नारायणीयम्/दशकम् ९

विकिस्रोतः तः
← दशकम् ८ नारायणीयम्
दशकम् ९
[[लेखकः :|]]
दशकम् १० →

स्थितः स कमलोद्भवस्तव हि नाभिपङ्केरुहे
कुतः स्विदिदमम्बुधावुदितमित्यनालोकायन् ।
तदीक्षणकुतूहलात्प्रतिदिशं विवृत्तानन
श्चतुर्वदनतामगाद्विकसदष्टदृष्ट्यम्बुजाम् ॥ १॥

महार्णवविघूर्णितं कमलमेव तत्केवलं
विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् ।
क एष कमलोदरे महति निस्सहायो ह्यहं
कुतः स्विदिदमम्बुजं समजनीति चिन्तामगात् ॥ २॥

अमुष्य हि सरोरुहः किमपि कारणं सम्भवे
दितिस्म कृतनिश्चयः स खलु नाळरन्ध्राध्वना ।
स्वयोगबलविद्यया समवरूढवान्प्रौढधीः
त्वदीयमतिमोहनं न तु कळेबरं दृष्टवान् ॥ ३॥

ततस्सकलनाळिकाविवरमार्गगो मार्गयन्
प्रयस्य शतवत्सरं किमपि नैव संदृष्टवान् ।
निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः
समाधिबलमादधे भवदनुग्रहैकाग्रही ॥ ४॥

शतेन परिवत्सरैर्दृढसमाधिबन्धोल्लसत्
प्रबोधविशदीकृतः स खलु पद्मिनीसम्भवः ।
अदृष्टचरमद्भुतं तव हि रूपमन्तर्दृशा
व्यचष्ट परितुष्टधीर्भुजगभोगभागाश्रयम् ॥ ५॥

किरीटमुकुटोल्लसत्कटकहारकेयूरयुञ्
मणिस्फुरितमेखलं सुपरिवीतपीतांबरम् ।
कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं
वपुस्तदयि भावये कमलजन्मने दर्शितम् ॥ ६॥

श्रुतिप्रकरदर्शितप्रचुरवैभव श्रीपते
हरे जय जय प्रभो पदमुपैषि दिष्ट्या दृशोः ।
कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठा
मिति द्रुहिणवर्णितस्वगुणबंहिमा पाहि माम् ॥ ७॥

लभस्व भुवनत्रयीरचनदक्षतामक्षतां
गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे ।
भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे
त्युदीर्य गिरमादधा मुदितचेतसं वेधसम् ॥ ८॥

शतं कृततपास्ततः स खलु दिव्यसंवत्सरा
नवाप्य च तपोबलं मतिबलं च पूर्वाधिकम् ।
उदीक्ष्य किल कम्पितं पयसि पङ्कजं वायुना
भवद्बलविजृम्भितः पवनपाथसी पीतवान् ॥ ९॥

तवैव कृपया पुनः सरसिजेन तेनैव सः
प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ ।
तथाविधकृपाभरो गुरुमरुत्पुराधीश्वर
त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥ १०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_९&oldid=32243" इत्यस्माद् प्रतिप्राप्तम्