातुरशरीरवचनग्रहणे तदेकदेशभूतयुवत्याकाराभ्यासस्फुटप्रतिभासग्रहणव्यवस्था व्यावहारिकेणावश्यं स्वीकर्तव्या । अन्यथा चित्यचैत्यरूपरसगन्धस्पर्शपरमाणुपुञ्जाद्यात्मकस्य कुम्भकारघटप्रदेशादेरपि रूपैकदेशग्राहकं चक्षुःप्रत्यक्षं न समुदायव्यवस्थापकमिति सर्वव्यावहारिकप्रमाणोच्छेदप्रसङ्गः । तथा बाह्यघटकामिन्यादीनां शक्तिकृतस्य महतो जातिभेदस्य संभवादन्यजातीयव्याप्तिग्रहेऽन्यजातीयाद्बुद्धिमदनुमानमयुक्तम् । संकल्पारूढानां तु जलज्वलनयुवत्याकारादीनां बाह्यत्वेनाध्यस्तानामपि विज्ञानैकस्वरूपतयैकजातीयत्वमस्तीति भावनासहिताकारमात्रेणैव वैशद्यव्याप्तिरस्तु ॥

न च स्वप्ने स्फुटताव्यभिचारः । भावनासिद्धलक्षणयोर्हेत्वोर्जातिभेदे तत्कार्ययोरेकत्वाभिमानेऽपि जातिभेदस्यावश्यं स्वीकर्तव्यत्वात् । दृश्यते हि सिद्धसाध्या वैशद्यजातिरनपेक्ष्य विपरीतभावनां निद्राविच्छेदे विच्छिद्यमाना । भावनाभाविनी तु न विना विपक्षाभ्यासं जाग्रतोऽपि यदाहुः

(निबन्ध्६)
स्वप्नेऽपि स्फुटता तथैव न तथाप्येकत्वमेवानयोर्
अ प्राकारसमत्वमेव समतां जातेः समामंगति ।
अन्यन्निधनिरोधबाध्यमितरद्बाध्यं प्रयत्नैः पुनर्
वैशद्यं विपरीतभावनबलान्नैर्घृण्यभेदे यथा ॥ इति ॥

यदपि घटादिकतिपयज्ञानेऽपि सर्वज्ञः स्यादित्युक्तम् । तत्रापि

घटादिप्रकृताशेषवेदनेऽपि भयं भवाद्
धीयेत्यदि को दोषः सोऽपि सर्वज्ञतां व्रजेत् ।
संसारदुःखमोक्षाय स्पृहयन्तो वयं पुनर्
भजेम तदुपायज्ञं स्थातुं तद्गीतवर्त्मनि ॥

इत्युत्तरं द्रष्टव्यम् । तथा सत्तामात्रे विप्रतिपन्नान् प्रति सत्तैव केवला प्रसाधिता । विशेषजिज्ञासायां तु प्रमाणोपपन्नक्षणिकनैरात्म्यवादिन एव सुगतस्य भगवतः सर्वज्ञता ।

अत एतदपि निरस्तं यदाह भट्टः

सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा ।
अथोभावपि सर्वज्ञौ मतभेदः कथं तयोः ॥ इति ॥

तस्मात्

उक्तक्रमेण मुनिराजनये प्रमायाः शक्तिर्व्यनक्ति गतिमप्रमितां कृपां च ।
अन्यत्र तु द्वयमुदस्तमदोऽस्तमाने तेनैक एव शरणं स निरात्मवादी ॥

इति विशेषसिद्धिरप्यनवद्येति सर्वमनाकुलमाकुलाधयः परे न प्रतिपद्यन्ते । साधनेऽस्मिन्नवद्येऽपि दुर्नीतिदहनदग्धबुद्धयः पुनरप्येतदाचक्षते । बाधकप्रमाणसद्भावात्सर्वज्ञस्यासद्व्यवहारो युक्तः सद्व्यवहारप्रतिषेधो वा प्रसाधकप्रमाणाभावाद्वेति ॥

अत्र विचार्यते किं पुनरस्य भगवतो बाधकं प्रमाणं प्रत्यक्षमनुमानं शब्दादिकं वेति विकल्पाः ॥

न तावत्प्रत्यक्षम् । प्रत्यक्षं हि केवलप्रदेशादौ प्रवर्तमानं स्वप्रवृत्तियोग्यमेव तत्र वस्तु प्रतिषेधति । न वस्तुमात्रम् । न च सर्वज्ञस्य प्रत्यक्षप्रवृत्तियोग्यतास्ति । स्वभावविप्रकृष्टत्वात्तस्य ॥

(निबन्ध्७)
स्यादेतत् । न वयं प्रत्यक्षं प्रवर्तमानमभावं साधयतीति ब्रूमः । किं तर्हि । निवर्तमानम् । तथा हि यत्र वस्तुनि प्रत्यक्षस्य निवृत्तिस्तस्यासद्भावः । यथा शशविषाणादेः । यत्र तु प्रत्यक्षस्य प्रवॄत्तिस्तस्य सद्भावो यथा घटादेः । अस्ति च सर्वज्ञे प्रत्यक्षनिवृत्तिः । तदस्याप्यभावः केन निवार्यत इति ॥

उच्यते । निवर्तमानं प्रत्यक्षमभावं साधयतीति कोऽर्थः । किं प्रत्यक्षस्य या निवृत्तिस्ततोऽभावसिद्धिः, निवृत्तिसहिताद्वा प्रत्यक्षात्, निवृत्ताद्वा प्रत्यक्षादिति ।

नाद्यः पक्षः । सत्यपि वस्तुनि प्रत्यक्षनिवृत्तेरुपलभ्यमानाया वस्त्वभावनिय तत्वासिद्धेः ॥

नापि द्वितीयः । स्वाभावेन सह कस्यचित्साहित्यानुपपत्तेः । अन्यथा तन्निवृत्तत्वानुपपत्तेः ॥

न च तृतीयः । तथा हि निवृत्तात्प्रत्यक्षादभावसिद्धिरित्यसतः प्रत्यक्षादित्युक्तं भवति । न चासतो हेतुभावः संभवति । सर्वसामर्थ्यविरहलक्षणत्वात्तस्य । न हि तच्च नास्ति तेन च प्रतिपत्तिरिति न्याय्यम् । अतो न तावत्प्रत्यक्षं सर्वज्ञबाधकम् ॥

नाप्यनुमानम् । तद्धि त्रिविधलिङ्गजत्वेन त्रिविधम् । तत्र कार्यस्वभावयोर्विधिसाधनत्वात्, प्रतिषेधे साध्येऽनवसरः । न च दृश्यानुपलम्भः तत्प्रभेदो वा कार्यानुपलब्ध्यादिर्योग्यानुपलम्भो वा पराभिमतोऽत्र प्रमाणम् । सर्वज्ञतायाः स्वभावविप्रकृष्टत्वेनादृश्यत्वात् ॥

ननु कारणानुपलम्भादेव सर्वज्ञताप्रतिषेधः सिध्यति । तथा हि तत्कारणमिन्द्रियविज्ञानं वा मानसं वा भावनाबलजं वा । भावनाबलजमपि चाक्षुषं वा, मानसं वेति विकल्पाः ।

तत्र न तावच्चक्षुरिन्द्रियविज्ञानमशेषार्थग्राहि । तस्य प्रतिनियतार्थविषयत्वात् । देशान्तरे कालान्तरे [च] तथैव प्रतिनियमः । अन्यथा हेतुफलभावाभावप्रसङ्गात् । अनेकेन्द्रियवैयर्थ्यप्रसङ्गाच्च । तथा च कारिका

एकेन्द्रियप्रमाणेन सर्वज्ञो येन कल्प्यते ।
नूनं स चक्षुषा सर्वान् रसादीन् प्रतिपद्यते ॥
यज्जातीयैः प्रमाणैश्च यज्जातीयार्थदर्शनम् ।
भवेदिदानीं लोकस्य तथा कालान्तरेऽप्यभूत् ॥ इति ॥

ततश्चैवं प्रयोगः कर्तव्यः ।
बुद्धचक्षुर्नातीतादिविषयम् ।
चक्षुस्त्वात् ।
स्मदादिचक्षुर्वत् ।
(निबन्ध्८)
अचक्षुर्वा ।
अतीतादिविषयत्वात् ।
शब्दवत् ।

इति सर्वमेतत्श्रोत्रादावपि द्रष्टव्यम् । न चक्षुरादिप्रकर्षः स्वार्थमतिक्रम्य दृष्ट ।
कारिका

यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् ।
दूरसूक्ष्मादिवृत्तौ स्यान्न रूपे श्रोत्रवृत्तितः (?ता) ॥

बृहट्टीका च

श्रोत्रगम्येषु शब्देषु दूरसूक्ष्मोपलब्धितः ।
पुरुषातिशयो दृष्टो न रूपाद्युपलम्भनात् ॥
चक्षुषापि च दूरस्थसूक्ष्मरूपोपलम्भनम् ।
क्रियतेऽतिशयप्राप्त्या न तु शब्दादिदर्शनम् ॥

न चैतद्वक्तव्यम् । यदि नामैकैकेनेन्द्रियेण तज्ज्ञानेन वा सर्वस्याग्रहणं तथापि पञ्चभिरिन्द्रियैस्तज्ज्ञानैर्वा स्वस्वविषयप्रवृत्तैरेवातिशयप्राप्तैर्भविष्यतीति । एकैकस्यापि निःशेषस्वविषयग्रहणादर्शनात् । परचित्ताद्यतीन्द्रियाणां ग्रहणा(भावा) च्च । तदेवमिन्द्रियमिन्द्रियविज्ञानं वा नाशेषग्राहीति न प्रथमः पक्षः ॥

नापि द्वितीयः । तथा हि यद्यपि तन्मानसं सर्वार्थविषयं तथापि न तस्य स्वातन्त्र्येणार्थग्रहणे व्यापारोऽस्ति । मनसो बहिरस्वातन्त्र्यात् । अन्यथान्धवधिराद्यभावप्रसङ्गः । तेषामपि मनसो भावात् । पारतन्त्र्ये चेन्द्रियज्ञानपरिगृहीतार्थविषयत्वादतीतानागतदूरसूक्ष्मव्यवहितपरचित्तादेरर्थस्येन्द्रियपरिज्ञानागोचरस्य मनसा परिच्छेदो न प्राप्नोतीति कथं सर्वज्ञता ॥

न च भावनाबलजं सर्वार्थग्राहीति तृतीयः पक्षः । तथा हि तद्भावनाबलजमपि यदीन्द्रियाश्रितमिति चतुर्थः पक्षः, तदा सोऽसङ्गतः । इन्द्रियस्य तज्ज्ञानस्य च नियतविषयविषयत्वप्रतिपादनात् ॥

अथ भावनाबलेन तथाविधमुत्पन्नं मनोविज्ञानं सर्वार्थग्राहीति पञ्चमः पक्षः । तदान्वर्थत्वात्प्रत्यक्षशब्दस्य तस्य च भावनाबलावलम्बिनोऽप्यनक्षजत्वात्नार्थसाक्षात्कारित्वमस्तीति प्रतिपादनीयम् । किं च स्वविषयसीमानमनतिपत्यैव प्रकर्षोऽपि दृश्यते । न तु सर्वविषयत्वेनेति । कथं तेनापि सकलार्थजातादिवेदनम् । यतो न कस्यचिदभ्यासेऽप्यतीन्द्रियार्थदर्शित्वमुपलब्धम् ॥

बृहट्टीका

येऽपि सातिशया दृष्टाः प्रज्ञामेधाबलैर्नराः ।
स्तोकस्तोकान्तरत्वेन न तेऽतीन्द्रियदर्शनाः ॥

(निबन्ध्९)
प्राज्ञोऽपि च नरः सूक्ष्मानर्थान् द्रष्टुं क्षमोऽपि सन् ।
सजातीरनतिक्रामन्नातिशेते परानपि ॥
एकाववरकस्थस्य प्रत्यक्षं यत्प्रवर्तते ।
शक्तिस्तत्रैव तस्य स्यान्नैवाववरकान्तरे ॥
ये चार्था दूरविच्छिन्ना देशपर्वतसागरैः ।
वर्षद्वीपान्तरैर्ये च कस्तान् पश्येदिहैव सन् ॥

अत्र वर्षः कालविशेषः ।

एवं शास्त्रविचारेषु दृश्यतेऽतिशयो महान् ।
न तु शास्त्रान्तरज्ञानं तन्मात्रेणैव सिध्यति ॥
ज्ञात्वा व्याकरणं दूरं बुद्धिः शब्दापशब्दयोः ।
आकृष्यते न नक्षत्रतिथिग्रहणनिर्णये ॥
ज्योतिर्विच्च प्रकृष्टोऽपि चन्द्रार्कग्रहणादिषु ।
न भवत्यादिशब्दानां साधुत्वं ज्ञातुमर्हति ॥
तथा वेदेतिहासादिज्ञानातिशयवानपि ।
न स्वर्गदेवतापूर्वप्रत्यक्षीकरणे क्षमः ॥
दशहस्तान्तरं व्योम्नो ये नामोत्प्लुप्य गच्छति ।
न योजनमसौ गन्तुं शक्तोऽभ्यासशतैरपि ।
तस्मादतिशयज्ञानैरतिदूरगतैरपि ।
किञ्चिदेवाधिकं ज्ञातुं शक्यते नत्वतीन्द्रियम् ॥
इति ॥

प्रत्यक्षसूत्रे तु काशिकाकारः परमतमाशङ्क्याह, तन्न, अवगतविषयत्वाद्भावनायाः । न चाकस्मादवगतेरूत्पत्तिः संभवति । सर्वोत्पत्तिमतां कारणवत्त्वात् । अथ प्रमाणान्तरावगतं भाव्यते । किं भावनया । तत एव तत्सिद्धेः । किं च तत्प्रमाणम् । न तावदनुमानं धर्माधर्मयोः पूर्वमग्रहणेन तद्वयाप्तलिङ्गसंवेदनासंभवात् । जगद्वैविध्यार्थापत्तेरपि हि किमपि कारणमस्तीति एतावदुन्नीयते । न तु कश्चिद्विशेषः । न चानिर्दिष्टविशेषविषया भावना भवति । योगशास्त्रेष्वपि हि विशेषा एव ध्येयतयोपदिश्यन्ते ।

ध्येय आत्मा प्रभुर्योऽसौ हृदि दीप इव स्थितः ।

इत्यादिभिः ।

आग(म)मानात्तर्हि अवगतं भावयिष्यते । यदि प्रमाणात्तदा तत एवावगतेः । किं भावनया । हानोपादानार्थं हि वस्तु जिज्ञास्यते । ते च तत एव सिद्धे (निबन्ध्१०) इति व्यर्था भावना । कारुणिकोऽपि हि धर्मागमानेव शिष्येभ्यो व्याचक्षीत । न भावनाभेदमनुभवेत् ।

अथ विप्रलम्भभूयिष्ठत्वादागमानां प्रमाणमागमो न वेति विचिकित्समानो भावनया जिज्ञासते । तन्न । ततोऽपि तदसिद्धेः । भावनावलपरिनिष्पन्नमपि ज्ञानमनाश्वसनीयार्थमेव । अभूतस्यापि भाव्यमानस्यापरोक्षार्थवत्प्रकाशनात् । यथा हि तैरेवोक्तम्

तस्माद्भूतमभूतं वा यद्यदेवाभिभाव्यते ।
भावनापरिनिष्पत्तौ तत्स्फुटा कल्पधोः फलम् ॥

अपि च भावनाबलजमप्रमाणम् । गृहीतग्रहणात् । यावदेव हि गृहीतं तावदेव भावनया विषयीक्रियते । मात्रयाप्यधिकं न भावना गोचरयति । योगाभ्यासाहितसंस्कारपाटवनिमित्ता हि स्मृतिरेव भावनेति गीयते । सा च न प्रमाणमिति स्थितमेव । न च तदुत्तरकालं साक्षात्कारिज्ञानमुदेतीति प्रमाणमस्ति । इन्द्रियसन्निकर्षमन्तरेणार्थसाक्षात्कारस्य क्वचिददर्शनात् । योगिनां धर्माधर्मयोरपरोक्षप्रतिभासं ज्ञानं नास्ति, इन्द्रियसन्निकर्षाभावादस्मदादिवत् ॥

वाचस्पतिस्तु कणिकायामाह । सत्यं श्रुतानुमानगोचरचारिणी भावना विशदाभज्ञानहेतुरिति नावजानीमहे । किन्तु यद्विषयजातं तदेव विशदप्रतिपत्तिगोचरः । न जातु रूपभावनाप्रकर्षो रसविषयविज्ञानवैशद्याय कल्पते ।

ननु न विषयान्तरवैशद्यहेतुभावं भावनायाः संगिरामहे । किन्तु श्रुतानुमानविषयवैशद्यहेतुतामेव । तद्विषयश्च समस्तवस्तुनैरात्म्यमिति तद्भावनाप्रकर्षः समस्तवस्तुनैरात्म्यं विशदयन् समस्तवस्तुविशदतामन्तरेण तदनुपपत्तेः समस्तवस्तुवैशद्यमावहतीत्युक्तम् ।

सत्यमुक्तम् । अयुक्तं तु तत् । तथा हि नागमानुमानगोचरत्वं निरात्मनां वस्तुभेदानां परमार्थसताम् । नहि ते एतेषामन्यनिवृत्तिमात्रावगाहिनी परमार्थसत्स्वलक्षणं गोचरयितुमर्हतः । नापि तद्विषया भावना । तदग्राह्यमपि स्वलक्षणं तदध्यवसेयतया तद्विषय इति तद्योनिरपि भावना तद्विषयेति तत्प्रकर्षस्तद्वैशद्यहेतुरिति चेत् । न । तदध्यवसेयस्यापि परमार्थसत्वाभावात् । तथा हि यदनुमानेन गृह्यते यच्चाध्यवसीयते ते द्वे अप्यन्यनिवृत्ती, न वस्तुनी । स्वलक्षणावगाहित्वेऽभिलापसंसर्गयोग्यप्रतिभासानुपपत्तेः ॥

मा भूत्तयोः स्वलक्षणं विषयः । तत्प्रभवभावनाप्रकर्षपर्यन्तजन्मनस्तु (निबन्ध्११) विशदाभस्य चेतसो भविष्यति । कामिनीविकल्पप्रभवभावनाप्रकर्षादिव कामातुरस्य कामिनीस्वलक्षणसाक्षात्कारः । करिकुम्भकठोरकुचकलशहारिणि हरिणशावलोललोचने चम्पकदलावदातगात्रलते लावण्यसरसि निरन्तरलग्नललितदोःकन्दलीमूल मालिङ्गनमङ्गने प्रेयसितरे प्रयच्छ । सञ्जीवय जीवितेश्वरि, पतितोऽस्मि तव चरणनलिनयोरितिवचनकायचेष्टयोरुपलब्धेः । अस्ति च विकल्पाविकल्पयोः कथञ्चित्समानविषयतेति नातिप्रसङ्ग इति चेत् । सत्यम् । संभवत्ययमनुभवो न पुनरस्यार्थे प्रामाण्यसंभवः । अतदुत्पत्तेरतदात्मनस्तदव्यभिचारनियमायोगात् । अतादात्म्यं चार्थस्य विज्ञानादतिरेकात् । अनतिरेकेऽपि च विज्ञानानामन्योन्यस्य भेदादतादात्म्यात् । एकस्य विज्ञानस्येतरविज्ञानवेदनानुपपत्तेः । विज्ञानस्वलक्षणैकत्वाभ्युपगमे च तन्नित्यमेकमद्वितीयं ब्रह्माभ्यसनीयमिति क्षणिकनैरात्म्याभ्यासाभ्युपगमो दत्तजलाञ्जलिः प्रसज्येत । तन्न तादात्म्यात्तस्याव्यभिचारः । नापि तत्कार्यत्वात् । भावनाप्रकर्षकार्यं खल्वेतन्न विषयकार्यम् । यद्युच्येत पारम्पर्येण तत्कार्यमनुमानवत् । यथा हि वह्निस्वलक्षणाद्धूमस्वलक्षणम् । ततो धूमानुभवस्ततो दहन विकल्पः, ततश्चानुमानमुत्पन्नमिति पारम्पर्येण वह्निप्रतिबन्धात्प्रापकं च वह्नेर्दाहपाककारिणः तथेदमपि अनुमानजनितभावनाप्रकर्षपर्यन्तजं पारम्पर्येणार्थप्रसूत तया तदव्यभिचारनियमात्तत्र प्रमाणमिति । तत्किमनुमानेन वह्निं व्यवस्थाप्य भावयतो यद्वह्निविषयमतिविशदविज्ञानं तत्प्रमाणमिति । ओमिति ब्रुबाणस्य पर्वतनितम्बारोहणे सतीन्द्रियसन्निकर्षजन्मनो दहनविज्ञानस्य भावनाधिपत्य विशदाभविज्ञानेन सह संवादनियमप्रसङ्गः । विसंवादश्च बहुलमुपलभ्यते । लक्षणयोगिनि च व्यभिचारसंभवे तल्लक्षणमेव बाधितमिति विशदाभमपि प्रातिभमिव संशयाक्रान्तमप्रमाणम् । तद्भावनाया भूतार्थत्वं न तज्जविशदाभ विज्ञानप्रामाण्यहेतुः, व्यभिचारात् । एवञ्च प्रासर्पकस्येव सक्तुकर्करीप्राप्तिमूललाभमनोरथपरम्पराहितो द्वविणसंभारसाक्षात्कारस्तथागतस्य निरात्मकसमस्तवस्तुसाक्षात्कार इत्यापतितम् । सर्वार्थवस्तुभावनापरिकर्मितचित्तसन्तानवर्तिविज्ञानं प्रत्यालम्बनप्रत्ययत्वमर्थमात्रस्य ।

तथा च तदुत्पत्तेः तदव्यभिचारनियम इति चेत् । न । अर्थस्य ह्यालम्बनप्रत्ययत्वविज्ञानं प्रतीन्द्रियापेक्षत्वेन व्याप्तम् । तच्चास्मात्स्वविरुद्धोपलब्ध्या (निबन्ध्१२) व्यावर्तमानमालम्बनप्रत्ययतामप्यर्थस्य निवर्तयति । न खल्विन्धनविशेषो धूमहेतुरिति विनापि दहनं सहस्रेणापि संस्कारैर्धूभमाधते । तदाधाने वा समस्तकार्य हेत्वनुमानोच्छेदप्रसङ्गः । भावनायाश्च भूतार्थाया अर्थानपेक्षाया एव विशदविज्ञानजननसामर्थ्यमुपलब्ध कामातुरादिवर्तिन्या इति भूतार्थापि तन्निरपेक्षैव समर्थेति नार्थस्यालम्बनप्रत्ययत्वं शक्यावगमम् । अपि च आलम्बनप्रत्यया अपि त एवास्य क्षणा युज्यन्ते, ये तस्य पुरस्तात्तना अव्यवधानास्तथा च त एवास्य ग्राह्या न पुनः पूर्वतराः । तत्काला अनागताश्चेति न सर्वविषयता । अथ दृश्यमाना धातुत्रयपर्यापन्नाः प्राणभृतो जन्मान्तरपरिवर्तोपात्तातीतानागतस्कन्धकदम्बकोपादानोपादेयात्मान इति तद्दर्शनं दृश्यमानतादात्म्येन तद्विशेषणतयातीतानागतमपि गोचरयति । न चास्मदादिदर्शनस्यापि तथात्वप्रसङ्गः, रागादिमलावृतत्वात् । तस्य च भगवतो निर्मृष्टनिखिलक्लेशोपक्लेशमलं विज्ञानमनावरणं परितः प्रद्योतमान मालम्बनप्रत्ययं सर्वाकारं गोचरयेत् । तस्य च साक्षात्परम्परया च कथञ्चित्सर्वेण संबन्धाद्देश्कालविप्रकीर्णवस्तुमात्रविशिष्टस्वभावतया तथैव गोचरयेत् । न चैतत्सर्वग्रहणमन्तरेणेति सर्वविषयमस्य विज्ञानमनावरणं सिद्धम् ।

तदनुपपन्नम् । विचारासहत्वात् । तथा हीयमालम्बनप्रत्ययस्य सर्वविशिष्टात्मता भाविकी न वा । भाविकी चेत् । न तावत्सर्वस्मिन्नालम्बनप्रत्यये चैका संभवति । एकस्यानेकवृत्तित्वानुपपत्तेः । नाना चेत् । आलम्बनप्रत्ययाश्च सर्वे चेति तत्त्वम् । तथा च न संबन्ध इति न तद्ग्रहणे सर्वग्रहणम् । विकल्पारोपिततया त्वविकल्पकं समस्तवस्तुविषयं सर्वत्र प्रतीयत इति सुभाषितम् । स्वालम्बनप्रत्ययमात्रगोचरमेवाविकल्पकं समस्तवस्तुविशिष्टालम्बनाध्यवसायजननम् । तेनाध्यवसायानुगतव्यापारमविकल्पकमपि समस्तवस्तुविषयं भवति ।
यदाह

व्यवस्यन्तीक्षणादेव सर्वाकारान्महाधियः ।

इति चेत् । अथ कतिपयवस्त्वालम्बनानुभवस्य कुतस्त्य एष महिमा यतः समस्तवस्त्ववसाय इति । रागाद्यावरणविगमादिति चेत् । तर्हि यथावद्वस्तूनि पश्येत् । न पुनरस्मादपार्थत्वमस्येति । तदयुक्तं विकल्पनिर्माणकौशलमस्य युज्येत । तत्त्वावरकता हि सुलभमलानां क्लेशादीनां न पुनर्विकल्पनिर्माणप्रतिबन्धता । तस्माद्भावनाप्रकर्षमात्रजत्वात्, अर्थाव्यभिचारनियमाभावात्, विशदाभमपि संशयाक्रान्तत्वादप्रमाणमप्रत्यक्षं चेति साम्प्रतम् ॥

(निबन्ध्१३)
यदपि सदर्थप्रकाशनं बुद्धेः स्वभावोऽसदर्थत्वं चागन्तुकमिति, असति बाधके सदर्थत्वमेवेति, तदयुक्तम् । अनुमितभावितवह्निविषयविशदाभज्ञान प्रामाण्यप्रसङ्गात्तद्विधस्य क्वचिद्बाधदर्शनादप्रामाण्यमिहापि समानम् । अन्यत्राभिनिवेशात् । तदिह यदि विशदाभविज्ञानहेतुत्वं भावनाया विशेषणत्रययोगेन साध्यते, ततः सिद्धसाधनम् । भवतु तथागतस्तथाभूतविज्ञानवान् । न त्वेतद्विज्ञानमस्य प्रत्यक्षमप्रमाणत्वात् । तथा चापक्षधर्मतया हेतोरसिद्धता । प्रसिद्धधर्मणो धर्मिणोऽजिज्ञासितविशेषतया अनुमेयत्वाभावात् । अथ प्रत्यक्षविज्ञानहेतुता भावनायाः परं प्रत्यसिद्धा साध्यते, तथा च सति साध्यविपर्ययव्याप्तेर्विरुद्धता हेतोः, विशेषणत्रयवत्या अपि भावनाया विशदाभभ्रान्तविज्ञानजनकत्वात् । दृष्टान्तस्य च साध्यहीनत्वात् । यदा च भूतार्थभावनाजनितत्वेऽपि नास्य प्रामाण्यमभूतार्थत्वात्, तदा यदुच्यते,

निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः ।
न बाधा यत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥

इति । तदनुपपन्नम् । भूतार्थत्वेऽपि हि बुद्धेः तत्पक्षपातिता भूतार्थैः प्रतिपक्षैर्बाधो न भवेत् । अभूतार्था त्वियं सात्मीभाव मापन्नाप्यात्मात्मीयदृष्टिरिव संभवद्बाधा । तस्मात्प्रतिपक्षविबृद्धिमात्रम् । न त्वात्यन्तिकी विवृद्धिः संभवति । यया समूलकाषं कषिता दोषा न पुनरुद्भविष्यन्ति । अतएवास्थिराश्रयत्वेऽपि अपुनर्यत्नापेक्षत्वेऽपि अस्य नात्यन्तिकी निष्ठा संभवति । आत्मात्मीयदृश इव विरोधिप्रत्ययसंभवात् । तत्संभवश्चाभूतार्थत्वात् । श्रुतानुमितविषयं तु प्रत्यक्षं न संभवत्येव । तयोः परोक्षरूपावगाहित्वात् । प्रत्यक्षस्य च तद्विपरीतत्वात् । तद्गतभूताभूतार्थानुविधायित्वेन स्वविषये श्रुतानुमानज्ञानापेक्षया प्रामाण्यानुपपत्तेश्व ॥

तत्सिद्धमेतत्भूतार्थभावनाप्रकर्षपर्यन्तजविज्ञानमप्रत्यक्षमर्थेऽप्रामाण्यात् ।
यदप्रमाणं तदप्रत्यक्षमर्थे ।
यथा कामातुरस्य कामिनीविज्ञानम् ।
अप्रमाणं च तत् ।
नितान्तविशदाभत्वे सति भावना (प्रकर्ष) जत्वात् ।
यन्नितान्तविशदाभत्वे सति भावनाप्रकर्षजं विज्ञानं तदप्रमाणम् ।

(निबन्ध्१४)
यथानुमितभावितवह्निविशदविज्ञानमिति । समानहेतुजत्वं समानरूपतया व्याप्तम् ।
यदाह

तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः ।

इति । तदस्य प्रामाण्यं निवर्तमानं तुल्यहेतुजत्वमपि निवर्तयति । न चैष भूतार्थभावनाप्रकर्षपर्यन्तजोऽनिन्द्रियसन्निकृष्टानुमितभावितवह्निवैशद्ये च निरात्मकसमस्तवस्तुवैशद्ये च विशिष्यते । न च रागाद्यावरणविरहो विशेषः । न खल्वेते कम्बलादिबदावरका विज्ञानस्य । किं तु तदाक्षिप्तमना विविधविषयभेदतृष्णादिपरिप्लुतो न शक्नोति ब्बावयितुमिति भावनादरमात्र एव तद्विरहोपयोगः । अस्ति चेहापि शिशिरभरसंभृत जडिममन्थरतरकायकाण्डस्यानुमितवह्निभावनाभियोग इति न हेतु भेदतः प्रतिबन्धसिद्धिः । न चैकपार्थिवाणुसमवायिकारणजन्मभिरभिन्नौष्ण्यापेक्षैकवह्निसंयोगासमवायिकारणैर्गन्धरसरूपस्पर्शैर्नानास्वभावैर्व्यभिचारः । सामर्थ्यवैचित्र्यादेकत्वेऽपि पार्थिवस्य परमाणोः । तद्वैचित्र्यं च कार्यवैचित्र्योपलम्भात् । तच्च नित्यसमवेतं नित्यम्, कारणसामर्थ्यप्रक्रमेण च पार्थिवावयविनि कार्ये जायत इति अवदातम् । परिशिष्टं तु ग्रन्थव्याख्यानसमये व्याख्यास्यामः । तदास्तां तावत् ॥

त्रिलोचनस्तु न्यायप्रकीर्णके प्राह । इह किल दुःखसमुदयनिरोधमार्गाख्यान्यार्याणां सत्यानि चत्वारि । तेषां सत्यानां स्वरूपसाक्षात्कारिज्ञानं योगिप्रत्यक्षम् । तत्र दुःखं फलभूताः पञ्चोपादानस्कन्धाः । तच्च स्वरूपतो ज्ञातव्यम् । त एव हेतुभूताः समुदयः । स च प्रहातव्यः । निःक्लेशावस्था चित्तस्य निरोधः । स च साक्षात्कर्तव्यः । तदवस्थाप्राप्तिहेतुर्नैरात्म्यक्षणिकत्वाद्याकारश्चित्तविशेषो मार्गः । स च भावयितव्य इति सौगतमतम् ।

अत्रोच्यते । मार्गस्तावत्प्रमाणपरिशुद्धो न भवतीत्युक्तं प्राक् । अतोऽभूतविषयस्य विकल्पस्याभ्यासादसत्यार्थविज्ञानं स्यान्न संवादि । अपि च प्रमाणपरिशुद्धमार्गवादो शाक्यः प्रमाणं पृष्टः सन् सत्वाख्यलिङ्गजं विकल्पं ब्रूयात् । ततो यावद्विकल्पेन दर्शितरूपं तत्सर्वमसत् । शब्दसंसृष्टत्वात् । तस्मिंश्च भाव्यमाने सत्त्वे भावकस्य विकल्पकस्य भावनोपहिते विशदाभत्वे शब्दसंसृष्टग्राह्यनिमित्तं विकल्पकत्वं निवर्तते । तद्व्यावृत्तौ ग्राह्यमपि शब्दसंसृष्टं निवर्तते । अतो निर्विकल्पकमपि योगिज्ञानं निर्विषयं प्रसक्तम् । यत्तु पारमार्थिकं वस्त्वात्मकं न (निबन्ध्१५) तत्प्रमाणपरिशुद्धम् । शुद्धौ वा किं भावनया । भाव्यस्य साक्षाद्विज्ञातत्वात् । न चान्यस्मिन् शब्दसंसृष्टे भाव्यमाने स्फुटमन्यद्रूपं भवति । शोकातुरस्यापि निरुद्धेन्द्रियव्यापारस्य तनयभावनायां मित्रादिप्रतिभासप्रसङ्गात् ।

क्षणिकत्वे भाव्ये समारोपिते वास्तवं क्षणिकत्वमेव योगिविज्ञानप्रतिभासीति चेत् । न । सत्यासत्ययोरेकत्वाभावात्मके हि भेदेऽसत्यभावनेऽपि यदि सत्यप्रतिभासः, तर्हि सत्यतनयाभ्यासेऽपि शब्दसाम्यादभेदिनस्तनयसंज्ञकस्य कस्यचिदपरस्य स्वरूपप्रतिभासप्रसङ्गः । तस्मादभूतविषयाभ्यासं निर्विकल्पकमपि संवादान्न प्रमाणमिति न सर्वज्ञसिद्धिः ।

अपि च भाव्यस्य वस्तुनः पुनः पुनश्चेतसि निवेशनमभ्यासः । स च ब्रह्मचर्येण तपसा सादरं दीर्घकालं निरन्तरमासेवितो दृढभूमिरस्फुटाकारस्य विकल्पस्य स्फुटाभत्वजनन इष्टः । स क्षणिकत्वनैरात्म्यवादिना द्रढयितुमशक्यः । तथा हि भाव्यग्राही यादृशो विकल्प उत्पन्नस्तादृश एव निरन्वयं निरुध्यते । तस्मिंश्च निरुद्धे पुनः पुनरुत्पद्यमानः प्रत्ययस्तादृश एवापूर्व उत्पद्यते । तदनेन पर्यायेण कल्पसहस्रेऽपि अपूर्वोत्पत्तेरविशेषान्न तज्जन्यः संस्कारोऽभ्यास उत्पद्यते । एतेन विशिष्टविज्ञानोत्पादोऽभ्यासो व्याख्यातः । निरन्वयनिरुद्धं हि पूर्वपूर्वविज्ञानं कथमुत्तरोत्तरावस्थान्तरं विशिष्टं जनयेत् । सर्वथा क्रमभाविभिः प्रत्ययैरवस्थितमेव रूपं शक्यं संस्कर्तुम् । अनवस्थितं तु स्वोत्पादव्यययोगिमात्रमित्यविशिष्टं स्यात् । तस्मात्प्रत्यावृत्तिभाव्यवस्तुप्रत्ययजः संस्कारो व्युत्थानप्रत्ययसंस्कारविरोधी यस्यास्ति तस्यैवात्मनः प्रकृष्टोऽपि भाव्यसाक्षात्कारिप्रत्ययहेतुरितियुक्तं पश्यामः । किं च चित्तमेकाग्रं व्यवस्थापयितुं विक्षेपत्यागार्थमभ्यासोऽनुष्ठीयते । न च क्षणिकवादिनां विक्षिप्तं चित्तमस्ति । प्रत्यर्थनियततया सर्वस्य चित्तैकाग्रत्वात् । तथा हि यदि साकारं विकल्पविज्ञानं स्वप्रतिभासनियतत्वातेकाग्रमेव तत्कथं विक्षिप्यते । अथ निराकारं तथापि विकल्पकं प्रति विकल्प्यं भिन्नमेव । न तु सर्वविकल्पानामेकं विकल्प्यमस्ति । ततो निराकारमपि विज्ञानं नियतालम्बनत्वादेकाग्रमेव, न विक्षिप्तम् । सर्वथा नास्ति क्षणिकवादिनामेकमनेकार्थमवस्थितं चित्तं यदेकाग्रं कर्तुमिष्यते । तदेवमभ्यासानुपपत्तेरसर्वज्ञवत्यां चित्तसन्ततौ न च विज्ञानविशेषः सर्वज्ञः सिध्यतीति ॥

न्यायभूषणकारस्त्वाह । सर्वज्ञानानां निरालम्बनत्वे संवेदनमात्रत्वे च योगीतरप्रत्यययोः को विशेषः । शुद्धाशुद्धत्वमिति चेत् । भवतु नामैवम् । तथापि चतुरार्यसत्यादिविषयत्वमयुक्तम् । न हि स्वात्ममात्रवेदनेन चतुरार्यसत्यादिकं साक्षात्कृतमिति युक्तमतिप्रसङ्गात् ।

(निबन्ध्१६)
तदाकारत्वेन तद्विषयत्वमिति चेत् । तत्किमिदानीं सौत्रान्तिकमतमभ्युपगतं सत्यम् । तथाप्यतोतानागतविषयत्वं कथम् । न ह्यसतः कश्चिदाकारोऽस्ति । दृष्टश्रुतानुमिताकारश्च यदि भावनाबलतः स्पष्ट एवावभाति, तथा च सतिभ्रान्तमेव योगिप्रत्यक्षं स्यात् । अविद्यमानस्य विद्यमानाकारतया प्रतिभासनात्, स्वप्नवत् । तथा(ऽ) विसंवादित्वान्न भ्रान्तम् । न । अनुमानज्ञानस्य भ्रान्तत्वेऽपि अविसंवादित्वाभ्युपगमात् ।

अथ भ्रान्तस्यापि संवादित्वेन प्रामाण्यम् । तथापि प्रत्यक्षलक्षणस्याभ्रान्तत्वविशेषणं विरुध्यते । न चाविसंवादित्वमपि त्वन्मते युक्तम् । यतः प्राप्यार्थदर्शकत्वं वा, प्रवृत्तिविषयोपदर्शकत्वं वा, अवभातादर्थक्रियानिष्पत्तिर्वा भवतामविसंवादित्वमभिप्रेतम् । न चैतदतीताद्यर्थज्ञाने संभवति । वर्तमानार्थज्ञानस्यापि क्षणिकत्वपक्षे नोपपद्यत एव । तस्मात्सौगतानां योगिप्रत्यक्षोपवर्णनमयुक्तमेवेति ॥

किं चेदमपि वक्तुमुचितम् । यद्यनुमानपूर्वकमर्थेषु भावनाबलजज्ञानमाश्वासभाजनं, तदास्तां तावदनुमानपौरुषप्रत्याशा । प्रत्यक्षेणापि चक्षुर्दहनादिकं गृहीत्वा भावनाप्रकर्षपर्यन्ते जातं स्थिरतरं तदाकारविज्ञानं स्यात्, यावन्न विपरीत भावनाभियोगपर्यन्तः । अस्तं गतश्च तद्विषयोऽवस्थान्तरप्राप्तो वेति कथं प्रमाणोपनीतवस्तुगोचरत्वेऽपि संवादाश्वासः । अपि च यदा हालिक एव हव्याशनमनुमाय भावनया स्फुटयेत्, तदा न तद्योगिज्ञानं परमार्थविषयाभावादिति प्रत्यक्षान्तरप्रसङ्गः ।

किं च तद्योगिज्ञानमिन्द्रियज्ञानाद्भिन्नमभिन्नं वा । अभेदपक्षे न योगिज्ञानं नाम प्रत्यक्षेण भिन्नमिन्द्रियज्ञानेनैव संग्रहात् । न च भावनोपस्कृतसन्तानस्य तथोदयाद्भेदव्यवस्था । रसायनादिसंस्कारापेक्षयापि प्रत्यक्षान्तरव्यवस्थाप्रसङ्गात् । भेदपक्षे च भावनासंभवं ज्ञानं क्षणिकसाक्षात्कारि । इन्द्रियज्ञानं च स्यैर्यग्राहीति साध्वी सिद्धिः । इन्द्रियज्ञानस्यापि तदवस्थायामस्थैर्यग्रहणे कृतं योगिज्ञानेन । न च तस्याकस्मिकः क्षणिकत्वावबोधः । भावनोद्भूतवैशद्यस्य हि तद्बोधः । न चेन्द्रियज्ञानस्य भावना । अपि तु मनोविज्ञाने । तामन्तरेणापि साक्षात्क्रियालाभे च भावनावैयर्थ्यमिति कारणाभावादेव सर्वज्ञप्रतिहतिः ॥

अत्राभिधीयते । यत्तावत्सर्वपदार्थसंवेदनस्य कारणं किमिन्द्रियज्ञानमित्यादि वल्गितं तत्र भावनाबलजं मनोविज्ञानमेव सर्वपदार्थग्राहीति पञ्चम एवास्माकं पक्षः । अतः पक्षान्तरभाविनो दोषा अनभ्युपगमप्रतिहताः । यच्चास्मदभ्युपगते पञ्चमे पक्षे दूषणमुक्तम्, अनर्थत्वात्प्रत्यक्षशब्दस्य, तस्य च भावनाबलाबलम्बिनोप्य नक्षजत्वान्नार्थसाक्षात्कारित्वमस्तीति, तदसङ्गतम् । तथा हि प्रत्यक्षशब्दस्य तावदक्षाश्रितत्वं व्युत्पत्तिनिमित्तमर्थसाक्षात्कारित्वं तु प्रवृत्तिनिमित्तमिति प्रतिपादितम् । (निबन्ध्१७) न च भावनाबलावलम्बिनो मनोविज्ञानस्यानक्षाश्रितत्वेऽप्यर्थसाक्षात्करणे कश्चिदस्ति शक्तिप्रतिघातः । यथा हि चक्ष्रुरिन्द्रियं स्वसामर्थ्यानतिक्रमेण योग्यदेशस्थमर्थमपेक्ष्य स्वविज्ञानजनने प्रवर्तते, तथा सर्वाविद्यापरिपन्थिभूतार्थभावनासहितं मन इन्द्रियमपि योग्यदेशस्थमर्थं प्राप्य स्वविज्ञानजनने प्रवर्तिष्यते । अप्राप्यकारिताया उभयोः साधारणत्वात् । अर्थवत्तायाश्च मनसोऽपि तदानीमिष्टत्वात् । पृथग्जनस्य तु न तादृशी शक्तिः, यतो नेत्रश्रोत्रवन्मनोऽपि तादृङ्मर्यादया योग्यदेशस्थमर्थसहकारिणमासाद्य वेदनमुत्पादयेत्, सर्वाविद्योन्मूलकस्य भावनाविशेषस्य सहकारिणोऽभावादिति नातिप्रसङ्गः । तदवस्थायां तु श्रुतिनयनयोरिव मनसोऽपि कियद्दूरेण विषयसन्निधिव्यवस्थितिक एव प्रमातुं क्षमः । केवलमेतावदुच्यते । यावत्तेन शक्यमधिगन्तुं स्वाकारार्पणसमर्थ सहकारि वस्तु तावदितरजनासाधारणं त्रुट्यद्रूपतया तस्य गोचरीभवतीति । अत एवार्थाकारो वस्तुतो न भावनामात्रजनित इति न विसंवादशङ्कापि । भावनया पुनस्तदीयसन्ताने नेत्र इवाञ्जनविशेषेण शक्तिरतिशयवती काचिदर्पिता यत्परजनासाधारणदर्शनमस्य । तस्मादनक्षजत्वेऽपि मनोविज्ञानस्यार्थसाक्षात्कारित्वं सम्भवति ।

ननु मनसो बहिरस्वातन्त्र्यम् । अन्यथान्धबधिराद्यभावप्रसङ्गात् । उक्तंच योगिनां धर्माधर्मयोरपरोक्षप्रतिभासं ज्ञानं नास्ति । इन्द्रियसन्निकर्षाभावादस्मदादिवदिति ।

अपि च, अर्थस्य हि आलम्बनप्रत्ययत्वमिन्द्रियापेक्षत्वेन व्याप्तम् । तच्चास्मात्स्वविरुद्धोपलब्ध्या व्यावर्तमानमालम्बनप्रत्ययतामपि तस्य निवर्तयति । न खल्विन्धनविशेषो धूमहेतुरिति विनापि दहनं सहस्रेणापि संस्कारैर्धूममाधत्ते । तदाधाने समस्तकार्यहेतुकानुमानोच्छेदप्रसङ्गः । न च भावनाबलेन कस्यचिदतीन्द्रियदर्शित्वं सर्वज्ञत्वं वा दृष्टमिति चेत् ।

अत्रोच्यते । मनःशब्देन तावदस्माकमनक्षजं विज्ञानमेवाभिप्रेतम् । न चास्मिन्नन्धबधिराद्यभावप्रसङ्गः । सर्वाविद्याप्रतिपक्षभूतार्थभावनालक्षणस्य सहकारिविशेषस्यान्धादीनामभावात् । इन्द्रियसन्निकर्षाभावादिति त्वर्थसाक्षात्कारित्वमात्रापेक्षया सन्दिग्धव्यतिरेकित्वे अनैकान्तिकी कारणानुपलब्धिः । अस्मद्विधार्थसाक्षात्कारित्वापेक्षया पुनः सिद्धसाधनम् ॥

अस्मदादिविशेषणशून्यस्यार्थसाक्षात्कारित्वमात्रस्यैवेन्द्रियाधीनत्वदर्शनादनैकान्तिकत्वमसंभवीति चेत् । यद्येवमर्थसाक्षात्कारित्वमात्रस्येन्द्रियवदालोकाधीनत्वमुपलब्धमिति न सन्तमसे पश्येयुरुलूकादयः । अथ व्यभिचारदर्शनादालोकस्याव्यापकत्वम्, व्यभिचारशङ्कया तर्हीन्द्रियस्याप्यव्यापकत्वम् । व्याप्त्या शङ्का खण्ड्यत इति चेत् । शङ्कासंभवाद्व्याप्तिरेवासंभविनी । यदि हि प्रथमत एव व्याप्तिः, व्यभिचारोऽपि न दृश्येत ।

(निबन्ध्१८)
तस्माद्व्यभिचारदर्शनं व्याप्तिशैथिल्यादेव । सति च व्याप्तिशैथिल्ये शङ्कापि न्यायादापतन्ती केन प्रतिहन्यते । उलूकादीनां भिन्नजातीयत्वादालोकाभावेऽप्यर्थसाक्षात्कारित्वमस्त्विति चेत् । तर्हि भगवतोऽपि भूतार्थभावनाप्रकर्षपर्यन्तमहाप्रलयवायुना निरस्तानाद्यविद्याविपक्षस्य संसारकूपपतितेभ्यः प्राणिभ्योऽस्त्येवाद्भुतवैजात्यमिति युक्तमस्याविद्याप्रतिपक्षभावनातिशयसहितात्मकानन्तरप्रत्ययादालम्बनप्रत्ययाच्च साक्षादुत्पन्नस्येन्द्रियमन्तरेणार्थसाक्षात्कारित्वम् । अतः कारणानुपलब्धिः काशिकाकारस्य व्यापकविरुद्धोपलब्धिश्च वाचस्पतेः सन्दिग्धव्यतिरेकित्वादनैकान्तिकी । सन्दिग्धव्यतिरेकित्वं तु दूषणमस्मदीश्वरदूषणे प्रसाधितम् ॥

तस्मात्साधारणकर्मनिर्जातानामस्मदादीनामर्थसाक्षात्कारित्वमिन्द्रियापेक्षत्वेन व्याप्तमिति सिद्धसाधनम् । प्रसिद्धानुमानस्य च न क्षतिर्दृश्यत्वोपाधेर्धूमादेः प्रत्यक्षानुपलम्भतो व्याप्तिग्रहणाविरोधात् । सांसारिकागोचरार्थसाक्षात्कारित्वमात्रापेक्षया तु सन्दिग्धव्यतिरेकित्वम् । अदृश्यस्य प्रत्यक्षानुपलम्भाभ्यां केनचिद्व्याप्तिग्रहणायोगात् । विपर्यये बाधकप्रमाणस्य चासंभवादिति । न चतीन्द्रियदर्शित्वं सर्वज्ञत्वं वादर्शनेऽपि निषेद्धुं शक्यते, अदृश्यानुपलम्भतो निषेधायोगात् । कारणानुपलम्भतस्तन्निषेध इति चेत् । कारणाभावोऽपि अदर्शनमात्रतो न सिध्यतीति तदवस्थः परिभवः ॥

यदपि काशिकाकारेणाभिहितम्, अथ प्रमाणान्तरावगतं भाव्यते, कि भावनया, तत एव तत्सिद्धेरिति । तदप्यसंगतम् । प्रमाणान्तरं ह्यनुमानम् । न च चतुरार्यसत्यस्वरूपे वस्तुतत्त्वे निश्चिते साक्षात्कारमन्तरेण क्लेशज्ञेयावरणक्षतिरिति स्वार्थमपि तावद्भावना युक्तिमती । तत्त्वसाक्षात्कारिणि च चित्तसन्ताने सति शक्यसाक्षात्क्रियमिदमित्यन्येऽपि निश्चयानन्तरं साक्षात्क्रियायै प्रवर्त्यन्ते, तदुपदिष्ट स्वर्गसाधनं चार्थभावनयानुसरन्तीति स्वर्गापवर्गलक्षणपरार्थसिद्धये च भावना सफलेति । अन्यथा तत्त्वासाक्षात्कारिणो लोकानतिक्रान्तस्य वचनमनादेयमेव स्यादिति क्व परार्थवार्तापि । यच्च किं च तत्प्रमाणमित्याद्यारभ्य तस्माद्भूतमभूतं वेति एतत्पर्यन्तेन धर्माधर्मयोरनुमानाप्रवर्तनमुक्तम्, तत्र धर्माधर्मशब्देन किमभिप्रेतम् । यदि क्षणिकनिरात्मकवस्तु तत्त्वम्, तदा तस्य प्रत्यक्षेणानिश्चयेऽपि यथा विपर्यये बाधकप्रमाणबलेन व्याप्तिसंवेदनं तथा क्षणभङ्गसाधनावसरे व्यवस्थापितम् । अथ वस्तूनां स्वर्गादिसाधनत्वमभिप्रेतम्, तदा तद्विषयपरिज्ञानाप्रसाधनेऽपि नास्माकं काचित्क्षतिः । सपरिकरसंसारनिर्वाणपरिज्ञानेनैवोपयुक्तसर्वज्ञप्रसाधनात् । यदाहुः

हेयोपादेयतत्त्वस्येत्यादि ।

यदपि, अपि च भावनाबलजं गृहीतग्रहणादप्रमाणमित्युक्तम्, तत्र गृहीतं नाम प्रत्यक्षेणानुमानेन वा । प्रमाणान्तरस्याभावात् । न तावत्प्रत्यक्षं क्षणिकत्वादावर्वाचीनस्य (निबन्ध्१९) कस्यचिदस्ति । अनुमानेन चैकव्यावृत्तिविशिष्टे वस्तुतत्त्वेऽवसितेऽपि सर्वात्मना स्पष्टवस्तुतत्त्वसाक्षात्कारि प्रत्यक्षं न गृहीतग्राहि, अनुमानेन वस्तुतत्त्वास्पर्शनात् । न च तदुत्तरकालमित्यादि तु कारणानुपलब्धिदूषणप्रस्तावे प्रतिव्यूढमिति ।

यदपि वाचस्पतिना सत्यमित्यादिना पुनः पुनरुत्तरोत्तरमाशङ्कय तत्किमनुमानेन वह्नि व्यवस्थाप्येत्यादिना भावनाबलजस्यानुमानपूर्वकत्वे विसंवादमुपदर्श्योपसंहृतम्, तन्न भावनाया भूतार्थत्वं तज्जविशदविज्ञानप्रामाण्यहेतुः, व्यभिचारादिति । तदसङ्गतम् । तथा ह्ययं वह्निविषयेनुमानपूर्वकभावनाबलतः स्पष्टवह्निप्रत्ययः किं वह्नेरप्युत्पन्नः, तथाभूतभावनामात्रादेव वा ।

प्रथमपक्षे विसंवादश्च बहुलमुपलभ्यते इति यदुक्तं तद्दुर्भाषितम् । साक्षादर्थादुत्पन्नस्यापि विसंवादसंभवेऽन्यस्यापि प्रत्यक्षस्य हस्तकत्यागप्रसङ्गात् ।

द्वितीयपक्षे तु भावनाप्रकर्षमात्रजस्यार्थादनुत्पन्नस्य बहुलं विसंवादोपलम्भेऽपि भावनार्थाभ्यां साक्षादुत्पन्नस्य योगिप्रत्यक्षस्यापि विसंवादसंभव इति स्थवीयसी भ्रान्तिः ।

ननु यदीन्द्रियं विनापि भावनार्थाभ्यां योगिज्ञानमुत्पद्यते, तर्हि पर्वते भावनावह्निभ्यां वह्निज्ञानमुत्पद्यतामविसंवादि । विसंवादश्च बहुलमुपलभ्यत इति चेत् । न । साक्षाद्वह्नेरुत्पादे सति विसंवादाभावात् । केवलमुत्पाद एव दुरापः । न हि वयं प्रमाणदृष्टवस्तुभावनासहितं मनैन्द्रियमर्थस्वरूपग्राहिज्ञानं जनयतीति ब्रूमः, अपि त्वसद्दृष्टिलक्षणाविद्यापरिपन्थिक्षणिकनैरात्म्यलक्षणसर्ववस्तुतत्त्वभावनासहितम् । न च वह्नित्वं सर्ववस्तुतत्त्वम्, किं तु क्षणिकनैरात्म्यमेवेति क्षणभङ्गप्रसाधनतः प्रतिपादितमिति । किं च स्वमनीषापरिकल्पितः खल्वयमनुइमितभावितवह्निविषयविशदः प्रत्ययः । न पुनरस्य लोके संभवः । तथा हि निष्प्रयोजनमनुन्मत्तो न कश्चिद्भावयति । प्रयोजनं च शिशिरभरमन्थरकायकाण्डस्यापि दाहादिमात्रमेव, तच्चानुमितेनैव वह्निना तद्देशोपसर्पणात्सिध्यति । अनुपसर्पणे भावनावैयर्थ्यम् । पुरस्तात्तु भाविते परिस्फुरति तदर्थापेक्षया भ्रान्तिः प्रासर्पकस्येवेत्याद्युपहास्यमप्यस्य क्षतात्मनो दुर्नीतिपूतिगवीभक्षणाध्मातजरद्गोमायोरुद्गार इव सतामसह्यः ।

यदपि ततोऽनन्तरमाशङ्कयार्थस्यालम्बनप्रत्ययत्वमिन्द्रियापेक्षित्वेन व्याप्तमिति प्रसाधितम्, तत्पूर्वमेव प्रत्युक्तम् । तथा भावनायाश्चेत्याद्याशङ्कयार्थस्यालम्बनप्रत्ययत्वमशक्यावगममिति यदुक्तं तदप्यसम्बद्धम् ।

चक्षुरिन्द्रियस्याप्यर्थमन्तरेण द्विचन्द्रकेशोण्डुकादौ विशदभ्रान्तज्ञानजननसामर्थ्यमुपलब्धमित्यर्थसहितमपि केवलमेव समर्थम् । अतो घटादेरप्यालम्बनप्रत्ययत्वमशक्यावगममिति इन्द्रियप्रत्यक्षमपि प्रतिहतं स्यादिति । तथा, अपि (निबन्ध्२०) चालम्बनप्रत्यया अपि त एव युज्यन्त इत्यादिर्न पुनर्विकल्पनिर्माणप्रतिबन्धतेति पर्यन्तो व्यर्थः । अस्माभिरेवंविधस्य प्रस्तुतेऽनभ्युपगतत्वात् । अत एव तस्माद्भावनाप्रकर्षमात्रजत्वात्, अर्थाव्यभिचारनियमाभावात्, विशदाभमपि संशयाक्रान्तत्वात्, अप्रमाणमप्रत्यक्षं चेति साम्प्रतमित्युपसंहारोऽपि धिक्कारः । सर्वेषामेव हेतूनामसिद्धत्वात् । भावनाबलजस्यार्थादप्युत्पत्तेरिन्द्रियप्रत्यक्षवत् । सदर्थप्रकाशनं बुद्धेः स्वभाव इत्याद्यस्माकमपि मनोहरम् । भावनायाश्च सामान्येन स्फुटाभज्ञानहेतुत्वं साध्यते । प्रमाणोपपन्नचतुरार्यसत्यविषयनिष्ठायां तु सामर्थ्यात्प्रत्यक्षप्रमाणहेतुतापि साध्यते । अत एव कामिनीप्रतिभासस्याप्रमाणत्वेऽप्यप्रत्यक्षत्वेऽपि स्फुटाभत्वस्य साध्यधर्मसामान्यस्य संभवात्न विरुद्धो हेतुः । नापि दृष्टान्तस्य साध्यशून्यतेति । न च नैरात्म्यदृष्टिः संभवद्बाधा, अर्थादुत्पत्तेरभूतार्थत्वाभावात् ।

श्रुतानुमितविषयं प्रत्यक्षं न संभवतोत्यप्ययुक्तम् । आगमानुमानयोर्द्विविधो विषयः ग्राह्योऽध्यवसेयश्च । तत्र ग्राह्यः स्वाकारः, अध्यवसेयस्तु पारमार्थिकवस्तुस्वलक्षणात्मा । अस्य च परोक्षत्वेऽनुमानसामग्रीसंभवेऽनुमानविषयत्वम्, प्रत्यक्षसामग्रीसंभवे च क्रमेण प्रत्यक्षविषयत्वं दृष्टमेव । तत्सिद्धमित्याद्युपसंहारोऽपि पर्याकुल एव । अप्रमाणत्वादिति हेतुश्च प्रथमोऽसिद्धः । भावनाबलजस्यार्थादप्युत्पत्तेः, प्रमाणशक्तिसंभवात्, इन्द्रियप्रत्यक्षवत् । भावनाबलजत्वादिति द्वितीयस्तु सन्दिग्धव्यतिरेकित्वादनैकान्तिकः । तथा यथानुमितभावितवह्निविषयविशदज्ञानमिति दृष्टान्तोऽप्यसंभवीति प्रतिपादितम् । भवतु वा, तथापि योगिज्ञानस्य तेन सह तुल्यहेतुत्वमसिद्धम् । तद्धि प्रमाणदृष्टवस्तुभावनामात्रजम् । योगिज्ञानं तु अविद्याप्रतिपक्षसर्ववस्तुतत्त्वभावनाविषयाभ्यामुत्पन्नमिति महान्तमपि विशेषमसौ दुर्मतिप्रपातपतितो नावगाहत इत्युपेक्षणीयः ॥

न्यायप्रकीर्णे तु मार्गस्तावत्प्रमाणपरिशुद्धो न भवतीत्युक्तं यत्, तत्तत्प्रसाधकप्रमाणेनैव प्रत्युक्तम् ।

यच्चापि चेत्याद्यारभ्य योगिज्ञानं निर्विषयं प्रसक्तमित्युक्तं तत्र केयं निर्विषयता नाम । किं विकल्पाकारनिवृत्तौ निराकारता, अर्थाकाराद्विसदृशाकारता, अथ तदाकारत्वेऽपि तद्वस्तुसंस्पर्शिता ।

न तावत्प्रथमः पक्षः क्षमः । ज्ञानस्य निराकारतानुपपत्तेः ।
नापि द्वितीयः । कामिन्यादिभावनायास्तदाकारस्यैव विशदस्य दर्शनात् ।
न च तृतीयः । अर्थसमर्पिताकारसंस्पर्शमपास्यान्यस्यार्थसंस्पर्शस्यायोगात् ।
तथा चोक्तम्

अर्थेन घटयत्येनामित्यादि ।

तयोश्चैकत्वेनाध्यवसायाद्बाह्य एव प्रवृत्तिनिवृत्ती, व्यावहारिकस्य स्फुटीभावोऽपि बहिरभिमतस्य पर्यन्ते विकल्पोपादेयक्षणस्यैव स्फुटस्योदयः । तावतैव स (निबन्ध्२१) विषयस्तेन साक्षात्कृत इति व्यवहारः केवलमर्थादप्युत्पत्तौ । अन्यथा व्यभिचारादप्रामाण्यम् । न च विकल्पोपदर्शितमपिः रूपमवस्तु ज्ञानात्मकत्वात् । अनात्मकत्वे प्रकाशायोगात् । तद्भावनैव चार्थभावना, तत्स्फुटीभाव एव बाहुअस्फुटीभावः, प्रकारान्तरेण बाह्यस्पर्शायोगात् । एतेन यत्पारमार्थिकमित्यादि न सर्वज्ञसिद्धिरितिपर्यन्तं प्रत्युक्तम् ।

यच्चापि चेत्यादि न युक्तं पश्याम इतिपर्यन्तेन दूषणमुक्तम्, तदप्यसंगतम् । तथा हि यादृश एव भाव्यग्राही प्रत्ययः प्रथमो निरन्वयो निरुद्धस्तादृश एवापर उत्पद्यत इति नियमनिश्चयकारणं न किञ्चिदस्ति चण्डदेवतास्पर्शादन्यत्, क्षणिकत्वादिति चेत् । ननु क्षणिकत्वं स्थायितया विरुध्यते न विसदृशोत्पादेन, तद्धि प्राचीनं निरन्वयनिरोधे यथा सदृशक्षणान्तरमारभते तथा स्वहेतुगतसामर्थ्ययोगात्कार्योत्पादानुमेयाद्यदि विशेषलेशविशिष्टं क्षणान्तरमुत्पादयति, तदा न काचित्क्षतिः । न हि भवत इव भावस्यापि क्षणिकतायां प्रद्वेषो नाम । तस्मान्न क्षणिकत्वोत्तरविशिष्टक्षणजनकत्वयोर्विरोध इति नापार्थकोऽभ्यासः ।

यच्चेदं किञ्चेत्यादिना क्षणिकत्वे चित्तमविक्षिप्तमावेदितम्, तदप्यसाधु । नैरात्म्यादितत्त्वपरा(ङ्) मुखस्य सर्वस्यैव विक्षिप्तत्वात् । भावनाबलेन तत्त्वसाक्षात्कारिणः समाहितत्वात् । अथ च तत्त्वसाक्षात्क्रियालाभात्ग्राहकाकारावग्रह संभवात्(च) व्यावहारिकमपि विक्षिप्तमस्ति चित्तम् । यतो ममैव दोषक्षयो भावीति मार्गाम्यासप्रवृत्तिरभ्याहतेति । परमार्थतः प्राप्यादीनामभावेऽपि तत्संकल्पस्यैवानाद्यविद्याप्रभावितस्य सर्वत्र प्रवर्तकत्वात् । अत एव मार्गसत्याभ्यासात्सिद्धः सर्वज्ञः ।

न्यायभूषणस्यापि योगाचारापेक्षया दूषणमप्रस्तुतम् । बहिरर्थाम्युपगमेनैव साधनप्रक्रमात् । यच्चोक्तं तथाप्यतीतानागतविषयत्वं कथम्, न ह्यसतः कश्चिदाकारोऽस्तीति, तदेतत्प्रस्तावानवगाहनफलम् । उपयुक्तसर्वज्ञाधिकारेण हि सर्वक्षणिकनिरात्मकवस्तुभावनोपक्षेणः, न सर्वसर्वज्ञापेक्षया । ततोऽतीतानागतमप्रतीयमानमपि न बाधकम् । तावतैव दुःखनिरोधसिद्धेः । परस्मै च क्षणिकत्वादिनि(ष्ठ)कस्य देशनावतारात् । न च सर्वसर्वज्ञहस्तकत्यागः । तथा हि चतुरार्यसत्यसाक्षात्कारप्राप्तौ निरावरणान्तः करणस्य कारुण्यातिशयात्सर्वाकारपरार्थपरतया सकलगोचरचारिणि चेतसि चिरविरूढोत्साहस्य तादृगुपायविशेषाधिगमो भविष्यति, यमनुतिष्ठतस्तदुत्पत्तिमन्तरेणापि देवताधिपत्यात्सत्यस्वप्नवत् । प्रतिपरमाणुसर्वविषयं यथा देशकालाकारप्रत्यवस्थानुकारि स्फुटतरं ज्ञानमुदियात्, तदा न तावद्वस्तुव्यभिचारकृतं विसंवादित्वम्, वस्तूनामेव प्रतिभासनात् । उत्पत्तिसारूप्याभ्यां वेद्यस्थितिरिति तु पृथग्जनापेक्षया । योगिनस्तु सारूप्यमात्रेणैव ग्रहणमिति न्यायः ।

(निबन्ध्२२)
यद्वार्तिकम्

अविशुद्धधियः प्रति ।
ग्राह्यग्राहकचिन्तेयमचिन्त्या योगिनां गतिः ॥ इति ।

तदेवं भाविभूतयोरजनकयोरपि योगिज्ञाने स्फुरणमबाध्यम् । भाविभूतयोस्तर्हि यदि स्वरूपस्य स्फुरणम्, वर्तमानतैव स्यात् । अथ स्वरूपसन्निहितं ज्ञानमेव तदाकारमिति निरालम्बनं नियमेन । तदपि नास्ति । यस्मादसन्निहितेऽप्यर्थे भावनाबलात्तद्देशकालाकारानुकारि विज्ञानं कथमनालम्बनम् । तथात्वेनाध्यवसायाच्च, अध्यवसितकालविशिष्टस्यैव सत्यस्वप्नवत्तस्य प्राप्तेः ।

यद्भाष्यम्

यथा स दृष्टः शरदादिकालयुक्त स्तथा तस्य न बाधितत्वम् ।
तत्कालयुक्तस्तु न तेन दृष्ट स्तथाप्रतीतावपि नास्ति दोषः ॥

ज्ञानमात्रस्य तु तत्त्वतः स्फुरणाच्च न वर्तमानताप्रसङ्गः सङ्गतः । तथा क्षणिकत्वपक्षेऽपि एकत्वाध्यारोपसामर्थ्यान्न व्यवहारिकं प्रति प्रमाणस्य काचित्क्षतिरिति शास्त्रे प्रपञ्चितम् ।

यदपि किञ्चेदमपि वक्तुमुचितमित्याद्यारभ्य भावनाबलजस्यानुमानपूर्वकत्वेऽपि प्रत्यक्षपूर्वकत्वेऽपि व्यभिचाराभिधानम्, तदर्थादपि भावनाबलजस्य साक्षादुत्पत्तिस्वीकारादपहस्तितम् । यथेन्द्रियजस्यापि द्विचन्द्रादिज्ञानस्यार्थादनुत्पत्तेरप्रामाण्यम्, अर्थेन्द्रियाभ्यामुत्पत्तौ तु प्रामान्यमेवं प्रमाणपूर्वकस्यापि भावनामात्रादुत्पन्नस्याप्रामाण्यम्, भावनार्थाभ्यामुत्पन्नस्य तु प्रामाण्यम् ।

यदि योगिज्ञानस्यार्थादुत्पत्तिः, प्रमाणपूर्वकत्वापेक्षया न किञ्चत्प्रयोजनमिति चेत । न देशकालवस्तुविशेषमपास्य सामान्येन सर्वदिक्कालवर्तिवस्तुमात्रं क्षणिकनिरात्मकमित्यनिश्चये महाप्रयाससाध्यपुरुषायुषव्यापिन्यां भावनायामेव प्रवृत्तेरभावात् । न च हालिको हव्याशनमनुमाय स्फुटीकरोतियेन प्रत्यक्षान्तरत्वप्रसङ्गः । असामर्थ्यवैयर्थ्याभ्यां तदसंभवप्रतिपादनात् ।

यदप्युक्तं योगिनो ज्ञानमिन्द्रियज्ञानादभिन्नं भिन्नं वा । तत्र प्रथमपक्षे तावन्न वस्तुदोषः । तादृक्पुरुषविशेषस्य सिद्धत्वात् । व्यवस्थादूषणमपि नास्ति । साध्यतयैव तादॄग्दशाविशेषस्य लोकातिक्रान्तातिशयस्य परमपुरुषार्थरूपस्य साधनविशेषप्रतिपादनाय पृथग्जनसाधारणेन्द्रियज्ञानाद्भेदेन निर्देशात् । परमपुरुषार्थविषयत्वाभावादेव च रसायनादिसंस्कारजस्यापि ज्ञानस्य न प्रत्यक्षान्तरता । भेदपक्षेऽपि न तावत्स्थर्येतरस्फुरणकृतोपालम्भसंभवः । इन्द्रियज्ञानेनापि वस्तु (निबन्ध्२३) सर्वात्मना गृह्णता त्रुट्यद्रूपस्यैव ग्रहणात् । अध्यवसायो हि पूर्वं दुर्ल्लभः इदानीं तु भावनाबलनिर्दलिताविद्ये चित्तसन्ताने सोऽपीन्द्रियज्ञानेन जन्यत इति विशेषः ।

ननु योगिनो मनोविज्ञानेन्द्रियज्ञानाभ्यां पश्यत आकारद्वयस्फुरणप्रसङ्ग इति चेत् । सत्यम् । सत्यज्ञानाकारस्तावद्वस्तुनो न भिन्नदेशोऽन्यतरभ्रान्तिप्रसङ्गात् । अतस्तावाकारावप्रतिमौ कया गत्या स्फरत इति को निर्णेतुं क्षमः ।
यदाह

अचिन्त्या योगिनां गतिरिति ।

सर्वथा तु न योगिज्ञानस्य क्षतिरिति सिद्धम् । तदेवं कारणानुपलम्भादपि न सर्वज्ञताभावः ।

ननु यदि नाम युष्मदभिमतस्यानुमानस्य न बाधकम्, तथाप्यस्त्येवानुमानं बाधकम् । तथा हि शक्यमिदमभिधातुम्

सुगतोऽसर्वज्ञः ।

ज्ञेयत्वात्, प्रमेयत्वात्, सत्त्वात्, पुरुषत्वात्, वक्तृत्वात्, इन्द्रियादिमत्त्वादित्यादि ।

रथ्यापुरुषवत् ।

तथा च बृहट्टीका

यस्य ज्ञेयप्रमेयत्ववस्तुसत्त्वादिलक्षणाः ।
निहन्तुं हेतवः शक्ताः को नु तं कल्पयिष्यति ॥

कारिकापि

प्रत्यक्षाद्यविसंवादि प्रमेयत्वादि यस्य च ।
सद्भाववारणे शक्तं को नु तं कल्पयिष्यति ॥

अत्रोच्यते । किमेते ज्ञेयत्वादयः सर्वज्ञत्वेन साक्षाद्विरुद्धाः परम्परया वा । अविरुद्धविधाने प्रतिषेधायोगात् । स च साक्षाद्विरोध परस्परपरिहारस्थितिलक्षणो वा, भावाभाववत्; सहानवस्थानलक्षणो वा, दहनतुहिनवदिति ।

न तावदाद्यः पक्षः । यद्व्यवच्छेदनान्तरीयको यस्य परिच्छेदस्तयोरेव परस्परपरिहारस्थितिलक्षणो विरोधः । न च ज्ञेयत्वादि सर्वज्ञत्वव्यवच्छेदेन स्थितम् । किं तर्हि । अज्ञेयत्वादिव्यवच्छेदेन । तथा सर्वज्ञत्वमसर्वज्ञत्वव्यवच्छेदेन, न तु ज्ञेयत्वव्यवच्छेदेन ।

नापि द्वितीयो विरोधः । यस्य ह्यविकलकारणस्य भवतो यत्सन्निधानादभावस्तयोरेव सहानवस्थानलक्षणो विरोधः । न च सर्वज्ञत्वं प्राक्प्रवृत्तमविकलकारणं दृष्टं येन पश्चाज्ज्ञेयत्वादिसद्भावे निवर्तत इति स्यात् । तथात्वे सति देशादिनिषेद्य एव भवेन्न तु सर्वथोच्छेद इति ।

न च परम्परया विरोधः । स हि भवन्निषेध्यस्य सर्वज्ञत्वस्य व्यापकविरुद्धत्वात्, कारणविरुद्धत्वात्, कार्यविरुद्धत्वात्, स्वभावविरुद्धकार्यत्वात्, (निबन्ध्२४) व्यापकविरुद्धकार्यत्वात्, कारणविरुद्धकार्यत्वात्, कार्यविरुद्धकार्यत्वात्, स्वभावविरुद्धव्याप्तत्वात्, व्यापकविरुद्धव्याप्तत्वात्, कारणविरुद्धव्याप्तत्वात्, कार्यविरुद्धव्याप्तत्वाद्वा भवेद् । तत्र सर्वज्ञत्वस्यासत्त्वात्, व्यापककारणकार्याणामसिद्धेस्तद्विरुद्धकार्यव्याप्याभावात्न प्रमेयत्वादयः सर्वज्ञत्वेन परम्परयापि विरुद्धाः ।

ननु वक्तृत्वं विरुध्यत एव सर्वविषयनिर्विकल्पज्ञानविरुद्धविकल्पकार्यत्वाद्वक्तृत्वस्य । नैतद्युक्तम् । सविकल्पाविकल्पयोर्युगपदवृत्तेर्विकल्पकत्वेन सर्वज्ञस्याविरोधात् ।

कस्तर्हि पृथग्जनादस्य भेद इति चेत् । उच्यते । यथा मायाकारो निर्मिताश्वादिविषयं विज्ञानं निर्विषयत्वेन निश्चिन्वन्नभ्रान्तः, तदन्यस्माच्च श्रेष्ठः, तथा भगवानपि शुद्धलौकिकविकल्पसम्मुखीभावेऽपि न भ्रान्तो नापि पृथग्जनसमान इति । ततश्च निर्विकल्पकसर्वज्ञज्ञानविकल्पयोर्विरोधाभावाद्वक्तृत्वं सर्वज्ञत्वेन सहाविरुद्धमेव ॥

एतेनैदपि निरस्तं यदाह काशिकाकारः, समाधेर्व्युत्थायोपदेक्ष्यत इति चेत् । न । व्युत्थितस्य ह्यभिलापिनी प्रतीतिभ्रान्तभाषितमप्रमाणं भवेदिति ॥

यदप्युक्तं बृहट्टीकायाम्

यदा चोपदिशेदेकं किञ्चित्सामान्यवक्तृवत् ।
एकदेशज्ञगीतं तन्न स्यात्सर्वज्ञभाषितम् ॥

तदपि निरस्तम्, विकल्पेनैकस्य कस्यचिदामुखीकृत्वोपदेशेऽपि निर्विकल्पेन सर्वमवबुध्यमानस्य वचनानां सर्वज्ञभाषितत्वादेव ॥

यत्पुनः कारिकायामुक्तम्

सान्निध्यमात्रतस्तस्य पुंसश्चिन्तामणेरिव ।
निश्चरन्ति यथाकामं कुड्यादिभ्योऽपि देशनाः ॥
एवमाद्युच्यमानं हि श्रद्दधानस्य शोभते ।
कुड्यादिनिःसृतत्वात्तु नाश्वासो देशनासु नः ॥
किन्नु बुद्धप्रणोताः स्युः किंवा कैश्चिद्दुरात्मभिः ।
अदृश्यैर्विप्रलम्भार्थ पिशाचादिभिरीरिताः ॥

बृहट्टीकायामपि

तस्मिन् ध्यानसमाधिस्थे चिन्तारत्नवदास्थिते ।
निश्चरन्ति यथाकामं कुड्यादिभ्योऽपि देशनाः ॥
ताभिर्जिज्ञासितानर्थान् सर्वान् जानन्ति मानवाः ।
हितानि च यथायोगं क्षिप्रमासादयन्ति ते ॥
(निबन्ध्२५)
इत्यादि कीर्तमानं तु श्रद्दधानस्य शोभते ।
वयमश्रद्दधानास्तु ये युक्तीरर्थयामहे ॥
कुड्यादिनिःसृतानां च न स्यादाप्तोपदिष्टता ।
विश्वासश्च न तासु स्यात्केनैताः कीर्तिता इति ॥
किन्नु बुद्धप्रणीताः स्युः किं वा ब्राह्यणवञ्चकैः ।
क्रीडद्भिरुपदिष्टाः स्युर्दूरस्थप्रतिशब्दकैः ॥
किं वा क्षुद्रपिशाचाद्यैरदृष्टैः परिकल्पिताः ।
तस्मान्न तासु विश्वासः कर्तव्यः प्राज्ञमानिभिः ॥

एतदप्यनभ्युपगमेनैव निरस्तम् । शुद्धलौकिकविकल्पसंमुखीभावेनैव तस्य देशकत्वाभ्युपगमादिति ॥

अथ वा यथा चक्रस्योपरतेऽपि दण्डप्रेरणाव्यापारे पूर्वावेगवशाद्भ्रमणम् । एवं भगवति प्रत्यस्तमितसमस्तविकल्पजालेऽपि स्थिते यदि पूर्वप्रणिधानाहितसततानाभोगवाहिनी देशना स्यात्तदा को विरोधः । विवक्षाभावे कथं वचनप्रवृत्तिरिति न वक्तव्यम् । तदभावेऽपि निद्राणस्य तत्तत्प्रव्यक्तवचनसन्दर्शनात् । वचनमात्रस्य विवक्षया व्याप्तेरभावात् । तस्माद्यथा पूर्वाभ्यासतो झटिति प्रबोधितस्यारिणा प्रहारादिदानेनानुरूप एव प्रक्रमः शस्त्रोद्धरणादिकः, तथा सर्ववेदिनोपि सकलाः कलाः इत्यनाकुलम् ।

यदाहालङ्कारः

शत्रुसान्निध्यमात्रेण प्रवर्तन्तेऽविकल्पतः ।
प्रागेव तन्निराकारिप्रक्रमाः कोपनिर्मिताः ॥

यत्पुनरुक्तं पिशाचादिकृतशङ्कया नात्राश्वासः सतां युक्त इति । तदसङ्गतम्, यतः

संभिन्नालापहिंसादिकुत्सितार्थोपदर्शनम् ।
क्रीडाशीलपिशाचादेः कार्यं तासु न विद्यते ॥
प्रमाणद्वयसंवादि मतं तद्विषयेऽखिले ।
यस्य बाधा प्रमाणाभ्यामणीयस्यपि नेक्षते ॥
यथात्यन्तपरोक्षेऽपि न पूर्वापरबाधितम् ।
करुणादिगुणोत्पत्तेः सर्वपुंसां प्रवर्तकम् ॥
सर्वानुशयसंदोहप्रतिपक्षाभिधायकम् ।
निर्वाणनगरद्ष्वारकपाटपुटभेदनम् ॥
(निबन्ध्२६)
तच्चेत्क्रीडनशीलानां रक्षसां वा वचो भवेत् ।
त एव सन्तु संबुद्धाः सर्वतल्लक्षणस्थितेः ॥

न च नाम्नि विवादः । न च नामनिवृत्तौ वस्तु निवर्तते । प्रत्युत वेदस्यैव क्रीडनशीलपिशाचादिप्रणीतत्वं युक्तं संभावयितुम् । येन गोशवादिषु योगेष्वगम्यागमनादयोऽसत्यसमुदाचाराः संप्रकाशिताः । लोकप्रसिद्धिश्च

त्रयो वेदस्य कर्तारो मुनिभण्डनिशाचराः ।

इति अलमतिनिर्बन्धेन ॥

ननु सर्वज्ञत्वं वीतरागदित्वेन व्याप्तमिष्यते । तद्विरुद्धं च रागादियोगित्वम्, तत्कार्यं च वचनम् । तदेतद्व्यापकविरुद्धकार्यभूतं वचनं सर्वज्ञाभावं साधयति परम्परया विरुद्धत्वादिति चेत् । न । रागादीनां वचसश्च कार्यकारणभावासिद्धेः । तथा हि वचनविशेषो रागादिकार्यम्, यो रागेणैव जनितः, वचनमात्रं वा ।

तत्र न तावत्प्रथमः पक्षः । तादृशस्य वचनस्य निश्चयोपायासंभवात् । असभ्यमैथुनाचारप्रकाशकं वचनं तत्कार्यमिति चेत् । न । अभिप्रायस्य दुर्लक्ष्यत्वात् । विरक्तोऽपि रक्तवच्चेष्टते, रक्तोऽपि विरक्तवदित्यभिप्रायो दुर्बोधः । ततश्च विशिष्टव्यवहारस्य सांकर्येण न तत्रैकान्तेन रागानुमानं युज्यते । नापि वचनमात्रं रागादिकार्यम् । असंमुखीभूतरागादयोऽपि हि स्वाभिमतदेवतास्तुतिविधाने मात्रादिगुरुजनसंभाषणादौ च वचनमात्रमुच्चारयन्तः समुपलभ्यन्ते । न च यद्यदभावे भवति तस्य तत्कार्यतोच्यते, अतिप्रसङ्गात् । रागादियोग्यता तर्हि वचसः कारणम्, तया विनोपलखण्डलादौ वचनस्यादर्शनादिति चेन्न । करणगुणवक्तुकामते हि वचनस्य हेतुः । तदभावादेवोपलखण्डलादौ निवर्तते, न रागादियोग्यताया अभावात् । यदि कारणगुणादिसकलतदन्यकारणभावेऽपि रागादि योग्यताभावान्नोत्पद्यते वचनमिति सिध्येत्तस्याः कारणत्वम् । उपलखण्डलादौ तु वक्तुकामता नास्ति । तत्कथं तत्कारणत्वं वचसामिति । एवं तर्हि वक्तुकामतैव रागोऽस्तु । इष्टत्वान्न किञ्चिद्बाधितं स्यात्, नाम्नि विवादाभावात् । परमार्थतः पुनर्नित्यसुखात्मात्मीयदर्शनाक्षिप्तं साश्रवविषयं चेतसोऽभिष्वङ्गं रागमाहुः ।

निष्पन्नसर्वसम्पत्तेर्विवक्षापि न युज्यत इति चेत् । अदोषोऽयम्, परार्थत्वाद्विवक्षायाः । वीतरागेऽर्थासङ्गाभावात्कथं परार्थापि प्रवृत्तिरिति चेत् । न । आसङ्गमन्तरेण करुणयापि प्रवृत्तेः ।

सैव राग इति चेत् । इष्टत्वाददोषः ।

रागस्य तु स्वरूपमुक्तम् ।

कारुणिकस्यापि निष्फलारम्भो न युक्त इति चेत् । न । परार्थस्यैव फलत्वात् । इष्टलक्षणत्वात्फलस्येति यत्किञ्चिदेतत् ।

(निबन्ध्२७)
ननु निर्विकल्पस्य भगवतः कथं तस्यामवस्थायां करुणासंभवः । दुःखविकल्पप्रभवा हि करुणेत्यन्वयव्यतिरेकाभ्यामन्यत्वेन निश्चितम् ।

ततश्च कारणाभावात्कथं कार्यसंभव इति चेत् । न । यथा कुम्भकारनिवृत्तावपि स्वसन्तानमात्रभाविनी घटादिस्थितिस्तथोत्थापकविकल्पाभावेऽपि सम(न) न्तरप्रत्ययबलादनालम्बनकरुणाप्रवॄत्तेरवार्यत्वात् । यदाहुर्गुरवः

सत्तारोपकृतोऽपि भावनवशात्काठिन्यमापत्तथा
शैथिल्येऽपि यथास्य दुःखहतये सान्द्रस्तथैव श्रमः ।
उत्पादे तु फलस्य हेतुनियमो नो तु प्रबन्धस्थितौ
तस्माद्दुःखदृशः क्षयेऽपि विलसन्मैत्र्यादयेऽस्मै नमः ॥

एतेनैतदपि निरस्तं यदाह कारिकायाम्

रागादिरहिते चास्मिन्निर्व्यापारे व्यवस्थिते ।
देशनान्यप्रणीतैव स्यादृते प्रत्यवेक्षणात् ॥

ननु यदि नामैवं वक्तृत्वं सर्वज्ञत्वेन सहाविरुद्धं देहेन्द्रियबुद्ध्यादियोगित्वं तु विरुद्धमेव । सर्वज्ञताव्यापकवीतरागत्वविरुद्धरागादिकारणत्वाद्देहादीनाम् ।

ततश्च प्रतिषेध्यव्यापकविरुद्धकारणोपलम्भात्सर्वज्ञाभाव इति चेत् । उच्यते । देहादीनां हेतुत्वेऽपि नैषां केवलानां सहकारिमात्राणामात्माभिनिवेशलक्षणोपादानकारणविकलानां रागादिजनकत्वमित्यगमका एव देहादयः सर्वज्ञाभावस्य । तस्माज्ज्ञेयत्वादीनामप्यसामर्थ्यान्न परपरिकल्पितानुमानतोऽपि सर्वज्ञाभावः ।

नापि स्वविकल्पितं शाब्दादिकं भगवतो बाधकम् । तथा हि यद्यपि तेषां सति प्रामाण्येऽनुमान एवान्तर्भावः, अनन्तर्भावे चाप्रामाण्यमेवेति स्थूलं दूषणमस्ति, तथापि तत्प्रामाण्यमभ्युपगम्यापि ब्रूमः । यत्तावत्पौरुषेयवचनं तदप्रमाणमेव भवताम् । न च वैदिकं किञ्चिद्वचनं सर्वनरासर्वज्ञत्वप्रतिपादक मुपलभ्यते । प्रत्युत निमित्तनाम्नि शाखान्तरे स्फुटतरमेव सर्वज्ञः प्रतिपादितः । तथा हि


स वेत्ति विश्वं न च तस्य वेत्ता

इत्यादिना च सर्वज्ञो वेदे प्रतिपादितः ॥

नाप्युपमानात्तदभावः सिध्यति । तथा हि स्मर्यमाणमेव गवादिवस्तु पुरोवर्तिगवयादिसादृश्योपाधि गवाद्युपाधि वा सादृश्यमुपमानेन प्रतीयत इति स्थितिः । न च सर्वज्ञसन्तानवर्तीनि चेतांसि केनचित्सर्वज्ञेनानुभूतानि यतः स्मरणेन विषयीक्रियेरन्, परचित्तवित्तेरयोगात् ॥

(निबन्ध्२८)
यत्पुनरुक्तं कुमारिलेन

नरान् दृष्ट्वा त्वसर्वज्ञान् सर्वानेवाधुनातनान् ।
तत्सादृश्योपमानेन शेषासर्वज्ञनिश्चयः ॥

तदप्ययुक्तम्, अधुनातनसर्वनरासर्वज्ञत्वानिश्चयात् । निश्चये चात्मन्येव सर्वज्ञत्वाभ्युपगमप्रसङ्गात् ।

नाप्यर्थापत्तिर्बाधिका । यतो दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इति अदृष्टार्थंपरिकल्पनमर्थापत्तिरुच्यते । न चासर्वज्ञत्वमन्तरेण सर्वनरेषु कश्चिदर्थो दृष्टः श्रुतो वा नोपपद्यते यतस्तदर्थापत्त्या परिकल्प्येत । ननु संसारस्य तावदनादित्वं प्रमाणेन प्रतीतम् । तच्च न सर्वज्ञेन ज्ञायते, तज्ज्ञानावधेः परस्तादसत्त्वेऽनादिताक्षतिप्रसङ्गात्, तदन्यथानुपपद्यमानं सर्वभावानामनादित्वं सर्वज्ञाभावं साधयतीति चेत् ।

उच्यते । उपयुक्तसर्वज्ञापेक्षया तावदिदमदूषणम् । तस्यानादित्वाज्ञानेऽपि उपयुक्तसर्वज्ञत्वाव्याहतेः । सर्वसर्वज्ञस्याप्यभावे साध्येऽसमर्थेयमर्थापत्तिः । तथा हि यथा संसारस्यानादित्वे पूर्वपूर्ववस्तुसत्ताया अनवधित्वं तथा सर्वज्ञज्ञानस्यापि पूर्वपूर्ववस्तुसत्ताव्यापकत्वेनानवधिप्रसरता इति । अज्ञातस्यैकस्यापि वस्तुनोऽनवस्थितेः । सत्यपि सर्वज्ञेऽनादित्वमुपपद्यमानं न सर्वज्ञाभावमाक्षिपति । ततश्चार्थापत्तिरपि न सर्वज्ञस्य बाधिका ।

न चाभावप्रमाणबाध्यः सर्वज्ञः । प्रमाणपञ्चकनिवृत्तिरभावप्रमाणमिष्यते । तत्र निवृत्तिरिति प्रसज्यवृत्त्या प्रमाणानुत्पत्तिमात्रमभिप्रेतम्, अथ वा पर्युदासवृत्त्या वस्त्वन्तरम्, वस्त्वन्तरमपि जडरूपं ज्ञानरूपं वा, ज्ञानमपि ज्ञानमात्रम्, एकज्ञानसंसर्गिवस्तुज्ञानं वेति विकल्पाः ।

तत्र न तावन्निवृत्तिमात्रभावप्रमाणमुपपद्यते । तत्खलु निखिलशक्तिविकलतया न किञ्चित् । यच्च न किञ्चित्तत्कथं प्रमेयं परिच्छिन्द्यात्, तद्विषयं वा विज्ञानं जनयेत्, प्रतीतं वा तत्कथमिति सर्वमन्धकारनर्तनम् । यथोक्तम्

न ह्यभावः कस्यचित्प्रतिपत्तिः प्रतिपत्तिहेतुर्वा । तस्यापि वा कथं प्रतिपत्तिरिति ।

नापि वस्त्वन्तरतापक्षे जडरूपः प्रमाणाभावः संगच्छते, तस्य प्रमेयपरिच्छेदायोगात् । परिच्छेदस्य ज्ञानधर्मत्वात् । नापि ज्ञानमात्रस्वभावोऽभावः । देशकालस्वभावविप्रकृष्टस्यापि ततोऽभावप्रसङ्गात् । तदपेक्षयापि विज्ञानमात्रत्वात्तस्य । अथैकज्ञानसंसर्गिस्वभावोऽनुमन्यते, तदा क्षतमभावप्रमाणप्रत्याशया, अध्यक्षविशेषस्यैवाभावप्रमाणनामकरणात् । तस्य चास्माभिर्दृश्यानुपलम्भाख्यसाधनत्वेन स्वीकृतत्वात् । दृश्यानुपलम्भश्च भगवदभावसाधनेऽसमर्थ इति पूर्वमेवावेदितम् ।

(निबन्ध्२९)
किं च, कः पुनरयं प्रमाणाभावोऽभिमतो भवताम् । स्वप्रमाणगणनिवृत्तिरथ सर्वप्राणिगणप्रमाणनिवृत्तिः । तत्र स्वप्रमाणगणनिवृत्तिर्व्यभिचारिणी, तस्यां सत्यामपि व्यवहितस्यार्थस्यान पह्नवत्वात् । परप्रमाणनिवृत्तिस्त्वसर्वविदोऽसिद्धा ।
यदाह

सर्वादृष्टिश्च सन्दिग्धा स्वादृष्टिर्व्यभिचारिणी ।
विन्ध्याद्रिरन्ध्रदूर्वादेरदृष्टावपि सत्त्वतः ॥ इति ॥

तदेवं नाभावप्रमाणतोऽपि सर्वज्ञनिषेध इति स्थितम् ॥

ननु तथापि सद्व्यवहारार्थं साधकमप्यस्य न विद्यते ।
तथा हि सर्वविदोऽतीन्द्रियत्वात्न तावदस्मदादिप्रत्यक्षमस्य साधकम् । यथा चास्माभिरसौ नोपलभ्यते तथास्मज्जातीयैरप्यप्रत्यक्षस्वभावनियमात् । न चायं कालान्तरेऽभूदिति च कल्पना युज्यते । यथा हि कालत्वादिदानीन्तनकालवदिति अनेनानुमानेन निराकर्तुं शक्यते, न तथा साधयितुम् ।

कारिका

सर्वज्ञकल्पना त्वन्यैर्वेदे वापौरुषेयता ।
तुल्यवत्कल्प्यते येन तेनेदंसंप्रधार्यते ॥
सर्वज्ञो दृश्यते तवन्नेदानीमस्मदादिभिः ।
निराकरणवच्छक्या न चासीदिति कल्पना ॥ इति ॥

नाप्यनुमानतः सर्वज्ञसिद्धिः । तत्प्रतिबद्धलिङ्गानिश्चयात् ।

किं च सर्वज्ञसत्तासाधने सर्वो हेतुः त्रयीं दोषजातिं नातिवर्तते असिद्धत्वं विरुद्धत्वमनैकान्तिकत्वं चेति । तथा हि सर्वज्ञे धर्मिणि क्रियमाणे न तद्धर्मो हेतुः सिद्धः । तस्यैव धर्मिणः साध्यत्वेनासिद्धत्वात् । सिद्धौ वा वैयर्थ्यप्रसङ्गात् । असर्वज्ञे धर्मिणि न सर्वज्ञसिद्धिः । हेतोः सर्वज्ञविपरीतसाधनत्वेन विरुद्धत्वात् । नापि सर्वज्ञासर्वज्ञधर्मो हेतुः । तस्यानैकान्तिकत्वात् । तस्मान्नानुमानतोऽपि सर्वज्ञसिद्धिः ।

कारिका

दृष्टो न चैकदेशोऽस्ति लिङ्गं यो वानुमापयेत् । इति ॥

नाप्यागमगम्यः । आगमो हि द्विविधः पौरुषेयो नित्यश्च । तत्र पौरुषेयोप्यागमः तदीयो वा तत्र प्रमाणम्, नरान्तरप्रणीतो वा । न तावत्तदीयः । अन्योऽन्यसंश्रयापत्तेः । तथा ह्यागमस्य सर्वज्ञोक्तत्वे प्रामाण्यम् । अस्य च प्रामाण्ये सत्यस्मात्सर्वज्ञसिद्धिरिति । नरान्तरप्रणीतस्तु प्रमाणत्वेनानभिमत एवेत्यतोऽपि न सर्वज्ञसिद्धिः ॥

(निबन्ध्३०)
किं च सर्वज्ञप्रणीताद्वचनात्सर्वज्ञसिद्धौ किमपराद्धं स्ववचनेन येनातोऽप्यसौ न गम्येत । नापि नित्यागमगम्यः सर्वज्ञः, तथाविधस्य सर्वज्ञप्रतिपादकस्य नित्यागमस्याभावात् । यच्चोपनिषदादौ सर्वज्ञप्रतिपादकवाक्यं तस्यान्यार्थत्वं द्रष्टव्यम् । न च नित्यवाक्यस्यानित्यसर्वज्ञत्वप्रतिपादकत्वम्, निर्विषयत्वप्रसङ्गात् ।

किं च यद्यङ्गीकृतो नित्यागमः, किं सर्वज्ञकल्पनया, नित्य एवागमो धर्मे प्रमाणं भविष्यति ।

कारिका

न चागमेन सर्वज्ञस्तदीयेऽन्योन्यसंश्रयात् ।
नरान्तरप्रणीतस्य प्रामाण्यं गम्यते कथम् ॥
न चाप्येवं परो नित्यः शक्यो लब्धुमिहागमः ।
दृष्टश्चेदर्थवादत्वं तत्परे स्यादनित्यता ॥
आगमस्य च नित्यत्वे सिद्धे तत्कल्पना वृथा ।
यतस्तं प्रतिपत्स्यन्ते धर्ममेव ततो नराः ।

बृहट्टीकापि

न चागमविधिः कश्चिन्नित्यः सर्वज्ञबोधकः ।

इत्यादि सप्तचत्वारिंशत्श्लोकाः सप्रपञ्चमेतमर्थं प्रतिपादयन्ति । तदेवमागमतोऽपि न सर्वज्ञसिद्धिः ।

नाप्युपमानप्रमाणसमधिगम्यः । उपमानं हि सदृशग्रहणनान्तरीयकप्रवृत्तिक मसन्निकृष्टार्थगोचरम् । यथा गवयग्रहणद्वारेण गोः स्मरणम् । न च सर्वज्ञसदृशः कश्चिदस्ति ।

कारिका

सर्वज्ञसदृशं कञ्चिद्यदि पश्येम सम्प्रति ।
उपमानेन सर्वज्ञं जानीयामस्ततो वयम् ॥

नाप्यर्थापत्तितः सर्वज्ञसिद्धिः । दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यते इति अदॄष्टार्थपरिकल्पनमर्थापत्तिलक्षणम् । न चात्र प्रमाणप्रतीतं किञ्चिद्वस्त्वस्ति यत्सर्वज्ञमन्तरेणानुपपद्यमानं तत्सत्तामुपनयेत् । तन्नार्थापत्तिरपि सर्वज्ञसाधनी ।

न च प्रमाणपञ्चकाभावस्वभावादभावप्रमाणादस्य सिद्धिः, वस्त्वभावसाधनत्वादस्य । प्रत्युतायमेवास्याभावं साधयतीति प्रतिपादितम् । यदपीदं कारिकाबृहट्टीकयोरेकषष्ट्या श्लोकैः सर्वज्ञसिद्धये बौद्धस्य साधनमाशङ्कय दूषितं तदपि घृणाकरमिति ग्रन्थविस्तरभयान्न लिखितम् ।

(निबन्ध्३१)
तथा ह्येतानि किल सौगतैः सर्वज्ञसाधनाय साधनान्यभिधीयन्ते
सर्वज्ञोऽस्तीति सत्यम्,

सर्वज्ञोक्तत्वात्, धर्माभ्युपदेशकत्वात्, बुद्धः सर्वज्ञ इति चिरप्रवृत्तदृढस्मृतेः, प्रथमतरमशेषशिष्यजनवर्गस्यानेकविधचित्तचैत्तादिपरिज्ञानात्, सकलपदार्थराशितत्त्वोपदेशादिति ॥

तस्मात्स्थितमेतत्नातीन्द्रियदर्शी साक्षादस्ति, अपि तु नित्यवचनद्वारेणैव तस्य दर्शनमिति । तदेवं सर्वथा सर्वज्ञसाधकप्रमाणासभवादयुक्तो बौद्धानां सर्वज्ञे सद्व्यवहार इति ॥

अत्रोच्यते । अनुमानादन्यतोऽसिद्धौ सिद्धसाधनम् । अनुमानादपीत्यसिद्धम्, अनुमानस्य पूर्वमुक्तत्वात् । तत्प्रतिबद्धलिङ्गानिश्चयादित्यादिदूषणप्रबन्धोऽपि प्रतिव्यूढ इत्युपयुक्तसर्वज्ञस्तावत्त्रैलोक्यालोकः सिद्धः ।

सर्वसर्वज्ञपक्षेऽपीदं साधनम् ।

यत्प्रमाणसंवादिनिश्चितार्थवचनं तत्साक्षात्परम्परा(वा) तदर्थसाक्षात्कारिज्ञानपूर्वकम् ।

यथा दहनो दाहक इति वचनम् ।

प्रमाणसंवादि निश्चितार्थवचनं चेदम् ।

क्षणिकाः सर्वज्ञसंस्कारा इत्यर्थतः कार्यहेतुः । नास्यासिद्धिः, सर्वभावक्षणभङ्गप्रसाधनादस्य वचनस्य सत्यार्थत्वात् । नापि विरोधः, सपक्षे भावात् । न चानैकान्तिकः, वचनमात्रस्य संशयविपर्यासपूर्वकत्वेऽपि प्रमाणनिश्चितार्थवचनस्य साक्षात्पारम्पर्येण तदर्थसाक्षात्कारिज्ञानपूर्वकत्वात् । अन्यथा नियमेन प्रमाणसंवादायोगात् ॥

अयं च भाष्यकारीयः सर्वसर्वज्ञप्रसाधकप्रयोगः पण्डितजितारिभिः प्रपञ्चित इति तत एव प्रचयतोऽबधार्य इति ।

दौर्वारप्रतिवादिविक्रममनादृत्य प्रमाप्रौढितः
सर्वज्ञो जगदेकचक्षुरुदगादेष प्रभावोऽत्र च । संबुद्धस्थितिमेदिनीकुलगिरेरस्मद्गुरोः किन्त्वयं
संक्षेपो मम रत्नकीर्तिकृतिनस्तद्विस्तरत्रासिनः ॥
विश्वमस्तु शुभादस्माद्यथेच्छं रतिमन्मथः ।
मञ्जुवज्रश्च पर्यन्ते तत्पादं सत्फलप्रदम् ॥
अहञ्च मञ्जुवज्रः स्यां मञ्जुघोषोऽथ मञ्जुवाक् ।
मञ्जुश्रीर्व(आ) दिराण्मञ्जुकुमारो जिनधूर्धरः ॥

॥ सर्वज्ञसिद्धिःसमाप्ता ॥

(निबन्ध्३२)
॥ २ ॥
॥ ईश्वरसाधनदूषणम् ॥

ओं नमस्तारायै ।

सूक्तरत्नाश्रयत्वेन जितरत्नाकरादिदम् ।
गुरोर्वागम्बुधेः स्मर्तुं किञ्चिदाकृष्य लिख्यते ॥
रीतिः सुधानिधिरियं सत्तमे मध्यवर्तिनि ।
विद्वेषिणि विषज्वाला किञ्चिज्ज्ञे तु न किञ्चन ॥

इहैते नैयायिकादयो विवादपदस्य क्षितिधरादेः स्वरूपोपादानोपकरणसंप्रदानप्रयोजनविभागप्रवीणं सर्वज्ञतादिगुणविशिष्टं पुरुषविशेषमिच्छन्ति । यदाहुः

एको विभुः सर्वविदेकबुद्धिसमाश्रयः शाश्वत ईश्वराख्यः ।
प्रमाणमिष्टो जगतो विधाता स्वर्गापवर्गार्थिभिरर्थनीयः ॥ इति ॥

स च कथं सिध्यतीति पर्यनुयुक्ताः साधनमिदमाचक्षते ।

विवादाध्यासितं बुद्धिमद्धेतुकम् ।

कार्यत्वात् ।

यत्कार्यं तद्बुद्धिमद्धेतुकम् । यथा घटः ।

कार्यं चेदम् ।

तस्माद्बुद्धिमद्धेतुकमिति ।

हेतोः परोक्षार्थप्रतिपादकत्वमनुभूतेषु हेत्वाभासेषु न शक्यमावेदयितुम् । हेत्वाभासाश्च पञ्च । यथोक्तम्

सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला इति ।

तत्र न तावदयं साध्यसमो हेतुः । असिद्धो हि साध्यसमः कथ्यते । स च संक्षेपतो विभज्यमानो द्विधा व्यवतिष्ठते । आश्रयासिद्धत्वाद्वासिद्धो यथा सुरभि गगनारविन्दमरविन्दत्वादिति । सत्यपि चाश्रये प्रमाणेन संबन्धासिद्धेरसिद्धो (निबन्ध्३३) यथा अनित्यः शब्दः सावयवत्वादिति । न चाभ्यां प्रकाराभ्यां प्रस्तुतस्य हेतोरसिद्धिरस्ति । क्ष्मारुहादौ धर्मिणि प्रमाणसमधिगते कार्यत्वस्य साधनस्य प्रमाणप्रतीतत्वात् । चिरोत्पन्नपर्वतादौ च धर्मिणि कार्यत्वं सावयवत्वेन हेतुना बोद्धव्यम् । तद्यथा

विवादपदं कार्यम् ।

सावयवत्वात् ।

यत्सावयवं तत्कार्यम् । यथा वस्त्रम् ।

तथा चेदम् ।

तस्मात्कार्यमिति ।

ननु सावयवत्वेन हेतुना द्रव्याणामेव कार्यत्वं सिध्यति । न तु तत्समवेतानां गुणकर्मादीनाम् । तेषामवयवसंबन्धाभावादिति चेत् । सत्यम् । तेषां कार्यगुणादित्वेन हेत्वन्तरेण कार्यत्वमधिगन्तव्यम् । तथा हि

जन्मभाजो विवादाध्यासितनित्येतरसमवायिनो गुणादयः ।

कार्यगुणादित्वात् ।

यो यः कार्यगुणादिः स सर्वस्तथा, यथा घटादिरूपादिः ।

तथा चैते ।

तस्माज्जन्मभाजः । इति ।

कार्यत्वं च न स्वकारणसमवायः, सामान्यविशेषो वा बोद्धव्यः, येनास्य प्रध्वंसाव्यापकत्वाद्भागासिद्धता स्यात्, किं तु कारणाधीनस्वरूपमात्रम् । तच्च शब्दादिष्विव प्रध्वंसादावपि प्रत्यक्षेणाधिगतमिति न तावदयमसिद्धो हेतुः । नापि विरुद्धः । तथा हि यो विपक्ष एव वर्तते स खलु साध्यविपर्ययव्याप्तेः साध्यविरुद्धं साधयन् विरुद्धोऽभिधीयते । यथा नित्यः शब्दः कृतकत्वादिति । न चायं तथा, प्रसिद्धकर्तृकेषु घटादिषु सपक्षेषु सद्भावदर्शनात् ।

ननु बुद्धिमत्पूर्वकत्वे साध्ये सिद्धसाधनम् । अभिमतं हि परेषामपि कर्मजत्वं कार्यजातस्य, कर्मणश्च चेतनात्मकत्वात्, चेतनाहेतुकत्वाद्वा । तद्धेतुकत्वं च जगतः । सर्वज्ञपूर्वकत्वे तु साध्ये व्याप्तिः स्वप्नेऽपि नोपलब्द्धा । दृष्टान्तश्च साध्यहीनः, कुलालादीनामसर्वज्ञत्वात् । विरुद्धता च हेतोरसर्वज्ञपूर्वकत्वेनैव कुम्भादौ कार्यत्वस्य व्याप्तेरुपलब्धेः । न चोपलब्धिमत्पूर्वकत्वमात्रं साधनविषयः, तद्विशेषस्य तु सर्वज्ञपूर्वकत्वस्यातद्विषयस्यापि ततः सिद्धिरिति साम्प्रतम् । तथा हि यद्यसौ विशेषो न साधनविषयः कथमतस्तत्सिद्धिः, सिद्धं वा कथमविषयः, विषयश्चेत्कथमनन्वयदोषं न स्पृशेदिति चेत् ।

उच्यते । सामान्यमात्रव्याप्तावपि अन्तर्भावितविशेषस्य सामान्यस्य पक्षधर्मतावशेन साध्यधर्मिण्यनुमानात्विशेषविषयमनुमानं भवत्येव । इतरथा सर्वानुमानोच्छेदप्रसङ्गात् । (निबन्ध्३४) तथा हि वह्नयनुमानमपि न सामान्यमात्रविषयम्, तस्य प्रागेव सिद्धत्वात् । नापि तद्विशिष्टगिरिगोचरं वह्नित्वसामान्यस्य तत्सम्बन्धाभावेन तद्विशेषणत्वानुपपत्तेः । इतरथा गोत्वसमवायादिव गावः शाबलेयादयः पर्वतोऽपि वह्नित्वसमवायाद्वह्निः प्रसज्येत । अस्त्येव गिरेर्वह्नित्वेन संयुक्तसमवायः संबन्ध इति चेत् । तर्हि नाप्रतिपद्य पर्वतसंयुक्तं वह्निविशेषमसौ शक्यप्रतिपत्तिरिति वह्निविशेषस्याप्यननुमानम् । तथा चानन्वयदोषप्रसङ्गः । इन्द्रियानुमानेऽप्ययमेव न्यायो द्रष्टव्यः, यथेन्द्रियलक्षणकरणविशेषसिद्धिः । तथा हि तत्रापि नेन्द्रियकरणिका काचित्क्रियोपलब्धा । न खलु च्छिदाद्याः क्रिया इन्द्रियसाधना, व्रश्चनादीनामनिन्द्रियत्वात् । न च व्रश्चनादिसाधना संभवति रूपादिपरिच्छित्तिलक्षणा क्रिया । तस्माद्यथा क्रियात्वसामान्यस्य करणमात्राधीनत्वव्याप्तत्वे पक्षधर्मतावशादिन्द्रियलक्षणकरणविशेषसिद्धिस्तथेहापि सत्यपि कार्यत्वस्योपादानोपकरणसंप्रदानप्रयोजनज्ञकर्तृमात्रव्याप्तत्वेऽपि विवादाध्यासितेषु पक्षधर्मतावशादुपादानाद्यभिज्ञसामान्यस्याक्षिप्तविशेषस्यैव सिद्धिः । अन्यथा सामान्यस्यापि व्यापकाभिमतस्य न सिद्धिः स्यात्, निर्विशेषस्यासंभवद्विशेषस्य वा तस्यानुपपत्तेः । असर्वज्ञस्य चात्रादृष्टादिभेदविज्ञानरहितस्याधिष्ठातृभावासंभवात्सर्वज्ञात्मक एव विशेषो बलादापतति ।

ननूपादानाद्यभिज्ञकर्तृ मात्रेणेवासर्वज्ञत्वदेहित्वादिभिरपि व्याप्तिरशक्यपरिहारा, व्यभिचारादर्शनस्य समानत्वादिति चेत् । न सर्वज्ञत्वासर्वज्ञत्वयोर्देहित्वादेहित्वयोर्वा कार्योत्पत्तावनुपयोगात् । न हि सार्वज्ञ्यं कर्तृणां योग्यतामुपस्थापयति, असर्वज्ञेभ्यः कुम्भकारादिभ्यः कुम्भादीनामप्रसवप्रसङ्गात् । नाप्यसार्वज्ञ्यं कुम्भकारादेव केयूरादीनामप्युत्पत्तिप्रसङ्गात् । तथा न देहित्वं कार्योत्पत्तावुपयोगि कुम्भकारादेव केयूरादीनामुत्पत्तिप्रसङ्गात् ।नादेहित्वं कुम्भकाराद्घटादीनामनुत्पादप्रसङ्गात् । ततश्वोपादानाद्यभिज्ञपुरुषपूर्वकत्वमेव कार्यत्वस्य व्यापकम् । तदेव च बुद्धिमत्पुरुषपूर्वकत्वशब्दवाच्यम् । तेन यद्यपि बुद्धिमत्पूर्वकत्वमात्रं व्याप्तिविषयस्तथापि तद्विशेषस्य सर्वज्ञत्वस्य पक्षधर्मताबलात्प्रतिलम्भ इति विशेषविषयमनुमानम् । न चोक्तदोषप्रसङ्गः, तस्य साध्यदृष्दान्तयोर्धर्मविकल्पादुत्कर्षापकर्षलक्षणपर्यनुयोगस्य सर्वानुमानसाधारण्येनानुमानमात्रप्रामाण्यप्रतिक्षेपहेतुत्वात् ।

एतेन यदुक्तं कणिकायां यदि कुलालादीनां कतिपयोपकरणादिज्ञानं, न समस्तोपकरणादिज्ञता, तर्हि तेनैव निदर्शनेन ईश्वरस्यापि तदुपकरणादिमात्रज्ञानम् । तन्मात्रज्ञाने न सर्वज्ञतासिद्धिः । कतिपयज्ञो हि तथा सति स्यात् । न वा तन्मात्रज्ञानमपीश्वरस्य बालादिवदित्याह । वालोन्मत्तादीनां स्वकार्यप्रयोजनापरिज्ञाने (निबन्ध्३५)ऽपि निरभिप्रायाणां तत्र तत्र प्रवृत्तिदर्शनात् । न च कुलालादयो निदर्शनं न वालादय इत्यत्र नियमहेतुरस्तीति तन्निरस्तम् ॥

ईश्वरस्य हि कतिपयातीन्द्रियोपकरणादिज्ञाने तत्कारणस्य सर्वत्र समानत्वादशेषोपकरणादिज्ञताया दुर्वारत्वात् । कारणं च तज्ज्ञाने सत्तामन्तरेण नान्यत्, धर्माधर्मादीनां लौकिकप्रत्यासत्तिहेतूनां तत्रासंभवात् । कारणाभेदे च कार्याभेदः । अन्यथा कतिपयातीन्द्रियज्ञानमपि न स्यात् । यथा हि कुलालादिस्तुल्यदर्शनसामग्रीकेषु नाकिञ्चिज्ज्ञाः तथातीन्द्रियोपकरणादिष्वपीश्वरः, सामर्थ्यस्याविशेषात् । न च बालोन्मत्तादिनिदर्शनेन कतिपयोपकरणज्ञतानिषेधो युक्तः, बीजदृष्टान्तेन बुद्धिमन्मात्रस्यापि निषेधाभिधानप्रसङ्गात् । तस्माद्यथोपादानाद्यभिज्ञस्यापि संभवाद्बीजादिभिर्न व्यभिचाराभिधानम्, तथा बालोन्मत्तादिभिरपीति कुलालादीनामेव दृष्टान्तता युक्तिमती, उपादानाद्यभिज्ञबुद्धिवन्मात्रकार्यत्वयोः साध्यसाधनयोस्तत्र प्रसिद्धत्वात् । तथा ज्ञानवदीश्वरस्य चिकीर्षाप्रयत्नौनित्यावित्यत्रापि ।

यदभिहितम् - नित्यौ चेत्किमीश्वरस्य ज्ञानेन चिकीर्षाप्रयत्नोपयोगिना, तयोर्नित्यत्वात्, स्वोत्पादोपयोगानपेक्षणादित्यादि । तदप्यसारम् । अज्ञातकर्तृत्वानुपपत्तेः । ज्ञानं हि यत्र चिकीर्षाप्रयत्नावनित्यौ तत्र तावुपस्थापयदुपकरणादिकमुपदर्शयति । यत्र तु तौ नित्यौ तत्रोपकरणादिकमुपदर्शयदपि सफलम् । तस्मात्सत्यपि चिकीर्षाप्रयत्नयोर्नित्यत्वे सफलमीश्वरज्ञानं साक्षात्कार्योत्पत्तावनुपयोग्यपि । अत एव च सोऽयमीदृशो विशेषो विचारासहः कथं पक्षधर्मताबलादपि साध्यधर्मिण्युपसंह्रियत इत्यादिरपि प्रलाप एव । ईश्वरज्ञानस्याव्याहतौ सर्वज्ञताविशेषस्य दुर्वारत्वात् ।

यदभिहितम् - प्रेक्षावतां प्रवृत्तिः प्रयोजनवत्तया व्याप्ता । न चेश्वरस्य प्रेक्षावतो जगन्निर्माणे प्रयोजनमुत्पश्यामः, प्राप्तनिखिलप्रापणीयस्य प्राप्तव्याभावात् । तदपि सावद्यम्, तदभिप्रायस्य दुर्वोधत्वात्, प्रयोजनाभावासिद्धेः, व्यापकानुपलब्धेः, सन्दिग्धत्वात् । विचित्रा हि पुरुषमात्रस्य चेतोवृत्तिः प्रागेव विश्वस्य कर्तुः । प्राप्तनिखिलप्रापणीयस्यापि करूणयापि परार्थप्रवृत्तः संभाव्यमानत्वात् । न चास्य नरकादिनिर्माणप्रवृत्तिः कारुणिकतामुपहन्ति, प्रत्युत पितुः पुत्रगण्डपाटनवृत्तिरिवाल्पदुःखदानेन प्रभूतदारुणदुःखापनयनात्करुणातिशयमेव गमयति । प्रेक्षावतामिवास्यापि नियतस्थिरप्रवृत्तिसिद्धेः प्रयोजनानुमितिरेव न्यायप्राप्ता ॥

यच्चेदमुदीरितम् - यदि हि सर्वकार्याणामेकः कर्ता स्यात्ततोऽज्ञस्य (निबन्ध्३६) तत्त्वानुपपत्तेः सर्वज्ञता स्यात् । अथ पुनरेकैकं कार्यमेकैकेन कर्त्रा जन्यत इति यो यज्जनयति स तत्कारणमात्रज्ञ एव न तु सर्वज्ञ इति ।

अत्रोच्यते । कार्यलिङ्गाविशेषादेकः कर्ता सदिति ज्ञानाविशेषात्सत्तैकत्ववत् । कुतश्चिल्लिङ्गादनुमितस्य वस्तुनो नानात्वस्य लिङ्गान्तरानुमेयत्वात्, नानात्वमुपपादयितुं प्रमाणान्तरं वक्तव्यम् । यथात्मनानात्वमवस्थापयद्भिः सुखादि (भिर्नानात्व) व्यवस्थापनमुच्यते । न चेह कर्तुरनेकत्वाधिगमे प्रमाणान्तरमस्ति । एकत्वे तु न प्रमाणान्तरमन्वेष्टव्यम्, एकस्य कर्तुरभावे बहूनां व्याहतमनसां स्वातन्त्रेण परस्परविरोधेन मिथः स्वानुकूलाभिप्रायानवबोधेन युगपत्कार्यानुत्पतिः, उत्पन्नस्य वा विलोपादिप्रसङ्गः स्यादिति । एकत्वे तु सिद्धे सर्वज्ञतासिद्धिरविरोधिनी । न चेश्चरस्य सकलक्षेत्रज्ञसमवायिधर्माधर्मज्ञानकारणाभावेन तदज्ञानम्, तत्समवेतानां ज्ञानचिकीर्षाप्रयत्नानां नित्यत्वात् । न च बुद्धितन्नित्यत्वयोः कश्चिद्विरोधः । न च बुद्धेरनित्यतायास्तत्र तत्रोपलब्धेरीश्वरबुद्धेरपि तथात्वं युक्तम्, रूपादीनामप्यनित्यानां तत्र तत्रोपलब्धेस्तोयादिपरमाणुसमवेतानामपि रूपादीनामनित्यत्वप्रसङ्गात् । परपुरुषसमवेतधर्माधर्माधिष्ठानमप्यस्य युक्तमेव, संयुक्तसंयोगिसमवायस्य सम्बन्धस्य सद्भावात् । संयुक्ताः खल्वीश्वरेण परमाणवः, तैश्च क्षेत्रज्ञाः, तत्समवेतौ च धर्माधर्माविति ॥

तदेवं कणिकायां वाचस्पतेरीश्वरदूषणं यथासारमुत्थाप्य व्युदस्तमस्माभिः । अपरं च बुसप्रायमनभ्युपगमप्रसिद्धसिद्धान्तग्रस्तमिह ग्रन्थविस्तरभयान्न लिखितम् । तदेवमभिमतस्यैव सर्वज्ञतालक्षणस्य विशेषस्य सिद्धेर्नैष विशेषविरुद्धो हेतुः । नापि कर्मभिः सिद्धसाधनमिति स्थितम् ॥

न चानैकान्तिकः । स हि भवन्नसाधारणो वा स्यात्, यथा नित्या पृथ्वी गन्धवत्वादिति; अनुपसंहार्यो वा, यथा सर्वं नित्यं प्रमेयत्वादिति; साधारणो वा यथा नित्यः शब्दः, अस्पर्शवत्त्वादिति ।

तत्र न तावदादिमौ पक्षौ, सपक्षसद्भावदर्शनेन प्रतिक्षिप्तत्वात् । नाप्यन्तिमः, अधिगतकर्तृनिवृत्तेर्व्योमादेर्विपक्षाद्व्यावृत्तेरुपलब्धेः ।

ननु पुरुषव्यापारमन्तरेण तृणादीनुदयमानानवलोकयन् लोकः कार्यमात्रं पुरुषपूर्वकमिति व्याप्तिमेव न प्रतिपद्यत इति चेत् । एवं तर्हि प्रसिद्धानुमानस्थितिरपि दत्तजलाञ्जलिः । तत्रापि हि व्याप्तिप्रतीतिकाल एव व्याघ्रादिपर्याकुलातिदुर्गप्रदेशे वह्निव्यापारमन्तरेण धूमं पुरुषव्यापारं विना पूर्वं सिद्धं घटं वा विलोकयन् लोको धूममात्रं वह्निपूर्वकं घटमात्रं वा पुरुषपूएर्वकमिति व्याप्तिमेव न प्रतिपद्यत इति वक्तुं शक्यत्वात् ।

(निबन्ध्३७)
तत्र वह्निपुरुषयोर्देशकालविप्रकृष्टत्वादप्रतिक्षेप इति चेत् । यद्येवं तृणादावपि पुरुषस्य स्वभावविप्रकृष्टत्वादप्रतिक्षेप इति सर्वं समानमन्यत्राभिनिवेशात् । पुरुषव्यापारपूर्वकता तावन्न प्रतीयते तृणादीनाम् । सा च पुरुषस्यादृश्यत्वादसत्त्वाद्वा न प्रतीयताम्, किमनेन विचारितेन । सर्वथा किञ्चित्कार्यमपूर्वपुरुषपूर्वकमपश्यन्न व्याप्तिं कार्यमात्रस्य पुरुषेण कश्चित्चेतनावानवगच्छतीति चेत् । यद्येवं वह्निमात्रपूर्वकता तावन्न प्रतीयते धूमस्य, पुरुषमात्रपूर्वकता च घटस्य । सा च वह्नेर्देशविप्रकृष्टत्वादसत्त्वाद्वा पुरुषस्य कालविप्रकृष्टत्वादसत्त्वाद्वा न प्रतीयताम्, किमनेन विचारितेन । सर्वथा धूममात्रं वह्निव्यापारपूर्वकमपश्यन् घटमात्रं वा पुरुषपूर्वकमपश्यन्नव्याप्तिमेव धूमस्य वह्निमात्रेण घटस्य पुरुषमात्रेण वा कश्चिच्चेतनावानधिगच्छतीत्यप्युच्यमानं न वक्त्रं वक्रीकरोति । तत्किमनेन प्रसिद्धानुमानापलापिना जात्युत्तरेण ॥

स्यादेतत् । न सपक्षासपक्षयोर्दर्शनादर्शनमात्रेणाव्यभिचारनिश्चयः, अतदात्मनोऽतदुत्पत्तेश्चाव्यभिचारनियमाभावात् । तदिदं कार्यत्वं सन्दिग्धविपक्षव्यावृत्तिकत्वेनासाधनम् ।

अत्रोच्यते । नास्ति विपक्षाद्धेतोर्व्यावृत्तिसन्देहः, धूमानलयोरिव कार्यबुद्धिमतोरुपलम्भानुपलम्भसाधनस्य कार्यकारणभावस्य सिद्धत्वात् ।

कार्यविशेषस्यैव तदुत्पादसिद्धिर्न कार्यसामान्यस्य, यथा धूमादिवर्तिनो वस्तुत्वादेर्नानलादिजन्यत्वनिश्चय इति चेत् । न । विशेषहेत्वभावात् । उपलम्भानुपलम्भयोस्तदुत्पत्तिसाधनत्वेनेष्टयोरविशेषात्कार्यविशेषस्येव कार्यसामान्यस्य प्रबोधाश्रयायत्ततासिद्धेः । यथा हि कार्यं वस्त्राद्युपादानवद्दृष्टम्, कार्यान्तरमप्यदृष्टोपादानमुपादानवत्कार्यत्वाद्युपस्थाप्यते तथा तदेव कार्यं वस्त्रादि दृष्टकर्तृकमित्यदृष्टकर्तृकमपि कार्यत्वात्कर्तृमद्व्यवस्थाप्यते । उपादानस्येव कर्तुरपिकार्येणानुकृतान्वयव्यतिरेकत्वात् । तन्मात्रनिबन्धनत्वाच्च सर्वत्र कार्यकारणव्यवहारयोः । तस्माद्यथा कार्यं च स्यान्निरुपादानं चेति न शक्यमाशङ्कितुम्, कार्यमात्रस्योपादानमात्रादुत्पादसिद्धेः तथा कार्यं च भवेदकर्तृकं चेति नाशङ्कनीयम्, कार्यमात्रस्य कर्तृमात्रादुत्पादसिद्धेरविशेषात् ॥

ननु ब्रूया नाम किञ्चित् । तथापि न कार्यमात्राद्बुद्धिमदनुमानम्, अपि तु कार्यविशेषादेव । यद्दर्शनादक्रियादर्शिनोऽपि कृतबुद्धिः स्यात् । न चानपेक्षिततत्त्वानुगमाच्छब्दमात्रसाम्यात्साध्यसिद्धिर्युक्ता । गोशब्दवाच्यतामात्रेण वागादीनां विषाणित्वानुमितिप्रसङ्गादिति चेत् । तदेतत्खस्थोत्तरमनुत्तरार्हम्, कार्यसामान्यस्यैव व्याप्तिप्रसाधनात् । अपि च का पुनरियं कृतबुद्धिः, किमपेक्षितपरव्यापारावसायोऽथ पुरुषकृतमेतदिति पौरुषेयत्वनिश्चय इति ।

(निबन्ध्३८)
यद्याद्यः पक्षः स कथं क्षित्यादिषु नास्ति, कारणव्यापारात्मलाभलाक्षणस्य कार्यत्वस्य कुम्भादिवत्क्षित्यादिष्वविशेषात् । अथ पुरुषेण कृतमिति पौरुषेयत्वनिश्चयः कृतबुद्धिरभिमता, तदापि तादृशी कृतबुद्धिः कस्य नास्तीति वक्तव्यम् । किं कार्यत्वादिति हेतोरविनाभाववेदिन आहोस्वित्तद्विपरीतस्य । नाद्यः पक्षः । अविनाभाववेदिनः साध्याप्रतिपत्तेरयोगात् । अथ तद्विपरीतस्य साध्यबुद्धिर्न भवतीति कृतबुद्धिहेतुकत्वमवनितनुमहीरुहादिषु नास्तीति बुद्धिमतोऽनुमानं प्रतिक्षिप्यते ।

नन्वेवं सति सर्वानुमानोच्छेद स्यात् । सर्वहेतूनामगृहीताविनाभावं प्रति अगमकत्वात् । तस्मान्न कृतबुद्धिहेतुत्वं विशेषः । भवतु वा कश्चिदनिरूपितरूपो विशेषस्तथापि किमनेन । कार्यमात्रस्यैव धूममात्रस्येव व्याप्तिप्रतीतेः । न च कार्यत्वेन हेतुना सह मृद्धिकारस्य समकक्षता । तस्य स्वसाध्येन दृश्यकुम्भकारेण सह व्यभिचारस्य शतशो दर्शनात् । कार्यत्वस्य तु दृश्यादृश्यसाधारणेन बुद्धिमन्मात्रेण तद्योगादिति नायमनैकान्तिकः ।

नापि प्रकरणसमः, अप्रतिपक्षत्वात् । न ह्यस्य प्रतिपक्षोपस्थापकं धर्मान्तरमस्ति । यथा नित्यः शब्दो वस्तुत्वे सत्यनुपलभ्यमाननित्यधर्मत्वादित्यस्य, अनित्यः शब्दो वस्तुत्वे सत्यनुपलभ्यमाननित्यधर्मत्वादिति प्रतिपक्षकृतं धर्मान्तरमस्ति । न चेदं बाधकं वक्तव्यम् । नेश्वरकर्तृकं जगत् । वस्तुत्वसत्त्वादित्यादि । ईश्वरकर्तृकत्वस्य वस्तुत्वादिति विरोधाभावात् । इति गायं प्रकरणसमोऽपि ।

न च कालात्ययापदिष्टः प्रत्यक्षानुमानागमैर्बाधितविषयस्य तथाभावात् । अस्य च तैरविरोधात् । तत्र प्रत्यक्षविरुद्धः, अनुष्णस्तेजोऽवयवी कृतकत्वात् । अनुमानविरुद्धः, सावयवाः परमाणवो मूर्तत्वात् । आगमविरुद्धः, शुचि न(र) शिरः कपालं प्राण्यङ्गत्वादिति । तत्र न तावदयं प्रत्यक्षविरुद्धः, साध्यविपर्ययस्य प्रत्यक्षाविषयत्वात् । नाप्यनुमानविरुद्धः, धर्मिग्राहिणानुमानेनाबाधितविषयत्वात् । न चागमविरुद्धः, आगमेन साध्यविपर्य(य) स्यापरिच्छेदात् । सौगताद्यागमैर्विपरीतपरिच्छेदादिति चेत् । न, तेषां क्षणिकत्वाद्यर्थविसंवादोपलम्भेन प्रामाण्याभावात् । वेदागमोऽपि बाधकत्वेन नाशङ्कनीयः,

सहस्रशीर्षा पुरुषः

इत्यादिना तत्र कर्तुरेव प्रतिपादनात् । तथाभूतपुरुषातिशयपूर्वकत्वाभावे सत्यप्रामाण्याच्चेति नायमतिक्रान्तकालो हेतुः । तदेवमपनीतहेत्वाभासविभ्रमादतः साधनादुपादानाद्यभिज्ञो बुद्धिमानभिमतः कर्ता सिध्यति । स एव भगवानस्माकमीश्वर इति स्थितम् ॥

(निबन्ध्३९)
तथास्य सिद्धये शङ्करः साधनमिदमभिप्रैति -

जगदेतत्प्रबोधाश्रयायत्तप्रसवमभिलाषप्रीतिपरमाणुमूर्त्याधारपरत्वापरत्र्वानुमेयसामान्यसमवायान्त्यविशेषतदेकार्थसमवेतपरिमाणैकत्वपृथक्त्वगुरुत्वस्नेहापार्थिवरूपरसस्पर्शाप्यद्रवत्वामूर्तसंयोगतदितरेतराभावानुत्पत्तिरूपारूपमस्मदादिविनिर्मितेतरत् ।

अचेतनोपादानत्वात् ।

यदित्थं तत्तथा, यथा कलसः ।

तथा चेदम् ।

तस्मादिदमपि तथेति ।

अस्यायमर्थः । जगदिति धर्मी । प्रबोधाश्रयायत्तप्रसवमिति साध्यम् । अभिलाषेत्यादि अनुत्पत्तिरूपारूपपर्यन्तेन धर्मिविशेषणेनाकाशादिनित्यवर्गपरिहारः । अस्मदादिविनिर्मितेतरदित्यनेनापि धर्मिविशेषणेन प्रसिद्धकर्तृकघटादिपरिहारः । अभिलाषश्च प्रीतिश्च परमाणुमूर्तिश्च । आसामधारः आकाश आत्मा परमाणुः । परत्वापरत्वानुमेयौ दिक्कालौ । सामान्यादयस्तु यथाप्रसिद्धा ग्रहीतव्याः ।

तथा नरसिंहः प्राह -

विज्ञानाधाराधीनजन्म(अ) जन्मावच्छिन्नात्मोभयवाद्यविवादास्पदपुरुषपूर्वकव्यतिरेकि भावानुभावि प्रमेयजातम् ।

उत्पत्तिमत्त्वात् ।

यद्यदाख्यातसाधनसम्बन्धि तत्तदुक्तसाध्यधर्माधिकरणम् । यथा वासः ।

तथा चेदम् ।

तस्मादिदमपि तथेति ।

अस्यायमर्थः । प्रमेयजातं धर्मि । विज्ञानाधाराधीनजन्मेति साध्यम् । अजन्मावच्छिन्नात्मेति धर्मिविशेषणम् । एतेनाकाशादिनित्यवर्गपरिहारः । उभयवाद्यविवादास्पदपुरुषपूर्वकव्यतिरेकीत्यनेनापि प्रसिद्धकर्तृकघटादिपरिहारः । भावानुभावीति वस्तुरूपम् । एतेन प्रध्वंसादिपरिहारः । यद्यदाख्यातसाधनसंबन्धीति व्याप्तिवचनं यद्धर्मिरूपं कथितसाधनयोगीत्यर्थः ।

त्रिलोचनस्तु व्यतिरेकिणमिमं प्रयोगमाह -

सर्वं कार्यं प्रबोधवद्धेतुकम् ।

उत्पत्तिधर्मकत्वात् ।

यन्नित्यं दृष्टमबोधवद्धेतुकं तस्याकाशादेस्तथोत्पत्तिर्नास्तीति दृष्टम् ।

उत्पत्तिधर्मकं च पक्षीकृतमस्मदादिविनिर्मितेतरत् ।

(निबन्ध्४०)
तस्माद्बोधवद्धेतुकमिति ।

पुनर्द्व्यणुकेश्वरसिद्धौ त्रिलोचन एव प्राह -

विवादास्पदीभूतं द्वित्वमात्मोत्पत्तौ कस्यचिदेकैकविषयां बुद्धिमपेक्षते ।

द्वित्वसंख्यात्वात् ।

यद्यद्द्वित्वं तत्तथा । यथा द्वे द्रव्ये ।

तथा चेदं द्वयणुकगतं द्वित्वम् ।

तस्मात्तथेति ।

यस्य चात्र बुद्धिरपेक्ष्यते स भगवानीश्वरः ॥

तथा च वाचस्पतिः प्रमाणयति -

विवादाष्यासिततनुतरुगिरिसागरादयः उपादानाद्यभिज्ञकर्तृकाः ।

कार्यत्वात् ।

यद्यत्कार्यं तत्तदुपादानाद्यभिज्ञकर्तृकम् । यथा प्रासादादि ।

तथा व विवादाध्यासितास्तन्वादयः ।

तस्मात्तथेति ।

एवं स्थित्वा स्थित्वा प्रवृत्तिधर्मकत्वात्, सन्निवेशवत्त्वात्, अर्थक्रियाकारित्वादित्यादयो हेतवः कथितपञ्चावयवक्रमेण बोद्धव्या इति ।

तदेतद्दुर्मतिविस्पन्दितं जगदन्धीकरणं न सतामुपेक्षितुमुचितमिति किञ्चिदुच्यते । इह खलु बुद्धिमत्कार्यमात्रयोः साध्यसाधनयोः सर्वोपसंहारवती व्याप्तिस्तावदवश्यं ग्रहीतव्या । अन्यथा गम्यगमकभावायोगात् । सा च गृह्यमाणा किं कारणकार्यमात्रयोरिव विपर्ययबाधकप्रमाणबलाद्ग्राह्या । यद्वाग्निधूमयोरिव विशिष्टान्वयव्यतिरेकग्रहणप्रवणविशिष्टप्रत्यक्षानुपलम्भाभ्यां बोद्धव्या । उत स्वव्यवस्थया सपक्षासपक्षयोर्भूयोदर्शनादर्शनाभ्यां प्रत्येतव्या । आहोस्वित्सपक्षासपक्षयोः सकृद्दर्शनादर्शनाभ्यां ज्ञातव्येति चत्वारो विकल्पाः ।

न तावदाद्यः पक्षः । साध्यविपर्यये बुद्धिमदभावे कार्यत्वसामान्यस्य साधनस्य बाधकप्रमाणाभावात् । ननु बाधकप्रमाणाभावोऽसिद्धः । तथा हीदं कार्यत्वं यथा बुद्धिमता व्याप्तमिष्यते तथा देशकालस्वभावनियतत्वेनापि, कादाचित्ककारणसन्निधिमत्तयापि, सामग्रीकार्यत्वेनापि व्याप्तमुपलब्धम् । स च देशादि नियमः कादाचित्ककारणसन्निधिः सामग्री वा बुद्धिमत्पूर्विका सिद्धा । यदि पुनरचेतनानि चेतनानधिष्ठितानि कार्यं कुर्युः ततो पत्र क्वचनावस्थितानि जनयेयुरिति न देशकालस्वभावनियतप्रसवं कार्यमुपलभ्येत ।

हेतुसमवधानजन्मतया न कार्यं प्रत्येकं कारणैर्जन्यत इति चेत् । समवधानमेव तु कारणानां कुतः । कादाचित्कपरिपाकाददृष्टविशेषादिति चेत् । नन्वयमचेतनः कथं यथावत्कारणानि सन्निधापयेत् । नो खलु क्वचिदवस्थितानि (निबन्ध्४१) दण्डादीनि विना कुम्भकारप्रयत्नमदृष्टविशेषवशादेव परस्परं सन्निधीयन्ते । सन्निहितानि वा कार्याय प्रभवन्तीति बुद्धिमता देशकालस्वभावनियमस्य कादाचित्ककारणसन्निधेः सामग्र्याश्च व्याप्तिसिद्धिः । बुद्धिमदभावे चैषां व्यापकानां निवृत्तौ निवर्तमानं कार्यत्वं बुद्धिमत्पूर्वकत्वेन व्याप्यत इति प्रतिबन्धसिद्धये व्यापकानुपलम्भत्रयमुपन्यस्तम् । तथा च न कार्यं बुद्धिमत्परित्यागातहेतुकमेव भवतीति संभाव्यम्, देशकालस्वभावनियमाभावप्रसङ्गात् । नापि बुद्धिमतोऽन्यस्मादेव भवतीति शङ्कनीयम्, सकृदप्युत्पादाभावप्रसङ्गात् । न चान्यस्मादस्मादपि भवतीति संभाव्यम्, अनियतहेतुत्वेऽहेतुत्वप्रसङ्गात् । तथा बुद्धिमन्तमन्तरेणाचेतनेन करणे सर्वदा क्रियाया अविरामप्रसङ्गश्चेत्यपि विपर्ययबाधकमतिप्रसङ्गचतुष्टयं व्याप्तिप्रसाधकमिति कार्यत्वस्य हेतुपूर्वकत्वमिव बुद्धिमत्पूर्वकत्वमप्यवार्यमिति चेत् ।

अत्रोच्यते । सिध्यत्येवेदं मनोराज्यं यदि देशकालस्वभावनियमस्य कादाचित्ककारणसन्निधेः सामग्र्याश्च बुद्धिमत्पूर्वकत्वेन व्याप्तिः सिध्यति । केवलमेतदेव दुरापम् । बुद्धिमदभावेऽपि हि स्वहेतुबलसमुत्पन्नसन्निधे(ः) प्रतिनियतदेशकालशक्तिनाचेतनेनापि सामग्रीलक्षणकारणविशेषेण क्रियमाणानि देशकालस्वभावनियमकादाचित्ककारणसन्निधिसामग्रीकार्यत्वानि युज्यन्त इति सन्दिग्धासिद्धा व्यापकानुपलब्धयः ॥

बुद्धिमदभावे समवधानमेव कुत इति चेत् । तदपि चेतनानधिष्ठितयथोक्ताचेतनसामग्रीविशेषादेव । सोऽपि तादृशादित्यनाद्यचेतनसामग्रीपरम्परातोऽपिदेशादिनियमसंभावनायां नावश्यं बुद्धिमदपेक्षा । घटादेर्देशकालस्वभावनियमः कादाचित्ककारणसन्निधिश्च, सामग्री च बुद्धिमत्पूर्विका दृष्टा इत्यपरोपि देशकालस्वभावनियमादिस्तथैवेति चेत् । यद्येवं घटादिकमपि कार्यं बहुशो बुद्धिमत्पूर्वकमुपलब्धमिति सर्वमेव कार्यं तथास्तु, किमनेन व्यापकानु (प)लम्भोपन्यासदुअर्व्यसनेन । घटादेर्बहुशो बुद्धिमत्पूर्वकत्वदर्शनेऽपि न सर्वत्र कार्यमात्रस्य तथाभावनिश्चयश्चेत् । देशादिनियमादीनामपीदं समानमिति कथमत्रापि शङ्काव्युदासः ॥

अस्तु तदा प्रत्यक्षमेव सर्वत्र व्याप्तिग्राहकमिति चेत् । न तर्हि विपर्ययबाधकप्रमाणबलाद्व्याप्तिग्रहनिर्वाहः । प्रत्यक्षं च तत्राशक्तमिति द्वितीयविकल्पावसरे निवेदयिष्यते । तथा सिद्धे कार्यकारणभावे धूमस्याहेतुकोत्पतावन्यस्मादेवो त्पत्तावन्यस्मादप्युत्पत्तौ संभाव्यमानायां देशादिनियमाभाव (क्लृप्तहेतु) त्याग (अन्य) हेतुत्वप्रसङ्गाः सङ्गच्छन्ते । प्रस्तुते तु बुद्धिमत्कार्यमात्रयोः कार्यकारणभावो नाद्यापि सिद्धः । साधयितुं वा शक्यः । न चाचेतनस्य कर्तृत्वे क्रियाया (निबन्ध्४२) अविरामप्रसङ्गः सङ्गतः । न ह्यचेतनमित्येव सर्वदा सामर्थ्ययोगि, तस्यापि स्वहेतुपरम्पराप्रतिबद्धसामर्थ्यत्वादित्यचेतनकारणविशेषपरम्परासंभावनायां नावश्यं बुद्धिमदाक्षेप इति स्वमतव्यालोपविक्लवविक्रोशितमात्रमेवेदं न पुनरत्र न्यायगन्धोऽपि ।

तदेवं व्याप्तिसाधनार्थमुपन्यस्तं व्यापकानुपलम्भत्रयं सन्दिग्धासिद्धमतिप्रसङ्गतुचष्टयं च बुद्धिमत्कार्यमात्रयोर्व्याप्त्यसिद्धावसङ्गतम् । अतः कार्यत्वं साधनं सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकम् ॥

अत्र वाचस्पतिः प्राह -

सन्दिग्धविपक्षव्यावृत्तिकत्वं नाम हेतुदोष एव न भवति । तत्कथं निरस्यते । तथा हि य एव विपक्षे दृष्टो हेतुः स एव प्रमेयत्वादिवदभिमतं न साधयेत् । यस्तु महतापि प्रयत्नेन मृग्यमाणोऽसपक्षे नोपलक्षितः स कथं साध्यं न साधयेत् ।

अवश्यंशङ्कया भाव्यं नियामकमपश्यताम् ।

इति तु दतावकाशा लौकिकमर्यादातिक्रमेण संशयपिशाची लब्धप्रसरा न क्वचिन्नास्तोति नायं क्वचित्प्रवर्तेत । सर्वस्यैवार्थस्य कथञ्चिच्छङ्कास्पदत्वादर्शनात् । अनर्थशङ्कायाश्च प्रेक्षावतां निवृत्त्यङ्गत्वात् । अन्ततः स्निग्धान्नपानोपयोगेऽपि मरणदर्शनात् । तस्मात्प्रामाणिकलोकयात्रामनुपालयता यथादर्शनं शङ्कनीयम्, न त्वदृष्टमपि । विशेषस्मृत्यपेक्षो हि संशयो नास्मृतेर्भवति । न च स्मृतिरननुभूतचरे भवति ।

तदुक्तं मीमांसावार्त्तिककृता अध्युष्टसहस्रिकायाम् -

नाशङ्का निःप्रमाणिकेति ।

तथा तेनैव बृहट्टीकायाम् -

उत्प्रेक्षेत हि यो मोहादजातमपि बाधकम् ।
स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् ॥ इति ॥

तदेतत्प्रलापमात्रम् । न हि महतापि प्रयत्नेन विपक्षे मृग्यमाणस्य हेतोरदर्शनमात्रेण व्यतिरेकः सिध्यति । तथा हि विपक्षे हेतुर्नोपलभ्यत इत्यनेन तदुपलम्भकप्रमाणनिवृत्तिरुच्यते । प्रमाणं च प्रमेयस्य कार्यम्, नाकारणं विषय इति न्यायात् । न च कार्यनिवृत्तौ कारणनिवृतिरुपलब्धा, निर्धूमस्यापि बह्नेरुपलम्भात् । यदि पुनः प्रमाणसत्तया प्रमेयसत्ता व्याप्ता स्यात्, तदा युक्तमेतत् । केवलमियमेव व्याप्तिरसंभविनी, सर्वस्य सर्वदर्शित्वप्रसङ्गात् । तन्नादर्शनमात्रेण व्यतिरेकसिद्धिः । यथोक्तम् -

(निबन्ध्४३)
सर्वादृष्टिश्च सन्दिग्धा स्वादृष्टिर्व्यभिचारिणी ।
विन्ध्याद्रिरन्ध्रदूर्वादेरदृष्टावपि सत्त्वतः ॥ इति

सकलविपक्षस्यार्वाचीनं प्रत्यदृश्यत्वात् ॥

यच्चोक्तम् - संशयपिशाची लब्धप्रसरा न क्वचिन्नास्तीति न क्वचित्प्रवर्तेतेति । तदसङ्गतम् । अर्थसंशयस्यापि प्रेक्षावतां प्रवृत्त्यङ्गत्वात्प्रवृत्तिरविरोधिन्येव । अनर्थसन्देहः सर्वत्र कर्तुं शक्यते । अन्ततः स्निग्धान्नपानोपयोगेऽपि मरणदर्शनादप्रवृत्तिरिति चेत् । दुअर्ज्ञानमेतत् । तथा हि अर्थसन्देहोऽनर्थसन्देहो वेति नायं षष्ठीसमासः । किन्त्वर्थोन्मुखः सन्देहोऽर्थसन्देहः, अनर्थोन्मुखः सन्देहोऽनर्थ सन्देह इति शाकपार्थिवादिवन्मध्यपदलोपी समासः । एवं सति स्निग्धान्नपानादावर्थसन्देह एव, तज्जातीयस्य स्वपरसन्ताने दृष्टिपुष्ट्याद्यर्थस्य कोटिशः करणदर्शनात्, मरणादेरनर्थस्य क्वचित्कदाचिद्दर्शनात् । एतद्विविपरीतोऽनर्थसन्देहो द्रष्टव्यः । तस्मात्प्रमाणादिवार्थसंशयादपि प्रेक्षावतां तत्र तत्र प्रवृत्तिर्दुर्वारैव ॥

यदपीदं लपितं यथादर्शनं शङ्कनीयं नादृष्टपूर्वमपि विशेषस्मृत्यपेक्षो हि संशय इत्यादि । तदसंबद्धम् । साधकबाधकप्रमाणाभावादेव पर्युदासवृत्त्या वस्वन्तररूपात्सर्वत्र संशयोत्पत्तेः । किंच विशेषस्मृत्यपेक्ष एवायं संशयः । तथा हि लक्षणयोगित्वायोगित्वाभ्यामेव तज्जातीयातज्जातीये वक्तव्ये । अन्यथा लक्षणप्रणयनमनर्थकं स्यात् । एवं च सति तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धवियोगित्वेन साधारणेन धर्मेण प्रमेयत्वधूमत्वकार्यत्वादीनां त्वन्मतेन सजातीयत्वात्प्रमेयत्वव्यभिचारदर्शनमेव शङ्कामुपस्थापयतीति यथादर्शनमेवेदमाशङ्कितम् ।

यश्च कुमारिलस्य साक्षित्वेनोपन्यासः स खलु

दधिभाण्डे विडालः साक्षीति

प्रवादं नातिपततीति किमत्र वक्तव्यम् । तदेवं विपक्षेऽदर्शनमात्रेण हेतोऽर्व्यतिरेकासिद्धेः सन्दिग्धविपक्षव्यावृत्तिकत्वं नाम हेतुदूषणं दुर्वारमेव । अत एवास्योपन्यासोऽदोषोद्भावनं नाम निग्रहस्थानमिति यदनेनावेदितं तदपि सावद्यम् । प्रत्युतास्मिन् हेतोः सद्दूषणे परिहर्तव्ये नायं हेतुदोषोऽतो न परिहर्तव्योऽस्य चोपन्यासोऽदोषोद्भावनं नाम निग्रहस्थानमिति ब्रुवन्नयमेव तपस्वी स्वमतेन निरनुयोज्यानुयोगलक्षणेन निग्रहस्थानेन निगृह्यत इति कृपामर्हति । तदेवं विपर्ययबाधकप्रमाणाभावादव्याप्तेरसिद्धेः

सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकः कार्यत्वलक्षणो हेतुः ॥

अथाग्निधूमयोरिव विशिष्टान्वयव्यतिरेकग्रहणप्रवणविशिष्टप्रत्यक्षानुपलम्भाभ्यां व्यप्तिर्निश्वीयत इति द्वितीयः पक्षः । अत्रोच्यते । किं दृश्यशरीरोपाधिना बुद्धिमन्मात्रेण व्याप्तिर्गृह्यते, आहोस्वित्दृश्यशरीरोपाधिविशुरेण दृश्यादृश्यसाधारणेनेति (निबन्ध्४४) विकल्पौ । यद्याद्यः पक्षः, तदा तथाभूतसाध्यमन्तरेणाप्युत्पद्यमाने विटपादौ कार्यत्वदर्शनात्प्रमेयत्वादिवत्साधारणानैकान्तिको हेतुः ।

ननु वृक्षादयः पक्षीकृताः । कथं तैर्व्यभिचारः । त्रिविधो हि भावराशिः । सन्दिग्धकर्तृको यथा वृक्षादिः । प्रसिद्धकर्तृको यथा घटादिः । अकर्तृको यथा आकाशादिः । तत्र प्रसिद्धकर्तृके घटादौ प्रत्यक्षानुपलम्भाभ्यां व्याप्तिमादाय सन्देहपदे क्ष्मारुहादौ कार्यत्वमुपसंहृत्य बुद्धिमाननुमीयते । न पुनरसौ व्यभिचारविषयो भवितुमर्हति ।

यदाह - न साध्येनैव व्यभिचार इति । अयुक्तमेतत् । न हि व्यभिचारविषय एव पक्षे भवितुमर्हति,

सन्दिग्धे हेतुवचनाद्व्यस्तो हेतोरनाश्रयः

इति न्यायात् । व्यभिचारविषयता च दृश्यशरीरोपाधेर्बुद्धिमन्मात्रस्य तृणाद्युत्पत्तौ दृश्यानुपलम्भेन प्रतिक्षिप्तत्वात् । ततश्च क्ष्माधरादिरेव सन्दिग्धकर्तृकः पक्षीकर्तुमुचितः क्ष्मारुहादिस्त्वचेतनकर्तृक इति चतुर्थो भावराशिर्नेष्टव्यः । अथ व्यभिचारचमत्कारास्त्रिविधभावराशिव्यवस्थापनार्थं च विटपादौ प्रत्यक्षाप्रतिक्षिप्तेन दृश्यादृश्यसाधारणेन बुद्धिमन्मात्रेण व्यप्तिरवगम्यत इति द्वितीयः सङ्कल्पः । तदा विटपादौ बुद्धिमन्मात्रस्य संभाव्यमानत्वात्न साधारणानैकान्तिकतां ब्रू मः । किं तर्हि व्याप्तिग्रहणकाले दृश्यादृश्यसाधारणस्य बुद्धिमन्मात्रस्य साध्यस्यादृश्यतया दृश्यानुपलम्भेन व्यतिरेकासिद्धेर्व्याप्तेरभावात्सन्दिग्धव्यावृत्तिकत्वमाचक्ष्महे । तथा हि । यदा कुम्भकारव्यापारात्पूर्वं कुम्भस्य व्यतिरेकः प्रत्येतव्यस्तदा न साध्याभावकृतो घटव्यतिरेकः प्रत्येतुं शक्यः । यथा हि विटपादिजन्मसमये बुद्धिमन्मात्रस्यादृश्यत्वेन निषेद्धुमशक्यत्वात्सत्तासंभावना तथा घटादावपि व्यतिरेकनिश्चयकाले बुद्धिमन्मात्रस्यादृश्यत्वात्सत्त्वसंभावनायां साध्याभावप्रयुक्तस्य साधनाभावस्यासिद्धत्वेन व्याप्तेरभावात्कथं न सन्दिग्धव्यतिरेको हेतुः ।

यथोक्तम् - न च यथा कार्यं च स्यान्निरुपादानं चेति नाशङ्कनीयम्, तथा कार्यं च भवेदकर्तृकं चेति नाशङ्कनीयमिति, तत्रापि कार्यं च स्यान्निरुपादानं च भवेदिति न वक्तव्यमिति केनैव प्रतारितोऽसि । यदि ह्यत्र प्रत्यक्षानुपलम्भाभ्यां व्याप्तिर्गृह्यते तदा कथमुपादानपूर्वकं कार्यमात्र सिध्यति । व्याप्तिग्रहणप्रकारान्तरं च त्वयापि नोपन्यस्तम् । दृश्यादृश्यसाधारणयोरुपादानकार्यमात्रयोर्दृश्यविषयाभ्यां प्रत्यक्षानुपलम्भाभ्यां व्याप्तेरभ्यूहितुमशक्यत्वात् । स्वमतव्यालोपप्रसङ्गस्तु प्रमाणचिन्तावसरेऽप्राप्तावकाशः । विपर्ययबाधकप्रमाणबलाद्वात्र व्याप्तिसिद्धिः । तथा हि यथाङ्कुरादिकं कार्यं नियतदेशकालस्वभावत्वेन व्याप्तं तथा शालित्वादिनापि (निबन्ध्४५) जातिभेदेन व्याप्तमुपलब्धम् । ततश्चानुपादानपूर्वकत्वाद्विपक्षात्मनः शालित्वादिजातिभेदस्य व्यापकस्य निवृत्तौ निवर्तमानं कार्यत्वमुपादानपूर्वकत्वे विश्राम्यत्तेन व्याप्तं सिध्यति । न चानुपादानेनापि क्रियमाणः शालित्वादिजातिभेदो युज्यते, उपादानं विना कृतानुपादानादेव केवलादेकजातीयकारणात्तदतज्जातीयकार्योत्पत्तौ कार्यभेदस्याहेतुकत्वप्रसङ्गात्तदुक्तम् -

तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः ॥िति ।

अन्यथानुपादानादेव क्षित्यादेरङ्कुरादिकमुत्पद्येतेत्यङ्कुरार्थिनो बीजं नानुसरेयुः । तस्माद्विपर्ययबाधकप्रमाणबलादेव कार्यत्वस्य हेतुमात्रपूर्वकत्वेनेवोपादानपूर्वकत्वेनापि व्याप्तिसिद्धिरिति न्यायः । न चैवं कार्यमात्रकर्तृत्वमात्रयोरपि व्याप्तिप्रसाधकं विपर्यये बाधकं प्रमाणमस्ति, पूर्वोक्तस्य व्यापकानुपलम्भत्रयस्याति प्रसङ्गचतुष्टयस्य च प्रागेव प्रत्याख्यातत्वात् । तस्मात्कार्यं च स्यात्न च धीमत्कर्तृपूर्वकमिति शङ्कां कुर्वाणः प्रतिवादी विना चरणमर्दनादिना निषेद्धुमशक्यः ॥

ननु यदि दृश्याग्निधूमसामान्ययोरिव दृश्यात्मनोरेव कार्यकारणसामान्ययोः प्रत्यक्षानुपलम्भतो व्याप्तिस्तदा परचित्तानुमानक्षतिः । स्वपरसन्तानसाधारणेन दृश्यादृश्येन चिन्मात्रेण प्रत्यक्षतो दृश्यविषयाद्व्याप्तिग्रहणायोगादित्यपि न वाच्यम् । बाह्यार्थस्थितौ हि स्वपरसन्तानसाधारणस्य चिन्मात्रस्य स्वरूपेणादृश्यत्वेऽपि दृश्यशरीरेण सहैकसामग्रीप्रतिबन्धादविनिर्भागवर्तित्वमस्त्येव । ततो यथा घटविषयं प्रत्यक्षं रूपैकदेशप्रवृत्तमप्यव्यभिचारात्समुदायोपस्थापकं तथा देहग्राहकमेव प्रत्यक्षं देहाविनिर्भागवर्ति स्वपरसन्तानसाधारणं चिन्मात्रं कम्पादेर्व्यापकमधिगच्छति । तदेवं दृश्यात्मनो दृश्याविनिर्भागवर्तिनो वा पदार्थस्य व्यावहारिकपटुप्रत्यक्षतः सिद्धिर्व्याप्तिग्रहश्च, न तु तथात्वविनाकृतादृश्यसाधारणचिन्मात्रस्येति सन्तानान्तरानुमानमुचितम् । तस्माद्यदि प्रत्यक्षानुपलम्भाभ्यां व्याप्तिग्रहस्तदा दृश्येनैव दृश्यस्येति न्यायः ।

तदयं संक्षेपार्थः -

कार्यत्वस्य विपक्षवृत्तिहतये संभाव्यतेऽतीन्द्रियः
कर्ता चेद्व्यतिरेकसिद्धिविधुरा व्याप्तिः कथं सिध्यति ।
दृश्योऽथ व्यतिरेकसिद्धिमनसा कर्ता समाश्रीयते
तत्त्यागेऽपि तदा तृणादिकमिति व्यक्तं विपक्षे क्षणम् ॥

अतो न प्रत्यक्षानुपलम्भाभ्यामपि व्याप्तिसिद्धिः ॥

ननु भूयोदर्शनादर्शनाभ्यां प्रतिबन्धः प्रतीयत इति तृतीय एवास्माकं पक्षः । केवलं स प्रतिबन्धो न तदुत्पत्तिलक्षणो ग्रहीतव्यः । किन्तु स्वाभाविकः । स एव दर्शनादर्शनाभ्यां प्रतीयते । तथा चैतमेवार्थं वाचस्पतिः प्राह -

(निबन्ध्४६)
न सपक्षासपक्षयोर्दर्शनाभ्यां कार्यत्वस्य गमकत्वमपि तु स्वाभाविकप्रतिबन्धबलादिति ब्रू मः । स एव तु सपक्षासपक्षयोर्दर्शनादर्शनाभ्यां बक्ष्यमाणेन क्रमेण प्रतीयत इति तदुपक्षेपोऽपि युक्तः । तेन यस्यासौ स्वाभाविकप्रतिबन्धो नियतः सिद्धः स एव गमको गम्यश्चेतरः सम्बन्धीति युज्यते । तथा हि धूमादीनां वह्न्यादिभिः सह सम्बन्धः स्वाभाविको न तु वह्न्यादीनां धूमादिभिः । ते हि विना धूमादिभिरुपलभ्यन्ते । यदा त्वार्द्रेन्धनसंबन्धमनुभवन्ति तदा धूमादिभिः संबध्यन्ते । तस्माद्वह्न्यादीनामार्द्रेन्धनाद्युपाधिकृतः सम्बन्धो न तु स्वाभाविकस्ततो न नियतः । स्वाभाविकस्तु धूमादीनां वह्न्यादिभिः सम्बन्धः, तदुपाधेरनुपलभ्यमानत्वात् । क्वचिद्व्यभिचारस्यादर्शनात् । अनुपलभ्यमानस्यापि कल्पनानुपपत्तेः । न चानुपलभ्यमानो दर्शनानर्हतया साधकबाधकप्रमाणाभावेन सन्दिह्यमान उपाधिः संबन्धस्य स्वाभाविकत्वं प्रतिबध्नातीति युक्तम् । यथोक्तं प्राक्सेयं संशयपिशाचीत्यादि । तस्मादुपाधिं प्रयत्नेनान्विष्यन्तोऽनुपलभमाना नास्तीत्यवगम्य स्वाभाविकत्वं निश्चिनुमः ॥

स्यादेतत् । अन्यस्यान्येन सहाकारणेन चेत्स्वाभाविकः सम्बन्धो भवेत्, सर्वं सर्वेण सम्बध्येत । तथा च सर्वं सर्वस्माद्गम्येत । अथान्यच्चेदन्यस्य कार्यं कस्मात्सर्वं सर्वस्मान्न भवति अन्यत्वाविशेषात् । ततश्च स एवातिप्रसङ्गः । यद्युच्येत स्वभावा न पर्यनुयोज्याः । तस्मादन्यत्वाविशेषेऽपि किञ्चिदेव कारणं कार्यं च किञ्चिदिति । नन्वेष स्वभावाननुयोगोऽकार्यकारणभूतानामपि स्वभावप्रतिवन्धे तुल्य एव । तस्माद्यत्किञ्चिदेतदपि ॥

किमस्य संबन्धस्य व्याप्तिग्राहकं प्रमाणमिति चेत् ।
उच्यते भूयोदर्शनगम्या हि व्याप्तिः सामान्यधर्मयोः ।

इति प्रसिद्धमेव । अस्यायमर्थः काशिकाकारेण व्याख्यातः - प्राचीनानेकदर्शनजनितसंस्कारसहाये चरमे दर्शने चेतसि वकास्ति धूमस्याग्निनियतस्वभावत्वम्, रत्नतत्त्वमिव परोक्षकस्य, शब्दतत्त्वमिव व्याकरणस्मृतिसंस्कृतस्य, ब्राह्मणत्वमिव मातापितृसंबन्धस्मरणसचिवस्येत्यादि । न ह्येतत्सर्वमापाततो न प्रतिभातमिति पुरस्तादपि प्रतिभासमानमन्यथा भवतीति ॥

त्रिलोचनेन पुनरयमर्थः कथितः - भूयोदर्शनेन भूयोदर्शनसहायेन मनसा तज्जातीयानां संबन्धो गृहीतो भवति । अतो धूमोऽग्निं न व्यभिचरति । तद्वयभिचारेप्युपाधिरहितं सम्बन्धमतिक्रामेत् । हेतोर्विपक्षशङ्कानिवर्तकं प्रमाणमुपलब्धिलक्षणप्राप्तोपाधिविरहनिश्चयहेतुरनुपलम्भाख्यं प्रत्यक्षमेव । ततः सिद्धः स्वाभाविकः सम्बन्धः । तथेहापीति स्वमतं व्यवस्थापितमिति ॥

(निबन्ध्४७)
वाचस्पतिनापीदमुक्तम् - अभिजातमणिभेदतत्त्ववद्भूयोदर्शनजनितसंस्कारसहायमिन्द्रियमेव धूमादीना वह्न्यादिभिः स्वाभाविकसंबन्धग्राहीति युक्तमिति ॥

अत्रोच्यते । भेदे सति तदुत्पत्तेरन्यः स्वाभाविकः संबन्धः शब्दास्फालनमात्रमेवेदम् । न खलु निरूप्यमाणः प्राप्यते । तथा हि स्वाभाविकस्तु धूमादीनां वह्न्यादिभिः संबन्धः तदुपाधेरनुपलभ्यमानत्वात् । क्वचिद्व्यभिचारस्यादर्शनादिति त्वयैवास्य लक्षणमुक्तम् । एतच्चासिद्धम् । यतः, उपाधिशब्देन स्वतोऽर्थान्तरमेवापेक्षणीयमभिधातव्यम् । न चार्थान्तरं दृश्यतानियतम्, अदृश्यस्यापि देशकालस्वभावविप्रकृष्टस्य संभवात् । ततश्च धूमस्यापि हुताशेन सह सम्बन्धे स्यादुपाधिः, न चोपलक्ष्यत इति कथमदर्शनान्नास्त्येव यतः स्वाभाविकसंबन्धसिद्धिः ॥

अथ यद्यथान्तरमपेक्षणीयं स्यात् । कथं धूम इत्येव पावकसतानियम इति चेत् । नन्विदमेव चिन्त्यते । तदुत्पत्तेरस्वीकारे सहस्रशो दर्शनेऽपि किं सर्वत्र धूमे सत्यवश्यमग्निः सम्भवी न वेति कदाचिदर्थान्तरमुपाधिमपेक्ष्य धूमोऽपि स्यान्नाग्निरिति किमत्र निष्टङ्ककारणम् । तदुपाधेरनुपलभ्यमानत्वात् । क्वचिद्व्यभिचारस्यादर्शनादिति तु यदुक्तं तत्प्रत्युक्तमेव । अदृश्यस्याप्युपाधेः संभाव्यमानत्वात् । व्यभिचारस्य च प्रत्ययान्तरवैकल्येनाहत्यादर्शनेऽपि निषेद्धमशक्यत्वात् । अत एव तयोर्बाधकाभावेऽपि साधकबाधकप्रमाणाभावात्शङ्का संभवत्येव । न पुनस्तवामुना विक्लवविक्रोशितमात्रेण व्यावर्तते । न चैतावता प्रामाणिकलोकयात्रातिक्रमः । प्रामाणिकैरेव साधकबाधकप्रमाणाभावे न्यायप्राप्तस्य संशयस्य विहितत्वात् । न च सर्वत्राप्रवृत्तिप्रसङ्गः, प्रमाणादर्थसंशयाच्च प्रवृत्तेरुपपत्तेः । न चानर्थसन्देहः सर्वत्र व र्तुं शक्यते, क्वचिदर्थोन्मुखताया एव दर्शनात् ॥

यच्चान्यत्वाविशेषेऽपि किञ्चिदेव कारणं कार्यं च किञ्चिदिति स्वभावो यथा न पर्यनुयोज्यस्तथैष स्वभावाननुयोगोऽकार्यकारणभूतानामपि स्वभावप्रतिबन्धे तुल्य एवेति ग्राम्यजनधन्धीकरणं प्रतिवन्दीकरणमतिलाघवमाविस्करोति वाचस्पतेः । तथा हि वस्तुत्वाविशेषेऽप्यग्निर्दहति नाकाशमित्यत्र यथा नातिप्रसङ्गः सङ्गतः प्रमाणसिद्धत्वादस्यार्थस्य, तथा भेदाविशेषेऽपि किञ्चिदेव कस्यचित्कारणं कार्यं च किञ्चिदित्यत्रापि नातिप्रसङ्गावतारः । भेदे सति तदन्वयव्यतिरेकानुविधानलक्षणस्य कार्यकारणभावस्य प्रमाणसिद्धत्वादेव । न चैवं स्वाभाविकसंबन्धशब्दवाच्योऽर्थः प्रमाणसिद्धः कश्चिदस्ति, तल्लक्षणस्यासिद्धत्वादुक्तत्वात् । न च प्रतिज्ञासिद्धे वस्तुन्यतिप्रसङ्गो नाभिधातव्यः, सर्वेषां सर्वत्र तद्रूपाभ्युपगममात्रेण विजेतृत्वप्रसङ्गात् । यदाहालङ्कारकारः -

यत्किञ्चिदात्माभिमतं विधाय निरुत्तरस्तत्र कृतः परेण ।
(निबन्ध्४८)
वस्तुस्वभावैरिति वाच्यमित्थं, तथोत्तरंस्याद्विजयी समस्तः ॥
इति ॥

किं च स्वाभाविकसंबन्ध इति कोऽर्थः । किं स्वतो भूतः स्वहेतुतो भूतोऽहेतुको वेति त्रयः पक्षाः । न तावदाद्यः पक्षः, स्वात्मनि कारित्रविरोधात् । द्वितीयपक्षे तु तदुत्पत्तिरेव संबन्धो मुखान्तरेण स्वीकृत इति न कश्चिद्विवादः । अहेतुकत्वे तु देशकालस्वभावनियमाभावप्रसङ्गादित्यसङ्गतः स्वाभाविकः संबन्धः ॥

एतेन यदुक्तम् - न सपक्षासपक्षयोर्दर्शनादर्शनाभ्यां कार्यत्वस्य गमकत्वमपितु स्वाभाविकसंबन्धबलादिति ब्रूमः, स एव तु सपक्षासपक्षयोर्दर्शनादर्शनाभ्यां वक्ष्यमाणेन क्रमेण प्रतीयत इति, तदिष्टकामतामात्राविष्करणमिति मन्तव्यम् । स्वाभाविकसंबन्धस्य ह्युपाधिनिरपेक्षनियतत्वं लक्षणमुक्तम् । तस्य चोक्तन्यायेनासिद्धौ भूयोदर्शनजनितसंस्कारसहाये चरमे चेतसि मनसि वा तथाभूतं नियतत्वं परिस्फुरतीति सदयेन वक्तुमशक्यत्वात् ।

यच्च शब्दतत्त्वमिव ब्राह्मणत्वमिवेति दृष्टान्तीकृतं तद्द्वयमप्यस्मान् प्रत्यसिद्धमिति दृष्टान्तयितुमनुचितम् । अभिजातमणिभेदतत्त्वं तु परिस्फुरतीति युक्तम् । तस्य ह्युपदेशपरम्परातो माणिक्यवत्तेनापि कष्टेनेन्द्रधनुराकारज्योतिरादिकं लक्षणं निश्चितम् । न चैवं स्वाभाविकसंबन्धलक्षणं त्वया स्वकपोलरचितमपि प्रमाणेन निश्चितम् । येनास्यापि तादृशी व्यवस्था स्यादिति यत्किञ्चिदेतत् ॥

किं च भवतु तावदयमनवधारितरूपः स्वाभाविकः संबन्धः, तथापि दर्शनादर्शनाभ्यामस्य ग्रहणमतिदुर्लभम् । तथा हि यदि प्राचीनानेकदर्शनजनितसंस्कारसहायेन चरमचेतसा धूमस्याग्निनियतत्वं ग्राह्यं तदा सपक्षासपक्षयोः कोटिशः प्रवृत्तदर्शनादर्शनजनितसंस्कारसहायेन चरमचेतसा पार्थिवत्वस्यापि लोहलेख्यत्वनियतत्वं गृह्यत इति पार्थिवत्वादपि लोहलेख्यत्वसिद्धिरस्तु । अथ पार्थिवत्वस्य लोहलेख्यत्वनियतत्वमेव नास्ति वज्रे व्याभिचारदएर्शनात् । तत्कथं प्रत्यक्षेण नियतत्वग्रहः । तर्हि धूमस्य वह्निनियतत्वमेव नास्ति, व्यभिचाराभावस्य दर्शयितुमशक्यत्वात् । तत्कथं चरमचित्तेन नियमग्रह इत्यपि तुल्यम् ।

व्यभिचारादर्शनादव्यभिचार इति चेत् । ननु व्यभिचारादर्शनादव्यभिचार इति कोऽर्थः । किं व्यभिचारादर्शनादव्यभिचारः, व्यभिचाराभावात्वा । प्रथमे पक्षे व्यभिचारो भवतु मा वा व्यभिचारादर्शनादेवाव्यभिचार इति निष्णातं पाण्डित्यम् । अथ द्वितीयः पक्षः । तदा व्यभिचाराभावः कुतो ज्ञातः । अदर्शनादिति चेत् । तत्किमदर्शनमात्रं दृश्यादर्शनं वा । प्रथममशक्तम् । न ह्यदर्शनेऽपि व्यभिचारो नास्तीत्यभिधातुं शक्यते, चिरकालनष्टब्राह्मणीव्यभिचारवत् । आहत्यादर्शने (निबन्ध्४९)ऽप्यतिचिरकालव्यवधानेन व्यभिचारदर्शनात् । द्वितीयं चासम्भवि, क्वचित्कदाचित्केनचिद्व्यभिचारदर्शनसामग्र्यां सत्यां व्यभिचारदर्शनात् । दर्शनसामग्र्यभावे तु प्रत्ययान्तरवैकल्यात्देशकालान्तरवर्तित्वाद्वा व्यभिचारस्य स(र्वं) प्रत्युपलब्धिलक्षणप्राप्तत्वाभावात् । तस्मात्सत्यपि व्यभिचारे तदुपलम्भसामग्र्यभावाद्व्यभिचारानुपलम्भः । प्रकारान्तरेण वा तदुत्पत्तिलक्षणेनाव्यभिचारे व्यभिचारानुपलम्भ इत्युभयथापि व्यभिचारोपलम्भनिवृत्तिरस्तु । त्वया तु यदव्यभिचारप्रतिपत्तिनिबन्धनं दर्शनादर्शनमुपवर्णितं तत्पार्थिवत्वादौ व्यभिचाराद्धूमेऽपि नाव्यभिचारनिबन्धनमिति धूमोऽपि त्वन्मते नाश्वासभाजनमिति प्रसक्तम् ।

अस्मन्मते तु प्रत्यक्षानुपलम्भाभ्यामेकत्र कार्यकारणभावसिद्धौ न व्यभिचारशङ्कासंभवः । तदभावे तु

हेतुमत्तां विलङ्घयेदिति

न्यायात्न संशयपिशाचावसरः । तदेवं भूयोदर्शनादर्शनाभ्यामपि न व्याप्तिसिद्धिः ।

तर्हि सकृत्सपक्षासपक्षयोदर्शनार्दनाभ्यां व्याप्तेर्निश्चय इति चतुर्थ एव पक्षोऽस्तु । तथा हि कार्यत्वस्य बुद्धिमन्मात्रपूर्वकत्वेनान्वयो घटादौ दृष्टः, आकाशादौ बुद्धिमत्कारणनिवृत्तौ कार्यत्वस्य व्यतिरेकः । ततश्च सकृदन्वयव्यातिरेक सिद्धौ व्याप्तेः सिद्धत्वात्कुतोऽनैकान्तिकता ।

अत्राभिधीयते । यदि बुद्धिमत्कारणकार्यत्वयोरेकत्र प्रतिबन्धः प्रमाणप्रतीतः स्यात्तदा आकाशादौ बुद्धिमन्निवृत्तौ कार्यत्वस्य निवृत्तिरिति युक्तम् । स च प्रतिबन्धः तादात्म्यं तदुत्पत्तिः स्वाभाविकोऽन्यो वा न सिध्यति साधकप्रमाणाभावादित्यनन्तरमेवावेदितम् । ततश्चाकाशादौ बुद्धिमन्निवृत्तिरपि स्यात् । न च कार्यत्वस्य निवृत्तिरिति सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकं कार्यत्वम् ।

नन्वाकाशस्यास्मन्मते नित्यत्वं त्वन्मते चासत्त्वम् । तत्कथमतः कार्यत्वव्यतिरेकः सन्दिग्ध इति चेत् । उच्यते । नह्याकाशे कार्यव्यावृत्तिमात्रं व्यतिरेकः । किन्तु साध्याभावप्रयुक्तः साधनाभावो व्यतिरेकः । स चाकाशे ग्रहीतुमशक्यः । यथा तत्र बुद्धिमत्कारणनिवृत्तिस्तथा कारणमात्रस्यापि निवृत्तिः । तत्कस्याभावप्रयुक्तः कार्याभावः प्रतीयतां येन व्यतिरेकः सिध्यति॥

ननु सत्यमेवैतत् । यथाकाशे बुद्धिमत्कारणनिवृत्तिस्तथा कारणमात्रस्यापि तत्र निवृत्तिर्न बुद्धिमत्कारणव्यतिरेकानुविधायित्वं कार्यत्वस्य निश्चेतुं शक्यते । तथापि घटादौ कार्यत्वस्य बुद्धिमतान्ययदर्शनादाकाशेऽपि बुद्धिमदभावप्रयुक्तः कार्यत्वाभावः प्रतीयते । तत्कथं व्यतिरेकासिद्धिरिति चेत् । हन्त घटादावपि न कार्यत्वस्य सत्तामात्रमन्वयः । किं तु साध्यसद्भावप्रयुक्तः साधनसद्भावः । स च घटे ग्रहीतुमशक्यः । यथा हि तत्र बुद्धिमद्भावस्तथा कटकुड्यादिभावोऽपि । तत्(निबन्ध्५०) क एवं जानातु किं बुद्धिमद्भावे कार्यत्वस्य भावो यद्वा कटकुड्यादिभावे भाव इति । तस्मादत्र विशिष्टान्वयव्यतिरेकग्रहणप्रवणविशिष्टप्रत्यक्षानुपलम्भावनुसर्तव्यौ यद्दृश्ययोरेव कार्यकारणयोस्तदुत्पत्तिसिद्धावन्वयव्यतिरेकौ सिध्यतः ॥

न च प्रतिबन्धसाधकं प्रमाणं स्वप्नेऽप्यस्तीति चतुर्थोऽपि पक्षः क्षतः । तदेवं बुद्धिमत्कार्यमात्रयोर्व्याप्तेरसिद्धावधिकरणसिद्धान्त न्यायाद्युपादानाद्यभिज्ञः सर्वज्ञः पुरुषविशेषः सिध्यतीति प्रत्याशा दुराशैव ॥

यच्च क्रियासामान्यस्य पक्षधर्मतावशाच्चक्षुर्लक्षणकरणविशेषसिद्धिरिति दृष्टान्तो दर्शितः सोऽपि साध्या(भि)न्नः । तत्र हि रूपज्ञानान्यथानुपपत्त्या सिद्धस्य कारणान्तरस्यैव चक्षुरिन्द्रियमिति नामकरणात् । रूपज्ञानजनकत्वातिरिक्तस्य चक्षुर्लक्षणविशेषस्यासिद्धत्वात् । अथ रूपज्ञानजनकत्वमेव चक्षुष्ट्वमुच्यते । भवतु को दोषः । एतदेवास्माभि कारणान्तरमुच्यते । तथैव यदि त्वयापि बुद्धिमत्सामान्याश्रयमात्रस्य पुरुषविशेषः इति नाम क्रियते, तदा नास्माकं काचिद्विप्रतिपत्तिः । परमार्थतो बुद्धिमत्सामान्याश्रये सर्वज्ञत्वादिविशेषश्चक्षुरादिविशेषवत्सिध्यतीति तत्र विवदामहे । उभयोरपि दृष्टान्तदार्ष्टान्तिकयोर्विशेषसाधनसामर्थ्याभावात् ॥

तदयं संक्षेपार्थः -

दृश्ये तु साध्ये व्यभिचार एव दृश्यं न चेन्न व्यभिचारसिद्धिः ।
साधारणत्वादथ वा विपक्षसन्देहतः साध्यमतो न सिध्यति ॥

इतीश्वरो दत्तजलाञ्जलिः ॥

इदानीं साधनस्वरूपं निरूप्यते । यदेतन्मेरुमन्दरमेदिनीघटपटादिसाधारणं कार्यमात्रं साधनमुपन्यस्तं यावदस्य बुद्धिमदन्वयव्यतिरेकानुविधानमेकत्र नावधार्यते तावद्गमकत्वमयुक्तम् । न च तत्स्वप्नेऽपि प्रत्येतुं शक्यम् । तथा हि कुम्भकारव्यापारे सति मृत्पिण्डाद्घटलक्षणं कार्यमुपलभ्यतां नाम । न तु व्यापारात्पूर्वं घटवत्कार्यमात्रस्य व्यतिरेकः प्रत्येतुं शक्यः, कुम्भकारव्यतिरेकेऽपि शोषभङ्गादिलक्षणस्य कार्यस्य मृत्पिण्डे दर्शनात् । न च यद्विनाभूतं यदुपलभ्यते तत्तस्य कार्यमतिप्रसङ्गात् । तृणादिवन्मृत्पिण्डस्य शोषभङ्गादिकार्यमात्रमपि पक्षीकृतमिति चेत् । क्रियतां बुद्धिमद्व्यतिरेके कार्यमात्रव्यतिरेकस्त्वेकत्रापि प्रतिपाद्यतां येन व्याप्तिसिद्धौ तृणादिरिव शोषभङ्गादेरपि बुद्धिमदनुमानं स्यात् । (निबन्ध्५१) आकाशादिवैधर्म्यदृष्टान्तस्तु पूर्वं प्रतिहतः, बुद्धिमत्पूर्वकत्वस्येव कारणमात्रपूर्वकत्वस्यापि तत्र संभवात्किंप्रयुक्तः कार्यत्वाभाव इत्यपरिज्ञानात् ॥

एतेन यदुक्तम् - न व्यभिचारोपलम्भात्प्रातिस्विकविशेषपरित्यागेन घटादीनामभूत्वाभवनादन्यरूपं विशेषमुपलक्षयामो यन्निष्ठं पुरुषपूर्वकत्वं व्यवस्थापयाम इति तदपि प्रतिव्यूढम् । कुम्भकाराद्यभावेऽपि मृत्पिण्डादौ शोषभङ्गादिकार्यदर्शनादभूत्वा भावलक्षणस्य कार्यमात्रस्य व्यतिरेकासिद्धेर्व्याप्तेरभावात् ॥

ननु यदि कार्यत्वमात्रस्य न बुद्धिमता प्रत्यक्षतो व्याप्तिग्रहः व्यतिरेकाभावात्, त्वयापि तर्हि कथं कृतकत्वस्यानित्यत्वेन व्याप्तिरवधार्यत इति चेत् । अनपेक्षालक्षणविपर्ययबाधकप्रमाणबलादिति ब्रूमः । तच्चातद्रूपपरावृत्तस्यैव कृतकत्वस्य विपक्षाद्व्यतिरेकं साधयति । न च त्वया विपर्ययबाधकप्रमाणमभिधातुं शक्यत इति प्रागेव प्रतिपादितम् । सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकमिदं कार्यत्वमात्रम् ॥

एतेन यदेतत्नैयायिकानामाक्षेपपरिहारविडम्बनम् । इह खलु द्वे कार्यत्वे । कार्यमात्रम् । विशिष्टं च । तत्राद्यस्य प्रतिबन्धासिद्धेरनैकान्तिकत्वम् । विशिष्टस्य भूधरादिष्वसंभवादसिद्धत्वमिति । तदसङ्गतम् । कार्यत्वमात्रस्यैव प्रतिबन्धोपपादनात् ॥

यच्चोक्तं विशिष्टं कार्यत्वमिति । कीदृशं पुनस्तदिति वक्तव्यम् । अथ यत्कार्यं षुरुषान्वयव्यतिरेकानुविधायितया तत्पूर्वकमुपलब्धम् । यद्दृष्टेरक्रियादर्शिनोऽपि कॄतबुद्धिरुत्पद्यते तत्कार्यं सकलप्रासादाद्यनुगतं भूधरादिव्यावृत्तं विशिष्टमित्यभिधीयते । तदसुन्दरम् । विकल्पानुपपत्तेः ॥

तथा चाह शङ्करः - कृतबुद्धिः किं साध्यबुद्धिः किं वा साधनबुद्धिः । साध्यबुद्धिरपि यदि गृहीतव्याप्तिकस्य, सा भवत्येव । अथागृहीतव्याप्तिकस्य, किमन्यत्रापि सा भवन्ती दृष्टा । अथ साधनबुद्धिः । तर्हि स्वोपगमविरोधः, सर्वस्य भावस्य कृतकत्वोपगमादिति ॥

वाचस्पतिः पुनरत्राह - इदमत्र निपुणतरं निरूपयतु भवान् किं बुद्धिमदन्वयव्यतिरेकानुविधानं विशेषः । आहोस्वित्तद्दर्शनं यत्पर्वतादिषु नास्तीत्यभिधीयते । यदि पूर्वकः कल्पः, स बुद्धिमद्धेतुकत्वं तनुभुवनादीनामातिष्ठमानैरभ्युपेयत एव । न हि कारणं कार्याननुविहितभावाभावमन्यो वक्त्यह्रीकात् । अथ तद्दर्शनमिति चरमः कल्पः । न तर्हि अक्रियादर्शिनः कृतबुद्धिसंभवः । य एव हि घटोऽनेन बुद्धिमदन्वयव्यतिरेकानुविधायी दृष्टः, स एव कार्यो न तु विपणिवर्ती । तज्जातीयस्य (निबन्ध्५२) तदन्वयव्यतिरेकानुविधानदर्शनाददृष्टान्वयव्यतिरेकानुविधानमपि तज्जातीयं तथेति चेत् । हन्तोत्पत्तिमद्घटादि बुद्धिमदन्वयव्यतिरेकानुविधायीति अन्यदपितनुभुवनादिकं तथा भवन्न दण्डेन पराणुद्यते घटजातीयमुत्पत्तिमद्बुद्धिमत्पूर्वकमिति चेत् । ननु प्रासादादि तद्धेतुकं न भवेत् । अघटजातीयत्वात् । अथ यज्जातीयमन्वयव्यतिरेकानुविधायि दृष्टम्, तज्जातीयमेवादृष्टान्वयव्यतिरेकमपि तद्धेतुकम् । तत्किं कार्यजातीयं प्रासादादि बुद्धिमद्धेतुकं न दृष्टं येनोत्पत्तिमत्तनुभुवनादि तथा न स्यात् । न खलु तज्जातीयत्वे कश्चिद्विशेष इति ॥

वित्तोकस्त्वाह - भवतु वा कश्चिदनिरूपितरूपो विशेषः । किं पुनरनेन विशेषं प्रतिपादयताभिप्रेतम् । किं कार्यत्वसामान्यस्यासिद्धत्वम् । अथ कार्यविशेषस्य । अथ कार्यमात्रस्य बुद्धिमत्कर्तृव्यभिचारः । अथ साध्यदृष्टान्तयोर्वैधर्म्यमात्रम् । किं चातः यदि तावत्कार्यसामान्यस्यासिद्धत्वम् । तन्नास्ति । विश्वम्भरादिष्वपि कारणव्यापारजन्यत्वस्योभयसिद्धत्वात् । अथ कार्यविशेषस्य कुम्भादिवर्तिनः पक्षेऽसिद्धिरभिधीयते । तदा न काचिदत्र क्षतिर्विशेषस्य हेतुत्वेनानुपादानात् । यदि कार्यसामान्यस्य कर्तृव्यभिचारः प्रतिपादयितुमिष्टः । स न शक्यो विपक्षेऽदर्शनात् । तृणादेश्च पक्षीकृतत्वात् । शङ्कामात्रस्य सर्वथानिषिद्धत्वात् । सन्दिग्धव्यतिरेकित्वं नैयायिकानां निरनुयोज्यानुयोगो बौद्धानामदोषोद्भावनं निग्रहस्थानमिति तु प्रतिपादितम् । तथापि बाधकप्रमाणान्यभिहितान्येव । तस्मान्न प्रतिबन्धासिद्धेः सर्वत्र व्यभिचाराशङ्का । अथ साध्यदृष्टान्तयोर्वैधर्म्योद्भावनम् । तन्न । तस्य सर्वत्र सुलभत्वात् । यदि साध्यदृष्टान्तयोर्वैधर्म्यमात्रात्साध्यासिद्धिः निर्वृत्तेदानीमनुमानवार्तापि निकुञ्जमहानसयोरपि धूमवत्त्वेऽपि कथञ्चिद्वैधर्म्योपपत्तेरिति सकलं यत्किञ्चिदेतदिति ।

तदयमत्र संक्षेपार्थः । यत्तावत्कार्यत्वमात्रं तदेवोक्तेन क्रमेण प्रतिबन्धसिद्धेर्भूधरादिषु दृष्टं पुरुषमनुमापयतीत्यस्माकमभिमतसाध्यमसिद्धिरुपपन्नैवेति किमस्माकमधिकचिन्तयेत्यङ्गीकृत्याप्युक्तं विशिष्टकार्यत्वम् । तदेव तु नास्तीति पुनर्विस्तरेण प्रतिपादितमिति तदपि सर्वमनवधेयमेव । तथा हि कार्यत्वमात्रस्य तावदुक्तेन क्रमेण व्याप्तेरसिद्धत्वादनैकान्तिकत्वमनिवार्यम् । यच्च विशिष्टकार्यत्वं विकल्प्य दूषितं तस्यास्माभिरनभ्युपगतत्वात्तद्दूषणाय प्रबन्धः प्रयासैकफलः । न हि कार्यत्वं द्विविधमभिमतम् । एकं सर्वकार्यानुगतम्, अपरं पर्वतादिव्यावृत्तं घटपटप्रासादाद्यनुयायीति । किं तु कार्यमनेकजातीयकम् । तत्र यदि नाम पटस्य प्रासादादिभिः सह वस्तुत्वसंस्थानविशेषयोगित्वकार्यत्वादिभिर्धर्मैः सजातीयत्वमस्ति तथापि न तान् धर्मान् बुद्धिमत्पूर्वकानधिगच्छति व्यावहारिकं प्रत्यक्षम्, कार्यत्वादीनां बुद्धिमद्व्यतिरेकानुविधानाभावात् । तत्कथं प्रासादपर्वतादिषु कार्यत्वादिदर्शनाद्बुद्धिमदनुमानमस्तु । किं तु यस्यैव घटजातीय कार्यंचक्रस्य व्यतिरेकसिद्धिस्तस्य बुद्धिमद्व्याप्तत्वं प्रत्यक्षतः सिध्यतीत्युक्तम् । (निबन्ध्५३) तेन देशकालान्तरे घटजातीयादेव बुद्धिमदनुमानम् । यदा तु प्रासादजातीयकमपि बुद्धिमद्धेतुकमेकत्र पृथगवधार्यते तदा तज्जातीयादपि बुद्धिमत्सिद्धिः । एवं तत्तज्जातीयसराबोदञ्चनशकटपटकेयूरप्रभृतेः कार्यचक्राद्बुद्धिमत्पूर्वकत्वेन पृथक्पृथगवधारिताद्बुद्धिमदनुमानमनवद्यम् ।

अमुमेवार्थमभिसन्धायाचार्यपादैरभिहितम्-

सिद्धं यादृगधिष्ठातृभावाभावानुवृत्तिमत् ।
सन्निवेशादि तद्युक्तं तस्माद्यदनुमीयते ॥

इति । एवं घटपटपर्वतादीनां कार्यत्ववस्तुत्वादिभिर्धर्मैः सजातीयत्वेऽपि अवान्तरं घटपटपर्वतत्वादिजातिभेदमादाय लोकस्य व्याप्तिग्राहकं प्रत्यक्षं प्रवर्ततमिति दर्शयितुं संव्यवहारप्रगल्भपुरुषबुद्ध्यपेक्षया यद्दर्शनादक्रियादर्शिनोऽपि कृतबुद्धिर्भवतीत्युक्तम् । न तु शास्त्रपरवशबुद्धिपुरुषापेक्षया । तथा हि शास्त्रसंस्काररहितस्य व्यवहारप्रगल्भस्य पुरुषस्य देवकुलजातीयकं पुरुषपूर्वकतयावधारितवतो नगराद्वनं प्रविष्टस्य पर्वतदेवकुलयोर्दर्शने तयोर्द्वयोरप्यक्रियादर्शिनोऽपि देवकुले कृतबुद्धिर्भवति न पर्वते । तदनयोर्देवकुलपर्वतयोः कार्यत्वादिना एकजातित्वेऽपि कृतबुद्धिभावाभावौ न तयोः पर्वतदेवकुलत्वलक्षणावान्तरजातिभेदमनवस्थाप्य स्थातुं प्रभवतः । जातिभेदे च सिद्धे देवकुलजातीये व्याप्तेर्ग्रहणात्न पर्वतजातीयस्य, न च प्रासादजातीयस्य व्याप्तिसिद्धिरिति न ततो बुद्धिमदनुमानम् । यदा तु प्रासादस्यापि पृथग्व्याप्तिग्रहः तदा तज्जातीयादपि बुद्धिमदनुमानमस्तु । न क्षितिधरादिजातीयस्य स्वप्नेऽपि व्याप्तिग्रहः क्रीडापर्वतादेर्नाममात्राभेदेऽपि पर्वतादिभिरेकान्ततो भिन्नस्वरूपत्वात् । यच्च पृष्टं केयं कृतबुद्धिरित्यादि । तत्र कामं साध्यबुद्धिरेवेति ब्रूमः । यच्चात्रोक्तं साध्यबुद्धिरपि यदि गृहीतव्याप्तिकस्य सा भवत्येव । अथागृहीतव्याप्तिकस्य किमन्यत्रापि सा भवन्ती दृष्टेति ॥

अत्रोच्यते । गृहीतव्याप्तिकस्यानुमानं भवति, अगृहीतव्याप्तिकस्य न भवतीत्यत्रास्माकं न काचिद्विप्रतिपत्तिः । केवलं गृहीतव्याप्तिकोस्मिन् विषये न संभवतीति ब्रूमः । उक्तक्रमेण व्यतिरेकासिद्धेर्व्यावहारिकप्रत्यक्षेण कार्यत्वस्य व्याप्तत्वानिश्चयात् । तस्मादवान्तरजातिभेदप्रसिद्ध्यर्थं व्यावहारिकपुरुषापेक्षयैवास्या बुद्धेर्भावाभावावुक्तौ । जातिभेदे च प्रयोजनं पूर्वमेव प्रतिपादितम् ।

यदप्यत्र निपुणम्मन्येन वाचस्पतिना कथितं तत्किं कार्यजातीयं प्रासादादि बुद्धिमद्धेतुकं न दृष्टं येनोत्पत्तिमत्तनुभुवनादि तथा न स्यात्, न खलु तज्जातीयकत्वे कश्चिद्विशेष इति । तदसङ्गतम् । तथा हि भवतु प्रासादपर्वतादीनां कार्यत्वादिना सजातीयत्वम् । तत्तु न व्यावहारिकप्रत्यक्षेण बुद्धिमद्व्याप्तं प्रत्येतुं शक्यम्, व्याप्तिग्रहणसमये दृष्टान्ते बुद्धिमदभावप्रयुक्तस्य कार्यमात्रव्यतिरेकस्य दर्शयितुमशक्यत्वात् ।

(निबन्ध्५४)
तदयं संक्षेपार्थः । कार्यत्वमात्रस्याव्यतिरेकादव्याप्तस्यागमकत्वम् । अवान्तरं तु घटप्रासादादिसाधारणं कार्यत्वमात्रमस्माभिरपि न स्वीकृतमेव । यथा तु घटत्वपटत्वादिप्रातिस्विकानेकजातिपुरस्कारेण प्रसिद्धानुमानव्यवस्था सा चानवद्यमवस्थापितेति ।

संप्रति साध्यात्मा विचार्यते । ननु वादिना साधने समुपन्यस्ते तद्दूषणोपन्यासमपास्य साध्यस्वरूपविकल्पनं नाम नैयायिकमते निरनुयोज्यानुयोगः, सौगतमते त्वदोषोद्भावनं निग्रहस्थानमिति चेत् । तदेतज्जाल्मजल्पितम् । तथा हि साध्यस्वरूपेऽपरिनिष्ठिते तदनुसारिणी पक्षसपक्षविपक्षव्यवस्था कुतः । तदसिद्धौ चासिद्धतादयो दोषाः पक्षधर्मतादयश्च गुणा न व्यवस्थिता इत्युक्तम् । नेदानीं हेतोर्दोष गुणकथेति मूकेन प्रतिवादिना स्थातव्यम् । तस्माद्धेतुदोषोपन्यासायैवेयं साध्यनिरुक्तिरित्ययमेव वादी स्वमते निरनुयोज्यानुयोगदूषणेन निग्रहस्थानेन निगृह्यत इति किमत्र निर्बन्धेन ।

यदेतत्कार्यत्वं साधनं किमनेन विश्वस्य बुद्धिमन्मात्रपूर्वकत्वं साध्यते । आहोस्विदेकत्वविभुत्वसर्वज्ञत्वनित्यत्वादिगुणविशिष्टबुद्धिमत्पूर्वकत्वम् । प्रथमपक्षे सिद्धसाधनम् । द्वितीये तु व्याप्तेरभावादनैकान्तिकता ।

ननु सामान्येन व्याप्तौ प्रतीतायामपि पक्षधर्मताबलाद्विशेषसिद्धिः । यथाग्नेः पर्वतायोगव्यवच्छेदादिसिद्धिः । अन्यथा सर्वानुमानोच्छेदः । अनुमानद्वेषी ह्येवं जल्पति -

अनुमानभङ्गपङ्केऽस्मिन्निमग्ना वादिदन्तिनः ।
विशेषेऽनुगमाभावः सामान्ये सिद्धसाध्यता ॥

अत्रोच्यते । सिध्यत्येव पक्षधर्मताबलतो विशेषः । न तु सर्वः । येन हि विना पक्षस्थं साधनं नोपपद्यते स विशेषः सिध्यतु । यथा वह्नेरेव पर्वतवर्तित्वादिविशेषो न पञ्चवर्णशिखाकलापकमनीयः । न च गिरीणां तरूणां कार्यत्वं कर्तुरेकत्वविभुत्वसर्वज्ञत्वादिकमन्तरेण नोपपद्यते, तदितरेष्वपि दर्शनात् । तस्मात्

पक्षायोगव्यवच्छेदभेदमात्रे न दूषणम् ।
इष्टसिद्ध्यन्वयाभावादतिरिक्ते तु दूषणम् ॥

यद्येवं स्वस्वरूपोपादानोपकरणसंप्रदानप्रयोजनाभिज्ञ एव कर्ता साध्यते । स्वरूपमिह च द्वयणुकं कार्यम् । उपादानमिह परमाणुजातिचतुष्टयम् । उपकरणं समस्तक्षेत्रज्ञसमवायिधर्माधर्मौ । सम्प्रदानं क्षेत्रज्ञाः, यानयं भगवान् स्वकर्मभिरभिप्रैति । (निबन्ध्५५) प्रयोजनं सुखदुःखोपभोगः क्षेत्रज्ञानाम् । एवं भूते बुद्धिमति साध्ये कुतः सिद्धसाधनम् । न चाव्याप्तिः । कुलालदृष्टान्तेन उदापानद्यभिज्ञत्वस्य संभवात् ।

तथा च वाचस्पतिः प्रमाणयति -

विवादाध्यासितास्तनुगिरिसागरादयः उपादानाद्यभिज्ञकर्तृकाः । कार्यत्वात् ।

यद्यत्कार्य तत्तदुपादानाद्यभिज्ञकर्तृकम् । यथा प्रासादादि ।

तथा च विवादाध्यासितास्तन्वादयः ।

तस्मात्तथेति ।

एवमतः साधनादुपादानाद्यभिज्ञकर्तृमात्रं प्रसाध्य तस्य सर्वज्ञत्वसाधनाय वाचस्पतिरेव पुनरपीदमाह - भवतु तावदुपादानाद्यभिज्ञकर्तृमात्रसिद्धिः । पारिशेष्यात्तु व्यतिरेकिद्वितीयनाम्नोऽनुमानाद्विशेषसिद्धिः । तथा हि

तनुभुवनाद्युपादानद्यभिज्ञः कर्ता नानित्यासर्वविषयबुद्धिमान् ।

तत्कर्तुस्तदुपादानाद्यनभिज्ञत्वप्रसङ्गात् ।

न ह्येवंविधस्तदुपादानाद्यभिज्ञो यथास्मदादिः ।

तदुपादानाद्यभिज्ञश्चायम् ।

तस्मात्तथेति ।

नो खलु परमाणुभेदान् क्षेत्रज्ञसमवायिनश्च कर्माशयभेदानपरिमेयानन्यः शक्तो ज्ञातुमृते तादृगीश्वरादिति ।

अत्रोच्यते । यावन्ति द्वयणुकानि भिन्नदेशकालस्वभावानि कार्याणि सन्ति तेषु सर्वेष्वेव किमेक एव बुद्धिमान् व्याप्रियते । अनेको वा । यद्वा स्वस्वविषयमात्रोपादानादिवेदिनः परस्परव्यापारानभिज्ञा भिन्नदेशकालस्वभावाः प्रतिद्वयणुकमन्य एव बुद्धिमन्तो व्याप्रियन्ते इति त्रयः पक्षाः ।

न तावत्प्रथमपक्षः । देशकालस्वभावभिन्नानां सर्वेषां द्वयणुकानां कर्तुरेकत्वासिद्धेः । यच्चैकत्वसाधनाय कार्यलिङ्गाविशेषादित्याद्यपि साधनमुपन्यस्तं तदसङ्गतम् । धूमलिङ्गाविशेषेऽपि ह्यग्नेरनेकत्ववत्तत्रापि तच्छङ्कासंभवात् । सदिति लिङ्गाविशेषादिति तु दृष्टान्तोऽस्मान् प्रत्यसिद्ध एव, तस्माद्यथा मया नानात्वसाधनाय प्रमाणं वक्तव्यं तथा त्वयाप्येकत्वसाधनाय साधनमभिधानीयम् ।

अथ मन्यते अनेकत्वसाधनाभावादेकत्वसिद्धिरिति । यद्येवमेकत्वसाधनाभावादनेकत्वमेव किं नावगच्छसि ।

यदप्युक्तम् - एकत्वे तु न प्रमाणान्तरमन्वेष्टव्यमेकस्य कर्तुरभावे बहूनां व्याहतमनसामित्यादि । तदपि चिन्त्यताम् । बहुभिः करणे युगपत्कार्यानुत्पत्तिरिति किं (निबन्ध्५६) भिन्नदेशकालानां कार्याणामनुत्पत्तिर्विवक्षिता । एकस्यैव वा महावयविनः । क्षितिघटादिरूपस्य । तत्र एकस्मिन्नपि कार्ये बहुभिः करणे उत्पत्तिविरोधि (नं) न पश्यामः । बहूनां परस्परं वैमत्यनियमाभावात् । परस्पराव्याघातपुरुषत्वयोर्द्विविधस्यापि विरोधस्यासंभवात् । पुरुषत्वं हि अपुरुषत्वेन विरुद्धम् । न तु परस्पराव्याघातेन ।

ये त्वनन्तदेशकालस्वभावभेदभिन्नास्तेषु सुतरामेवानेकव्यापारनिषेधोऽसम्भवीति द्वितीयोपि पक्षो व्युदस्तः । न च कर्तुरेकत्वेन दृष्टा व्याप्तिसिद्धिः । अनेकेनापि स्वतन्त्रेण स्वस्वप्रयोजनार्थिना ग्रामप्रविष्टहरिणादिमारणैककार्यदर्शनात् । तस्यापि पक्षीकरणे एककर्तृपूर्वकाभिमतस्यापि पक्षीकरणे आत्मकर्तृपूर्वकत्वमस्तु । तदेवं न सर्वद्वयणुकानां कर्तुरेकत्वसिद्धिः । तथा चोक्तम्

एककर्तुर्न सिद्धौ तु सर्वज्ञत्वं किमाश्रयम् ।

अत एव द्वितीयोऽपि पक्षः क्षीणः । सर्वेषु द्वयणुकेष्वेकस्यापि कर्तुरप्रवृत्तौ बहूनां सुतरामप्रवृत्तेः ।

तृतीयस्तु पक्षो यदि भवेद्तदा स्वस्वव्यापारविषयमात्रोपादानाद्यभिज्ञत्वेऽपि नैकः कश्चित्सर्वज्ञः सिध्यति । न च ज्ञानं सत्तामात्रेण कतिपयातीन्द्रियदर्शनवत्सर्वार्थग्रहणं येन तदभेदात्प्रस्तुतपरमाणूवत्सर्वस्यैवाविशेषेण ग्रहणात्सर्वज्ञता स्यात् । अनुमानतो हि कतिपयातीन्द्रियदर्शने सिद्धेऽपीश्वरस्य तत्कारणयोगित्वं निश्चीयते । न तु ज्ञानसत्तामात्रेण प्रकारान्तरेणेति निश्चय इति कुतः सर्वज्ञता ।

नन्वतीन्द्रियं परमाण्वादिकं जानतो न कथं सार्वज्ञ्यमिति चेत् । तत्किमिदानीमसर्वदर्शित्वेष्वतीन्द्रियदर्शनमात्रेण सर्वज्ञताप्रत्याशा । एवमेवेति चेत् । हन्त यदि नाम न्यायविहस्तेन त्वया ईदृशो हस्तसमारचितः सर्वज्ञः परिभावितस्तथाप्यन्येषामपारदूरदेशकालवर्तिनां द्वयणुकादीनामुपादानादिषु जनुषान्धप्रख्यस्य परमपुरुषार्थावेदिनो वा लोकैः प्रामाणिकैश्च नास्य सार्वज्ञ्यमनुमन्यते ॥

अस्माकन्तु नातीन्द्रियदर्शिमात्रे प्रद्वेषः । एवं च कर्तुरेकत्वासिद्धौ व्यतिरेक्यपि हेतुरसमर्थः विश्वेषामेकस्य कर्तुरसिद्धौ तदुपादानाद्यभिज्ञभावस्या सिद्धत्वात् । यश्च यन्मात्रकारः स तन्मात्रोपादानाद्यभिज्ञो भवन्न सर्वज्ञः । अनेकाश्रयेणापि उपादानाद्यभिज्ञसामान्यस्य चरितार्थत्वात् । तदेवमुपादानाद्यभिज्ञपुरुषमात्रसिद्धावपि नैकत्वसर्वज्ञत्वादिविशिष्टपुरुषविशेषसिद्धिः । पुरुषमात्रे च सिद्धसाधनमुक्तम् । बुद्धिमन्मात्रपूर्वकतामिच्छतामुपादानाद्यभिज्ञबुद्धिमत्पूर्वकत्वे साध्ये कथं सिद्धसाधनमिति चेत् । न तदपेक्षया सिद्धसाध्यताया जनितत्वात्(निबन्ध्५७) केवलमसिद्धोद्धारेऽभिमते विशेषे सिद्धेऽपि नैयायिकस्यापि नाभिमतसिद्धिरिति ब्रूमः ॥

सौगतस्य तावदनिष्टसिद्धिरिति चेत्, न, स्वाभिमतसाध्यसाधनेनैव हि परस्यानिष्टमपि साधनीयम् । अन्यथा मातृशोकस्मरणादिनापि तदनिष्टसिद्धिः स्यादिति । अस्य संग्रहः

परेष्टसिद्धिर्नपरेष्टबाधकं प्रसाधने वेदनयत्नमात्रयोः ।
अनन्वयोऽभीष्टविशेषसाधने विपक्षसन्देहसहन्तु साधनम् ॥

साध्यचिन्ताधिकारस्तृतीयः ॥

एवमन्येऽपि हेतवो यथायोगमभ्युह्य दूषणीयाः । तदेवं तावदीश्वरस्य सद्व्यवहारो निषिद्धः । असद्व्यवहारार्थन्तु तल्लक्षणविलक्षणक्षणभङ्गसाधकं सत्तादिसाधनमेव द्रष्टव्यमिति ॥

इत्यबोधजनकर्तृविकल्प व्यापि मोहतिमिरप्रतिरोधि ।
रत्नकीर्तिरचनामलरम्य ज्योतिरस्तु चिरमप्रतिरोधि ॥


(निबन्ध्५८)
॥ ३ ॥ अपोहसिद्धिः ॥

॥ नमस्तारायै ॥

अपोहः शब्दार्थो निरुच्यते । ननु कोऽयमपोहो नाम । किमिदमन्यस्मादपोह्यते । अस्माद्वान्यदपोह्यते । अस्मिन् वान्यदपोह्यत इति व्युत्पत्त्या विजातिव्यावृत्तं बाह्यमेव विवक्षितम् । बुद्ध्याकारो वा । यदि वा अपोहनमपोह इत्यन्यव्यावृत्तिमात्रमिति त्रयः पक्षाः ।

न तावदादिमौ पक्षौ । अपोहनाम्ना विधेरेव विवक्षितत्वात् । अन्तिमोऽप्यसंगतः, प्रतीतिबाधितत्वात् । तथा हि पर्वतोद्देशे वह्निरस्तीति शाब्दी प्रतीतिर्विधिरूपमेवोल्लिखन्ती लक्ष्यते । नानग्निर्न भवतीति नित्रृत्तिमात्रमामुखयन्ती । यच्च प्रत्यक्षबाधितं न तत्र साधनान्तरावकाशः इत्यतिप्रसिद्धम् ॥

अथ यद्यपि निवृत्तिमहं प्रत्येमीति न विकल्पः तथापि निवृत्तपदार्थोल्लेख एव निवृत्त्युल्लेखः । न ह्यनन्तर्भावितविशेषणप्रतीतिर्विशिष्टप्रतीतिः । ततो यथा सामान्यमहं प्रत्येमीति विकल्पाभावेऽपि साधारणाकारपरिस्फुरणाद्विकल्पबुद्धिः सामान्यबुद्धिः परेषाम्, तथा निवृत्तप्रत्ययाक्षिप्ता निवृतिबुद्धिरपोहप्रतीतिव्यवहारमातनोतीति चेत् ।

ननु साधारणाकारपरिस्फुरणे विधिरूपतया यदि सामान्यबोधव्यवस्था, तत्किमायातमस्फुरदभावाकारे चेतसि निवृत्तिप्रतीतिव्यवस्थायाः । ततो निवृत्तिमहं प्रत्येमीत्येवमाकाराभावेऽपि निवृत्त्याकारस्फुरणं यदि स्यात्को नाम निवृत्तिप्रतीतिस्थितिमपलपेत् । अन्यथा असति प्रतिभासे तत्प्रतीतिव्यवहृतिरिति गवाकारेऽपि चेतसि तुरगबोध इत्यस्तु ।

अथ विशेषणतया अन्तर्भूता निवृत्तिप्रतीतिरित्युक्तम् । तथापि यद्यगवापोढ इतीदृशाकारो विकल्पस्तदा विशेषणतया तदनुप्रवेशो भवतु किं तु गौरिति प्रतीतिः । तदा च सतोऽपि निवृत्तिलक्षणस्य विशेषणस्य तत्रानुत्कलनात्कथं तत्प्रतीतिव्यवस्था ।

अथैवं मतिः - यद्विधिरूपं स्फुरति तस्य परापोहोऽप्यस्तीति तत्प्रतीतिरुच्यते । तदापि सम्बन्धमात्रमपोहस्य । विधिरेव साक्षान्निर्भासी । अपि (निबन्ध्५९) चैवमध्यक्षस्याप्यपोहविषयत्वमनिवार्यं विशेषतो विकल्पादेकव्यावृत्तोल्लेखिनोऽखिलान्यव्यावृत्तमीक्षमाणस्य । तस्माद्विध्याकारावग्रहादध्यक्षवद्विकल्पस्यापि विधिविषयत्वमेव नान्यापोहविषयत्वमिति कथमपोहः शब्दार्थो घुष्यते ।

अत्राभिधीयते । नास्माभिरपोहशब्देन विधिरेव केवलोऽभिप्रेतः । नाप्यन्यव्यावृत्तिमात्रम् । किन्त्वन्यापोहविशिष्टो विधिः शब्दानामर्थः । ततश्च न प्रत्येकपक्षोपनिपातिदोषावकाशः ॥

यत्तु गोः प्रतीतौ न तदात्मापरात्मेति सामर्थ्यादपोहः पश्चान्निश्चीयत इति विधिवादिनां मतम्, अन्यापोहप्रतीतौ वा सामर्थ्यादन्यापोढोऽवधार्यते इति प्रतिषेधवादिनां मतम् । तदसुन्दरम् । प्राथमिकस्यापि प्रतिपत्ति क्रमादर्शनात् । न हि विधिं प्रतिपद्य कश्चिदर्थापत्तितः पश्चादपोहमवगच्छति । अपोहं वा प्रतिपद्यान्यापोढम् । तस्माद्गोः प्रतिपत्तिरित्यन्यापोढप्रतिपत्तिरुच्यते । यद्यपि चान्यापोढशब्दानुल्लेख उक्तस्तथापि नाप्रतिपत्तिरेव विशेषणभूतस्यान्यापोहस्य । अगवापोढ एव गोशब्दस्य निवेशितत्वात् । यथा नीलोत्पले निवेशितादिन्दीवरशब्दान्नीलोत्पलप्रतीतौ तत्काल एव नीलिमस्फुरणमनिवार्यं तथा गोशब्दादप्यगवापोढे निवेशिताद्गोप्रतीतौ तुल्यकालमेव विशेषणत्वादगोऽपोहस्फुरणमनिवार्यम् । यथा प्रत्यक्षस्य प्रसज्यरूपाभावाग्रहणमभावविकल्पोत्पादनशक्तिरेव तथा विधिविकल्पानामपि तदनुरूपानुष्ठानदानशक्तिरेवाभावग्रहणमभिधीयते । पर्युदासरूपाभावग्रहणं तु नियतस्वरूपसंवेदनमुभयोरविशिष्टम् । अन्यथा यदि शब्दादर्थप्रतिपत्तिकाले कलितो न परापोहः कथमन्यपरिहारेण प्रवृत्तिः । ततो गां बधानेति चोदितोऽश्वादीनपि बध्नीयात् ॥

यदप्यवोचद्वाचस्पतिः जातिमत्यो व्यक्तयो विकल्पानां शब्दानां च गोचरः । तासां च तद्वतीनां रूपमतज्जातीयपरावृत्तमित्यतस्तदवगतेर्न गां बधानेति चोदितोऽश्वादीन् बध्नाति । तदप्यनेनैव निरस्तम् । यतो जातेरधिकायाः प्रक्षेपेऽपि व्यक्तीनां रूपमतज्जातीयपरावृत्तमेव चेत्, तदा तेनैव रूपेण शब्दविकल्पयोर्विषयीभवन्तीनां कथमतद्वयावृत्तिपरिहारः ॥

अथ न विजातीयव्यावॄत्तं व्यक्तिरूपं तथाप्रतीतं वा तदा जातिप्रसाद एष इति कथमर्थतोऽपि तदवगतिरित्युक्तप्रायम् ।

अथ जातिबलादेवान्यतोव्यावृतम् । भवतु जातिबलात्स्वहेतुपरम्पराबलाद्वान्यव्यावृतम् । उभयथापि व्यावृत्तप्रतिपतौ व्यावृत्तिप्रतिपत्तिरस्त्येव ।

(निबन्ध्६०)
न चागवापोढे गोशब्दसङ्केतविधावन्यीन्याश्रयदोषः । सामान्ये तद्वति वा संकेतेऽपि तद्दोषावकाशात् । न हि सामान्यं नाम सामान्यमात्रमभिप्रेतम्, तुरगेऽपि गोशब्दसंकेतप्रसङ्गात् । किं तु गोत्वम् । तावता च स एव दोषः । गवादिपरिज्ञाने गोत्वसामान्यापरिज्ञानात् । गोत्वसामान्यापरिज्ञाने गोशब्दवाच्या परिज्ञानात् ।

तस्मादेकपिण्डदर्शनपूर्वको यः सर्वव्यक्तिसाधारण इव बहिरघ्यस्तो विकल्पबुद्ध्याकारः तत्रायं गौरिति संकेतकरणे नेतरेतराश्रयदोषः ।

अभिमते च गोशब्दप्रवृत्तावगोशब्देन शेषस्याप्यभिधानमुचितम् । न चान्यापोढान्यापोहयोर्विरोधो विशेष्यविशेषणभावक्षतिर्वा, परस्परव्यवच्छेदाभावात् । सामानाधिकरण्यसद्भावात् । भूतलघटाभाववत् । स्वाभावेन हि विरोधो न पराभावेनेत्याबालप्रसिद्धम् । एष पन्थाः श्रुघ्नमुपतिष्ठत इत्यत्राप्यपोहो गम्यत एव । अप्रकृतपथान्तरापेक्षया एष एव श्रुध्नप्रत्यनीकानिष्टस्थानापेक्षया श्रुघ्नमेव । अरण्यमार्गवद्विच्छेदाभावादुपतिष्ठत एव । सार्थदूतादिव्यवच्छेदेन पन्था एवेति प्रतिपदं व्यवच्छेदस्य सुलभत्वात् । तस्मादपोहधर्मणो विधिरूपस्य शब्दादवगतिः पुण्डरीकशब्दादिव श्वेतिमविशिष्टस्य पद्मस्य ॥

यद्येवं विधिरेव शब्दार्थो वक्तुमुचितः, कथमपोहो गीयत इति चेत् । उक्तमत्रापोहशब्देनान्यापोहविशिष्टो विधिरुच्यते । तत्र विधौ प्रतीयमाने विशेषणतया तुल्यकालमन्यापोहप्रतीतिरिति ।

न चैव प्रत्यक्षस्याप्यपोहविषयत्वव्यवस्था कर्तमुचिता । तस्य शाब्दप्रत्ययस्येव वस्तुविषयत्वे विवादाभावात् । विधिशब्देन च यथाध्यवसायमतद्रूपपरावृत्तो बाह्योऽर्थोभिमतः, यथाप्रतिभासं बुद्ध्याकारश्च । तत्र बाह्योऽर्थोऽध्यवसायादेव शब्दवाच्यो व्यवस्थाप्यते । न स्वलक्षणपरिस्फूर्त्या । प्रत्यक्षवद्देशकालावस्थानियतप्रव्यक्तस्वलक्षणास्फुरणात् । यच्छास्त्रम्

शब्देनाव्यापृताक्षस्य बुद्धावप्रतिभासनात् ।

अर्थस्य दृष्टाविव

इति । इन्द्रियशब्दस्वभावोपायभेदादेकस्यैवार्थस्य प्रतिभासभेद इति चेत् ।
अत्राप्युक्तम् -

जातो नामाश्रयोन्यान्यः चेतसां तस्य वस्तुतः ।
एकस्यैव कुतो रूपं भिन्नाकारावभासि तत् ॥

न हि स्पष्टास्पष्टे द्वे रूपे परस्परविरुद्धे एकस्य वस्तुनः स्तः । यत एकेनेन्द्रियबुद्धौ प्रतिभासेतान्येन विकल्पे । तथा सति वस्तुन एव भेदप्राप्तेः । (निबन्ध्६१) न हि स्वरूपभेदादपरो वस्तुभेदः । न च प्रतिभासभेदादपरः स्वरूपभेदः । अन्यथा त्रैलोक्यमेकमेव वस्तु स्यात् ॥

दूरासन्नदेशवर्तिनोः पुरुषयोरेकत्र शाखिनि स्पष्टास्पष्टप्रतिभासभेदेऽपि न शाखिभेद इति चेत् । न ब्रूमः प्रतिभासभेदो भिन्नवस्तुनियतः, किं त्वेकविषयत्वाभावनियत इति । ततो यत्रार्थक्रियाभेदादिसचिवः प्रतिभासभेदस्तत्र वस्तुभेदः, घटवत् । अन्यत्र पुनर्नियमेनैकविषयतां परिहरतीत्येकप्रतिभासो भ्रान्तः ॥

एतेन यदाह वाचस्पतिः - न च शाब्दप्रत्यक्षयोर्वस्तुगोचरत्वे प्रत्ययाभेदः कारणभेदेन पारोक्ष्यापारोक्ष्यभेदोपपत्तेरिति, तन्नोपयोगि । परोक्षप्रत्ययस्य वस्तुगोचरत्वासमर्थतात् । परोक्षताश्रयस्तु कारणभेद इन्द्रियगोचरग्रहणविरहेणैव कृतार्थः । तन्न । शाब्दे प्रत्यये स्वलक्षणं परिस्फुरति । किं च स्वलक्षणात्मनि वस्तुनि वाच्ये सर्वात्मना प्रतिपत्तेः विधिनिषेधयोरयोगः । तस्य हि सद्भावेऽस्तीति व्यर्थम्, नास्तीत्यसमर्थम् । असद्भावे तु नास्तीति व्यर्थम्, अस्तीत्यसमर्थम् । अस्ति चास्त्यादिपदप्रयोगः । तस्मात्शाब्दप्रतिभासस्य बाह्यार्थभावाभावसाधारण्यं न तद्विषयतां क्षमते ॥

यच्च वाचस्पतिना जातिमद्व्यक्तिवाच्यतां स्ववाचैव प्रस्तुत्यान्तरमेव न च शब्दार्थस्य जातेर्भावाभावसाधारण्यं नोपपद्यते । सा हि स्वरूपतो नित्यापि देशकालविप्रकीर्णानेकव्यक्त्याश्रयतया भावाभावसाधारणीभवन्त्यस्तिनास्तिसंबन्धयोग्या । वर्तमानव्यक्तिसंबन्धिता हि जातेरस्तिता । अतीतानागतव्यक्तिसंबन्धिता च नास्तितेति सन्दिग्धव्यतिरेकित्वादनैकान्तिकं भावाभावसाधारण्यम्, अन्यथासिद्धं वेति विकल्पितम् । तदप्रस्तुतम् । तावता तावन्न प्रकृतक्षतिः । जातौ भरं न्यस्यता स्वलक्षणवाच्यत्वस्य स्वयं स्वीकारात् । किं च सर्वत्र पदार्थस्यस्वलक्षणस्वरूपेणैवास्तित्वादिकं चिन्त्यते । जातेस्तु वर्तमानादिव्यक्तिसंवधीऽस्तित्वादिकमिति तु बालप्रतारणम् । एवं जातिमद्व्यक्तिवचनेऽपि दोषः । व्यक्तेश्चेत्प्रतीतिसिद्धिः जातिरधिका प्रतीयतां मा वा, न तु व्यक्तिप्रतीतिदोषान्मुक्तिः ।

एतेन यदुच्यते कौमारिलैः सभागत्वादेव वस्तुनो न साधारण्यदोषः । वृक्षत्वं ह्यनिर्धारितभावाभावं शब्दादवगम्यते । तयोरन्यतरेण शब्दान्तरावगतेन संबध्यत इति । तदप्यसङ्गतम् । सामान्यस्य नित्यस्य प्रतिपत्ताबनिर्धारितभावाभावत्वायोगात् ।

(निबन्ध्६२)
यच्चेदम् - न च प्रत्यक्षस्येव शब्दानामर्थप्रत्यायनप्रकारो येन तद्दृष्ट इवास्त्यादिशब्दापेक्षा न स्यात्, विचित्रशक्तित्वात्प्रमाणानामिति । तदप्यैन्द्रियकशाब्दप्रतिभासयोरेकस्वरूपग्राहित्वे भिन्नावभासदूषणेन दूषितम् । विचित्रशक्तित्वं च प्रमाणानां साक्षात्काराध्यवसायाभ्यामपि चरितार्थम् । ततो यदि प्रत्यक्षार्थप्रतिपादनं शाब्देन तद्वदेवावभासः स्यात् । अभवंश्व न तद्विषयख्यापनं क्षमते ॥

ननु वृक्षशब्देन वृक्षत्वांशे चोदिते सत्त्वाद्यंशनिश्चयनार्थमस्त्यादिपदप्रयोग इति चेत् ।

निरंशत्वेन प्रत्यक्षसमधिगतस्य स्वलक्षणस्य कोऽवकाशः पदान्तरेण । धर्मान्तरविधिनिषेधयोः प्रमाणान्तरेण वा । प्रत्यक्षेऽपि प्रमाणान्तरापेक्षा दृष्टेति चेत् । भवतु तस्यानिश्चयात्मकत्वादनभ्यस्तस्वरूपविषये । विकल्पस्तु स्वयं निश्चयात्मको यत्र ग्राही तत्र किमपरेण । अस्ति च शब्दलिङ्गान्तरापेक्षा । ततो न वस्तुस्वरूपग्रहः ॥

ननु भिन्ना जात्यादयो धर्माः परस्परं धर्मिणश्चेति जातिलक्षणैकधर्मद्वारेण प्रतीतेऽपि शाखिनि धर्मान्तरवत्तया न प्रतीतिरिति किं न भिन्नाभिधानाधीनो धर्मान्तरस्य नीलचलोच्चैस्तरत्वादेरवबोधः । तदेतदसङ्गतम् । अखण्डात्मनः स्वलक्षणस्य प्रत्यक्षेऽपि प्रतिभासात् । दृश्यस्य धर्मधर्मिभेदस्य प्रत्यक्षप्रतिक्षिप्तत्वात् । अन्यथा सर्वं सर्वत्र स्यादित्यतिप्रसङ्गः । काल्पनिकभेदाश्रयस्तु धर्मधर्मिव्यवहार इति प्रसाधितं शास्त्रे ।

भवतु वा पारमार्थिकोऽपि धर्मधर्मिभेदः । तथाप्यनयोः समवायादेर्दूषितत्वादुपकारलक्षणैव प्रत्यासत्तिरेषितव्या । एवं च यथेन्द्रियप्रत्यासत्त्या प्रत्यक्षेण धर्मिप्रतिपत्तौ सकलतद्धर्मप्रतिपत्तिस्तथा शब्दलिङ्गाभ्यामपि वाच्यवाचकादिसंबन्धप्रतिबद्धाभ्यां धर्मिप्रतिपत्तौ निरवशेषतद्धर्मप्रतिपत्तिर्भवेत् । प्रत्यासतिमात्रस्याविशेषात् ॥

यच्च वाचस्पति, न चैकोपाधिना सत्त्वेन विशिष्टे तस्मिन् गृहीते उपाध्यन्तरविशिष्टस्तद्ग्रहः । स्वभावो हि द्रव्यस्योपाधिभिर्विशिष्यते । न तूपाधयो वा विशेष्यत्वं वा तस्य स्वभाव इति । तदपि प्लवत एव । न ह्यभेदादुपाध्यन्तरग्रहणमासञ्जितम् । भेदं पुरस्कृत्यैवोपकारकग्रहणे उपकार्यग्रहणप्रसञ्जनात् । न चाग्निधूमयोः कार्यकारणभाव इव स्वभावत एव धर्मधर्मिणोः प्रतिपत्तिनियमकल्पनमुचितम् । (निबन्ध्६३) तयोरपि प्रमाणासिद्धत्वात् । प्रमाणसिद्धे च स्वभावोपवर्णनमिति न्यायः ॥

यच्चात्र न्यायभूषणेन सूर्यादिग्रहणे तदुपकार्याशेषवस्तुराशिग्रहणप्रसञ्जनमुक्तम्, तदभिप्रायानवगाहनफलम् । तथा हि त्वन्मते धर्मधर्मिणोर्भेदः, उपकारलक्षणैव च प्रत्यासत्तिस्तदोपकारकग्रहणे समानदेशस्यैव धर्मरूपस्यैव चोपकार्यस्य ग्रहणमासञ्जितम् । तत्कथं सूर्योपकार्यस्य भिन्नदेशस्य द्रव्यान्तरस्य वा दृष्टव्यभिचारस्य ग्रहणप्रसङ्गः सङ्गतः । तस्मादेकधर्मद्वारेणापि वस्तुस्वरूपप्रतिपत्तौ सर्वात्मप्रतीतेः क्व शब्दान्तरेण विधिनिषेधावकाशः । अस्ति च । तस्मान्न स्वलक्षणस्य शब्दविकल्पलिङ्गप्रतिभासित्वमिति स्थितम् ॥

नापि सामान्यं शाब्दप्रत्ययप्रतिभासि । सरितः पारे गावश्चरन्तीति गवादिशब्दात्सास्नाशृङ्गलाङ्गूलादयोऽक्षराकारपरिकरिताः सजातीयभेदापरामर्शनात्सम्पिण्डितप्रायाः प्रतिभासन्ते । न च तदेव सामान्यम् ।

वर्णाकृत्यक्षराकारशून्यं गोत्वं हि कथ्यते ।

तदेव च सास्नाशृङ्गादिमात्रमखिलव्यक्तावत्यन्तविलक्षणमपि स्वलक्षणेनैकीक्रियमाणं सामान्यमित्युच्यते तादृशस्य बाह्यस्याप्राप्तेर्भ्रान्तिरेवासौ केशप्रतिभासवत् । तस्माद्वासनावशाद्बुद्धेरेव तदात्मना विवर्तोऽयमस्तु । असदेव वा तद्रूपं ख्यातु । व्यक्तय एव वा स्वजातीयभेदतिरस्कारेणान्यथा भासन्तामनुभवव्यवधानात्स्मृतिप्रमोषो वाभिधीयताम् । सर्वथा निर्विषयः खल्वयं सामान्यप्रत्ययः । क्व सामान्यवार्ता ।

यत्पुनः सामान्याभावे सामान्यप्रत्ययस्याकस्मिकत्वमुक्तं तदयुक्तम् । यतः पूर्वपिण्डदर्शनस्मरणसहकारिणातिरिच्यमानविशेषप्रत्ययजनिका सामग्री निर्विषयं सामान्यविकल्पमुत्पादयति । तदेवं न शाब्दे प्रत्यये जातिः प्रतिभाति । नापि प्रत्यक्षे । न चानुमानतोऽपि सिद्धिः । अदृश्यत्वे प्रतिबद्धलिङ्गादर्शनात् । नापोन्द्रियवदस्याः सिद्धिः ज्ञानकार्यतः कादाचित्कस्यैव निमित्तान्तरस्य सिद्धेः । यदा पिण्डान्तरे अन्तराले वा गोबुद्धेरभावं दर्शयेत्तदा शावलेयादिसकलगोपिण्डानामेवाभावादभावो गोबुद्धेरुपपद्यमानः कथमर्थान्तरमाक्षिपेत् । अथ गोत्वादेव गोपिण्डः । अन्यथा तुरगोऽपि गोपिण्डः स्यात् । यद्येवं गोपिण्डादेव गोत्वमन्यथा तुरगत्वमपि गोत्वं स्यात् । तस्मात्कारणपरम्परात एव (निबन्ध्६४) गोपिण्डो गोत्वं तु भवतु मा वा । ननु सामान्यप्रत्ययजननसामर्थ्यं यद्येकस्मात्पिण्डादभिन्नं तदा विजातीयव्यावॄत्तं पिण्डान्तरमसमर्थम् । अथ भिन्नम्, तदा तदेव सामान्यम्, नाम्नि परं विवाद इति चेत् । अभिन्नैव सा शक्तिः प्रतिवस्तु । यथा त्वेकः शक्तस्वभावो भावस्तथान्योऽपि भवन् कीदृशं दोषमावहति । यथा भवतां जातिरेकापि समानध्वनिप्रसवहेतुः, अन्यापि स्वरूपेणैव जात्यन्तरनिरपेक्षा, तथास्माकं व्यक्तिरपि जातिनिरपेक्षा स्वरूपेणैव भिन्ना हेतुः ॥

यत्तु त्रिलोचनः - अश्वत्वगोत्वादीनां सामान्यविशेषाणां स्वाश्रये समवायः सामान्यं सामान्यमित्यभिधानप्रत्यययोर्निमित्तमिति । यद्येवं व्यक्तिष्वप्ययमेव तथाभिधानप्रत्ययहेतुरस्तु, किं सामान्यस्वीकारप्रमादेन । न च समवायः संभवी ।

इहेति बुद्धेः समवायसिद्धिरिहेति धीश्च द्वयदर्शनेन ।
न च क्वचित्तद्विषये त्वपेक्षा स्वकल्पनामात्रमतोऽभ्युपायः ॥

एतेन सेयं प्रत्ययानुवृत्तिरनुवृत्तवस्त्वनुयायिनी कथमत्यन्तभेदिनीषु व्यक्तिषु व्यावृत्तविषयप्रत्ययभावानुपातिनीषु भवितुमर्हतीत्यूहाप्रवर्तनमस्य प्रत्याख्यातम् । जातिष्वेव परस्परव्यावृत्ततया व्यक्तीयमानास्वनुवृत्तप्रत्ययेन व्यभिचारात् ।

यत्पुनरनेन विपर्यये बाधकमुक्तम्, अभिधानप्रत्ययानुवृत्तिः कुतश्चिन्निवृत्त्य क्वचिदेव भवन्ती निमित्तवती, न चान्यन्निमित्तमित्यादि । तन्न सम्यक् । अनुवृत्तमन्तरेणाप्यभिधानप्रत्ययानुवृत्तेरतद्रूपपरावृत्तस्वरूपविशेषादवश्यं स्वीकारस्य साधितत्वात् । तस्मात्-

तुल्ये भेदे यया जातिः प्रत्यासत्त्या प्रसर्पति ।
क्वचिन्नान्यत्र सैवास्तु शब्दज्ञाननिबन्धनम् ॥

यत्पुनरत्र न्यायभूषणोक्तं न ह्येवं भवति, यया प्रत्यासत्त्या दण्डसूत्रादिकं प्रसर्पति क्वचिन्नान्यत्र सैव प्रत्यासत्तिः पुरुषस्फटिकादिषु दण्डिसूत्रित्वादिव्यवहारनिबन्धनमस्तु, किं दण्डसूत्रादिनेति । तदसङ्गतम् । दण्डसूत्रयोर्हि पुरुषस्फटिकप्रत्यासन्नयोः दृष्टयो दण्डिसूत्रित्व प्रत्ययहेतुत्वं नापलप्यते । सामान्यं तु स्वप्नेऽपि न दृष्टम् । तद्यदीदं परिकल्पनीयं तदा वरं प्रत्यासत्तिरेव सामान्यप्रत्ययहेतुः परिकल्प्यताम्, किं गुर्व्या परिकल्पनयेत्यभिप्रायापरिज्ञानात् ।

(निबन्ध्६५)
अथेदं जातिप्रसाधकमनुमानमभिधीयते । यद्विशिष्टज्ञानं तद्विशेषणग्रहणनान्तरीयकम् । यथा दण्डिज्ञानम् । विशिष्टज्ञानं चेदं गौरयमित्यर्थतः कार्यहेतुः । विशेषणानुभवकार्यं हि दृष्टान्ते विशिष्टबुद्धिः सिद्धेति । अत्रानुयोगः । विशिष्टबुद्धेर्भिन्नविशेषणग्रहणनान्तरीयकत्वं वा साध्यं विशेषणमात्रानुभवनान्तरीयकत्वं वा ।

प्रथमपक्षे पक्षस्य प्रत्यक्षबाधा साधनावधानमनवकाशयति, वस्तुग्राहिणः प्रत्यक्षस्योभयप्रतिभासाभावात् । विशिष्टबुद्धित्वं च सामान्यहेतुरनैकान्तिकः, भिन्नविशेषणग्रहणमन्तरेणापि दर्शनात् । यथा स्वरूपवान् घटः, गोत्वं सामान्यमिति वा ।

द्वितीयपक्षे तु सिद्धसाधनम् । स्वरूपवान् घट इत्यादिवत्गोत्वजातिमान् पिण्ड इति परिकल्पितं भेदमुपादाय विशेषणविशेष्यभावस्येष्टत्वादगोव्यावृत्तानुभवभावित्वाद्गौरयमिति व्यवहारस्य । तदेवं न सामान्यसिद्धिः । बाधकं च सामान्यगुणकर्माद्युपाधिचक्रस्य केवलव्यक्तिग्राहकं पटुप्रत्यक्षं दृश्यानुपलम्भो वा प्रसिद्धः ।

तदेवं विधिरेव शब्दार्थः । स च बाह्योऽर्थो बुद्ध्याकारश्च विवक्षितः । तत्र न बुद्ध्याकारस्य तत्त्वतः संवृत्या वा विधिनिषेधौ, स्वसंवेदनप्रत्यक्षगम्यत्वात् । अनध्यवसायाच्च । नापि तत्त्वतो बाह्यस्यापि विधिनिषेधौ, तस्य शाब्दे प्रत्ययेप्रतिभासनात् । अत एव सर्वधर्माणां तत्त्वतोऽनभिलाप्यत्वं प्रतिभासाध्यवसायाभावात् । तस्माद्बाह्यस्यैव सांवृतौ विधिनिषेधौ । अन्यथा संव्यवहारहानिप्रसङ्गात् । तदेवं

नाकारस्य न बाह्यस्य तत्त्वतो विधिसाधनम् ।
बहिरेव हि संवृत्या संवृत्यापि तु नाकृतेः ॥

एतेन यद्धर्मोत्तरः आरोपितस्य बाह्यत्वस्य विधिनिषेधावित्यलौकिकमनागममतार्किकीयं कथयति, तदप्यपहस्तितम् ।

नन्वव्यवसाये यद्यध्यवसेयं वस्तु न स्फुरति तदा तदध्यवसितमिति कोऽर्थः । अप्रतिभासेऽपि प्रवृत्तिविषयीकृतमिति योऽर्थः । अप्रतिभासाविशेषे विषयान्तरपरिहारेण कथं नियतविषया प्रवृत्तिरिति चेत् । उच्यते । यद्यपि विश्वमगृहीतं तथापि विकल्पस्य नियतसामग्रीप्रसूतत्वेन नियताकारतया, नियतशक्तित्वात्नियतैव जलादौ प्रवृत्तिः । धूमस्य परोक्षाग्निज्ञानजननवत् ।

(निबन्ध्६६)
नियतविषया हि भावाः प्रमाणपरिनिष्ठितस्वभावा न शक्तिसांकर्यपर्यनुयोगभाजः । तस्मात्तदध्यवसायित्व माकारविशेषयोगात्तत्प्रवृत्तिजनकत्वम् । न च सादृश्यादारोपेण प्रवृत्तिं ब्रूमः, येनाकारे बाह्यस्य बाह्ये वा आकारस्यारोपद्वारेण दूषणाबकाशः । किं तर्हि स्ववासनाविपाकवशादुपजायमानैव बुद्धिरपश्यन्त्यपि बाह्यं बाह्ये प्रवृत्तिमातनोतीति विप्लुतैव । तदेवमन्याभावविशिष्टो विजातिव्यावृत्तोऽर्थो विधिः । स एव चापोहशब्दवाच्यः शब्दानामर्थः प्रवृत्तिनिवृत्तिविषयश्चेति स्थितम् ।

अत्र प्रयोगः । यद्वाचकं तत्सर्वमध्यवसितातद्रूपपरावृतवस्तुमात्रगोचरम् । यथेह कूपे जलमिति वचनम् । वाचकं चेदं गवादिशब्दरूपमिति स्वभावहेतुः । नायमसिद्धः । पूर्वोक्तेन न्यायेन पारमार्थिकवाच्यवाचकभावस्याभावेऽप्यध्यवसायकृतस्यैव सर्वव्यवहारिभिरवश्यं स्वीकर्त्तव्यत्वात् । अन्यथा सर्वव्यवहारोच्छेदप्रसङ्गात् । नापि विरुद्धः । सपक्षे भावात् । न चानैकान्तिकः । तथा हि शब्दानामध्यवसितविजातिव्यावृत्तवस्तुमात्रविषयत्वमनिच्छद्भिः परैः परमार्थतो

वाच्यं स्वलक्षणमुपाधिरुपाधियोगः सोपाधिरस्तु यदि वा कृतिरस्तु बुद्धः ।

गत्यन्तराभावात् । अविषयत्वे च वाचकत्वायोगात् ।

तत्र आद्यन्तयोर्न समयः फलशक्तिहानेर्मध्येऽप्युपाधिविरहात्त्रितयेन युक्तः ॥

तदेवं वाच्यान्तरस्याभावात्विषयवत्त्वलक्षणस्य व्यापकस्य निवृत्तौ विपक्षतो निवर्त्तमानं वाचकत्वमध्यवसितबाह्यविषयत्वेन व्याप्यत इति व्याप्तिसिद्धिः ।

महापण्डितरत्नकीर्तिपादविर(चि) तमपोहप्रकरणं समाप्तम् ॥


(निबन्ध्६७)
॥ ४ ॥

॥ क्षणभङ्गसिद्धिः ॥

। अन्वयात्मिका ॥

ंमस्तारायै ॥

आक्षिप्तव्यतिरेका या व्याप्तिरन्वयरूपिणी ।
साधर्म्यवति दृष्टान्ते सत्त्वहेतोरिहोच्यते ॥

यत्सत्तत्क्षणिकम् । यथा घटः । सन्तश्वामी विवादास्पदीभूता पदर्था इति ।

हेतोः परोक्षार्थप्रतिपादकत्वं हेत्वाभासत्वशङ्कानिराकरणमन्तरेण न शक्यते प्रतिपादयितुम् । हेत्वाभासाश्च अशिद्धविरुद्धानैकान्तिकप्रभेदेन त्रिविधाः ।

तत्र न तावदयमसिद्धो हेतुः । यदि नाम दर्शने दर्शने नानाप्रकारं सत्त्वलक्षणमुक्तमास्ते, अर्थक्रियाकारित्त्वं, सत्तासमवायः, स्वरूपसत्त्वम्, उत्पादव्ययध्रौव्ययोगित्वं, प्रमाणविषयत्त्वं तदुपलम्भकप्रमाणगोचरत्वं, व्यपदेशविषयत्वमित्यादि, तथापि किमनेनाप्रस्तुतेनेदानीमेव निष्टङ्कितेन । यदेव हि प्रमाणतो निरूप्यमाणं कदार्थानां सत्त्वमुपपन्नं भविष्यति तदेव वयमपि स्वीकरिष्यामः । केवलं तदेतदर्थक्रियाकारित्वं सर्वजनप्रसिद्धमास्ते तत्खल्वत्र सत्त्वशब्देनाभिसन्धाय साधनत्वेनोपात्तम् । तच्च यथायोगं प्रत्यक्षानुमानप्रमाणप्रसिद्धसद्भावेषु भावेषु पक्षिकृतेषु प्रत्यक्षादिना प्रमाणेन प्रतीतमिति न स्वरूपेणाश्रयद्वारेण बासिद्धिसंभावनापि ॥

नापि विरुद्धता,सपक्षीकृते घटे सद्भावात् । ननु कथमस्य सपक्षत्वम्, पक्षवदत्रापि क्षणभङ्गासिद्धेः । न ह्यस्य प्रत्यक्षतः क्षणभङ्गसिद्धिः, तथात्वेनानिश्चयात् । नापि सत्त्वानुमानतः,पुनर्निदर्शनान्तरापेक्षायामनवस्थानप्रसङ्गात् । न चान्यदनुमानमस्ति । संभवे वा तेनैव पक्षेऽपि क्षणभङ्गसिद्धेरलं सत्त्वानुमानेनेति चेत् ।

उच्यते । अनुमानान्तरमेव प्रसङ्गप्रसङ्गविपर्ययात्मकं घटस्य क्षणभङ्गप्रसाधकं प्रमाणान्तरमस्ति । तथा हि घटो वर्तमानक्षणे तावदेकामर्थक्रियां (निबन्ध्६८) करोति । अतीतानागतक्षणयोरपि कि तामेवार्थक्रियां कुर्यात्, अन्यां वा, न वा कामपि क्रियामिति त्रयः पक्षाः ॥

नात्र प्रथमः पक्षो युक्तः, कृतस्य करणायोगात् ।

अथ द्वितीयोऽभ्युपगम्यते, तदिदमत्र विचार्यताम् । यदा घटो वर्तमानक्षणभावि कार्यं करोति तदा किमतीतानागतक्षणभाविन्यपि कार्ये शक्तोऽशक्तो वा । यदि शक्तस्तदा वर्तमानक्षणभाविकार्यवदतीतानागतक्षणभाव्यपि कार्यं तदैव कुर्यात् । तत्रापि शक्तत्वात् । शक्तस्य च क्षेपायोगात् । अन्यथा वर्त्तमानक्षणभाविनोऽपि कार्यस्याकरणप्रसङ्गात् । पूर्वापरकालयोरपि शक्तत्वेनाविशेषात् । समर्थस्य च सहकार्यपेक्षाया अयोगात् । अथाशक्तः, तदैकत्र कार्ये शक्ताशक्तत्वविरुद्धधर्माध्यासात्क्षणविध्वंसो घटस्य दुर्वारप्रसरः स्यात् ।

नापि तृतीयः पक्षः सङ्गच्छते, शक्तस्वभावानुवृत्तेरेव । यदा हि शक्तस्य पदार्थस्य विलम्बोऽप्यसह्यस्तदा दूरोत्सारितमकरणम् । अन्यथा वार्तमानिकस्यापि कार्यस्याकरणं स्यादित्युक्तम् ।

तस्माद्यद्यदा यज्जननव्यवहारपात्रं तत्तदा तत्कुर्यात् । अकुर्वच्च न जननव्यवहारभाजनम् । तदेवमेकत्र कार्ये समर्थेतरस्वभावतया प्रतिक्षणं भेदाद्घटस्य सपक्षत्वमक्षतम् ॥

अत्र प्रयोगः । यद्यदा यज्जननव्यवहारयोग्यं तत्तदा तज्जनयत्येव । यथा अन्त्या कारणसामग्री स्वकार्यम् ।

अतीतानागतक्षणभाविकार्यजननव्यवहारयोग्यश्चायं घटो वर्तमानक्षणभाविकार्यकरणकाले सकलक्रियातिक्रमकालेऽपीति स्वभावहेतुप्रसङ्गः । अस्य च द्वितीयादिक्षणभाविकार्यकरणव्यवहारगोचरत्वस्य प्रसङ्गसाधनस्य वार्तमानिककार्यकरणकाले सकलक्रियातिक्रमकाले च घटे धर्मिणि पराभ्युपगममात्रतः सिद्धत्वादसिद्धिस्तावदसंभविनी ।

नापि विरुद्धता, सपक्षेऽन्त्यकारणसामग्र्यां सद्भावसंभवात् ।

नन्वयं साधारणानैकान्तिको हेतुः । साक्षादजनकेऽपि कुशूलाद्यवस्थितवीजादौ विपक्षे समर्थव्यवहारगोचरत्वस्य साधनस्य दर्शनादिति चेत् । न । द्विविधो हि समर्थव्यवहारः - पारमार्थिक औपचारिकश्च । तत्र यत्पारमार्थिकं जननप्रयुक्तं जननव्यवहारगोचरत्वं तदिह साधनत्वेनोपात्तम् । तस्य च कुशूलाद्यवस्थितबीजादौ कारणकारणत्वादौपचारिकजननव्यवहारविषयभूते संभवाभावात्कुतः साधारणानैकान्तिकता ।

(निबन्ध्६९)
न चास्य सन्दिग्धव्यतिरेकिता, विपर्यये बाधकप्रमाणसद्भावात् । तथा हीदं जननव्यवहारगोचरत्वं नियतविषयत्वेन व्याप्तमिति सर्वजनानुभवप्रसिद्धम् । न चेदं निर्निमित्तम्, देशकालस्वभावनियमाभावप्रसङ्गात् । न च जननादन्यन्निमित्तमुपलभ्यते, तदन्वयव्यतिरेकानुविधानदर्शनात् ।

यदि च जननमन्तरेणापि जननव्यवहारगोचरत्वं स्यात्तदा सर्वस्य सर्वत्र जननव्यवहार इत्यनियमः स्यात् । नियतश्चायं प्रतीतः । ततो जननाभावे विपक्षे नियतविषयत्वस्य व्यापकस्य निवृत्तौ निवर्तमानं जननव्यवहारगोचरत्वं जनन एव विश्राम्यतीति व्याप्तिसिद्धेरनवद्यो हेतुः । न चैष घटो वर्त्तमानकार्यकरणक्षणे सकलक्रियातिक्रमणे चातीतानागतक्षणभावि कार्य जनयति । ततो न जननव्यवहारयोग्यः, सर्वः प्रसङ्गः प्रसङ्गविपर्ययनिष्ठ इति न्यायात् ॥

अत्रापि प्रयोगः । यद्यदा यन्न करोति न तत्तदा तत्र समर्थव्यवहारयोग्यम् । यथा शाल्यङ्कुरमकुर्वन् कोद्रवः शाल्यङ्कुरे । न करोति चैषा घटो वर्तमानक्षणभाविकार्यकरणकाले सकलक्रियातिक्रमकाले चातीतानागतक्षणभावि कार्यमितिव्यापकानुपलब्धिर्भिनत्ति समर्थक्षणादसमर्थक्षणम् ॥

अत्राप्यसिद्धिर्नास्ति, वर्तमानक्षणभाविकार्यकरणकाले सकलक्रियातिक्रमकाले चातीतानागतक्षणभाविकार्यकरणस्यायोगात् ।

नापि विरोधः, सपक्षे भावात् ।

न चानैकान्तिकता, पूर्वोक्तेन न्यायेन समर्थव्यवहारगोचरत्वजनकत्वयोर्विधिभूतयोः सर्वोपसंहारवत्या व्याप्तेः प्रसाधनात् ॥

यत्पुनरत्रोक्तम्, यद्यदा यन्न करोति न तत्तदा तत्र समर्थमित्यत्र कः करोत्यर्थः । किं कारणत्वम् । उत कार्योत्पादानुगुणसहकारिसाकल्यम् । अहोस्वित्कार्याव्यभिचारः । कार्यसंबन्धो वेति । तत्र कारणत्वमेव करोत्यर्थः । ततः पक्षान्तरभाविनो दोषा अनभ्युपगमप्रतिहताः ।

न चात्र पक्षे कारणत्वसामर्थ्ययोः पर्यायत्वेन व्यापकानुपलम्भस्य साध्याविशिष्टत्वमभिधातुमुचितम्, समर्थव्यवहारगोचरत्वाभावस्य साध्यत्वात् । कारणत्वसमर्थव्यवहारगोचरत्वयोश्च वृक्षशिंशपयोरिव व्यावृत्तिभेदोऽस्तीत्यनवसर एवैवंविधस्य क्षुद्रप्रलापस्य ।

तदेवं प्रसङ्गप्रसङ्गविपर्ययहेतुद्वयबलतो घटे दृष्टान्ते क्षणभङ्गः सिद्धः । तत्कथं सत्त्वादन्यदनुमानं दृष्टान्ते क्षणभङ्गसाधकं नास्तीत्युच्यते । न चैवं सत्त्वहेतोर्वैयर्थ्यम्, दृष्टान्तमात्र एव प्रसङ्गप्रसङ्गविपर्ययाभ्यां क्षणभङ्गप्रसाधनात् ॥

(निबन्ध्७०)
नन्वाभ्यामेव पक्षेऽपि क्षणभङ्गसिद्धिरस्त्विति चेत् । अस्तु, को दोषः । यो हि प्रतिपत्ता प्रतिवस्तु यद्यदा यज्जननव्यवहारयोग्यं तत्तदा तज्जनयति इत्यादिकमुपन्यसितुमनलसस्तस्य तत एव क्षणभङ्गसिद्धिः । यस्तु प्रतिवस्तु तन्न्यायोपन्यासप्रयासभीरुः स खल्वेकत्र धर्मिणि यद्यदा यज्जननव्यवहारयोग्यं तत्तदा तज्जनयति इत्यादिन्यायेन सत्त्वमात्रमस्थैर्यव्याप्तमवधार्य सत्त्वादेवान्यत्र क्षणिकत्वमवगच्छतीति, कथमप्रमतो वैयर्थ्यमस्याचक्षीत । तदेवमेककार्यकारिणो घटस्य द्वितीयादिक्षण भाविकार्यापेक्षया समर्थेतरस्वभावविरुद्धधर्माध्यासाद्भेद एवेति क्षणभङ्गितया सपक्षतामावहति घटे सत्त्वहेतुरुपलभ्यमानो न विरुद्धः ।

न चायमनैकान्तिकः, अत्रैव साधर्म्यवति दृष्टान्ते सर्वोपसंहारवत्या व्याप्तेः प्रसाधनात् । ननु विपर्ययबाधकप्रमाणबलाद्व्याप्तिसिद्धिः । तस्य चोपन्यासवार्तापि नास्ति । तत्कथं व्याप्तिः प्रसाधितेति चेत् । तदेतत्तरलबुद्धिविलसितम् । तथा हि उक्तमेतद्वर्तमानक्षणभाविकार्यकरणकालेऽतीतानागतक्षणभाविकार्येऽपि घटस्य शक्तिसंभवे तदानीमेव तत्करणम् । अकरणे च शक्ताशक्तस्वभावतया प्रतिक्षणं भेद इति क्षणिकत्वेन व्याप्तैव सा अर्थक्रियाशक्तिः ॥

नन्वेवमन्वयमात्रमस्तु । विपक्षात्पुनरेकान्तेन व्यावृत्तिरिति कुतो लभ्यत इति चेत् । व्याप्तिसिद्धेरेव । व्यतिरेकसन्देहे व्याप्तिसिद्धिरेव कथमिति चेत् । न । द्विविधा हि व्याप्तिसिद्धिः । अन्वयरूपा च कर्तृधर्मः साधनधर्मवति धर्मिणि साध्यधर्मस्यावश्यम्भावो यः, व्यतिरेकरूपा च कर्मधर्मः साध्याभावे साधनस्यावश्यम्भावोयः । एनयोश्चैकतरप्रतीतिर्नियमेन द्वितीयप्रतीतिमाक्षिपति । अन्यथैकस्या एवासिद्धेः । तस्माद्यथा विपर्यये बाधकप्रमाणबलात्नियमवति व्यतिरेके सिद्धेऽन्वयविषयः संशयः पूर्वं स्थितोऽपि पश्चात्परिगलति ततोऽन्वयप्रसाधनार्थं न पृथक्साधनमुच्यते तथा प्रसङ्गतद्विपर्ययहेतुद्वयबलतो नियमवत्यन्वये सिद्धे व्यतिरेकविषये पूर्वं स्थितोऽपि सन्देहः पश्चात्परिगलत्येव ।

न च व्यतिरेकप्रसाधकमन्यत्प्रमाणं वक्तव्यम् । ततश्च साध्याभावे साधनस्यैकान्तिको व्यतिरेकः । साधने सति साध्यस्यावश्यमन्वयो वेति न कश्चिदर्थभेदः । तदेवं विपर्ययबाधकप्रमाणमन्तरेणापि प्रसङ्गप्रसङ्गविपर्ययहेतुद्वयबलादन्वयरूपव्याप्तिसिद्धो सत्त्वहेतोरनैकान्तिकत्वस्याभावादतः साधनात्क्षणभङ्गसिद्धिरनवद्येति ॥

(निबन्ध्७१)
ननु च साधनमिदमसिद्धम् । न हि कारणबुद्ध्या कार्य गृह्यते, तस्य भावित्वात् । न च कार्यबुद्ध्याकारणम्, तस्यातीतत्वात् । न च वर्तमानग्राहिणा ज्ञानेनातीतानागतयोर्ग्रहणम्, अतिप्रसङ्गात् । न च पूर्वापरयोः कालयोरेकः प्रतिसन्धाता अस्ति, क्षणभङ्गभङ्गप्रसङ्गात् । कारणाभावे तु कार्याभावप्रतीतिः स्वसंवेदनवादिनो मनोरथस्याप्यविषयः । ननु च पूर्वोत्तरकालयोः संवित्तो, ताभ्यां वासना, तया च हेतूफलावसायो विकल्प इति चेत्तदयुक्तम् ।

स हि विकल्पो गृहीतानुसन्धायकोऽतद्रूपसमारोपको वा । न प्रथमः पक्षः । एकस्य प्रतिसन्धातुरभावे पूर्वापरग्रहणयोरयोगात् ।विकल्पवासनाया एवाभावात् । नापि द्वितीयः । मरीचिकायामपि जलविज्ञानस्य प्रामाण्यप्रसङ्गात् । तदेवमन्वयव्यतिरेकयोरप्रतिपत्तेरर्थक्रियालक्षणं सत्त्वमसिद्धमिति ॥

किं च प्रकारान्तरादपीदं साधनमसिद्धम् । तथा हि बीजादीनां सामर्थ्यं बीजादिज्ञानात्तत्कार्यादङ्कुरादेर्वा निश्चेतव्यम् । कार्यत्वं च वस्तुत्वसिद्धौ सिध्यति । वस्तुत्वं च कार्यान्तरात् । कार्यान्तरस्यापि कार्यत्वं वस्तुत्वसिद्धौ । तद्वस्तुत्वं च तदपरकार्यान्तरादित्यनवस्था ।

अथानवस्थाभयात्पर्यन्ते कार्यान्तरं नापेक्षते, तदा तेनैव पूर्वेषामसत्त्वप्रसङ्गान्नैकस्याप्यर्थसामर्थ्य सिध्यति ।

ननु कार्यत्वसत्त्वयोर्भिन्नव्यावृत्तिकत्वात्सत्तासिद्धावपि कार्यत्वसिद्धौ का क्षतिरिति चेत् । तदसङ्गतम् । सत्यपि कार्यत्वसत्त्वयोर्व्यावृत्तिभेदे सत्तासिद्धो कुतः कार्यत्वसिद्धिः । कार्यत्वं ह्यभूत्वाभावित्वम् । भवनं च सत्ता । सत्ता च सौगतानां सामर्थ्यमेव । ततश्च सामर्थ्यसन्देहे भवतीत्येव वक्तुमशक्यम् । कथमभूत्वाभावित्वं कार्यत्वं सेत्स्यति । अपेक्षितपरव्यापारत्वं कार्यत्वमित्यपि नासतो धर्मः । सत्त्वं च सामर्थ्यम् । तच्च सन्दिग्धमिति कुतः कार्यत्वसिद्धिः । तदसिद्धौ पूर्वस्य सामर्थ्यं न सिध्यतीति सन्दिग्धासिद्धो हेतुः ॥

तथा विरुद्धोऽप्ययम् । तथा हि क्षणिकत्वे सति न तावदजातस्यानन्वयनिरुद्धस्य वा कार्यारम्भकत्वं संभवति । न च निष्पन्नस्य तावान् क्षणोऽस्ति यमुपादाय कस्मैचित्कार्याय व्यापार्येति । अतः क्षणिकपक्ष एवार्थक्रियानुपपत्तेर्विरुद्धता । अथ वा विकल्पेन यदुपनीयते तत्सर्वमवस्तु । ततश्च यस्त्वात्मके क्षणिकत्वे साध्येऽवस्तूपस्थापयन्ननुमानविकल्पो विरुद्धः । यद्वा सर्वस्यैव हेतोः क्षणिकत्वे साध्ये विरुद्धत्वं देशकालान्तराननुगमे साध्यसाधनभावाभावात् । अनुगमे च नानाकालमेकमक्षणिकं क्षणिकत्वेन विरुध्यत इति ॥

(निबन्ध्७२)
अनैकान्तिकोऽप्ययम्, सत्त्वस्थैर्ययोर्विरोधाभावादिति ।

अत्रोच्यते । यत्तावदुक्तं सामर्थ्यं न प्रतीयत इति, तत्किं सर्वथैव न प्रतीयते, क्षणभङ्गपक्षे वा ।

प्रथमपक्षे सकलकारकज्ञापकहेतुचक्रोच्छेदान्मुखस्पन्दनमात्रस्याप्यकरणप्रसङ्गः । अन्यथा येनैव वचनेन सामर्थ्यं नास्तीति प्रतिपाद्यते तस्यैव तत्प्रतिपादनसामर्थ्यमव्याहतमायातम् । तस्मात्परमपुरुषार्थसमीहया वस्तुतत्त्वनिरूपणप्रवृत्तस्य शक्तिस्वीकारपूर्विकैव प्रवृत्तिः । तदस्वीकारे तु न कश्चित्क्वचित्प्रवर्तेतेति निरीहं जगज्जायेत ।

अथ द्वितीयः पक्षः । तदास्ति तावत्सामर्थ्यप्रतीतिः । सा च क्षणिकत्वे यदि नोपपद्यते तदा विरुद्धं वक्तुमुचितम् । असिद्धमिति तु न्यायभूषणीयः पापो विलापः । न च सत्यपि क्षणिकत्वे सामर्थ्यप्रतीतिव्याघातः । तथा हि कारणग्राहिज्ञानोपादेयभूतेन कार्यग्राहिणा ज्ञानेन तदर्पितसंस्कारगर्भेण अस्य भावे अस्य भाव इत्यन्वयनिश्चयो जन्यते । तथा कारणापेक्षया भूतलकैवल्यग्राहिज्ञानोपादेयभूतेन कार्यापेक्षया भूतलकैवल्यग्राहिणा ज्ञानेन तदर्पितसंस्कारगर्भेण अस्याभावे अस्याभाव इति व्यतिरेकनिश्चयो जन्यते । यदाहुर्गुरवः -

एकावसायसमनन्तरजातमन्यविज्ञानमन्वयविमर्शमुपादधाति ।
एवं तदेकविरहानुभवोद्भवान्यव्यावृत्तिधीः प्रथयति व्यतिरेकबुद्धिम् ॥

एवं सति गृहीतानुसन्धायक एवायं विकल्पः, उपादानोपादेयभूतक्रमिप्रत्यक्षद्वयगृहीतानुसन्धानात् । यदाहालङ्कारः-

यदि नामैकमध्यक्षं न पूर्वापरवित्तिमत् ।
अध्यक्षद्वयसद्भावे प्राक्परावेदनं कथम् ॥ इति ॥

नापि द्वितीयोऽसिद्धप्रभेदः । सामर्थ्यं हि सत्त्वमिति सौगतानां स्थितिरेषा । न चैतत्प्रसाधनार्थमस्माकमिदानीमेव प्रारम्भः । किं तु यत्र प्रमाणप्रतीतेबीजादौ वस्तुभूते धर्मिणि प्रमाणप्रतीतं सामर्थ्यं तत्र क्षणभङ्गप्रसाधनाय । ततश्चाङ्कुरादीनां कार्यादर्शनादाहत्य सामर्थ्यसन्देहेऽपि पटुप्रत्यक्षप्रसिद्धमसत्परावृत्तं सन्मात्रत्वमवार्यमेव । अन्यथाङ्कुरादौ सत्तामात्रानभ्युपगमे प्रतिदर्शनं लक्षणभेदप्रणयनायोगात् । सर्वत्र सद्व्यवहाराभावप्रसङ्गाच्च । तस्माच्छास्त्रीयसत्त्वलक्षणसन्देहे (निबन्ध्७३)ऽपि पटुप्रत्यक्षबलावलम्बितवस्तुभावेऽङ्कुरादौ कार्यत्वमुपलभ्यमानं बीजादेः सामर्थ्यमुपस्थापयतीति नासिद्धिदोषावकाशः ॥

नापि क्षणिकत्वे सामर्थ्यक्षतिः, यतो विरुद्धता स्यात् । क्षणिकत्वनियतप्राग्भावित्वलक्षणकारणत्वयोर्विरोधाभावात्क्षणमात्रस्थायिनोऽपि सामर्थ्यसंभवादिति नादिमो विरोधः । नापि द्वितीयो विरोधप्रभेदः । अवस्तुनो वस्तुनो वा स्वाकारस्य ग्राह्यत्वेपि अध्यवसेयवस्त्वपेक्षयैव सर्वत्र प्रामाण्यप्रतिपादनाद्वस्तुस्वभावस्यैव क्षणिकत्वस्य सिद्धिरिति क्व विरोधः ।

यच्च गृह्यते यच्चाध्यवसीयते ते द्वे अप्यन्यनिवृत्ती न वस्तुनी, स्वलक्षणावगाहित्वेऽभिलापसंसर्गानुपपत्तेरिति चेत् । न । अध्यवसायस्वरूपापरिज्ञानात् । अगृहीतेऽपि वस्तुनि मानस्यादिप्रवृत्तिकारकत्वं विकल्पस्याध्यवसायित्वम् । अप्रतिभासेऽपि प्रवृत्तिविषयीकृतत्वमध्यवसेयत्वम् । एतच्चाध्यवसेयत्वं स्वलक्षणस्यैव युज्यते, नान्यस्य । अर्थक्रियार्थित्वादर्थिप्रवृत्तेः । एवं चाध्यवसाये स्वलक्षणस्यास्फुरणमेव । न च तस्यास्फुरणैऽपि सर्वत्राविशेषेण प्रवृत्त्याक्षेपप्रसङ्गः, प्रतिनियतसामग्रीप्रसूतात्, प्रतिनियतस्वाकारात्, प्रतिनियतशक्तियोगात्, प्रतिनियतएवातद्रूपपरावृत्तेऽप्रतीतेऽपि प्रवृत्तिसामर्थ्यदर्शनात्, यथा सर्वस्यासत्त्वेऽपि बीजादङ्कुरस्यैवोत्पत्तिः, दृष्टस्य नियतहेतुफलभावस्य प्रतिक्षेप्तुमशक्यत्वात् । परं बाह्येनार्थेन सति प्रतिबन्धे प्रामाण्यम् । अन्यथा त्वप्रामाण्यमिति विशेषः ॥

तथा तृतीयोऽपि पक्षः प्रयासफलः । नानाकालस्यैकस्य वस्तुनो वस्तुतोऽसंभवेऽपि सर्वदेशकालवर्तिनोरतद्रूपपरावृत्तयोरेव साध्यसाधनयोः प्रत्यक्षेण व्याप्तिग्रहणात् । द्विविधो हि प्रत्यक्षस्य विषयः ग्राह्योऽध्यवसेयश्च । सकलातद्रूपपरावृत्तं वस्तुमात्रं साक्षादस्फुरणात्प्रत्यक्षस्य ग्राह्यो विषयो मा भूत्, तदेकदेशग्रहणे तु तन्मात्रयोर्व्याप्तिनिश्चायकविकल्पजननादध्यवसेयो विषयो भवत्येव । क्षणग्रहणे सन्ताननिश्चयवत् । रूपमात्रग्रहणे रूपरसगन्धस्पर्शात्मकघटनिश्चयवच्च । अन्यथा सर्वानुमानोच्छेदप्रसङ्गात् ॥

तथा हि व्याप्तिग्रहः सामान्ययोः, विशेषयोः, सामान्यविशिष्टस्वलक्षणयोः स्वलक्षण विशिष्टसामान्ययोर्वेति विकल्पाः ।

नाद्यो विकल्पः, सामान्यस्य बाध्यत्वात् । अबाध्यत्वेऽप्यदृश्यत्वात् । दृश्यत्वेऽपि पुरुषार्थानुपयोगितया तस्यानुमेयत्वायोगात् । नाप्यनुमितात्सामान्याद्विशेषानुमानम् । सामान्यसर्वस्वलक्षणयोर्वक्ष्यमाणन्यायेन प्रतिबन्धप्रतिपत्तेरयोगात् ।



(निबन्ध्७४)
नापि द्वितीयः, विशेषस्याननुगामित्वात् ।

अन्तिमे तु विकल्पद्वये सामान्याधारतया दृष्ट एव विशेषः सामान्यस्य विशेष्यो विशेषणं वा कर्त्तव्यः । अदृष्ट एव वा देशकालान्तरवर्ती । यद्वा दृष्टादृष्टात्मको देशकालान्तर्वर्त्त्यतद्रूपपरावृत्तः सर्वो विशेषः ।

न प्रथमः पक्षोऽननुगामित्वात् । नापि द्वितीयः, अदृष्टत्वात् । न च तृतीयः, प्रस्तुतैकविशेषदर्शनेऽपि देशकालान्तरवर्तिनां विशेषाणामदर्शनात् ।

अथ तेषां सर्वेषामेव विशेषाणां सदृशत्वात्, सदृशसामग्रीप्रसूतत्वात्, सदृशकार्यकारित्वादिति प्रत्यासत्त्या एकविशेषग्राहकं प्रत्यक्षमतद्रूपपरावृत्तमात्रे निश्चयं जनयदतद्रूपपरावृत्तविशेषमात्रस्य व्यवस्थापकम् । यथैकसामग्रीप्रतिबद्धरूपमात्रग्राहकं प्रत्यक्षंं घटे निश्चयं जनयद्घटग्राहकं व्यवस्थाप्यते । अन्यथा घटोऽपि घटसन्तानोऽपि प्रत्यक्षतो न सिध्यते, सर्वात्मना ग्रहणाभावात् । तदेकदेशग्रहणं त्वतद्रूपपरावृत्तेऽप्यविशिष्टम् । यद्येवमनेनैव क्रमेण सर्वस्य विशेषस्य विशेषणविशेष्यभाववत्व्याप्तिप्रतिपत्तिरप्यस्तु । तत्किमर्थं नानाकालमेकमक्षणिकमभ्युपगन्तव्यं येन क्षणिकत्व साधनस्य विरुद्धत्वं स्यादिति न कश्चिद्विरोध प्रभेदप्रसङ्गः ॥

न चायमनैकान्तिकोऽपि हेतुः, पूर्वोक्तक्रमेण साधर्म्यदृष्टान्ते प्रसङ्गविपर्ययहेतुभ्यामन्वयरूपव्याप्तेः प्रसाधनात् । ननु यदि प्रसङ्गविपर्ययहेतुद्वयबलतो घटेदृष्टान्ते क्षणभङ्गः सिध्येत्तदा सत्त्वस्य नियमेन क्षणिकत्वेन व्याप्तिसिद्धेरनैकान्तिकत्वं नस्यादिति युक्तम् । केवलमिदमेवासम्भवि । तथा हि शक्तोऽपि घटः क्रमिकसहकार्यपेक्षया क्रमिकार्यं करिष्यति ।

न चैतद्वक्तव्यम् । समर्थोऽर्थः स्वरूपेण करोति । स्वरूपं च सर्वदास्तीत्यनुपकारिणी सहकारिण्यपेक्षा न युज्यत इति । सत्यपि स्वरूपेण कारकत्वे सामर्थ्याभावात्कथं करोतु । सहकारिसाकल्यं हि सामर्थ्यम् । तद्वैकल्यं चासामर्थ्यम् । न च तयोराविर्भावतिरोभावाभ्यां तद्वतः काचित्क्षतिः, तस्य ताभ्यामन्यत्वात् । तस्मादर्थः समर्थोऽपि स्यात्, न च करोतीति सन्दिग्धव्यतिरेकः प्रसङ्गहेतुः ॥

अत्रोच्यते । भवतु तावत्सहकारिसाकल्यमेव सामर्थ्यम् । तथापि सोऽपि तावद्भावः स्वरूपेण कारकः । तस्य च यादृशश्चरमक्षणेऽक्षेपक्रियाधर्मा स्वभावस्तादृश एव चेत्प्रथमक्षणे तदा तदापि प्रसह्य कुर्वाणो ब्रह्मणाप्यनिवार्यः । न च सोऽप्यक्षेपक्रियाधर्मा स्वभावः साकल्ये सति जातो भावाद्भिन्न एवाभिधातुं (निबन्ध्७५) शक्यः, भावस्याकर्तृत्वप्रसङ्गात् । एवं यावद्धर्मान्तरपरिकल्पस्तावत्तावदुदासीनो भावः । तस्माद्यद्रूपमादाय स्वरूपेणापि जनयतीत्युच्यते तस्य प्रागपि भावे कथमजनिः कदाचित् । अक्षेपक्रियाप्रत्यनीकस्वभावस्य वा प्राच्यस्य पश्चादनुवृत्तौ कथं कदाचिदपि कार्यसंभवः ॥

ननु यदि स एवैकः कर्ता स्याद्युक्तमेतत् । किं तु सामग्री जनिका । ततः सहकार्यन्तरविरहवेलायां बलीयसोऽपि न कार्यप्रसव इति किमत्र विरुद्धम् । न हि भावः स्वरूपेण करोतीति स्वरूपेणैव करोति, सहकारिसहितादेव ततः कार्योत्पत्तिदर्शनात् । तस्माद्व्याप्तिवत्कार्यकारणभावोऽप्येकत्रान्ययोगव्यवच्छेदेनान्यत्रायोगव्यच्छेदेनावबोद्धव्यः, तथैव लौकिकपरीक्षकाणां संप्रतिपत्तेरिति ॥

अत्रोच्यते । यदा मिलिताः सन्तः कार्यं कुर्वते तदैकार्थकरणलक्षणं सहकारित्वमेषामस्तु, को निषेद्धा । मिलितैरेव तु तत्कार्यं कर्त्तव्यमिति कुतो लभ्यते । पूर्वापरयोअरेकस्वभावत्वाद्भावस्य सर्वदा जननाजननयोरन्यतरनियमप्रसङ्गस्य दुर्वारत्वात् । तस्मात्सामग्री जनिका, नैकं जनकमिति स्थिरवादिनां मनोरथस्याप्यविषयः ।

दृश्यते तावदिदमिति चेत् । दृश्यताम् । किं तु पूर्वस्थितादेव सामग्रीमध्यप्रविष्टाद्भावात्कार्योत्पत्तिरन्यस्मादेव वा विशिष्टाद्भावादुत्पन्नादिति विवादपदम् । तत्र प्रागपि संभवे सर्वदैव कार्योत्पत्तिर्न वा कदाचिदपीति विरोधमसमाधाय चक्षुषी निमील्य तत एव कार्योत्पत्तिदर्शनादिति साध्यानुवादमात्रप्रवृत्तः कृपामर्हतीति ।

न च प्रत्यभिज्ञादिबलादेकत्वसिद्धिः । तत्पौरुषस्य लूनपुनर्जातकेशनखादावप्युपलम्भतो निर्दलनात् । लक्षणभेदस्य च दर्शयितुमशक्यत्वात् । स्थिरसिद्धदूषणे चास्माभिः प्रपञ्चतो निरस्तत्वात् । तस्मात्साक्षात्कार्यकारणभावापेक्षयोभयत्राप्यन्ययोगव्यवच्छेदः । व्याप्तौ तु साक्षात्परम्परया कारणमात्रापेक्षया कारणे व्यापकेऽयोगव्यवच्छेदः । कार्ये व्याप्येऽन्ययोगव्यवच्छेदः । तथा तदतत्स्वभावे व्यापकेऽयोगव्यवच्छेदः । तत्स्वभावे च व्याप्येऽन्ययोगव्यवच्छेदः । विकल्पारूढरूपापेक्षया व्याप्तौ द्विविधमवधारणम् ।

ननु यदि पूर्वापरकालयोरेकस्वभावो भावः सर्वदा जनकत्वेनाजनकत्वेन वा व्याप्त उपलब्धः स्यात्, तदायं प्रसङ्गः संगच्छते । न च क्षणभङ्गवादिना पूर्वापरकालयोरेकः (निबन्ध्७६) कश्चिदुपलब्ध इति चेत् । तदेतदतिग्राम्यम् । तथा हि पूर्वापरकालयोरेकस्वभावत्वे सतीत्यस्यायमर्थः । परकालभावी जनको यः स्वभावो भावस्य स एव यदि पूर्वकालभावी, पूर्वकालभावी वा योऽजनकः स्वभावः स एव यदि परकालभावी तदोपलब्धमेव जननमजननं वा स्यात् । तथा च सति सिद्धयोरेव स्वभावयोरेकत्वारोपे सिद्धमेव जननमजननं वासज्यत इति ।

ननु कार्यमेव सहकारिणममेक्षते, न तु कार्योत्पत्तिहेतुः । यस्माद्द्विविधं सामर्थ्यं निजमागन्तुकं न सहकार्यन्तरम्, ततोऽक्षणिकस्यापि क्रमवत्सहकारिनानात्वादपि क्रमवत्कार्यनानात्वोपपत्तेरशक्यं भावानां प्रतिक्षणमन्यान्यत्वमुपपादयितुमिति चेत् । उच्यते । भवतु तावन्निजागन्तुकभेदेन द्विविधं सामर्थ्यम् । तथापि यत्प्रातिस्विकं वस्तुस्वलक्षणमर्थक्रियाधर्मकमवश्य मभ्युपगन्तव्यम्, तत्किं प्रागपि पश्चादेव वेति विकल्प्य यद्दूषणमुदीरितं तत्र किमुक्तमनेनेति न प्रतीमः । यत्तु कार्येणैव सहकारिणोऽपेक्ष्यन्त इत्युपस्कृतं तदपि निरुपयोगम् । यदि हि कार्यमेव स्वजन्मनि स्वतन्त्रं स्याद्युक्तमेतत् । केवलमेवं सति सहकारिसाकल्यसामर्थ्यकल्पनमफलम् । स्वतन्त्रादेव हि कार्यं कादाचित्कं भविष्यति । तथा च सति सन्तो हेतवः सर्वथासमर्थाः । असदेतत्कार्यं स्वतन्त्रमिति विशुद्धा बुद्धिः ।

अथ कार्यस्यैवायमपराधो यदिदं समर्थे कारणे सत्यपि कदाचिन्नोपपद्यत इति चेत् । न तत्तर्हि तत्कार्यं स्वातन्त्र्यात् । यद्भाष्यम्

सर्वावस्थासमानेऽपि कारणे यद्यकार्यता ।
स्वतन्त्रं कार्यमेवं स्यान्न तत्कार्यं तथा सति ॥

अथ न तद्भावे भवतीति तत्कार्यमुच्यते । किंतु तदभावे न भवत्येवेति, व्यतिरेकप्राधान्यादिति चेत् । न । यदि हि स्वयं भवन् भावयेदेव हेतुः स्वकार्यम्, तदा तदभावप्रयुक्तोऽस्याभाव इति प्रतीतिः स्यात् । नो चेद्यथा कारणे सत्यपि कार्य स्वातन्त्र्यान्न भवति, तथा तदभावेऽपि स्वातन्त्र्यादेव न भूतमिति शङ्का केन निवार्येत । यद्भाष्यम्

तद्भावेऽपि न भावश्चेदभावेऽभाविता कुतः ।
तदभावप्रयुक्तोऽस्य सोऽभाव इति तत्कुतः ।

तस्माद्यथैव तदभावे नियमेन न भवति तथैव तद्भावे नियमेन भवेदेव । अभवच्च न तत्कारणतामात्मनः क्षमते ।

(निबन्ध्७७)
यच्चोक्तं प्रथमकार्योत्पादनकाले हि उत्तरकार्योत्पादनस्वभावः, अतः प्रथमकाल एवाशेषाणि कार्याणि कुर्यादिति । तदिदं माता मे बन्ध्येत्यादिवत्स्ववचनविरोधादयुक्तम् । यो हि उत्तरकार्यजननस्वभावः स कथमादौ कार्यं कुर्यात् । न तर्हि तत्कार्यकरणस्वभावः । न हि नीलोत्पादनस्वभावः पीतादिकमपि करोतीति ।

अत्रोच्यते । स्थिरस्वभावत्वे हि भावस्योत्तरकालमेवेदं कार्यं न पूर्वकालमिति कुत एतत् । तदभावाच्च कारणमप्युतरकार्यकरणस्वभावमित्यपि कुतः । किं कुर्मः । उत्तरकालमेव तस्य जन्मेति चेत् । अस्तु स्थिरत्वे तदनुपपद्यमानमस्थिरतामादिशतु ।

स्थिरत्वेऽप्येष एव स्वभावस्तस्य यदुत्तरक्षण एव करोतीति चेत् । हतेदानीं प्रमाणप्रत्याशा । धूमादत्राग्निरित्यत्रापि स्वभाव एवास्य यदिदानीमत्र निरग्निरपि धूम इति वक्तुं शक्यत्वात् । तस्मात्प्रमाणप्रसिद्धे स्वभावालम्बनम् । न तु स्वभावावलम्बनेन प्रमाणव्यालोपः । तस्माद्यदि कारणस्योत्तरकार्यकारकत्वमभ्युपगम्य कार्यस्य प्रथमक्षणभावित्वमासज्यते, स्यात्स्ववचनविरोधः । यदा तु कारणस्य स्थिरत्वे कार्यस्योत्तरकालत्वमेवासङ्गतमतः कारणस्याप्युत्तरकार्यजनकत्वं वस्तुतोऽसम्भवि तदा प्रसङ्गसाधनमिदम् । जननव्यवहारगोचरत्वं हि जननेन व्याप्तमिति प्रसाधितम् । उत्तरकार्यजननव्यवहारगोचरत्वं च त्वदभ्युपगमात्प्रथमकार्यकरणकाल एव घटे धर्मिणि सिद्धम् । अतस्तन्मात्रानुबन्धिन उत्तराभिमतस्त कर्यस्य प्रथमे क्षणेऽसंभवा देव प्रसङ्गः क्रियते । न हि नीलकारकेऽपि पीतकारकत्वारोपे पीतसंभवप्रसङ्गः स्ववचनविरोधो नाम । तदेवं शक्तः सहकार्यनपेक्षितत्वाद्जननेन व्याप्तः । अजनर्यश्च शक्ताशक्तत्वविरुद्धधर्माध्यासाद्भिन्न एव ॥

ननु भवतु प्रसङ्गविपर्ययबलादेककार्यं प्रति शक्ताशक्तत्वलक्षणविरुद्धधर्माध्यासः । तथापि न ततो भेदः सिध्यति । तथा हि बीजमङ्कुरादिकंकुर्वद्यदि येनैव स्वभावेनाङ्कुरादिकं करोति तेनैव क्षित्यादिकं तदा क्षित्यादीनामप्यङ्कुरस्वाभाव्यापत्तिः । नानास्वभावत्वेन तु कारकत्वे स्वभावानामन्योन्याभावाव्यभिचारित्वादेकत्र भावाभवौ परस्परविरुद्धौ स्यातामित्येकमपि बीजं भिद्येत । एवं प्रदीपोऽपि तैलक्षयवर्त्तिदाहादिकम् । तथा पूर्वरूपमप्युत्तररूपरसगन्धादिकमनैकैः स्वभावैः परिकलितं करोति । तेषां च स्वभावानामन्योऽन्याभावाव्यभिचाराद्विरुद्धानां योगे प्रदीपादिकं भिद्येत । न च भिद्यते ।

(निबन्ध्७८)
तन्न विरुद्धधर्माध्यासो भेदकः । तथा बीजस्याङ्कुरं प्रति कारकत्वं गर्दभादिकं प्रत्यकारकत्वमिति कारकत्वाकारकत्वे अपि विरुद्धो धर्मौ । न च तद्योगेऽपि बीजभेदः । तदेवमेकत्र बीजे प्रदीपे रूपे च विपक्षे परिदृश्यमानः शक्ताशक्तत्वादिर्विरुद्धधर्माध्यासो न घटादेर्भेदक इति ।

अत्र ब्रूमः । भवतु तावद्बीजादीनामनेककार्यकारित्वाद्धर्मभूतानेकस्वभावभेदः, तथापि कः प्रस्तावो विरुद्धधर्माध्यासस्य । स्वभावानां ह्यन्योन्याभावाव्यभिचारे भेदः प्राप्तावसरो न विरोधः । विरोधस्तु यद्विधाने यन्निषेधो यन्निषेधे च यद्विधानं तयोरेकत्र धर्मिणि परस्परपरिहारस्थिततया स्यात् । तदत्रैकः स्वभावः स्वाभावेन विरुद्धो युक्तो भावाभाववत् । न तु स्वभावान्तरेण घटत्ववस्तुत्ववत् । एवमङ्कुरादिकारित्वं तदकारित्वेन विरुद्धं न पुनर्वस्त्वन्तरकारित्वेन । प्रत्यक्षव्यापारश्चात्र यथा नानाधर्मैरध्यासितं भावमभिन्नं व्यवस्थापयति तथा तत्कार्यकारिणं कार्यान्तराकारिणं च । तद्यदि प्रतियोगित्वाभावादन्योन्याभावाव्यभिओचारिणावपि स्वभावावविरुद्धौ तत्कारकत्वान्याकारकत्वे वाविषयभेदादविरुद्धे तत्किमायातमेककार्यं प्रति शक्ताशक्तत्वयोः परस्परप्रतियोगिनोर्विरुद्धयोर्धर्मयीः । एतयोरपि पुनरविरोधे विरोधो नाम दत्तजलाञ्जलिः ॥

भवतु तर्ह्येककार्यापेक्षयैव सामर्थ्यासामर्थ्ययोर्विरोधः । केवलं यथा तदेव कार्यं प्रति क्वचिद्देशे शक्तिर्देशान्तरे चाशक्तिरिति देशभेदादविरुद्धे शक्त्यशक्ती तथैकत्रैव कार्यकालभेदादप्यविरुद्धे । यथा पूर्वं निष्क्रियः स्फटिकः स एव पश्चात्सक्रिय इति चेत् । उच्यते । न हि वयं परिभाषामात्रादेकत्र कार्ये देशभेदादविरुद्धे शक्त्यशक्ती ब्रूमः, किं तु विरोधाभावात् । तद्देशकार्यकारित्वं हि तद्देशकार्याकारित्वेन विरुद्धम् । न पुनर्देशान्तरे तत्कार्याकारित्वेनान्यकार्यकारित्वेन वा ॥

यद्येवं तत्कालकार्यकारित्वं तत्कालकार्याकारित्वेन विरुद्धम् । न पुनः कालान्तरे तत्कार्याकारित्वेनान्यकार्यकारित्वेन वा । तत्कथं कालभेदेऽपि विरोध इति चेत् । उच्यते । द्वयोर्हि धर्मयोरेकत्र धर्मिण्यनवस्थितिनियमः परस्परपरिहारस्थितिलक्षणो विरोधः । स च साक्षात्परस्परप्रत्यनीकतया भावाभाववद्वा भवेत्, एकस्य वा नियमेन प्रमाणान्तरेण बाधनान्नित्यत्वसत्त्ववद्वा भवेदिति न कश्चिदर्थभेदः । तदत्रैकधर्मिणि तत्कालतत्कार्यकारित्वाधारे कालान्तरे तत्कार्याकारित्वस्यान्यकार्यकारित्वस्य वा नियमेन प्रमाणान्तरेण बाधनाद्विरोधः । तथा हिओ यत्रैव धर्मिणि तत्कालकार्यकारित्वमुपलब्धं न तत्रैव कालान्तरे (निबन्ध्७९) तत्कार्याकारित्वमन्यकार्यकारित्वं वा ब्रह्मणाप्युपसंहर्तुं शक्यते, येनानयोरविरोधः स्यात् । क्षणान्तरे कथितप्रसङ्गविपर्ययहेतुभ्यामवश्यंभावेन धर्मिभेदप्रसाधनात् ॥

न च प्रत्यभिज्ञानादेकत्वसिद्धिः, तत्पौरुषस्य निर्मूलितत्वात् । अत एव वज्रोऽपि पक्षकुक्षौ निक्षिप्तः । कथमसौ स्फटिको बराकः कालभेदेनाभेदप्रसाधनाय दृष्टान्तीभवितुमर्हति । न चैवं समानकालकार्याणां देशभेदेऽपि धर्मिभेदो युक्तो भेदप्रसाधकप्रमाणाभावात् । इन्द्रियप्रत्यक्षेण निरस्तविभ्रमाशङ्केनाभेदप्रसाधनाच्चेति न कालभेदेऽपि शक्त्यशक्त्योर्विरोधः स्वसमयमात्रादपहस्तयितुं शक्यः, समयप्रमाणयोरप्रवृत्तेरिति ॥

तस्मात्सर्वत्र विरुद्धधर्माध्याससिद्धिरेव भेदसिद्धिः ।
विप्रतिपन्नं प्रति तु विरुद्धधर्माध्यासाद्भेदव्यवहारः साध्यते ॥

ननु तथापि सत्त्वमिदमनैकान्तिकमेवासाधारणत्वात्सन्दिग्धव्यतिरेकित्वाद्वा । यथा हीदं क्रमाक्रमनिवृत्तावक्षणिकान्निवृत्तं तथा सापेक्षत्वानपेक्षत्वयोरेकत्वानेकत्वयोरपि व्यापकयोर्निवृत्तौ क्षणिकादपि । तथा हि उपसर्पणप्रत्ययेन देवदत्तकरपल्लवादिना सहचरो बीजक्षणः पूर्वस्मादेव पुञ्जात्समर्थो जातोऽनपेक्ष आद्यातिशयस्य जनक इष्यते । तत्र च समानकुशूलजन्मसु बहुषु बीजसन्तानेषु कस्मात्किञ्चिदेव बीजं परम्परयाङ्कुरोत्पादानुगुणमुपजनयति वीजक्षणं नान्ये बीजक्षणा भिन्नसन्तानान्तः पातिनः । न हि उपसर्पणप्रत्ययात्प्रागेव तेषां समानासमानसन्तानवर्तिनां बीजक्षणानां कश्चित्परम्परातिशयः । अथोपसर्पणप्रत्ययात्प्राङ्न तत्सन्तानवर्तिनोऽपि जनयन्ति, परम्परयाप्यङ्कुरोत्पादानुगुणं बीजक्षणं बीजमात्रजननात्तेषाम् । कस्यचिदेव बीजक्षणस्योपसर्पण प्रत्ययसहभुव आद्यातिशयोत्पादः । हन्त तर्हि तदभावे सत्युत्पन्नोऽपि न जनयेदेव । तथा च केवलानां व्यभिचारसंभवादाद्यातिशयोत्पादकमङ्कुरं वा प्रतिक्षित्यादीनां परस्परापेक्षाणामेवोत्पादकत्वमकामेनापि स्वीकर्त्तव्यम् । अतो न तावदनपेक्षा क्षणिकस्य सम्भविनी । नाप्यपेक्षा युज्यते, समसमयक्षणयोः सव्येतरगोविषाणयोरिवोपकार्योपकारकभावायोगातिति नासिद्धः प्रथमो व्यापकाभावः । अपि चान्त्यो बीजक्षणोऽनपेक्षाङ्कुरादिकं कुर्वन् यदि येनैव रूपेणाङ्कुरं करोति तेनैव क्षित्यादिकं तदा क्षित्यादीनामप्यङ्कुरस्वाभाव्यापत्तिरभिन्नकारणत्वादिति न तावदेकत्वसंभवः ॥

ननु रूपान्तरेण करोति । तथा हि बीजस्याङ्कुरं प्रत्युपादानत्वम् । क्षित्यादिकं तु प्रति सहकारित्वम् । यद्येवं सहकारित्वोपादानत्वे किमेकं तत्त्वं नाना वा । (निबन्ध्८०) एकं चेत्कथं रूपान्तरेण जनकम् । नानात्वे त्वनयोर्बीजाद्भेदोऽभेदो वा । भेदे कथं बीजस्य जनकत्वं ताभ्यामेवाङ्कुरादीनामुत्पत्तेः । अभेदे वा कथं बीजस्य न नानात्वं भिन्नतादात्म्यात्, एतयोर्वैकत्वमेकतादात्म्यात् ।

यद्युच्येत क्षित्यादौ जनयितव्ये तदुपादानं पूर्वमेव क्षित्यादिबीजस्य रूपान्तरमिति । न तर्हि बीजं तदनपेक्षं क्षित्यादीनां जनकम् । तदनपेक्षत्वे तेषामङ्कुराद्भेदानुपपत्तेः । न चानुपकारकाण्यपेक्षन्त इति त्वयैवोक्तम् । न च क्षणस्योपकारसंभवोऽन्यत्र जननात्, तस्याभेद्यत्वादित्यनेकत्वमपि नास्तीति द्वितीयोऽपि व्यापकाभावो नासिद्धः । तस्मादसाधारणानैकान्तिकत्वं गन्धवत्त्ववदिति ।

यदि मन्येतानुपकारका अपि भवन्ति सहकारिणोऽपेक्षणीयाश्च कार्येणानुविहितभावाभावाच्च सहकरणाच्च ।

नन्वनेन क्रमेणाक्षणिकोऽपि भावोऽनुपकारकानपि सहकारिणः क्रमवतः क्रमवत्कार्येणानुकृतान्वयव्यतिरेकानपेक्षिष्यते । करिष्यते च क्रमवत्सहकारिवशः क्रमेण कार्याणीति व्यापकानुपलब्धेरसिद्धेः सन्दिग्धव्यतिरेकमनैकान्तिकं सत्त्वं क्षणिकत्व सिद्धाविति ।

अत्र ब्रूमः । कीदृशं पुनरपेक्षार्थमादाय क्षणिके सापेक्षानपेक्षत्वनिवृत्तिरुच्यते । किं सहकारिणमपेक्षत इति सहकारिणास्योपकारः कर्त्तव्यः । अथ पूर्वावस्थितस्यैव बीजादेः सहकारिणा सह संभूयकरणम् । यद्वा पूर्वावस्थितस्येत्यनपेक्ष्यमिलितावस्थस्य करणमात्रमपेक्षार्थः । अत्र प्रथमपक्षस्यासंभवादनपेक्षैव क्षणिकस्य, कथमुभयव्यावृत्तिः । यद्यनपेक्षः किमित्युपसर्पणप्रत्ययाभावेऽपि न करोति । करोत्येव यदि स्यात् । स्वयमसंभवी तु कथं करोतु । अथ तद्वा तादृग्वासीदिति न कश्चिद्विशेषः ।

ततस्तादृक्स्वभावसंभवेऽयकरणं सहकारिणि निरपेक्षतां न क्षमत इति चेत् । असंबद्धमेतत्, वर्णसंस्थानसाम्येऽप्यकर्तृंस्तत्स्वभावताया विरहात् । स चाद्यातिशयजनकत्वलक्षणः स्वभावविशेषो न समानासमानसन्तानवर्तिषु बीजक्षणेषु सर्वेष्वेव संभवी । किं तु केषुचिदेव कर्मकरकरपल्लवसहचरेषु ।

नन्वेकत्र क्षेत्रे निष्पत्तिलवनादिपूर्वकमानीयैकत्र कुशूले क्षिप्तानि सर्वाण्येव बीजानि साधारणरूपाण्येव प्रतीयन्ते । तत्कुतस्त्योऽयमेकबीजसंभवी विशेषोऽन्येषामिति चेत् । उच्यते । कारणं खलु सर्वत्र कार्ये द्विविधम् - दृष्टमदृष्टं (निबन्ध्८१) चेति सर्वास्तिकप्रसिद्धमेतत् । ततः प्रत्यक्षपरोक्षसहकारिअप्रत्ययसाकल्यमसर्वविदा प्रत्यक्षतो न शक्यं प्रतिपत्तुम् । ततो भवेदपि कारणसामग्रीशक्तिभेदात्तादृशः स्वभावभेदः केषाञ्चिदेव बीजक्षणानां येन त एव बीजक्षणा आद्यातिशयमङ्कुरं वा परम्परया जनयेयुः । नान्ये च बीजक्षणाः ।

ननु येषूपसर्पणप्रत्ययसहचरेषु स्वकारणशक्तिभेदादाद्यातिशयजनकत्वलक्षणो विशेषः संभाव्यते स तत्रावश्यमस्तीति कुतो लभ्यमिति चेत् । अङ्कुरोत्पादादनुमितादाद्यातिशयलक्षणात्कार्यादिति ब्रूमः ।कारणानुपलब्धेस्तर्हि तदभाव एव भविष्यतीति चेत् । न । दृश्यादृश्यसमुदायस्य कारणस्यादर्शनेऽप्यभावासिद्धेः कारणानुपलब्धेः सन्दिग्धासिद्धत्वात् । तदयमर्थः

पाणिस्पर्शवतः क्षणस्य न भिदा भिन्नान्यकालक्षणाद्
भेदो वेति मतद्वये मितिबलं यस्यास्त्वसौ जित्वरः ।
तत्रैकस्य बलं निमित्तविरहः कार्याङ्गमन्यस्य वा
सामग्री तु न सर्वथेक्षणसहा कार्यं तु मानानुगम् ॥ इति ॥

तदेवं नोपकारोऽपेक्षार्थ इत्यनपेक्षैव क्षणिकस्य सहकारिषु नोभयव्यावृतिः ॥

अथ संभूयकरणमपेक्षार्थः, तदा यदि पूर्वस्थितस्येति विशेषणापेक्षा तदा क्षणिकस्य नैवं कदाचिदित्यनपेक्षैवाक्षीणा ।

अथ पूर्वस्थितस्येत्यनपेक्ष्य मिलितावस्थितस्यैव करणमपेक्षार्थस्तदा सापेक्षतैव, नानपेक्षा । तथा च नोभयव्यावृत्तिरित्यसिद्धः प्रथमो व्यापकानुपलम्भः । तथैकत्वानेकत्वयोरपि व्यापकयोः क्षणिकाद्व्यावृत्तिरसिद्धा । तत्तद्व्यावृत्तिभेदमाश्रित्योपादानत्वादिकाल्पनिकस्वभावभेदेऽपि परमार्थत एकेनैव स्वरूपेणानेककार्यनिष्पादनादुभयव्यावृत्तेरभावात् ।

यच्च बीजस्यैकेनैव स्वभावेन कारकत्वे क्षित्यादीनामङ्कुरस्वाभाव्यापत्तिरन्यथा कारणाभेदेऽपि कार्यभेदेऽपि कार्यस्याहेतुकत्वप्रसङ्गादित्युक्तं तदसङ्गतम् । कारणैकत्वस्य कार्यभेदस्य च पटुनेन्द्रियप्रत्यक्षेण प्रसाधनात् । एककारणजन्यत्वैकत्वयोर्व्याप्तेः प्रतिहतत्वात् । प्रसङ्गस्यानुपदत्वात् ।

यच्च कारणाभेदे कार्याभेद इत्युक्तं तत्र सामग्रीस्वरूपं कारणमभिप्रेतम् । सामग्रीसजातीयत्वे न कार्यविजातीयतेत्यर्थः । न पुनः सामग्रीमध्यगतेनैकेनानेकं कार्यं न कर्तव्यं नाम, एकस्मादनेकोत्पत्तेः प्रत्यक्षसिद्धत्वात् । न चैवं प्रत्यभिज्ञानात्कालभेदेऽप्यभेदसिद्धिरित्युक्तप्रायम् । न चेन्द्रियप्रत्यक्षं भिन्नदेशं सप्रतिघं (निबन्ध्८२) दृश्यमर्थद्वयमेकमेवोपलम्भयतीति क्वचिदुपलब्धं येन तत्रापि भेदे शङ्का स्यात् । शङ्कायां वा पटुप्रत्यक्षस्याप्यपलापे सर्वप्रमाणोच्छेदप्रसङ्गादिति ।

नापि सत्त्वहेतोः सन्दिग्धव्यतिरेकित्वम्, क्षित्यादेर्द्रव्यान्तरस्य बीजस्वभावत्वेनास्माभिरस्वीकृतत्वात् । अनुपकारिण्यपेक्षायाः प्रत्याख्यातत्वात्व्यापकानुपलम्भस्यासिद्धत्वायोगात् ।

तदेतौ द्वावपि व्यापकानुपलम्भावसिद्धौ न क्षणिकात्सत्त्वं निवर्तयत इति नायमसाधारणो हेतुः ॥

अपि च विद्यमानो भावः साध्येतरयोरनिश्चितान्वयव्यतिरेको गन्धवत्तादिवदसाधारणो युक्तः । प्रकृतव्यापकानुपलम्भाच्च सर्वथार्थक्रियैवासती उभाभ्यां वादिभ्यामुभयस्माद्विनिवर्तितत्वेन निराश्रयत्वात् ।

तत्कथमसाधारणानैकान्तिको भविष्यतीत्यलं प्रलापिनि निर्बन्धेन ।

तदेवं शक्तस्य क्षेपायोगात्समर्थव्यवहारगोचरत्वं जननेन व्याप्तमिति प्रसङ्गविपर्यययोः सत्वे हेतोरपि नानैकान्तिकत्वम् । अतः क्षणभङ्गसिद्धिरितिस्थितम् ॥

इति साधर्म्यदृष्टान्तेऽन्वयरूपव्याप्त्या

क्षणभङ्गसिद्धिः समाप्ता ॥

कृतिरियं महापण्डितरत्नकीर्तिपादानामिति ॥


(निबन्ध्८३)
॥ ५ ॥
॥ क्षणभङ्गसिद्धिः ॥

॥ व्यतिरेकात्मिका ॥

॥ नमस्तारायै ॥

व्यतिरेकात्मिका व्याप्तिराक्षिप्तान्वयरूपिणी ।
वैधर्म्यवति दृष्टान्ते सत्त्वहेतोरिहोच्यते ॥

यत्सत्तत्क्षणिकम् । यथा घटः । सन्तश्चामी विवादास्पदीभूताः पदार्था इति स्वभावहेतुः ।

न तावदस्यासिद्धिः संभवति, यथायोगं प्रत्यक्षानुमानप्रमाणप्रतीते धर्मिणि सत्त्वशब्देनाभिप्रेतस्यार्थक्रियाकारित्वलक्षणस्य साधनस्य प्रमाणसमधिगतत्वात् ।

न च विरुद्धानैकान्तिकते, व्यापकानुपलम्भात्मना विपर्यये बाधकप्रमाणेन व्याप्तेः प्रसाधनात् । यस्य क्रमाक्रमौ न विद्येते न तस्यार्थक्रियासामर्थ्यम् । यथा शशविषाणस्य । न विद्येते चाक्षणिकस्य क्रमाक्रमाविति व्यापकानुपलम्भः । न तावदयमसिद्धो हेतुः, अक्षणिके धर्मिणि क्रमाक्रमसद्भावायोगात् । तथा हि प्राप्तापरकालयोरेकत्वे नित्यत्वम् । तस्य क्रमाक्रमयोगे क्षणद्वयेऽप्यवश्यं भेदः । भेदाभेदयोश्च परस्परविरोधात्कुतोऽक्षणिके क्रमाक्रमसंभवः । क्षणद्वयेऽपि भेदे क्रमाक्रमयोगः । अभेदे हि प्रथम एव क्षणे शक्तत्वाद्भाविनोऽपि कार्यस्य करणप्रसङ्गे कथं कार्यान्तरकरणे क्रमान्तरावकाशः । न चाक्षणिकस्याक्रमेणैव सकलस्वकार्यं कृत्वा स्वास्थ्यम् । क्षणान्तरेऽपि शक्तत्वात्पुनस्तत्कार्यकरणप्रसङ्गात् ।

तस्मादक्षणिकमिति पूर्वापरकालयोरभेदः । क्रमाक्रमयोग इति पूर्वापरकालयोर्भेदः । अनयोश्च परस्परपरिहारस्थितिलक्षणो विरोधः ।

तदयमक्षणिके धर्मिणि क्रमाक्रमाभावलक्षणो हेतुर्नासिद्धो वक्तव्यः । क्रमाक्रमयोगित्वाक्षणिकत्वयोर्विरोधादेव ।

(निबन्ध्८४)
नापि विरुद्धः, सपक्षे भावात् ।

न चानैकान्तिकः, क्रमाक्रमाभावस्यार्थक्रियासामर्थ्याभावेन व्याप्तत्वात् ।

येनैव हि प्रत्यक्षात्मना प्रमाणेनापरप्रकाराभावाद्विधिभूताभ्यां क्रमाक्रमाभ्यां विधिभूतस्यार्थक्रियासामर्थ्यस्य व्याप्तिः प्रसाधिता, तेनैवार्थक्रियासामर्थ्याभावेन क्रमाक्रमाभावस्य व्याप्तिः प्रसाधितेति स्वीकर्त्तव्यम् । न हि दहनादिना धूमादेर्व्याप्तिसाधकप्रमाणादपरं धूमाद्यभावेन दहनाद्यभावस्य व्याप्तिसाधकं किञ्चित्प्रमाणं शरणभूतमस्ति । तस्माद्विध्योरेव व्याप्तिसाधकं प्रमाणमभावयोरपि व्याप्तिसाधकमिति न्यायस्य दुरतिक्रमत्वात्सत्त्वाभावेन क्रमाक्रमाभावो व्याप्त एवेति नानैकान्तिक इत्यनवद्यो व्यापकानुपलम्भः । तदयमक्षणिकाद्विनिवर्तमानः स्वव्याप्यं सत्त्वं निवर्त्यं क्षणिके विश्रामयतीति सत्त्वहेतोः क्षणभङ्गसिद्धिरप्यनवद्या ।

(निबन्ध्८५)
ननु व्यापकानुपलम्भतः सत्त्वस्य कथं स्वसाध्यप्रतिबन्धसिद्धिः, अस्याप्यनेकदोषदुष्टत्वात् । तथा हि न तावदयं प्रसङ्गो हेतुः, साध्यधर्मिणि प्रमाणसिद्धत्वात्, पराभ्युपगमसिद्धत्वाभावात्, विपर्ययपर्यवसानाभावाच्च । अथ स्वतन्त्रः, तदाश्रयासिद्धः । अक्षणिकस्याश्रयस्यासंभवात् । अप्रतीतत्वाद्वा । प्रतीतर्हि प्रत्यक्षेणानुमानेन विकल्पमात्रेण वा स्यात् ।

प्रथमपक्षद्वये साक्षात्पारम्पर्येण वा स्वप्रतीतिलक्षणार्थकारित्वे मौलसाधारणो हेतुः व्यापकानुलम्भश्च स्वरूपासिद्धः स्यात् । अर्थक्रियाकारित्वे क्रमाक्रमयोरन्यतरस्या वश्यंभावात् । अन्तिमपक्षे तु न कश्चिद्धेतुरनाश्रयः स्यात् । विकल्पमात्रसिद्धस्य धर्मिणः सर्वत्र सुलभत्वात् ।

अपि च, तत्कल्पनाज्ञानं प्रत्यक्षपृष्ठभावि वा स्यात्, लिङ्गजन्म वा, संस्कारजं वा, सन्दिग्धवस्तुकं वा, अवस्तुकं वा ।

तत्राद्यपक्षद्वयेऽक्षणिकस्य सत्तैवाव्याहता । कथं बाधकावतारः । तृतीये तु न सर्वदाक्षणिकसत्तानिषेधः, तदर्पितसंस्काराभावे तत्स्मरणायोगात् । चतुर्थे तु सन्दिग्धाश्रयत्वं हेतुदोषः । पञ्चमे च तद्विषयस्याभावो न तावत्प्रत्यक्षतः सिध्यति, अक्षणिकात्मनः सर्वदैव त्वन्मतेऽप्रत्यक्षत्वात् । न चानुमानतस्तदभावस्तत्प्रतिबद्धलिङ्गानुपलम्भादित्याश्रयासिद्धिस्तावदुद्धता । एवं दृष्टान्तोऽपि प्रतिहन्तव्यः ।

स्वरूपासिद्धोऽप्ययं हेतुः, स्थिरस्यापि क्रमाक्रमिसहकार्यपेक्षया क्रमाक्रमाभ्यामर्थक्रियोपपत्तेः । नापि क्रमयौगपद्यपक्षोक्तदोषप्रसङ्गः । तथा हि क्रमिसहकार्यपेक्षया क्रमिकार्यकारित्वं तावदविरुद्धम् ।

तथा च शङ्करस्य संक्षिप्तोऽयमभिप्रायः । सहकारिसाकल्यं हि सामर्थ्यम् । तद्वैकल्यं चासामर्थ्यम् । न च तयोराविर्भावतिरोभावाभ्यां तद्वतः काचित्क्षतिः, तस्य ताभ्यामन्यत्वात् । तत्कथं सहकारिणोऽनपेक्ष्य कार्यकरणप्रसङ्ग इति ।

त्रिलोचनस्याप्ययं संक्षिप्तार्थः । कार्यमेव हि सहकारिणमपेक्षते । न कार्योत्पत्तिहेतुः । यस्मात्द्विविधं सामर्थ्यं निजमागन्तुकं च सहकार्यन्तरम्, ततोऽक्षणिकस्यापि क्रमवत्सहकारिनानात्वादपि क्रमवत्कार्यनानात्वोपपत्तेरशक्यं भावानां प्रतिक्षणमन्यान्यत्वमुपपादयितुमिति ।

न्यायभूषणोऽपि लपति । प्रथमकार्योत्पादनकाले हि उत्तरकार्योत्पादनस्वभावः । अतः प्रथमकाल एवाशेषाणि कार्याणि कुर्यादिति चेत् । तदिदं माता मे बन्ध्येत्यादिवत्स्ववचनविरोधादयुक्तम् । यो हि उत्तरकार्यजननस्वभावः स (निबन्ध्८६) कथमादौ तत्कार्यं कुर्यात् । (अथ कुर्यात्) न तर्हि तत्कार्यकरणस्वभाव । नहि नीलोत्पादनस्वभावः पीतादिकमपि करोतीति ।

वाचस्पतिरपि पठति । नन्वयमक्षणिकः स्वरूपेण कार्यं जनयति । तच्चास्य स्वरूपं तृतीयादिष्विव क्षणेषु द्वितीयेऽपि क्षणे सदिति तदापि जनयेत् । अकुर्वन् वा तृतीयादिष्वपि न कुर्वीत, तस्य तादवस्थ्यात् । अतादवस्थ्ये वा तदेवास्य क्षणिकत्वम् ॥

अत्रोच्यते । सत्यं स्वरूपेण कार्यं जनयति न तु तेनैव । सहकारिसहितादेव ततः कार्योत्पत्तिदर्शनात् । तस्माद्व्याप्तिवत्कार्यकारणभावोऽप्येकत्रान्ययोगव्यवच्छेदेन । अन्यत्रायोगव्यवच्छेदेनाववोद्धव्यः । तथैव लौकिकपरीक्षकाणां संप्रतिपत्तेरिति न क्रमिकार्यकारित्वपक्षोक्तदोषावसरः ॥

नाप्यक्षणिके यौगपद्यपक्षोक्तदोषावकाशः । ये हि कार्यमुत्पादितवन्तो द्रव्यविशेषास्तेषां व्यापारस्य नियतकार्योत्पादनसमर्थस्य निष्पादिते कार्येऽनुवर्तमानेष्वपि तेषु द्रव्येषु निवृत्तार्थादूना सामग्री जायते । तत्कथं निष्पादितं निष्पादयिष्यति । न हि दण्डादयः स्वभावेनैव कर्तारो येनामी निष्पत्तेरारभ्य कार्यं विदध्युः । किं तर्हि व्यापारावेशिनः । न चेयता स्वरूपेण न कर्तारः, स्वरूपकारकत्वनिर्वाहपरतया व्यापारसमावेशादिति ॥

किं च क्रमाक्रमाभावश्च भविष्यति न च सत्त्वाभाव इति सन्दिग्धव्यतिरेकोऽप्ययं व्यापकानुपलम्भः । न हि क्रमाक्रमाभ्यामन्यस्य प्रकारस्याभावः सिद्धः, विशेषनिषेधस्य शेषाभ्यनुज्ञाविषयत्वात् ।

किं च प्रकारान्तरस्य दृश्यत्वे नात्यन्तनिषेधः । अदृश्यत्वे तु नासत्तानिश्चयो विप्रकर्षिणामिति न क्रमाक्रमाभ्यामर्थक्रियासामर्थ्यस्य व्याप्तिसिद्धिः । अतः सन्दिग्धव्यतिरेकोऽपि व्यापकानुपलम्भः ।

किं च दृश्यादृश्यसहकारिप्रत्ययसाकल्यवतः क्रमयौगपद्यस्यात्यन्तपरोक्षत्वात्तेन व्याप्तं सत्त्वमपि परोक्षमेवेति न तावत्प्रतिबन्धः प्रत्यक्षतः सिध्यति । नाप्यनुमानतः, तत्प्रतिबद्धलिङ्गाभावादिति ।

अपि च क्रमाक्रमाभ्यामर्थक्रियाकारित्वं व्याप्तमित्यतिसुभाषितम् । यदि क्रमेण व्याप्तं कथमक्रमेण । अथाक्रमेण न तर्हि क्रमेण । क्रमाक्रमाभ्यां व्याप्तमिति तु ब्रुवता व्याप्तेरेवाभावः प्रदर्शितो भवति । न हि भवति धूमो वह्निभावाभावाभ्यां व्याप्त इति । अतो व्याप्तेरनैकान्तिकत्वम् ।

अपि च किमिदं बाधकमक्षणिकानामसत्तां साधयति, उतस्विदक्षणिकात्सत्त्वस्य व्यतिरेकम्, अथ सत्त्वक्षणिकत्वयोः प्रतिबन्धम् । न पूर्वो विकल्पः, (निबन्ध्८७) उक्तक्रमेण हेतोराश्रयासिद्धत्वात् । न च द्वितीयः । यतो व्यापकनिवृत्तिसहिता व्याप्यनिवृत्तिर्व्यतिरेकशब्दस्यार्थः । सा च यदि प्रत्यक्षेण प्रतीयते तदा तद्धेतुः स्यादिति सत्त्वमनैकान्तिकम् । व्यापकानुपलम्भः स्वरूपासिद्धः । अथ सा विकल्प्यते तदा पूर्वोक्तक्रमेण पञ्चधा विकल्प्य विकल्पो दूषणीयः । अत एव न तृतीयोऽपि विकल्पः, व्यतिरेकासिद्धौ सम्बन्धासिद्धेः ।

किं च न भूतलवदत्राक्षणिको धर्मी दृश्यते । न च स्वभावानुपलम्भे व्यापकानुपलम्भः कस्यचित्दृश्यस्य प्रतिपत्तिमन्तरेणान्तर्भावयितुं शक्यत इति ।

किं चास्याभावधर्मत्वे आश्रयासिद्धत्वमितरेतराश्रयत्वं च । भावधर्मत्वे विरुद्धत्वं च । उभयधर्मत्वे चानैकान्तिकत्वमिति न त्रयीं दोषजातिमतिपतति ।

यत्पुनरुक्तमक्षणिकत्वे क्रमयौगपद्याभ्यामर्थक्रियाविरोधादिति । तत्र विरोधसिद्धिमनुसरता विरोध्यपि प्रतिपत्तव्यः । तत्प्रतीतिनान्तरीयकत्वाद्विरोधसिद्धेः । यथा तुहिनदहनयोः सापेक्षध्रूवभावयोश्च । प्रतियोगी चाक्षणिकः प्रतीयमानः प्रतीतिकारित्वात्सन्नेव स्यात्, अजनकस्याप्रमेयत्वात् ।

संवृतिसिद्धेनाक्षणिकत्वेन विरोधसिद्धिरिति चेत् । संवृतिसिद्धमपि वास्तवं काल्पनिकं वा स्यात् ।

यदि वास्तवं कथं तस्यासत्त्वम् । कथं चार्थक्रियाकारित्वविरोधः । अर्थक्रियां कुर्वद्धि वास्तवमुच्यते ।

अथ काल्पनिकम् । तत्र किं विरोधो वास्तवः, काल्पनिको वा । न तावद्वास्तवः, कल्पितविरोधिविरोधत्वात्, बन्ध्यापुत्रविरोधवत् । अथ विरोधोऽपि काल्पनिकः न तर्हि सत्त्वस्य व्यतिरेकः पारमार्थिक इति क्षणभङ्गो दत्तजलाञ्जलिरिति ।

अयमेव चोद्यप्रबन्धोऽस्मद्गुरुभिः संगृहीतः

नित्यं नास्ति न वा प्रतीतिविषयस्तेनाश्रयासिद्धता
हेतोः स्वानुभवस्य च क्षतिरतः क्षिप्तः सपक्षोऽपि च ।
शून्यश्च द्वितयेन सिध्यति न चासत्तापि सत्ता यथा
नो नित्येन विरोधसिद्धिरसता शक्या क्रमादेरपि ॥ इति ॥

अत्रोच्यते । इह वस्तुन्यपि धर्मिधर्मव्यवहारो दृष्टो यथा गवि गोत्वम्, पटे शुक्लत्वम्, तुरगे गमनमित्यादि । अवस्तुन्यपि धर्मिधर्मव्यवहारो दृष्टो यथा शशविषाणे तीक्ष्णत्वाभावो बन्ध्यापुत्रे वक्तृत्वाभावो गगनारविन्दे गन्धाभाव (निबन्ध्८८) इत्यादि । तत्रावस्तुनि धर्मित्वं नास्तीति किं वस्तुधर्मेण धर्मित्वं नास्ति, आहोस्विदवस्तुधर्मेणापि ।

प्रथमपक्षे सिद्धसाधनम् । द्वितीयपक्षे तु स्ववचनविरोधः । यदाहुर्गुरवः

धर्मस्य कस्यचिदवस्तुनि मानसिद्धा बाधाविधिव्यवहृतिः किमिहास्ति नो वा ।
क्वाप्यस्ति चेत्कथमियन्ति न दूषणानि नास्त्येव चेत्स्ववचनप्रतिरोधसिद्धिः ॥

अवस्तुनो धर्मित्वस्वीकारपूर्वकत्वस्य व्यापकस्याभावादा श्रयासिद्धिदूषणस्यानुपन्यासप्रसङ्ग इत्यर्थः । येनैव हि वचनेनावस्तुनो धर्मित्वं प्रतिषिध्यते, तेनैवावस्तुनो धर्मित्वाभावेन धर्मेण धर्मित्वमभ्युपगतम् । परन्तु प्रतिषिध्यत इति व्यक्तमिदमीश्वरचेष्टितम् । तथा ह्यवस्तुनो धर्मित्वं नास्तीति वचनेन धर्मित्वाभावः किमवस्तुनि विधीयते, अन्यत्र वा, न वा क्वचिदपीति त्रयः पक्षाः ।

प्रथमपक्षेऽवस्तुनो न धर्मित्वनिषेधः, धर्मित्वाभावस्य धर्मस्य तत्रैव विधानात् । द्वितीयेऽवस्तुनि किमायातमन्यत्र धर्मित्वाभावविधानात् । तृतीयस्तु पक्षो व्यर्थ एव निराश्रयत्वादिति कथमवस्तुनो धर्मित्वनिषेधः । तस्माद्यथा प्रमाणोपन्यासः प्रमेयस्वीकारपूर्वकत्वेन व्याप्तः, वाचकशब्दोपन्यासो वा वाच्यस्वीकारपूर्वकत्वेन व्याप्तस्तथावस्तुनो धर्मित्वं नास्तीति वचनोपन्यासोऽवस्तुनो धर्मित्वस्वीकारपूर्वकत्वेन व्याप्तः । अन्यथा तद्वचनोपन्यासस्य व्यर्थत्वात् । तद्यदि वचनोपन्यासो व्याप्यधर्मस्तदावस्तुनो धर्मित्वस्वीकारोऽपि व्यापकधर्मो दुर्वारः । अथ न व्यापकधर्मः तदा व्याप्यस्यापि वचनोपन्यासस्यासंभव इति मूकतैवात्र बलादायातेति कथं न स्ववचनप्रतिरोधसिद्धिः ।

यदाहाचार्यः - न ह्यब्रुवन् परं बोधयितुमीशः । ब्रुवन् वा दोषमिमं परिहर्तुमिति महति संकटे प्रवेशः ।

अवस्तुप्रस्तावे सहृदयानां मूकतैव युज्यत इति चेत् । अहो महद्वैदग्ध्यम् । अवस्तुप्रस्तावे स्वयमेव यथाशक्ति वल्गित्वा भग्नो मूकतैव न्यायप्राप्तेति परिभाषया निःसर्तुमिच्छति । न चावस्तुप्रस्तावो राजदण्डेन विना चरणमर्दनादिनानिष्टिमात्रेण वा प्रतिषेद्धं शक्यते । ततश्वात्रापि क्रमाक्रमभावस्य साधनत्वे सत्त्वाभावस्य च साध्यत्वे सन्दिग्धवस्तुभावस्यावस्त्वात्मनो वा क्षणिकस्य धर्मित्वं केन प्रतिषिध्यते ।

(निबन्ध्८९)
त्रिविधो हि धर्मो दृष्टः । कश्चित्वस्तुनियतो नीलादिः । कश्चिदवस्तुनियतो यथा सर्वोपाख्याविरहः । कश्चिदुभयसाधारणो यथानुपलब्धिमात्रम् । तत्र वस्तुधर्मेणावस्तुनो धर्मित्वनिषेध इति युक्तम् । न त्ववस्तुधर्मेण, वस्त्ववस्तुधर्मेण वा, स्ववचनस्यानुपन्यासप्रसङ्गादित्यक्षणिकस्याभावे सन्देहेऽपि वा वस्तुधर्मेण धर्मित्वमव्याहतमिति नायमाश्रयासिद्धो व्यापकानुपलम्भः ।

अक्षणिकाप्रतीता वाश्रयासिद्धो हेतुरिति युक्तमुक्तम्, तदप्रतीतौ तद्व्यवहारायोगात् । केवलमसौ व्यवहाराङ्गभूता प्रतीतिर्वस्त्ववस्तुनोरेकरूपा न भवति । साक्षात्पारम्पर्येण वस्तुसामर्थ्यभाविनो हि वस्तुप्रतीतिः । यथा प्रत्यक्षमनुमानं प्रत्यक्षपृष्ठभावी च विकल्पः । अवस्तुनस्तु सामर्थ्याभावाद्विकल्पमात्रमेव प्रतीतिः । वस्तुनो हि वस्तुबलभाविनी प्रतीतिर्यथा साक्षात्प्रत्यक्षम्, परम्परया तत्पृष्ठभावी विकल्पोऽनुमानं च । अवस्तुनस्तु न वस्तुबलभाविनी प्रतीतिस्तत्कारकत्वेनावस्तुत्वहानिप्रसङ्गात् । तस्माद्विकल्पमात्रमेवावस्तुनः प्रतीतिः । न ह्यभावः कश्चिद्विग्रहवान् यः साक्षात्कर्तव्योऽपि तु व्यवहर्तव्यः । स च व्यवहारो विकल्पादपि सिध्यत्येव । अन्यथा सर्वजनप्रसिद्धोऽवस्तुव्यवहारो न स्यात् । इष्यते च तद्धर्मित्वप्रतिषेधानुबन्धादित्यकामकेनापि विकल्पमात्रसिद्धोऽक्षणिक स्वीकर्तव्य इति नायमप्रतीतत्वादप्याश्रयासिद्धो हेतुर्वक्तव्यः ।

ततश्चाक्षणिकस्य विकल्पमात्रसिद्धत्वे यदुक्तम्, न कश्चिद्धेतुरनाश्रयः विकल्पमात्रसिद्धस्य धर्मिणः सर्वत्र सुलभत्वादिति तदसङ्गतम् । विकल्पमात्रसिद्धस्य धर्मिणः सर्वत्र संभवेऽपि वस्तुधर्मेण धर्मित्वायोगात् । वस्तुधर्महेतुत्वापेक्षया आश्रयासिद्धस्यापि हेतोः संभवात् । यथात्मनो विभुत्वसाधनार्थमुपन्यस्तं सर्वत्रोपलभ्यमानगुणत्वादिति साधनम् । विकल्पश्चायं हेतूपन्यासात्पूर्वं सन्दिग्धवस्तुकः । समर्थिते तु हेताववस्तुक इति ब्रूमः ।

न चात्र सन्दिग्धाश्रयत्वं नाम हेतुदोषः । आस्तां तावत् । सन्दिग्धस्यावस्तुनोऽपि विकल्पमात्रसिद्धस्यावस्तुधर्मापेक्षया धर्मित्वप्रसाधनात् । वस्तुधर्महेत्वपेक्षयैव सन्दिग्धाश्रयस्य हेत्वाभासस्य व्यवस्थापनात् । यथेह निकुञ्जे मयूरः केकायितादिति । अवस्तुकविकल्पविषयस्यासत्त्वं तु व्यापकानुपलम्भादेव प्रसाधितम् । एवं दृष्टान्तस्यापि व्योमोत्पलादेर्धर्मित्व विकल्पमात्रेण प्रतीतिश्चावगन्तव्या । तदेव मवस्तुधर्मापेक्षयावस्तुनो धर्मित्वस्य विकल्पमात्रेण प्रतीतेश्चापह्नोतुमशक्यत्वान्नायमाश्रयासिद्धो हेतुः । न च दृष्टान्तक्षतिः ।

न चैष स्वरूपासिद्धः, अक्षणिके धर्मिणि क्रमाक्रमयोर्व्यापकयोरयोगात् । तथा हि यदि तस्य प्रथमे क्षणे द्वितीयादिक्षणभाविकार्यकरणसामर्थ्यमस्ति तदा (निबन्ध्९०) प्रथमक्षणभाविकार्यवत्द्वितीयादिक्षणभाव्यपि कार्यं कुर्यात्, समर्थस्य क्षेपायोगात् । अथ तदा सहकारिसाकल्यलक्षणसामर्थ्थं नास्ति, तद्वैकल्यलक्षणस्यासामर्थ्यस्य संभवात् । न हि भावः स्वरूपेण करोतीति स्वरूपेणैव करोति, सहकारिसहितादेव ततः कार्योत्पत्तिदर्शनादिति चेत् । यदा तावदमी मिलिताः सन्तः कार्यं कुर्वते तदैकार्थकरणलक्षणं सहकारित्वमेषामस्तु, को निषेद्धाः । मिलितैरेव तु तत्कार्यं कर्त्तव्यमिति कुतो लभ्यते । पूर्वापरकालयोरेकस्वभावत्वाद्भावस्य सर्वदा जननाजननयोरन्यतरनियमप्रसङ्गस्य दुर्वारत्वात् । तस्मात्सामग्री जनिका, नैकं जनकमिति स्थिरवादिनां मनोराज्यस्याप्यविषयः ।

किं कुर्मो दृश्यते तावदेवमिति चेत् । दृश्यताम्, किं तु पूर्वस्थितादेव पश्चात्सामग्रीमध्यप्रविष्टाद्भावात्कार्योत्पत्तिरन्यस्मादेव विशिष्टसामग्रीसमुत्पन्नात्क्षणादिति विवादपदमेतत् । तत्र प्रागपि संभवे सर्वदैव कार्योत्पत्तिर्न वा कदाचिदपीति विरोधमसमाधाय तत एव कार्योत्पत्तिरिति साध्यानुवादमात्रप्रवृत्तः कृपामर्हति ।

न च प्रत्यभिज्ञानादेवैकत्वसिद्धिः, तत्पौरुषस्य लूनपुनर्जातकेशकुशकदलीस्तम्बादौ निर्दलनात् । विस्तरेण च प्रत्यभिज्ञादूषणमस्माभिः स्थिरसिद्धिदूषणे प्रतिपादितमिति तत एवावधार्यम् ।

ननु कार्यमेव सहकारिणमपेक्षते । न तु कार्योत्पत्तिहेतुः । यस्माद्द्विविधं सामर्थ्यं निजमागन्तुकं च सहकार्यन्तरम, ततोऽक्षणिकस्यापि क्रमवत्सहकारिनानात्वादपि क्रमवत्कार्यनानात्वमिति चेत् । भवतु तावत्निजागन्तुकभेदेन द्विविधं सामर्थ्यम् । तथापि तत्प्रातिस्विकं वस्तुस्वलक्षणं सद्यः क्रियाधर्मकमवश्याभ्युपगन्तव्यम् । तद्यदि प्रागपि, प्रागपि कार्यप्रसङ्गः । अथ पश्चादेव, न तदा स्थिरो भावः ।

न च कार्यं सहकारिणोऽपेक्षत इति युक्तम्, तस्यासत्त्वात् । हेतुश्च सन्नपि यदि स्वकार्यं न करोति, तदा तत्कार्यमेव तन्न स्यात्, स्वातन्त्र्यात् ।

यच्चोक्तम् - यो हि उत्तरकार्यजननस्वभावः स कथमादौ कार्यं कुर्यात्, (अथ कुर्यात्) न तर्हि तत्कार्यकरणस्वभावः, न हि नीलोत्पादनस्वभावः पीतादिकमपि करोतीति तदसङ्गतम् । स्थिरस्वभावत्वे भावस्योत्तरकालमेवेदं न पूर्वकालमिति कुत एतत् । तदभावाच्च कारणमप्युत्तरकार्यस्वभावमित्यपि कुतः ।

किं कुर्मः, उत्तरकालमेव तस्य जन्मेति चेत् । स्थिरत्वे तदनुपपद्यमानमस्थिरतामादिशतु । स्थिरत्वेऽप्येष एव स्वभावस्तस्य यदुत्तरक्षण एव कार्यं करोतीति (निबन्ध्९१) चेत् । न । प्रमाणबाधिते स्वभावाभ्युपगमायोगादिति न तावदक्षणिकस्य क्रमिकार्यकारित्वमस्ति । नाप्यक्रमिकार्यकारित्वसंभवः, द्वितीयेऽपि क्षणे कारकस्वरूपसद्भावे पुनरपि कार्यकरणप्रसङ्गात् ।

कार्येनिष्पन्ने तद्विषयव्यापाराभावादूना सामग्री न निष्पादितं निष्पादयेदिति चेत् । न । सामग्रीसंभवासंभवयोरपि सद्यः क्रियाकारकस्वरूपसंभवे जनकत्वमवार्यमिति प्रागेव प्रतिपादनात् । कार्यस्य हि निष्पादितत्वात्पुनः कर्तुमशक्यत्वमेव कारणमसमर्थमावेदयति । तदयमक्षणिके क्रमाक्रमिकार्यकारित्वाभावो न सिद्धः । न च क्रमाक्रमाभ्यामपरप्रकारसंभवो येन ताभ्यामव्याप्तौ सन्दिग्धव्यतिरेको हेतुः स्यात् । प्रकारान्तरशङ्कायां तस्यापि दृश्यत्वादॄश्यत्व प्रकारद्वयदूषणेऽपि स्वपक्षेऽप्यनाश्वासप्रसङ्गात् । तस्मादन्योन्यव्यवच्छेदस्थितयोर्नापरः प्रकारः संभवति । स्वरूपाप्रविष्टस्य वस्तुनोऽवस्तुनो वातत्स्वभावत्वात् । प्रकारान्तरस्यापि क्रमस्वरूपाप्रविष्टत्वात् । तथातीन्द्रियस्य सहकारिणोऽदृश्यत्वेऽप्ययोगव्यवच्छेदेन दृश्यसहकारिसहितस्य दृश्यस्यैव सत्त्वस्य दृश्यक्रमाक्रमाभ्यां व्याप्तिः प्रत्यक्षादेव सिध्यति । एवं क्रमाक्रमाभ्यामर्थक्रियाकारित्वं व्याप्तमिति क्रमाक्रमयोरन्योन्यव्यवच्छेदेन स्थितत्वादेतत्प्रकारद्वयपरिहारेणार्थक्रियाकारित्वमन्यत्र न गतमित्यर्थः । अत एवैतयोर्विनिवृत्तौ निवर्तते ॥

त्रिलोचनस्यापि विकल्पत्रये प्रथमदूषणमाश्रयासिद्धिदोषपरिहारतो निरस्तम् । द्वितीयं चासङ्गतम्, विकल्पज्ञानेन व्यतिरेकस्य प्रतीतत्वात् । न ह्यभावः कश्चिद्विग्रहवान् यः साक्षात्कर्तव्यः, अपि तु विकल्पादेव व्यवहर्तव्यः । न ह्यभावस्य विकल्पादन्या प्रतिपत्तिरप्रतिपत्तिर्वा सर्वथा । उभयथापि तद्व्यवहारहानिप्रसङ्गात् । एवं वैधर्म्यदृष्टान्तस्य हेतुव्यतिरेकस्य च विकल्पादेव प्रतिपत्तिः । तृतीयमपि दूषणमसङ्गतम् । व्यापकानुपलम्भेन निर्दोषेण सत्त्वस्य क्षणिकत्वेन व्याप्तेरव्याहतत्वात् । तदयं व्यापकानुपलम्भोऽक्षणिकस्यासत्त्वं सत्त्वस्य ततो व्यतिरेकं क्षणिकत्वेन व्याप्तिं व साधयत्येकव्यापारात्मकत्वादिति स्थितम् ॥

ननु व्यापकानुपलब्धिरिति यद्यनुपलब्धिमात्रं तदा न तस्य साध्यबुद्धिजनकत्वमवस्तुत्वात् । न चान्योपलब्धिर्व्यापकानुपलब्धिरभिधातुं शक्या भूतलादिवदन्यस्य कस्यचिदनुपलब्धेरिति चेत् । तदसङ्गतम् । धर्म्युपलब्धेरेवान्यत्रानुपलब्धितया व्यवस्थापनात् । यथा हि नेह शिंशपा वृक्षाभावादित्यत्र वृक्षापेक्षयाकेवलप्रदेशस्य धर्मिण उपलब्धिर्वृक्षानुपलब्धिः । शिंशपापेक्षया च केवलप्रदेशस्य धर्मिण उपलब्धिरेव र्शिशपाया अभावोपलब्धिरिति स्वभावहेतुपर्यवसायिव्यापारो (निबन्ध्९२) व्यापकानुपलम्भः । तथा नित्यस्य धर्मिणो विकल्पबुद्ध्यवसितस्य क्रमिकारित्वाक्रमिकारित्वापेक्षया केवलग्रहणादेव क्रमिकारित्वाक्रमिकारित्वानुपलम्भः । अर्थ क्रियापेक्षया च केवलप्रतीतिरेवार्थक्रियायोगप्रतीतिरिति व्यापकानुपलम्भान्तरादस्य न कश्चिद्विशेषः ॥

अध्यवसायापेक्षया व बाह्येऽक्षणिके वस्तुनि व्यापकाभावाद्व्याप्याभावसिद्धिव्यवहारः । अध्यवसायश्च समनन्तरप्रत्ययबलायाताकारविशेषयोगादगृहीतेऽपि प्रवर्तनशक्तिर्बोद्धव्यः । ईदृशश्चाध्यवसायोऽस्मच्चित्राद्वैतसिद्धौ निर्वाहितः । स चाविसंवादी व्यवहारः परिहर्तुमशक्यः । यद्व्यापकशून्यं तद्वयाप्यशून्यमिति । एतस्यैवार्थस्यानेनापि क्रमेण प्रतिपादनात् । अयं च न्यायो यथा वस्तुभूते धर्मिणि तथावस्तुभूतेऽपीति को विशेषः । तथा ह्येकज्ञानसंसर्ग्यत्र विकल्प्य एव । यथा च हरिणशिरसि तेनैकज्ञानसंसर्गि शृङ्गमुपलब्धं शशशिरस्यपि तेन सहैकज्ञानसंसर्गित्वसंभावनयैव शृङ्गं निषिध्यते, तथा नीलादावपरिनिष्ठितनित्यानित्यभावे क्रमाक्रमौ स्वधर्मिणा सार्धमेकज्ञानसंसर्गिणौ दृष्टौ, यदि नित्ये भवतः, नित्यग्राहिज्ञाने स्वधर्मिणा नित्येन सहैव गृह्येयातामिति संभावनया एकज्ञानसंसर्गद्वारकमेव प्रतिषिध्यते । कथं पुनरेतस्मिन्नित्यज्ञाने क्रमाक्रमयोरस्फुरणमिति यावता क्रमाक्रमक्रोडीकृतमेव नित्यं विकल्पयाम इति चेत् । अत एव बाधकावतारो विपरीतारोप मन्तरेण तस्य वैयर्थ्यात् । कालान्तरेऽप्येकरूपतया नित्यत्वम् । क्रमाक्रमौ च क्षणद्वये भिन्नरूपतया । ततो नित्यत्वस्य क्रमाक्रमिकार्यशक्तेश्च परस्परपरिहारस्थिति लक्षणतया दुर्वारो विरोध इति कथं नित्ये क्रमाक्रमयोरन्तर्भावः अनन्तर्भावाच्च शुद्धनित्यविकल्पेन दूरीकृतक्रमाक्रमसमारोपेण कथमुल्लेखः । ततश्च प्रतियोगिनि नित्येऽपि विकल्प्यमाने एकज्ञान संसर्गिलक्षणप्राप्ते नित्योपलब्धिरेव नित्यविरुद्धस्यानुपलभ्यमानस्य क्रमाक्रमस्यानुपलब्धिः । तत एव चार्थक्रियाशक्तेरनुपलब्धिः । तस्माद्व्यापकविवेकिधर्म्युपलब्धितया न व्यापकानुपलम्भान्तरादस्य विशेषः ॥

न त्वेतदवस्तु धर्मित्वोपयोगिवस्त्व धिष्ठानत्वात्प्रमाणव्यवस्थाया इति चेत् । किमिदं वस्त्वधिष्ठानत्वं नाम । किं परम्परयापि वस्तुनः सकाशादागतत्वम्, अथ वस्तुनि केनचिदाकारेण व्यवहारकारणत्वम्, वस्तुभूतधर्मिप्रतिबद्धत्वं वा ।

(निबन्ध्९३)
यद्याद्यः पक्षस्तदा क्रमाक्रमस्यार्थक्रियायाश्च व्याप्तिग्रहणगोचरवस्तुप्रतिबद्धत्वमस्यापि न क्षीणम् । न द्वितीयेऽपि पक्षे दोषः संभवति, क्षणभङ्गिवस्तुसाधनोपायत्वादस्य । न चान्तिमोऽपि विकल्पः कल्प्यते, तस्यैव नित्यविकल्पस्य वस्तुनो धर्मिभूतस्य क्रमाक्रमवद्बाह्यनित्योपादानशून्यत्वेनार्थक्रियावद्बाह्यनित्योपादानशून्यत्वे प्रसाधनात् । पर्युदासवृत्त्या बुद्धिस्वभावभूताक्षणिकाकारे वस्तुभूते धर्मिणि प्रतिबद्धत्वसंभवात् ॥

अयमेव न्यायो न वक्ता बन्ध्यासुतश्चैतन्याभावादित्यादौ योज्यः । एतेन यथा वृक्षाभावादिरन्तर्भावयितुं शक्यते न तथायमिति त्रिलोचनोऽपि निरस्तः ॥

न च क्रमाद्यभावस्त्रयीं दोषजातिं नातिक्रामति, अभावधर्मत्वेऽपि आश्रयासिद्धिदोषपरिहारात् । यत्त्वनेन प्रमाणान्तरान्नित्यानामसत्त्वसिद्धौ क्रमादिविरहस्याभावधर्मता सिध्यतीत्युक्तम्, तद्वालस्यापि दुरभिधानम् । नित्यो हि धर्मी । असत्त्वं साध्यम् । क्रमिकार्यकारित्वाक्रमिकार्यकारित्वविरहो हेतुः । अस्य चाभावधर्मत्वं नाम असत्त्वलक्षणस्वसाध्याविनाभावित्वमुच्यते । तच्च क्रमाक्रमेण सत्त्वस्य व्याप्तिसिद्धौ सत्त्वस्य व्याप्यस्याभावेन क्रमाक्रमस्य व्यापकस्य विरहो व्याप्तः सिध्यतीत्यभावधर्मत्वं प्रागेव विध्योर्व्याप्तिसाधनात्प्रत्यक्षादनुमानादेकस्माद्वा प्रमाणान्तरात्सिद्धमिति नेतरेतराश्रयदोषः ।

न च सत्तायामिवासत्तायामपि तुल्यः प्रसङ्गो भिन्नन्यायत्वात् । वस्तुभूतं हि तत्र साध्यं साधनं च । तयोर्धर्म्यपि वस्त्वेव युज्यते । वस्तुनस्तु प्रत्यक्षानुमानाभ्यामेव सिद्धिः । तयोरभावे नियमेनाश्रयासिद्धिरिति युक्तम् । असत्तासाधने त्ववस्तुधर्मो हेतुरवस्तु विकल्पमात्रसिद्धे धर्मिणि नाश्रयासिद्धिदोषेण दूषयितुं शक्यः । तथा अक्षणिकस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधः सिध्यत्येव । तथा विकल्पादेवाक्षणिको विरोधी सिद्धः । विकल्पोल्लिखित श्चास्य स्वभावो नापर इत्यपि व्यवहर्तव्यम् । अन्यथा तदनुवादेन क्रमाक्रमादिरहितत्वादिनिषेधादिकमयुक्तम्, तत्स्वरूपस्यानुल्लेखादन्यस्योल्लेखा दित्यक्षणिकशशविषाणादिशब्दानुच्चारणप्रसङ्गः । अस्ति च । अतो यथा प्रमाणाभावेऽपि विकल्पसिद्धस्य (निबन्ध्९४) बन्ध्यासुतादेः सौन्दर्यादिनिषेधोऽनुरूपस्तथा विकल्पोपनीतस्यैवाक्षणिकरूपस्य तत एव प्रत्यनीकाकारेण सह विरोधव्यवस्थायां कीदृशो दोषः स्यात् । यदि चाक्षणिकानुभवाभावाद्विरोधप्रतिषेधस्तर्हि बन्ध्यापुत्राद्यनुभवाभावादेव सौन्दर्यादिनिषेधोऽपि मा भूत् ॥

नन्वेवं विरोधस्यापारमार्थिकत्वम् । तद्द्वारेण क्षणभङ्गसिद्धिरप्यपारमार्थिकी स्यादिति चेत् । न हि विरोधो नाम वस्त्वन्तरं किञ्चिदुभयकोटिदत्तपादसंबन्धाभिधानमिष्यते अस्माभिरूपपद्यते वा येनैकसंबन्धिनो वस्तुत्वाभावेऽपारमार्थिकं स्यात् । यथा त्विष्यते तथा पारमार्थिक एव । विरुद्धाभिमतयोरन्योऽन्यस्वरूपरिहारमात्रं विरोधार्थः । स च भावाभावयोः पारमार्थिक एव । न भावोऽभावरूपमाविशति, नाप्यभावो भावरूपं प्रविशतीति योऽयमनयोरसंकरनियमः स एव पारमार्थिको विरोधः । कालान्तरैकरूपतया हि नित्यत्वम् । क्रमाक्रमौ क्षणद्वयेऽपि भिन्नरूपतया । ततो नित्यत्वक्रमाक्रमिकार्यकारित्वयोर्भावाभाववद्विरोधोऽस्त्येव ॥

ननु नित्यत्वं क्रमयौगपद्यवत्त्वं च विरुद्धौ धर्मौ विधूय नापरो विरोधो नाम, कस्य बास्तवत्वमिति चेत् । न । न हि धर्मान्तरस्य संभवेन विरोधस्य पारमार्थिकत्वं ब्रूमः । किं तु विरुद्धयोर्धर्मयोः सद्भावे । अन्यथा विरोधनामधर्मान्तरसंभवेऽपि यदि न विरुद्धौ धर्मौ क्व पारमार्थिकविरोधसंभवः । विरुद्धौचेद्धमौ तावतैव तात्त्विको विरोधव्यवहारः किमपरेण प्रतिज्ञामात्रसिद्धेन विरोधनाम्ना वस्त्वन्तरेण ।

तदयं पूर्वपक्षसंक्षेपः

नित्यं नास्ति न वा प्रतीतिविषयस्तेनाश्रयासिद्धता
हेतोः स्वानुभवस्य च क्षतिरतः क्षिप्तः सपक्षोऽपि च ।
शन्यश्य द्वितयेन सिध्यति न चासत्तापि सत्ता यथा
नो नित्येन विरोधसिद्धिरसता शक्या क्रमादेरपि ॥ इति ॥

अत्र सिद्धान्तसंक्षेपः

धर्मस्य कस्यचिदवस्तुनि मानसिद्धा
बाधाविधिव्यवहृतिः किमिहास्ति नो वा ।
क्वाप्यस्ति चेत्कथमियन्ति न दूषणानि
नास्त्येव चेत्स्ववचनप्रतिरोधसिद्धिः ॥

(निबन्ध्९५)
तदेवं नित्यं न क्रमिकार्यकारित्वाक्रमिकार्यकारित्वयोगीति परमार्थः । ततश्च सत्तायुक्तमपि नैवेति परमार्थः । ततश्च क्षणिकाक्षणिकपरिहारेण राश्यन्तराभावादक्षणिकान्निवर्तमानमिदं सत्त्वं क्षणिक एव विश्राम्यत्तेन व्याप्तं सिध्यतीति सत्त्वात्क्षणिकत्वसिद्धिरविरोधिनी ॥

प्रकृतिः सर्वधर्माणां यद्बोधान्मुक्तिरिष्यते ।
स एव तीर्थ्यनिर्माथी क्षणभङ्गः प्रसाधितः ॥

इति कृतिरियं रत्नकीर्तेः ॥


(निबन्ध्९६)
॥ ६ ॥
॥ प्रमाणान्तर्भावप्रकरणम् ॥

प्रमाणद्वितयादन्यप्रमाणगणदूषणम् ।
नापूर्वमुच्यते तत्तु प्रयोगेणात्र मुद्रयते ॥

इह खलु प्रमाणमात्रे न केचिद्विप्रतिपद्यन्ते । अन्ततश्चार्वाकस्यापि संप्रतिपत्तेः । प्रमाणमात्रोच्छेदवादी च तत्तदाङ्शक्य प्रतिविधानादस्मद्गुरुभिरवज्ञातः

प्रमाणमप्रमाणं चेद्विचारावसरो हतः ।
ब्रुवता नियतं किञ्चित्साध्यं वा बाध्यमेव वा ॥
तत्रायुक्तिं ब्रुवाणस्य श्लाघा सदसि कीदृशी ।
नानुमायाः परायुक्तिः किं सिद्धं तदनादरे ॥
स्वीकृता तेन सेत्यस्मात्तन्मत्या बाधनं यदि ।
अबाधनेऽस्याः स्वीकारात्तद्भिया बाधनं कथम् ॥
साध्यं न किञ्चिदिति चेद्बाधाया अपि साध्यता ।
सापि नेति वचो व्यर्थं प्रश्नमात्रेऽपि किं फलम् ॥
फलं यदि गिरः क्वापि नान्यत्तच्चावबोधनात् ।
वाचः प्रत्यायने शक्ता नाक्षधूमादि सुन्दरम् ॥
सं(वृ)तौ मानमिष्टं चेद्विचारोऽप्येष संवृतिः ।
संवृतावपि नेष्टं चेद्वदन् जेता यथा तथा ॥
संवृतिश्च विना मानं वाङ्मात्रेण न सिध्यति ।
मानतो यदि दुअर्वारः प्रमाणस्य परिग्रहः ॥

आचार्योप्याह -

अनिष्टेश्चेत्प्रमाणं हि सर्वेष्टीनां निबन्धनम् ।
भावाभावव्यवस्थां कः कर्तुं तेन विना प्रभुः ॥

इति ।

तदेवं प्रमाणमात्राप्रतिक्षेपे प्रत्यक्षं तावदादौ गणनीयम्, तन्मूलत्वादपरप्रमाणोपपत्तेः । न च चार्वाकोऽप्यनुमानमनवस्थाप्य स्थातुं प्रभवति, व्यापारत्रयकरणात् ।

(निबन्ध्९७)
तच्छास्त्रे हि प्रत्यक्षेतरसामान्ययोः प्रमाणेतरविधानं लक्षणप्रणयनतो विधातव्यम् । तच्च लक्षणं प्रत्यक्षे धर्मिणि लक्ष्ये प्रामाण्ये प्रत्येतव्ये स्वभावो हेतुः । परबुद्धिप्रतिपत्तौ च कायादिव्यापारः कार्यहेतुः । परलोकप्रतिषेधे च दृश्यानुपलम्भोऽङ्गीकर्तव्य इति कथमनुमानापलापः । यदाचार्यः

प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः ।
प्रमाणान्तरसद्भावप्रतिषेधाच्च कस्यचित् ॥

अपि च

अर्थस्यासंभवेऽभावात्प्रत्यक्षेऽपि प्रमाणताः ।
प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम् ॥

इत्यनुमानमपि प्रमाणम् । प्रामाण्यं च प्रमाणान्तरागृहीतनिश्चितप्रवृत्तिविषयार्थतया तत्प्रापणे शक्तिः ॥

नन्वस्तु प्रापणे शक्तिः प्रामाण्यम्, परमसौनार्थादुत्पत्तेः, अपि त्वर्थदर्शनादि(ति) चेत् । किमिदमर्थदर्शनम् । अर्थस्य धर्मो दृश्यत्वम् । ज्ञानस्य धर्मो द्रष्टृत्वम् । प्रथमपक्षे नीलत्ववद्दृश्यत्वस्यापि साधारणत्वादेकगोचरोऽर्थः सर्वगोचरः स्यात् । न हि प्रतिपुरुषमर्थानां भेदो नैरात्म्यप्रसङ्गात् । द्वितीयपक्षे तु कथमन्यस्मिन् ज्ञानस्वभावे द्रष्टृत्वे सत्यन्यस्यासम्ब(द्ध)स्यार्थस्य प्रत्याशा स्यात् । द्रष्टृत्वं दृश्यत्वमन्तरेणानुपपद्यमानं तदाक्षिपतीति चेत् । ननु ज्ञानार्थयोरुत्पत्तिसारूप्यबलतो द्रष्टृदृश्यत्वव्यवस्था(प)नमेतत् । अनभ्युपगमे द्रष्टृत्वं दृश्यत्वं च न संभवतीति किं केनाक्षिप्यताम् । भवतु वा प्रकारान्तरेणापि द्रष्टृदृश्यभावस्तथापि भेदे सत्यव्यभिचारस्तदुत्पत्तिरेव प्राप्तिनिमित्तम् । सा च प्रापणशक्तिः प्रत्यक्षानुमानयोरविशिष्टेति प्रमाणे एव ।

नन्वन्यदपि शाब्दोपमानादिकं प्रमाणमस्ति । तथा हि शब्दाच्चोदनारूपादसन्निकृष्टेऽर्थे स्वर्गादौ यज्ज्ञानमुत्पद्यते तदपि शाब्दं ज्ञानं प्रमाणमेव । प्रत्ययितोदितवाक्यप्रसूतं च ज्ञानं प्रमाणम् । यदाह कुमारिलः

तच्चाकर्तृकतो वाक्यादन्याद्वा प्रत्ययितो (?) दितात् । इति ।

तत्र यदा शब्दसमुत्थं ज्ञानं प्रमाणं तदोपादानादिबुद्धिः फलम् । यदा तु शब्दस्तदा तदालम्बनं ज्ञानं फलमिति । नैयायिकस्य पुनः

आप्तोपदेशः शब्दः

इति शब्दप्रमाणलक्षणसूत्रम् । तत्र शब्द इति लक्ष्यपदम् । आप्तोपदेश इति लक्षणपदम् । अस्यायं संक्षेपार्थः । आप्तोपदिष्टः शब्दः प्रमाणमिति । आप्तश्च (निबन्ध्९८) साक्षात्कृतहेयोपादेयतत्त्वो यथादृष्टस्य चार्थस्याचिख्यासया प्रयुक्त उपदेष्टा अभिधीयते । प्रमाणफलव्यवस्था च पूर्ववद्द्रष्टव्येति ।

तथा मीमांसकानामुपमानं प्रमाणम् । यदुक्तं शबरस्वामिना उपमानमपि सादृश्यमसन्निकृष्टेऽर्थे बुद्धिमुत्पादयति । यथा गवयदर्शनं गोः स्मरणस्येति ।

अस्यायमर्थः । एकत्र दृश्यमानं सादृश्यं कर्तृ । प्रतियोग्यन्तरे दृश्यमानप्रतियोगिसादृश्यविशिष्टतयैतत्सादृश्यविशिष्टोऽसौ इत्यसन्निकृष्टेऽर्थे यां बुद्धिमुत्पादयति तदुपमानं प्रमाणमिति । यत्तदोरध्याहार इति । तस्मात्स्मरतीति स्मरणं पुरुषः । तेनायमर्थः - यथा गवये दृश्यमानं सादृश्यं गां स्मरतो मनुष्यस्य एतत्सादृश्यविशिष्टोऽसौ गौरिति बुद्धिमुत्पादयतीति ।

न चेदमुपमानं स्मरणं कर्तव्यम्, गवयसादृश्यविशिष्टस्य गोर्गोविशिष्टस्य च सादृश्यस्य प्रमेयत्वात् । गोसादृश्ययोर्विशेषणविशेष्यभावस्योपमानप्रमाणविषयस्य गोग्राहिणा गवयग्राहिणा वा प्रत्यक्षेण केनचिदग्रहणात् । यदाह भट्टः

प्रत्यक्षेऽपि यथा देशे स्मर्यमाणे च पावके ।
विशिष्टस्यान्यतः सिद्धेरनुमानप्रमाणता ॥
प्रत्यक्षेणावबुद्धे च सादृश्ये गवि च स्मृते ।
विशिष्टस्यान्यतोऽसिद्धेरुपमानप्रमाणता ॥

न च ग्रहणमन्तरेण स्मरणमस्ति । तस्मान्नोपमानं स्मरणमतः प्रमाणमिति । नैयायिकादीनां तूपमानसूत्रम्,

प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानमिति ।

अस्यायमर्थः । प्रसिद्धं साधर्म्यं यस्य तस्माद्गवयादेः साध्यस्य संज्ञासंज्ञिसम्बन्धस्य साधनं सिद्धिस्तदुपमानफलम् । समाख्यासम्बन्धप्रतिपत्तिहेतुरुपमानमित्यर्थः । अयमस्य प्रपञ्चः । यः प्रतिपत्ता गां जानाति न गवयम्, आदिष्टश्च स्वामिना गच्छारण्यं गवयमानयास्मादिति, गवयशब्दवाच्यमर्थम जानानो वनेचरमन्यं वा तज्ज्ञं पृष्टवान्, भ्रातः कीदृशो गवय इति । तेन चादिष्टं यथा गौस्तथा गवय इति । तस्य श्रुतातिदेशवाक्यस्य कस्याञ्चिदरण्यान्यामुपगतस्यातिदेशवाक्यार्थस्मरणसहकारि यद्गवयसारूप्यज्ञानं तत्प्रथमत एवासौ गवयशब्दवाच्योऽर्थ इति प्रतिपत्तिं प्रस्तुवानमुपमानं प्रमाणमिति ।

(निबन्ध्९९)
तथार्थापत्तिसंज्ञं प्रमाणं मीमांसकस्य । अर्थापत्तिरपि दृष्टः श्रुतो वार्थोऽन्यथा नोपद्यमानो यदर्थान्तरं परिकल्पयति । सार्थापत्तिः । यथा जीवति देवदत्ते गृहाभावदर्शनेन बहिर्भावस्यार्थस्य परिकल्पना । अस्यायमर्थः । प्रत्यक्षादिभिः षड्भिः प्रमाणैः प्रसिद्धोः योऽर्थः स येन विना न युज्यते तस्यार्थस्य कल्पनमर्थापत्तिरिति । सा च षट्प्रमाणपूर्विका षट्प्रकारैवेति ॥

प्रत्यक्षानुमानादिप्रमाणपञ्चकाभावस्वभावमभावाख्यं प्रमाणम् । प्रमेयं घटाद्यभावः । नास्तीह घटादीति ज्ञानं घटाद्यभावालम्बनं फलम् । यदाह कुमारिलः

प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते ।
सात्मनोऽपरिणामो वा विज्ञानं वान्यवस्तुनि ॥
प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते ।
वस्तुसत्तावबोधार्थं तत्राभावप्रमणता ॥
इति ॥

एतानि षट्प्रमाणानि प्रत्यक्षादीन्यसंकीर्णस्वस्वलक्षणयोगित्वादन्योन्याप्रविष्टस्वभावानि प्रत्येतव्यानीति ॥

अत्रोच्यते । चोदनायास्तावद्वाह्येऽर्थे प्रतिबन्धाभावान्न प्रामाण्यम् । प्रयोगः - यस्य यत्र प्रतिबन्धो नास्ति न तस्य तत्र प्रामाण्यम् । यथा दहनेऽप्रतिबद्धस्य रासभस्य । अप्रतिबद्धाश्च बहिरर्थे वैदिकाः शब्दाः इति व्यापकानुपलब्धिः । न तावदयमसिद्धो हेतुः । शब्दानां वस्तुतः प्रतिबन्धाभावात् । प्रतिबद्धस्वभावता हि प्रतिबन्धः । न च सा निर्निबन्धना, सर्वेषां सर्वत्र प्रतिबद्धस्वभावताप्रसङ्गात् । निबन्धनं चास्यास्तादात्म्यतदुत्पत्तिभ्यामन्यन्नोपलभ्यते, अतत्स्वभावस्यातदुत्पत्तेश्च तत्राप्रतिबद्धस्वभावत्वात् । न हि शब्दानां वहिरर्थस्वभावतास्ति भिन्नप्रतिभासावबोधविषयत्वात् । नापि शब्दा बहिरर्थादुपजायन्ते, अर्थमन्तरेणापि पुरुषस्येच्छाप्रतिबद्धवृत्तेः शब्दस्योत्पाददर्शनात् ।

ननु योग्यतयैव किञ्चत्प्रतिबद्धस्वभावमुपलभ्यते । यथा चक्षुरिन्द्रियं रूपे । चक्षुः खलु व्यापार्यमाणं रूपमेवोपलभ्भयति । तथैवैते वैदिकाः शब्दास्तादात्म्यतदुत्पत्तिवियुक्ता अपि योग्यतामात्रेणातीन्द्रियमर्थं बोधयिष्यन्ति तत्कथं तादात्म्यतदुत्पत्तिविरहमात्रेणाप्रतिबन्धो येनैवं व्यापकानुपलब्धिः सिध्यतीति । नैष दोषः । यतश्चक्षुरिन्द्रियमपि रसादिपरिहारेण रूप एव प्रकाशकत्वेन प्रतिनियतं तत्कार्यत्वात् । रूपं हि चक्षुरुपकरोति । न सत्तामात्रेण चक्षू रूपं प्रकाशयति, व्यवहितस्यापि रूपोपलब्धिप्रसङ्गात् । तस्माद्रूपाद्योग्यदेशसन्निहितात्तज्ज्ञानजननयोग्यतामासाद्य चक्षू रूपज्ञानमुत्पादयत्तत्कार्यमिति व्यक्तमवसीयते । अन्यथा तदुपकारानपेक्षस्य तस्यापि तत्प्रकाशननियमो नोपपद्यते । (निबन्ध्१००) न ह्यनुपकार्यत्वाविशेषे चक्षू रूपस्यैव प्रकाशकम्, न रसादेरिति घटामुपैति नियमः । अयमेव तर्हि नियमः कुतो यद्रूपेणैव चक्षुरूपकर्तव्यम्, न रसादिनेति । यदि वस्तुवशादेव रूपमुपकरोति न रसादिकम्, हन्त तर्हि यथोपकार्यत्वं प्रति नियमश्चक्षुषो रूपेण, तथा शब्दानामपि स्वाभाविक एवास्तु बहिरर्थप्रत्यायननियम इति ।

अत्रोच्यते । न चक्षुषः स्वाभाविको रूपोपकार्यतानियमः, कस्यचिद्वस्तुनः स्वाभाविकत्वानुपपत्तेः । तथा हि स्वाभाविकत्वं वस्तुधर्मस्यानुजानानः प्रष्टव्यः - किं स्वाभाविक इति स्वतो भवति, आहोस्वित्परतः, अथाहेतुतः । यदि स्वतो भवति, तदसङ्गतम्, स्वात्मनि क्रियाविरोधात् । अथाहेतुतः तदयुक्तम्, अहेतोर्देशादिनियमायोगात् । तस्मान्न स्वाभाविको रूपोपकार्यताप्रतिनियमश्चक्षुषः । किंनिबन्धनस्तर्हि स्वहेतुप्रतिबद्ध इति, ब्रूमः - चक्षूः खलु स्वहेतुना जन्यमानं तादृशमेव जनितं यद्रूपोपकर्तव्यमेव भवति । रूपमपि तादृशमेव स्वहेतुना जनितं यत्तदुपकारकस्वभावम् ।

शब्दानामपि स स्वभावः स्वहेतुप्रतिबद्धो येनैते बाह्यार्थाव्यभिचारिण इति चेत् । न शक्यमेवमभिधातुम्, नित्यत्वाभ्युपगमाद्वेदवाक्यानाम् । अथानित्यत्वमभ्युपगम्यायमाक्षेपः परिहर्तुमिष्यते, तदपि दुष्करम्, दोषान्तरप्रसङ्गात् । यदि स्वहेतुनैव ते नियमार्थोपदर्शनशक्तिमन्तो जनिताः, तदाव्युत्पन्नसमयस्यापि स्वार्थमववोधयेयुः । यथा चक्षुः स्वहेतो रूपप्रकाशकमुत्पन्नं सत्प्रकाशयत्येव रूपमसङ्केतविदोऽपि, न च शब्दादुच्चरितात्प्रागप्रतीतसमयस्यापि विशेषावगमः समस्ति । तस्मान्न स्वहेतुप्रतिबद्धश्चक्षुरादेरिव शब्दानामर्थप्रतिपादननियम इति निश्चयः ॥

अथ स्वहेतुभिरेवायमीदृशस्तेषां स्वभावो दत्तो येन ते संकेतविशेषसहाया एव कमप्यर्थमवबोधयन्ति । न तर्हि सङ्केतपरावृत्तौ पदार्थान्तरवृत्तयो भवेयुः । यदि ह्ययमग्निहोत्रशब्दः संकेतापेक्षो यागविशेषप्रतिपादकः, कथं सङ्केतान्यत्वेनार्थान्तरं प्रतिपादयति । न हि क्षित्याद्यपेक्षेण बीजेन स्वहेतोरङ्कुरजननस्वभावेनोत्पन्नेन रासभः शक्यो जनयितुम्, तथा शब्दोऽपि यदर्थप्रतिपादननियतस्तमेव प्रकाशयेत् ॥

अथ तत्तत्सङ्केतापेक्षस्तत्तदर्थप्रत्यायनयोग्य एवायं जात इत्युच्यते । तदपि न प्रस्तुतोपयोगि । न ह्येवमस्य प्रामाण्यमवतिष्ठते । यदा हि सङ्केतेनापुरुषार्थ प्रतिपादनमपि संभाव्यत एव, तदा न शक्यमुपकल्पयितुं किमयमभिमतस्यैवार्थस्य द्योतको न वेति । तर्हि वाच्यवाचकलक्षणः शब्दार्थयोः संबन्धो भविष्यति । तथा चाह

वाच्यवाचकसंबन्धाः सन्ति यद्यपि वास्तवाः ।
सङ्केतैरनभिव्यक्ता न तेऽर्थव्यक्तिहेतवः ॥

(निबन्ध्१०१)
इति चेत् । ननु तस्य वास्तवत्वेऽसङ्केतविदोऽप्यर्थप्रतिपत्तिर्भवेदित्युक्तम्, सङ्केतापेक्षायां चार्थान्तरे न प्रवर्तेतेत्याद्यभिहितम् । अतः पूर्वमेवायं प्रत्याख्यातो वाच्यवाचकलक्षणः सम्बन्धः । तस्मान्न बहिरर्थे प्रतिबन्धः शब्दानामिति निर्णयः ॥

ततश्च नासिद्धो हेतुः ॥

नापि विरुद्धः, विपर्ययव्याप्त्यभावात् । तदभावश्च सपक्षे वृत्त्युपदर्शनात् । न हि विरुद्धस्य साधर्म्यवति धर्मिणि सद्भावो युक्तः, साध्यविपर्ययस्य तत्राभावात् । न च व्यापकमन्तरेण व्याप्यस्य संभवः, तत्प्रच्युतिप्रसङ्गात् ॥

नाप्यनैकान्तिको हेतुः, विपर्यये बाधकप्रमाणसंभवात् । प्रामाण्यप्रतिषेधे हि साध्ये प्रमाण्यमेव विपक्षः । न च तस्मिन् प्रतिबन्धाभावलक्षणो हेतुरस्ति, स्वविरुद्धेन प्रतिबन्धेन व्याप्तत्वात् । न खल्वयं प्रादेशिकः प्रमाणशब्दो ज्ञानेषु निर्निबन्धन एव, सर्वज्ञानेषु प्रामाण्यव्यपदेशप्रसङ्गात् । निबन्धनं च स्वविषयप्रतिबन्धादन्यन्नोपपद्यते । तस्मात्प्रमाणस्य प्रमाणव्यपदेशविषयत्वं स्वविषयप्रतिबन्धने व्याप्तम् । अतः प्रमाणे धर्मिणि विपक्षे प्रामाण्यस्य विरुद्धव्याप्तस्योपलम्भेन विपक्षे व्यवच्छेदसिद्धेर्नानैकान्तिको हेतुः ।

न चान्यो दोषः संभवी । तस्मान्निरस्ताशेषदोषेण हेतुना यत्प्रसिद्धं तदुपादेयमेव सताम् (इति) पण्डितश्रीजितारिपादैरेव वेदाप्रामाण्ये दर्शितम् ।

एवं च वैदिकशब्दानां प्रमाण्ये निरस्ते तदुत्थं ज्ञानमप्यप्रमाणमेव । आप्तप्रणीतस्य पुनर्वचनस्यार्थाव्यभिचारे तज्जन्मनो ज्ञानस्याव्यभिचारसंभवेऽपि न प्रामाण्यमुपगन्तुं शक्यते, परचित्तवृत्तीनामशक्यनिश्चयत्वेनाप्तत्वापरिज्ञानात्वचनस्यापि तत्प्रणीतत्वाप्रतिपत्तेः । प्रयोगश्चात्र -

यद्येन रूपेण न निश्चितं न तत्तेन रूपेण व्यवह्रियते । यथा रथ्यापुरुषः सर्वज्ञत्वेन । न प्रतीयते चाभिमतपुरुष आप्तत्वेनेति व्यापकानुपलब्धिः ॥

नायमसिद्धः, आप्ताभिमतस्य तथात्वानिश्चयात् । तथा हि परचित्तवृत्तयोऽतीन्द्रियत्वान्न प्रत्यक्षसमधिगम्या इति कायवाग्व्यवहारतोऽनुमातव्याः । तौ च कायवाग्व्यवहारौ बुद्धिपूर्वमन्यथापि कर्तुं शक्येते । ततस्तत्प्रतिबद्धत्वेनानिश्चयात्कथं कायवाग्व्यवहारतो विशिष्टपरचित्तवृत्त्यनुमानम् ॥

नापि विरुद्धः, सपक्षे सद्भावसंभवात् ॥

नाप्यनैकान्तिकः, प्रामाणिकतद्रूपव्यवहर्तव्यत्वनिश्चितत्वयोर्व्याप्यव्यापकभूतयोर्विधिभूतयोर्वृक्षत्वशिंशपात्वयोरिव प्रत्यक्षानुपलम्भाभ्यां सर्वोपसंहारेण (निबन्ध्१०२) व्याप्तेः सिद्धत्वात् । तदतः साधनाद्दोषत्रयरहितात्साध्यं सिद्ध्यदवाच्यमेव । तदेवमाप्तत्वस्य दुर्बोधत्वेन तत्प्रणीतत्वानिश्चयादेकप्रहारनिहतमाप्तवचसः प्रामाण्यम् ।

अतो यदेतस्य प्रामाण्यप्रसिद्ध्यर्थं वाचस्पतिप्रभृतीनां वल्गितं तदप्राप्तावसरमेव । एवं प्रत्ययोदितमपि भट्टाभिमतं शाब्दं प्रमाण्यं व्यस्तमिति बोद्धव्यम् । तस्मात्स्थितमेतत्न शाब्दं बहिरर्थे प्रमाणमस्तीति । बुद्ध्याकारे तु तत्कार्यप्रसूतत्वात्तदनुमानमेवेति ।

मीमांसकोक्तं तावदुपमानं मानमेव न भवति, निर्विषयत्वादस्य । इहापि प्रयोगः -

यस्य न विषयवत्त्वं न तस्य प्रामाण्यम् । यथा केशोण्डुकज्ञानस्य । न सिद्धं च विषयवत्त्वमुपमानज्ञानस्येति व्यापकानुपलम्भः ।

नायमसिद्धो हेतुः, निर्विषयत्वादुपमानस्य । तथा हि सादृश्यविशिष्टः पिण्डः पिण्डविशिष्टं वा सादृश्यमुपमानस्य विषयो वर्ण्यते । न सदृशवस्तुव्यतिरिक्तं सादृश्यं व्यवस्थापयितुं शक्यते, प्रमाणेनाप्रतीतत्वात् ।

ननु सादृश्यं वस्तु दुर्वारमेव । यदाह

सादृश्यस्य च वस्तुत्वं न शक्यमपवाधितुम् ।
भूयोऽवयसामान्ययोगो जात्यन्तरस्य तत् ॥

इति । अत्रोच्यते । यदि सदृशातिरिक्तं सादृश्यं वस्तु दृश्यं स्यात्, तदा दृश्यानुपलम्भग्रस्तमेव, शास्त्रानाहितसंस्कारेणापि केनचित्तस्यादर्शनात् । तस्य चास्तित्वे सर्व सर्वत्रास्तीत्यप्रवृत्तिनिवृत्तिकं जगदापद्येत । अथादृश्यं तत्सादृश्यमुपेयते, तथापि तत्र प्रसिद्धलिङ्गाभावादसिद्धमेव । सिद्धेन च तेन विषयवत्तोपमानस्य सिध्येत । सादृश्यप्रत्ययस्तु स्वहेतोस्तथोत्पन्नेन सदृशवस्तुनापि क्रियमाणोघटत एव इति न सादृश्यमुपस्थापयितुं प्रभवति । उपमानप्रमाणबलादेव सादृश्यसिद्धिरिति चेत् । न । प्रमाणान्तरसिद्धयोरेव सादृश्यपिण्डयोर्विशेषणविशेष्यभावस्योपमानविषयत्वात्कथं सादृश्यमात्रस्योपमानात्सिद्धिः । ततश्च सादृश्यस्यासिद्धेर्न तद्विशिष्टः पिण्डः पिण्डविशिष्टं वा सादृश्यमुपमानस्य विषयः । तदेवमुपमानस्य निर्विषयत्वं सिद्धमिति नासिद्धो हेतुः ।

नापि विरुद्धः, सपक्षे भावात् ।

न चानैकान्तिकः । तथा हि प्रामाण्याभावे साध्ये प्रमाण्यमेव विपक्षः । तच्च विषयवत्तया व्याप्तम्, निर्निमित्तत्वे सर्वज्ञानप्रामाण्यप्रसङ्गात् । तदयं विरुद्धव्याप्तोपलब्ध्या विपक्षान्निवर्तमानो विषयवत्त्वाभावलक्षणो हेतुः प्रामाण्याभावलक्षण एव विश्राम्यतीति व्याप्तिसिद्धिः । अतो नोपमानं प्रमाणमिति ।

(निबन्ध्१०३)
नैयायिकपरिकल्पितोपमाननिराकरणार्यमप्ययमेव प्रयोगो द्रष्टव्यः, तस्यापि निर्विषयत्वात् । तथा हि समाख्यासंबन्धस्तस्य विषयो वर्ण्यते । स च परमार्थतो नास्ति । स हि संबन्धः संबन्धिभ्यां भिन्नोऽभिन्नो वा । यदि भिन्नस्तदा तयोरिति कुतः । न च संबन्धान्तरादिति वक्तव्यम्, तदपि कथं तेषामिति चिन्तायामनवस्थाप्रसङ्गः । न च यथा प्रदीपः प्रकाशान्तरमन्तरेण प्रकाशते तथा संबन्धोऽपि संबन्धान्तरमन्तरेण संबद्धो भविष्यतीति वक्तुमुचितम् । प्रमाणसिद्धे हि वस्तुरूपेऽयमस्य स्वभाव इति वर्ण्यते । यथा प्रदीपस्यैव । संबन्धस्तु न प्रमाणप्रतीतः । तत्क एवं जानात्वयमस्य स्वभाव इति, यद्वा नास्त्येवायमिति । अयमनयोः संबन्धः संबद्धावेताविति तु बुद्धिः स्वहेतुबलात्संबद्धवस्तुद्वयादपि संभाव्यमाना न संबन्धमाक्षेप्तुं प्रभवति । तस्मान्न भिन्नसंबन्धसिद्धिः । अथाभिन्नः तदा संबन्धिनावेव केवलाविअति न समाख्यासंबन्धो नाम, यः कश्चिदुपमानस्य विषयः स्यात् ।

ननु संबन्धबुद्धिजनकत्वं संबद्धपदार्थाद्भिन्नमभिन्नं वा । भेदे च स एव सम्बन्धः, नाम्नि परं विवादः । अथाभिन्नम्, तदा यथा संबद्धपदार्थस्य स्वभावः सर्वपदार्थसाधारणस्तथा तदपि रूपं तदव्यतिभिन्नं सर्वपदार्थसाधारणमिति स पदार्थोऽभिमतपदार्थेनेव परैरपि पदार्थैः सह संबद्धः स्यात् ।

नचैवम्, तस्माद्भिन्नं तत्सबन्धबुद्धिजनकत्वं संबद्धपदार्थादेष्टव्यमिति चेत् । नन्वेतदाशङ्क्य राजकुलपादैः परिहृतमेव । तथा हि

संबद्धं स्वयमेव चेन्ननु यथा तं तस्य संबन्धिनं
प्रत्यात्मा जगतीमपि प्रति तथा तत्केन योगोऽस्य न ।
संबन्धे परतोऽपि तुल्यमखिलं तेनैव चेत्संयमो
हेतुः किं न नियामकः स च कथं योगः क्वचिन्नापरे ॥

इति । तस्मात्संबन्धाभावात्पूर्वोक्तेन न्यायेन सारूप्याभावाच्चासिद्धं नैयायिकस्यापि निर्विषयमुपमानं प्रमाणमतोऽनन्तरेणैव व्यापकानुपलम्भेन निराकृतम् ।

अर्थापत्तिरपि । यदेतत्सामान्यलक्षणं प्रत्यक्षादिप्रतीतो योऽर्थः स येन विना नोपपद्यते तस्यार्थस्य परिकल्पनमर्थापत्तिरित्यत्र विचार्यते । यस्यार्थस्य दर्शनाद्योऽर्थः परिकल्प्यते तयोर्यदि प्रतिबन्धोऽस्तितदार्थापत्तिरनुमानमेव । अर्थापत्तिरिति नामान्तरकरणे नास्माकं काचिद्विप्रतिपत्तिः । तथा हि प्रमाणपरिदृष्टोऽर्थः केनचिद्विना नोपपद्यत इति कुतो लभ्यते, यदि परिदृश्यमानपरिकल्प्यमानयोः कश्चित्संबन्धः स्यात् । अन्यथा तेन विना नोपपद्यत इत्यह्रीकादन्यो न ब्रूयात्, (निबन्ध्१०४) घटपटवत् । स च सम्बन्धः क्वचित्पूर्वमवश्यं प्रत्यक्षानुपलम्भतः क्वचिददृश्यत्वेऽपि विपर्ययबाधकप्रमाणबलाद्वा निश्चेतव्यः । अन्यथा तेन विनानुपपत्तिज्ञानस्यैवानुपपत्तेः । सति चैवम्, एकं संबन्धिनं दृष्ट्वा यत्रस्थेन विना तत्रस्थं नोपपद्यते, तस्य द्वितीयस्य संबन्धिनः कल्पनमनुमानमेव । तत्र स्वभावप्रतिबन्धे स्वभावहेतुजैव सार्थापत्तिः । तदुत्पत्तिप्रतिबन्धे कार्यालिङ्गजैव । तदुक्तम् - अन्यथानुपपन्नत्वमन्वयव्यतिरेकिण्यर्थे भवति यत्, तस्मान्नार्थापत्तिः प्रमाणान्तरमिति । तस्मात्परिदृश्यमानपरिकल्प्यमानयोः सति प्रतिबन्धे नार्थापत्तिः प्रमाणान्तरमिति । अथ तयोर्न प्रतिबन्धः, तदार्थापत्तिः प्रमाणमेव न भवतीति मन्तव्यम्, साक्षात्पारम्पर्येण च संबन्धाभावात् । यस्य यत्र प्रतिबन्धो नास्ति न तस्य तत्र प्रामाण्यमित्यादिर्वेद निराकरणार्थ यः पूर्वमुपन्यस्तः स एवास्या अपि प्रामाण्यनिराकरणाय द्रष्टव्यः । सामान्येनैवार्थापत्तौ निराकृतायां प्रत्यक्षादिपूर्वकत्वलक्षणस्तत्प्रपञ्चो निरस्तो भवत्येवेति तदर्थं न प्रबन्धोऽभिधीयते, गवि निराकृते शावलेयनिराकृतिवत् । तस्मान्नार्थापत्तिः प्रमाणान्तरमिति ।

तथा अभावप्रमाणस्यापि प्रामाण्यं नोपपद्यते, तस्यापि निर्विषयत्वात् । ततश्च मीमांसकोपवल्गितोपमाननिराकरणार्थमुपन्यस्तो यो विषयवत्त्वाभावलक्षणोऽनुपलम्भः स एवास्यापि निरासार्थमुपन्यसितव्यः । ननु चात्रासिद्धो हेतुः । तथा हि यदि घटाभावो वास्तवः प्रमेयभूतो न स्यात्, तदा नास्तीह घट इति प्रत्ययः कथमुत्पद्यत इति चेत् । केवलप्रदेशग्राहिप्रत्यक्षादिति ब्रूमः । ननु यदि कैवल्यं प्रवेशस्वरूपं तत्तर्हि सघटेऽपि प्रदेशे विद्यत इति तत्रापि तस्य प्रत्ययस्य सद्भावप्रसङ्गः । अथातिरिक्तः, मुखान्तरेणाभाव एवाभ्युपगतो भवतीति चेत्, न । कैवल्यं तद्विविक्तत्वमसङ्कीर्णत्वमित्यादिभिः पदैः प्रदेशस्य घटं प्रत्यनापन्नाधारभावस्य स्वहेतुत उत्पन्नस्य घटप्रदेशादन्य एवात्माभिधीयते । स एव चाभावप्रत्ययं जनयतीति किमपरेणाभावेन कर्तव्यम् ।

ननु घटं प्रत्यनापन्नाधारभावस्य प्रदेशस्येति घटाभावयुक्तस्य प्रदेशस्येत्युक्तं भवतीति चेत् । तर्हि घटाभावोऽपि घटं प्रत्यनापन्नाधारभावः किमभावान्तरेण स्वरूपेणैव वा । प्रथमपक्षेऽनवस्था । अथ तदभावरूपत्वादभावान्तरमन्तरेणैव घटाभावो घटं प्रत्यनापन्नाधारभावः । यद्येवमसहायः प्रदेशविशेषोऽपि पर्युदासवृत्त्या घटाभावरूपत्वादभावं विनैव घटं प्रत्यनापन्नाधारभावो युक्त इति किमकाण्डमाहोपुरुषिकया मिथ्याप्रलापेनाबोधविक्लवं शिष्यपुद्गलमाकुलयसि । तस्माद्भूतलातिरिक्तस्याभावस्यासिद्धत्वान्नायं विषयवत्ताभावलक्षणो हेतुरसिद्धः । प्रमाणपञ्चकाभावादेव तु प्रमेयाभावसिद्धिप्रत्याशापि न युज्यते, विप्रतिपत्तिविषयत्वादस्या नेनैव प्रमेयाभावसिद्धेरयोगात् ।

विरुद्धानैकान्तिकत्वे च पूर्वमेव हेतोः परिहृते । तदतः सिद्धमभावप्रमाणाभिमतस्याप्रामाण्यमिति ।

(निबन्ध्१०५)
अथवाभावप्रमाणस्वरूपमेव निरूप्यताम् । कःपुनः प्रमाणाभावात्माभिमतो भवताम्, किं प्रसज्यवृत्त्या प्रमाणानुत्पत्तिमात्रम्, अथ वा पर्युदासवृत्त्या भावान्तरम् । वस्त्वन्तरमपि जडरूपं ज्ञानरूपं वा । ज्ञानरूपमपि ज्ञानमात्रकमेकज्ञानसंसर्गिवस्तुज्ञानं वेति षड्विकल्पाः ।

तत्र न तावन्निवृत्तिरूपोऽभावो युज्यते । स खलु निखिलशक्तिविकलतया न किञ्चित् । यच्च न किञ्चित्तत्कथमभावं परिच्छिन्द्यात्, तद्विषयं वा ज्ञानं जनयेत्, प्रतीतं वा तत्कथमिति सर्वमन्धकारनर्तनम् ।
यदाहुः -

न ह्यभावः कस्यचित्प्रतिपत्तिः प्रतिपत्तिहेतुर्वा तस्यापि कथं प्रतिपत्तिरिति । नापि वस्त्वन्तरतापक्षे जडरूपोऽभावः सङ्गच्छते, तस्याभावलक्षणप्रमेयपरिच्छेदाभावात्, परिच्छेदस्य ज्ञानधर्मत्वात् । नापि ज्ञानमात्रस्वभावोऽभावो वक्तव्यः, देशकालस्वभावविप्रकृष्टस्यापि ततोऽभावप्रसङ्गात्, तदपेक्षयापि ज्ञानमात्रत्वात्तस्य । अथैकज्ञानसंसर्गिवस्तुज्ञानस्वभावोऽनुमन्यते तदास्तमभावप्रमाणप्रत्याशया, प्रत्यक्षविशेषस्यैवाभावनामकरणात् । तस्य चास्माभिर्दृश्यानुपलम्भाख्यसाधनत्वेन स्वीकृतत्वात् । अतो न काचिद्विप्रतिपत्तिर्नाम । तस्मादभावप्रमाणस्वरूपमर्पि निरूप्यमाणं विशीर्यत एव । यदप्यस्य लक्षणमुक्तम्

प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते ।

इत्यादि, तदपि याचितकमण्डनम् । तस्मात्स्थितमेतत्, प्रमाणस्य सतोऽत्रैवान्तर्भावात्प्रमाणे एव ॥

प्रमाणान्तर्भावप्रकरणं समाप्तम् ॥


(निबन्ध्१०६)
॥ ७ ॥
॥ व्याप्तिनिर्णयः ॥

इह दहनादिना धूमादेरर्थान्तरस्य व्याप्तिस्तदुत्पत्तिलक्षणा । सा च विशिष्टान्वयव्यतिरेकग्रहणप्रवणविशिष्टप्रत्यक्षानुपलम्भसाधनेति न्यायः । अत्र च भट्टप्रभृतयो विप्रतिपद्यन्ते । तथा हि तेऽग्निमति प्रदेशे धूमस्य भूयोदर्शनं तद्वियुक्ते च तथैवादर्शनमित्यन्वयव्यतिरेकित्वं कल्पयाम्बभूवुः ।

ननु भूयसापि प्रवृत्ते दर्शनादर्शने घटकुलटादावुपलब्धो व्यभिचार इति चेत् । किमेतावता तत्राप्यनुमानमस्तु, तद्वद्वा धूमादावपि भा भूत् । प्रथमपक्षस्तावद्व्यभिचारादेव निरस्तः । द्वितीयो(ऽपि) व्यभिचारादेव । न ह्यन्यस्य व्यभिचारे धूमस्य किञ्चित् । तस्मादग्निधूमयोरव्यभिचारस्यासंभवे शतमपि तदुपपत्तयः तत्प्रसाधकविशिष्टप्रत्यक्षानुपलम्भा वा नानुमानोपयोगिनः । संभवे वा किं तदुत्पत्त्या तदुपयोगिना विशिष्टप्रत्यक्षानुपलम्भेन, दर्शनादर्शनाभ्यामेवाव्यभिचारसिद्धेः । तथा च काशिकाकारः प्राचीनानेकदर्शनजनितसंस्कारसहायेनचरमेण चेतसा धूमस्याग्निनियतत्वं गृह्यत इति ॥

त्रिलोचनस्त्वाह - प्रत्यक्षानुपलम्भयोर्विशेषविषयत्वात्कथं ताभ्यां सामान्ययोः संबन्धप्रतिपत्तिः । अथानग्निव्यावृत्तेनाधूमव्यावृत्तस्य संबन्धः प्रतीयत एवेति । ननु सोऽपि कस्य प्रमाणस्य विषयः । न तावत्प्रत्यक्षस्य, स्वलक्षणविषयत्वात्तस्य । नाप्यनुमानस्य, तस्यापि तत्पूर्वकत्वात् । न च व्यावृत्योः कश्चित्संबन्धः । अथ प्रत्यक्षपृष्ठभावी विकल्पो दृष्टे भेदेऽभेदमध्यवस्यति, तदेव सामान्यम् । एवमपि विकल्पानां न वस्त्वेन विषयः । अपि तु ग्राह्याकारः । स च न वस्तु । वस्तु तु तेषां परोक्षमेवेति, कथं तेनापि सम्बन्धग्रहः । अस्माकं तु भूयोदर्शनसहायेन मनसा तज्जातीयानां संबन्धो गृहीतो भवति । अतो धूमो नाग्निं व्यभिचरति । तद्व्यभिचारे धूम उपाधिरहितं संबन्धमतिक्रामेदिति हेतोविपक्षशङ्कानिवर्तकं प्रमाणमुपलब्धिलक्षणप्राप्तोपाधिविरहहेतुरनुपलम्भाख्यं प्रत्यक्षमेव । ततः सिद्धः स्वाभाविकः सम्बन्धः ॥

वाचस्पतेस्तु प्रपञ्चः । तथा हि धुमादीनां वह्न्यादिभिः स्वाभाविकः संबन्धः । न तु वह्न्यादीनां धूमादिभिः । ते हि विनापि धूमादिभिरुपलभ्यन्ते । वह्न्यादयस्तु यदार्द्रेन्धनसंबन्धमनुभवन्ति तदा धूमादिभिः संबध्यन्ते । वह्न्यादीनां (निबन्ध्१०७) तु स्फुटमार्द्रेन्धनाद्युपाधिकृतः संबन्धो न तु स्वाभाविकः । ततोऽनियतः । स्वाभाविकस्तु धूमादीनां वह्नयादिभिः संबन्धः, तदुपाधेरनुपलभ्यमानत्वात् । क्वचिद्व्यभिचारस्यादर्शनातनुपलभ्यमानस्यापि कल्पनानुपपत्तेः । न चादृश्यमानोऽपि दर्शनानर्हतया साधकबाधकप्रमाणाभावेन सग्दिह्यमान उपाधिः संबन्धस्य स्वाभाविकत्वं प्रतिबध्नातीति युक्तम् ।

अवश्यं शङ्कया भाव्यं नियामकमपश्यताम्

इति तु दत्तावकाशा लौकिकमर्यादातिक्रमेण शङ्कापिशाची लब्धप्रसरा न क्वचिन्नास्तीति नायं क्वचित्प्रवर्तेत । सर्वत्रैव कस्यचिदनर्थस्य कथञ्चिच्छङ्कास्पदत्वात् । अनर्थशङ्कायाश्च प्रेक्षावतां निवृत्त्यङ्गत्वात् । अन्ततः स्निग्धान्नपानोपयोगेऽपि मरणदर्शनात् । तस्मात्प्रामाणिकलोकयात्रामनुपालयता यथादर्शनमेवशङ्कनीयम् । न त्वदृष्टपूर्वमपि । विशेषस्मृत्यपेक्ष एव हि संशयो नास्मृतेर्भवति । न च स्मृतिरननुभूतचरे भवितुमर्हति । तदुक्तं मीमांसावार्तिककृता -

नाशङ्का निःप्रमाणिका इति ।

तस्मादुपाधिं प्रयत्नेनान्विष्यन्तोऽनुपलभमाना नास्तीत्यवगम्य स्वाभाविकत्वं संबन्धस्य निश्चिनुमः ।

स्यादेतत् । अन्यस्यान्येन सहाकारणेन चेत्स्वाभाविकः संबन्धो भवेत्, सर्वं सर्वेण स्वभावतः संबध्येत । सर्वं सर्वस्माद्गम्येत । अथान्यस्य चेदन्यत्कार्यं कस्मात्सर्वं सर्वस्मान्न भवति, अन्यत्वाविशेषात् । ततश्च स एवातिप्रसङ्गः । यद्युच्येत न भावस्वभावाः पर्यनुयोज्याः, तस्मादन्यत्वाविशेषेऽपि किञ्चिदेव कारणं कार्यं च किञ्चिदिति । नन्वेष स्वभावानामनुयोगो भिन्नानामकार्यकारणभूतानामपि स्वभावप्रतिबन्धे तुल्य एव । तस्माद्यत्किञ्चिदेतदपि । केन पुनः प्रमाणेनैष स्वाभाविकः संबन्धो गृह्यते । प्रत्यक्षसंबन्धिषु प्रत्यक्षेण । तथा हि अभिजाअतमणिभेदतत्त्ववद्भूयोदर्शनजनितसंस्कारसहायमिन्द्रियमेव धूमादीनां वह्न्यादिभिः स्वाभाविकासंबन्धग्राहीति युक्तमुत्पश्यामः । एवं मानान्तरविदितसंबन्धेषु मानान्तराण्येव यथास्वं भूयोदर्शनसहायानि स्वाभाविकसंबन्धग्रहणे प्रमाणान्युन्नेतव्यानि । स्वभावतश्च प्रतिबद्धा हेतवः स्वसाध्येन यदि (निबन्ध्१०८) साध्यमन्तरेण भवेयुः, स्वभावादेव प्रच्यवेरन्निति तर्कसहाया निरस्तसाध्यव्यतिरेकवृत्तिसन्देहा यत्र दृष्टास्तत्र स्वसाध्यमुपस्थापयन्त्येवेति ॥

अत्रोच्यते । इह खलु भेदे तदुत्पत्तिरेव व्याप्तिः । न चासावन्यो वा स्वत एवाविनाभावलक्षणः स्वाभाविकः संबन्धो भूयोदर्शनमात्रतः सिध्यति । तथा हि, किं यत्र भूयोदर्शनप्रवृत्तिस्तत्र नियतत्वव्यवस्था, यत्र वा नियतत्वमस्ति तत्रैव भूयोदर्शनप्रवृत्तिः । प्रथमपक्षे घटादपि कुलटा, पार्थिवत्वादपि लोहलेख्यत्वं सिध्येत्, भूयोदर्शनसंभवेऽपि नियतत्वसंभवात् ।

व्यभिचारदर्शनान्नैवमिति चेत् । कस्य पुनर्व्यभिचारदर्शनं यस्य कस्यचित्शास्त्रकारस्य, प्रतिपत्तुर्वा । प्रथमपक्षे प्रतिपत्तुः किमायातं यतो नानुमानमयं कुर्यात् । अन्यथान्यस्य तद्विषयप्रत्यक्षीकारेणैव सोऽपि कृतार्थ इति किमवश्यमनुमानमन्वेषते । न चाप्तवचनादव्यभिचारदर्शनादनुमानम् । आप्तस्य निश्चेतुमशक्यत्वादित्यन्यत्र प्रसाधनात् । शास्त्रकारं च पृष्ट्वा दृष्टसंबन्धोऽपि धृमादग्निमनुमास्यत इत्यलौकिकम् । प्रतिपत्तुस्तु नावश्यं सन्नपि व्यभिचारो गोचरीभवति । न हि यत्र व्यभिचारस्तत्रैव तावति काले देशे वावश्यं प्रतीतिमवतरति । अप्रतीयमानश्च नास्त्येवेति न नियमः । सत्यपि व्यभिचारे दर्शनसामग्रयभावात्तस्मादर्शनात् । अतिचिरकालव्यवधानेऽपि दर्शनात्ब्राह्मण्यादिव्यभिचारवत् ॥

घटपार्थिवादौ प्रतिपत्तैव प्रवृत्तः । तदैव क्रमेण वा व्यभिचारं पश्येदिति चेत् । यदि तावदसौ कथञ्चित्प्रवर्तते, प्रवृत्तोऽपि वा सामग्र्यभावाव्यभिचारं न पश्येत् । वज्रं वा लोहेन व्यापारयेत् । व्यक्तं तस्य तावत्तदप्यमानमापन्नमिति महत्पाण्डित्यम् । तस्माद्यदि व्यभिचारादर्शनादनुमानं तदादृष्टव्यभिचारस्य प्रतिपत्तुर्घटपार्थिवत्वादप्यस्ति । तथा अदर्शनमात्रेण व्यभिचाराभावो न सिध्यति, योग्यानुपलब्धेरेव सर्वत्राभावसाधनेऽधिकारात् । ततो बहुलं सहचारमात्रेण न व्यभिचारी न वाव्यभिचारी निश्चित इति शङ्कावकाशः ॥

यद्येवमदृष्टव्यभिचारादपि धूमादनुमानं मा भूत् । न । ईदृशस्य शङ्कावकाशस्य सर्वत्र तदुत्पत्तिरहिते संभवादिति । अथ कदाचित्प्रतिपत्ता प्रवृत्तो व्यभिचारं पश्यति । न तर्हि यत्र भूयोदर्शनम्, तत्र नियतत्वस्थितिः । तत्र कुतो धूमे प्रतिबन्धसिद्धिः । भूयोदर्शनस्यान्यत्र नियतत्वोपस्थापकत्वक्षतौ मलिनपौरुषत्वेन सर्वत्रानाश्वासात् ॥

यद्येवं द्विचन्द्रादौ चक्षुरादिप्रत्यक्षं मलिनपौरुषमुपलब्धमिति घटादिकमपि नोपस्थापयेदिति चेत् । न । इन्द्रियविषयकार्यं हि प्रत्यक्षम् । न द्विचन्द्रादिज्ञानमीदृशमर्थकार्यत्वाभावात् । (निबन्ध्१०९) ततो भिन्नलक्षणस्य प्रत्यक्षाभासत्त्वेऽपि घटज्ञानं प्रत्यक्षमेव । न चैवं धूमादौ पार्थिवत्वादौ च व्याप्तिग्राहकस्य भूयोदर्शनस्य लक्षणभेदो येनैकत्राश्वासः स्यात् ॥

एते एवार्थकार्यत्वाकार्यत्वे लक्षणभेद इति चेत् । न । घटादिज्ञानस्य ह्यर्थकार्यत्वविवादे प्रमाणान्तरतोऽर्थक्रियालाभतो वा निश्चयः, न प्रतिज्ञामात्रेण । न चात्र धूमस्याग्निसहचारः सदातनोऽयमथ सुहृद्द्वयस्येव सात्ययो गृहीत इति संशये सदातनसहचारप्रसाधकप्रमाणान्तरसङ्गतिरस्ति, तत्कार्यं वा किञ्चिदुपलभ्यते । तर्हि बाध्यमानत्वाबाध्यमानत्वलक्षणो लक्षणभेदो भविष्यतीत्यपि न वक्तव्यम्, अव्यभिचारग्राहकस्य भूयोदर्शनस्य बाधितत्वासिद्धेः । अबाधमात्रं हि प्रसज्यप्रतिषेधोऽप्रमाणम् । प्रमाणान्तरसङ्गतिरर्थक्रियालाभो वा पर्युदासश्चासिद्ध इति न तावत्प्रथमः पक्षः । नापि द्वितीयः । नियतत्वाभावेऽपि पार्थिवत्वादौ भूयोदर्शनसंभवादिति न भूयोदर्शनगम्या व्याप्तिः ॥

त्रिलोचनचोद्येऽपि ब्रूमः । यदि प्रत्यक्षं स्वलक्षणविषयमित्ययोगव्यवच्छेदेनोच्यते तदा सिद्धसाधनम् । अन्ययोगव्यवच्छेदस्त्वसिद्धः, प्रत्यक्षानुमानादिसर्वज्ञानानां ग्राह्यावसेयभेदेन विषयद्वैविध्यानतिक्रमात् । यद्वि यत्र ज्ञाने प्रतिभासते तद्ग्राह्यम् । यत्र तु तत्प्रवर्तते तदध्यवसेयत् । तत्र प्रत्यक्षस्य स्वलक्षणं ग्राह्यम् । अध्यवसेयं तु सामान्यम्, अतद्रूपपरावृत्तस्वलक्षणमात्रात्मकम् । अनुमानस्य तु विपर्ययः । ततश्च सांव्यवहारिकप्रमाणापेक्षया रूपरसगन्धस्पर्शसमुदायात्मकस्य घटस्य रूपभेदमात्रग्रहणेऽपि प्रत्यक्षतः समुदायसिद्धिव्यवस्था । तथैकस्यातद्रूपपरावृत्तस्य ग्रहणेऽपि साध्यसाधनसामान्ययोरतद्रूपपरावृत्तवस्तुमात्रात्मनोरयोगव्यवच्छेदेन विषयभूतयोर्व्याप्तिग्रहो युक्त एव । अत एव विकल्पानामवस्त्वेव विषयः, वस्तु तु तेषां परोक्षमेवेत्यपि दुर्ज्ञानम्, सर्वविकल्पानामध्यवसेयापेक्षया वस्तुविषयत्वात् । शास्त्रेऽपि तथैव प्रतिपादनात् । न च मनसा तज्जातीयानां व्याप्तिग्रहः शक्यः, मनसो बहिरस्वातन्त्र्यात् । अन्यथा अन्धबधिराद्यभावप्रसङ्गात् । न च वह्निव्यभिचारे धूम उपाधिरहितमांबन्धमतिक्रामेदिति वक्तुमुचितम्, स्वकपोलकल्पितस्वाभाविकसंबन्धस्य याचितकमण्डनत्वादिति ॥

यदपि वाचस्पतिजल्पितम्, यो यत्रोपाधिना नियतस्तत्र तस्य स्वाभाविकः संबन्धः । यथा दहने धूमस्य । तदुपाधेर्दृश्यस्यानुपलभ्यमानत्वात्क्वचिद्व्यभिचारस्यादर्शनादित्यत्रेदं विचार्यते । यस्यादर्शनतः स्वाभाविकः संबन्धो व्यवस्थापनीयः, स खलु धूमस्वरूपादर्थान्तरमुपाधिर्वक्तव्यो यथा दहनादिन्धनम् । अर्थान्तरं च किञ्चिद्दृश्यमदृश्यं च किञ्चित्, न तु सर्वमेव दृश्यतानियतम् । ततश्च धूमस्यापि हुताशने स्यादुपाधिः, न चोपलभ्यते इत्युपाधिमात्रानुपलब्धिरनैकान्तिकी । तत्कथमदर्शनमात्रान्नास्त्येवोपाधिः, यतः स्वाभाविकसंबन्धसिद्धिः (निबन्ध्११०) स्यात् । दृश्योपाध्यभावसाधने तु सिद्धसाधनम् । परमदृश्योपाधिशङ्कासंभवे स्वाभाविकत्वप्रतिरोधस्तदवस्थ एव । क्वचिद्व्यभिचारादर्शनादित्यसंबद्धमेव, उपाधिवत्व्यभिचारस्याप्यदर्शनमात्रादभावासिद्धेः । व्यभिचारस्य सर्वदेशकालयोः संभवेऽपि दृश्यत्वेऽपि सर्वदा सर्वत्र सर्वेण सामग्र्यभावादपि निश्चेतुमशक्यत्वात् । ब्राह्मण्यादिव्यभिचारवदेवाहत्यादर्शनेऽपि देशकालान्तरे तद्दर्शनस्य निषेद्धुमशक्यत्वात् ।

ननु यदि धूमस्यापेक्षणीयमर्थान्तरमुपाधिः स्यात्कथं धूम इत्येव पावकसत्तानियम इति चेत् । नन्विदमेव चिन्त्यते किं धूमे सत्यवश्यमग्निः संभवीन वेति । कदाचिदर्थान्तरमुपाधिमपेक्ष्य धूमोऽपि स्यान्नाग्निरिति किमत्र निष्टब्धं कारणम् । तस्मात्पावकपराधीनोदयो धूमः परिनिष्ठितः कथं तदभावे भावं स्वीकुर्यादित्येव साधु ।

अथ व्यक्तौ जातौ वा वह्निव्यभिचारो न दृष्टः, कथं तत्र शङ्कयत इति चेत् । तत्किं स्थाणुव्यक्तौ जातौ वा पुरुषत्वं दृष्टं येन स्थाणौ शङ्कयते । अन्यत्रोर्ध्वतालिङ्गिते दृष्टमिति चेत् । इहाप्यन्यत्र भूयः सहचारिणि पार्थिवत्वादौ दृष्ट एव व्यभिचारः । यत्रैव तु यत्संशय्यते तत्रैव तस्य दर्शनमपेक्ष्यत इत्यलौकिकम् । यदि धूमव्यक्तौ व्यभिचारो दृष्टस्तदा धूमसामान्यं व्याप्तौ बहिर्भूतमेव, कथं संशयः । अथ जातौ दृष्टस्तदापि व्यभिचारनिश्चय एव, कथं संशयः । अतो धूमजातावदृश्यमानोऽपि व्यभिचार उपाधिर्वा दर्शनायोग्यतया निषेद्धुमशक्य इति संशयो दुर्वारप्रसरः । स चेदानीमुपाधेर्व्यभिचारस्य वा संशयः स्वाभाविकत्वसंशयस्वभावः स्वाभाविकत्वनिश्चयं तावदवश्यं प्रतिबध्नाति । तस्मात्स्वाभाविकत्वनिश्चयप्रतिबन्ध एवार्थतः, निश्चयमन्तरेण गमकस्य स्वयमकिञ्चित्करत्वात् । तदेवमुपाध्यनुपलब्धिर्व्यभिचारस्यानुपलब्धिर्वानैकान्तिकी न तयोरभावं साधयति, यतः संबन्धस्य स्वाभाविकत्वसिद्धिः स्यात् । असिद्धा चेयमुपाध्यनुपलब्धिः । यथा दहनो नेन्धनेन विना धूमेन संबध्यते तथा धूमोऽपि न तेन विनाग्निना संबध्यत इति समानमुपाधित्वमिन्धनस्योभयत्र ।

अथ सिद्धस्याग्नेरिन्धनसाहित्येन धूमलाभ इत्युपाधिव्यवस्था, असिद्धस्य तु धूमस्य तन्निमित्तात्मलाभतयाव्यभिचारात्स्वाभाविकः संबन्ध इति व्यवस्था प्यत इति चेत् । एवमपि सैव तदुत्पत्तिरायाता । सैव स्वाभाविकः संबन्धः । न पुनः प्रतिज्ञासिद्धः सहचारमात्रात्मकः । किं च स्वाभाविकत्वादव्यभिचारः सर्वत्र, सर्वत्राव्यभिचाराच्च स्वाभाविकत्वमितीतरेतराश्रयत्वमनिवार्यम् । यस्य तु सकृत्तदुत्पत्तिप्रतीतिरेव सर्वत्राव्यभिचारप्रतीतिस्तस्य नायं प्रसङ्गः ।

यद्येवं ममापि भूयोदर्शनादव्यभिचारसिद्धिरिति चेत् । न । भूय इत्यपरिनिष्ठितवारसंख्यत्वात्कियता दर्शनेन लक्षणानुसारी निर्वृतिमासादयेत् । अस्माकं (निबन्ध्१११) तु प्रत्यक्षानुपलब्धौ परिगणितसंख्यावेव । यदाहुः

प्रागदृष्टौ क्रमात्पश्यन् वेत्ति हेतुफलस्थितिम् ।
दृष्टौ वा क्रमशोऽपश्यन्नन्यथा त्वनवस्थि(ति)रिति ॥

यत्त्वनुपलभ्यमानस्यापि कल्पनानुपपत्तेरिति विलपितम्, तद्वालस्याप्यसाम्प्रतम् । अनुपलभ्यमानेऽर्थे च कल्पनावकाशात् । न हि दृश्यमानो घटः कल्पित उच्यते । न च सन्दिह्यमान उपाधिः संबन्धस्य स्वाभाविकत्वं प्रतिबध्नातीति युक्तम्, साधकबाधकाभाव एव संशयस्य न्यायप्राप्तत्वात् । अत एव न सर्वत्र शङ्कापिशाचावकाशः । तत्कथं नायं प्रवर्तेतम् ।

प्रमाणविषयेऽपि शङ्का कर्तुं शक्यत इति चेत् । न । स्वीकृतप्रमाणस्य हि निश्चयफलत्वात्प्रमाणस्याविप्रतिपन्नप्रमाणविषये निश्चयस्वीकारनान्तरीयक एव तत्स्वीकारः । न च शङ्केत्येव न प्रवृत्तिः, अर्थसंशयेनापि प्रवृत्तेरनिवार्यत्वात्स्निग्धान्नपानोपयोगवत् । तदुपयोगे कदाचिन्मरणदर्शनेऽपि कोटिशो जीवितदर्शनात् । न च प्रामाणिकलोलयात्राक्षतिः, प्रामाणिकैरेव प्रमाणाभावे संशयस्य विहितत्वात् । यथादर्शनमाशङ्कनीयमित्याद्यपि सिद्धसाधनम्, अन्यत्र दृष्टस्यैवोपाधेर्व्यभिचारस्य वा शङ्कितत्वात् । किं च बाधकादर्शनेऽपि साधकभावादपि शङ्का स्यादेव ।

यदपि स्यादेतदिति वल्गितं तदपि निःसारम् । प्रमाणसिद्धे हि रूपे स्वाभावावलम्बनम् । नतु स्वभावावलम्बनेनैव वस्तुस्वरूपव्यवस्था । तद्यदि नियतविषयान्वयव्यतिरेकग्राहकप्रत्यक्षानुपलम्भप्रमाणसिद्धे हेतुफलभावे स्वभाववादस्तत्किमायातं स्वाभाविकसंबन्धे । यत्र तदुत्पत्तिसामग्रीं हृदयेन दूरीकृत्यान्यतः सहचरितद्वयाद्विशेषंण प्रतीतौ प्रत्युपाय एव देवीयान् । तत्सामग्र्यपेक्षणे च तदुत्पत्तिरेव सा । किमाहोपुरुषिकया नामान्तरकरणेन । केन पुनः प्रमाणेन एष स्वाभाविकः संबन्धो गृह्यत इत्यादिस्तद्ग्रहणप्रकारः पूर्वमेव निराकृतः । तथा स्वाभाविकत्वासिद्धौ स्वभावतश्च प्रतिबद्धा हेतव इत्याद्युपसंहारोपि मनोराज्यमात्रम् । तस्मादर्थान्तरे गम्ये कार्यहेतुस्तद्भावसिद्धिश्च प्रत्यक्षानुपलम्भादिति स्थितम् । तदेवं स्वाभाविकवादेन हृदयानुलेपनमशुचिनेव परिहार्यं दूरत इति ।

॥ व्याप्तिनिर्णयः समाप्तो रत्नकीर्तिपादानाम् ॥


(निबन्ध्११२)
॥ ८ ॥
॥ स्थिरसिद्धिदूषणम् ॥

नमस्तारायै ॥

यद्योगादन्धवद्विश्वं संसारे भ्रमदिष्यते ।
सा कृपावशगैः पापा स्थिरसिद्धिरपास्यते ॥

इह परे सकलपदार्थस्थैर्यप्रसाधनार्थं प्रत्यक्षमनुमानमर्थापत्तिं(च) प्रमाणान्याचक्षते । तथा हि स एवायं घटस्फटिकादिरिति प्रत्यभिज्ञाख्यं प्रत्यक्षमुदीयमानं स्थैर्यमुत्थापयति । न चेदमप्रमाणमभिघातव्यम् । अप्रामाण्यं हि भवदप्रामाण्यकारणोपपत्त्या वा भवेत्, प्रामाण्यलक्षणविरहाद्वा । यद्याद्यः पक्षः किमप्रामाण्यकारणम्, मिथ्यात्वमज्ञानं संशयो वा । न तावदत्र मिथ्यात्वम् । मिथ्यात्वं हि तद्विषये बाधकप्रत्ययाद्वा हेतूत्थदोषतो वा संभाव्येत । न तावद्बाधगन्धोऽपि संभवति, देशकालनरान्तरेष्वप्यसंभवात् । न चानवगतापि बाधा कदाचिदपि भविष्यतीति शङ्का युक्तिमती, निर्बीजशङ्कानुपपत्तेः ।

अवश्यं शङ्कया भाव्यं नियामकमपश्यताम् ।

इति दत्तावकाशा संशयपिशाची लब्धप्रसरा न क्वचिन्नास्तीति नायं क्वचित्प्रवर्तेत । अन्ततः स्निग्धान्नपानोपयोगेऽपि मरणदर्शनेन सर्वत्र शङ्कानिवृत्तेः । तस्मात्प्रामाणिकलोकयात्रामनुपालयता यथादर्शनमेव शङ्कनीयं नादृष्टपूर्वमपि । यदुक्तं कारिकायां

नाशङ्का निष्प्रमाणिका ।

इति ।

बृहट्टीकायामपि

उत्प्रेक्षेत हि यो मोहादज्ञातमपि बाधकम् ।
स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् ॥

इति ।

क्षणभङ्गसाधनं बाधकमस्येति चेत् । न । अनुमानस्य परम्परयापि प्रत्यक्षपूर्वकत्वात्प्रत्यक्षं प्रधानम् । प्राधान्याच्चानुमानस्य बाधकम् । न त्वनुमानमस्य । प्रत्यक्षान्तरं तु बाधकं भवति । यथा सर्पादिप्रत्ययस्य रज्वादिप्रत्यक्षम् । तच्चात्र न संभवति ।

ननु प्रत्यक्षेऽपि बाधके कस्मान्न भवति परस्परप्रतिबन्धेन द्वयोरप्यप्रत्यक्षता । न । अर्थक्रियासमर्थवस्तुविषयाविषयत्वेन समानत्वाभावादेकस्य प्रत्यक्षाभासत्वादिति न (निबन्ध्११३) सद्विषयत्वं बाधकप्रत्ययान्मिथ्यात्वम् । नापि हेतूत्थदोषत्तः, देशकालनरान्तरेऽर्थविसंवादात् । नाप्यज्ञानमप्रामाण्यकारणमत्रास्ति, प्रत्यभिज्ञानसंवेदनसंभवात् । न च संशयः । न हि तदेवेदं स्याद्वा न वेति स्फटिकादिषूदयति मतिः,किं तु तदेवेदं स्फटिकादिकमिति निरस्तविभ्रमाशङ्का । तन्नाप्रामाण्यकारणोपपत्त्या प्रत्यभिज्ञानस्याप्रामाण्यम् । नापि लक्षणक्षयात् । यदेव हि उत्पन्नमसन्दिग्धमदुष्टकारणजन्यं देशकालनरान्तरेष्वबाधितं च तदेव प्रमाणमिति नः सिद्धान्तः । तदुक्तम्

तस्माद्दृढं यदुत्पन्नं न विसंवादमृच्छति ।
ज्ञानान्तरेण विज्ञानं तत्प्रमाणं प्रतीयताम् ॥

तथा बृहट्टीकापि

तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् ।
अदुष्टकारणारब्धं प्रमाणं लोकसंमतम् ॥

इति । एतच्च लक्षणमुक्तन्यायेन प्रत्यभिज्ञानेऽपि संभवतीति प्रमाणमेवेदम् । नन्विदमेकमेव न भवति, कारणभेदात्, विषयभेदात्, स्वभावविरोधाच्च । तथा हि स इति संस्कारकार्यम्, अयमिति चेन्द्रियकार्यम् । न च कारणभेदेऽपि कार्याभेदो विश्ववैचित्र्याहेतुकत्वप्रसङ्गात् । तथा सत्यपि स्फटिकः स्फटिक इति व्यपदेशाभेदे पूर्वदेशकालसंबन्धापरदेशकालसंबन्धाभ्यां विरुद्धधर्माभ्यां योगात्स्फटिकः पूर्वापरकालयोर्भिद्यत इति विषयभेदो वक्तव्यः । तथा स इति परोक्षम्, अयमिति साक्षात्कारः । न चानयोः स्वभावविरुद्धयोर्दहनतुहिनयोरिव शक्या शक्रेणाप्येकता आपादयितुम्, त्रैलोकस्यैक्यप्रसङ्गात् । न चास्य प्रामाण्यम्, विकल्पत्वेनावस्तुनिर्भासित्वात्,स्मार्तादविशेषाच्च । तस्मात्प्रत्यभिज्ञा एकत्वं स्थापयति भावानामिति मनोरथमात्रम् ॥

अत्रोच्यते । एकमेवेदं प्रत्यभिज्ञानं समाख्यातम् । यद्यपीन्द्रियं केवलमसमर्थम्, यद्यपि संस्कारमात्रम्, संस्कारसध्रीचीनं तु इन्द्रियं भावयिष्यति प्रत्यभिज्ञानम्, तद्भावाभावानुविधानात्प्रत्यभिज्ञाभावाभावयोः । न हि नाजीजनद्बीजमात्रमङ्कुरमिति मृदादिसहितमपि न जनयति । अथ भवतु देशकालयोस्तत्संसर्गयोर्वा परस्परनानात्वम्, न तदवच्छिन्नस्य पद्मरागस्य, तस्य ताभ्यां तत्संसर्गाभ्यां चान्यत्वात् ॥
ततोऽन्यत्वे तत्संसर्गयोः कुतस्तदीयत्वमिति चेत् । स्वभावादेवेति संसर्गपरीक्षायां निपुणतरमुपपादयिष्यते । न च स्वभावविरोधः, अनुमानस्याप्यनेकत्वप्रसङ्गात् । तदपि हि प्रत्यक्षमप्रत्यक्षं च, अविकल्पो विकल्पश्च, असमारोपः समारोपश्च । स्वानुभवावस्थापिताभेदस्य स्वरूपतद्ग्राह्यभेदापेक्षया प्रत्यक्षादीनामविरोध इति चेत् । न, इहापि साम्यात् । न खल्वेतदपि विज्ञानं (निबन्ध्११४) तत्तेदन्ताधिकरणमेकमाभ्यामनुरक्तं स्फटिकं गोचरयदभिन्नं नानुभूयते नावसीयते वा । एकत्वेऽपि च वस्तुनस्तदनुरञ्जकतत्तेदन्ताभेदापेक्षया प्रत्यक्षतापरोक्षते न विरोत्स्येते, सहसंभवात्, विज्ञानैकत्वस्य च प्रमाणसिद्धत्वात् । न च स इति पूर्वदेशकालसंसर्गोऽयमिति च सन्निहितदेशकालसंसर्गमेकस्य विरुध्यते, यतो युक्तं यत्पद्मरागस्य स्वरूपे परिच्छिद्यमाने तदभावो व्यवच्छिद्यत इति तदव्यवच्छेदे तत्स्वरूपापरिच्छेदात्स्वप्रच्युतिव्यवच्छेद्यस्वभावत्वात्पद्मरागभावस्य तदनवच्छेदे तत्परिच्छेदानुपपत्तेः ॥

कस्मात्पुनस्तदन्ये पुष्परागादयो व्यवच्छिद्यन्ते । तदभावाविनाभावादिति चेत् । स एव कुतः । प्रत्यक्षेण कदाचिदपि पुष्परागपद्मरागयोस्तादात्म्यानुपलम्भादिति चेत् । यत्र तर्हि ततस्तादात्म्यप्रतीतिः, न तत्र तदविनाभावः । समस्ति च सोऽयं पद्मराग इति देशकालावस्थानुगतमेकं पद्मरागमवभासयन्ती साक्षात्कारवती प्रतीतिः । न विकल्परूपतयास्या अप्रामाण्यम्, अभिलापसंसर्गप्रतिभासत्वप्रामाण्ययोरविरोधात् । न चेदं स्मार्तम्, अदेशकालावस्थावतोऽयं देशकालावस्थानुगतत्वेनाधिक्यादिति ॥

अथ केशकुशकदलीस्तम्बादौ सत्यपि भेदे प्रत्यभिज्ञानमुत्पन्नमिति चेत् । उत्पद्यतां को दोषः । किमनेन प्रतिपादितं भवति । किं प्रत्यभिज्ञायाः साधारणानैकान्तिकत्वम्, अथ शब्दसाम्यादुभयोरप्यप्रामाण्यम्, उत संशयापादनमात्रम् । प्रथमः पक्षोऽनभ्युपगमादेव निरस्तः । न हीयमनुमानत्वेनोपन्यस्ता । अनुमानत्वेऽप्यबाधितत्वादिति विशेषणे न दोष इति प्रतिपादयिष्यामः । नापि द्वितीयः पक्षः, दृष्टान्तमात्रतः साध्यसिद्धेरयोगात् । केशोण्डुकादिविषयस्य चक्षुर्विज्ञानस्याप्यप्रामाण्ये घटादिप्रत्यक्षस्याप्रामाण्यप्रसङ्गात् । संशयमात्रं तु व्यवहारोच्छेदकत्वान्नाश्रयणीयमेवति प्रतिपादितमिति न तृतीयोऽपिओ पक्षः ॥

किं च केशादौ यदि प्रत्यभिज्ञा व्यभिचारिणो, कार्यकारणप्रतीतिः किं न व्यभिचारिणी । या व्यभिचारिणो सा कार्यकारणप्रतीतिरेव न भवतीति चेत् । यद्येवं या विसंवादिनी सा प्रत्यभिज्ञैव न भवति तदाभासत्वादिति समानम् । प्रत्यभिज्ञानस्य च सति प्रामाण्येऽनुमानादिष्वनन्तर्भावे प्रत्यक्षतैव, संस्कारसहायेन्द्रियान्वयव्यतिरेकानुविधायित्वाच्च । सत्संप्रयोगे सतीन्द्रियाणां भावाच्च । तदियं प्रत्यभिज्ञा अनेकदेशकालावस्थासंबद्धमेकं स्फटिकादिकं गोचरयन्ती स्थैर्यं व्यवस्थापयति ॥

तथानुमानतोऽपि स्थिरतासिद्धिः । प्रयोगः - विवादाध्यासितः स एवायं स्फटिकमित्यादिप्रत्यभिज्ञाप्रत्ययो यथार्थः, अबाधितप्रत्ययत्वात् । यावानबाधितप्रत्ययः स सर्वो यथार्थ उपलब्धः । यथा स्वसंवेदनप्रत्ययः । अबाधितश्चायम् । तस्मात्तथेति । अबाधितत्वं च परोद्भावितक्षणिकत्वसाधनबाधकोद्धारान्निश्चेयम् ॥

(निबन्ध्११५)
अथापरः प्रयोगः । विवादाध्यासिता भावाः पूर्वापरकालयोरेकस्वभावाः, अबाधितप्रत्यभिज्ञया प्रत्यभिज्ञायमानत्वात् । यद्यदबाधितप्रत्यभिज्ञया प्रत्यभिज्ञायते तत्सर्वमभिन्नम् । यथा यस्त्वया दृष्टो नीलोऽर्थः स एव मया दृष्ट इति नीलोऽर्थः प्रत्यभिज्ञायते । तथा चैते भावाः । तस्मात्तथेति । पूर्वं प्रत्ययस्य धर्मिता, अधुना भावानामिति विशेषः ।

किं च सहेतुकत्वाद्विनाशस्य स्थैर्य सिद्धम् । प्रयोगः - विवादास्पदीभूता भावा यथास्वं विनाशहेतुसन्निधेः प्राङ्न विनाशिनः, सहेतुकविनाशत्वात् । यद्यद्धेतुकं तत्तदसन्निधौ न भवति । यथा वह्न्याद्यभावे धूमादिः । सहेतुकविनाशाश्चामी भावाः । तस्मात्तथेति । सहेतुकविनाशत्वं च घटस्याग्निधूमयोरिव प्रत्यक्षानुपलम्भतो मुद्गरविनाशयोरपि कार्यकारणभावसिद्धौ सिद्धम् । न च विनाशहेतोरसामर्थ्यवैयर्थ्याभिधानमुचितम्, अङ्कुरादिहेतोरपि तथात्वप्रसङ्गात् । शक्यं हि वक्तुमर्थस्याभविष्णुतायामसमर्थो जन्महेतुः, भविष्णुतायां व्यर्थ इति । अपि च अक्षणिकाः सन्तः, कारणवत्त्वात् । यत्कारणवत्तदक्षणिकम् । यथा भावविनाशः । कारणवन्तश्चेमे सन्तः । तस्मादक्षणिका इति ।

कारणवत्त्वस्य साध्यविपर्यये वृत्तिशङ्का विनाशस्य सहेतुकत्वमेव निवर्तयतीति प्रसिद्धव्याप्तिकात्कारणवत्त्वादक्षणिकत्वसिद्धिरिति ॥

तथा शङ्करः स्थिरसिद्धौ प्राह । नोत्पत्त्यनन्तरविनाशी भावः, प्रमेयत्वात्, वस्तुव्यावृत्तिवदिति । अविद्यमानविपक्षत्वादन्वय्येव हेतुः । प्रमेयत्वस्य क्षणिकत्वेन विरोधाभावात्सन्दिग्धव्यतिरेकित्वमिति चेत् । न खलु क्षणिकत्वे कस्यचित्प्रमेयत्वं सिध्यति, क्षणस्थितिधर्मणः प्रमाणकालेऽपातात् । अतीतस्य च प्रमेयत्वेऽतिप्रसङ्गादिति ।

एवमेव प्रयोगमुपस्तुवन् त्रिलोचनोऽप्याह । अक्षणिकाः सर्वभावाः, प्रमेयत्वात् । यत्प्रमीयते तदक्षणिकम् । यथा भावविनाशः । प्रमेयाश्च सर्वभावाः । तस्मादक्षणिका इति ।

असिद्धो दृष्टान्तधर्मीति चेत् । न । स्वकारणकलापादुत्पन्नवतो भावस्यान्तरेण निवृत्तिप्रसवं सर्वदावस्थानप्रसङ्गात् । तदैव भावोऽस्ति न पूर्वं न प्रश्चादित्यपि शब्दः क्षणिकपर्यायत्वेनेष्यमाणः क्षणादूर्ध्वं सत्त्वाविच्छेदोपजननमन्तरेण नार्थवान् देवैरपि शक्यः परिकल्पयितुम् । विनाशकालापेक्षया हि क्षणोऽल्पीयान् कालः । तेन सोऽस्यास्तीति क्षणिको वक्तव्यः । इतरथा जन्मविनाशयोरेकस्मिन् काले भवतोः तुल्यहेतुकत्वेनैकत्वप्रसङ्गः । एकत्वे तु द्वयोरेकतरः प्रहातव्यः । तत्र जन्मप्रहाणे भावा निःस्वभावाः प्रसज्येरन् । निवृत्तिपरित्यागे च जन्मिनो भावा नित्या इति दुर्निवारः प्रसङ्गः । तत्सिद्धो दृष्टान्तः ॥

(निबन्ध्११६)
ननु प्रमेयत्वक्षणिकत्वयोर्विरोधासिद्धेः सन्दिग्धविपक्षव्यावृत्तिकं प्रमेयत्वमिति चेत् । नैतदस्ति । यस्मादर्थं कञ्चित्प्रापयत्प्रत्यक्षं तेन प्रत्यासन्नत्वात्प्रापयति । प्रत्यासत्तिश्च तदुत्पतिरेवावकल्पते, न तादात्म्यम्, साकारनिराकारवादयोरप्रकृतत्वात् । अन्यत्र निराकृतत्वाच्च । सा च नियतवस्तुप्रतिभासाक्षिप्ता कार्यकारणभावलक्षणा प्रत्यासत्तिस्तुल्यकालं प्रमाणप्रमेययोरनुपपन्ना, सव्येतरविषाणयोरिव । ततः प्रमाणमर्थसत्तां बोधयत्तदधीनोत्पादतया बोधयति । कारणभावमात्रानुबन्धित्वाच्च तस्य पूर्वकालसत्तया भवितव्यम् । अतः पूर्वकालसत्त्वेन व्याप्तं प्रमेयत्वम् । पूर्वकालसत्त्वं च क्षणिकत्वेऽनुपपन्नमिति व्यापकानुपलब्ध्या विपक्षात्क्षणिकत्वाद्व्यावर्तमानं प्रमेयत्वमक्षणिकत्वेन व्याप्यत इति असन्दिग्धो व्यतिरेकः । तदेवमनुमानप्रमाणसिद्धोऽक्षणिक इति ॥

एवमर्थापत्तिरप्यस्य साधिका । तथा हि कार्यकारणभावग्रहणं क्रमयौगपद्यग्रहणस्मरणमभिलाषः स्वयंनिहितप्रत्यनुमार्गणं दुष्टार्थकुतूहलविरमणं कर्मफलसंबन्धः संशयपूर्वकनिर्णयः बन्धमोक्षः मोक्षप्रयत्नः शुभोदर्के कर्मणि प्रवृत्तिः प्रत्यभिज्ञा कार्यकारणभावः उपादानोपादेयभावप्रभृतयः स्थिरसत्तामन्तरेणानुपपद्यमानाः स्थैर्य साधयन्ति । प्रतिक्षणं भेदे सत्यनुभवितुर्विनष्टत्वेऽन्यस्य कार्यकारणभावग्रहणाद्यनुपपत्तेरिति कथं क्षणभङ्गशङ्कापि ॥

अत्राभिधीयते । अप्रमाणमेवायं प्रत्यभिज्ञाख्यो विकल्पो मिथ्यात्वं च सद्विषयत्वबाधकप्रत्ययात् । नन्वस्य बाधकं प्रत्यक्षमसम्भवि, अनुमानं चासमर्थमावेदितमिति चेत् । नन्वस्य प्रत्यभिज्ञानस्य स्वार्थाविनाभावदार्ढ्ये प्रत्यक्षसहस्रेणापि किम् । संवादशैथिल्ये तु बाधकप्रत्यक्षवदनुमानमपि प्राप्तावकाशम्, प्रमाणस्यैव सिद्धिबाधयोरधिकारात् । तथा हि मायाकारः शिरसि निमज्जितं गोलकमास्येन निःसारयतीति प्रत्यभिज्ञा शिरसि च्छिद्रप्रसङ्गसङ्गतेनानुमानेन बाध्यमाना प्रतीतैव । बाध्यमाना न प्रत्यभिज्ञेति प्रस्तुतेऽप्यस्तु । यथावनताकाशप्रतिभासः सर्वसंप्रतिपत्तावपि बाध्य एव तद्वदेकताग्रहः सर्वसंप्रतिपत्तावपि बाध्योऽस्तु । तस्मादस्याः प्रत्यक्षताकीर्तनं याचितकमण्डनमात्रमत्राणम् । कथमतः स्थैर्यस्थितिरस्तु । ततश्चानुमानत्वमप्यस्या ध्वस्तम्, उक्तक्रमेण अबाधितत्वविशेषणविरुद्धबाध्यमानतायाः प्रसाधनादिति विशेषणासिद्धो हेतुः । यदापि क्षणभङ्गसाधकं बाधकं नोच्यते अस्यास्तदापीयमप्रमाणमेव, लूनपुनर्जातकेशपाशादौ व्यभिचारोपलम्भात् ॥

ननूक्तं या व्यभिचारिणी सा न प्रत्यभिज्ञेत्यादि । युक्तमेतत्, यदि कार्यकारणभावप्रतीतिवल्लक्षणभेदः प्रतिपादयितुं शक्येत । यथा ह्यन्वयव्यतिरेकग्रहणप्रवणप्रत्यक्षानुपलम्भादुपपन्नो निश्चयः कार्यकारणभावप्रतीतेरन्यस्तदाभासप्रतीतिरित्यनयोर्लक्षणभेदः, तथा यदि प्रत्यभिज्ञानेऽपि लक्षणभेदो दर्शितः स्यात्, दर्शयितुं (निबन्ध्११७) वा शक्यो व्यभिचाराव्यभिचारोपयोगी, तदा भवतु प्रत्यभिज्ञातदाभासयोर्विवेकः । न त्वेवमस्ति, सर्वत्रात्यन्तसदृशे वस्तुनि पृथग्जनप्रत्यभिज्ञाया एकरसत्वात् ॥

संवादित्वासंवादित्वे लक्षणभेद इति चेत् । न । अलिङ्गस्य हि विकल्पस्य संवादो नाम प्रमाणान्तरसङ्गतिरर्थक्रियाप्राप्तिर्वा । तत्र न तावदाद्यः पक्षः, पश्चादपि स एवायमिति स्वतन्त्रैकाध्यवसायमात्रादपरस्य प्रमाणगन्धस्याप्यभावात् ।

नापि द्वितीयः पक्षः संगच्छते । न हि पूर्वापरकालयोरेकवस्तुप्रतिबद्धा सिद्धा काचिदर्थक्रियाः, भिन्नेनापि तत्समानशक्तिना तादृगर्थक्रियायाः करणाविरोधात् । तथा हि यथैको घटो वारि धारयतीति तत्कालभाविनोऽप्यन्यस्य देशान्तरवर्तिनो न वारिधारणवारणं तथा द्वितीयादिक्षणोप्यन्यो यदि वारि धारयति, कीदृशो दोषः स्यात् । विसदृशक्रियायां तु चिन्तैव नास्ति । तत्कथं प्रत्यभिज्ञानस्य संवादसंभवः ॥

ननु यद्येकं प्रत्यभिज्ञानं बिसंवादि दृष्टमिति सर्वमेव प्रत्यभिज्ञानं विसंवादि शङ्क्यते, तदैकमिन्द्रियज्ञानं केशोण्डुकद्विचन्द्रादौ विसंवाद्युपलब्धमिति घटादिष्वपि सर्वमेव प्रत्यक्षं विसंवादि संभाव्यताम्, इन्द्रियजन्यत्वस्यैकलक्षणस्य सर्वत्र संभवादिति चेत् । न । तत्रापि लक्षणभेदस्य सद्भावात् । तथा हि बहिरर्थस्थिताविन्द्रियार्थकार्यतया साक्षादर्थाकारानुकारित्वं प्रत्यक्षत्वम् । तच्चाभ्यासविशेषासादितपटिम्ना प्रत्यक्षेण निश्चीयते । क्वचित्त्वर्थक्रियाप्राप्तिज्ञानादिति प्रत्यक्षत्वमनवद्यमेव । द्विचन्द्रादौ त्वर्थविनाकृतेन तिमिरादिविप्लुतचक्षुइर्मात्रेण तज्ज्ञानं जनितमिति प्रत्यक्षाभासमेव । द्विचन्द्राद्यर्थाभावस्तु देशकालनरान्तरैर्द्विचन्द्रादेरर्थस्य बाधितत्वादव्याहत इति प्रत्यक्षाभासपरिहारेऽपि प्रत्यक्षेषु क आश्चासविरोधः । प्रत्यभिज्ञानेऽपि सर्वमिदमस्तीति न युक्तम् ॥

यथा हि पूर्वं पावकादौ पाकादिक्रिया प्रतिबद्धा सिद्धा पश्चादनुभूयमाना दहनज्ञानस्य संवादमावेदयति, अन्यथा बाह्यार्थोच्छेदान्निरीहं जगज्जायते, न तथा प्रथमचरमकालयोरेकीमावप्रतिबद्धा काचिदर्थक्रिया उपलब्धिगोचरा पूर्वापरकालयोरेकत्वमन्तरेण वा प्रवृत्त्यादिक्षतिर्येनैकतावग्रहोऽपि संवादी स्यात् । तदियमनुमानबाधितत्वाद्व्यभिचारशङ्काकलङ्कितत्वाच्चन प्रत्यक्षमनुमानं वेति कथमतः स्थैर्यसिद्धिरनुमानप्रतिहतिर्वा ॥

यत्पुनर्वाचस्पतिरूवाच संस्कारेन्द्रिययोर्मिलितयोरेव प्रत्यभिज्ञानं प्रति कारणत्वमिति, तदयुक्तम्, भिन्नसामग्रीप्रसूतत्वादनयोर्ज्ञानयोः । तथा हि निमीलिते चक्षुषि स इत्यत्रेन्द्रियविनाकृतस्यैव संस्कारस्य सामर्थ्यमुपलब्धम् । प्रथमदर्शने त्वयमित्यत्र संस्काररहितस्यैवेन्द्रियस्य सामर्थ्यं दृष्टम् । तस्मात्सामग्रीद्वयप्रतिबद्धं (निबन्ध्११८) ज्ञानद्वयमिदमवधारितम् । कथमुभाभ्यां मिलित्वैकमेव प्रत्यभिज्ञानमुत्पादितमित्युद्घुष्यते । बीजक्षित्याद्योस्तु पृथक्सामर्थ्यं न दृष्टमित्येकैव सामग्रीत्यङ्कुरोऽप्येक एवास्तु । तथा पूर्वदेशकालापरदेशकालाभ्यां तत्संबद्धाभ्यामन्यत्वात्पद्यरागस्याभेद इत्यप्यसङ्गतम् । विरुद्धयोर्धर्मयोः पद्मरागादन्यत्वेऽपि विरुद्धधर्मयोगात्पद्मरागस्य भेदः कथमपह्नयते, त्रैलोक्यैकत्वप्रसङ्गस्य दुर्वारत्वात् । न हि धर्मधर्मिणोरन्यत्वेऽपि ब्राह्मणत्वचाण्डालत्वे एकाधारे भवितुमर्हत इति पद्मरागस्य भेदो दुरतिक्रमः । तथा च न स्वभावविरोधोऽनुमानस्याप्यनेकत्वप्रसङ्गात् । तदपि प्रत्यक्षमप्रत्यक्षं चाविकल्पो विकल्पश्चासमारोपः समारोपश्चेत्यप्ययुक्तम् । अनुमानस्य हि परमार्थतः स्वसंवेदनप्रत्यक्षात्मनोऽविकल्पस्यासमारोपस्वभावस्याप्रत्यक्षत्वविकल्पत्वसमारोपत्वादेः परापेक्षया प्रज्ञप्तत्वाद्विरुद्धधर्माध्यासाभावात्कथं भेदसिद्धिः । स ए वायमिति तु प्रत्यभिज्ञानस्य स इत्यस्पष्टाकारयोगित्वम्, अयमिति स्पष्टाकारयोगित्वमिति विरुद्धधर्मद्वयं भेदकम् ॥

न चैवं वक्तव्यं तत्तेदन्तापेक्षया प्रत्यभिज्ञानस्याप्येकस्यैव पारोक्ष्यापारोक्ष्यमविरुद्धमिति । न होदमेकाकारतया व्यवस्थितम्, येनानुमानवदस्यापि पारोक्ष्यापारोक्ष्यव्यवस्थामात्रं स्यात् । यावदतीतार्थाकारानुकारो वर्तमानार्थानुकारश्च स्वधर्मो न भवति तावत्तदर्थगोचरतैव नास्ति । कुतः पारोक्ष्यापारोक्ष्यव्यवहारो भविष्यति । तस्मात्स्पष्टास्पष्टाकारद्वयविरुद्धधर्माध्यासात्प्रत्यभिज्ञानं

प्रत्ययद्वयमेतदिति स्थितम् ॥

तथा सहेतुकविनाशत्वादयमप्यसिद्धो हेतुः । यत्पुनरत्रोक्तं सहेतुकविनाशत्वं घटस्याग्निधूमयोरिव प्रत्यक्षानुपलम्भतो मुद्गरघटविनाशयोरपि कार्यकारणभावसिद्धौ सिद्धमिति, तदसङ्गतम्, अग्निधूमयोर्द्वयोरपि दृश्यत्वात्, प्रत्यक्षानुपलम्भतो धूमस्य वह्निकार्यता सिध्यतु । विनाशशब्दवाच्यस्त्वर्थो न कश्चिदिदन्तया दृष्टः । कर्परमेव घटमुद्गराभ्यामुत्पद्यमानमुपलब्धम् । यदाहुर्गुरवः

दृष्टस्तावदयं घटोऽत्र च पतन् दृष्टस्तथा मुद्गरो
दृष्टा कर्परसंहतिः परमतो नाशो न दृष्टः परः ।
तेनाभाव इति श्रुतिः क्व निहिता किं वात्र तत्कारणं
स्वाधीना पलिघस्य केवलमियं दृष्टा कपालावलिः ॥

तदयमभावो दृश्यानुपलब्धिबाधितः कथं प्रत्यक्षतो मुद्गरादिकार्यमवधार्यः ॥

यत्पुनरस्मिन्नदृश्यमानेऽपि दृश्यत इति वाग्जालं सा भण्डविद्या । तद्वचनाद्गृह्णान्नपि पशुरेव । तथा हि

कस्यचित्प्रतिभासेन साध्यतेऽप्रतिभासि यत् ।
प्रतिभासोऽस्य नास्येति नोपपत्तेस्तु गोचरः ॥ इति ।

(निबन्ध्११९)
अथैवं वक्तव्यं किमन्येन ध्वंसेन, कर्परमेव घटध्वंसोऽस्तु, तथा च सति मुद्गराद्यभावे कर्पराभावात्घटस्थैर्यमव्याहतमिति । दुराशा खल्वेषा । तथा हि यथा नाशशब्देन कर्परमुच्यते तथा यद्यभावशब्देनापि कर्परमेवोच्यते तदैकत्र प्रदेशे घटमेकमपनीय घटान्तरन्यासे तत्रापनीतघटस्याभावव्यवहारो न स्यात्, तत्प्रध्वंसकपालयोस्तत्रानुत्पादात् । तस्माद्यथापनीतघटस्य प्रच्युतिमात्रापेक्षया न्यस्तघटेऽभावव्यवहारस्तथा मुद्गरादिकारणाभावात्प्रध्वंसकर्परयोरनुत्पादेऽपि प्रच्युतिमात्रापेक्षयैव प्रतिक्षणमन्यान्यत्वव्यवहारो घटस्य सिध्यतीति कुतः स्थैर्यसिद्धिः । तस्मात्प्रध्वंसकर्पराभावेऽपि प्रच्युतिमात्रात्मकभावापेक्षयाप्यस्मन्मतमव्याहतम् । यदाहुर्गुरवः

आस्तां कर्परपंक्तिरेव कलशध्वंसो न चेयं पुरा
तेन स्थैर्यमपि प्रसिध्यतु ततो भिन्नेन नाशेन किम् ।

अत्रोत्तरम्,

नाशः सैव यथोच्यते यदि तथाभावोऽपि कुम्भान्तर्
अन्यासेऽभाववचः कथं मतमतः सिध्यत्यभावोऽपि न ॥

इति ।

ननु यदि स्वहेतुजनितो नाशो नास्ति, कथं क्वचिदेव देशे काले घटो नष्ट इति प्रतीतिनियमः । न च मुद्गरादन्यो नाशस्य हेतुर्वक्तव्यः, प्रागपि नाशसंभवे नष्टघटबुद्धिसंभवप्रसङ्गात् । यदाहुः

नाशो नास्ति यदि स्वहेतुनियतः किं देशकाले क्वचित्
कुम्भो नष्ट इति प्रतीतिनियमस्तेनास्ति कार्यश्च सः ।
नाप्यन्यत्किल कारणं रयवतो दण्डात्पुराप्यन्यथा
नाशोक्ता न कृता विनष्टघटधीः केनोद्धुरा वार्यते ॥

इति चेत् । तर्हीदानीमर्थापत्त्या प्रध्वंसं प्रसाध्य मुद्गराधीनत्वमस्य साधयितुमारब्धम् । तथा च सति धूमाग्निवत्प्रत्यक्षतः प्रध्वंसस्य मुद्गरादिकार्यत्वं सिद्धमित्युत्फुल्लगल्लमुल्लपितं व्यालुप्तम् ॥

न चार्थापत्तितोऽपि तत्सिद्धिः संद्यपते, कुम्भो नष्ट इति प्रतीतेरन्यथाप्युपपद्यमानत्वात् । विनाशं विनापि हि घटदर्शनवतो मुद्गरकृतकपालानुभव एवनष्टघटावसायसाधनः, किमपरेण नाशेन कर्तव्यम्, घटो नष्ट इति बुद्धेर्घटनिश्चयपूर्वकमुद्गरकृतकपालानुभवमात्रान्वयव्यतिरेकानुविधानदर्शनात् । न चेयं सामग्रीपूर्वमप्यस्ति । मुद्गराभावे कर्परपंक्तेरेवाभावात्कथं प्रागपि नष्टघटबुद्धिप्रसङ्गः संगतो नाम । यदाहुर्गुरवः

दृष्टेऽम्भोभृति मुद्गरादिजनिता दृष्टा कपालावली
सङ्केतानुगमाद्विनष्टघटधीस्तावत्समुत्पाद्यते ।
(निबन्ध्१२०)
सामग्र्यामिह नाशनाम न किमप्यङ्गं न चास्यामपि
स्यादेषा न कदापि नापि च पुराप्येषा समग्रा स्थितिः ॥
अर्थापत्तिरतो गता क्षयमियं न ध्वंससिद्धौ प्रभुः ॥ इति ॥

यदि नाशानुभवो नास्ति कपालानुभवात्कपालकल्पनैव स्यात्, न नष्टघटबुद्धिरिति चेत् । तदेतदतिसाहसम्, घटनिश्चयपूर्वककपालवलयदर्शनादेव नष्टघटबुद्धेः साक्षादेवानुभूयमानत्वात् । तदपलापे धूमादीनामपि दहनादिपूर्वकत्वनिश्चयो न स्यादित्यतिप्रसङ्गः ॥

ननु घटो नष्ट इति बुद्धिर्विशेष्यबुद्धिः । सा च विनाशं विशेषणमाक्षिपतीति चेत् । तदसत्, यतः

स्वबुद्ध्या रज्यते येन विशेष्यं तद्विशेषणम् ।

उच्यते । न चाविद्यमानमदृश्यं वा स्वबुद्ध्या किञ्चिद्रञ्जयति । प्रयोगोऽत्रयस्य न स्वरूपनिर्भासस्तन्न कस्यचित्स्वानुरक्त प्रतीतिनिमित्तम् । यथा करिकेशरः । नास्ति च स्वरूपनिर्भासो ध्वंसस्येति व्यापकानुपलब्धिः । नास्या असिद्धिः, अभावस्य स्वरूपेणैवेदन्तया निर्भासाभावात् । न च विरुद्धता, सपक्षे भावात् । नाप्यनैकान्तिकत्वम्, प्रतिभासाभावेऽपि स्वानुरक्तप्रतीतिहेतुत्वे शशविषाणादेरपि तथात्वं स्यादित्यतिप्रसङ्गः ।

ननु

न ध्वंसेन विना विनश्यति जगद्भावेन सार्धं सचेत्
सच्चासच्च किमस्तु वस्तुनियतं भावानुजोऽसौ ततः ।
भावात्तेन तु भिन्नकारणतया तत्कारणासंभवे
ऽभावात्तेन कृतान्यतापि गलिता भङ्गः कुतोऽनुक्षणम् ॥

अत्रोच्यते । कारणान्तरादुत्पद्यमानो ध्वंसोऽभिन्नो भिन्नो वा । नाद्यः पक्षः, भिन्नकारणत्वात्, तैरनभ्युपगतत्वाच्च । अथ द्वितीयः पक्ष । तदा कः पुनर्भावस्य प्रद्वेषो येन प्रध्वंसाख्ये वस्तुनि स्वहेतोरुत्पन्ने निवर्तते नाम ॥

यत्पुनरेतदुच्यते - नाभावस्योत्पादे भावस्यापरा निवृत्तिः, किं त्वभावोत्पत्तिरेव तन्निवृत्तिरिति । कथमन्यस्योत्पादेऽन्यस्य निवृत्तिः । अत्र स्वभावभेदैरुत्तरं वाच्यं ये परस्परपरिहारस्थितयः स्वहेतुभ्यो जायन्ते । न हि स्वतोऽन्यस्याङ्कुरस्य वह्निर्न कारणमित्यन्यत्वाविशेषाद्भस्मनोऽपि न कारणम् । स्वभावभेदेनतु कार्यकारणभावसमर्थनं परस्परपरिहारस्थितिनियमेऽपि तुल्यम् । यथा चोत्पादस्य पुरस्तादखिलसामर्थ्यरहितस्याङ्कुरप्रागभावस्यापकारं कञ्चिदकुर्वन्तोऽपि बीजादयोऽङ्कुरमारभमाणाः प्रागभावं निवर्तयन्ति, तदुत्पादस्यैव तत्प्रागभावनिवृत्तिरूपत्वात्; एवं तदभावहेतवोऽपि भावरूपेऽकिञ्चित्करा (निबन्ध्१२१) अपि तदभावमादधानास्तन्निवर्तयन्ति, अभावोत्पादस्यैव भावनिवृत्तिरूपत्वात् । तेन पूर्ववन्नार्थक्रियाकरणप्रसङ्ग इति । तदुचितं स्याद्यदि कार्यकारणयोरिवास्या प्यात्मा प्रमाणप्रतीतः स्यात्, केवलं दृश्यानुपलम्भग्रस्तेऽप्येतस्मिन्नुपलभ्यत इति प्रलापो व्यक्तमियं भण्डविद्येत्युक्तम् । अर्थापत्तिरपि क्षीणेत्यपि प्रागभावस्य च दृष्टान्तत्वेनोपन्यासो भण्डालेख्यन्यायः ।

किं च कः पुनरत्र विरोधः

सहस्थानाभावो यदि तव विरोधोऽर्थविपदोः
सहस्थानासङ्गः क्षणमपि यथा शीतशिखिनोः ।
स च ध्वंसो ध्वंसान्तरमुपनयन् संप्रति भवेद्
विरोधी सोऽप्यन्यं क्षयमिति न नाशः कथमपि ॥

अन्यथा सिद्धसत्तामात्रेण विरोधित्वे सर्वं सर्वेण विरुद्धं प्रसज्येत । स्वभावालम्बनमप्यदर्शनादेव निरस्तमिति ।

अथान्योन्याभावप्रकृतिकतयार्थे सतो तदा
क्षयस्यैवाभावः सह भवतु वा हेतुबलतः ।
अनेन ध्वंसे च प्रकृतहतिरस्य त्वनुदये
बलीयानेवार्थः स्वयमपचयेऽन्येन किमिह ॥

सच्चासच्च किमस्तु वस्त्विति तु प्रसङ्गः त्रिलोचनप्रस्तावे निराकरणीयः । अत एवात्र प्रस्तावे भुवनैकगुरून् भगवतः कीर्तिपादानवमन्यमानः शङ्करः पशोरपिपशुरिति कृपापात्रमेवैष जाल्मः ।

यदप्याह त्रिलोचनः भावव्यतिरिक्तां निवृत्तिमनिच्छद्भिरशक्या स्वरूपनिवृत्तिरवस्थापयितुम् । या हि तस्य प्राक्तनी काचिदवस्था भवद्भिरर्थक्रियानिर्वर्तनयोग्या दृष्टा सैव यद्युत्तरकालमप्यनुवर्तते तर्हि स्वरूपेणैव निवृत्तो भावः कथमवस्थाप्यते । तदानीमयं नष्टो नाम यदि स्वहेतुप्रतिलब्धस्वरूपव्यतिरेकिणी तस्य काचिदवस्थोत्पद्येत, उत्पत्तौ सैव तस्यात्मान्तरं जातमित्यतादवस्थ्यमेवास्य विनाशं ब्रूमः । तादवस्थ्ये तादात्म्ये च स्वरूपेण निवृत्तो भाव इत्यस्य शब्दस्य सत्यमर्थं न विद्मः । स्वरूपनिवृत्तिः खल्वियं भवन्ती भाव एव स्यात्, भावादन्या वा । तत्त्वे स्वकारणेभ्यो निष्पन्नस्यार्थस्यान्यथानुपपत्तावुत्पत्तेरारभ्य सत्त्वान्नित्यत्वं प्रसज्येत । अन्यत्वे च तदेव निवृत्तेरन्यत्वनिवृत्ति(रिति) प्रियमनुष्ठितं प्रियेण । तस्मादुत्सृज्य विभ्रमं नाशोत्पत्तिरेव नष्टत्वमभ्युपगन्तव्यमिति ।

(निबन्ध्१२२)
तदेतदज्ञानफलम् । तथा हि

स्वकारणादेव यथान्यदेशविच्छिन्नरूपः समुदेति भावः ।
विच्छिन्नभिन्नक्षणवृत्तिरेवं स्वकारणादेव न जायते किम् ॥
अभावतोऽर्थान्तररूपबाधे तत्रापि चार्थान्तरमीक्षणीयम् ।
प्रदीपदृष्टान्तमतं न कान्तं स्वरूपसंदर्शनविप्रयोगात् ॥

यथा हि देशान्तरपरावृत्तमनीलादिपरावृत्तं च स्वहेतोरुत्पन्नं वस्तु तथा द्वितीयक्षणान्तरपरावृत्तमपि । यथा चान्यदेशानवस्थायित्वं तद्देशावस्थायित्वेनाविरुद्धम्, विरुद्धं च देशान्तरावस्थायित्वेनैव तथा द्वितीयक्षणावस्थायित्वं प्रथमक्षणावस्थायित्वेनाविरुद्धम्, विरुद्धं पुनर्द्वितीयक्षणावस्थायित्वेनैव । केवलं देशान्तरद्वितीयक्षणयोस्तत्प्रच्युतिमात्रं व्यवह्रियते । तदन्योन्याभावप्रध्वंसाभावयोः पदार्थयोः सद्भावेऽप्यवार्यम्, अभावान्तरास्वीकारेऽपि भावाभावयोरप्यमिश्रत्वास्वीकारे तादात्म्यप्रसङ्गात् । तस्माद्भावाभावयोस्तादात्म्यमिति । यथार्थक्रियाकारित्वस्य तद्देशवर्तित्वनीलत्वादिभिन्नविरोधस्तथा द्वितीयक्षणानवस्थायित्वेनापीति विवक्षितम् । परमार्थतस्तु धर्मिधर्मयोस्तादात्म्यं व्यावृत्तिकृतो भेदव्यवहार इति अपोहसिद्धौ प्रसाधितम् । एतच्चोक्तक्रमेणाविरुद्धमापादितम् । एतावति तु तत्त्वे वाक्छलमात्रप्रवृत्ता द्वेषविषज्वलितात्मानः क्षुद्राः प्रलपन्तीति किमत्र ब्रूमः ।

ततश्च व्यतिरिक्तनिवृत्त्युत्पत्तिमन्तरेण स्वरूपनिवृत्तेरुपपत्तेः कथं क्षणादूर्ध्वं प्राक्तनसत्तावस्थितिः । तस्मादुत्सृष्टविभ्रमं नष्टव्यवहारमात्रमस्तु, न त्वस्यान्यत्किञ्चिज्जायेत, भावस्य तादवस्थ्यप्रसङ्गात् । अभावः कथं निषिध्यत इति चेत् । न, तदनुत्पत्तिमात्रविषयस्य वाचानिश्चयेन च पश्चादभावव्यवहारमात्रप्रवर्तनस्येष्टत्वाद्वस्तूत्पत्तेरेव निषिद्धत्वात् ।

ननु केयं वाचोयुक्तिः, अभावव्यवहारमात्रमिष्यते पश्चान्नाभाव इति । एवं सति विसंवादिताप्रसङ्गोऽभावव्यवहारस्य । अभावश्च मिथ्येति भाव एव प्रतिषेध्यस्य स्यात् । स चाभावः पश्चा(द्) भवतीति स्फुटतरमस्य कादाचित्कत्वात्सहेतुकत्वम्, वस्तुत्वं चेति । असदेतत्, अभावाख्यवस्त्वन्तरास्वीकारेऽपि प्रच्युतिमात्रापेक्षयापि व्यवहारस्य चरितार्थत्वप्रतिपादनात् ।

यत्तु तद्विविक्तभूतलादेर्विषयत्वमाशङ्क्योक्तम्, न भूतलादेर्वस्त्वन्तरत्वात् । न च वस्त्वन्तरे प्रतिपादिते प्रतीते वा घटादि वस्तुभूतमिति प्रतिपादितं प्रतीतं (निबन्ध्१२३) वा भवति । एवं वस्त्वन्तरमेव नाश इति अस्मिन्मते यद्दूषणमुक्तं तत्स्वयमेव परिहृतं स्यादिति, तदप्यसंबद्धम्, केवलं हि भूतलमस्य विषय इति कथं न घटादेरभूतत्वबोधः । यैव हि घटाद्यपेक्षया कैवल्यावस्था प्रदेशस्य स एव घटविरहः । वचनादिनाप्येवं केवलप्रदेशप्रतिपादने कथमिव न प्रकृतघटाद्यभावप्रतिपादनम् । कैवल्यं चासहायप्रदेशादव्यतिभिन्नमेव ॥

न चेह घटो नास्तीति प्रत्ययस्य घटवत्यपि प्रदेशे प्रसङ्गः, स्वहेतोस्तथोत्पन्नस्य सघटप्रदेशस्य केवलप्रदेशादन्यत्वात् । न च प्रत्यभिज्ञानतः सघटाघटप्रदेशयोरेकत्वम्, पूर्वमस्य निराकरणात् । न च विनाशहेतोरसामर्थ्यवैयर्थ्याभिधानेऽङ्कुरादिहेतोरपि तथाभिधातुमुचितम् । असिद्धे हि कार्ये हेतोराश्रयणमवार्थम् । सिद्धे चेयं चिन्ता, यदि हेतोर्नित्योऽनित्यो वार्थो जातः किं नाशकारणेनेति हेतुपुरस्कारेणैव प्रवृत्तेः । न चैवमसिद्धेऽङ्कुरादौ कार्ये शक्यमभिधातुम्, स्वरूपस्यैवाभात्तद्धर्मकत्वा(तद्) धर्मकत्वादिपर्यनुयोगस्य निर्विषयत्वात् ॥

ननु त्वयापि भावाभावयोर्लक्षणभेदोऽभिहितः । तत्कथमेकत्वं सर्वार्थानाम् । लक्षणभेदादेव भेदव्यवस्था । ततोऽपि चेन्न भेदव्यवस्थितिः, न कस्यचित्कुतश्चिद्भेदव्यवस्थितिरित्यद्वैतप्रसङ्ग इति चेत् । न । यो हि नश्वरस्वभावः स एव नाशोः, नश्यतीति बहुलाधिकारात्कर्तरि घञः प्रसाधनात्, तं नाशं भावस्वभावमिच्छामः । नशनं नाश इति तु प्रसज्यात्मा द्विधा कर्तव्यः । तत्त्वतस्तावद्वस्तुत्वविरहात्तत्त्वान्यत्वविरहित एवासौ भावो न भवतीति तद्भावनिषेधमात्रपातं तु भवति खरशृङ्गादिवत् । संवृतौ तु यथा कालभेदेन विकल्प्यमानः कादाचित्क इव प्रतिभाति तथा सर्वोपाख्याविरहरूपतया भावाद्भिन्न इव प्रतिभातीति नावस्तुत्वोपलक्षणभेदाख्यानविरोधः । एवं च सति संवृत्त्या लक्षणभेदे भावाभावयोर्भेदस्येष्टत्वात् । तत्वेन च लक्षणैकताविरहे भावस्य तेनैक्यनिषेधात्कथमद्वैतप्रसङ्गोपालम्भः ॥

स्यादेतत् । न च विवेकाप्रतीतौ तद्विविक्तग्रहणं भवति । तद्विवेकश्च न भूतलादिस्वरूपमेव विशेषणत्वादिति । तदेतन्न्यायबहिष्कृतम् । विशेषणविशेष्यभावो हि सङ्कल्पारुढे रूपे बाह्यार्थस्पर्शे विकल्पशब्दलिङ्गान्तराणां वैयर्थ्यप्रसङ्गादिति शास्त्रे विस्तरेण प्रतिपादनात् । स च सङ्कल्पोऽभिन्नमपि भावं भिन्नमिवाकलयति । यथा शिलापुत्रकस्य शरीरम्, शरीरे करणादयः, लम्बकर्णो देवदत्त इत्यादि । तस्मात्कल्पनाधीनो विशेषणविशेष्यभावः । अभिन्नेऽपि भावे भेदविवक्षापेक्षो भेदव्यवहारः कथं भेदनियतमात्मानमातनोतु ॥

स्खलद्गतिरयं राहोः शिर इत्यादिनिर्देश इति चेत् । यदि सत्यमेतत्, तदा शिरोऽतिरिक्तस्य राहोरिव क्ष्मातलादेरतिरिक्तस्य विवेकस्य दृश्यानुपलम्भबाधितत्वादयमपि निर्देशः स्खलद्गतिरेव, तथापि नेति कोषपानं प्रमाणम् । तस्मात्सघटात्(निबन्ध्१२४) प्रदेशान्तरात्प्रदेश एवायमन्यो घटविविक्तः स्वहेतोरुत्पन्नो न तु घटविवेकेन विशेषितः, स्वहेतोरुत्पन्नस्य विविक्तस्याभावे विवेकस्याभावात् । किं च

व्याप्तं भिदा यदि विशेष्यविशेष(ण)त्वं भेदात्ययान्ननु तदा तदभाव एव ।
देशो विशिष्ट इति चास्ति यथा तथेदमप्यस्ति दृश्यमतभेददृगस्ति नेति ॥

तस्मान्नाभावो नाम कश्चिद्यत्र कारणव्यापारः । तदेवं सहेतुकविनाशत्वादिति हेतुः स्वरूपासिद्ध इति स्थितम् ॥

सतामक्षणिकत्वं कार(ण)वत्त्वादित्यप्यसंबद्धमेव, क्षणिकत्वकारणवत्त्वयोर्विरोधाभावादक्षणिकत्वेन कारणवत्त्वस्य व्याप्तेरसिद्धेः सन्दिग्धव्यतिरेकित्वात् । न चास्य विपर्यये वृत्तिशङ्का नाशस्य सहेतुकत्वमेव निवर्तयति, उक्तक्रमेण नाशस्यैवाभावादिति ॥

तथा प्रमेयत्वादपि स्थिरसिद्धिर्मनोरथमात्रम् । साकारवेदनोदयपक्षस्थितौ हि द्वितीयक्षणानुवृत्तावप्यर्थस्य व्यवहितत्वात्, प्रकाशानुपपत्तेर्विषयस्वरूपवेदनमेव ज्ञानस्य विषयवेदनम् । एवं च वर्तमानानुरोधः । अतीतेऽपि तत्प्रत्यासत्तेरप्रच्युतेः । न चातिप्रसङ्गः, अनन्तरातीतादन्येन क्षणेन सारूप्यासमर्पणात् । ततश्च कारणत्वाद्यदि नाम प्रमेयत्वस्य पूर्वकालसत्त्वेन व्याप्तिस्तथापि प्रमेयत्ववत्पूर्वकालसत्त्वमपि क्षणिकेऽविरुद्धमिति प्रमेयत्वाक्षणिकत्वयोर्व्याप्तिसाधनो व्यापकानुपलम्भोऽसिद्धः । ज्ञानाकारार्पकत्वं हि हेतुत्वम्, प्रमेयत्वं प्रामाणिकप्रतीतत्वम् । तच्चानन्तरातीत एव क्षणे समुपपद्यते ॥

ज्ञानसत्त्वासमयेऽर्थानुवृत्तेरभावान्निर्विषयतेति चेत् । नन्वनुवृत्तावपि तदर्पिताकारस्वरूपसंवेदनमेव तद्वेदनम् । तदेव च सविषयत्वम् । इयं च प्रत्यासत्तिरनन्तरातीतेऽपि क्षणेऽक्षीणेति न द्वितीयक्षणानुवृत्तेरनुरोध इत्युक्तम् । अतः सन्दिग्धव्यतिरेकित्वादनैकान्तिकमेव प्रमेयत्वम् ॥

अथ साकारवादविद्वेषादनाकारज्ञानग्राह्यत्वं प्रमेयत्वमभिप्रेतं तदासिद्धतास्य हेतोः । इन्द्रियार्थसन्निकर्षादेर्ज्ञानमुत्पद्यतां नाम । तच्चानुभवैकरसत्वेन सर्वत्रार्थे सदृशाकारत्वात्कस्य ग्राहकमस्तु, येनाभिसंबद्धमिति चेत् । आत्ममनःसंयोगादीनामपि ग्रहणं स्यात् । जनकस्य ग्रहणमिति चेत् । तथाप्यात्मादीनां ग्रहणप्रसङ्गः । विषयत्वेन जनकस्य ग्रहणमित्यप्यसाधु, विषयत्वस्याद्याप्यनिश्चयात् । इदं दृष्टं श्रुतं वेदमित्यध्यवसायो यत्रार्थे स विषय इति चेत् । नन्वस्त्येव प्रतिनियतो व्यवहारः । कः पुनरत्र प्रत्यासत्तिनियम इति पृच्छामः । स चेदुपवर्णयितुं न शक्यते, व्यवहारोऽपि त्वन्मते नियतो न स्यादिति ब्रूमः । अस्ति तावदिति चेत् । अत एवार्थसारूप्यमसाधारणं प्रत्यासत्तिनिमित्तमस्तु, निर्मिमित्ते नियमायोगात् ॥

(निबन्ध्१२५)
ननु सारूप्यमप्यर्थादर्शने कथमवधार्यते । तच्च किमेकदेशेन, सर्वात्मना वा । आद्ये पक्षे सर्वं सर्वस्य वेदनं स्यात् । द्वितीये तु ज्ञानमज्ञानतां व्रजेत् । किं च सारूप्यादर्थवेदनेऽनन्तरं ज्ञानं तुल्यविषयं विषयः स्यादिति चेत् । माभूदर्थस्य दर्शनम् । आकारविशेषबलादध्यवसितार्थस्यार्थक्रियाप्राप्तेरेवार्थोऽपीदृश इति सारूप्यव्यवहारोऽविरुद्धः । अत एव स्थूलगतं परमाणुगतं वा सारूप्यं न चिन्त्यते । ज्ञानाकारस्य स्थूलत्वेऽप्येकसामग्रीप्रतिबद्धपुञ्जविशेषादप्यभीष्टक्रियाकरणात्पुरुषार्थसिद्धेः । सारूप्यं चैकदेशेनैव । न चात्र सर्ववेदनप्रसङ्गः, सर्वेषां ज्ञानं प्रत्यजनकत्वात् । जनकानां च स्वव्यपदेशनिमित्तासाधारणैकदेशार्पकत्वेन ग्राह्यत्वात् । नापि तुल्यविषयान्तरज्ञानग्रहणप्रसङ्गः, तस्य स्वसंवेदनादेव प्रमाणात्सिद्धत्वात् । प्रमाणान्तरस्य तत्र वैयर्थ्यात् । जडत्वे सत्याकारार्पकस्य वस्तुनो ग्राह्यत्वादित्यस्यार्थस्याभीष्टत्वाच्च । बाह्यार्थस्थितौ चेयं चिन्तेति सर्वमनवद्यम् । तदेवमयं प्रमेयत्वादिति हेतुः साकारवादपक्षे सन्दिग्धव्यतिरेकः, निराकारपक्षे चासिद्ध इति स्थितम् ।

न चार्थापत्तिरति स्थिरात्मसाधनी, कार्यकारणभावग्रहणादीनामन्यथोपपत्तेः । तथा हि उपादानोपादेयभावस्थितचित्तसन्ततिमप्याश्रित्येयं व्यवस्था सुस्थेति कथमात्मानं प्रत्युज्जीवयतु । तत्र कार्यकारणभावप्रतीतिस्तावदनाकुला । तथापि प्राग्भाविवस्तुनिश्चयज्ञानस्योपादेयभूतेन तदर्पितसंस्कारगर्भेण पश्चाद्भाविवस्तुज्ञानेनास्मिन् सतीदं भवतीति निश्चयो जन्यते । तथा प्राग्भाविवस्त्वपेक्षया केवलभूतलनिश्चायकज्ञानोपादेयभूतेन तदर्पितसंस्कारगर्भेण पश्चाद्भाविवस्त्वपेक्षया केवलभूतलनिश्चायकज्ञानेनास्मिन्नसतीदं न भवतीति व्यतिरेकनिश्चयो जन्यते । यथोक्तम्

एकावसायसमनन्तरजातमन्यविज्ञानमन्वयविमर्शमुपादधाति ।
एवं तदेकविरहानुभवोद्भवान्यव्यावृत्तिधीः प्रथयति व्यतिरेकबुद्धिम् ॥

अत एव देवदत्तेनाग्नौ प्रतीते यज्ञदत्तेन च धूमे प्रतीते न कार्यकारणभावग्रहणं तज्ज्ञानयोरुपादानोपादेयभावाभावात् । यत्र त्वेकसन्ताने ज्ञानक्षणयोरुपादानोपादेयभावस्तत्र कार्यादिग्रहः सुग्रहः । अन्यथा सत्यपि नित्यात्मनि प्रतिसन्धातरि कार्यकारणभावादीनामप्रतीतिरेव स्यात् ।

तथा हि आत्मनः सकाशात्प्रतिसन्धेयबुद्धीनामभेदो भेदो वा भेदाभेदो वा । प्रथमपक्षे आत्मैव स्यात्प्रतिसन्धाता, बुद्ध्य एव वा स्युः प्रतिसन्धेया इति कः प्रतिसन्धानार्थः । भेदपक्षऽपि बुद्धिभ्यो भिद्यमानस्य जडस्यात्मनः कः प्रतिसन्धानार्थ इति न विद्मः । बुद्धियोगाद्द्रष्टुत्ववत्प्रतिसन्धातृत्वमिति (निबन्ध्१२६) चेत् । बुद्धि रेव तर्हि द्रष्टी प्रतिसन्धात्री चेती नियमस्वीकारे तद्योगादस्य तथात्वमिति किमनेन याचितकमण्डनेन । बुद्धीनां कर्तृत्वाभावादिति चेत् । तद्द्वारेणापि तर्हि तस्यात्मनो द्रष्टृत्वादिव्यवहारानुपपत्तिः । यदि हि बुद्धिर्हेतोः फलस्य वा द्रष्ट्री स्यात्तदानन्तर्यप्रतिनियमस्य चानुसन्धात्री कल्पिता । तद्योगाद्द्रष्टृत्वं प्रतिसन्धातृत्वं चोच्यत इति स्यादपि प्रतिविषयमलब्धविशेषायां च बुद्धौ संबन्धोऽपि न विशेषं व्यवहारयितुमीशः - अधुना निबन्धनाधिगन्ता, अधुना फलस्य, इदानीं प्रतिसन्धातेति । तथाविधबुद्धिगतविशेषस्वीकारे तु किमपरेणात्मना कर्तव्यम्, तावतैव पर्याप्तत्वाद्व्यवहारस्य ।

स्थिरात्मानमन्तरेण सैव बुद्धिर्न स्यादिति चेत् । केनैवं प्रतारितोऽसि । अहो मोहमाहात्म्यं यदीदृशानपि परवशीकरोति । तथा हि नेदमिदमन्तरेण यदुच्यते तत्खल्वन्यत्र प्रत्यक्षानुपलम्भाभ्यां सामर्थ्यावधारणे सति युज्यते वह्नेरिव धूमे, चक्षुरादिवद्वा दृष्टकारणान्तरसामग्र्या कार्यादर्शने पश्चाद्दर्शने च किञ्चिदन्यदपेक्षणीयमस्तीति सामान्याकारेण ।

आद्यः पक्षस्तावन्नास्तीति व्यक्तम् । द्वितीयोऽपि न संभवी । न हि कारणबुद्धिसमनन्तरं कार्यबुद्धौ सत्यां निश्चयप्रवृत्तस्येदमस्यानन्तरं दृष्टं मयेति प्रतिसन्धानमदृष्टपूर्वं कदाचित्यतोऽन्यस्य सामर्थ्यपरिकल्पनं स्यादित्युदस्य व्यामोहमुक्तक्रमेणैव कार्यकारणग्रहणव्यवस्था स्वीकर्तव्या ।

भेदाभेदपक्षस्तु धिक्कार एव, तस्यैव तदपेक्षया भेदाभेदविरुद्धधर्माध्यासादेकत्वानुपपत्तेः । ततश्च यद्भिन्नं भिन्नमेवाभिन्नं चाभिन्नमिति नैकस्य भेदाभेदौ ।तथाप्यभेदे विश्वमेकमिति युगपदुत्पादस्थितिप्रलयप्रसङ्गः । एवं क्रमिवस्तुग्राहकैः क्रमिज्ञानैरुपादानोपादेयभूतैः साक्षात्पारम्पर्येण क्रमेणामी जायन्त इति निश्चयो जन्यते । ऐककालिकानेकवस्तुग्राहकैरेव तज्ज्ञानैरेकोपादानत्वात्सकृदिमानि जातानीति विकल्पः क्रियत इति क्रमाक्रमग्रहणमप्यनवद्यम् ।

कथमनेकज्ञानादेकविकल्प इति चेत् । कि दोषः ।

भवन्तु भिन्ना मतयस्तथापिता दधत्युपादानतयैककल्पनम् ।
न भिन्नसंख्या फलहेतुबाधिनी न चान्यसन्तानभवा इवाक्षमाः ॥

यदप्युक्तं शङ्करेण पूर्वोत्तरक्षणयोः संवित्तीः, ताभ्यां वासना, तया हेतुफलभावाध्यवसायी विकल्प इति चेत् । किमिदानीं यत्किञ्चिदाशङ्कितेन वक्तव्यमित्येवं विधिरनुष्ठीयते भवता । विकल्पो हि गॄहीतानुसन्धानमतद्रूपसमारोपो वा स्यात् । न तावत्पूर्वः पक्षः, अदृष्टान्वयव्यतिरेकस्य पुरुषस्य हेतुफलभावाग्रहेऽनुसन्धानप्रत्ययहेतोर्वासनाविशेषस्यैवानुपपत्तेः । अगृहीतस्य चानुसन्धानेऽतिप्रसङ्गादिति ।

(निबन्ध्१२७)
तदेतन्न सम्यगालोचितम् । यतो हेतुफलभूतयोः पूर्वोत्तरक्षणयोरेकैकेन ज्ञानेनाननुभवेऽप्युपादानोपादेयभूताभ्यां क्रमिज्ञानाभ्यां हेतुफलत्वे गृहीते एव । केवलं हेतुकाले फलाभावात् । तद्विषयसामर्थ्यग्रहणेऽपि फलादर्शनात्तदवसाय एवाप्रवृत्तः कार्यदर्शनेन प्रवर्त्यते । तथा फलावलोकनेऽपि तत्कार्यता गृहीतैव विकल्पेनानुसन्धीयत इति गृहीतानुसन्धानरूप एवायं विकल्प इति यत्किञ्चिदेतत् ।

यदाह महाभाष्यालङ्कारः

यदि नामैकमध्यक्षं न पूर्वापरवित्तिमत् ।
अध्यक्षद्वयसद्भावे प्राक्परावेदनं कथम् ॥ इति ॥

तथा स्मरणमभिलाषः, स्वयं विहितप्रत्यनुमार्गणम्, दृष्टार्थकुतूहलविरमणम्, कर्मफलसंबन्धः, संशयपूर्वकनिर्णयश्च पूर्वपूर्वानुभवैकोपादानकारणैः समर्पितसंस्कारगतैरुत्तरोत्तरार्थानुभवैवोपादेयभूतैर्जन्यमानो युज्यत इति किमधिकेनात्मना परिकल्पितेन । उपादानोपादेयभावनियमादेव च न सन्तानान्तरे स्मरणादिप्रसङ्गः सङ्गतः । किमिदमुपादानमिति चेत् । उच्यते । यत्सन्ताननिवृत्त्या यदुत्पद्यते तत्तस्योपादानकारणम् । यथा मृत्सन्ताननिवृत्त्योत्पद्यमानस्य कुम्भस्य मृदुपादानमिति शास्त्रे प्रपञ्चितम् । न चात्र परलोकक्षतिः ॥

यदप्युक्तम् - चित्तशरीरयोः कियत्कालस्थितिनिबन्धनस्य दृष्टस्य निवृत्तौ चित्तस्यापि निवृत्तिप्रसङ्गः । मरणवेदनया हि चित्तं विकलम् । ततोऽविकला चित्तान्तरजननावस्था न संभवति । तस्मादुपस्थिते मरणदुःखे सर्वसंस्कारविरोधिनि चित्तमप्युच्छिद्येतेति नास्तिक्यमायातमिति । तदयुक्तम् । यतो मरणदुःखं चित्तविशेष एव, तस्य चित्तान्तरजननसामर्थ्यस्वभावस्य स्वभावादवार्यैव ज्ञानोत्पत्तिरिति । बन्धान्मोक्षोऽपि संसारिचित्त सबन्धादनाश्रवचित्तप्रबन्धो यः । शुभादिमोक्षयोरपि प्रवृत्तिरवार्या । यतः सत्यप्यात्मन्यहमेव मुक्तो भविष्यामि सुखी चेत्यात्मग्रहणक्षणादध्यवसायात्प्रवर्तते । न पुनरात्मना गलहस्तितः । स चानाद्यविद्यापरम्परायातः पूर्वापरयोरेकत्वारोपको मिथ्यासङ्कल्पो बाधितेऽप्यात्मन्यव्याहतप्रसर इति कथमप्रवृत्तिः । ननु

नैरात्म्यवादपक्षे (तु) पूर्वमेवावबुध्यते ।
मद्विनाशात्फलं न स्यान्मत्तोऽन्यस्याथवा भवेत् ॥ इति ।

अप्रवृत्तिरेवास्त्विति चेत् । अस्तु, को दोषः । यद्ययमात्मग्रहो निर्विषयोऽपि प्रवृत्तिमनाक्षिप्त क्षणमपि स्थातुं (न) प्रभवति । यथा हि जातस्यावश्यं मृत्युरिति (निबन्ध्१२८) ज्ञातवतोप्यप्रतिक्रियपुत्रादिमरणे सोरस्ताडमाक्रन्दो मरणादौ च यत्नः शोकोद्रेकातेवमविद्योद्रेकादेव नैरात्म्यं जानन्नपि प्रवर्तते, न सुखमास्त इति किमत्र क्रियताम्, अविद्यायाः प्रवर्तनशक्तेरवार्यत्वात् । प्रत्यभिज्ञा च पूर्वमेव ध्वस्ता । कार्यकारणभावनियता पश्चाद्भाविपूर्वभाविता । सा च क्षणिकेऽप्यविरुद्धा । उपादानोपादेयता च क्रमिस्वसंवेदनज्ञानद्वयेन साक्षात्कृता तत्पृष्ठभाविना निश्चीयत इति, असत्यप्यात्मनि प्रतिसन्धातरि कार्यकारणग्रहणादय उपपद्यमाना नात्मानमुपस्थापयितुं प्रभवन्ति । अतोऽर्थापत्तिरति न क्षमेति भाग्यहीनमनोराज्यमिव स्थिरसिद्धिर्विशीर्यत एव । तथा च क्षणभङ्गसन्देहे सत्त्वाद्यनुमानं प्राप्तावसरम् ॥

॥ स्थिरसिद्धिदूषणं समाप्तम् ॥


(निबन्ध्१२९)
॥ ९ ॥
॥ चित्राद्वैतप्रकाशवादः ॥

॥ नमस्तारायै ॥

दिगेषा स्वपराशेषप्रतिवादिप्रसाधनी ।
चित्राद्वैतमताबोधध्वान्तस्तोमकदर्थिनी ॥

इह खलु सकलजडपदार्थराशौ प्रत्याख्याते निराकृते च निराकारविज्ञानवादे प्रतिहते चालीकाकारयोगिनि पारमार्थिकप्रकाशमात्रे सम्यगुन्मूलिते च साकारविज्ञानालीकत्वसमारोपे प्रतिसन्तानं च स्वप्नवदबाधितदेहभोगप्रतिष्ठाद्याकारप्रकाशमात्रात्मके जगति व्यवस्थिते यस्य यदा यावदाकारचक्रप्रतिभासं यद्विज्ञानं परिस्फुरति तस्य तदा तावदाकारचक्रपरिकरितं तद्विज्ञानं चित्राद्वैतमिति स्थितिः । तदेवं चित्रमद्वैतं विज्ञानमिति पदत्रयमिह प्रत्युपस्थितम् ॥

अत्र च विप्रतिपत्तिर्नाम किं चित्रतायामद्वैते विज्ञानत्वे सर्वत्रैवेति विकल्पाः ॥

न तावदसौ चित्रस्वरूपानुसारिणी भवितुमर्हति, तन्मात्रस्य सर्वज्ञानुभवसिद्धत्वात्, अन्यथा शशविषाणादाविव जडमिदमलीकं विज्ञानं वेति विप्रतिपत्तीनामनवकाशप्रसङ्गात् । नापि विज्ञानत्वे विवादः कर्तुंमुचितः,

सहोपलम्भनियमाद्

इत्यादिना पूर्वमेव नीलादीनां साकारविज्ञानत्वप्रसाधनात् । अत एव सर्वत्रापि विमतिरसङ्गता, साकारविज्ञानसिद्धावेव चित्राद्वैतवादावतारात् । तस्माच्चित्रतेयमद्वैतविरोधिनीति व्यामोहादेकत्व एव विप्रतिप्रत्तिरिति तत्र प्रसाधनं साधनमिदमुच्यते ॥

यत्प्रकाशते तदेकम् । यथा चित्राकारचक्रमध्यवर्ती नीलाकारः । प्रकाशते चेदं गौरगान्धारमधुरसुरभिसुकुमारसातेतरादिविचित्राकारकदम्बकमिति स्वभावहेतुः ।

न तावदस्यासिद्धिरभिधातुं शक्यते, प्रत्यक्षप्रमाणप्रसिद्धसद्भावे विज्ञानात्मकनीलाद्याकारचक्रे धर्मिणि प्रकाशमानतायाः प्रत्यक्षसिद्धत्वात् । न चास्य (निबन्ध्१३०) हेतोर्विरुद्धता संभवति, विचित्राकारमध्यवर्तिनि नीलाकारे दृष्टान्तधर्मिणि प्रकाशमानतालक्षणस्य साधनस्य दृष्टत्वात् । ननु चैकत्वे साध्ये यदपरमेकत्वाधिकरणं तदिह दृष्टान्तीकर्तुमुचितम् । न चास्य नीलाकारस्य एकता विद्यते, विरुद्धधर्माध्यासप्रसिद्धस्यानेकत्वस्य संभवात् । देशकालाकारभेदो हि विरुद्धधर्माध्यासः । ततश्च यथा चित्रिताकारचक्रस्याकारभेदतो भेदस्तथा नीलाकारस्यापि देशभेदतो भेदः । तदयं साध्यशून्यो दृष्टान्तो हेतुश्च विपक्षे परिदृश्यमानो यदि तत्रैव नियतस्तदा विरुद्धः ॥

तत्रापि संभवेऽनैकान्त इति चेत् । अत्रोच्यते । यदि देशभेदतो विज्ञानात्मकस्थूलनीलाकारस्य भेदस्तदास्य प्रतिपरमाणुदेशभेदे भेदसंभवातु परमाणुप्रचयमात्रात्मको विज्ञानात्मकस्थूलनीलाकारः स्यात् । तथा च सति सर्वेषां विज्ञान(अ)त्मकनीलपरमाणूनां स्वस्वरूपनिमग्नत्वेन संतमसनिमग्नानेकपुरुषवत्व्यतिवेदनाभावात्स्थूलनीलाखण्डलकप्रतिभासाभावप्रसङ्गः सङ्गतः स्यात्, ग्राह्यग्राहकलक्षणयोः पुरस्तादपकर्तव्यत्वात् । न चैवं वक्तव्यं परमाणूनां स्वरूपनिमग्नत्वेऽप्येकोपादानतया पुञ्जात्मैव स्थूलः स्थूलमात्मानं ज्ञास्यतीति, सत्यप्येकोपादानत्वे स्वस्वरूपनिमग्नत्वादेव स्थूलव्यवस्थापकस्य भिन्नस्यात्मनोऽन्योन्यं वा ग्राह्यग्राहकभावस्यायोगात् । तादात्म्येन व्यतिवेदनस्य चानभ्युपगमात् ।

वर्गो वर्गं वेत्ति

इत्यस्यानुपदत्वात् । न च यथा बाह्यार्थवादे स्थूलैकाकारज्ञानप्रतिभास एव बाह्यपरमाणुप्रचयप्रतिभासव्यवस्था गत्यन्तराभावात्, तथा ज्ञानपरमाणुप्रचयव्यवस्था(पक) स्थूलैकाकारयोगिविज्ञानान्तरस्थानभ्युपगमात् । अभ्युपगमे वा तस्यैव दृष्टान्तत्वात् । तस्माद्यावद्यावत्प्रतिभासस्तावत्तावत्स्थूलतयैव व्याप्तः । अस्थूले परमाणौ स्थूलनिवृत्तिमात्रे च प्रतिभासस्य दृश्यानुपलम्भबाधितत्वात् । यथा प्रसिद्धानुमाने सत्त्वं क्षणिकत्वेन व्याप्तं क्रमाक्रमकारित्वेनापि, क्षणिकत्वाभावाच्च कर्माक्रमनिवृत्तौ निवर्तमानं क्षणिकत्वे नियतं सिध्यति, तथात्रापि प्रकाशमानत्वं साधनमेकत्वेनापि स्थौल्येनापि, एकत्वाभावाच्च विपक्षात्परमाणुपुञ्जात्मन एकत्वनिवृत्तिमात्रात्मनश्च स्वविरुद्धोपलम्भात्स्थौल्यस्य व्यापकस्य निवृत्तौ निवर्तमानमेकत्वं नियतं सिध्यति । ततश्च यथा बहिर्व्याप्तिपक्षे घटे दृष्टान्तधर्मिणि विपर्ययबाधकप्रमाणबलात्सत्त्वं क्षणिकत्वनियतमवधार्य सत्त्वात्पक्षे क्षणभङ्गसिद्धिः, त(था) त्रापि नीलाकारे दृष्टान्तधर्मिणि विपर्ययबाधकप्रमाणबलादेव प्रकाशमानत्वमेकत्वनियतमवगम्य प्रकाशमानत्वाद्विचित्राकारचक्रे साध्यधर्मिण्येकत्वसिद्धिरिति न दृष्टान्तस्य साध्यशून्यत्वम् । नापि हेतोर्विरुद्धता । न चानैकान्तिकता ॥

नन्वेकत्वे साध्ये तत्प्रच्युतिर्द्वित्वं च विपक्षः, तस्माच्च विपक्षाद्धेतुव्यतिरेकप्रतिपत्त्यवसरे किं विपक्षात्मा प्रकाशते न वा । प्रतिभासपक्षे प्रकाशमानत्वस्य (निबन्ध्१३१) हेतोः साधारणानैकान्तिकता, विपक्षेऽपि दृष्टत्वात् । अथ न प्रकाशते तदा सन्दिग्धव्यतिरेकित्वम्, कुतो व्यतिरेक इत्यवधेरेवाप्रकाशमानशरीरत्वात्कथमतः साध्यसिद्धिप्रत्याशा ।

अत्रोच्यते । इह द्विविधो विज्ञानानां विषयः ग्राह्योऽध्यवसेयश्च । प्रतिभासमानो ग्राह्यः । अगृहीतोऽपि प्रवृत्तिविषयोऽध्यवसेयः । तत्रासर्वज्ञेऽनुमातरिसकलविपक्षप्रतिभासाभावान्न ग्राह्यतया विपक्षो विषयो वक्तव्यः, सर्वानुमानोच्छेदप्रसङ्गात्, सर्वत्र सकलविपक्षप्रतिभासाभावात्ततो व्यतिरेकासिद्धेः । प्रतिभासे च देशकालस्वभावान्तरितसकलविपक्ष साक्षात्कारे साध्यात्मापि वराकः सुतरां प्रतीयत इत्यनुमानवैयर्थ्यम् । तस्मादप्रतिभासेऽप्यध्यवसायसिद्धादेव विपक्षाद्धूमादेर्व्यतिरेको निश्चितः । तत्किमर्थमत्र विपक्षप्रतिभासः प्रार्थ्यते । यदि पुनरस्याध्यवसायोऽपि न स्यात्तदा व्यतिरेको न निश्चीयत इति युक्तम्, प्रतिनियतविषयव्यवहाराभावात् ॥

नन्वस्मन्मते वस्त्ववस्त्वात्मकसकलविपक्षप्रतिपत्तिसंभवात्ततो हेतुव्यतिरेकः संप्रत्येतुं शक्यत एव । न च प्रतिभासमात्रेण सत्त्वप्रसङ्गः, अर्थक्रियाकारित्वलक्षणत्वात्सत्त्वस्य । त्वन्मते तु प्रकाश एव वस्तुत्वम् । अतो विपक्षयोरेकत्वप्रच्युतिर्द्वित्वयोः प्रतिभासे प्रकाशमानत्वसाधनस्य विपक्षसाधारणता । अप्रतिभासे चसन्दिग्धव्यतिरेकित्वमिति चोद्यं दुरुद्धरमेवेति चेत् । तदेतदसङ्गतम् । तथा हि धूमादिरवह्न्यादेर्विपक्षाद्व्यावृत्तो वह्न्यादिनियतः सिध्यति, तस्य च वस्त्ववस्त्वात्मकसकलविपक्षपदार्थराशेः स्वरूपनिर्भास इति किं निर्विकल्पकज्ञाने कल्पनायां वा । निर्विकल्पे चेत् । प्रतिभास इति च कोऽर्थः । किं निराकारे ज्ञाने सकलविपक्षादिस्वरूपस्य साक्षात्स्फुरणम्, यदि वा तदर्पितबुद्धिस्वभावभूतसदृशाकारप्रकाशः, अथ समनन्तरप्रत्ययबलायातबुद्धिगतबाह्यसदृशाकारप्रतिभासः, आहोस्विद्बुद्धेरात्मभूतविपक्षसदृशालीकाकारपरिस्फूर्तिः ।

न तावदाद्यः पक्षो युक्तः, देशकालस्वभावविप्रकृष्टानां पदार्थानामर्वाचीने जने निराकारे च ज्ञाने स्फुरणायोगादित्यस्यार्थस्य शास्त्रे एव विस्तरेण प्रसाधनात् । स्फुरणे चासाध्यस्यापि प्रकाशनप्रसङ्गेऽनुमानवैयर्थ्यस्य प्रतिपादनात् ।

नापि द्वितीयः पक्षः, देशादिविप्रकृष्टत्वादेव साक्षात्स्वाकारसमर्पणसामर्थ्याभावात् ।

न च तृतीयः सङ्गतः, सादृश्यसंभवेऽपि समनन्तरबलादेवायातस्य बाह्येन सह प्रत्यासत्तेरभावात् ।

न चतुर्थोऽपि प्रकार संभवति, असत्प्रकाशयोर्विरोधात्, स्फुरतोऽलोकत्वायोगात् । तथा ह्यसत्प्रकाश इति किमसदीश्वरादेः ख्यातिः, भासमानो वा आकारोऽसन्, सन् वा न कश्चित्ख्यातीति विवक्षितम् । तत्र यस्य पदार्थस्य स्वरूपपरिनिर्भासः स कथमसन्निति प्राणधारिभिरभिधातव्यः । स्फुरतः केशोण्डुकाकारस्य (निबन्ध्१३२) बाह्यरूपतया बाध्यत्वेऽपि ज्ञानरूपतयार्थत्वस्य आचार्येण प्रतिपादितत्वात्ग्राहकाभिमतनिराकारप्रकाशस्याप्यसत्त्वाभिधानप्रसङ्गात् ॥

प्रतिभासेऽपि बाधनादसत्यत्वमिति चेत् । किं तद्बाधकम्, प्रत्यक्षमनुमानं वा । यद्येकत्र स्वरूपसाक्षात्कारिणि प्रत्यक्षेऽविश्वासः कथमन्यत्र बाधके स्वरूपान्तरप्रकाश एव निर्वृत्तिस्तत्पूर्वकमनुमानं च सुतरामविश्वासभाजनमिति न बाधकवार्तापि । यदाहुर्गुरवः

यस्य स्वरूपनिर्भासस्तदेवासत्कथं भवेत् ।
बाधातो यदि साप्येका प्रत्यक्षानुमयोर्ननु ॥
प्रत्यक्षे यद्यविश्वासः एकत्रान्यत्र का गतिः ।
तत्पूर्वमनुमानं च कथमाश्वासगोचरः ॥ इति ।

ननु

दृष्टमेव द्विचन्द्रादिप्रतिभासेऽपि बाधितम् ।
न दृष्टेऽनुपपन्नत्वं तज्ज्ञातमपि बाध्यते ॥

इति चेत् । न । बाध्यस्याप्रतिभासनात् । प्रतिभासिनश्चाबाध्यत्वात् । तथा हि
बुद्ध्याकारस्य निर्भासो बाधा बाह्यस्य वस्तुनः ।
स्फूर्तावप्यविश्वासे क्व विश्वास इति कीर्तितम् ॥

एतेन भासमानो वा आकारोऽसन्निति द्वितीयोऽपि पक्षः प्रतिक्षिप्तः, प्रतिभासादेव सत्तासिद्धेर्बाधकाबकाशाभावात् ।

तथा सन् वा कश्चिन्न ख्यातीति तृतीयसङ्कल्पोऽपि व्याकुलः, प्रकाशव्याप्तत्वात्सत्तायाः । अप्रकाशस्यासत्तया ग्रस्तत्वात् ॥

ननु प्रकाशो नामः वस्तुनः सत्तासाधकं प्रमाणम् । न च प्रमाणनिवृत्तावर्थाभावः । अर्थक्रियाशक्तिस्तु सत्त्वम् । तच्चाप्रकाशस्यापि न विरुध्यत इति चेत् । सत्यमेतत् । बहिरर्थबादेऽप्रकाशस्यापि सामर्थ्याभ्युपगमात् । केशोण्डुकादिप्रतिभासेऽध्यवसितस्यार्थक्रियाशक्तिवियोगादेवाभावसिद्धेः । सर्वथा बहिरभावे तु ज्ञानस्य प्रकाशाव्यभिचारात्तावतैव सत्त्वे किमर्थक्रियया ।

कथमन्यहृदः सत्त्वं प्रकाशादेव नास्य चेत् ।
नार्थक्रियापि सर्वस्मै क्वचिच्चेद्भासनं न किम् ॥

इति । निर्विकल्पे तावत्स्वसंवेदनसिद्धस्वाकारमन्तरेण विपक्षादयो न परिस्फुरन्ति । अथामी विकल्पे प्रतिभासन्त इति द्वितीयः सङ्कल्पोऽभ्युपगम्यते, अस्मिन्नपि पक्षे प्रतिभासमान आकारोऽसाधारणोऽशब्दसंसृष्टतया स्वसंवेदनतादात्म्ये प्रविष्टत्वाद्वस्तुसन्नेव ।

अध्यवसेयतया विपक्षादयो गृह्यन्त इति चेत् । तदापि तेषां स्वरूपस्य निर्भासोऽस्ति न वा । निर्भासे प्रत्यक्षसिद्धतैव, नासत्ख्यातिः । शास्त्रेऽपि

(निबन्ध्१३३)
ऽस्वरूपसाक्षात्कारित्वमेव प्रत्यक्षत्वम्ऽ

उक्तम् । तस्य चेतरप्रत्यक्षेष्विव विकल्पेऽपि स्वीकारे विरुद्धव्याप्तोपलम्भेन विकल्पभ्रान्तत्वयोर्दूरमपास्तत्वाद्विकल्पेऽपि त्वन्मते प्रत्यक्षत्वमक्षतम् । तत्कथं तत्सिद्धस्य प्रत्यक्षान्तरानुमानाभ्यां बाधाभिधानम्, तयोरपि स्वरूपान्तरप्रकाशपौरुषत्वात् ॥

अथ विकल्पभ्रान्तत्वयोर्व्यापकविरुद्धयोः संभवात्विकल्पे प्रत्यक्षत्वमेवासंभवि । नन्वस्य प्रत्यक्षत्वमसंभवीति स्वरूपसाक्षात्कारित्वमसंभवीत्युक्तम् । अथ विपक्षादिरर्थोऽस्मिन् प्रकाशत इति वाचा स्वरूपसाक्षात्कारित्वं कथितमिति माता मे बन्ध्येति वृत्तान्तः । इष्यते च त्वया विपक्षादिस्वरूपसाक्षात्कारित्वं बिकल्पस्येति प्रत्यक्षतानतिक्रमः, अप्रत्यक्षत्वे वस्तुस्वरूपस्फुरणायोगात् । ततश्च तत्प्रतिभासिनोऽपि रूपस्य सत एव ख्यातिर्नासत्ख्यातिः । न च तदेव विकल्पे परिस्फुरद्रूपमसतामीश्वरादीनां स्वरूपम्, असत्त्वस्यैवाभावप्रसङ्गात् । स्वरूपस्फुरणेऽप्यसत्त्वेऽन्यत्रापि प्रकाशिन्यनाश्वासात् ।

ततो यत्साकारवादे जल्पितम्

नित्यादयः सन्त एव स्युः

इति तदात्मन एव पतितम् । यदाहुर्गुरवः

स्वरूपसाक्षात्करणादध्यक्षत्वं न चापरम् ।
विकल्पभ्रमभूमित्वमत एव हि बाधितम् ॥
यदि नाध्यक्षता तस्य रूपनिर्भास एव न ।
ततस्तदसदीशादि प्रतिभातीत्यसङ्गतम् ॥
यदि तु प्रतिभासेत रूपमस्य सदेव तत् ।
तदसत्प्रतिभातीति तच्च भात्यसदेव वः ॥

अथाध्यवसायेऽध्यवसेयस्वरूपस्य प्रतिभासो नास्तीत्युच्यते । न तदा कस्यचिदध्यवसायः । कथमतः प्रतिनियतवस्तुव्यवस्थासिद्धिः । किं च कोऽयमध्यवसायोनाम । किं व्यावृत्तिभेदपरिकल्पितस्य प्रकाशांशस्य, स्वाकारांशस्य, अलीकाकारस्य, बाह्यवस्तुनोऽवस्तुनो वा स्फुरणमध्यवसायार्थः । यदि वा स्वाकारे बाह्यारोपः, बाह्ये वा स्वाकारारोपः, स्वाकारबाह्ययोर्योजना, तयोरेकीकरणमेकप्रतिपत्तिरभेदेन प्रतिपत्तिः भेदाग्रहोऽध्यवसायार्थ इति विकल्पाः ।

तत्र न तावदादिमौ पक्षौ कल्पनामर्हतः । स्वरूपे सर्वस्यैव स्फुरणस्य निर्विकल्पत्वादवसायानुपपत्तिः । इतरथा निर्विकल्पकज्ञानाभावप्रसङ्गात् ।

अलीकस्फुरणं तु प्राक्प्रत्याख्यातम् ।सत्यपि स्फुरणेऽस्फुटत्वान्निर्विकल्पकमेतत् । द्विचन्द्रादिज्ञानवत् । अस्तु स्वग्राह्ये तन्निर्विकल्पकम्, बाह्ये तु अध्यवसेये (निबन्ध्१३४) अध्यवसाय इति चेत् । न तत्संबन्धाभावात, तदप्रतिभासाच्च । अन्यथातिप्रसङ्गादित्युक्तप्रायम् । बाह्यवस्तुस्वरूपस्फुरणे तु प्रत्यक्षप्रतिपत्तिरेवासाविति कोऽध्यवसायः । अवस्तुस्फुरणं पुनस्त्रिधा विकल्प्य प्रागेव प्रत्याख्यातम् ।

स्वाकारे तु बाह्यारोपो न संभवत्येव । तथा हि ज्ञानं केनचिदाकारेण सत्येनालीकेन वोपजातं नाम । बाह्यारोपस्तु तदाकारे तत्कृतोऽन्यकृतो वा स्यात् । तत्कृतत्वे न तावत्तत्काल एव व्यापारान्तरमनुभूयत इति कुतस्तदारोपः । कालान्तरे च स्वयमेवासत्कस्य व्यापारः स्यात् ।

द्वितीयपक्षे ज्ञानान्तरमपि नाकारारोपरागसङ्गिनीमुत्पत्तिमन्तरेण व्यापारान्तरेण क्वचित्किञ्चित्करं नाम । तदेतदर्वाचीनज्ञानसदृशाकारगोचरीकरणेऽपि न बाह्यारोपव्यापारमपरं स्पृशति तदाकारलेशानुकारमपहाय । न च शब्दामुखीकरणमतिरिक्तो व्यापारः, शब्दाकारस्यापि स्वरूप एवान्तर्भावादिति नाकारादन्यो ज्ञानव्यापारः । आरोप्यमाणश्चासावर्थो बाह्यः । तत्र बुद्धौ यदि स्वरूपेण स्फुरति सत्यप्रतीतिरेवासौ, क आरोपः । अथ न परिस्फुरति तथापि क आरोपः । स्फुरणे वा अधिकरणभूतस्वाकारातिरिक्तस्यारोप्यमाणाकारस्यापि प्रतिभासप्रसङ्गः ।

तदाकारस्फुरणमेव तस्य स्फुरणमिति चेत् । न । तस्यारोपविषयत्वात् । न हि मरीचिस्फुरणमेव जलस्फुरणमिति न स्वाकारे बाह्यारोपः । अत एव बाह्ये स्वाकारारोपो नास्ति, आरोपविषयस्य बाह्यस्यास्फुरणात् । तत एव स्वाकारबाह्ययोर्योजनाप्यसंभविनी, योग्ययोरप्रतिभासात् । न चैकीकरणमध्यवसायः । कोऽयमेकीकरणार्थः । यद्येकतापत्तौ प्रयोजकत्वं तदारोप्यारोपविषययोः कदाचिदेकीभावाभावादसंभव एव । न हि शशविषाणे कारणं किञ्चित् । न च पूर्वमनेकमेकतामेतीति क्षणिकवादिनः सांप्रतम् । अर्थान्तरोत्पत्तिमात्रं तु स्यात् । न च तदुपलब्धिगोचरोऽन्यत्रारोपविषयात्स्वाकारात् । न च तावताप्यर्थस्य किञ्चिदिति कथमेकीकरणम् ।

अथैकप्रतीतिरध्यवसायः । तथापि न द्वयोरेकप्रतिपत्तिरध्यवसेयानुभवाभावात् । न च द्वयोः प्रतीतिरित्येवाध्यवसायः नीलपीतवत् ।

न चाभेदेन प्रतीतिरध्यवसायः । यतः पर्युदासपक्षे ऐक्यप्रतीतिरुक्ता भवति । सा च प्रत्युक्ता, अध्यवसेयप्रतिपत्त्यभावात् । भेदेन प्रतीतिनिषेधमात्रेऽपि न बाह्यस्य प्रतीतिरुक्तेति कुतस्तदध्यवसायः । यदि हि बाह्यं प्रकाशेत एकत्वेनानेकत्वेन वा सता असता वा प्रतीतिरिति युक्तम् ।

सर्वाकारतत्स्वरूपतिरस्कारेण सा प्रतीतिरित्येकप्रतीतिरिति चेत् । तत्स्वरूपतिरस्कारे तर्हि तदप्रतिभासनमेव । कस्यचिदंशस्य प्रतिभासनादिति चेत् । न । निरंशत्वाद्वस्तुनः सर्वात्मना प्रतिभासोऽप्रतिभासो वेति शास्त्रमेवात्र विस्तरेण परीक्ष्यते ।

(निबन्ध्१३५)
न च भेदाग्रहोऽध्यवसायो वक्तव्यः । तथा हि किं बाह्ये गृह्यमाणेऽगृह्यमाणे वा । न च प्रथमः पक्षः, बाह्यग्रहणस्य प्रतिक्षिप्तत्वात् । ग्रहणे वाध्यवसायस्य प्रत्यक्षताप्रसङ्गात् । अगृह्यमाणे तु बाह्ये प्रवृत्तिनियमो न स्यात्, अन्येषामपि तदानीमग्रहणादन्यत्रापि प्रवृत्तिप्रसङ्गात् ।

त्रिलोचनोऽपीत्थमध्यवसायं दूषयति । कोऽयमध्यवसायः । किं ग्रहणम्, अहोस्वित्करणम्, उत योजना, अथ समारोपः । तत्र स्वाभासमनर्थमर्थ कथं गृह्णीयात्, कुर्याद्वा विकल्पः । न हि नीलं पीतं शक्यं ग्रहीतुं कर्तुं वा शिल्पकुशलेनापि । नाप्यगृहीतेन स्वलक्षणेन स्वाकारं योजयितुमर्हति विकल्पः । न च स्वलक्षणं विकल्पग्रहणगोचरः । न च स्वाकारमनर्थमर्थमारोपयति । न तावदगृहीतस्वाकारः शक्य आरोपयितुमिति तद्ग्रहणमेषितव्यम् । तत्र किं गृहीत्वा आरोपयति, अथ यदैव स्वाकारं गृह्णाति तदैवारोपयति । नाद्यः । न हि क्षणिकं विकल्पविज्ञानं क्रमवन्तौ ग्रहणसमारोपौ कर्तुमर्हति । उत्तरस्मिंस्तु कल्पेऽविकल्पस्वसंवेदनप्रत्यक्षाद्विकल्पाकारादहङ्कारास्पदादनहङ्कारास्पदः समारोप्यमाणो विकल्पेन स्वगोचरो न शक्योऽभिन्नः प्रतिपत्तुम् । नापि बाह्यस्वलक्षणकत्वेन शक्यः प्रतिपत्तुम्, विकल्पाकारे स्वलक्षणस्य बाह्यस्याप्रतिभासनादिति ।

बाचस्पतिरपि अध्यवसायं प्रतिक्षिपति । अनर्थं स्वाभासमर्थमध्यवस्यतीति निर्वचनीयमेतत् । नन्वयमारोपयतीति किं विकल्पस्य स्वरूपानुभव एवारोपः, उत व्यापारान्तरं स्वरूपानुभवात् । न तावत्पूर्वः कल्पः, अनुभवसमारोपयोर्विकल्पाविकल्परूपतया द्रवकठिनवत्तादात्म्यानुपपत्तेः । व्यापारान्तरत्वे तु क्रमः समानकालता वा । न तावत्क्रमः, क्षणिकस्य विज्ञानस्य क्रमवद्व्यापारायोगात् । अक्षणिकवादिनामपि बुद्धिकर्मणोर्विरम्य व्यापारानुपपत्तेः न क्रमवद्व्यापारसंभवः । अनुभवसमारोपौ समानकालाविति चेत् । भवतु समानकालत्वं केवलम् । आत्मा स्वभावस्थित एव वेद्यः, परभावेन वेदने स्वरूपवेदनानुपपत्तेः । तथा चात्मा ज्ञानस्य ग्राह्यग्राहकाकारोऽनुभूतोऽर्थश्च समारोपितः । न त्वात्मा वेद्यमानः समारोपितो नार्थः समारोप्यमाणः प्रत्यक्षवेद्यः । स च समारोपः सतोऽसतो वा ग्रहणमेव । न च ज्ञानातिरिक्तस्य ग्रहणं संभवतीत्युपपादितम् ।

स्वप्रतिभासस्य बाह्याद्भेदाग्रहो बाह्यसमारोपस्ततो बाह्ये वृत्तिरिति चेत् । स किं गृह्यमाणे बाह्ये न वा । न तावद्गृह्यमाणे । उक्तं ह्येतन्न तद्ग्रहणं संभवतीति । अगृह्यमाणे तु भेदाग्रहे न प्रवृत्तिनियमः स्यात्, अन्येषामपि तदानीमग्रहादन्यत्रापि प्रवृत्तिप्रसङ्गादिति । तस्माद्यथा यथायमध्यवसायश्चिन्त्यते तथा तथा विशीर्यत एव । तथा विकल्पारोपाभिमानग्रहनिश्चयादयोऽप्यध्यवसायवत्स्वाकारपर्यवसिता एव स्फुरन्तो बाह्यस्य वार्तामात्रमपि न (निबन्ध्१३६) जानन्तीत्यध्यवसायस्वभावा एव शब्दप्रवृत्तिमित्तभेदेऽपि तत्कथं युक्त्यागमबहिर्भूतोऽनात्मस्फुरणमाचक्षीत ।

नन्वेवं विकल्पादीनामसंभवे संभवेऽप्यनात्मप्रकाशकत्वानभ्युपगमे सर्वजनप्रसिद्धविधिप्रतिषेधव्यवहारोच्छेदप्रसङ्ग इति लोकविरोधः । विकल्प इत्यध्यवसायैत्यारोप इत्यभिमान इति ग्रह इति निश्चय इत्यादिकं शास्त्रे प्रतिपदं प्रतिपादितम्, तत्सिद्धं च बहिरर्थादिकमभ्युपगतमित्याचार्यविरोधः, न्यायविरोधश्च । तथा हि सवरेव प्रकारैरविपरीतस्वरूपसंवेदनाद्भ्रान्तेरत्यन्तमभावः स्यात् । ततश्च सर्वसत्त्वाः सदैव सम्यक्सम्बुद्धा भवेयुः ।

विकल्पिता बुद्धिर्भ्रान्तिः, स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायादिति चेत् । कथमवसीयमानस्तया सोऽर्थो न प्रकाशते । प्रकाशमानो वा कथमसौ तस्यां न प्रकाशते । अथ प्रकाशत एव, तदार्थस्य तादात्म्यप्रसङ्गः । असति चार्थे सारस्यातभून्मान्धाता, भविष्यति शङ्खोऽस्त्यात्मा, नित्यः शब्द इति सर्वात्मना च निश्चयः स्यात् । गौरिति स्पष्टेन च स्वेन लक्षणेन प्रकाशेत । स्वलक्षणे च सङ्केतायोगात्विकल्पिकैव सा बुद्धिर्न स्यात् । तस्मादशेषगोव्यक्तिसाधारणेन गोत्वेन गोबुद्धिरलीकेन साभिलापेन विप्लवात्प्रख्यातीति तथा प्रकाशनमस्या गवार्थावसाय इत्येष्टव्यम् । एवं ह्येते दोषा न स्युः, अप्रतिभासमानस्यापि स्वलक्षणस्य भ्रान्त्यावसायादिति ॥

अत्राभिधीयते । न तावल्लोकशास्त्रविरोधौ, अगृहीतेऽपि बाह्ये प्रवृत्तिनिवृत्त्यादिसमर्थनात्स्वपरवादिदुरतिक्रमाध्यवसायस्वरूपनिर्वचनात् । न्यायविरोधस्य तु गन्धोऽपि नास्ति ।

तथा हि का पुनरियं भ्रान्तिरसत्ख्यातिरतस्मिंस्तद्ग्रहो वा यदभावादिदानीमेव मुक्तिरासज्यते ।

न तावदाद्यः पक्षः, असत्ख्यातेः प्रत्याख्यानात् । यदाहुर्गुरवः

यस्य स्वरूपनिर्भासो बाधकाद्यदि तन्न सत् ।
बाधकेऽपि क आश्वासः स्वरूपान्तरभासिनि ॥
अन्यस्वरूपोपनयात्तत्स्वरूपनिवारणम् ।
तत्रापि संशयो जातः पूर्वबाधोपलब्धितः ॥
इयमेवाग्रहे बाधा नाद्यजस्यापरा यदि ।
अस्य पूर्वैव भवतु रूपनिर्भासनं समम् ॥
नान्या व भाविनीत्यत्र प्रमाणं किञ्चिदस्ति वः ।
अपि स्वरूपनिर्भासे यदा बाधकसंभवः ॥
(निबन्ध्१३७)
अनिर्भासे स्वरूपस्य हेतुशोधनविप्लवे ।
बाधशङ्काविनिर्भासेऽप्येवं चेद्विप्लवो महान् ॥ इति ॥

शास्त्रे च अतस्मिंस्तद्ग्रहात्स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायाद्दृश्यविकल्प्ययोरेकीकरणाद्भ्रान्तिरुक्ता । तामयं समर्थयितुमसमर्थः स्वातन्त्र्येणालीकस्फुरणं भ्रान्तिरिति काव्यं विरचय्य विस्तारयति ॥

नन्वतस्मिंस्तद्ग्रहोऽपि भ्रमः स्वाकारपर्यवसितज्ञानादतिरिक्तो बहुभिर्बहुधा विचार्यं प्रत्याख्यातः । तत्कथं तस्मिन्नपि पक्षे न भ्रान्तिक्षतिर्येनेदानीमेव मुक्तिप्रसङ्गो न स्यादिति चेत् । तदेतद्भगवतो भाष्यकारस्य मतविद्वेषविषव्याकुलविक्रोशितमतिकातरयति कृपापरवशधियः । तथा हि समनन्तरप्रत्ययबलायातस्वप्रतिभासविशेषवेदनमात्रादगृहीतेऽपि परत्र प्रवृत्त्याक्षेपोऽध्यवसायः । न चासौ पूर्वोक्तवाग्जालैः प्रतिहन्तुं शक्यः, सर्वप्राणभृतां प्रत्यात्मविदितत्वात्, कैश्चिदप्यनुद्भिन्नत्वात् । अयमेव च संसारस्तत्क्षयो मोक्ष इति क्वेदानीमेव तद्वार्तापि । तथा हि विचित्रानादिवासनावशात्प्रबोधकप्रत्ययविशेषापेक्षया विकल्पः केनचिदाकारेणोपजायमान एव बहिर्मुखप्रवृत्त्यनुकूलमर्थक्रियास्मरणाभिलाषादिप्रबन्धमाधत्ते । ततः पुरुषार्थक्रियार्थिनो बहिरर्थानुरूपाणि प्रवृत्तिनिवृत्त्यवधारणानि भवन्ति । पृथग्जनसन्तानज्ञानक्षणानां तादृशो हेतुफलभावस्य नियतत्वात् । अनिश्चितार्थसंबन्धविकल्पकालेऽपि सदसत्तानिर्णयादिप्रवृत्तिप्रसवः । तत्र यदुभयथा प्रवृत्तिसाधनसामर्थ्यमस्य स्वहेतुबलायातमयमेव प्रवृत्तिविषयत्वारोपोऽध्यवसायापरनामा । यथा चन्द्रादिज्ञानस्य भ्रान्तस्याभ्रान्तस्य वा तद्दर्शनावसायजननमेव ग्रहणव्यापारः ।

स्वविदपीयमर्थविदेव कार्यतो द्रष्टव्येति

न्यायात् । तथा विकल्पस्याप्यग्निरत्रेत्यादिनाकारेणोत्पद्यमानस्य प्रवृत्त्याक्षेपकत्वमेव बाह्यावसानं नाम । यथा च निर्विकल्पद्विचन्द्राद्याकारतैव तथावसायसाधनी, एवमवसायस्यापि तादृशाकारतैव विषयान्तरविमुखप्रवृत्तिसाधनी ॥

ननु तथा च तच्च तेन प्रतिपाद्यते न च तज्ज्ञाने तत्प्रकाशत इति शपथेनापि न संप्रत्यय इति चेत् । असंबद्धमेतत् । न ह्यध्यवसायाद्बाह्यस्य पटादेर्वस्तुनो बाधकावतारात्पूर्वसन्दिग्धवस्तुभावस्य क्षणिकादेरवस्तुनो वा शशविषाणादेरस्फुरणेऽपि सिद्धिप्रतिबन्धो ब्रह्मणापि प्रतिविधातुं शक्यः । द्विविधो हि विषयव्यवहारः, प्रतिभासादध्यवसायाच्च । तदिह प्रतिभासाभावेऽपि परापोढस्वलक्षणादेरध्यवसायमात्रेण विषयत्वमुक्तम्, सर्वथा निर्विषयत्वे प्रवृत्तिनिवृत्त्यादिसकलव्यवहारोच्छेदप्रसङ्गात् । ततश्च तेन च तत्प्रतिपाद्यते न च ज्ञाने तत्प्रकाश इति सङ्गतिरस्त्येव, प्रकाश्यप्रकाशकभावाभावेऽप्यध्यवसायाध्यवसायकभावेनापि विषयविषयिभावोपपत्तेः ।

(निबन्ध्१३८)
ननु यदि नाध्यवसेयप्रतीतिस्तदागृहीतेऽपि स्वलक्षणादौ प्रवृत्तिरिति सर्वत्राविशेषेण प्रसज्येत, सर्वत्रागृहीतत्वेन विशेषाभावात्, ततश्च प्राप्तिरपि नाभिमतस्य नियमेनेत्यनुमानमपि विप्लुतम् । अत्र ब्रूमः । यद्यध्यवसेयमगृहीतं विश्वमप्यगृहीतम्, तथापि नियतविषयैव प्रवृत्तिर्न सर्वत्र, तथाभूतसमनन्तरप्रत्ययबलायातनियताकारतया नियतशक्तित्वाद्विकल्पस्य । नियतशक्तयो भावा हि प्रमाणपरिनिष्ठितस्वभावाः, न शक्तिसाङ्कर्यपर्यनुयोगभाजः, असदुत्पत्तिवत्सर्वत्रासत्त्वेऽपि हि बीजादङ्कुरस्यैवोत्पत्तिः, तत्रैव तस्य शक्तेः प्रमाणेन निरूपणात् । तथेहापि हुतवहाकारस्य विकल्पस्य दाहपाकाद्यर्थक्रियार्थिनस्तत्स्मरणवतो हुतवहविषयायामेव प्रवृत्तौ सामर्थ्यं प्रमाणप्रतीतं कथमतिप्रसङ्गभागि । प्रत्यासत्तिचिन्तायां च तात्त्विकस्यापि वह्नेर्ज्वलद्भास्वराकारत्वं विकल्पोल्लिखितस्यापीति, तावता तत्रैव प्रवर्तनशक्तिर्ज्वलनविकल्पस्य न जलादौ ॥

ननु च सादृश्यारोपेण किं स्वाकारस्य बाह्ये स्वाकारे वा बाह्यस्यारोपः । उभयथाप्यसङ्गति, आरोप्यारोपविषययोः स्वाकारबाहययोर्द्वयोर्ग्रहणासंभवादिति चेत् । न वयमारोपेण प्रवृत्तिं ब्रूमः । किं तर्हि, स्ववासनापरिपाकवशादुपजायमानैव सा बुद्धिरपश्यन्त्यपि बाहयं बाहये प्रवृत्तिमातनोतीति विप्लुतैव संसारात्मिका च । यत्शास्त्रं

न ज्ञाने तुल्यमुत्पत्तितो धियः ।
तथाविधायाः

इति । तस्मान्न रूप्यादिवदारोपद्वारेण प्रवृत्तिरपि तु तथाविधाकारोत्पत्तिप्रतिबद्धशक्तिनियमात् । न च विचारकस्य वस्त्वदर्शननिश्चयादप्रवृत्तिः सङ्गच्छते । दर्शनेऽपि हि प्रवृत्तिरर्थक्रियार्थितया । अर्थक्रियाप्राप्तिश्च वस्तुसत्तानियमे । स च नियमो यथा दर्शनाद्वस्तुप्रतिबन्धकृतः, तथा विकल्पविशेषादपि पारम्पर्येण वस्तुप्रतिवस्तुप्रतिबन्धकृत इत्यदर्शनेऽपि अध्यवसायात्प्रवृत्तिर्युज्यत इति नानुमानमनवस्थितम् । एतेन तच्च न प्रतीयते, तेन चाभेदाभासनमित्युपालम्भोऽसंभवीत्युपदर्शितम्, अप्रतिभासेऽपि प्रवृत्तिविषयीकरणमित्यभेदादिनिष्ठाया दर्शितत्वात् । तस्मादविचाररमणीयोऽतस्मिंस्तद्ग्रह एव भ्रान्तिरारोपापरनामा, तत्क्षयश्च मोक्ष इति युक्तम् ।

यदाहुर्गुरवः

तस्मात्प्रवृत्तेराक्षेपे विकल्पाकारजन्मनि ।
मतो जलाद्यारोपोऽपि सत्यासत्यसमश्च सः ॥
ततो यद्यपि तत्त्वेन नारोपो नाम कस्यचित् ।
व्यवहारकृतस्त्वेष प्रतिषेद्धुं न शक्यते ॥
मरीचौ जलवद्यावदनात्मन्यात्मकल्पनम् ।
भ्रम एव हि संसारो निर्वाणं तत्त्वसंस्थितिः ॥
(निबन्ध्१३९)
ततश्च यावन्न विचारसंभवो भवोऽयमन्यः शम इत्ययं नयः ।
विचारलीलाललिते तु मानसे भवः शमो वा क इहेति कथ्यताम् ॥

तथा आर्यमैत्रेयनाथपादा अपि

न चान्तरं किंचन विद्यतेऽनयोः सदर्थवृत्त्या शमजन्मनोरिह ।
तथापि जन्मक्षयतो विधीयते शमस्य लाभः शुभकर्मकारिणाम् ॥

आर्यनागार्जुनपादाश्च

निर्वाणं च भवश्चैव द्वयमेव न विद्यते ।
परिज्ञानं भवस्यैव निर्वाणमिति कथ्यते ॥

इति सर्वैरेव प्रकाशैरविपरीतस्वरूपसंवेदनेऽपि भ्रान्तिव्यवस्थासंभवादस्ति संसारः ॥

यदप्युक्तं विकल्पस्याविषयश्च बाह्यं ग्रहणं चास्य शब्देन संयोज्येति विकल्पत्वमपि दुर्योजम्, आत्मनि च शब्दयोजना नास्तीति विकल्पो नाम नास्त्येव, तत्कस्य विकल्पचिन्तेति । अत्रभिधीयते । इहाग्निरत्रेत्यध्यवसायो यथा कायिकीं वृत्तिं प्रसूते तथाग्निर्मया प्रतीयत इति वाचिकीमपि प्रसूते, एतदाकारानुव्यवसायरूपां मानसीमपि प्रसवति । एवं च सति यथा विकल्पेनायमर्थो गृहीत इति निश्चयः, तथा शब्देन संयोज्य गृहीत इत्यपि, अर्थाकारलेशवच्छब्दाकारस्यापि स्फुरणात् । तस्मादर्थग्रहाभिमानवान्मानवस्तावदभिधानसंयुक्तग्रहणाभिमानवानपीत्यवसायानुरोधादेव विकल्पव्यवस्था न तत्त्वतः । यदाहुर्गुरवः

न शब्दैः संसर्गः क्वचिदपि बहिर्वा मनसि वा-
क्षराकाराकीर्णः स्फुरति पुनरर्थाकृतिलवः ।
उभावप्याकारौ यदपि धिय एवाध्यवसितिर्
विधत्ते तौ बाह्ये वचसि च विकल्पस्थितिरतः ॥
अभाने प्रतिभाने वा न चारोपोऽपि कस्यचित् ।
प्रतीत्योत्पादभेदेन व्यवस्थामात्रमीदृशम् ॥
निर्विकल्पाद्विकल्पस्य भावे लेशानुकारिणः ।
सङ्केतकारिवचनाद्बुद्ध्याकारे विशेषिणि ॥
(निबन्ध्१४०)
सङ्केतः कृत इत्यास्था तादृक्शब्दश्रुतौ पुनः ।
प्रवृत्त्याक्षेपबुद्ध्यात्मभावे वाच्यव्यवस्थितिः ॥

इति ।

तस्माद्वस्तु वा घटपटादि सन्दिग्धवस्तु वा साधकबाधकातिक्रान्तम्, अवस्तु वात्मदिक्कालाक्षणिकादिकमध्यवसितमिति, अप्रतिभासेऽपि प्रवृत्तिविषयीकृतमित्यर्थः । अयमेव चारोपैकीकरणाध्यवसायाभेदग्रहादीनामर्थः सर्वत्र शास्त्रे बोद्धव्यः । तस्मादध्यवसायस्याकारविशेषयोगादगृहीतेऽपि प्रवर्तनयोग्यता नाम यो धर्मस्तया बाह्याध्यवसाययोर्ग्राह्यग्राहकभावश्चेत्संवृत्त्या दुष्परिहरः, तदा विषयिविषयभावोऽपि लब्ध इत्यध्यवसायमात्रेण विषयविषयित्वमुक्तमिति युक्तम् । यदाह अलङ्कारकारः

कथं तद्विषयत्वं तत्र प्रवर्तनादिति ।

एतेन यदुक्तं कथमवसीयमानस्तयात्मार्थो न प्रकाश्यत इत्यादि, तन्निरस्तम्, तदप्रकाशेऽपि तदध्यवसायस्य व्यवस्थापितत्वात् । असति चार्थे सा न स्यादित्यप्ययुक्तम्, आत्मादेरध्यवसेयस्य प्रतिभासप्रतिक्षेपे बुद्ध्या सह तादात्म्याभावात् । न च सर्वाकारनिश्चयप्रसङ्गदोषः सङ्गतः । सर्वाकारनिश्चयो हि सर्वेष्वाकारेषु प्रवृत्तिकारकत्वात्मा निरुक्तः, न चैकाकारोल्लेखिनो विकल्पस्याकारान्तरे प्रवर्तनशक्तिरनुभवविषय इति कुतः शब्दप्रमाणान्तरानपेक्षेति युक्तम् । तत्र निर्विकल्पकं स्पष्टप्रतिभासत्वाद्ग्राहकं व्यवस्थाप्यते । विकल्पस्तु स्पष्टैकव्यावृत्त्युल्लेखादारोपकादिव्यवहारभाजनम् । यथा च बाह्ये सति क्वचिद्भ्रमव्यवस्था तथान्तर्नयेऽपि सर्वत्र । केवलं बहिर्मुखप्रवृत्यपेक्षया क्रियमाणो नात्मनि कश्चिद्भ्रम इत्युक्तं भवति । न च गोस्वलक्षणप्रकाशावकाशः, स्वाकारस्यैव स्फुरणात्, स्वलक्षणे च संकेतायोगात् । विकल्पिकैव न स्यादिति तु स्वरूपापेक्षया सिद्धसाधनम् । बाह्यापेक्षया त्वध्यवसायवद्विकल्पिकैव सा बुद्धिस्तथा । तस्मादशेषगोव्यक्तिसाधारणेन गोत्वेन गोबुद्धिरलीकेन साभिलापेन विप्लवात्प्रख्यातीति तथा प्रख्यानमस्या गवावसाय इत्येष्टव्यमित्यपि नेष्टव्यमेव, चरणमर्दनादिना प्रत्यवस्थानेऽपि युक्तिशास्त्रबहिर्भूतत्वादेतदभावेऽपि कथितदोषप्रध्वंसात् । न हि विकल्पबुद्धावलीकाकारस्फुरणमेव बाह्यस्याध्यबसाय इति काचिदर्थसङ्गतिः, अर्थस्येति संबन्धानुपपत्ते । बुद्धेरत्र क्रमाभावात्प्रत्यक्षतैव, कथमध्यवसायः । अप्रतिभासमानस्यापि स्वलक्षणस्य भ्रान्त्यावसायादिति तु न बुध्यामहे । अवसायेन हि तद्वितिस्पर्शे प्रतिभासः कोऽपरः । तद्वित्तावप्यस्पष्टत्वादध्यवसाय इत्यप्ययुक्तम्, तद्रूपवित्तावस्पष्टत्वस्यैवाभावात् ।

जातो नामाश्रयोऽन्योन्यश्चेतसां तस्य वस्तुनः ।
एकस्यैव कुतो रूपं भिन्नाकारावभासि यत् ॥

(निबन्ध्१४१)
इति आचार्यः स्मर्यताम् । न च तदासौ भ्रान्तिर्भवितुमर्हति, वस्तुस्वरूपस्यैव निर्भासात् ॥

अलीकवृत्तेरिति चेत् । सैवास्तु । बाह्यस्यास्फुरतोऽध्यवसायः कथम् । सैव स इति चेत् । अलीकमिदमिति विदुषो बाह्याध्यवसायव्यस्थाभावात्, बाह्यास्फुरणात्तदप्रतिबद्धत्वाच्च । प्रतिबन्धेऽपि तस्येपि स्यात्, न पुनस्तदध्यवसायः, तदस्फुरणस्फुरणयोरपि तदयोगादित्यलमतिनिर्बन्धेन । तदेवमप्रतिभासिनोऽपि विपक्षादध्यवसायमात्रसिद्धादेव व्यावृत्तो दोषत्रयनिर्मुक्तः प्रकाशमानतात्मको हेतुर्यावत्प्रकाशावधिज्ञानात्मकचित्राकारचक्रस्यैकत्वं साधयत्येव ॥

यदाहुर्गुरवः

भासते यत्तदेकं तद्यथा चित्रे सिताकृतिः ।
भासते चाखिलं चित्रं पीतशीतसुखादिकम् ॥
नात्रासिद्धिः प्रकाशस्य चित्रे धर्मिणि दर्शनात् ।
न च साध्यवियुक्तत्वं दृष्टान्तस्यापि दृश्यते ॥
एकैकाणुनिमग्नत्वात्संवित्तिर्न परस्परम् ।
न चैकाणुप्रकाशोऽस्ति स्थूलमेव स्फुरत्यतः ॥
बाह्याणूनां प्रतीभासो बुद्धिरेका स्थवीयसी ।
ज्ञानाणूनां क एकस्तु प्रतिभासो भविष्यति ॥
तस्मात्स्थूलतया व्याप्तो निर्भासस्तन्निवृत्तितः ।
निवर्तमानोऽनेकस्मादेकत्वे विनियम्यते ॥
यथा सजातीयमताद्भागाद्भेदनिराक्रिया ।
अनाभासप्रसङ्गेन विजातीयमतात्तथा ॥
तन्नास्तु साध्यो दृष्टान्तो न च शङ्काविपर्यये ।
अतो निर्दोषतो हेतोश्चित्राद्वैतव्यवस्थितिः ॥

संग्रहश्लोकश्च

एकत्वेन यथाप्तिमानभिमतो भासस्तथा व्याप्यते
स्थौल्येनाप्यणुशो न हि क्वचिदिदं स्वप्नेऽपि निर्भासनम् ।
तेन प्रत्यणुभेदनेत्युपरतं तद्व्यापकस्यात्ययाद्
एकत्वेन परीतमाकृतिचयश्चायं विनिर्भासते ॥

इति ॥

ननु चात्र दृष्टान्तदार्ष्टान्तिकयोरुभयमात्राप्येकत्वं प्रत्यक्षतोऽनुमानाच्च विरुद्धधर्माध्यासलक्षणात्प्रतिहतम्, तत्कथमनुमानादेकत्वसिद्धिरिति चेत् । उच्यते । यदेतत्प्रत्यक्षं भेदसाधकमुपनीयते, तत्किं नीलादीनामनात्मभूतमात्मभूतं (निबन्ध्१४२) वा । प्रथमपक्षे, आस्तां तावदेषामतो भेदसिद्धिः, सत्तामात्रमपि न सिध्येत् । स हि नीलादिकोऽर्थो जडो विज्ञानान्तरात्मालीकस्वभावो वा स्वीकर्तव्यः । त्रिष्वपि पक्षेषु प्रकाश्यप्रकाशकभावाभावः । तथा हि ज्ञानस्य प्रकाशकत्वं नाम किं विद्यमानत्वं व्यापारावेशो वा । प्रथमपक्षे सर्वसर्वदर्शित्वप्रसङ्गः, सर्वपुरुषज्ञानविद्यमानतायाः सर्वं प्रत्यविशिष्टत्वात् । तथा नीलादिभिरपि ज्ञानस्य ग्रहणप्रसङ्गः, तेषामपि विद्यमानत्वलक्षणग्राहकत्वसंभवात् ॥

अथ ज्ञानत्वे सति विद्यमानत्वमिति सविशेषणं लक्षणमुच्यते । तत्किं नीलादीनामज्ञानत्वे कोशपानमायुष्मता कर्तव्यम्, येन सत्तामात्रेण समसमयं स्फुरतोर्विज्ञाननीलाद्योः प्रतिज्ञामात्रादेकस्य जडत्वालीकत्वबाध्यत्वाप्रकाशत्वादि व्यवस्थाप्यते ।

अथ द्वितीयस्तदा स किं व्यापारः प्रत्यक्षस्यात्मा ज्ञानान्तरम्, अर्थस्यात्मार्थान्तरं वा स्यात् । प्रथमविकल्पे स्वात्मनि कारित्रविरोधः । द्वितीयपक्षे ज्ञानान्तरं यद्यन्यविषयमर्थस्य न किञ्चित् । तद्विषयत्वं चाद्यापि न सिद्धम्, तत्प्रत्यासत्तेरेव चिन्त्यमानत्वात् ॥

तृतीये पुनः सङ्कल्पे नीलादिकं कृतमेव स्यात्, न प्रकाशितम्, तैलवर्त्यादिभिरिव प्रदीपः । प्रकाशस्तु स्वयमेव । तथा च ज्ञानान्तरत्वात्सन्तानान्तरवदप्रतिभासप्रसङ्गः ।

चतुर्थे तु विकल्पे अर्थान्तरे कृते नीलादिकं तदवस्थमेव । न चानात्मप्रकाशनसामर्थ्यं ज्ञानस्य स्वीकर्तुमुचितम्, व्यापारवत्प्रकाशनस्याप्येवं निराकर्तव्यत्वात् । न चाग्निधूमयोः कार्यकारणभाव इव ज्ञानज्ञेययोरपि स्वाभाविको ग्राह्यग्राहकभावो वक्तव्यः, प्रमाणसिद्धकार्यकारणभाववद्ग्राह्यग्राहकस्वरूपयोरद्यापि निर्वक्तुमशक्यत्वादिति क्व नीलादिवार्तापि यद्भेदसिद्धिप्रत्याशा प्रत्यक्षतः सम्पद्यते ॥

अथात्मभूतं तत्प्रत्यक्षमिति द्वितीयः पक्षः, तदात्मस्वसंवेदनमेव भेदसाधकमभ्युपगतं भवेत् । तच्च यदि प्रत्याकारं भिन्नं तदा सर्वेषां स्वस्वरूपनिमग्नत्वाच्चित्रप्रकाशप्रणाशप्रसङ्ग इत्युक्तम् ।

अथैतद्दोषभयात्सर्वेषामाकाराणामेकत्वमेव स्वभावभूतं स्वसंवेदनमिष्यते, तदैतदेव चित्राद्वैतं विज्ञानमुच्यते, यदनेकाभिमतानां सहोपलब्धानां नीलसुखाद्याकाराणां स्वभावभूताखण्डस्वसंवेदनप्रत्यक्षं नाम । यदाहुर्गुरवः

भ्रमाभ्रमाकल्पनकल्पनानि, शातासितादीन्यखिलाक्षजानि ।
ज्ञानान्यभिन्नानि सहोपलब्धेः, पूर्वापरत्वं तु न वेद्यमेव ॥ इति ।

(निबन्ध्१४३)
तदेवं दृष्टान्तदार्ष्टान्तिकयोरुभयत्रापि स्वसंवेदनप्रत्यक्षसिद्धमेकत्वमविद्यावशाद्विप्रतिपत्तौ सत्यामनुमानतः साध्यते । अत एव स्वसंवेदनप्रत्यक्षादनुमानाच्च एकत्वसिद्धौ न प्रत्यक्षान्तरम् । नापि विरुद्धधर्माध्यासलक्षणमनुमानं भेदसाधनाय प्राप्तावसरम्, भेदग्राहकस्य भिन्नस्य प्रत्यक्षस्योक्तक्रमेणाप्रामाण्यात्, पक्षस्य प्रत्यक्षादिबाधितत्वात् ।

ननु ब्रूयान्नाम किञ्चित्, तथापि प्रतिभासभेदाद्भेद एव, न हि दृष्टेऽनुपपन्नं नामेति चेत् । हन्त १ प्रतिभासशब्देन किमभिप्रेतम्, किमाकारचक्रं स्फुरणं वा । तत्र यदि प्रथमः पक्षः, तदा बाह्येऽर्थे प्रत्येतव्ये बुद्ध्याकारः प्रमाणम् । तथाचाकारभेदो व्यवहर्तव्य एव । अन्यथा बाह्यभेदो न सिध्येत् । यदा पुनराकारचक्रमेव प्रमेयं स्वसंवेदनं च प्रमाणं तदा तेनैव नीलादीनां स्वभावभूतेनाखण्डात्मना एकीकृतानां कथमप्रमादी भेदमाचक्षीत ।

द्वितीयपक्षे तु स्फुरणं स्वभावभूताखण्डस्वसंवेदनमेवोक्तमिति । तथापि कथं भेदस्तस्माद्यथोर्ध्वमिन्द्रियप्रत्यक्षतः क्षणभेदे प्रतीतेऽप्यविद्यावशादेकत्वाध्यवसायः तथा तिर्यक्स्वसंवेदनप्रत्यक्षेणाकाराभेदेऽधिगतेऽप्यविद्यावशादेव भेदावसायः ॥

यद्येवं विरुद्धधर्माध्यासतो विज्ञानाकारचक्रवद्व्याप्तोऽपि न भिद्येतेति चेत् । न, बाह्ये धर्मिण्यनेकत्वस्य साध्यस्य प्रत्यक्षाद्यबाधितत्वात् । बुद्ध्याकारकदम्बके तूक्तक्रमेण स्वसंवेदनादिसिद्धैकत्वेऽनेकत्वस्य प्रत्याख्यानाद्बाधकावतार एव नास्ति । तस्माद्विज्ञानत्वे सतीति हेतुविशेषणं कर्तव्यं येन बाह्यस्यैव भेदः सिध्यति ॥

ननु यदि विज्ञानात्मकं विचित्राकारचक्रमेकं तदा नीलाकार एव पीताद्याकारवृन्दं प्रविशेत् । तथा प्रकाशाकारचक्रयोरभेदो व्यक्तिसामान्यवत्प्रकाश एव, आकारचक्रमेव वा स्यादिति चेत् । असदेतत् । तथा हि द्वयोरप्यनयोः प्रसङ्गविपर्यययोः भेदः, स च बाह्यार्थवाद एव युज्यते, तत्र भेदग्राहकस्येन्द्रियप्रत्यक्षस्येष्टत्वात् । विज्ञानवादे त्वनात्मप्रकाशाभावात्स्वसंवेदनमेवैकं प्रमाणम् । ततोऽपि विपर्ययस्य भेदस्य सिद्धेः प्रसङ्गोऽप्यसङ्गतः इत्यद्वैतमेव ।

किं च एवं स्थूलनीलाद्याकारोऽपि परमाणुमात्रे प्रविशेदित्यप्रतिभासंजगदापद्येत । अस्ति च प्रतिभासः । तस्माद्यथावस्थितानामेवाकाराणामखण्डस्वसंवेदनात्मतैवैकत्वम्, न भेदो न संकोचः स्वीकर्तव्योऽप्रतिभासप्रसङ्गात् । तथा कृतकत्वस्यानित्यत्ववस्तुत्वादिभिरभेदे कृतकत्वमेवानित्यत्वमेव वा स्यादित्यपि प्रसङ्गो वक्तव्य आपद्येत, सामान्यव्यक्त्योरिव तयोर्वस्तुतोऽभेदोऽखण्डात्मत्वात् ॥

व्यावृत्तिभेद एव परमिति चेत् । यद्येवं प्रकाशनीलाद्योरप्ययमेव क्रमो जागर्तीत्येकावशेषप्रसङ्गो बालप्रलापः । तदेवं

(निबन्ध्१४४)
बाह्यं न नश्यति भिदाणुतयापि सत्त्वादर्थक्त्रियाविरहसंकरतात्मभेदे ।
बुद्धिस्तु नश्यति भिदैव विदैव सत्त्वाच्चित्राप्यतो न भिदमेति किमत्र कुर्मः ॥
ननु देशवितानाप्तिर्नात्मान्तरवियोगिनः ।
देशवितानहानौ न भास इत्यपि शक्यते ॥

इति चेत् ।

न स्वात्मान्तरमन्यात्मा स बाह्यस्यैव युज्यते ।
बुद्धेः स्ववित्तिनिष्ठायाः यः परस्तस्य का गतिः ॥

हन्त तथापि

नीलादिवत्तदेकं च कथमेतत्समेतु चेत् ।
नीलमंशान्तरं चैकं कथं तद्भाति सङ्गतम् ॥
नेष्टं तदपि चेत्तर्हि क्वाण्वन्तर्भिदि भासनम् ।
न परीक्षाक्षमं चाणुः कुतस्तस्य तदा भिदा ॥
मा भूदवस्तुभावाच्चेत्सोऽप्येकत्वहतौ भवेत् ।
निर्भासादेकतासिद्धौ स्ववित्तेर्वस्तुता स्थिता ॥
न प्रतीत्यसमुत्पादोऽनुत्पादो वास्य बाधकः ।
एकानेकवियोगेऽपि स्फूर्तिमात्रेण सत्त्वतः ॥
किं च पूर्वापरज्ञानमद्वैते यन्न विद्यते ।
प्रतीत्योत्पन्नता तस्मादसिद्धेरप्यसाधनम् ॥
अनुत्पादोऽप्यनेकान्तोऽकार्यकारणरूपकम् ।
हानेऽपि हेतुफलयोः स्फुरद्रूपं क्व गच्छतु ॥
एकानेकतया वस्तुव्याप्तिः सिद्धा यदि क्वचित् ।
सर्वशून्यत्वसमये हेतुरिष्टविघातकृत् ॥
अथ लोकप्र(सि)द्धौ च न सर्वलोककल्पितम् ।
वस्तुव्यवस्था शरणं किं तु मानेन सङ्गतम् ॥
न चाध्यक्षानुमानाभ्यामनङ्गं क्वचिदीक्षितम् ।
यस्य राशिरनेकं स्यान्नापि वस्तु च किञ्चिन ॥
यस्य चैकतरत्वाभ्यां सत्त्वव्याप्तिः स हन्यताम् ।
अभ्रान्तवित्तिमात्रेण सत्तावादी तु जित्वरः ॥

॥ समाप्तश्चित्राद्वैतप्रकाशवादोऽयम् ॥

ग्राहयं न तस्य ग्रहणं (न) तेन ज्ञानान्तरग्राहयतापि शून्यः ।
तथापि च ज्ञानमयः प्रकाशः प्रत्यक्षपक्षस्तु तवाविरासीत् ॥

(निबन्ध्१४५)

॥ १० ॥
॥ सन्तानान्तरदूषणम् ॥

अथेह प्रकाशसहोपलम्भादिसाधनबलेन जडपदार्थराशावपास्ते नीलपीताद्यशेषपदार्थजाते च स्वचित्तप्रतिभासात्मनि स्वप्नमायादिवदद्वयरूपे सिद्धे सन्तानान्तरसदसत्तानिरूपणार्थमिदमारभ्यते ।

एवं हि केचिदाहुः । अस्त्येव सन्तानान्तरमनुमानप्रतीतम् । तथा हीच्छाचित्तसमनन्तरव्याहारव्यवहाराभासस्य दर्शनात्तदभावे चादर्शनादुपलम्भानुपलम्भसाधनमन्वयव्यतिरेकशरीरमिच्छाचित्तेन सह व्याहाराद्याभासस्य कार्यकारणभावमात्मसन्तानेऽवधार्येच्छाचित्तस्याप्रतिसंवेदनसमयेऽपि विच्छिन्नव्याहाराद्याभासदर्शनात्तत्कारणभूतमिच्छाचित्तमनुमीयमानं सन्तानान्तरमेव व्यवतिष्ठत इति ।

अत्रेदमालोच्यते । तदिच्छाचित्तं व्याहाराद्याभासस्य कारणतया व्यवस्थाप्यमानमनुमातुर्दर्शनयोग्यमथ दृश्यादृश्यविशेषणानपेक्षमिच्छामात्रम् । यदितावदाद्योविकल्पस्तदानुमातुर्दर्शनयोग्यत्वादिच्छाचित्तस्यानुमानकालेऽनुपलब्धिरभावमेव गमयतीत्यनुपलम्भाख्यप्रत्यक्षबाधितत्वात्क्वानुमानावकाशस्तस्य । यदि पुनरिच्छाचित्तमनुमानकालेऽप्यनुभूयेत, तदा किमस्यानुमानेन । अथैवमग्निधूमयोस्तदुत्पत्तिसिद्ध्यनन्तरं नगनिकुञ्जे धूममुपलभमानो नाग्निमप्यनुमिनुयात्, तत्राप्यग्नेरनुपलब्धिबाधितत्वात्, उपलम्भे चानुमानवैफल्यात् । नैवम्, अनुमानसमये देशविप्रकर्षवतो वह्नेर्दर्शनायोग्यत्वेन दृश्यानुपलब्धिविरहात्, अदृश्यानुपलम्भस्य चाभावसाधनत्वविरोधात् । इच्छाचित्तस्य तु नास्ति देशविप्रकर्षः । इच्छाचित्तं हि स्वसंबद्धमेवानुमातुर्दर्शनयोग्यम्, तस्य च देशादिविप्रकर्ष इत्यलौकिकमेतत् ।
अथ द्वितीयो विकल्पः । तथा हीच्छाचित्तमात्रं स्वपरसन्तानसाधारणदृश्यादृश्यविशेषणानपेक्षं व्याहाराद्याभासं प्रति कारणतयावधार्यते । तदवधारणं केन प्रमाणेन । व्याहाराद्याभासस्य हीच्छामात्राभावेऽभावं प्रतीत्य तदुत्पत्तिसिद्धिगवेषणा । न चेच्छामात्रस्य स्वपरसन्तानसाधारणस्य स्वसंवेदनेनान्येन वाभावः शक्यावगमः । यथा हि वह्निमात्रस्य देशकालव्यवहितस्यापि धूमोत्पाददेशकालयोर्यदि स्यादुपलभ्येतैव मयेति संभावितस्यानुमातृपुरुषेन्द्रियप्रत्यक्षेण (निबन्ध्१४६) धूमोत्पादात्प्रागभावेऽवधार्यमाणस्तदुत्पत्तिसिद्धिमध्यासयतीति व्यवहितदेशकालस्यापि वह्नेर्धूममात्रं प्रति कारणत्वावधारणम्, स्वभावविप्रकृष्टस्य तु जठरभवादिसाधारणस्य सर्वथानुमातृपुरुषाशक्याभावप्रतीतिकस्य व्याप्तिबहिर्भाव एव । तथात्रापीच्छाचित्तं परसन्तानसाधारणमपि यावद्यदीय स्यादुपलभ्येतैव मयेति यदि संभावयितुं शक्येत तदा तद्व्यतिरेकसिद्धिद्वारेण कारणतयावधार्यते । केवलं स्वभावविप्रकृष्टे चित्तमात्रेऽस्तमितेयं कथेति ॥

न च परचित्तं कालविप्रकृष्टं वर्तमानत्वादस्य, अतीतानागतयोरेव कालविप्रकृष्टत्वेन व्यवहारात् ।

नापि देशविप्रकृष्टम्, यस्मिन्नेव हि शुक्लशङ्खादिदेशे स्वचित्तं शुक्लाकारप्रतिभासि स्वसंवेदनेन वेद्यते तद्देशवर्त्येव पीताकारप्रतिभासि परसन्तानभावि चित्तं न वेद्यते । तत्कथमेष देशविप्रकर्षः ॥

अथेच्छाचित्तमात्रं स्वसंवेदनमात्रापेक्षया न स्वभावविप्रकृष्टम् । न ह्यग्निरप्येको येनैवेन्द्रियविज्ञानेन दृश्यते तेनैवान्योऽपि दृश्यम् । तत्र यथा चक्षुर्विज्ञानमात्रापेक्षया अग्निमात्रं दृश्यमिति व्यवस्थाप्यते तथात्रापि स्वसंवेदनमात्रापेक्षया इच्छाचित्तमात्रं स्वपरसन्तानसाधारणमपि दृश्यमेवेति ।

अत्रोच्यते । किमत्र मात्रशब्देनानुमातृपुरुषसंबन्धासंबन्धाभ्यामविशेषितं यस्य कस्यचित्पुरुषस्येन्द्रियज्ञानं वस्तुविषयीकुर्वाणमस्य दृश्यतासंभवेऽपिनानिमितमभिमतम् । यद्येवं पिशाचादिरपि दृश्यः स्यात् । सोऽपि हि कस्यचित्पुंसो योग्यादेः स्वजातीयस्य वा पिशाचान्तरस्य भवत्येवेन्द्रियज्ञानगोचर इति न कश्चित्स्वभावविप्रकृष्टः स्यात् । तस्मादनुमातृपुरुषसंबन्धित्वमनपास्य विज्ञानस्य स्वलक्षणादिभेदनिरासपर एव मात्रशब्दो युक्तः । एतदेवाशङ्कय धर्मोत्तरेणाभिहितम् -

एकप्रतिपत्त्रपेक्षं चेदं प्रत्यक्षलक्षणम् ।

इत्यादि । तेनैवं दृश्यतासंभावना यदीह देशे काले वा स्याद्घटादिर्नियमेनोपलभ्येत, मदीयस्य चक्षुर्विज्ञानमात्रस्य विषयीभवेदिति । परचित्ते तु न शक्यमेवम् । यदीह परचित्तं स्यात्नियमेन मदीयस्य स्वसंवेद(न) मात्रस्य विषयि स्यादिति ॥

यदि चेच्छाचित्तमात्रं तदुत्पत्तिग्रहणसमये दृश्यतया संभावयितव्यम्, तदानुमानकालेऽपि दृश्यतया संभाव्य तदनुपलम्भेनाभावसाधने कथमनुमानं प्रवर्तयितुमिदमारब्धम्, प्रत्यक्षेणैव पक्षबाधात् । न च कालभेदेन स्वभावविप्रकर्षेतराविति यत्किञ्चिदेतत् । तस्मादिच्छाचित्तमात्रस्य स्वपरसन्तानसाधारणस्य दृश्यतया संभावयितुमशक्यत्वात्व्यहाराद्युत्पादात्प्रागनुपलम्भेऽप्यभावसिद्धौ न तदभावप्रयुक्तो व्याहाराद्यभावः प्रतीयत इति कथं कारणत्वसिद्धिर्यतः कार्यहेतुद्वारेणानुमीयेत । इच्छाचित्तविशेषस्तु स्वसन्तानभावी न भवत्येवानुमातुर्दृश्यः । किं तु तस्य दृश्यानुपलम्भाज्जिज्ञासितविशेषे धर्मिणि बाधितस्य कथमनुमानमित्युक्तमेव ॥

(निबन्ध्१४७)
तदेवमिच्छाचित्तविशेषे स्वसन्तानभाविनि साध्ये पक्षस्य प्रत्यक्षबाधः, इच्छाचित्तमात्रेऽपि स्वपरसन्तानसाधारणे साध्ये यद्यनुपलम्भमात्रेण दृश्य विशेषणानपेक्षेण प्रतिबन्धसिद्धिसमये तस्याभावः प्रतीयते, तदा पक्षीकृते धर्मिणि तथेति स एव दोषः । अथ न प्रतीयते तदा सन्दिग्धव्यतिरेको हेत्वाभासो व्याहारादिरिति स्थितम् ।

एवं तर्हि सन्तानान्तरसाधकस्याभावाद्बाधकस्यापि कस्यचिददर्शनाद्भवतु तत्र सन्देह एवेति केचित् । तैरिदं बाधकमभिधीयमानमवधीयताम् । यदि हि सन्तानान्तरं संभवेत्तदा ततो भेदेन स्वसन्तानस्यावश्यं भवितव्यम् । अन्यथा स्वसन्तानादपि प्रकाशमानात्तस्य परसन्तानाभिमतस्य भेदो न स्यात् । न चाभेदस्तयोरिति स्वसन्तानाद्भेदाभेदाभ्यामबाध्यस्य परसन्तानस्य सामान्यशशविषाणादिवदभाव एवायात इति कथं सन्देहः । तस्मात्परसन्तानापेक्षया स्वसन्तानस्य भेदोऽप्यवश्यम्भाव्यः । स च भेदः सन्तानस्य स्वभावः स्वसन्ताने प्रतिभासमाने नियमेन प्रतिभासेत । कथमपरथा प्रतिभानाप्रतिभानलक्षणविरुद्धधर्माध्यासेऽपि स्वसन्तानस्य परसन्तानाद्भेदः स्वभावतामासादयेत् ॥

न चासौ भेदः प्रतिभासते । भेदप्रतिभासे हि उपगम्यमाने तदवधिभूतस्यापि परसन्तानस्य प्रतिभासो दुरपह्नवः स्यात् ।

अस्माद्भिन्नमितीदं चेत्स्वरूपं स्वस्य चेतसः ।
सावधेरस्य भासः स्यान्न वा ग्राह्यं तदात्मना ॥

भेदेऽन्यलेशमपि नैति कुतो भिन्नः ।

एवमादिकमशेषमिह प्रवचनप्रदीपश्रीसाकारसङ्ग्रहादिवचनमनुस्मर्यताम् ।

यथा हि स्वसन्तानमात्रे परिस्फुरति शशविषाणादस्फुरतो न भेदः प्रतिभाति तथा परसन्तानादपि स्फुरणविरहिणो न भात्येव भेदः । न हि परसन्तानापेक्षया कश्चिद्विशेषलेशः स्वसन्तानस्य परिस्फुरति यो नास्ति शशविषाणापेक्षया । न च शशविषाणपरसन्तानावपेक्ष्य समाने स्वसन्तानप्रतिभासे शशविषाणापेक्षया न भेदो नाप्यभेदः प्रतिभाति । परसन्तानापेक्षया तु भेद एव भातीत्येवमवस्थापयितुं शक्यम् ।

भेदाभेदयोरभावपरिहारेण हि यथा भेदो व्यवस्थितः तद्वद्भेदप्रतिभासोऽपि भेदाभेदाभावप्रतिभासविलक्षण एवोचितो भवितुम्, न च तथानुभूयते । तथापि भेदः प्रतिभातीति वचनरचनमेतत् । भाष्यकारन्यायोऽप्यत्र भेदप्रतिभासदूषणे विस्तरतोऽवगन्तव्यः ॥

(निबन्ध्१४८)
यदि चावधिप्रतिभासविरहेऽपि भेदप्रतिभानमिदं परचित्तानु(कम्पया) क्षमितव्यं (तर्हि) बहिरर्थस्यापि कथमभावः सिध्यति । शक्यं हि तत्रापि सन्देहमवतारयितुम्, न बहिरर्थः कस्यचिदाभासते, परसन्तानस्तु परस्य प्रतिभासत एव, ततश्चात्रैव सन्देहो न बहिरर्थ इति चेत् । एतदपि सकलं सन्दिग्धमेव । न ह्यवश्यं परसन्तानः परस्याभासते, कदाचिदसौ नास्त्येव न चासाववभासत इत्यपि वक्तुं शक्तेः ।

किं च मा नाम भासीष्ट बहिरर्थः कस्यचिदपि तथापि कथं तदभावसिद्धिर्भेदप्रतिभासाभ्युपगमवादिन इतीयन्मात्रमिह विवक्षितम् । न चात्र कश्चिद्दोषः । तस्माद्बहिरर्थेन साधारणं सन्तानान्तरमिति कथं विज्ञप्तिवादिनामपि संमतं भविष्यति । किं च कार्यकारणभावोऽपि विज्ञानद्वयस्य भेदप्रतिभासवादिना बाधितुमशक्यः । पूर्वभाविनी हि संवित्तिः परसंवित्त्यपेक्षया भेदं पूर्वत्वं चात्मनो गृह्णात्येवावधिप्रतिभासविगमेऽपि ॥

परभाविन्यपि संवित्तिः पूर्वसंवित्त्यपेक्षया भेदं परत्वं चात्मनोऽधिगच्छत्येव सन्तानान्तरवदिति नियतपूर्वापरभावलक्षणे कार्यकारणभावेऽवभासमानेऽवसीयमाने च नीलादिचित्राकारवत्कथम्

संवृत्त्यास्तु यथा तथा

इति भगवतो वार्तिककारस्य वचनेन फलितमत्र मते । अपि च चित्राकारचक्रे धर्मिण्यद्वैतसाधनार्थमुपन्यस्तस्य प्रकाशमानत्वादिहेतोर्भेदग्राहकप्रत्यक्षापहृतविषयत्वमुद्भावयतः प्रतिवादिनो भेदग्रहणमनुमन्यमानेन सन्तानान्तरसन्देहं च विना कथमुत्तरितव्यं भवता ॥

नन्वेवमपि सन्तानान्तराभावः केन प्रमाणेन सिद्धः । न तावत्प्रत्यक्षेण, तस्य विधिविषयस्य प्रतिषेधसाधनातधिकारात् । नाप्यनुमानेन, तस्य दृश्याभावसाधननियतस्यातीन्द्रियपरचित्ताभावसाधनेऽनवतारादिति चेत् । अत्र ब्रूमः । सन्तानान्तरसंभवे नियतभावः ततओ भेदः स्वचित्तस्य । अभेदे स्वसन्तानात्परसन्तान एव स्यात् । यथा च यदुपलभ्यमानं येनं रूपेण न भासते न तत्तेन रूपेण सद्व्यवहारयोग्यं यथा नीलं पीतरूपेण । नोपलभ्यते च स्वचित्तमुपलभ्यमानं परसन्तानाद्भिन्ने(न)रूपेणेति भेदस्य स्वचित्ततादात्म्यनिषेधे दृश्यविशेषणप्रयोगानपेक्षा स्वभावानुपलब्धिरियम् ॥

नाप्यसिद्धिः, भेदप्रतिभासे तदवधेरपि प्रतिभासप्राप्तेः । अवध्यप्रतिभासे तु भेदप्रतिभासाभावः शशविषाणभेदप्रतिभासाभाववत्सिद्ध एव । एवमनेन प्रमाणेन सन्तानान्तरस्य स्वचित्तापेक्षया भेदे प्रतिक्षिप्ते अभेदे च स्वयमेवासंभविनि भेदाभेदाभ्यामवाच्यत्वं सिद्धम् । सामान्यादिवद्वस्तुतापहतिरिति, कथं (निबन्ध्१४९) बाधकाभावात्सन्तानान्तरे सन्देहोऽभिधीयते । एतच्च शास्त्रीयप्रमेयस्मारणमात्रफलं किञ्चिल्लिखितमिति । परमिह स्वयमनुसन्धेयम् ।

अपि च सन्तानान्तरे तावदर्वाग्दृशां सन्देहो भवद्भिरनुमन्यते । भगवतस्तु किमवस्थाप्यताम् । संदेहावस्थापने कथं सर्वज्ञता । विद्यमानमेव कदाचित्सन्तानान्तरं भगवता नावधार्यते तथाप्यसौ सर्वज्ञ इति कथमेतत् । अनुमानं च सन्तानान्तरविषयं प्रागेव चिन्तितम् । न चानुमानेन प्रतीतावपि सर्वज्ञता भवितुमर्हति । प्रत्यक्षेण परचित्तप्रतीतौ ग्राह्यग्राहकभावोऽपि परचित्तस्य भगवच्चित्तेन सहायात इति बहिरर्थवाद एव मुखान्तरेणोपगतः स्यात्, कथमयं वञ्चयति वादः ॥

अस्मदीयमतेन तु परचित्तं नास्त्येवेति तदवधारणकृतो(न) भगवतः सर्वज्ञताक्षतिदोषः । यावच्च भेदग्रहणाभिमानरूपा संवृस्त्तितावत्सन्तानान्तरे सन्देहात्तदवबोधनार्थं वचनादिरपि प्रवर्तत इति स्ववचनविरोधोऽपि न संभवत्येव । न खलु सन्तानान्तरविषयः सर्वथा सन्देहो नास्त्येवेत्यभिमतमस्माकम्, अपि तु परमार्थगतिरियमुपदर्शिता । इदं हि सन्तानान्तराभावसाधनमद्वयसाधनेन साधारणमिति नैकनियतः स्ववचनादिविरोधस्तत्परिहारो वा । चित्राकारसंभवमात्रेणापि च वेदान्तध्वान्तापसारो भाष्यकारेण दर्शितः । तथा च

आत्मा स तस्यानुभवः स च नान्यस्य कस्यचित्

इत्यादिवार्तिकव्याख्यानभाष्यम् ।

आत्मवादस्तर्हि प्रसक्त इति चेत् । न चित्राकारसंवेदनातित्यादि द्वेषविकलुषाशेषा एव तुषाकारोऽपि वेदान्तसिद्धान्त इति अलक्षित तद्ग्रन्थानुत्थापयन्ती सन्तानान्तरापेक्षया पठितवतीत्यवस्था (?) सर्वा संवृतिसत्यान्तः पातिनी ह्येवापै(ती) ति सकलमनाकुलमिति ॥

॥ सन्तानान्तरदूषणं समाप्तम् ॥

"https://sa.wikisource.org/w/index.php?title=निबन्धावली&oldid=370074" इत्यस्माद् प्रतिप्राप्तम्