नित्यकर्मपूजाविधिः

विकिस्रोतः तः
नित्यकर्मपूजाविधिः
[[लेखकः :|]]

नित्यकर्मपूजाविधिः
ओं नमः श्रीवज्रसत्त्वाय ।

अथ नित्यकर्मपूजाविधिः प्रारभ्यते । तत्रादौ ओं ह्रीं स्वाहा ३ कायविशोधने स्वाहा । इति मन्त्रेण त्रिधा आचम्य पूजाभाण्डसंकल्पं कुर्यात् । तद्यथा - ओमद्य श्रीमच्छ्रीत्यादिना संकल्पोच्चारणानन्तरमिदं मन्त्रं पठेत् । ओं नमो भगवते पुष्पकेतुराजाय तथागतायार्हते सम्यक्संबुद्धाय । तद्यथा - ओं पुष्पे २ महापुष्पे सुपुष्पे पुष्पोद्भवे पुष्पसंभवे पुष्पावकिरणे स्वाहा । इदं सपुष्पधूपदीप गन्धरसनैवेद्यादियुक्तं सुवर्णपुष्पभाजनं संकल्पयाम्यहम् । ततो प्राणायामादि न्यासयोगादि कृत्वा गुरुं च नमस्कृत्य शङ्खं पूजयेत् ॥ ओं गुरुभ्यो नमः ३ समस्त गुरु आज्ञा । ओमा हूं वं वज्रोदके हूं स्वाहा ॥ शिरसि शङ्खोदकेनाभिषिञ्चेत्-

यथा हि जातमात्रेण स्नापिताः सर्वतथागताः ।
तथाहं स्नापयिष्यामि शुद्धदिव्येन वारिणा ॥

ओं सर्वतथागताभिषेकसमश्रिये हूम् । पुनः । ओम्ह्री स्वाहेति मन्त्रेणाचम्य पूर्वोक्तमन्त्रेण पूजाभाण्डमधिष्ठाय पुष्पैकं त्रिकायाधिष्ठानं कृत्वा भूमौ न्यसेत् । ओमाः हुं ३ तिष्ठ वज्रासने हुम् । पार्श्वाभ्यां क्षिपेत्द्वौ पुष्पौ । ओं सर्वपापानपनय हुम् । एकं शिरसि न्यसेदनेन मन्त्रेण - ओं मणिधरि वज्रिणि महाप्रतिसरे रक्ष २ मां सर्वसत्त्वानां च हुं २ फट्स्वाहा । मण्डले तिलकं कृत्वात्मानं च भूषयेत् । ओं वज्रतिलकभूषणे स्वाहा । सजलपुष्पाक्षतवासमण्डले पातयेदनेन मन्त्रेण, ओं वज्रोदके हूम् । ओं वज्रगोमये हुम् । ओं वज्रभूमौ सुरेखे सर्वतथागताधिष्ठानाधितिष्ठन्तु स्वाहा । एतच्च पठेत् ।

दानं गोमयम्बुना च सहितं शीलं च सम्मार्जनं
क्षान्तिं क्षुद्रपिपीलिकापनयनं वीर्यं क्रियास्थापनम् ।
ध्यानं तत्क्षणमेकचित्तकरणं प्रज्ञासुरेखोज्वला
एताः पारमिता षडेव लभते कृत्वा मुनेर्मण्डलम् ॥
(न्क्प्व्_१५८)
भवति कनकवर्णः सर्वरोगौर्विमुक्तः
सुरमनुजविशिष्टश्चन्द्रवद्दीप्तकान्तिः ।
धनकनकसमृद्धिर्जायते राजवंशे
सुगतवरगृहेऽस्मिन् कायकर्माणि कृत्वा ॥

ओं सुले(रे)खे सर्वतथागताधिष्ठानाधितिष्ठन्तु स्वाहा । पुष्पैकं हस्तस्योपरि न्यस्य न्युब्जहस्तं कृत्वा मण्डले क्षिपेत् । ओं चन्द्रार्कविमले स्वाहा । मण्डलं प्रदक्षिणीकृत्य पुष्पैकं बलिभाण्डे क्षिपेत् । ओं वज्रसत्त्व सर्वविघ्नानुत्सादय हुम् । पूर्वादिक्रमेण द्विपरिवर्तनं कृत्वा एकविंशतिपुष्पपातनं कुर्यात्मण्डले । ओं हः महामध्ये मेरवे नमः । ओं ह्रीं मध्ये मेरवे नमः । ओं सूं सूक्ष्ममध्ये मेरवे नमः । इति मध्ये । ओं यं पूर्वविदेहाय नमः । पू । ओं रं जम्बूद्वीपाय नमः । द । ओं लमपरगोदानीये नमः । प। ओं वमुत्तरकुरवे नमः । उ । ओं या उपद्वीपाय नमः । अ । ओं रा उपद्वीपाय नमः । नै । ओं ला उपद्वीपाय नमः । वा । ओं वा उपद्वीपाय नमः । ई । तथैव । ईं यः गजरत्नाय नमः । ईं रः अश्वरत्नाय नमः । ओं लः पुरुषरत्नाय नमः । ओं वः स्त्रीरत्नाय नमः । ओं या खड्गरत्नाय नमः । ओं रा चक्ररत्नाय नमः । ओं ला मणिरत्नाय नमः । ओं वा सर्वनिधानेभ्यो नमः । ई । ओं चं चन्द्राय नमः । द। ओं सूं सूर्याय नमः । उ । ओमाः हुं श्रीवज्रसत्त्वगुरवे नमः । मध्ये । पञ्चोपचारपूजा । ओं वज्रगन्धे स्वाहा । गन्धः । ओं वज्रपुष्पे स्वाहा । पुष्पम् । ओं वज्रधूपे स्वाहा । धूपम् । ओं वज्रनैवेद्ये स्वाहा । नैवेद्यम् । ओं वज्रदीपे स्वाहा । दीपम् । ओं वज्रलाजाय स्वाहा । लाजाम् । पुष्पाक्षतसहितजलधारां मण्डले पातयेत्-

ओं चतूरत्नमयं मेरुमष्टद्वीपोपशोभितम् ।
नानारत्नसमाकीर्णं तद्येऽनुत्तरदायिनः ॥
गुरुभ्यो बुद्धधर्मेभ्यः संघेभ्यश्च तथैव च ।
निर्यातयामि भावेन सम्पूर्णं रत्नमण्डलम् ॥

स्तुतिः । ओमाः हुं (हूं) श्रीमद्वज्रसत्त्वसगुरुवरचरणकमलाय सम्यग्ज्ञानावभासनकराय नमोऽहं नमस्तेऽस्तु नमो नमः भक्त्याहं त्वां नमस्यामि गुरुनाथ प्रसीद मे । कृताञ्जलिना तिष्ठेत् ।

(न्क्प्व्_१५९)
यस्य प्रसादकिरणैः स्फुरितात्मतत्त्व
रत्नप्रभापरिकरैः प्रहतान्धकाराः ।
पश्यन्त्यनाविलदृशैः सविलासमुच्चै
स्तस्मै नमस्कृतिरियं गुरुभास्कराय ॥
नमो बुद्धाय गुरुवे नमो धर्माय तायिने ।
नमः संघाय महते त्रिभ्योऽपि सततं नमः ॥
सर्वबुद्धं नमस्यामि धर्मं च जिनभाषितम् ।
संघं च शीलसम्पन्नं रत्नत्रय नमोऽस्तु ते ॥
रत्नत्रये मे शरणं सर्वं प्रतिदेशयाम्यहम् ।
अनुमोदे जगत्पुण्यैः बुद्धबोधौ दधे मनः ॥
आबोधौ शरणं यामि बुद्धधर्मगणोत्तमे ।
बोधिचित्तं करोम्येष स्वपरार्थप्रसिद्धये ॥
उत्पादयामि वरबोधिचित्तं निमन्त्रयाम्यहं सर्वसत्त्वान् ।
इष्टां चरिष्ये वरबोधिचर्यां बुद्धो भवेयं जगतो हिताय ॥
देशनां सर्वपापानां पुण्यानां चानुमोदनाम् ।
कृतोपवासं चरिष्यामि आर्याष्टाङ्गमुपोषधम् ॥
मया बालेन मूढेन यत्किञ्चित्पापमागतम् ।
प्रकृत्यावद्यसावद्यप्रज्ञप्त्यावद्यमेव च ॥
तदत्ययं देशयाम्येष नाथानामग्रतः स्थितः ।
कृताञ्जलिर्दुःखभीतः प्रणिपत्य पुनः पुनः ॥
अत्ययमत्ययं तेन प्रतिगृह्णन्तु नायकाः ।
न भद्रकमिदं चाथ न कर्तव्यं पुनर्मया ॥

यथा ते तथागता आर्यार्हन्तः सम्यक्संबुद्धा बुद्धज्ञानेन बुद्धचक्षुषा जानन्ति पश्यन्ति यत्कुशलमूलं यज्जातिकं यन्निकायं यादृशं यत्स्वभावं यल्लक्षणं (न्क्प्व्_१६०) यथाधर्मतया संविद्यते । तत्कुशलमूलं नित्यमनुत्तरायां सम्यक्संबोधौ परिणामितं तथाहं परिणामयामि ।

तथा ममानेन समानकालं लोकस्य दुःखं च सुखोदयं च ।
हर्तुं च कर्तुं च सदास्तु शक्तिस्तमःप्रकाशं च यथैव भानोः ॥
दृष्टः श्रुतोऽनुस्मृतिमागतो वा पृथक्कथायोगमुपागतो वा ।
सर्वप्रकारं जगतो हिताय कुर्यामजस्त्रं सुखसंहिताय ॥ इति ॥

अत्रावसरे जापयोगं कुर्यात् । तदावसानेऽमृतकुण्डलिवलिभाण्डे शङ्खोदकचुलुकं दद्यादनेन ओं ह्रीमाचमनं [प्रोक्षणं] प्रतिच्छ स्वाहा । भावना । ततो यङ्कारेण वायुमण्डलं रङ्कारेणाग्निमण्डलं तदुपरि त्रिमुण्डकृतचूडिकोपरि सितपद्मभाजनं तत्र भक्तादिपरिपूरितं तत्रोपरि ब्रुमां जिं खं हुं लां मां पां तां वङ्कारजातः पञ्चामृतपञ्चप्रदीपरुपं निष्पाद्य ततो गरुडमुद्रां दर्शयेत् । फ्रें ३ । पुनः शङ्खोदकचुलुकं दद्यादनेन - ओमिन्द्रादिलोकपालेभ्यः पाद्याचमनं [नार्घं] प्रोक्षणं प्रतिच्छ स्वाहा । जः हुं वं होरिति मुद्रां प्रदर्श्य इन्द्रादिदशदिक्पाललोकपालमुद्रां च प्रदर्श्य पूर्वादिक्रमेण बलिभाण्डे पुष्पं पातयेदेभिर्मन्त्रैः । ओमिन्द्राय स्वाहा । ओं वरुणाय स्वाहा । ओं कुवेराय स्वाहा । ओमग्नये स्वाहा । ओं नैरृत्ये स्वाहा । ओं वायवे स्वाहा । ओमीशानाय स्वाहा । ओमूर्ध्वं ब्रह्मणे स्वाहा । ओमधः पृथिवीभ्यः स्वाहा । ओं सूर्याय ग्रहाधिपतये स्वाहा । ओं चन्द्रादि(य)नक्षत्राधिपतये स्वाहा । ओं नागेभ्यः स्वाहा । ओमसुरेभ्यः स्वाहा । ओं यक्षेभ्यः स्वाहा । ओं सर्वदिग्विदिग्लोकपालेभ्यः स्वाहा । पञ्चोपचारपूजा पूर्ववत्स्तुतिः ।

इन्द्रादयो महावीरा लोकपाला महर्द्धिकाः ।
कीलयन्तु दशक्रोधा विघ्नहर्ता नमोऽस्तु ते ॥

तर्पणम् -

बिभ्राणं बुद्धबिम्बं दिवसकरधर राशि या बिन्दुलेखम् ।
मैत्रीयं चारुरूपं शिरसि वरतनुं मञ्जुघोषं च गात्रम् ॥
(न्क्प्व्_१६१)
पद्मस्थं दण्डरूपं कुलिशवरतनुं वज्रिणं भीमनादम् ।
विज्ञानं ज्ञानरूपं निहितभवभयं पञ्चमूर्ति प्रणम्य ॥

साक्षतपुष्पजलधारां बलिभाण्डे पातयेत् ।

इन्द्रादिवज्री सह देवसंघैरिमं च गृह्णन्तु बलिं विशिष्टम् ।
अग्निर्यमो नैरृतिभूपतिश्च अपांपतिर्वायुधनाधिपश्च ॥
ईशानभूताधिपतिश्च देवा ऊर्ध्वश्च चन्द्रार्कपितामहश्च ।
देवाः समस्ता भुवि ये च नागाः धराधरा गुह्यगणैः समेताः ॥
प्रतिप्रतित्वेक निवेदयन्तु स्वकस्वकाश्चैव दिशासु भूताः ।
गृह्णन्तु तुष्टाः सगणैः समेताः स पुत्रदाराः सह भृत्यसंघैः ॥
हृष्टाः प्रसन्नाः स्रग्गन्धामाल्यं पुष्पं बलिर्धूपविलेपनं च ।
गृह्णन्तु भुञ्जन्तु पिबन्तु चेदमिदं च कर्मं सफलं भवेन्मे ॥

हुं हुं फट्फट्स्वाहा पुनस्तथैव च । ओं नमो रत्नत्रयाय ओं चण्डवज्रपाणये महाक्रोधाय दंष्ट्रोत्कटभैरवाय असिमुशलपाशगृहीतहस्ताय । ओममृतकुण्डलि ख ख खाहि २ तिष्ठ २ बन्ध २ हन २ दह २ पच २ गर्जय २ तर्जय २ विस्फोटय २ महागणपतये जीवितान्तकराय हुं हुं फट्२ स्वाहा । तत्र पुष्पादि पूजा । तद्विधिं देवतापूजायां दर्शद्दीपान्ते लाजाभिरेतद्गाथया पूजयेत् ।

ये धर्मा हेतुप्रभवा हेतुस्तेषां तथागतो ह्यवदत् ।
तेषां च यो निरोध एवंवादी महाश्रमणम् ॥

पूष्पाक्षतजलैः पूजयेदनेन । ओमकारो मुखः सर्वधर्माणामाद्यनुत्पन्नत्वात् । ओमाः हुं (हूं) फट्स्वाहा । दक्षिणा । ओं मञ्जुश्रिये कुमारभूताय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय तण्डुलदक्षिणा संप्रढो(तो)षयाम्यहम् । साक्षताञ्जलेना तिष्ठेत् । ओं वज्रसत्त्वसमयमनुपालय वज्रसत्त्वत्त्वेनोपतिष्ठ दृढो मे भव सुतोष्यो मे भव सुपोष्यो मे भव अनुरक्तो मे भव सर्वसिद्धिं मे प्रयच्छ सर्वकर्मसु च मे चित्तश्रियं कुरु हुं ह ह ह ह हो भगवन् सर्वतथागत वज्रं मा मे मुञ्च वज्रीभव महासमयसत्त्व आः । इति गुरुमण्डलक्रिया ।

(न्क्प्व्_१६२)
ततो देवतापूजार्थं देवताया शिरःप्रदेशे पुष्पमारोप्य एतद्भावनावाक्यं पठेत् । ओं स्वभावशुद्धाः सर्वधर्माः स्वभावशुद्धोऽहम् । ओं शून्यताज्ञानवज्रस्वभावात्मकोऽहम् । धूपवाक्यम् । ओं भगवन् श्री अमुकवज्रविद्याराज नमोऽस्तु ते ।

कर्तुमिच्छामि ते नाथ मण्डलं करुणात्मक ।
शिष्याणामनुकम्पाय युष्माकं पूजनाय च ॥
तन्मे भक्तस्य भगवन् प्रसादं कर्तुमर्हसि ।
समन्वाहरन्तु मां बुद्धा जगच्चक्रक्रियार्थदाः ॥
फलस्था बोधिसत्त्वाश्च या चान्या मन्त्रदेवताः ।
देवता लोकपालाश्च भूताः संबोधिसाधिताः ॥
शासनाभिरताः सत्त्वा ये केचिद्वज्रचक्षुषः ।
अनुकम्पामुपादाय सशिष्यस्य च तन्मम ॥

अमुकदेवतानामाचार्यमर्चयिष्यामि । तत्र वज्रधूपं निर्यातयामि तत्र वज्रधूपं प्रतिच्छ स्वाहा । ततः साक्षात्पुष्पाञ्जलिं धृत्वैतदध्येषणावाक्यं पठेत्-

अद्य मे सफलं जन्म सफलं जीवितं च मे ।
समयं सर्वदेवानां भावितोऽहं न संशयः ॥
अवैवर्ती भविष्यामि बोधिचित्तैकचेतसा ।
तथागतकुलोत्पत्तिर्ममाद्य स्यान्न संशयः ॥
अग्रो मे दिवसो ह्यद्य यज्ञो मेऽद्य ह्यनुत्तरः ।
सन्निपातो भवो ह्यद्य सर्वबुद्धनिमन्त्रणात् ॥

ओं कुसुमाञ्जलिनाथ होरिति मन्त्रं पठन् देवतासन्निधौ प्रकिरेत् ।

तदनु स्नानविधिः ॥ तत्रादौ सुवर्णादिभाजने शुभ्रस्वच्छसुनिर्मलकांस्यदर्पणं धृत्वा तत्र प्रणवमेकं सुवर्णशलाकया विलिख्य तस्मिन्नेव जलधारां पातयेदनया गाथया -

(न्क्प्व्_१६३)
ओं यन्मङ्गलं सकलसत्त्वहृदि स्थितस्य
सर्वात्मकस्य वरधर्मकुलाधिपस्य ।
निःशेषदोषरहितस्य महासुखस्य
तन्मङ्गलं भवतु ते परमाभिषेकः ॥

पुनः पञ्चामृतैः स्नापयेत् । ओं सर्वतथागत ब्रुमां जिं हुम् । ततः प्रतिबिम्बं दर्शयेदनेन ।

प्रतिबिम्बसमा धर्मा अच्छा शुद्धा ह्यनाविलाः ।
अग्राह्या अनुलिप्याश्च हेतुकर्मसमुद्भवाः ॥

स्नानोदकमात्मनः शिरप्रदेशेऽभिषेचयेत् । ओं सर्वतथागताभिषेकं समाश्रिये हुम् । इति स्नानकर्मान्ते जलधारया मण्डं कारयेद्देवतासमीपे । ओं वज्रभूमौ सुरेखे सर्वतथागताधिष्ठानाधितिष्ठन्तु स्वाहा । ओं वज्रसुवर्णजलधारे स्वाहा । सिन्दूरेणाभूषयेत् ।

इदं ते परमं गन्धं पवित्रं घ्राणतत्परम् ।
ददामि परमं भक्त्या प्रतिगृह्ण यथासुखम् ।

ओं वज्रगन्धे स्वाहा । ओं वज्रतिलकभूषणे स्वाहा । यज्ञोपवीतम् । ओं वज्रवस्त्रालङ्कारपूजामेघसमुद्रस्फुरणयज्ञोपवीत वज्रबोध्यङ्ग दृढकवच वज्रवस्त्रं स्वाहा । ततो देवतामूलमन्त्रेणाष्टोत्तरशतवारं पुष्पमभिमन्त्र्य (देवताया शिरसि) तत्पुष्पं देवताभ्यः समर्पयेत् ।

स्वस्ति वः कुरुतां बुद्धाः स्वस्ति देवाः सशत्रुकाः ।
स्वस्ति सर्वाणि भूतानि सर्वकालं दिशन्तु वः ॥
बुद्धपुण्यानुभावेन देवतानां मतेन च ।
यो योऽर्थः समभिप्रेतः सर्वोऽर्थोऽद्य समृद्धयताम् ॥
स्वस्ति वो द्विपदे भोन्तु स्वस्ति वोऽस्तु चतुष्पदे ।
स्वस्ति वो व्रजतां मार्गे स्वस्ति प्रत्यागतेषु च ॥
(न्क्प्व्_१६४)
स्वस्ति रात्रौ स्वस्ति दिवा स्वस्ति मध्ये दिने स्थिते ।
सर्वत्र स्वस्ति वो भोन्तु मा चैषां पापमागमत् ॥
सर्वे सत्त्वाः सर्वे प्राणाः सर्वेभूताश्च केवलाः ।
सर्वे वै सिखिनः सन्तु सर्वे सन्तु निरामयाः ॥
सर्वे भद्राणि पश्यन्तु मा कश्चित्पापमागमत् ।
यानीह भूतानि समागतानि, स्थितानि भूमावथवान्तरिक्षे ।
कुर्वन्तु मैत्रीं सततं प्रजासु, दिवा च रात्रौ च चरन्तु धर्मम् ॥

ओं वज्रपुष्पे स्वाहा । नैवेद्यसमर्पणम् । ओं वज्रनैवेद्य स्वाहा ।

ओं वज्रसमयाचारं खाद्यभोज्यादिकं प्रभो ।
वर्णगन्धरसोपेतं प्रतिगृह्ण यथासुखम् ॥

अथ तर्पणम् -

ओं नमो भगवते वीरवीरेशाय हुं फट् ।
ओं नमो महाकल्पाग्निसन्निभाय हुं फट् ।
ओं नमो जटामकुटोत्कटाय हुं हुं फट् ।
ओं नमो द्रंष्टाकरालोग्रभीषणमुखाय हुं हुं फट् ।
ओं नमो सहस्रभुजप्रभास्वराय हुं हुं फट् ।
ओं नमो परशुपाशत्रिशूलखट्वाङ्गधारिणे हुं हुं फट् ।
ओं नमो व्याघ्रचर्माम्बरधराय हुं हुं फट् ।
ओं नमो महाधूम्रान्धकारवपुषे हुं हुं फट्स्वाहा ।

गोदुग्धसमर्पणम् ।

ओं सर्वतथागत चिन्तामृतधारे स्वाहा । दीपार्पणम् ।

नेत्राभिरामा बहुरत्नकोषा नराधिपैरर्चितपादपद्मा ।
ज्ञानप्रदीपाहतमोहजाला ये दीपमालार्च्चयन्ति तत्र ॥

ओं वज्रदीपे ह्रीं स्वाहा । ततो मूलमन्त्रेणाष्टोत्तरशतवारमन्त्रितलाजाभिर्ये धर्मेति गाथां पठित्वा देवतां प्रकिरेत् । अकारमुखेत्यादिना बलिं दत्त्वा । मञ्जुश्रियेत्यादिना दक्षिणां च समर्प्य साक्षताञ्जलिना शताक्षरधारणीं पठेत् । (न्क्प्व्_१६५) ततोऽक्षतार्पणार्थे जलेन मण्डलं कृत्वा तत्र दशपुष्पाणि पातयेदेभिर्मन्त्रैः । ओं पीठाय स्वाहा । ओमुपपीठाय स्वाहा । ओं क्षेत्राय स्वाहा । ओमुपक्षेत्राय स्वाहा । ओं छन्दाय स्वाहा । ओमुपछन्दाय स्वाहा । ओं मेलापकाय स्वाहा । ओमुपमेलापकाय स्वाहा । ओं श्मशानाय स्वाहा । ओमुपश्मशानाय स्वाहा । तत्र पञ्चोपचारपूजां कृत्वा बलिं दद्यात् ॥ ओं पीठोपपीठक्षेत्रोपक्षेत्रछन्दोपछन्द- मेलापकोपमेलापकश्मशानोपश्मशानाधिवासिनो वीरवीरेश्वरीः सर्वान् भक्तितः प्रणमाम्यहम् । ततोऽक्षतार्पणसमये वक्ष्यमाणस्तोत्राणि पठेत् । ओमाः हुं (हूं) श्रीमद्वज्रसत्त्वेत्यादिना ।

सर्वज्ञज्ञानसंदोहं जगदर्थप्रसाधकम् ।
चिन्तामणिरिवोद्भूतं श्रीसंवर नमोऽस्तु ते ॥
व्याप्तं विश्वमहाज्ञानं सर्वात्मनि सदा स्थितम् ।
कृपाक्रोधं महारौद्रं श्रीसंवर नमोऽस्तु ते ॥

इत्यादि पठित्वा क्षमार्पणं कुर्यादिति । तत्र क्षमापनम् । शताक्षरमन्त्रोच्चारणानन्तरं दानपतीत्यादिना मनोभीप्सितसंकल्पवाक्यानन्तरमेवं क्षमार्पणं कुर्यात् ।

अप्राप्तेन च प्रज्ञानमशक्तं च मया विभो ।
यन्न्यूनमधिकं नाथ तत्सर्वं क्षन्तुमर्हसि ॥
क्षन्तुमर्हन्तु संबुद्धा देवता तद्व्रताश्च ये ।
ब्रह्माद्या लोकपालाश्च याश्च भूतविधिक्रियाः ॥
शान्तिं स्वस्तिं च पुष्टिं च भक्तस्यानुग्रहाय च ।
यत्कृतं दुष्कृतं किञ्चित्मया मूढधिया पुनः ॥
क्षन्तव्यं च त्वया नाथ यदि त्रातासि देहिनाम् ।
कुरु दानपतेः शान्तिं स्वस्तिं पुष्टिं च सर्वदा ॥
यत्कृतं कायजं पापं वाग्जं पापं च यत्कृतम् ।
यत्कृतं चित्तजं पापं तत्सर्व देशयाम्यहम् ॥
(न्क्प्व्_१६६)
नमोऽस्तु ते बुद्ध अनन्तगोचरे नमोऽस्तु ते सत्यप्रकाशक मुने ।
सत्यप्रतिष्ठाय प्रजाय मे च सर्वे च कार्याः सफला भवन्तु ॥

मन्त्रहीनं क्रियाहीनं भावनावाक्यहीनकम् । प्रसीद परमेश्वर परमेश्वरि रक्ष २ मां कोटि अपराधं क्षमस्व । इति क्षमाप्य आवाहितदेवान् विसर्जयेत् ।

कृतो वः सर्वसत्त्वार्थसिद्धिं दत्त्वा यथानुगाः ।
गच्छध्वं बुद्धविषये पुनरागमनाय च ॥

स्वस्वस्थाने गच्छध्वम् । ओमाः हुं (हूं) वज्रमण्डलं मूरिति विसर्जना ।

इति नित्यकर्मपूजाविधिः समाप्तः ।

सर्वसत्त्वार्थसिद्धिर्भवन्तु ॥

"https://sa.wikisource.org/w/index.php?title=नित्यकर्मपूजाविधिः&oldid=370087" इत्यस्माद् प्रतिप्राप्तम्